SKविमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश् च पञ्चमुखगुप्तरुचिर् जनकः / तदुभययामलस्फुरितभावविसर्गमयं हृदयम् अनुत्तरामृतकुलं मम संस्फुरतात् //
SKविततस् तन्त्रालोको विगाहितुं नैव शक्यते सर्वैः / ऋजुवचनविरचितम् इदं तु तन्त्रसारं ततः शृणुत //
SKश्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् / अभिनवगुप्तहृदम्बुजम् एतद् विचिनुत महेशपूजनहेतोः //
SKइह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च / पौरुषं तु विकल्पस्वभावं संकुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये / तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति / तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् / विकल्पासंकुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् / तच् च शास्त्रपूर्वकम् / शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् / अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् / ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि / तेभ्यो ऽपि मालिनीविजयम् / तदन्तर्गतश् चार्थः संकलय्याशक्यो निरूपयितुम् / न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति / स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते / अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति / ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत् //
SKपुनर् अपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति येन अनवच्छिन्नप्रकाशशिवरूपतयैव प्रकाशते / तत्रापि स्वातन्त्र्यवशात् अनुपायम् एव स्वात्मानं प्रकाशयति सोपायं वा सोपायत्वे ऽपि इच्छा वा ज्ञानं वा क्रिया वा अभ्युपाय इति त्रैविध्यं शाम्भवशाक्ताणवभेदेन समावेशस्य तत्र चतुर्विधम् अपि एतद् रूपं क्रमेण अत्र उपदिश्यते / आत्मा प्रकाशवपुर् एष शिवः स्वतन्त्रः स्वातन्त्र्यनर्मरभसेन निजं स्वरूपम् / संछाद्य यत् पुनर् अपि प्रथयेत पूर्णं तच् च क्रमाक्रमवशाद् अथवा त्रिभेदात् //