Commentary on the Katha Upanishad
Kaṭhopaniṣadbhāṣya
कठोपनिषद्भाष्यम्
SKऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः / तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते / तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन // एतद् वै तत् // KअU_६.१/२,३.१ //
SKऊर्ध्वमूल ऊर्ध्वं मूलं यत् तद् विष्णोः परमं पदम् अस्येति सो ऽयम् अव्यक्तादिस्थावरान्तः संसारवृक्ष ऊर्ध्वमूलः / वृक्षश् च व्रश्चनात् / अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणम् अन्यथा स्वभावो मायामरीच्युदकगन्धर्वनगरादिवद् दृष्टनष्टस्वरूपत्वाद् अवसाने च वृक्षवद् अभावात्मकः कदलीस्तम्भवन् निःसारो ऽनेकशतपाखण्डबुद्धिविकल्पास्पदस् तत्त्वविजिज्ञासुभिर् अनिर्धारितेदन्तत्त्वो वेदान्तनिर्धारितपरब्रह्ममूलसारो ऽविद्याकामकर्माव्यक्तबीजप्रभवो ऽपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धस् तत् तत् तृष्णाजलासेकोद्भूतदर्पनो बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशो यज्ञदानतपोद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलस् तत् तृष्णासलिलावसेकप्ररूढजटिलीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताकृष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूतमहारवो वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेद एष संसारवृक्षो ऽश्वत्थो ऽश्वत्थवत् कामकर्मवातेरितनित्यप्रचलितस्वभावः / स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिर् अवाक्शाखः / सनातनो ऽनादित्वाच् चिरं प्रवृत्तः / यद् अस्य संसारवृक्षस्य मूलं तद् एव शुक्रं शुभ्रं शुद्धं ज्योतिष्मच् चैतन्यात्मज्योतिःस्वभावं तद् एव ब्रह्म सर्वमहत्त्वात् / तद् एवामृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात् / वाचारम्भणं विकारो नामधेयम् अनृतम् अन्यदतो मर्त्यम् / तस्मिन् परमार्थसत्ये ब्रह्मणि लोका गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिताश्रिताः सर्वे समस्ता उत्पत्तिस्थितिलयेषु / तद् उ तद्ब्रह्म नात्येति नातिवर्तते मृदादिकम् इव घटादिकार्यं कश्चन कश्चिद् अपि विकारः / एतद् वै तत् // KअUBह्_६.१/२,३.१ //
SKयद् इदं किंच जगत् सर्वं प्राण एजति निःसृतम् / महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति // KअU_६.२/२,३.२ //
SKयद् विज्ञानाद् अमृता भवन्तीत्य् उच्यते, जगतो मूलं तद् एव नास्ति ब्रह्मासत एवेदं निःसृतम् इति तन् न / यद् इदं किञ् च यत् किं चेदं जगत्सर्वं प्राणे / परस्मिन् ब्रह्मणि सत्येजति कम्पते, तत एव निःसृतं निर्गतं सत्प्रचलति नियमेन चेष्टते / यद् एवं जगदुत्पत्त्यादिकारणं ब्रह्म तन्महद्भयम् / महच् च तद् भयं च बिभेत्य् अस्माद् इति महद्भयम् / वज्रम् उद्यतम् उद्यताम् इव वज्रम् / यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच् छासने वर्तन्ते, तथेदं चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणम् अप्य् अविश्रान्तं वर्तत इत्य् उक्तं भवति / य एतद् विदुः स्वात्मप्रवृत्तिसाक्षिभूतम् एकं ब्रह्मामृता अमरणधर्माणास्ते भवन्ति // KअUBह्_६.२/२,३.२ //
SKभयाद् अस्याग्निस् तपति भयात् तपति सूर्यः / भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः // KअU_६.३/२,३.३ //
SKकथं तद्भयाज् जगद्वर्तत इत्य् आह -- भयाद् भीत्यास्य परमेश्वरस्याग्निस् तपति, भयात् तपति सूर्यो, भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः / न हीश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद् वज्रोद्यतकरवन् न स्यात् स्वामिभयभीतानाम् इव भृत्यानां नियता प्रवृतिर् उपपद्यते // KअUBह्_६.३/२,३.३ //
SKइह चेद् अशकद् बोद्धुं प्राक्शरीरस्य विस्रसः / ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते // KअU_६.४/२,३.४ //
SKतच् चेह जीवन्न् एव चेद् यद्य् अशकच् छक्नोति शक्तः सन् जानात्य् एतद् भयकारणं ब्रह्म बोद्धुम् अवगन्तुं प्रक् पूर्वं शरीरस्य विस्रसो ऽवस्रंसनात् पतनात् संसारबन्धनाद् विमुच्यते / न चेद् अशकद्बोद्धुम्, ततो ऽनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्टव्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकास् तेषु सर्गेषु लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति शरीरं गृह्णातीत्य् अर्थः // तस्माच् छरीरविस्रंसनात् प्रागात्मावबोधाय नास्थेयः / यस्माद् इहैवात्मनो दर्शनम् आदर्शस्थस्येव मुखस्य स्पष्टमुपपद्यते न लोकान्तरेषु ब्रह्मलोकाद् अन्यत्र / स च दुष्प्रापः // KअUBह्_६.४/२,३.४ //
SKयथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके / यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोर् इव ब्रह्मलोके // KअU_६.५/२,३.५ //
SKयथादर्शे प्रतिबिम्बभूतम् आत्मानं पश्यति लोको ऽत्यन्तविविक्तम्, तथेहात्मनि स्वबुद्धावादर्शवन् निर्मलीभूतायां विविक्तम् आत्मनो दर्शनं भवतीत्य् अर्थः / यथा स्वप्ने ऽविविक्तं जाग्रद्वासनोद्भूतम्, तथा पितृलोके ऽविविक्तम् एव दर्शनम् आत्मनः कर्मफलोपभोगासक्तत्वात् / यथा चाप्स्व् अविविक्तावयवम् आत्मरूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्वलोके ऽविविक्तम् एव दर्शनम् आत्मनः / एवञ् च लोकान्तरेष्व् अपि शास्त्रप्रामाण्याद् अवगम्यते / छायातपयोर् इवात्यन्तविविक्तं ब्रह्मलोक एवैकस्मिन् / स च दुष्प्रापो ऽत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात् / तस्माद् आत्मदर्शनायेहैव यत्नः कर्तव्य इत्य् अभिप्रायः // KअUBह्_६.५/२,३.५ //
SKइन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् / पृथग् उत्पद्यमानानां मत्वा धीरो न शोचति // KअU_६.६/२,३.६ //
SKकथम् असौ बोद्धव्यः किं वा तदवबोधे प्रयोजनम् इत्य् उच्यते -- इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः पृथगुत्पद्यमानानाम् अत्यन्तविशुद्धात् केवलाच् चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्षणात्मकताम्, तथा तेषाम् एवेन्द्रियाणाम् उदयास्तमयौ चोत्पत्तिप्रलयौ जाग्रत्स्वाप्नावस्थापेक्षया नात्मनस् ताव् इति मत्वा ज्ञात्वा विवेकतो धीरो धीमान् न शोचति / आत्मनो नित्यैकस्वभावत्वाव्यभिचाराच् छोककारणत्वानुपपत्तेः / तथा च श्रुत्यन्तरं ᳚तरति शोकम् आत्मवित्᳚ (Cह्U ७,१.३) इति // KअUBह्_६.६/२,३.६ //
SKइन्द्रियेभ्यः परं मनो मनसः सत्त्वम् उत्तमम् / सत्त्वाद् अधि महानात्मा महतो ऽव्यक्तम् उत्तमम् // KअU_६.७/२,३.७ //
SKयस्माद् आत्मन इन्द्रियाणां पृथग्भाव उक्तो नासौ बहिर् अधिगन्तव्यो यस्मात् प्रत्यगात्मा स सर्वस्य, तत् कथम् इत्य् उच्यते -- इन्द्रियेभ्यः परं मन इत्य् आदि / अर्थानाम् इहेन्द्रयसमानजातीयत्वाद् इन्द्रियग्रहणेनैव ग्रहणम् / पूर्ववद् अन्यत् / सत्त्वशब्दाद् बुद्धिर् इहोच्यते // KअUBह्_६.७/२,३.७ //
SKअव्यक्तात् तु परः पुरुषो व्यापको ऽलिङ्ग एव च / यं ज्ञात्वा मुच्यते जन्तुर् अमृतत्वं च गच्छति // KअU_६.८/२,३.८ //
SKअव्यक्तात् तु परः पुरुषो व्यापको, व्यापकस्याप्य् आकाशादेः सर्वस्य कारणत्वाद् अलिङ्गो लिङ्ग्यते गम्यते येन तल् लिङ्गं बुध्यादि, तद् अविद्यमानं यस्य सो ऽयम् अलिङ्ग एव च / सर्वसंसारधर्मवर्जित इत्य् एतत् / यं ज्ञात्वाचार्यतः शास्त्रतश् च मुच्यते जन्तुर् अविद्यादिहृदयग्रन्थिभिर् जीवन्न् एव, पतिते ऽपि शरीरे ऽमृतत्वं च गच्छति / सो ऽलिङ्गः परो ऽव्यक्तात् पुरुष इति पूर्वेणैव सम्बन्धः // KअUBह्_६.८/२,३.८ //
SKन संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् / हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति // KअU_६.९/२,३.९ //
SKकथं तर्हि तस्यालिङ्गस्य दर्शनम् उपपद्यत इत्य् उच्यते न सन् दृशे सन् दर्शनविषये न तिष्ठति प्रत्यगात्मनो ऽस्य रूपम् / अतो न चक्षुषा सर्वेन्द्रियेण, चक्षुर्ग्रहणस्योपलाक्षणार्थत्वात्, पश्यति नोपलभते कश्चन कश्चिद् अप्य् एनं प्रकृतम् आत्मानम् / कथं तर्हि तं पश्येद् इत्य् उच्यते -- हृदा हृत्स्थया बुद्ध्या / मनीषा मनसः सङ्कल्पादिरूपस्येष्टे नियन्तृत्वेनेति मनीट् तया मनीषाविकल्पयित्र्या बुद्ध्या / मनसा मननरूपेण सम्यग् दर्शनेनाभिकॢप्तो ऽभिसमर्थितो ऽभिप्रकाशित इत्य् एतत् / आत्मा ज्ञातुं शक्य इति वाक्यशेषः / तम् आत्मानं ब्रह्मैतद् ये विदुर् अमृतास् ते भवन्ति // KअUBह्_६.९/२,३.९ //
SKयदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह / बुद्धिश् च न विचेष्टति ताम् आहुः परमां गतिम् // KअU_६.१०/२,३.१० //
SKसा हृन्मनीट् कथं प्राप्यत इति तद् अर्थो योग उच्यते -- यदा यस्मिन् काले स्वविषयेभ्यो निवर्तितान्यात्मन्य् एव पञ्च ज्ञानानि / ज्ञानार्थत्वाच् छ्रोत्रादीनीन्द्रियाणि ज्ञानान्य् उच्यन्ते / अवतिष्ठन्ते सह मनसा यद् अनुगतानि, तेन संकल्पादिव्यावृत्तेनान्तःकरणेन / बुद्धिश् चाध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते, ताम् आहुः परमा गतिम् // KअUBह्_६.१०/२,३.१० //
SKतां योगम् इति मन्यन्ते स्थिराम् इन्द्रियधारणाम् / अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ // KअU_६.११/२,३.११ //
SKताम् ईदृशीं तदवस्थां योगम् इति मन्यन्ते वियोगम् एव सन्तम् / सर्वानर्थसंयोगवियोगलक्षणा हीयम् अवस्था योगिनः / एतस्यां ह्य् अवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा / स्थिराम् इन्द्रयधारणां स्थिराम् अचलाम् इन्द्रयधारणां बाह्यान्तःकरणानां धारणम् इत्य् अर्थः / अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवांस् तदा तस्मिन् काले, यदैव प्रवृत्तयोगो भवतीति सामर्थ्याद् अवगम्यते / न हि बुद्ध्यादिचेष्टाभावे प्रमादसंभवो ऽस्ति / तस्मात् प्राग् एव बुद्ध्यादिचेष्टोपरमाद् अप्रमादो विधीयते / अथवा यदैवेन्द्रियाणां स्थिरा धारणा, तदानीम् एव निरङ्कुशम् अप्रमत्तत्वम् इत्य् अतो ऽभिधीयते ऽप्रमत्तस् तदा भवतीति / कुतः / योगो हि यस्मात् प्रभवाप्ययाव् उपजनापायधर्मक इत्य् अर्थः / अतो ऽपायपरिहारायाप्रमादः कर्तव्य इत्य् अभिप्रायः // KअUBह्_६.११/२,३.११ //
SKनैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा / अस्तीति ब्रुवतो ऽन्यत्र कथं तद् उपलभ्यते // KअU_६.१२/२,३.१२ //
SKबुद्ध्यादिचेष्टाविषयं चेद् ब्रह्मेदं तद् इति विशेषतो गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावाद् अनुपलभ्यमानं नास्त्य् एव ब्रह्म / यद् धि करणगोचरं तद् अस्तीति प्रसिद्धं लोके विपरीतं चासद् इति / अतश् चानर्थको योगो ऽअनुपलभ्यमानत्वाद् वा नास्तीत्य् उपलब्धव्यं ब्रह्मेत्य् एवं प्राप्त इदम् उच्यते / सत्यम् / नैव वाचा न मनसा न चक्षुषा नान्यैर् अपीन्द्रियैः प्राप्तुं शक्यत इत्य् अर्थः / तथापि सर्वविशेषरहितो ऽपि जगतो मूलम् इत्य् अवगतत्वाद् अस्त्य् एव, कार्यप्रविलापनस्यास्तित्वनिष्ठत्वात् / तथा हीदं कार्यं सूक्ष्मतारतम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठाम् एवावगमयति / यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिस् तदापि सा सत्प्रत्ययगर्भैव विलीयते / बुद्धिर् हि नः प्रमाणं सदसतोर् याथात्म्यावगमे / मूलं चेज् जगतो न स्याद् असद् अन्वितम् एवेदं कार्यम् असद् इत्य् एवं गृह्येत, न त्व् एतद् अस्ति, सत्यसद् इत्य् एव तु गृह्यते, यथा मृदादिकार्यं घटादि मृदाद्यन्वितम् / तस्माज् जगतो मूलम् आत्मास्तीत्य् एवोपलब्धव्यः / कस्मात् / अस्तीति ब्रुवतो ऽस्तित्ववादिन आगमार्थानुसारिणः श्रद्दधानाद् अन्यत्र नास्तिकवादिनि नास्ति जगतो मूलम् आत्मा निरन्वयम् एवेदं कार्यम् अभावान्तं प्रविलीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद् ब्रह्म तत्त्वत उपलभ्यते, न कथञ्चनोपलभ्यत इत्य् अर्थः // KअUBह्_६.१२/२,३.१२ //
SKअस्तीत्य् एवोपलब्धव्यस् तत्त्वभावेन चोभयोः / अस्तीत्य् एवोपलब्धस्य तत्त्वभावः प्रसीदति // KअU_६.१३/२,३.१३ //
SKतस्माद् अपोह्यासद्वादिपक्षम् आसुरम् अस्तीत्य् एवात्मोपलब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः / यदा तु तद्रहितो ऽविक्रिय आत्मा कार्यं च कारणव्यतिरेकेण नास्ति ᳚वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्᳚ (Cह्U ६,१.४) इति श्रुतेः / तदा तस्य निरुपाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस् तत्त्वभावो भवति / तेन च रूपेणात्मोपलब्धव्य इत्य् अनुवर्तते / तत्राप्य् उभयोः सोपाधिकनिरुपाधिकयोर् अस्तित्वतत्त्वभावयोः -- निर्धारणार्था षष्ठी -- पूर्वम् अस्तीत्य् एवोपलब्धस्यात्मनः सत्कार्योपाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्य् अर्थः / पश्चात् प्रत्यस्तमितसर्वोपाधिरूप आत्मनस् तत्त्वभावो विदिताविदिताभ्यामन्यो ऽद्वयस्वभावो ᳚नेति नेति᳚ ᳚अस्थूलम् अनण्व् अह्रस्वम्᳚ (BĀU ३,८.८) ᳚अदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने᳚ (Tऐत्त्U २,७.१) इत्य् आदि श्रुतिनिर्दिष्टः प्रसीदत्यभिमुखीभवति / आत्मप्रकाशनाय पूर्वम् अस्तीत्य् उपलब्धवत इत्य् एतत् // KअUBह्_६.१३/२,३.१३ //
SKयदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः / अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते // KअU_६.१४/२,३.१४ //
SKएवं परमार्थात्मदर्शिनो यदा यस्मिन् काले सर्वे कामाः कामयितव्यस्यान्यस्याभावात्, प्रमुच्यन्ते, विशीर्यन्ते, ये ऽस्य प्राक् प्रतिबोधाद् विदुषो हृदि बुद्धौ श्रिता आश्रिताः / बुद्धिर् हि कामानाम् आश्रयो नात्मा ᳚कामः सङ्कल्पः᳚ (BĀU १,५.३) इत्य् आदिश्रुत्यन्तराच् च / अथ तदा मर्त्यः प्राक् प्रबोधाद् आसीत् स प्रबोधोत्तरकालम् अविद्याकामकर्मलक्षणस्य मृत्योर् विनाशाद् अमृतो भवति, गमनप्रयोजकस्य मृत्योर् विनशाद् गमनानुपपत्तेर् अत्रेहैव प्रदिपनिर्वाणवत्सर्वबन्धनोपशमाद् ब्रह्म समश्नुते ब्रह्मैव भवतीत्य् अर्थः // KअUBह्_६.१४/२,३.१४ //
SKयदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः / अथ मर्त्यो ऽमृतो भवत्य् एतावद् ध्य् अनुशासनम् // KअU_६.१५/२,३.१५ //
SKकदा पुनः कामानां मूलतो विनाश इत्य् उच्यते -- यदा सर्वे प्रभिद्यन्ते भेदम् उपयान्ति विनश्यन्ति हृदयस्य बुद्धेर् इह जीवत एव ग्रन्थयो ग्रन्थिवद् दृढबन्धनरूपा अविद्याप्रत्यया इत्य् अर्थः / अहम् इदं शरीरं ममेदं धनं सुखी दुःखी चाहम् इत्य् एवम् आदिल्क्षणास् तद्विपरीतब्रह्मात्मप्रत्ययोपजननाद् ब्रह्मैवाहम् अस्म्य् असंसारीति विनष्टेष्व् अविद्याग्रन्थिषु तन्निमित्ताः कामा मूलतो विनश्यन्ति / अथ मत्र्यो ऽमृतो भवत्य् एतावद् ध्य् एतावद् एवैतावन् मात्रं नाधिकम् अस्तीत्य् आशङ्का कर्तव्या / अनुशासनम् अनुशिष्टिर् उपदेशः सर्ववेदान्तानाम् इति वाक्यशेषः // KअUBह्_६.१५/२,३.१५ //
SKशतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका / तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवति // KअU_६.१६/२,३.१६ //
SKनिरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्रन्थेर् जीवत एव ब्रह्मभूतस्य विदुषो न गतिर् विद्यते ᳚अत्र ब्रह्म समश्नुते᳚ (BĀU ४,४.७) इत्य् उक्तत्वात् ᳚न तस्य प्राणा उत्कामन्ति ब्रह्मैव सन् ब्रह्माप्येति᳚ (BĀU ४,४.६) इति श्रुत्यन्तराच् च / ये पुनर् मन्दब्रह्मविदो विद्यान्तरशीलिनश् च ब्रह्मलोकभाजो ये च तद्विपरीताः संसारभाजः, तेषाम् एव गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये / किञ् चान्यद् अग्निविद्या पृष्टा प्रत्युक्ता च / तस्याश् च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः / तत्र -- शतं च शतसङ्ख्याका एका च सुषुम्ना नाम पुरुषस्य हृदयाद् विनिःसृता नाड्यः शिराः, तासां मध्ये मूर्धानं भित्त्वाभिनिःसृता निर्गता एका सुषुम्ना नाम / तयान्तकाले हृदय आत्मानं वशीकृत्य योजयेत् / तया नाड्योर् ध्वम् उपर्यायन् गच्छन्न् आदित्यद्वारेणामृतत्वम् अमरणधर्मत्वम् आपेक्षिकम् -- ᳚आभूतसम्प्लवं स्थानम् अमृतत्वं हि भाष्यते᳚ (VइP २,८.१७) इति स्मृतेः -- ब्रह्मणा वा सह कालान्तरेण मुख्यम् अमृतत्वम् एति भुक्त्वा भोगान् अनुपमान् ब्रह्मलोकगतान् / विष्वङ्नानाविधगतयो ऽन्या नाड्य उत्क्रमणे भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्य् अर्थाः // KअUBह्_६.१६/२,३.१६ //
SKअङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः / तं स्वाच् छरीरात् प्रवृहेन् मुञ्जाद् इवेषीकां धैर्येण / तं विद्याच् छुक्रम् अमृतं तं विद्याच् छुक्रम् अमृतम् इति // KअU_६.१७/२,३.१७ //
SKइदानीं सर्ववल्ल्यर्थोपसंहारार्थम् आह -- अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां सम्बन्धिनि हृदये सन् निविष्टो यथा व्याख्यातः, तं स्वादात्मीयाच् छरीरात् प्रवृहेद् उद्यच्छेन् निष्कर्षेत् पृथक् कुर्याद् इत्य् अर्थः / किम् इवेत्य् उच्यते -- मुञ्जादिवेषीकामन्तस्थां धैर्येणाप्रमादेन / तं शरीरान् निष्कृष्टं चिन्मात्रं विद्याद्विजानीयाच् छुक्रं शुद्धम् अमृतं यथोक्तं ब्रह्मेति / द्विर् वचनम् उपनिषत् परिसमाप्त्य् अर्थम् इति शब्दश् च // KअUBह्_६.१७/२,३.१७ //
SKमृत्युप्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्याम् एतां योगविधिं च कृत्स्नम् / ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युर् अन्यो ऽप्य् एवं यो विद् अध्यात्मम् एव // KअU_६.१८/२,३.१८ //
SKविद्यास्तुत्यर्थो ऽयम् आख्यायिकार्थोपसंहारो ऽधुनोच्यते -- मृत्युप्रोक्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलम् इत्य् एतत् / नचिकेतो ऽथ वरप्रदानान् मृत्योर् लब्ध्वा प्राप्येत्य् अर्थः / किम्? ब्रह्म प्राप्तो ऽभून् मुक्तो ऽभवद् इत्य् अर्थः / कथम्? विद्याप्राप्त्या विरजो विगतधर्माधर्मो विमृत्युर् विगतकामाविद्यश् च सन् पूर्वम् इत्य् अर्थः / न केवलं नचिकेता एवान्यो ऽपि य एवं नचिकेतोवद् आत्मविद् अध्यात्मम् एव निरुपचरितं प्रत्यक् स्वरूपं प्राप्य तत्त्वम् एवेत्य् अभिप्रायः / नान्यद् रूपम् अप्रत्यग् रूपम् / तद् एवम् अध्यात्मम् एवम् उक्तप्रकारेण वेद विजानातीत्य् एवंवित् सो ऽपि विरजाः सन् ब्रह्म प्राप्य विमृत्युर् भवतीति वाक्यशेषः // KअUBह्_६.१८/२,३.१८ //
SKसह नाव् अवतु / सह नौ भुनक्तु / सह वीर्यं करवावहै // तेजस्वि नावधीतम् अस्तु मा विद्विषावहै // KअU_६.१९/२,३.१९ //
SKॐ शान्तिः शान्तिः शान्तिः //
SKइति कठोपनिषदि द्वितीयाध्याये तृतीया वल्ली //
SKशिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिर् उच्यते -- सह नाव् आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशनेन / कः? स एव परमेश्वर उपनिषत् प्रकाशितः / किञ् च सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु / सहैवावां विद्याकृतं वीर्यं सामथ्र्यं करवावहै निष्पादयावहै / किञ् च तेजस्वि नौ तेजस्वि नौरावयोर् यद् अधीतं तत् स्वधीतम् अस्तु / अथवा तेजस्वि नावावाभ्यां यद् अधीतं तद् अतीव तेजस्वि वीर्यवद् अस्त्व् इत्य् अर्थः / मा विद्विषावहै शिष्याचार्याव् अन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहै इत्य् अर्थः / शान्तिः शान्तिः शान्तिर् इति त्रिर् वचनं सर्वदोषोपशमनार्थम् इत्य् ओम् इति // KअUBह्_६.१९/२,३.१९ //
SKइति श्रीमत् परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्री शङ्करभगवतः कृतौ काठकोपनिषद्भाष्यं समाप्तम् //