Commentary on the Katha Upanishad
Kaṭhopaniṣadbhāṣya
कठोपनिषद्भाष्यम्
SKपराञ्चि खानि व्यतृणत् स्वयंभूस् तस्मात् पराङ् पश्यति नान्तरात्मन् / कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद् आवृत्तचक्षुर् अमृतत्वम् इच्छन् // KअU_४.१/२,१.१ //
SKपराञ्चि परागञ्चन्ति गच्छन्तीति, खानि तदुपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानीत्य् उच्यन्ते / तानि पराञ्च्य् एव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते / यस्माद् एवं स्वाभाविकानि तानि व्यतृणद्धिंसितवान् हननं कृतवान् इत्य् अर्थः / को ऽसौ / स्वयम्भूः परमेश्वरः स्वयम् एव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति / तस्मात् पराङ् पराग् रूपान् अनात्मभूताञ् शब्दादीन् पश्यत्य् उपलभत उपलब्धा नान्तरात्मन् नान्तरात्मानम् इत्य् अर्थः / एवंस्वभावे ऽपि सति लोकस्य कश्चिन् नद्याः प्रतिस्रोतः प्रवर्तनम् इव धीरो धीमान् विवेकी प्रत्यगात्मानं प्रत्यक् चासाव् आत्मा चेति प्रत्यगात्मा / प्रतीच्येवात्मशब्दो रूढो लोके नान्यत्र / व्युत्पत्तिपक्षे ऽपि तत्रैवात्मशब्दो वर्तते / ᳚यच् चाप्नोति यदादत्ते यच् चात्ति विषयान् इह / यच् चास्य सन्ततो भावस् तस्माद् आत्मेति कीर्त्यते᳚ (LइP १,७०.९६) इत्य् आत्मशब्दव्युत्पत्तिस्मरणात् / तं प्रत्यगात्मानं स्वं स्वभावम् ऐक्षद् अपश्यत् पश्यतीत्य् अर्थः / छन्दसि कालानियमात् / कथं पश्यतीत्य् उच्यते -- आवृत्तचक्षुरावृत्तं व्यावृत्तं चक्षुःश्रोत्रादिकमिन्द्रियजातम् अशेषविषयाद्यस्य स आवृत्तचक्षुः / स एवं संस्कृतः प्रत्यगात्मानं पश्यति / न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षणं चैकस्य सम्भवति / किम् अर्थं पुनर् इत्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यतीत्य् उच्यते -- अमृतत्वम् अमरणधर्मत्वं नित्यस्वभावताम् इच्छन्न् आत्मन इत्य् अर्थः // KअUBह्_४.१/२,१.१ //
SKपराचः कामान् अनुयन्ति बालास् ते मृत्योर् यन्ति विततस्य पाशम् / अथ धीरा अमृतत्वं विदित्वा ध्रुवम् अध्रुवेष्व् इह न प्रार्थयन्ते // KअU_४.२/२,१.२ //
SKयत् तावत् स्वाभाविकं पराग् एवानात्मदर्शनं तद् आत्मदर्शनस्य प्रतिबन्धकारणम् अविद्या तत्प्रतिकूलत्वाद् या च पराग् एवाविद्योपप्रदर्शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्याम् अविद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनः पराचो बहिर्गतान् एव कामान् काम्यान् विषयान् अनुयन्त्य् अनुगच्छन्ति बाला अल्पप्रज्ञाः, ते तेन कारणेन मृत्योर् अविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादिसंयोगलक्षणम् / अनवरतं जन्ममरणजरारोगाद्यनेकानर्थव्रातं प्रतिपद्यन्त इत्य् अर्थः / यत एवम् अथ तस्माद् धीरा विवेकिनः प्रत्यगात्मस्वरूपावस्थान् अलक्षणम् अमृतत्वं ध्रुवं विदित्वा / देहाद्यमृतत्वं ह्य् अब्रुवम् इदं तु प्रत्यगात्मस्वरूपावस्थान् अलक्षणं ध्रुवं ᳚न कर्मणा वर्धते नो कनीयान्᳚ (BĀU ४,४.२३) इति श्रुतेः / तद् एवम्भूतं कूटस्थम् अविचाल्यम् अमृतत्वं विदित्वाध्रुवेषु सर्वपदार्थेष्व् अनित्येषु निर्धार्यं ब्राह्मणा इह संसारे ऽनर्थप्राये न प्रार्थयन्ते किञ्चिद् अपि प्रत्यगात्मदर्शनप्रतिकूलत्वात् / पुत्रवित्तलोकैषणाभ्यो व्युत्तिष्ठन्त्य् एवेत्य् अर्थः // KअUBह्_४.२/२,१.२ //
SKयेन रूपं रसं गन्धं शब्दान् स्पर्शींश् च मैथुनान् / एतेनैव विजानाति किम् अत्र परिशिष्यते // एतद् वै तत् // KअU_४.३/२,१.३ //
SKयद् विज्ञानान् न किञ्चिद् अन्यत् प्रार्थयन्ते ब्रह्मणाः, कथं तदधिगम इत्य् उच्यते -- येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शांश् च मैथुनान् मैथुननिमित्तान् सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः / ननु नैवं प्रसिद्धिर् लोकस्यात्मना देहादिविलक्षणेनाहं विजानामीति / देहादिसङ्घातो ऽहं विजानामीति तु सर्वो लोको ऽवगच्छति / न त्व् एवम् / देहादिसङ्घातस्यापि शब्दादिस्वरूपत्वाविशेषाद् विज्ञेयत्वाविशेषाच् च न युक्तं विज्ञातृत्वम् / यदि हि देहादिसङ्घातो रूपाद्यात्मकः सन् रूपादीन् विजानीयात् तर्हि बाह्या अपि रूपादयो ऽन्योन्यं स्वं स्वं रूपञ् च विजानीयुः / न चैतद् अस्ति / तस्माद् देहादिलक्षणांश् च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावेनात्मना विजानाति लोकः / यथा येन लोहो दहति सो ऽग्निर् इति तद्वत् / आत्मनो ऽविज्ञेयं किम् अत्रास्मिंल् लोके परिशिष्यते न किञ्चित् परिशिष्यते / सर्वम् एव त्व् आत्मना विज्ञेयम् / यस्यात्मनो ऽविज्ञेयं न किञ्चित् परिशिष्यते स आत्मा सर्वज्ञः / एतद् वै तत् / किं तद् यन् नचिकेतसा पृष्टं देवादिभिर् अपि विचिकित्सितं धर्मादिभ्यो ऽन्यद् विष्णोः परमं पदं यस्मात् परं नास्ति तद्वै एतद् अधिगतम् इत्य् अर्थः // KअUBह्_४.३/२,१.३ //
SKस्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति / महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति // KअU_४.४/२,१.४ //
SKअतिसूक्ष्मत्वाद् दुर्विज्ञेयम् इति मत्वैतम् एवार्थं पुनः पुनर् आह -- स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयम् इत्य् एतत् / तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च / उभौ स्वप्नजागरितान्तौ येनात्मनानुपश्यति लोक इति सर्वं पूर्ववत् / तं महान्तं विभुम् आत्मानं मत्वावगम्यात्मभावेन साक्षाद् अहम् अस्मि परमात्मेति धीरो न शोचति // KअUBह्_४.४/२,१.४ //
SKय इमं मध्वदं वेद आत्मानं जीवमन्तिकात् / ईशानं भूतभव्यस्य न ततो विजुगुप्सते // एतद् वै तत् // KअU_४.५/२,१.५ //
SKकिञ्च यः कश्चिद् इमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयितारम् आत्मानं वेद विजानात्य् अन्तिकाद् अन्तिके समीप ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततस् तद्विज्ञानाद् ऊर्ध्वम् आत्मानं न विजुगुप्सते न गोपायितुम् इच्छत्य् अभयप्राप्तत्वात् / यावद् धि भयम् अध्यस्थो ऽनित्यम् आत्मानं मन्यते तावद् गोपायितुम् इच्छत्य् आत्मानः / यदा तु नित्यम् अद्वैतम् आत्मानं विजानाति तदा कः किं कुतो वा गोपायितुम् इच्छेत् / एतद् वै तद् इति पूर्ववत् // KअUBह्_४.५/२,१.५ //
SKयः पूर्वं तपसो जातम् अद्भ्यः पूर्वम् अजायत / गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर् व्यपश्यत // एतद् वै तत् // KअU_४.६/२,१.६ //
SKयः प्रत्यगात्मेश्वरभावेन निर्दिष्टः स सर्वात्मेत्य् एतद् दर्शयति -- यः कश्चिन् मुमुक्षुः पूर्वं प्रथमं तपसो ज्ञानादिलक्षणब्रह्मण इत्य् एतज् जातम् उत्पन्नं हिरण्यगर्भम् / किम् अपेक्ष्य पूर्वम् इत्य् आह -- अद्भ्यः पूर्वम् अप्सहितेभ्यः पञ्चभूतेभ्यो न केवलाभ्यो ऽद्भ्य इत्य् अभिप्रायः / अजायत उत्पन्नो यस् तं प्रथमजं देवादिशरीराण्य् उत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीन् उपलभमानं भूतेभिर् भूतैः कार्यकरणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्य् एतत् / य एवं पश्यति स एतद् एव पश्यति यत् तत् प्रकृतं ब्रह्म // KअUBह्_४.६/२,१.६ //
SKया प्राणेन संभवति अदितिर् देवतामयी / गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर् व्यजायत // एतद् वै तत् // KअU_४.७/२,१.७ //
SKकिञ् च -- या सरवदेवतामयी सरवदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद् ब्रह्मणः सम्भवति शब्दादीनाम् अदनाद् अदितिस् तां पूर्ववद् गुहां प्रविश्य तिष्ठन्तीम् अदितिम् / ताम् एव विशिनष्टि -- या भूतेभिर् भूतैः समन्विता व्यजायत उत्पन्नेत्य् एतत् // KअUBह्_४.७/२,१.७ //
SKअरण्योर् निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः / दिवेदिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः // एतद् वै तत् // KअU_४.८/२,१.८ //
SKकिञ् च -- यो ऽधियज्ञ उत्तराधरारण्योर् निहितः स्थितो जातवेदा अग्निः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिर् गर्भ इव गर्भिणीभिर् अन्तर्वत्नीभिर् अगर्हितान्नभोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोके, इवेत्थम् एव र्त्विग्भिर् योगिभिश् च सुमृत इत्य् एतत् / किञ् च दिवे दिवे ऽहन्य् अहनीड्यः स्तुत्यो वन्द्यश् च कर्मिभिर् योगिभिश् चाध्वरे हृदये च जागृवद्भिर् जागरणशीलैर् अप्रमत्तैर् इत्य् एतत् / हविष्मद्भिर् आज्यादिमद्भिर् ध्यानभावनावद्भिश् च, मनुष्येभिर् मनुष्यैर् अग्निर् एतद् वै तत् तद् एव प्रकृतं ब्रह्म // KअUBह्_४.८/२,१.८ //
SKयतश् चोदेति सूर्यो अस्तं यत्र च गच्छति / तं देवाः सर्वे अर्पितास् तद् उ नात्येति कश्चन // एतद् वै तत् // KअU_४.९/२,१.९ //
SKकिञ् च -- यतश् च यस्मात् प्राणाद् उदेत्य् उत्तिष्ठति सूर्यो ऽस्तं निम्लोचनं यत्र यस्मिन्न् एव च प्राणो ऽहन्यहनि गच्छति, तं प्राणम् आत्मानं देवाः, सर्व अग्न्यादयो ऽधिदैवं वागादयश् चाध्यात्मं सर्वे विश्वे ऽरा इव रथनाभाव् अर्पिताः सम्प्रवेशिताः स्थितिकाले / सो ऽपि ब्रह्मैव / तद् एतत् सर्वात्मकं ब्रह्म / तद् उ नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति कश्चन कश्चिद् अपि / एतद् वै तत् // KअUBह्_४.९/२,१.९ //
SKयद् एवेह तद् अमुत्र यद् अमुत्र तद् अन्व् इह / मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति // KअU_४.१०/२,१.१० //
SKयद् ब्रह्मादिस्थावरान्तेषु वर्तमानं तत् तदुपाधित्वाद् ब्रह्मवदवभासमानं संसार्य् अन्यत् परस्माद् ब्रह्मण इति मा भूत् कस्यचिद् आशङ्केतीदम् आह -- यद् एवेह कार्यकारणोपाधिसमन्वितं संसारधर्मवदवभासमानम् अविवेकिनां तद् एव स्वात्मस्थम् अमुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म / यच् चामुत्रामुष्मिन्न् आत्मनि स्थितं तद् एवेह नामरूपकार्यकरणोपाधिम् अनु विभाव्यमानं नान्यत् / तत्रैवं सत्य् उपाधिस्वभावभेददृष्टिलक्षणयाविद्यया मोहितः सन् य इह ब्रह्मण्यनानाभूते परस्माद् अन्यो ऽहं मत्तो ऽन्यत्परं ब्रह्मेति नानेव भिन्नम् इव पश्यत्य् उपलभते, स मृत्योर् मरणान् मृत्युं मरणं पुनः पुनर् जननमरणभावम् आप्नोति प्रतिपद्यते / तस्मात् तथा न पश्येत् / विज्ञानैकरसं नैरन्तर्येणाकाशवत् परिपूर्ण ब्रह्मैवाहम् अस्मीति पश्येद् इति वाक्यार्थः // KअUBह्_४.१०/२,१.१० //
SKमनसैवेदम् आप्तव्यं नेह नानास्ति किंचन / मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति // KअU_४.११/२,१.११ //
SKप्रागेकत्वविज्ञानाचार्यागमसंस्कृतेन मनसैवेदं ब्रह्मैकरसम् आप्तव्यम् आत्मैव नान्यद् अस्तीति / आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वाद् इह ब्रह्मणि नाना नास्ति किञ्चनाणुमात्रम् अपि / यस् तु पुनर् अविद्यातिमिरदृष्टिं न मुञ्चतीह ब्रह्मणि नानेव पश्यति, स मृत्योर् मृत्युं गच्छत्य् एव स्वल्पम् अपि भेदम् अध्यारोपयन्न् इत्य् अर्थः // KअUBह्_४.११/२,१.११ //
SKपुनर् अपि तद् एव प्रकृतं ब्रह्माह --
SKअङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति / ईशानो भूतभव्यस्य न ततो विजुगुप्सते // एतद् वै तत् // KअU_४.१२/२,१.१२ //
SKअङ्गुष्ठमात्रो ऽङ्गुष्ठपरिमाणो ऽङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्य् अन्तः -- करणोपाधिर् अङ्गुष्ठमात्रो ऽङ्गुष्ठमात्रवंशपर्वमध्यवर्त्य् अम्बरवत् / पुरुषः पूर्णम् अनेन सर्वम् इति / मध्य आत्मनि शरीरे तिष्ठति यस् तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा न तद् इत्य् आदि पूर्ववत् // KअUBह्_४.१२/२,१.१२ //
SKअङ्गुष्ठमात्रः पुरुषो ज्योतिर् इव अधूमकः / ईशानो भूतभव्यस्य स एवाद्य स उ श्वः // एतद् वै तत् // KअU_४.१३/२,१.१३ //
SKकिं चाङ्गुष्ठमात्रः पुरुषो ज्योतिर् इवाधूमकः, अधूमकम् इति युक्तं ज्योतिष्परत्वात् / यस् त्व् एवं लक्षितो योगिभिर् हृदय ईशानो भूतभव्यस्य स एव नित्यः कूटस्थो ऽद्येदानीं प्राणिषु वर्तमानः स उ श्वो ऽपि वर्तिष्यते, नान्यस् तत्समो ऽन्यश् च जनिष्यत इत्य् अर्थः / अनेन ᳚नायमस्तीति चैक᳚ (KअU १.२०) इत्य् अयं पक्षो न्यायतो ऽप्राप्तो ऽपि स्ववचनेन श्रुत्या प्रत्युक्तस् तथा क्षणभङ्गवादश् च // KअUBह्_४.१३/२,१.१३ //
SKयथोदकं दुर्गे वृष्टं पर्वतेषु विधावति / एवं धर्मान् पृथक् पश्यंस् तान् एवानु विधावति // KअU_४.१४/२,१.१४ //
SKपुनर् अपि भेददर्शनापवादं ब्रह्मण आह -- यथोदकं दुर्गे दुर्गमे देश उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं सद् विनश्यति, एवं धर्मान् आत्मनो ऽभिन्नान् पृथक् पश्यन् पृथग् एव प्रतिशरीरं पश्यंस् तान् एव शरीरभेदानुवर्तिनो ऽनुविधावति / शरीरभेदम् एव पृथक् पुनः पुनः प्रतिपद्यत इत्य् अर्थः // KअUBह्_४.१४/२,१.१४ //
SKयथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति / एवं मुनेर् विजानत आत्मा भवति गौतम // KअU_४.१५/२,१.१५ //
SKइति काठकोपनिषदि चतुर्थी वल्ली //
SKअस्य पुनर् विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकरसम् अद्वयम् आत्मानं पश्यतो विजानतो मुनेर् मननशीलस्यात्मस्वरूपं कथं सम्भवतीत्य् उच्यते यथोदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसम् एव नान्यथा तादृग् एव भवत्य् आत्माप्य् एवम् एव भवत्य् एकत्वं विजानतो मुनेर् मननशीलस्य हे गौतम. तस्मात् कुतार्किकभेददृष्टिं नास्तिककुदृष्टिं चोज्झित्वा मातृपितृसहस्त्रेभ्यो ऽपि हितैषिणा वेदेनोपदिष्टम् आत्मैकत्वदर्शनं शान्तदर्पैर् आदरणीयम् इत्य् अर्थः // KअUBह्_४.१५/२,१.१५ //
SKइति कठवल्ल्यां चतुर्थवल्ली भाष्यम्
SKपुनर् अपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थो ऽयम् आरम्भो दुर्विज्ञेयत्वाद् ब्रह्मणः --