Commentary on the Katha Upanishad

Kaṭhopaniṣadbhāṣya · कठोपनिषद्भाष्यम्

Commentary on the Katha Upanishad

Kaṭhopaniṣadbhāṣya

कठोपनिषद्भाष्यम्

Valli 1

SK
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ / तस्य ह नचिकेता नाम पुत्र आस // KअU_१.१/१,१.१ //
SK
तत्राख्यायिका विद्यास्तुत्यर्था / उशन् कामयमानो ह वा इति वृत्तार्थस्मरणार्थौ निपातौ / वाजमन्नं तद्दानादिनिमित्तं श्रवो यशो यस्य स वाजश्रवा, रूढितो वा, तस्यापत्यं वाजश्रवसः / स किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः / तस्मिन् क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् / तस्य यजमानस्य ह नचिकेता नाम पुत्रः किलास बभूव // KअUBह्_१.१/१,१.१ //
SK
तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सो ऽमन्यत // KअU_१.२/१,१.२ //
SK
तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तजननशक्तिं बालम् एव श्रद्धास्तिक्यबुद्धिः पितुर् हितकामप्रयुक्तविवेश प्रविष्टवती / कस्मिन् काल इत्य् आह -- ऋत्विग्भ्यः सदस्येभ्यश् च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु, स आविष्टश्रद्धो नचिकेता अमन्यत // KअUBह्_१.२/१,१.२ //
SK
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः / अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् // KअU_१.३/१,१.३ //
SK
कथम् इत्य् उच्यते -- पीतोदका इत्य् आदिना दक्षिणार्था गावो विशेष्यन्ते / पीतम् उदकं याभिस् ताः पीतोदकाः / जग्धं भक्षितं तृणं याभिस् ता जग्धतृणाः / दुग्धो दोहः क्षीराख्यो यासां ता दुग्धदोहाः / निरिन्द्रिया प्रजननासमर्था जीर्णा निष्फला गाव इत्य् अर्थः / यास् ता एवम्भूता गा ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददत्प्रयच्छन्ननन्दा अनानन्दा असुखा नामेत्य् एतद् ये ते लोकास् तान् स यजमानो गच्छति // KअUBह्_१.३/१,१.३ //
SK
स होवाच पितरं तत कस्मै मां दास्यसीति / द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति // KअU_१.४/१,१.४ //
SK
तद् एवं क्रत्वसम्पत्तिनिमित्तं पितुर् अनिष्टं फलं मया पुत्रेण सता निवारणीयम् आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वा इत्य् एवं मत्वा पितरम् उपगम्य स होवाच पितरम् -- हे तत तात कस्मा ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रयच्छसीत्य् एतत् / एवम् उक्तेन पित्रोपेक्ष्यमाणो ऽपि द्वितीयं तृतियम् अप्य् उवाच कस्मै मां दास्यसि कस्मै मां दास्यसीति / नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किलोवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति // KअUBह्_१.४/१,१.४ //
SK
बहूनाम् एमि प्रथमो बहूनाम् एमि मध्यमः / किं स्विद् यमस्य कर्तव्यं यन् मयाद्य करिष्यति // KअU_१.५/१,१.५ //
SK
स एवम् उक्तः पुत्र एकान्ते परिदेवयाञ् चकार / कथम् इत्य् उच्यते -- बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन्मुख्यया शिष्यादिवृत्त्येत्य् अर्थः / मध्यमानां च बहूनां मध्यमो मध्यमयैव वृत्त्यैमि / नाधमया कदाचिद् अपि / तम् एवं विशिष्टगुणम् अपि पुत्रं मां ᳚मृत्यवे त्वा ददामि᳚ (KअU १.४) इत्य् उक्तवान् पिता / स किं स्विद् यमस्य कर्तव्यं प्रयोजनं मया प्रत्तेन करिष्यति यत्कर्तव्यम् अद्य? नूनं प्रयोजनम् अनपेक्ष्यैव क्रोधवशाद् उक्तवान् पिता / तथापि तत्पितुर् वचो मृषा मा भूदिति // KअUBह्_१.५/१,१.५ //
SK
एवं मत्वा परिदेवनापूर्वकम् आह पितरं शोकाविष्ट किं वा मयोक्तम् इति --
SK
अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे / सस्यम् इव मर्त्यः पच्यते सस्यम् इवाजायते पुनः // KअU_१.६/१,१.६ //
SK
अनुपश्यालोचय विभावयानुक्रमेण यथा येन प्रकारेण वृताः पूर्वे ऽतिक्रान्ताः पितृपितामहादयस् तव / तान् दृष्ट्र्वा च तेषां वृत्तम् आस्थातुम् अर्हसि / वर्तमानाश् चापरे साधवो यथा वर्तन्ते तांश् च तथा प्रतिपश्यालोचय / न च तेषां मृषाकरणं वृत्तं वर्तमानं वास्ति / तद्विपरीतम् असतां च वृत्तं मृषाकरणम् / न च मृषाभूतं कृत्वा कश्चिद् अजरामरो भवति / यतः सस्यम् इव मर्त्यो मनुष्यः पच्यते जीर्णो म्रियते, मृत्वा च सस्यम् इवाजायत आविर्भवति पुनर् एवम् अनित्ये जीवलोके किं मृषाकरणेन / पालयात्मनः सत्यम् / प्रेषय मां यमायेत्य् अभिप्रायः // KअUBह्_१.६/१,१.६ //
SK
वैश्वानरः प्रविशति अतिथिर् ब्राह्मणो गृहान् / तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् // KअU_१.७/१,१.७ //
SK
स एवम् उक्तः पितात्मनः सत्यतायै प्रेषयामास / स च यमभवनं गत्वा तिस्त्रो रात्रीर् उवास यमे प्रोषिते / प्रोष्यागतं यमम् अमात्या भार्या वा ऊचुर् बोधयन्तो वैश्वानरो ऽग्निर् एव साक्षात् प्रविशत्य् अतिथिः सन् ब्राह्मणो गृहान् दहन्न् इव / तस्य दाहं शमयन्त इवाग्नेर् एतां पाद्यासनादिदानलक्षणां शान्तिं कुर्वन्ति सन्तो ऽतिथेर् यतः, अतो हराहर हे वैवस्वतोदकं नचिकेतसे पाद्यार्थम् / यतश् चाकरणेप्रत्यवायः श्रूयते // KअUBह्_१.७/१,१.७ //
SK
आशाप्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश् च सर्वान् / एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे // KअU_१.८/१,१.८ //
SK
आशाप्रतीक्ष अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना आशा, निर्ज्ञातप्राप्यार्थप्रतीक्षणं प्रतीक्षा, त आशाप्रतीक्षे / सङ्गतं सत्संयोगजं फलम्, सूनृतां च सूनृता हि प्रिया वाक्तन्निमित्तजं च / इष्टापूर्ते इष्टं यागजं फलम्, पूर्तम् आरामादि क्रियाजं फलम् / पुत्रपशूंश् च पुत्रांश् च सर्वान् एतत् सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयतीत्य् एतत्, पुरुषस्याल्पमेधसो ऽल्पप्रज्ञस्य / यस्यानश्नन्नभुञ्जानो ब्राह्मणो गृहे वसति / तस्माद् अनुपेक्षणीयः सर्वावस्थास्व् अप्य् अतिथिर् इत्य् अर्थः // KअUBह्_१.८/१,१.८ //
SK
तिस्रो रात्रीर् यद् अवत्सीर् गृहे मे अनश्नन् ब्रह्मन्न् अतिथिर् नमस्यः / नमस् ते ऽस्तु ब्रह्मन् स्वस्ति मे ऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व // KअU_१.९/१,१.९ //
SK
एवम् उक्तो मृत्युर् उवाच नचिकेतसम् उपगम्य पूजापुरःसरम् / तिस्त्रो रात्रीर् यद् यस्माद् अवात्सीर् उषितवानसि गृहे मे ममानश्नन् हे ब्रह्मन्न् अतिथिः सन् नमस्यो नमस्कारार्हश् च, तस्मान् नमस्ते तुभ्यम् अस्तु भवतु / हे ब्रह्मन् स्वस्ति भद्रं मे ऽस्तु / तस्माद् भवतो ऽनशनेन मद्गृहवासनिमित्ताद् दोषात् / तत्प्राप्त्युपशमेन यद्य् अपि भवद् अनुग्रहेण सर्वं मम स्वस्ति स्यात् तथापि त्वदधिकसम्प्रसादनार्थम् अनशनेनोषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व् आभिप्रेतार्थविशेषान् प्रार्थयस्व मत्तः // KअUBह्_१.९/१,१.९ //
SK
शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर् गौतमो माभि मृत्यो / त्वत्प्रसृष्टं माभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे // KअU_१.१०/१,१.१० //
SK
नचिकेतास् त्व् आह -- यदि दित्सुर् वरान् शान्तसङ्कल्प उपशान्तः सङ्कल्पो यस्य मां प्रति, यमं प्राप्य किन् नु करिष्यति मम पुत्र इति, स शान्तसङ्कल्पः सुमनाः प्रसन्नमनाश् च यथा स्याद् वीतमन्युर् विगतरोषश् च गौतमो मम पिता माभि मां प्रति हे मृत्यो, किञ् च त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति माम् अभिवदेत् प्रतीतो लब्धस्मृतिः, स एवायं पुत्रो ममागत इत्य् एवं प्रत्यभिजानन्न् इत्य् अर्थः / एतत् प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् // KअUBह्_१.१०/१,१.१० //
SK
यथा पुरस्ताद् भविता प्रतीत औद्दालकिर् आरुणिर् मत्प्रसृष्टः / सुखं रात्रीः शयिता वीतमन्युस् त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् // KअU_१.११/१,१.११ //
SK
मृत्युर् उवाच -- यथा बुद्धिस् त्वयि पुरस्तात् पूर्वम् आसीत् स्नेहसमन्विता पितुस् तव भविता प्रीतिसमन्वितस् तव पिता तथैव प्रतीतः प्रतीतवान् सन्न् औद्दालकिर् उद्दालक एवौद्दालकिः, अरुणस्यापत्यम् आरुणिर् द्व्यामुष्यायणो वा मत्प्रसृष्टो मयानुज्ञातः सन्न् उत्तरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता स्वप्ता वीतमन्युर् विगतमन्युश् च भवति स्यात् त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्युमुखान् मृत्युगोचरात् प्रमुक्तं सन्तम् // KअUBह्_१.११/१,१.११ //
SK
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति / उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके // KअU_१.१२/१,१.१२ //
SK
नचिकेता उवाच -- स्वर्गे लोके रोगादिनिमित्तं भयं किञ्चन किञ्चिद् अपि नास्ति / न च तत्र त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोकवत् त्वत्तो न बिभेति कश्चित् तत्र / किञ्चोभ अशनायापिपासे तीर्त्वातिक्रम्य शोकम् अतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितो मोदते हृष्यति स्वर्गलोके दिव्ये // KअUBह्_१.१२/१,१.१२ //
SK
स त्वम् अग्निं स्वर्ग्यम् अध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् / स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण // KअU_१.१३/१,१.१३ //
SK
एवङ् गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतं स्वर्ग्यम् अग्निं स त्वं मृत्युर् अध्येषि स्मरसि जानासीत्य् अर्थः / हे मृत्यो यतस् तं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गार्थिने / येनाग्निना चितेन स्वर्गलोकः स्वर्गो लोको येषां ते स्वर्गलोका यजमाना अमृतत्वम् अमरणतां देवत्वं भजन्ते प्राप्नुवन्ति तद् एतद् अग्निविज्ञानं द्वितीयेन वरेण वृणे // KअUBह्_१.१३/१,१.१३ //
SK
प्र ते ब्रवीमि तद् उ मे निबोध स्वर्ग्यम् अग्निं नचिकेतः प्रजानन् / अनन्तलोकाप्तिम् अथो प्रतिष्ठां विद्धि त्वम् एतं निहितं गुहायाम् // KअU_१.१४/१,१.१४ //
SK
मृत्योः प्रतिज्ञा इयम् -- प्र ते तुभ्यं प्रब्रवीमि / यत् त्वया प्रार्थितं तदु मे मम वचसो निबोध बुध्यस्वैकाग्रमनाः सन् स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान् सन्न् अहम् इत्य् अर्थः / प्रब्रवीमि तन् निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम् / अधुनाग्निं स्तौति -- अनन्तं लोकाप्ति स्वर्गलोकफलप्राप्तिसाधनम् इत्य् एतत् / अथो ऽपि प्रतिष्ठाम् आश्रयं जगतो विराड्रूपेण तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धौ निविष्टम् इत्य् अर्थः // KअUBह्_१.१४/१,१.१४ //
SK
लोकादिम् अग्निं तम् उवाच तस्मै या इष्टका यावतीर् वा यथा वा / स चापि तत् प्रत्यवदद् यथोक्तम् अथास्य मृत्युः पुनर् आह तुष्टः // KअU_१.१५/१,१.१५ //
SK
इदं श्रुतेर् वचनम् / लोकादिं लोकानाम् आदिं प्रथम् अशरीरित्वाद् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाचोक्तवान् मृत्युस् तस्मै नचिकेतसे / किञ् च या इष्टकाश् चेतव्याः स्वरूपेण, यावतीर् वा सङ्ख्यया, यथा वा चियते ऽग्निर् येन प्रकारेण सर्वम् एतद् उक्तवान् इत्य् अर्थः / स चापि नचिकेतास् तन् मृत्युनोक्तं प्रत्यवदद् यथावत् प्रत्ययेनावदत् प्रत्युच्चारितवान् / अथास्य प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनर् एवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः // KअUBह्_१.१५/१,१.१५ //
SK
तम् अब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः / तवैव नाम्ना भवितायम् अग्निः सृङ्कां चेमाम् अनेकरूपां गृहाण // KअU_१.१६/१,१.१६ //
SK
कथं तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां पश्यन् प्रीयमाणः प्रीतिम् अनुभवन् महात्माक्षुद्रबुद्धिर् वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्येदानीं ददामि भूयः पुनः प्रयच्छामि / तवैव नचिकेतसो नाम्नाभिधानेन प्रसिद्धो भविता मयोच्यमानो ऽयम् अग्निः / किञ् च सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु / यद् वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण / अन्यद् अपि कर्मविज्ञानम् अनेकफलहेतुत्वात् स्वीकुर्वित्य् अर्थः // KअUBह्_१.१६/१,१.१६ //
SK
पुनर् अपि कर्मस्तुतिम् एवाह --
SK
त्रिणाचिकेतस् त्रिभिर् एत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू / ब्रह्मजज्ञं देवम् ईड्यं विदित्वा निचाय्येमां शान्तिम् अत्यन्तम् एति // KअU_१.१७/१,१.१७ //
SK
त्रिणाचिकेतस् त्रिःकृत्वा नाचिकेतो ऽग्निश् चितो येन स त्रिणाचिकेतस् तद्विज्ञानतदध्ययनतदनुष्ठानवान् वा / त्रिभिर् मातृपित्राचार्यैर् एत्य प्राप्य सन्धिं सन्धानं सम्बन्धं मात्राद्यनुशासनं यथावत् प्राप्येत्य् एतत् / तद् धि प्रामाण्यकारणं श्रुत्यन्तराद् अवगम्यते ᳚यथा मातृमान् पितृमान्᳚ (BĀU ४,१.२) इत्य् आदेः / वेदस्मृतिशिष्टैर् वा प्रत्यक्षानुमानागमैर् वा / तेभ्यो हि विशुद्धिः प्रत्यक्षा / त्रिकर्मकृत् इज्याध्ययनदानानां कर्ता तरत्य् अतिक्रामति जन्ममृत्यू / किञ् च ब्रह्मजज्ञं ब्रह्मणो हिरण्यगर्भाज् जातो ब्रह्मजः, ब्रह्मजश् चासौ ज्ञश् चेति ब्रह्मजज्ञः सर्वज्ञो ह्य् असौ / तं देवं द्योतनाञ् ज्ञानादिगुणवन्तम् ईड्यं स्तुत्यं विदित्वा शास्त्रतो, निचाय्य दृष्ट्वा चात्मभावेनेमां स्वबुद्धिप्रत्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एत्य् अतिशयेनैति / वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्य् अर्थः // KअUBह्_१.१७/१,१.१७ //
SK
इदानीम् अग्निविज्ञानचयनफलम् उपसंहरति प्रकरण च --
SK
त्रिणाचिकेतस् त्रयम् एतद् विदित्वा य एवं विद्वांश् चिनुते नाचिकेतम् / स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके // KअU_१.१८/१,१.१८ //
SK
त्रिणाचिकेतस् त्रयं यथोक्तं ᳚या इष्टका यावतीर्वा यथा वा᳚ (KअU १.१५) इत्य् एतद् विदित्वावगम्य यश् चैवम् आत्मरूपेणाग्निं विद्वांश् चिनुते निर्वर्तयति नाचिकेतम् अग्निं क्रतुं स मृत्युपाशान् अधर्माज्ञानरागद्वेषादिलक्षणान् पुरतो ऽग्रतः पूर्वम् एव शरीरपाताद् इत्य् अर्थः प्रणोद्यापहाय शोकातिगो मानसैर् दुःखैर् वर्जित इत्य् एतन् मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपत्त्या // KअUBह्_१.१८/१,१.१८ //
SK
एष ते ऽग्निर् नचिकेतः स्वर्ग्यो यम् अवृणीथा द्वितीयेन वरेण / एतम् अग्निं तवैव प्रवक्ष्यन्ति जनासस् तृतीयं वरं नचिकेतो वृणीष्व // KअU_१.१९/१,१.१९ //
SK
एष ते तुभ्यम् अग्निर् वरो हे नचिकेतः, स्वर्ग्यः स्वर्गसाधनो यम् अग्निं वरम् अवृणीथाः प्रार्थितवानसि द्वितीयेन वरेण, सो ऽग्निर् वरो दत्त इत्य् उक्तोपसंहारः / किञ् चैतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासो जना इत्य् एतत् / एष वरो दत्तो मया चतुर्थस् तुष्टेन / तृतीयं वरं नचिकेतो वृणीष्व / तस्मिन् ह्य् अदत्त ऋणवान् एवाहम् इत्य् आभिप्रायः // KअUBह्_१.१९/१,१.१९ //
SK
एतावद् ध्य् अतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनावगन्तव्यं यद्वरद्वयसूचितं वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम् / अतो विधिप्रतिषेधार्थविषयस्यात्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणलक्षणशून्यम् आत्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यम् इत्य् उत्तरो ग्रन्थ आरभ्यते / तम् एतम् अर्थं द्वितीयवरप्राप्त्याप्य् अकृतार्थत्वं तृतीयवरगोचरम् आत्मज्ञानम् अन्तरेण इत्य् आख्यायिकया प्रपञ्चयति --
SK
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्य् एके नायम् अस्तीति चैके / एतद् विद्याम् अनुशिष्टस् त्वयाहं वराणाम् एष वरस् तृतीयः // KअU_१.२०/१,१.२० //
SK
यतः पूर्वस्मात् कर्मगोचरात् साध्यसाधनलक्षणाद् अनित्याद् विरक्तस्यात्मज्ञाने ऽधिकार इति तन्निन्दार्थ पुत्राद्युपन्यासेन प्रलोभनं क्रियते / नचिकेता उवाच ᳚तृतीयं वरं नचिकेतो वृणीष्व᳚ (KअU १.१९) इत्य् उक्तः सन् -- येयं विचिकित्सा संशयः प्रेते मृते मनुष्ये, अस्तीत्य् एके ऽस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसम्बन्ध्यात्मेत्य् एके मन्यन्ते, नायम् अस्तीति चैके, नायम् एवंविधो ऽस्तीति चैके / अतश् चास्माकं न प्रत्यक्षेण नापि वानुमानेन निर्णयविज्ञानम् / एतद् विज्ञानाधीनो हि परः पुरुषार्थ इत्य् अत एतद् विद्यां विजानीयाम् अहम् अनुशिष्टो ज्ञापितस् त्वया / वराणाम् एष वरस् तृतीयो ऽवशिष्टः // KअUBह्_१.२०/१,१.२० //
SK
किम् अयम् एकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्य् एतत् परीक्षणार्थम् आह --
SK
देवैर् अत्रापि विचिकित्सितं पुरा न हि सुज्ञेयम् अणुर् एष धर्मः / अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीर् अति मा सृजैनम् // KअU_१.२१/१,१.२१ //
SK
देवैर् अप्य् अत्रैतस्मिन् वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम् / न हि सुविज्ञेयं सुष्ठु ज्ञेयम् असकृत् श्रुतम् अपि प्राकृतैर् जनैर् यतो ऽणुः सूक्ष्म एष आत्माख्यो धर्मः / अतो ऽन्यम् असन् दिग्धफलं वरं नचिकेतो वृणीष्व, मा मोपरोत्सीर् उपरोधं मा कार्षीर् अधर्मणम् इवोत्तमर्णः / अतिसृज विमुञ्चैनं वरं मा मां प्रति // KअUBह्_१.२१/१,१.२१ //
SK
एवम् उक्तो नचिकेता आह --
SK
देवैर् अत्रापि विचिकित्सितं किल त्वं च मृत्यो यन् न सुज्ञेयम् आत्थ / वक्ता चास्य त्वादृग् अन्यो न लभ्यो नान्यो वरस् तुल्य एतस्य कश्चित् // KअU_१.२२/१,१.२२ //
SK
देवैर् अत्राप्य् एतस्मिन् वस्तुनि विचिकित्सितं किलेति भवत एव नः श्रुतम् / त्वं च मृत्यो यद्य् अस्मान् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि / अतः पण्डितैर् अप्य् अवदनीयत्वाद् वक्ता चास्य धर्मस्य त्वादृक् त्वत्तुल्यो ऽन्यः पण्डितश् च न लभ्यो ऽन्विष्यमाणो ऽप्य् अयं तु वरो निःश्रेयसप्राप्तिहेतुः / अतो नान्यो वरस् तुल्यः सदृशो ऽस्त्य् एतस्य कश्चिद् अप्य्, अनित्यफलत्वाद् अन्यस्य सर्वस्यैवेत्य् अभिप्रायः // KअUBह्_१.२२/१,१.२२ //
SK
एवम् उक्तो ऽपि पुनः प्रलोभयन्न् उवाच मृत्युः --
SK
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् / भूमेर् महद् आयतनं वृणीष्व स्वयं च जीव शरदो यावद् इच्छसि // KअU_१.२३/१,१.२३ //
SK
शतायुषः शतं वर्षाण्य् आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व / किञ् च गवादिलक्षणान् बहून् पशून्, हस्तिहिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम्, अश्वांश् च / किञ् च भूमेः पृथिव्या महद् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व / किञ् च सर्वम् अप्य् एतद् अनर्थकं स्वयं चेद् अल्पायुर् इत्य् अत आह -- स्वयं च त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदो वर्षाणि यावद् इच्छसि जीवितुम् // KअUBह्_१.२३/१,१.२३ //
SK
एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च / महाभूमौ नचिकेतस् त्वम् एधि कामानां त्वा कामभाजं करोमि // KअU_१.२४/१,१.२४ //
SK
एतत् तुल्यम् एतेन यथोपदिष्टेन सदृशमन्यम् अपि यदि मन्यसे वरं तम् अपि वृणीष्व / किञ् च वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्य् एतत् / किं बहुना, महाभूमौ महत्यां भूमौ राजा नचिकेतस् त्वम् एधि भव / किञ् चान्यत् कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि, सत्यसङ्कलपो ह्य् अहं देवः // KअUBह्_१.२४/१,१.२४ //
SK
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश् छन्दतः प्रार्थयस्व / इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः / आभिर् मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः // KअU_१.२५/१,१.२५ //
SK
ये ये कामाः प्रार्थनीया दुर्लभाश् च मत्र्यलोके सर्वास् तान् कामाञ् छन्दत इच्छातः प्रार्थयस्व / किञ् चेमा दिव्या अप्सरसो, रमयन्ति पुरुषान् इति रामाः, सह रथैर् वर्तन्त इति सरथाः, सतूर्याः सवादित्राः, ताश् च न हि लम्भनीयाः प्रापणीया ईदृशा एवंविधा मनुष्यैर् मत्यैर् अस्मदादिप्रसादम् अन्तरेण / आभिर् मत्प्रत्ताभिर् मया प्रदत्ताभिः परिचारिणीभिः परिचारयस्वात्मानम्, पादप्रक्षालनादिशुश्रूषां कारयात्मन इत्य् अर्थः / नचिकेतो, मरणं मरणसम्बद्धं प्रश्नं प्रेते ऽस्ति नास्तीति काकदन्तपरीक्षारूपं मानुप्राक्षीर् मैवं प्रष्टुम् अर्हसि // KअUBह्_१.२५/१,१.२५ //
SK
एवं प्रलोभ्यमानो ऽपि नचिकेता महाह्रदवदक्षोभ्य आह --
SK
श्वोभावा मर्त्यस्य यद् अन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः / अपि सर्वं जीवितम् अल्पम् एव तवैव वाहास् तव नृत्यगीते // KअU_१.२६/१,१.२६ //
SK
श्वो भविष्यन्ति न भविष्यन्ति वेति सन्दिह्यमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः / किञ् च मत्र्यस्य मनुष्यस्यान्तक हे मृत्यो, यद् एतत् सर्वेन्द्रियाणां तेजस् तज् जरयन्त्य् अपक्षयन्त्य् अप्सरःप्रभृतयो भोगा अनर्थायैवते धर्मवीर्यप्रज्ञातेजोयशःप्रभृतीनां क्षपयितृत्वात् / यां चापि दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु / सर्वं यद् ब्रह्मणो ऽपि जीवितम् आयुर् अल्पम् एव, किम् उतास्मदादिदीर्घजीविका / अतस् तवैव तिष्ठन्तु वाहा रथादयस् तथा तव नृत्यगीते च // KअUBह्_१.२६/१,१.२६ //
SK
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तम् अद्राक्ष्म चेत् त्वा / जीविष्यामो यावद् ईशिष्यसि त्वं वरस् तु मे वरणीयः स एव // KअU_१.२७/१,१.२७ //
SK
किञ् च न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः / न हि लोके वित्तलाभः कस्यचित् तृप्तिकरो दृष्टः / यदि नामास्माकं वित्ततृष्णा स्याल् लप्स्यामहे प्राप्स्यामहे वित्तम् अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम् / जीवितम् अपि तथैव, जीविष्यामो यावद् याम्ये पदे त्वम् ईशिष्यसीशिष्यसे प्रभुः स्याः / कथं हि मर्त्यस् त्वया समेत्याल्पधनायुर् भवेत् / वरस् तु मे वरणीयः स एव यदात्मविज्ञानम् // KअUBह्_१.२७/१,१.२७ //
SK
अजीर्यताम् अमृतानाम् उपेत्य जीर्यन् मर्त्यः क्वधःस्थः प्रजानन् / अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत // KअU_१.२८/१,१.२८ //
SK
यतश् चाजीर्यतां वयोहाणिम् अप्राप्नुवताम् अमृतानां सकाशम् उपेत्योपगम्यात्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन्न् उपलभमानः स्वयं तु जीर्यन् मर्त्यो जरामरणवान् क्वधःस्थः कुः पृथिव्य् अधश् चासाव् आन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन् कथम् एवम् अविवेकिभिः प्रार्थनीयं पुत्रवित्ताद्यस्थिरं वृणीते / ᳚क्व तदास्थः᳚ इति वा पाठान्तरम् / अस्मिन् पक्षे चैवम् अक्षरयोजना तेषु पुत्रादिष्व् आस्था स्थितिस् तात्पर्येण वर्तनं यस्य स तदास्थः, ततो ऽधिकतरं पुरुषार्थं दुष्प्रापम् अपि प्रापिपयिषुः क्व तदास्थो भवेत् ? न कश्चित् तदसारज्ञस् तदर्थी स्याद् इत्य् अर्थः / सर्वो ह्य् उपर्युपर्येव बुभूषति लोकस् तस्मान् न पुत्रवित्तादिलोभैः प्रलोभ्यो ऽहम् / किञ् चाप्सरः प्रमुखान् वर्णरतिप्रमोदाननवस्थितरूपतयाभिध्यायन्निरूपयन्यथावद् अतिदीर्घे जीविते को विवेकी रमेत // KअUBह्_१.२८/१,१.२८ //
SK
यस्मिन्न् इदं विचिकित्सन्ति मृत्यो यत् साम्पराये महति ब्रूहि नस् तत् / यो ऽयं वरो गूढम् अनुप्रविष्टो नान्यं तस्मान् नचिकेता वृणीते // KअU_१.२९/१,१.२९ //
SK
इति काठकोपनिषदि प्रथमा वल्ली
SK
अतो विहायानित्यैः कामैः प्रलोभनं यन्मया प्रार्थितं यस्मिन् प्रेत इदं विचिकित्सनं विचिकित्सन्त्य् अस्ति नास्तीत्य् एवं प्रकारम्, हे मृत्यो, साम्पराये परलोकविषये महति महत्प्रयोजननिमित्त आत्मनो निर्णयविज्ञानं यत् तद् ब्रूहि कथय नो ऽस्मभ्यम् / किं बहुना / यो ऽयं प्रकृत आत्मविषयो वरो गूढं गहनं दुर्विवेचनं प्राप्तो ऽनुप्रविष्टः, तस्माद् वराद् अन्यम् अविवेकिभिः प्रार्थनीयम् अनित्यविषयं वरं नचिकेता न वृणीते मनसापीति श्रुतेर् वचनम् इति // KअUBह्_१.२९/१,१.२९ //
SK
इति कठवल्ल्यां प्रथमवल्लीभाष्यम्
SK
अथ द्वितीया वल्ली / परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह --

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṭha Upaniṣad Śāṅkara-bhāṣya: corpustei HTML transform of the Kaṭha-bhāṣya.

Source