Commentary on the Katha Upanishad

Kaṭhopaniṣadbhāṣya · कठोपनिषद्भाष्यम्

Commentary on the Katha Upanishad

Kaṭhopaniṣadbhāṣya

कठोपनिषद्भाष्यम्

Valli 5

SK
पुरम् एकादशद्वारम् अजस्यावक्रचेतसः / अनुष्ठाय न शोचति विमुक्तश् च विमुच्यते // एतद् वै तत् // KअU_५.१/२,२.१ //
SK
पुरं पुरम् इव पुरम् / द्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनाच्छरीरं पुरम् / पुरश् च सोपकरणं स्वात्मनासंहतस्वतन्त्रस्वाम्यर्थं दृष्टम् / तथेदं पुरसामान्याद् अनेकोपकरणसंहतं शरीरं स्वात्मनासंहतराजस्थानीयस्वाम्यर्थं भवितुम् अर्हति / तच् चेदं शरीराख्यं पुरम् एकादशद्वारम् एकादश द्वाराण्य् अस्य सप्त शीर्षण्यानि, नाभ्या सहार्वाञ्चि त्रीणि, शिरस्य् एकम्, तैर् एकादशद्वारं पुरम् / कस्य? अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य / अवक्रचेतसो ऽवक्रम् अकुटिलम् आदित्यप्रकाशवन् नित्यम् एवावस्थितम् एकरूपं चेतो विज्ञानम् अस्येत्य् अवक्रचेतास् तस्यावक्रचेतसो राजस्थानीयस्य ब्रह्मणः / यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा / ध्यानं हि तस्यानुष्ठानं सम्यग् विज्ञानपूर्वकम् / तं सर्वैषणाविनिर्मुक्तः सन् समं सर्वभूतस्थं ध्यात्वा न शोचति / तद्विज्ञानाद् अभयप्राप्तेः शोकावसराभावात् कुतो भयेक्षा / इहैवाविद्याकृतकामकर्मबन्धनैर् विमुक्तो भवति / विमुक्तश् च सन् विमुच्यते पुनः शरीरं न गृह्णातीत्य् अर्थः // KअUBह्_५.१/२,२,१ //
SK
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् / नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् // KअU_५.२/२,२.२ //
SK
स तु नैकशरीरपुरवर्त्त्येवात्मा किं तार्हि सर्वपूरवर्ती / कथम् -- हंसो हन्ति गच्छतीति / शुचिषच्छुचौ दिव्यादित्यात्मना सीदतीति / वसुर् वासयति सर्वानिति / वाय्वात्मनान्तरिक्षे सीदतीत्य् अन्तरिक्षसत् / होताग्निः, ᳚अग्निर् वै होता᳚ इति श्रुतेः / वेद्यां पृथिव्यां सीदतीति वेदिषद् ᳚इयं वेदिः परो ऽन्तः पृथिव्याः᳚ (RS २,३.२०) इत्य् आदिमन्त्रवर्णात् / अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् / ब्राह्मणो ऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति / नृषनृषु मनुष्येषु सीदतीति / वरसद् वरेषु देवेषु सीदतीति / ऋतसद् ऋतं सत्यं यज्ञो वा तस्मिन् सीदतीति / व्योमसद् व्योम्न्याकाशे सीदतीति / अब्जा अप्सु शङ्खखशुक्तिमकरादिरूपेण जायत इति / गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति / ऋतजा यज्ञाङ्गरूपेण जायत इति / अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति / सर्वात्मापि सन्न् ऋतम् अवितथस्वभाव एव / बृहन् महान् सर्वकारणत्वात् / यदाप्य् आदित्य एव मन्त्रेणोच्यते तद् अप्य् आत्मस्वरूपत्वम् आदित्यस्याङ्गीकृतत्वाद् ब्राह्मणो व्याख्याने ऽप्य् अविरोधः / सर्वव्याप्य् एक एवात्मा जगतो नात्मभेद इति मन्त्रार्थः // KअUBह्_५.२/२,२.२ //
SK
ऊर्ध्वं प्राणम् उन्नयति अपानं प्रत्यग् अस्यति / मध्ये वामनम् आसीनं विश्वे देवा उपासते // KअU_५.३/२,२.३ //
SK
आत्मनः स्वरूपाधिगमे लिङ्गम् उच्यते -- ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयत्य् ऊर्ध्वं गमयति / तथापानं प्रत्यगधो ऽस्यति क्षिपति य इति वाक्यशेषः / तं मध्ये हृदयपुण्डरीकाकाश आसीनं बुद्धाव् अभिव्यक्तविज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाश् चक्षुरादयः प्राणा रूपादिविज्ञानं बलिम् उपाहरन्तो विश्व इव राजानम् उपासते तादर्थ्येनानुपरतव्यापारा भवन्तीत्य् अर्थः / यद् अर्था यत् प्रयुक्ताश् च सर्वे वायुकरणव्यापाराः, सो ऽन्यः सिद्ध इति वाक्यार्थः // KअUBह्_५.३/२,२.३ //
SK
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः / देहाद् विमुच्यमानस्य किम् अत्र परिशिष्यते // एतद् वै तत् // KअU_५.४/२,२.४ //
SK
किञ् चास्य शरीरस्थस्यात्मनो विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः / विस्रंसनशब्दार्थम् आह -- देहाद् विमुच्यमानस्येति / किम् अत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते ऽत्र देहे पुरस्वामिविद्रवण इव परवासिनां यस्यात्मनोपगमे क्षणमात्रात् कार्यकरणकलापरूपं सर्वम् इदं हतबलं विध्वस्तं भवति विनष्टं भवति सो ऽन्यः सिद्ध आत्मा // KअUBह्_५.४/२,२.४ //
SK
न प्राणेन नापानेन मर्त्यो जीवति कश्चन / इतरेण तु जीवन्ति यस्मिन्न् एताव् उपाश्रितौ // KअU_५.५/२,२.५ //
SK
स्यान् मतं प्राणापानाद्यपगमाद् एवेदं विध्वस्तं भवति न तु तद्व्यतिरिक्तात्मापगमात् प्राणादिभिर् एवेह मर्त्यो जीवतीति / नैतद् अस्ति / न प्राणेन नापानेन चक्षुरादिना वा मर्त्यो मनुष्यो देहवान् कश्चन जीवति न को ऽपि जीवति / न ह्य् एषां परार्थानां संहत्यकारित्वाज् जीवनहेतुत्वम् उपपद्यते / स्वार्थनासंहतेन परेण केनचिद् अप्रयुक्तं संहतानाम् अवस्थानं न दृष्टं यथा गृहादीनां लोके, तथा प्राणादीनाम् अपि संहतत्वाद् भवितुम् अर्हति / अत इतरेण इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहताः सन्तो जीवन्ति प्राणान् धारयन्ति / यस्मिन् संहतविलक्षण आत्मनि सति परस्मिन्न् एतौ प्राणापानौ चक्षुरादिभिः संहताव् उपाश्रितौ, यस्यासंहतस्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन् वर्तते संहतः सन् स ततो ऽन्यः सिद्ध इत्य् अभिप्रायः // KअUBह्_५.५/२,२.५ //
SK
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् / यथा च मरणं प्राप्य आत्मा भवति गौतम // KअU_५.६/२,२.६ //
SK
हन्तेदानीं पुनर् अपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि / यद् विज्ञानात् सर्वसंसारोपरमो भवति, अविज्ञानाच् च यस्य मरणं प्राप्य यथा चात्मा भवति यथात्मा संसरति तथा शृणु हे गौतम // KअUBह्_५.६/२,२.६ //
SK
योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः / स्थाणुम् अन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम् // KअU_५.७/२,२.७ //
SK
योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तो ऽन्ये केचिद् अविद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनो देहवन्तः, योनिं प्रविशन्तीत्य् अर्थः / स्थाणुं वृक्षादिस्थावरभावम् अन्ये ऽत्यन्ताधमा मरणं प्राप्यानुसंयन्त्य् अनुगच्छन्ति / यथाकर्म यद्य् अस्य कर्म तद्यथाकर्म यैर् यादृशं कर्मेह जन्मनि कृतं तद्वशेनेत्य् एतत् / तथा च यथाश्रुतं यादृशं च विज्ञानम् उपार्जितं तदनुरूपम् एव शरीरं प्रतिपद्यन्त इत्य् अर्थः / ᳚यथाप्रज्ञं हि संभवाः᳚ इति श्रुत्यन्तरात् // KअUBह्_५.७/२,२.७ //
SK
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः / तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते / तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन // एतद् वै तत् // KअU_५.८/२,२.८ //
SK
यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह -- य एष सुप्तेषु प्राणादिषु जागर्तिं न स्वपिति / कथम् / कामं कामं तं तम् अभिप्रेतं स्त्र्याद्यर्थम् अविद्यया निर्मिमाणो निष्पादयञ्जागर्तिं पुरुषो यः, तद् एव शुक्रं शुभ्रं शुद्धं तद् ब्रह्म नान्यद् गुह्यं ब्रह्मास्ति / तद् एवामृतम् अविनाश्य् उच्यते सर्वशास्त्रेषु / किञ् च पृथिव्यादयो लोकास् तस्मिन्न् एव सर्वे ब्रह्मणि श्रिता आश्रिताः सर्वलोककारणत्वात् तस्य / तद् उ नात्येति कश्चनेत्य् आदि पूर्ववद् एव // KअUBह्_५.८/२,२.८ //
SK
अग्निर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव / एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च // KअU_५.९/२,२.९ //
SK
अनेकतार्किककुबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नम् अप्य् आत्मैकत्वविज्ञानम् असकृद् उच्यमानम् अप्य् अनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादन आदरवती पुनः पुनर् आह श्रुतिः -- अग्निर् यथैक एव प्रकाशात्मा सन् भुवनं भवन्त्य् अस्मिन् भूतानीति भुवनम् अयं लोकस् तम् इमं प्रविष्टो ऽनुप्रविष्टः, रूपं रूपं प्रति दार्वादिदाह्यभेदं प्रतीत्य् अर्थः, प्रतिरूपस् तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव / एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानाम् अभ्यन्तर आत्मातिसूक्ष्मत्वाद् दार्वादिष्व् इव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश् च स्वेनाविकृतेन स्वरूपेणाकाशवत् // KअUBह्_५.९/२,२.९ //
SK
वायुर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव / एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च // KअU_५.१०/२,२.१० //
SK
तथान्यो दृष्टान्तः -- वायुर् यथैक इत्य् आदि / प्राणात्मना देहेष्व् अनुप्रविष्टो, रूपं रूपं प्रतिरूपो बभूवेत्य् आदि समानम् // KअUBह्_५.१०/२,२.१० //
SK
सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्यदोषैः / एकस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः // KअU_५.११/२,२.११ //
SK
एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्याद् इति प्राप्त इदम् उच्यते -- सूर्यो यथा चक्षुष आलोकेनोपकारं कुर्वन् मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुर् अपि सन् न लिप्यते चाक्षुषैर् अशुच्यादिदर्शननिमित्तैर् आध्यात्मिकैः पापदोषैर् बाह्यैश् चाशुच्यादिसंसङ्गदोषैर् एकः संस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः / लोको ह्य् अविद्यया स्वात्मन्य् अध्यस्तया कामकर्मोद्भवं दुःखम् अनुभवति / न तु सा परमार्थतः स्वात्मनि / यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात् तद् दोषवद्विभाव्यन्ते / न तद्दोषैस् तेषां लेपो विपरीतबुद्ध्यध्यासबाह्या हि ते / तथात्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखम् अनुभवति, न त्व् आत्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन / कुतो बाह्यो रज्ज्वादिवद् एव विपरीतबुद्ध्यध्यासबाह्यो हि स इति // KअUBह्_५.११/२,२.११ //
SK
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति / तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् // KअU_५.१२/२,२.१२ //
SK
किञ् च स हि परमेश्वरः सर्वगतः स्वतन्त्र एको न तत्समो ऽभ्यधिको वान्यो ऽस्ति / वशी सर्वं ह्य् अस्य जगद्वशे वर्तते / कुतः? सर्वभूतान्तरात्मा / यत एकम् एव सदेकरसम् आत्मानं विशुद्धविज्ञानरूपं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधानेकप्रकारं यः करोति स्वात्मसत्तामात्रेणाचिन्त्यशक्तित्वात् तम् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेणाभिव्यक्तम् इत्य् एतत् / न हि शरीरस्याधारत्वम् आत्मनः / आकाशवद् अमूर्तत्वात् / आदर्शस्थं मुखम् इति यद्वत् / तम् एतम् ईश्वरम् आत्मानं ये निवृत्तबाह्यवृत्तयो ऽनुपश्यन्त्य् आचार्यागमोपदेशम् अनु साक्षाद् अनुभवन्ति धीरा विवेकिनस् तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्यासक्तबुद्धीनाम् अविवेकिनां स्वात्मभूतम् अप्य् अविद्याव्यवधानात् // KअUBह्_५.१२/२,२.१२ //
SK
नित्यो ऽनित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् / तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषं शान्तिः शाश्वती नेतरेषाम् // KअU_५.१३/२,२.१३ //
SK
किञ् च नित्यो ऽविनाश्यनित्यानां विनाशिनाम् / चेतनश् चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम् अग्निनिमित्तम् इव दाहकत्वम् अनग्नीनाम् उदकादीनाम् आत्मचैतन्यनिमित्तम् एव चेतयितृत्वम् अन्येषाम् / किञ् च स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्ताश् च कामान्य् एको बहूनाम् अनेकेषामनायासेन विदधाति प्रयच्छतीत्य् एतत् / ताम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां शान्तिर् उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यान् नेतरेषाम् अनेवं विधानाम् // KअUBह्_५.१३/२,१.१३ //
SK
तद् एतद् इति मन्यन्ते ऽनिर्देश्यं परमं सुखम् / कथं नु तद् विजानीयां किम् उ भाति विभाति वा // KअU_५.१४/२,२.१४ //
SK
यत् तद् आत्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुम् अशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोर् अगोचरम् अपि सन् निवृत्तैषणा ये ब्राह्मणास् त एतत् प्रत्यक्षम् एवेति मन्यन्ते, कथं नु केन प्रकारेण तत् सुखम् अहं विजानीयाम् / इदम् इत्य् आत्मबुद्धिविषयम् आपादयेयं यथा निवृत्तैषणा यतयः / किम् उ तद् भाति दीप्यते प्रकाशात्मकं तद् यतो ऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा नेति // KअUBह्_५.१४/२,१.१४ //
SK
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः / तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति // KअU_५.१५/२,२.१५ //
SK
अत्रोत्तरम् इदं भाति च विभाति चेति / कथम्? न तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वावभासको ऽपि सूर्यो भाति तद् ब्रह्म न प्रकाशयतीत्य् अर्थः / तथा न चन्द्रतारकम्, नेमा विद्युतो भान्ति, कुतो ऽयम् अस्मद्दृष्टिगोचरो ऽग्निः / किं बहुना, यद् इदम् आदिकं सर्वं भाति तत् तम् एव परमेश्वरं भान्तं दीप्यमानम् अनुभात्य् अनुदीप्यते / तथा जलोल्मुकाद्य् अग्निसंयोगाद् अग्निं दहन्तम् अनुदहति न स्वतस् तद्वत् / तस्यैव भासा दीप्त्या सर्वम् इदं सूर्यादि विभति / यत एवं तद् एव ब्रह्म भाति च विभाति च / कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतो ऽवगम्यते / न हि स्वतो ऽविद्यमानं भासनम् अन्यस्य कर्तुं शक्तम् / घटादीनाम् अन्यावभासकत्वादर्शनाद् भारूपाणां चादित्यादीनां तद्दर्शनात् // KअUBह्_५.१५/२,२.१५ //
SK
इति कठवल्ल्यां पञ्चमवल्ली भाष्यम्
SK
अथ षष्ठ वल्ली /
SK
तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्राह्मणः स्वरूपावदिधारयिषयेयं षष्ठी वल्ल्य् आरभ्यते --

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṭha Upaniṣad Śāṅkara-bhāṣya: corpustei HTML transform of the Kaṭha-bhāṣya.

Source