Commentary on the Katha Upanishad

Kaṭhopaniṣadbhāṣya · कठोपनिषद्भाष्यम्

Commentary on the Katha Upanishad

Kaṭhopaniṣadbhāṣya

कठोपनिषद्भाष्यम्

Valli 3

SK
अथ तृतीया वल्ली / ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे / छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः // KअU_३.१/१,३.१ //
SK
ऋतं पिबन्तावित्यस्या वल्ल्याः सम्बन्धः / विद्याविद्ये नाना विरुद्धफले इत्य् उपन्यस्ते, न तु सफले ते यथावन् निर्णीते / तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम् / एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थरथरूपकद्वारा द्वाव् आत्मानाव् उपन्यस्येते -- ऋतं सत्यम् अवश्यम्भावित्वात् कर्मफलं पिबन्तौ / एकस् तत्र कर्मफलं पिबति भुङ्क्ते नेतरस् तथापि पातृसम्बन्धात् पिबन्ताव् इत्य् उच्यते च्छत्रिन्यायेन / सुकृतस्य स्वयङ्कृतस्य कर्मण ऋतम् इति पूर्वेण सम्बन्धः / लोके ऽस्मिञ् शरीरे / गुहां गुहायां बुद्धौ प्रविष्टौ / परमे बाह्यपुरुषाकाशसंस्थानापेक्षया परमम् / परार्धे परस्य ब्रह्मणो ऽर्धं स्थानं परार्धं हार्दाकाशम् / तस्मिन् हि परं ब्रह्मोपलभ्यते / ततस् तस्मिन् परमे परार्धे हार्दाकाशे प्रविष्टाव् इत्य् अर्थः / तौ च च्छायातपाव् इव विलक्षनौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति / न केवलम् अकर्मिण एव वदन्ति / पञ्चाग्नयो गृहस्थाः / ये च त्रिणाचिकेताः, त्रिः कृत्वो नाचिकेतो ऽग्निश् चितो यैस् ते त्रिणाचिकेताः // KअUBह्_३.१/१,३.१ //
SK
यः सेतुर् ईजानानाम् अक्षरं ब्रह्म यत् परम् / अभयं तितीर्षतां पारं नाचिकेतं शकेमहि // KअU_३.२/१,३.२ //
SK
यः सेतुः सेतुर् इव सेतुर् ईजानानां यजमानानां कर्मिणां दुःखसन्तरणार्थत्वात् / नाचिकेतं नाचिकेतो ऽग्निस् तम्, वयं ज्ञातुं चेतुं च शकेमहि शक्नुवन्तः / किञ् च यच् चाभयं भयशून्यं संसारस्य पारं तितीर्षतां तर्तुम् इच्छतां ब्रह्मविदां यत्परमाश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच् च ज्ञातुं शकेमहि / परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः / एतयोर् एव ह्य् उपन्यासः कृत ᳚ऋतं पिबन्तौ᳚ (KअU ३.१) इति // KअUBह्_३.२/१,३.२ //
SK
आत्मानं रथिनं विद्धि शरीरं रथम् एव तु / बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च // KअU_३.३/१,३.३ //
SK
तत्र य उपाधिकृतः संसारी विद्याविद्यायोर् अधिकृतो मोक्षगमनाय संसारगमनाय च, तस्य तदुभयगमने साधनो रथः कल्प्यते / तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि जानीहि / शरीरं रथम् एव तु रथबद्धहयस्थानीयैर् इन्द्रियैर् आकृष्यमाणत्वाच् छरीरस्य / बुद्धिं त्व् अध्यवसायलक्षणां सारथिं विद्धि, बुद्धिनेतृप्रधानत्वाच् छरीरस्य सारथिनेतृप्रधान इव रथः / सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यम् एव प्रायेण / मनः संकल्पविकल्पादिलक्षणं प्रग्रहं रशनां विद्धि / मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः // KअUBह्_३.३/१,३.३ //
SK
इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् / आत्मेन्द्रियमनोयुक्तं भोक्तेत्य् आहुर् मनीषिणः // KअU_३.४/१,३.४ //
SK
इन्द्रियाणि चक्षुरादीनि हयान् आहू रथकल्पनाकुशलाः, शरीरस्थाकर्षणसामान्यात् / तेष्व् एवेन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन् विषयान् विद्धि / आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुक्तम् आत्मानं भोक्तेति संसारीत्य् आहुर् मनीषिणो विवेकिनः / न हि केवलस्यात्मनो भोक्तृत्वम् अस्ति, बुद्ध्याद्युपाधिकृतम् एव तस्य भोक्तृत्वम् / तथा च श्रुत्यन्तरं केवलस्याभोतृत्वम् एव दर्शयति ᳚ध्यायतीव लेलायतीव᳚ (BĀU ४,४.७) इत्य् आदि / एवञ् च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिर् उपपद्यते, नान्यथा स्वभावान् अतिक्रमात् // KअUBह्_३.४/१,३.४ //
SK
यस् त्व् अविज्ञानवान् भवत्य् अयुक्तेन मनसा सदा / तस्येन्द्रियाण्य् अवश्यानि दुष्टाश्वा इव सारथेः // KअU_३.५/१,३.५ //
SK
तत्रैवं सति यस् त्व् अविज्ञानवान् यस्य बुद्ध्याख्यः सारथिर् अविज्ञानो ऽनिपुणो ऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति, यथेतरो रथचर्यायाम् अयुक्तेनाप्रगृहीतेनासमाहितेन मनसा प्रग्रहस्थानीयेन सदा युक्तो भवति, तस्याकुशलबुद्धिसारथेर् इन्द्रियाण्य् अश्वस्थानीयान्य् अवश्यान्य् अशक्यनिवारणानि दुष्टाश्वा अदान्ताश्वा इवेतरसारथेर् भवन्ति // KअUBह्_३.५/१,३.५ //
SK
यस् तु विज्ञानवान् भवति युक्तेन मनसा सदा / तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः // KअU_३.६/१,३.६ //
SK
यस् तु पुनः पूर्वोक्तविपरीतसारथिर् भवति विज्ञानवान् प्रगृहीतमनाः समाहितचित्तः सदा, तस्याश्वस्थानीयानीन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथेः // KअUBह्_३.६/१,३.६ //
SK
यस् त्व् अविज्ञानवान् भवत्य् अमनस्कः सदाशुचिः / न स तत् पदम् आप्नोति संसारं चाधिगच्छति // KअU_३.७/१,३.७ //
SK
तस्य पूर्वोक्तस्याविज्ञानवत इदं फलम् आह -- यस् त्व् अविज्ञानवान् भवति / अमनस्को ऽप्रगृहीतमनस्कः स तत एवाशुचिः सदैव / न स रथी तत्पूर्वोक्तम् अक्षरं यत्परं पदम् आप्नोति तेन सारथिना / न केवलं तन् नाप्नोति संसारं च जन्ममरणलक्षणम् अधिगच्छति // KअUBह्_३.७/१,३.७ //
SK
यस् तु विज्ञानवान् भवति समनस्कः सदा शुचिः / स तु तत् पदम् आप्नोति यस्माद् भूयो न जायते // KअU_३.८/१,३.८ //
SK
यस् तु द्वितीयो विज्ञानवान् वीज्ञानवत् सारथ्युपेतो रथी विद्वान् इत्य् एतत् / युक्तमनाः समनस्कः स तत एव सदा शुचिः, स तु तत्पदम् आप्नोति, यस्माद् आप्तात् पदाद् अप्रच्युतः सन् भूयः पुनर् न जायते संसारे // KअUBह्_३.८/१,३.८ //
SK
विज्ञानसारथिर् यस् तु मनः प्रग्रहवान् नरः / सो ऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् // KअU_३.९/१,३.९ //
SK
किं तत्पदम् इत्य् आह विज्ञानसारथिर् यस् तु यो विवेकबुद्धिसारथिः पूर्वोक्तो मनःप्रग्रहवान् प्रगृहीतमनाः समाहितचित्तः सञ् शुचिर् नरो विद्वान् सो ऽध्वनः संसारगतेः पारं परम् एवाधिगन्तव्यम् इत्य् एतद् आप्नोति मुच्यते सर्वसंसारबन्धनैः / तद् विष्णोर् व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम्, सतत्त्वं इत्य् एतद् यद् असाव् आप्नोति विद्वान् // KअUBह्_३.९/१,३.९ //
SK
अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्य् आरभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्य् एवम् अर्थम् इदम् आरभ्यते --
SK
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः / मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः // KअU_३.१०/१,३.१० //
SK
स्थूलानि तावद् इन्द्रियाणि, तानि यैर् अर्थैर् आत्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यस् ते परा ह्य् अर्थाः सूक्ष्मा महान्तश् च प्रत्यगात्मभूताश् च / तेभ्यो ऽप्य् अर्थेभ्यश् च परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः / मनःशब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मं सङ्कल्पविकल्पाद्यारम्भकत्वात् / मनसो ऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः, बुद्धिशब्दवाच्याम् अध्यवसायाद्यारम्भकं भूतसूक्ष्मम् / उद्धेर् आत्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वाद् आत्मा महान् सर्वमहत्त्वाद् अव्यक्ताद् यत् प्रथमं जातं हैरण्यगर्भं तत्त्वं बोधाबोधात्मकं महान् आत्मा बुद्धेः परम् इत्य् उच्यते // KअUBह्_३.१०/१,३.१० //
SK
महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः / पुरुशान् न परं किंचित् सा काष्ठा सा परा गतिः // KअU_३.११/१,३.११ //
SK
महतो ऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं चाव्यक्तं सर्वस्य जगतो बीजभूतम् अव्याकृतनामरूपं सतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्यक्तम् अव्याकृताकाशादिनाम् अवाच्यं परमात्मन्य् ओतप्रोतभावेन समाश्रितं वटकणिकायाम् इव वटवृक्षशक्तिः / तस्माद् अव्यक्तात् परः सूक्ष्मतरः सर्वकारणकारणत्वात् प्रत्यगात्मत्वाच् च महांश् च, अत एव पुरुषः सर्वपूरणात् / ततो ऽन्यस्य परस्य प्रसङ्गं निवारयन्न् आह -- पुरुषान् न परं किञ्चिद् इति / यस्मान् नास्ति पुरुषाच् चिन्मात्राघनात् परं किञ्चिद् अपि वस्त्वन्तरम्, तस्मात् सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम् / अत्र हीन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम् / अत एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः / ᳚यद् गत्वा न निवर्तन्ते᳚ (Bह्G १५.६) इति स्मृतेः // KअUBह्_३.११/१,३.११ //
SK
एष सर्वेषु भूतेषु गूढो ऽत्मा न प्रकाशते / दृष्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः // KअU_३.१२/१,३.१२ //
SK
ननु गतिश् चेद् आगत्यापि भवितव्यम्, कथं ᳚यस्माद् भूयो न जायते᳚ (KअU ३.८) इति / नैष दोषः / सर्वस्य प्रत्यगात्मत्वाद् अवगतिर् एव गतिर् इत्य् उपचर्यते / प्रत्यगात्मत्वञ् च दर्शितम् इन्द्रियमनोबुद्धिपरत्वेन / यो हि गन्ता सो ऽयम् अप्रत्यग्रूपं गच्छत्य् अनात्मभूतं न विन्दति स्वरूपेण / तथा च श्रुतिः -- ᳚अनध्वगा अध्वसु पारयिष्णवः᳚ (Iतिहास-Uपनिषद् १८) इत्य् आद्या / तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य / एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतो दर्शनश्रवणादिकर्माविद्यामायाच् छन्नो ऽत एवात्मा न प्रकाशत आत्मत्वेन कस्यचित् / आहो ऽतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यद् अयं सर्वो जन्तुः परमार्थतः परमार्थसतत्त्वो ऽप्य् एवं बोध्यमानो ऽहं परमात्मेति न गृह्णाति, अनात्मानं देहेन्द्रियादिसङ्घातम् आत्मनो दृश्यमानम् अपि घटादिवद् आत्मत्वेनाहम् अमुष्य पुत्र इत्य् अनुच्यमानो ऽपि गृह्णाति / नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोको बम्भ्रमीति / तथा च स्मरणम् ᳚नाहं प्रकाशः सर्वस्य योगमायासमावृतः᳚ (Bह्G ७.२५) इत्य् आदि / ननु विरुद्धम् इदम् उच्यते ᳚मत्वा धीरो न शोचति᳚ (KअU २.२२) ᳚न प्रकाशते᳚ (KअU ३.१२) इति च / नैतद् एवम् / असंस्कृतबुद्धेर् अविज्ञेयत्वान् न प्रकाशत इत्य् उक्तम् / दृश्यते तु संस्कृतयाग्र्यया अग्रम् इवाग्र्यया तया, एकाग्रतयोपेतयेत्य् एतत् सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया / कैः / सूक्ष्मदर्शिभिर् इन्द्रियेभ्यः परा ह्य् अर्था इत्य् आदिप्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनस् तैः सूक्ष्मदर्शिभिः पण्डितैर् इत्य् एतत् // KअUBह्_३.१२/१,३.१२ //
SK
यच्छेद् वाङ्मनसी प्राज्ञस् तद् यच्छेज् ज्ञान आत्मनि / ज्ञानम् आत्मनि महति नियच्छेत् तद् यच्छेच् छान्त आत्मनि // KअU_३.१३/१,३.१३ //
SK
तत्प्रतिपत्त्युपायम् आह यच्छेन् नियच्छेद् उपसंहरेत् प्राज्ञो विवेकी / किम्? वाग्वाचम् / वागत्रोपलक्षणार्था सर्वेषाम् इन्द्रियाणाम् / क्व? मनसी / मनसि छान्दसं दैर्घ्यम् / तच् च मनो यच्छेज् ज्ञाने प्रकाशस्वरूपे बुद्धाव् आत्मनि / बुद्धिर् हि मन आदिकरणान्याप्नोतीत्य् आत्मा प्रत्यक् च तेषाम् / ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छेत् / प्रथमजवत् स्वच्छस्वभावकम् आत्मनो विज्ञानम् आपादयेद् इत्य् अर्थः / तञ् च महान्तम् आत्मानं यच्छेच् छान्ते सर्वविशेषप्रत्यस्तमितरूपे ऽविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्य आत्मनि // KअUBह्_३.१३/१,३.१३ //
SK
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत / क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस् तत् कवयो वदन्ति // KअU_३.१४/१,३.१४ //
SK
एवं पुरुष आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन् मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अतस् तद्दर्शनार्थम् अनाद्याप्रसुप्ता उत्तिष्ठत हे जन्तवः, आत्मज्ञानाभिमुखा भवत, जाग्रताज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत / कथम् / प्राप्योपगम्य वरान् प्रकृष्टान् आचार्यांस् तत्त्वविदः, तदुपदिष्टं सर्वान्तरम् आत्मानम् अहम् अस्मीति निबोधतावगच्छत / न ह्य् उपेक्षतव्यम् इति श्रुतिर् अनुकम्पयाह मातृवत् / अतिसूक्ष्मबुद्धिविषयत्वाज् ज्ञेयस्य / किम् इव सूक्ष्मबुद्धिर् इत्य् उच्यते / क्षुरस्य धाराग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया / यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसम्पाद्यम् इत्य् एतत् पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयो मेधाविनो वदन्ति / ज्ञेयस्यातिसूक्ष्मत्वात् तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्तीत्य् अभिप्रायः // KअUBह्_३.१४/१,३.१४ //
SK
तत्कथम् अतिसूक्ष्मत्वं ज्ञेयस्येत्य् उच्यते / स्थूला तावद् इयं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम् / तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमबादिषु यावद् आकाशम् इति / ते गन्धादयः सर्व एव स्थूलत्वाद् विकाराः शब्दान्ता यत्र न सन्ति किम् उ तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यम् इत्य् एतद् दर्शयति श्रुतिः --
SK
अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत् / अनाद्य् अनन्तं महतः परं ध्रुवं निचाय्य तन् मृत्युमुखात् प्रमुच्यते // KअU_३.१५/१,३.१५ //
SK
अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवच् च यद् एतद् व्याख्यातं ब्रह्माव्ययं यद् धि शब्दादिमत्तद्व्येतीदं त्व् अशब्दादिमत्त्वाद् अव्ययं न व्येति न क्षीयते, अत एव च नित्यम्, यद् धि व्येति तद् अनित्यम् इदं तु न व्येत्य् अतो नित्यम् / इतश् च नित्यम् अनाद्यविद्यमान आदिः कारणम् अस्य तद् इदम् अनादि / यद् ध्य् आदिमत्तत्कार्यत्वाद् अनित्यं कारणे प्रलीयते यथा पृथिव्यादि / इदं तु सर्वकारणत्वाद् अकार्यम् अकार्यत्वान् नित्यम्, न तस्य कारणम् अस्ति यस्मिन् प्रलीयते / तथानन्तम् अविद्यमानो ऽन्तः कार्यम् अस्य तद् अनन्तम् / यथा कदल्यादेः फलादिकार्योत्पादनेनाप्य् अनित्यत्वं दृष्टम्, न च तथाप्य् अन्तवत्त्वं ब्रह्मणो ऽतो ऽपि नित्यम् / महतो महत्तत्त्वाद् बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात् सर्वसाक्षि हि सर्वभूतात्मत्वाद् ब्रह्म / उक्तं हि ᳚एष सर्वेषु भूतेषु᳚ (KअU ३.१२) इत्य् आदि / ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवद् आपेक्षिकं नित्यत्वम् / तद् एवम्भूतं ब्रह्मात्मानं निचाय्यावगम्य तम् आत्मानं मृत्युमुखान् मृत्युगोचराद् अविद्याकामकर्मलक्षणात् प्रमुच्यते विमुच्यते // KअUBह्_३.१५/१,३.१५ //
SK
नाचिकेतम् उपाख्यानं मृत्युप्रोक्तं सनातनम् / उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते // KअU_३.१६/१,३.१६ //
SK
प्रस्तुतविज्ञानस्तुत्यर्थम् आह श्रुतिः -- नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदम् आख्यानम् उपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनं वैदिकत्वाद् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा चाचार्येभ्यो मेधावी ब्रह्मैव लोको ब्रह्मलोकस् तस्मिन् ब्रह्मलोके महीयत आत्मभूत उपास्यो भवतीत्य् अर्थः // KअUBह्_३.१६/१,३.१६ //
SK
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि / प्रयतः श्राद्धकाले वा तद् आनन्त्याय कल्पते तद् आनन्त्याय कल्पत इति // KअU_३.१७/१,३.१७ //
SK
इति काठकोपनिषदि तृतीया वल्ली
SK
यः कश्चिद् इमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेद् ग्रन्थतो ऽर्थतश् च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर् भूत्वा श्राद्धकाले वा श्रावयेद् भुञ्जानान् तच्छूद्धम् अस्यानन्त्यायानन्तफलाय कल्पते सम्पद्यते / द्विर् वचनम् अध्यायपरिसमाप्त्य् अर्थम् // KअUBह्_३.१७/१,३.१७ //
SK
इति कठवल्ल्यां तृतीयावल्लीभाष्यम्
SK
अथ द्वितीयो ऽध्यायः
SK
᳚एष सर्वेषु भूतेषु गूढो ऽत्मा न प्रकाशते दृश्यते त्व् अग्र्यया बुद्ध्या᳚ (KअU ३.१२) इत्य् उक्तम् / कः पुनः प्रतिबन्धो ऽग्रयाया बुद्धेर् येन तदभावाद् आत्मा न दृश्यत इति तददर्शनकारणप्रदर्शनार्था वल्ल्य् आरभ्यते / विज्ञाते हि श्रेयःप्रतिबन्धकारणे तदपनयनाय यत्न आरब्धुं शक्यते नान्यथेति --

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṭha Upaniṣad Śāṅkara-bhāṣya: corpustei HTML transform of the Kaṭha-bhāṣya.

Source