Commentary on the Katha Upanishad
Kaṭhopaniṣadbhāṣya
कठोपनिषद्भाष्यम्
SKŚअंकर (अत्त्रिब्.): Kअठोपनिषद्भाष्य
SKॐ सह नाव् अवतु / सह नौ भुनक्तु / सह वीर्यं करवावहै // तेजस्वि नावधीतमस्तु मा विद्विषावहै // ॐ शान्तिः शान्तिः शान्तिः //
SKॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च / अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थम् अल्पग्रन्था वृत्तिर् आरभ्यते / सदेर् धातोर् विशरणगत्यवसाद् अनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपम् इदम् उपनिषद् इति / उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते / केन पुनर् अर्थयोगेनोपनिषच्छब्देन विद्योच्यत इत्य् उच्यते / ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादेः संसारबिजस्य विशरणाद् धिंसनाद् विनाशनाद् इत्य् अनेनार्थयोगेन विद्योपनिषद् इत्य् उच्यते / तथा च वक्ष्यति ᳚निचाय्य तं मृत्युमुखात् प्रमुच्यते᳚ (KअU ३.१५) इति / पूर्वोक्तविशेषणान् वा मुमुक्षून् परं ब्रह्म गमयतीति ब्रह्मगमयितृत्वेन योगाद् ब्रह्मविद्योपनिषत् / तथा च वक्ष्यति ᳚ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युः᳚ (KअU ३.१८) इति / लोकादिर् ब्रह्मजज्ञो यो ऽग्निस् तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगाद् अग्निविद्याप्य् उपनिषद् इत्य् उच्यते / तथा च वक्ष्यति ᳚स्वर्गलोका अमृतत्वं भजन्ते᳚ (KअU १.१३) इत्य् आदि / ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थम् अप्य् अभिलपन्ति / उपनिषदम् अधीमह उपनिषदम् अध्यापयाम इति च / नैष दोषः, अविद्यादिसंसारहेतुविशरणादेः सदि धात्वर्थस्य ग्रन्थमात्रे ऽसम्भवाद् विद्यायां च सम्भवात् / ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेर् आयुर् वै धृतम् इत्य् आदिवत् / तस्माद् विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति / एवम् उपनिषन्निर्वचनेनैव विशिष्टो ऽधिकारी विद्यायाम् उक्तः / विषयश् च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् / प्रयोजनं चास्या उपनिषद आत्यन्तिकी संसारनिवृत्तिर् ब्रह्मप्राप्तिलक्षणा / सम्बन्धश् चैवं भूतप्रयोजनेनोक्तः / अतो यथोक्ताधिकारिविषयप्रयोजनसम्बन्धाया विद्यायाः करतलन्यस्तामलकवत् प्रकाशकत्वेन विशिष्टाधिकारिविषयप्रयोजनसम्बन्धा एता वल्ल्यो भवन्तीति / अतस् ता यथाप्रतिभानं व्याचक्ष्महे /