Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 20

Essence of the Tantras

तन्त्रसारः

SK
तत्र या दीक्षा संस्कारसिद्ध्यै ज्ञानयोग्यान् प्रति या च तदशक्तान् प्रति मोक्षदीक्षा सबीजा तस्यां कृतायाम् आजीवं शेषवर्तनं गुरुः उपदिशेत्
SK
तत्र नित्यं नैमित्तिकं काम्यम् इति त्रिविधं शेषवर्तनम् अन्त्यं च साधकस्यैव तत् न इह निश्चेतव्यम्
SK
तत्र नियतभवं नित्यं तन्मयीभाव एव नैमित्तिकं तदुपयोगि संध्योपासनं प्रत्यहम् अनुष्ठानं पर्वदिनं पवित्रकम् इत्यादि
SK
तद् अपि नित्यं स्वकालनैयत्यात् इति केचित्
SK
नैमित्तिकं तु तच्छासनस्थानाम् अपि अनियतम् तद्यथा गुरुतद्वर्गागमनं तत्पर्वदिनं ज्ञानलाभदिनम् इत्यादिकम् इति केचित्
SK
तत्र नियतपूजा संध्योपासा गुरुपूजा पर्वपूजा पवित्रकम् इति अवश्यंभावि
SK
नैमित्तिकम् ज्ञानलाभः शास्त्रलाभो गुरुतद्वर्गगृहागमनं तदीयजन्मसंस्कारप्रायणदिनानि लौकिकोत्सवः शास्त्रव्याख्या आदिमध्यान्ता देवतादर्शनं मेलकं स्वप्नाज्ञा समयनिष्कृतिलाभः इत्य् एतत् नैमित्तिकं विशेषार्चनकारणम्
SK
तत्र कृतदीक्षाकस्य शिष्यस्य प्रधानं मन्त्रं सवीर्यकं संवित्तिस्फुरणसारम् अलिखितं वक्त्रागमेनैव अर्पयेत् ततः तन्मयीभावसिद्ध्यर्थं स शिष्यः संध्यासु तन्मयीभावाभ्यासं कुर्यात् तद्द्वारेण सर्वकालं तथाविधसंस्कारलाभसिद्ध्यर्थं प्रत्यहं च परमेश्वरं च स्थण्डिले वा लिङ्गे वा अभ्यर्चयेत्
SK
तत्र हृद्ये स्थण्डिले विमलमकुरवद् ध्याते स्वम् एव रूपं याज्यदेवताचक्राभिन्नं मूर्तिबिम्बितम् इव दृष्ट्वा हृद्यपुष्पगन्धासवतर्पणनैवेद्यधूपदीपोपहारस्तुतिगीतवाद्यनृत्तादिना पूजयेत् जपेत् स्तुवीत तन्मयीभावम् अशङ्कितं लब्धुम्
SK
आदर्शे हि स्वमुखम् अविरतम् अवलोकयतः तत्स्वरूपनिश्चितिः अचिरेणैव भवेत् न चात्र कश्चित् क्रमः प्रधानम् ऋते तन्मयीभावात्
SK
परमन्त्रतन्मयीभावाविष्टस्य निवृत्तपशुवासनाकलङ्कस्य भक्तिरसानुवेधविद्रुतसमस्तपाशजालस्य यत् अधिवसति हृदयं तद् एव परमम् उपादेयम् इति अस्मद्गुरवः
SK
अधिशय्य पारमार्थिकः भावप्रसरं प्रकाशम् उल्लसति या
SK
परमामृतदृक्त्वं तयार्चयन्ते रहस्यविदः
SK
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर् मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः
SK
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये ऽहर्निशम्
SK
इति श्लोकद्वयोक्तम् अर्थम् अन्तर् भावयन् देवताचक्रं भावयेत्
SK
ततो मुद्राप्रदर्शनं जपः तन्निवेदनम्
SK
बोध्यैकात्म्येन विसर्जनम्
SK
मुख्यं नैवेद्यं स्वयम् अश्नीयात् सर्वं वा जले क्षिपेत् जलजा हि प्राणिनः पूर्वदीक्षिताः चरुभोजनद्वारेण इति आगमविदः
SK
मार्जारमूषकश्वादिभक्षणे तु शङ्का जनिता निरयाय इति ज्ञानी अपि लोकानुग्रहेच्छया न तादृक् कुर्यात् लोकं वा परित्यज्य आसीत इति स्थण्डिलयागः
SK
अथ लिङ्गे तत्र न रहस्यमन्त्रैः लिङ्गं प्रतिष्ठापयेत् विशेषात् व्यक्तम् इति पूर्वप्रतिष्ठितेषु आवाहनविसर्जनक्रमेण पूजां कुर्यात् आधारतया
SK
तत्र गुरुदेहं स्वदेहं शक्तिदेहं रहस्यशास्त्रपुस्तकं वीरपात्रम् अक्षसूत्रं प्राहरणं बाणीयं मौक्तिकं सौवर्णं पुष्पगन्धद्रव्यादिहृद्यवस्तुकृतं मकुरं वा लिङ्गम् अर्चयेत्
SK
तत्र च आधारबलाद् एव अधिकाधिकमन्त्रसिद्धिः भवति इति पूर्वं पूर्वं प्रधानम् आधारगुणानुविधायित्वात् च मन्त्राणां तत्र तत्र साध्ये तत्तत्प्रधानम् इति शास्त्रगुरवः
SK
सर्वत्र परमेश्वराभेदाभिमान एव परमः संस्कारः
SK
अथ पर्वविधिः
SK
तत्र सामान्यं सामान्यसामान्यं सामान्यविशेषो विशेषसामान्यं विशेषो विशेषविशेषश् च इति षोढा पर्व
SK
पूरणात् विधेः
SK
तत्र मासि मासि प्रथमं पञ्चमं दिनं सामान्यम् चतुर्थाष्टमनवमचतुर्दशपञ्चदशानि द्वयोर् अपि पक्षयोः सामान्यसामान्यम् अनयोर् उभयोर् अपि राश्योः वक्ष्यमाणतत्तत्तिथ्युचितग्रहनक्षत्रयोगे सामान्यविशेषः मार्गशीर्षस्य प्रथमरात्रिभागः कृष्णनवम्याम् पौषस्य तु रात्रिमध्यं कृष्णनवम्याम् माघस्य रात्रिमध्यं शुक्लपञ्चदश्याम् फाल्गुनस्य दिनमध्यं शुक्लद्वादश्याम् चैत्रस्य शुक्लत्रयोदश्याम् वैशाखस्य कृष्णाष्टम्याम् ज्यैष्ठस्य कृष्णनवम्याम् आषाढस्य प्रथमे दिने श्रावणस्य दिवसपूर्वभागः कृष्णैकादश्याम् भाद्रपदस्य दिनमध्यं शुक्लषष्ट्याम् आश्वयुजस्य शुक्लनवमीदिनम् कार्त्तिकस्य प्रथमो रात्रिभागः शुक्लनवम्याम् इति विशेषपर्व
SK
चित्राचन्द्रौ मघाजीवौ तिष्यचन्द्रौ पूर्वफाल्गुनीबुधौ श्रवणबुधौ शतभिषक्चन्द्रौ दित्यौ रोहिणीशुक्रौ विशाखाबृहस्पती श्रवणचन्द्रौ इति
SK
यदि मार्गशीर्षादिक्रमेण यथासंख्यं भवति आश्वयुजं वर्जयित्वा तदा विशेषविशेषः
SK
अन्यविशेषश् चेत् अन्यपर्वणि तदा तत् अनुपर्व इत्य् आहुः
SK
भग्रहयोगे च न वेला प्रधानम्
SK
तिथेर् एव विशेषलाभात् अनुयागकालानुवृत्तिस् तु पर्वदिने मुख्या अनुयागप्राधान्यात् पर्वयागानाम् अनुयागो मूर्तियागः चक्रयागः इति पर्यायाः
SK
तत्र गुरुः तद्वर्ग्यः ससंतानः तत्त्ववित् कन्या अन्त्या वेश्या अरुणा तत्त्ववेदिनी वा इति चक्रयागे मुख्यपूज्याः विशेषात् सामस्त्येन
SK
तत्र मध्ये गुरुः तदावरणक्रमेण गुर्वादिसमय्यन्तं वीरः शक्तिः इति क्रमेण इत्य् एवं चक्रस्थित्या वा पङ्क्तिस्थित्या वा आसीत ततो गन्धधूपपुष्पादिभिः क्रमेण पूजयेत् ततः पात्रं सदाशिवरूपं ध्यात्वा शक्त्यमृतध्यातेन आसवेन पूरयित्वा तत्र भोक्त्रीं शक्तिं शिवतया पूजयित्वा तयैव देवताचक्रतर्पणं कृत्वा नरशक्तिशिवात्मकत्रितयमेलकं ध्यात्वा आवरणावतरणक्रमेण मोक्षभोगप्राधान्यं बहिर् अन्तश् च तर्पणं कुर्यात् पुनः प्रतिसंचरणक्रमेण एवं पूर्णं भ्रमणं चक्रं पुष्णाति
SK
तत्र आधारे विश्वमयं पात्रं स्थापयित्वा देवताचक्रं तर्पयित्वा स्वात्मानं वन्दितेन तेन तर्पयेत् पात्राभावे भद्रं वेल्लितशुक्तिः वा दक्षहस्तेन पात्राकारं भद्रं द्वाभ्याम् उपरिगतदक्षिणाभ्यां निःसंधीकृताभ्याम् वेल्लितशुक्तिः पतद्भिः बिन्दुभिः वेतालगुह्यकाः संतुष्यन्ति धारया भैरवः अत्र प्रवेशो न कस्यचित् देयः प्रमादात् प्रविष्टस्य विचारं न कुर्यात् कृत्वा पुनर् द्विगुणं चक्रयागं कुर्यात् ततो ऽवदंशान् भोजनादीन् च अग्रे यथेष्टं विकीर्येत गुप्तगृहे वा संकेताभिधानवर्जं देवताशब्देन सर्वान् योजयेत् इति वीरसंकरयागः
SK
ततो ऽन्ते दक्षिणाताम्बूलवस्त्रादिभिः तर्पयेत् इति प्रधानतमो ऽयं मूर्तियागः
SK
अदृष्टमण्डलो ऽपि मूर्तियागेन पर्वदिनानि पूजयन् वर्षाद् एव पुत्रकोक्तं फलम् एति विना संध्यानुष्ठानादिभिः इति वृद्धानां भोगिनां स्त्रीणां विधिर् अयम् शक्तिपाते सति उपदेष्टव्यो गुरुणा
SK
अथ पवित्रकविधिः
SK
स च श्रीरत्नमालात्रिशिरोमतश्रीसिद्धामतादौ विधिपूर्वकः पारमेश्वराज्ञापूरकश् च उक्तं चैतत् श्रीतन्त्रालोके विना पवित्रकेण सर्वं निष्फलम् इति
SK
तत्र आषाढशुक्लात् कुलपूर्णिमादिनान्तं कार्यं पवित्रकम् तत्र कार्त्तिककृष्णपञ्चदशी कुलचक्रं नित्याचक्रं पूरयति इति श्रीनित्यातन्त्रविदः
SK
माघशुक्लपञ्चदशी इति श्रीभैरवकुलोर्मिविदः
SK
दक्षिणायनान्तपञ्चदशी इति श्रीतन्त्रसद्भावविदः
SK
तत्र विभवेन देवं पूजयित्वा आहुत्या तर्पयित्वा पवित्रकं दद्यात् सौवर्णमुक्तारत्नविरचितात् प्रभृति पटसूत्रकार्पासकुशगर्भान्तम् अपि कुर्यात्
SK
तच् च तत्त्वसंख्यग्रन्थिकं पदकलाभुवनवर्णमन्त्रसंख्यग्रन्थि च जान्वन्तम् एकं नाभ्यन्तम् अपरं कण्ठान्तम् अन्यत् शिरसि अन्यत् इति चत्वारि पवित्रकाणि देवाय गुरवे च समस्ताध्वपरिपूर्णतद्रूपभावनेन दद्यात् शेषेभ्य एकम् इति
SK
ततो महोत्सवः कार्यः चातुर्मास्यं सप्तदिनं त्रिदिनं च इति मुख्यान्वापत्कल्पाः सति विभवे मासि मासि पवित्रकम् अथ वा चतुर्षु मासेषु अथ वा सकृत् तदकरणे प्रायश्चित्तं जपेत् ज्ञानी अपि सम्भवद्वित्तो ऽपि अकरणे प्रत्यवैति लोभोपहितज्ञानाकरणे ज्ञाननिन्दापत्तेः
SK
यदा प्राप्यापि विज्ञानं दूषितं परमेशशासनं तदा प्रायश्चित्ती
SK
इति वचनात्
SK
इत्य् एष पवित्रकविधिः
SK
ज्ञानलाभादौ लौकिकोत्सवान्ते ऽपि सर्वत्र संविदुल्लासाधिक्यं देवताचक्रसंनिधिः विशेषतो भवति इति तथाविधाधिक्यपर्यालोचनया तथाविधम् एव विशेषम् अनुयागादौ कुर्यात्
SK
अथ व्याख्याविधिः
SK
सर्वशास्त्रसम्पूर्णं गुरुं व्याख्यार्थम् अभ्यर्थयेत सो ऽपि स्वशिष्याय परशिष्यायापि वा समुचितसंस्कारोचितं शास्त्रं व्याचक्षीत अधरशासनस्थायापि करुणावशात् ईश्वरेच्छावैचित्र्योद्भावितशक्तिपातसम्भावनाभावितहृदयो व्याचक्षीत मर्मोपदेशवर्जम्
SK
तत्र निम्नासनस्थितेभ्यः तत्परेभ्यो नियमितवाङ्मनःकायेभ्यो व्याख्या क्रियमाणा फलवती भवति प्रथमं गन्धादिलिप्तायां भुवि उल्लिख्य संकल्प्य वा पद्माधारं चतुरश्रं पद्मत्रयं पद्ममध्ये वागीशीं वामदक्षिणयोः गणपतिगुरू च पूजयेत् आधारपद्मे व्याख्येयकल्पदेवताम्
SK
ततः सामान्यार्घपात्रयोगेन चक्रं तर्पयेत् ततो व्याचक्षीत सूत्रवाक्यपटलग्रन्थम् पूर्वापराविरुद्धं कुर्वन् तन्त्रावृत्तिप्रसङ्गसमुच्चयविकल्पादिशास्त्रन्यायौचित्येन पूर्वं पक्षं सम्यक् घटयित्वा सम्यक् च दूषयन् साध्यं साधयन् तात्पर्यवृत्तिं प्रदर्शयन् पटलान्तं व्याचक्षीत नाधिकम् तत्रापि वस्त्वन्ते वस्त्वन्ते तर्पणं पूजनम् इति यावद् व्याख्यासमाप्तिः
SK
ततो ऽपि पूजयित्वा विद्यापीठं विसर्ज्य उपलिप्य अगाधे तत् क्षेपयेत्
SK
इति व्याख्याविधिः
SK
अथ समयनिष्कृतिः
SK
यद्य् अपि तत्त्वज्ञाननिष्ठस्य प्रायश्चित्तादि न किंचित् तथापि चर्यामात्राद् एव मोक्षभागिनः तान् अनुग्रहीतुम् आचारवर्तनीं दर्शयेत्
SK
अतत्त्वज्ञानी तु चर्यैकायत्तभोगमोक्षः समयोल्लङ्घने कृते प्रायश्चित्तम् अकुर्वन् वर्षशतं क्रव्यादो भवतीति इति प्रायश्चित्तविधिः वक्तव्यः तत्र स्त्रीवधे प्रायश्चित्तं नास्ति अन्यत्र तु बलाबलं ज्ञात्वा अखण्डां भगवतीं मालिनीम् एकवारात् प्रभृति त्रिलक्षान्तम् आवर्तयेत् यावत् शङ्काविच्युतिः भवति तदन्ते विशेषपूजा तत्रापि चक्रयागः स हि सर्वत्र शेषभूतः
SK
इति समयनिष्कृतिविधिः
SK
अथ गुरुपूजाविधिः
SK
सर्वयागान्तेषु उपसंहृते यागे अपरेद्युः गुरुपूजां कुर्यात् पूर्वं हि स विध्यङ्गतया तोषितो न तु प्राधान्येन इति तां प्राधान्येन अकुर्वन् अधिकारबन्धेन बद्धो भवति
SK
इति तां सर्वथा चरेत्
SK
तत्र स्वास्तिकं मण्डलं कृत्वा तत्र सौवर्णं पीठं दत्त्वा तत्र समस्तम् अध्वानं पूजयित्वा तत्पीठं तेन अधिष्ठाप्य तस्मै पूजां कृत्वा तर्पणं भोजनं दक्षिणाम् आत्मानम् इति निवेद्य नैवेद्योच्छिष्टं प्रार्थ्य वन्दित्वा स्वयं प्राश्य चक्रपूजां कुर्यात्
SK
इत गुरुपूजाविधिः

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source
Tantrasāra — Reader · Sutraya