Essence of the Tantras
Tantrasāra
तन्त्रसारः
SKअथ परोक्षस्य दीक्षा द्विविधश् च सः मृतो जीवंश् च
SKतत्र कृतगुरुसेव एव मृत उद्वासितो वा अभिचारादिहतो डिम्बाहतो मृत्युक्षणोदिततथारुचिः मुखान्तरायातशक्तिपातो वा तथा दीक्ष्य इत्य् आज्ञा
SKअत्र च मृतदीक्षायाम् अधिवासादि न उपयुज्यते
SKमण्डले मन्त्रविशेषसंनिधये यत्र बहुला क्रिया उत्तमम् उपकरणं पुष्पादि स्थानं पीठादि मण्डलं त्रिशूलाब्जादि आकृतिः ध्येयविशेषः मन्त्रः स्वयं दीप्तश् च ध्यानपरस्य योगिनः तदेकभक्तिसमावेशशालिनो ज्ञानिनश् च सम्बन्धः इत्य् एते संनिधानहेतवो यथोत्तरम् उक्ताः
SKसमुदितत्वे तु का कथा स्यात् इति परमेश्वरेण उक्तम्
SKततो देवं पूजयित्वा तदाकृतिं कुशादिमयीम् अग्रे स्थापयित्वा गुर्वासादितज्ञानोपदेशक्रमेण तां पश्येत् स च मूलाधाराद् उदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुम् ईष्टे
SKयावद् धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनम् इति महाञ् जालनामा प्रयोगः
SKएतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वम् आदौ पश्चाद् आनीयते चेत् सकलम् अथ ततो ऽप्य् अध्वमध्याद् यथेष्टम्
SKआकृष्टाव् उद्धतौ वा मृतजनविषये कर्षणीये ऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः
SKबहिर् अपि इत्थं कथं न भवति आकर्षणादौ विनाभ्यासात् इति चेत् रागद्वेषादियोगवशेन तत्प्रवृत्तौ ऐश्वर्यावेशायोगात्
SKततो नियतिनियन्त्रितत्वात् अभ्यासाद्यपेक्षा स्याद् एव
SKइह तु अनुग्रहात्मकपरमेश्वरतावेशात् तथाभावः
SKपरमेश्वर एव हि गुरुशरीराधिष्ठानद्वारेण अनुग्राह्यान् अनुगृह्णाति
SKस च अचिन्त्यमहिमा इति उक्तप्रायम्
SKएवं जालप्रयोगाकृष्टो जीवो दार्भं जातीफलादि वा शरीरं समाविष्टो भवति न च स्पन्दते मनःप्रणादिसामग्र्यभावात् तदनुध्यानबलात् तु स्पन्दते ऽपि तादृशे ऽपि तस्मिन् पूर्ववत् प्रोक्षणादिसंस्कारः पूर्णाहुतियोजनिकान्तः
SKअत्र परं पूर्णाहुत्या तस्य दार्भाद्याकारस्य परतेजसि लयः कर्तव्यः
SKएवम् उद्धृतो ऽसौ पूर्णाहुत्यैव अपवृज्यते यदि स्वर्नरकप्रेततिर्यक्षु स्थितः
SKमनुष्यस् तु तदैव ज्ञानं योगं दीक्षां विवेकं वा लभते
SKअधिकारिशरीरत्वात् इति मृतोद्धरणम्
SKजीवतो ऽपि परोक्षस्य उत्पन्ने शक्तिपाते ऽयम् एव क्रमः दार्भाकृतिकल्पनजीवाकृष्टिवर्जम्
SKध्यानमात्रोपस्थापितस्यैव अस्य संस्कारः
SKदीक्षा च भोगभोक्षोभयदायिनी
SKस्ववासनाबलीयस्त्वात् भोगवासनाविच्छेदस्य च असंभाव्यमानत्वात् बहुभिः दीक्षायाम् ऊर्ध्वशासनसंस्कारो बलवान् अन्यस् तु तत्संस्काराय स्यात्
SKपरोषस्यापि दीक्षितस्य तथैव ज्ञानाद्याविर्भावः इति