Commentary on the Katha Upanishad
Kaṭhopaniṣadbhāṣya
कठोपनिषद्भाष्यम्
SKअन्यच् छ्रेयो ऽन्यद् उतैव प्रेयस् ते उभे नानार्थे पुरुषं सिनीतः / तयोः श्रेय आददानस्य साधु भवति हीयते ऽर्थाद् य उ प्रेयो वृणीते // KअU_२.१/१,२.१ //
SKअन्यत् पृथग् एव श्रेयो निःश्रेयसं तथान्यद् उतैवापि च प्रेयः प्रियतरम् अपि ते प्रेयः श्रेयस्य् उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतो बध्नीतस् ताभ्यां विद्याविद्याभ्याम् आत्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः / श्रेयः प्रेयसोर् ह्य् अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते / अतः श्रेयः प्रेयः प्रयोजनकर्तव्यतया, ताभ्यां बुद्ध इत्य् उच्यते सर्वः पुरुषः / ते यद्य् अप्य् एकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वाद् विरुद्धे इत्य् अन्यतरापरित्यागेनैकेन पुरुषेन सहानुष्ठातुम् अशक्यत्वात् तयोर् हित्वाविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्योपादानं कुर्वतः साधु शोभनं शिवं भवति / यस् त्व् अदूरदर्शी विमूढो हीयते वियुज्यते ऽर्थात् पुरुषार्थात् पारमार्थिकात् प्रयोजनान् नित्यात् प्रच्यवत इत्य् अर्थः / को ऽसौ य उ प्रेयो वृणीत उपादत्त इत्य् एतत् // KअUBह्_२.१/१,२.१ //
SKश्रेयश् च प्रेयश् च मनुष्यम् एतस् तौ संपरीत्य विविनक्ति धीरः / श्रेयो हि धीरो ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते // KअU_२.२/१,२.२ //
SKयद्य् उभे ऽपि कर्तुं स्वायत्ते पुरुषेण, किम् अर्थं प्रेय एवादत्ते बाहुल्येन लोक इत्य् उच्यते -- सत्यं स्वायत्ते, तथापि साधनतः फलतश् च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूत इव मनुष्यं पुरुषम् एतः प्राप्नुतः श्रेयश् च प्रेयश् च / अतो हंस इवाम्भसः पयः, तौ श्रेयः प्रेयः पदार्थौ सम्परीत्य सम्यक् परिगम्य मनासालोच्य गुरुलाघवं विविनक्ति पृथक् करोति धीरो धीमान् / विविच्य च श्रेयो हि श्रेय एवाभिवृणीते प्रेयसो ऽभ्यर्हितत्वात् / को ऽसौ धीरः / यस् तु मन्दो ऽल्पबुद्धिः स सदसद्विवेकासामर्थ्याद् योगक्षेमाद् योगक्षेमनिमितं शरीराद्युपचयरक्षणनिमित्तम् इत्य् एतत् प्रेयः पशुपुत्रादिलक्षणं वृणीते // KअUBह्_२.२/१,२.२ //
SKस त्वं प्रियान् प्रियरूपांश् च कामान् अभिध्यायन् नचिकेतो ऽत्यस्राक्षीः / नैतां सृङ्कां वित्तमयीम् अवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः // KअU_२.३/१,२.३ //
SKस त्वं पुनः पुनर् मया प्रलोभ्यमानो ऽपि प्रियान् पुत्रादीन् प्रियरूपांश् चाप्सरःप्रभृतिलक्षणान् कामान् अभिध्यायंश् चिन्तयंस् तेषाम् अनित्यत्वासारत्वादिदोषान् हे नचिकेतोत्यस्त्राक्षीरतिसृष्टवान् परित्यक्तवान् अस्यहो बुद्धिमत्ता तव / नैताम् अवाप्तवान् असि सृङ्क्तां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयी धनप्रायाम् / यस्यां सृतौ मज्जन्ति सीदन्ति बहवो ऽनेके मूढा मनुष्याः // KअUBह्_२.३/१,२.३ //
SKदूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता / विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्त // KअU_२.४/१,२.४ //
SK᳚तयोः, श्रेय आददनस्य साधु भवति हीयते ऽर्थाद्य उ प्रेयो वृणीते᳚ (KअU २.१) इत्य् उक्तं तत्कस्मात् ? यतो दूरं दूरेण महतान्तरेणैते विपरीत अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात् तमःप्रकाशाव् इव विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्य् एतत् / के त इत्य् उच्यते -- या चाविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्ज्ञातावगता पण्डितैस् तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वाम् अहं मन्ये / कस्माद् यस्माद् अविद्वद् बुद्धिप्रलोभिनः कामा अप्सरःप्रभृतयो बहवो ऽपि त्वा त्वां नालोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गाद् आत्मोपभोगाभिवाञ्छासम्पादनेन / अतो विद्यार्थिनं श्रेयोभाजनं मन्य इत्य् अभिप्रायः // KअUBह्_२.४/१,२.४ //
SKअविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः / दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः // KअU_२.५/१,२.५ //
SKये तु संसारभाजो जना अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसि वर्तमाना वेष्ट्यमानाः पुत्रपश्वादितृष्णापाशशतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलश् चेति मन्यमानास् ते दन्द्रम्यमाणा अत्यर्थं कुटिलाम् अनेकरूपां गतिं गच्छन्तो जरामरणरोगादिदुःखैः परियन्ति परिगच्छन्ति मूढा अविवेकिनो ऽन्धेनैव दृष्टिविहीनेनैव नीयमाना विषमे पथि यथा बहवोन्धा महान्तम् अनर्थम् ऋच्छन्ति तद्वत् // KअUBह्_२.५/१,२.५ //
SKन साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् / अयं लोको नास्ति पर इति मानी पुनः पुनर् वशम् आपद्यते मे // KअU_२.६/१,२.६ //
SKअत एव मूढत्वान् न साम्परायः प्रतिभाति / सम्परेयत इति साम्परायः परलोकस् तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्य् एतत् / प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेष्व् आसक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेनाविवेकेन मूढं तमसाच्छन्नम् / स त्व् अयम् एव लोको यो ऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टो नास्ति परो ऽदृष्टो लोक इत्य् एवं मननशीलो मानी पुनः पुनर् जनित्वा वशं मे ऽधीनतामापद्यते मृत्योर् मम जननमरणादिलक्षणदुःखप्रबन्धारूढ एव भवतीत्य् अर्थः / प्रायेण ह्य् एवंविध एव लोकः // KअUBह्_२.६/१,२.६ //
SKश्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः / आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः // KअU_२.७/१,२.७ //
SKयस् तु श्रेयोर्थी सहस्रेषु कश्चिद् एवात्मविद्भवति त्वद् विधो यस्माच् छ्रवणायापि श्रवणार्थं श्रोतम् अपि यो न लभ्य आत्मा बहुभिर् अनेकैः शृण्वन्तो ऽपि बहवो ऽनेके ऽन्ये यम् आत्मानं न विद्युर् न विदन्त्य् अभागिनो ऽसंस्कृतात्मानो न विजानीयुः / किञ् चास्य वक्ताप्य् आश्चर्यो ऽद्भुतवद् एवानेकेषु कश्चिद् एव भवति / तथा श्रुत्वाप्य् अस्यात्मनः कुशलो निपुण एवानेकेषु लब्धा कश्चिद् एव भवति / यस्माद् आश्चर्यो ज्ञाता कश्चिद् एव कुशलानुशिष्टः कुशलेन निपुणेनाचार्येणानुशिष्टः (संशिक्षित इत्य् अध्याहार्यम्) सन् // KअUBह्_२.७/१,२.७ //
SKन नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः / अनन्यप्रोक्ते गतिर् अत्र नास्त्य् अणीयान् ह्य् अतर्क्यम् अणुप्रमाणात् // KअU_२.८/१,२.८ //
SKकस्मात् ? न हि नरेण मनुष्येणावरेण प्रोक्तो ऽवरेण हीनेन प्रकृतबुद्धिनेत्य् एतद् उक्त एष आत्मा यं त्वं मां पृच्छसि / न हि सुष्ठु सम्यग् विज्ञेयो विज्ञातुं शक्यो यस्माद् बहुधास्ति नास्ति कर्ताकर्ता शुद्धो ऽशुद्ध इत्य् आद्यनेकधा चिन्त्यमानो वादिभिः / कथं पुनः सुविज्ञेय इत्य् उच्यते -- अनन्यप्रोक्ते ऽनन्येनापृथग् दर्शिनाचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्त उक्त आत्मनि गतिर् अनेकधास्तिनास्तीत्य् आदिलक्षणा चिन्ता गतिर् अत्रास्मिन्न् आत्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितत्वाद् आत्मनः / अथवा स्वात्मभूते ऽनन्यस्मिन्न् आत्मनि प्रोक्ते ऽनन्यप्रोक्ते गतिर् अत्रान्यावगतिर् नास्ति ज्ञेयस्यान्यस्याभावात् / ज्ञानस्य ह्य् एषा परा निष्ठा यद् आत्मैकत्वविज्ञानम् / अतो ऽवगन्तव्याभावान् न गतिर् अत्रावशिष्यते, संसारगतिर् वात्र नास्त्य् अनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात् तद्विज्ञानफलस्य मोक्षस्य / अथवा प्रोच्यमानब्रह्मात्मभूतेनाचार्येणानन्यतया प्रोक्त आत्मन्य् अगतिर् अनवबोधो ऽपरिज्ञानम् अत्र नास्ति / भवत्य् एवावगतिस् तद्विषया श्रोतुस् तदनन्यो ऽहम् इत्य् आचार्यस्येवेत्य् अर्थः / एवं सुविज्ञेय आत्मागमवताचार्येणानन्यतया प्रोक्तः / इतरथा ह्य् अणीयान् अणुतरो ऽणुप्रमाणाद् अपि सम्पद्यत आत्मा / अतर्क्यम् अतर्क्यः स्वबुद्ध्यभ्यूहेन केवलेन तर्केण / तर्क्यमाणे ऽणुपरिमाणे केनचित् स्थापित आत्मनि ततो ऽणुतरम् अन्यो ऽभ्यूहति, ततो ऽप्य् अन्यो ऽणुतरम्, इति न हि तर्कस्य निष्ठा क्वचिद् विद्यते // KअUBह्_२.८/१,२.८ //
SKनैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ / यां त्वम् आपः सत्यधृतिर् बतासि त्वादृङ् नो भूयान् नचिकेतः प्रेष्टा // KअU_२.९/१,२.९ //
SKअतो ऽनन्यप्रोक्त आत्मन्य् उत्पन्ना येयम् आगमप्रतिपाद्यात्ममतिर् नैषा तर्केण स्वबुद्ध्याभ्यूहमात्रेणापनेया न प्रापणीयेत्य् अर्थः / नापनेतव्या वा, न हातव्या / तार्किको ह्य् अनागम् अज्ञः स्वबुद्धिपरिकल्पितं यत् किञ्चिद् एव कल्पयति / अत एव च येयम् आगमप्रभूता मतिस् तार्किकाद् अन्येनैवागमाभिज्ञेनाचार्येणैव प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम / का पुनः सा तर्कागम्या मतिर् इत्य् उच्यते / यां त्वं मतिं मद्वरप्रदानेनापः प्राप्तवान् असि / सत्या अवितथविषया धृतिर् यस्य तव स त्वं सत्यधृतिः / बतासीत्य् अनुकम्पयन्न् आह मृत्युर् नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये / त्वादृक् त्व् अतुल्यो नो ऽस्मभ्यं भूयाद् भवताद्भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा / कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा // KअUBह्_२.९/१,२.९ //
SKजानाम्य् अहं शेवधिर् इत्य् अनित्यं न ह्य् अध्रुवैः प्राप्यते हि ध्रुवं तत् / ततो मया नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः प्राप्तवान् अस्मि नित्यम् // KअU_२.१०/१,२.१० //
SKपुनर् अपि तुष्ट आह -- जानाम्य् अहं शेवधिर् निधिः कर्मफललक्षणो निधिर् इव प्राथ्यत इति / असाव् अनित्यम् अनित्य इति जानामि / न हि यस्माद् अनित्यैर् अध्रुवैर् यन् नित्यं ध्रुवं तत्प्राप्यते परमात्माख्यः शेवधिः / यस् त्व् अनित्यसुखात्मकः शेवधिः स एवानित्यैर् द्रव्यैः प्राप्यते हि यतस् ततस् तस्मान् मया जानतापि नित्यम् अनित्यसाधनैः प्राप्यत इति नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतो ऽग्निर् निर्वर्तित इत्य् अर्थः / तेनाहम् अधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यम् आपेक्षिकं प्राप्तवान् अस्मि // KअUBह्_२.१०/१,२.१० //
SKकामस्य आप्तिं जगतः प्रतिष्ठां क्रतोर् अनन्त्यम् अभयस्य पारम् / स्तोममहद् उरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः // KअU_२.११/१,२.११ //
SKत्वं तु कामस्याप्तिं समाप्तिम्, अत्रैव हि सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठामाश्रयं सर्वात्मकत्वात्, क्रतोर् उपासनायाः फलं हैरण्यगर्भपदम् अनन्त्यमानन्त्यम् / अभयस्य च पारं परां निष्ठाम् / स्तोमं स्तुत्यं महदणिमाद्यैश्वर्याद्यनेकगुणसंहतम्, स्तोमं च तन्महच् च निरतिशयत्वात् स्तोममहत् / उरुगायं विस्तीर्णां गतिम् / प्रतिष्ठां स्थितिम् आत्मनो ऽनुत्तमाम् अपि दृष्ट्वा धृत्या धैर्येण धीगे धीमान् सन् नचिकेतो ऽत्यस्राक्षीः परम् एवाकाङ्क्षन्न् अतिसृष्ट्वान् असि सर्वम् एतत् संसारभोगजातम् / अहो बतानुत्तमगुणो ऽसि // KअUBह्_२.११/१,२.११ //
SKतं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् / अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति // KअU_२.१२/१,२.१२ //
SKयं त्वं ज्ञातुम् इच्छस्य् आत्मानं तं दुर्दर्शं दुःखेन दर्शनम् अस्येति दुर्दर्शो ऽतिसूक्ष्मत्वात् तं गूढं गहनम्, अनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्नम् इत्य् एतत् / गुहाहितं गुहायां बुद्धौ स्थितं तत्रोपलभ्यमानत्वात् / गह्वरेष्ठं गह्वरे विषमे ऽनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् / यत एवं गूढम् अनुप्रविष्टो गुहाहितश् चातो गह्वरेष्ठो ऽतो दुर्दर्शः / तं पुराणं पुरातनम् अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानम् अध्यात्मयोगस् तस्याधिगमस् तेन मत्वा देवम् आत्मानं धीरो हर्षशोकाव् आत्मन उत्कर्षापकर्षयोर् अभावज् जहाति // KअUBह्_२.१२/१,२.१२ //
SKएतच् छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य / स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये // KअU_२.१३/१,२.१३ //
SKकिञ् च, एतद् आत्मतत्त्वं यद् अहं वक्ष्यामि तच् छुत्वाचार्यप्रसादात् सम्यग् आत्मभावेन परिगृह्योपादाय मर्त्यो मरणधर्मा धर्माद् अनुपेतं धर्म्यं प्रवृह्योद्यम्य पृथक् कृत्य शरीरादेर् अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य स मर्त्यो विद्वान् मोदते मोदनीयं हर्षणीयम् आत्मानं लब्ध्वा / तद् एतद् एवंविधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्य इत्य् अभिप्रायः // KअUBह्_२.१३/१,२.१३ //
SKअन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् / अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद // KअU_२.१४/१,२.१४ //
SKएतच् छ्रुत्वा नचिकेताः पुनर् आह -- यद्य् अहं योग्यः, प्रसन्नश् चासि भगवन् मां प्रति, अन्यत्र धर्माच् छास्त्रीयाद् धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश् च पृथग् भूतम् इत्य् अर्थः / तथान्यत्राधर्माद् विहिताकरणरूपात् पापात्, तथान्यत्रास्मात् कृताकृतात् / कृतं कार्यम् अकृतं कारणम् अस्माद् अन्यत्र / किञ् चान्यत्र भूताच् चातिक्रान्तात् कालाद् भव्याच् च भविष्यतश् च तथा वर्तमानात् / कालत्रयेण यन् न परिच्छिद्यत इत्य् अर्थः / यद् ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद्वद मह्यम् // KअUBह्_२.१४/१,२.१४ //
SKसर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति / यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ब्रवीम्य् ओम् इत्य् एतत् // KअU_२.१५/१,२.१५ //
SKइत्य् एवं पृष्टवते मृत्युर् उवाच पृष्टं वस्तु विशेषणान्तरं च विवक्षन् -- सर्वे वेदा यत् पदं पदनीयं गमनीयम् अविभागेनाविरोधेनामनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद् वदन्ति यत् प्राप्त्यर्थानीत्य् अर्थः / यद् इच्छन्तो ब्रह्मचर्यं गुरुकुलवासलक्षणम् अन्यद् वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज् ज्ञातुम् इच्छसि सङ्ग्रहेण सङ्क्षेपतो ब्रवीमि, ओम् इत्य् एतत् / तद् एतत् पदं यद् बुभुत्सितं त्वया / यद् एतद् ओम् इत्य् ॐ शब्दवाच्यम् ॐ शब्दप्रतीकं च // KअUBह्_२.१५/१,२.१५ //
SKएतद् ध्य् एवाक्षरं ब्रह्म एतद् ध्य् एवाक्षरं परम् / एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत् // KअU_२.१६/१,२.१६ //
SKअत एतद् ध्य् एवाक्षरं ब्रह्मापरम् एतद् ध्य् एवाक्षरं परं च / तयोर् हि प्रतीकम् एतद् अक्षरम् / एतद् ध्य् एवाक्षरं ज्ञात्वोपास्य ब्रह्मेति, यो यद् इच्छति परमपरं वा तस्य तद् भवति / परं चेज् ज्ञातव्यम् अपरं चेत् प्राप्तव्यम् // KअUBह्_२.१६/१,२.१६ //
SKएतद् आलम्बनं श्रेष्ठम् एतद् आलम्बनं परम् / एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते // KअU_२.१७/१,२.१७ //
SKयत एवम् अत एव एतद् आलम्बनं ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम् / एतद् आलम्बनं परमपरं च परापरब्रह्मविषयत्वात् / एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते / परस्मिन् ब्रह्मण्य् अपरस्मिंश् च ब्रह्मभूतो ब्रह्मवद् उपास्यो भवतीत्य् अर्थः // KअUBह्_२.१७/१,२.१७ //
SK᳚अन्यत्र धर्मात्᳚ (KअU २.१५) इत्य् आदिना पृष्टस्यात्मनो ऽशेषविशेषरहितस्यालम्बनत्वेन प्रतीकत्वेन चोङ्कारो निर्दिष्टः / अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तॄन् प्रति // अथेदानीं तस्योङ्कारालम्बनस्यात्मनः साक्षात् स्वरूपनिर्दिधारयिषयेदम् उच्यते --
SKन जायते म्रियते वा विपश्चिन् नायं कुतश्चिन् न बभूव कश्चित् / अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे // KअU_२.१८/१,२.१८ //
SKन जायते नोत्पद्यते म्रियते वा न म्रियते चोत्पत्तिमतो वस्तुनो ऽनित्यस्यानेका विक्रियास् तासाम् आद्यन्ते जन्मविनाशलक्षणे विक्रिय इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति / विपश्चिन्मेधावी, अविपरिलुप्तचैतन्यस्वभावात् / किञ् च नायम् आत्मा कुतश्चित् कारणान्तराद् बभूव न प्रभूतः / अस्माच् चात्मनो न बभूव कश्चिद् अर्थान्तरभूतः / अतो ऽयम् आत्माजो नित्यः शाश्वतो ऽपक्षयविवर्जितः / यो ह्य् अशाश्वतः सो ऽपक्षीयते, अयं तु शाश्वतो ऽत एव पुराणः पुरापि नव एवेति / यो ह्य् अवयवोपचयद्वारेणाभिनिर्वर्त्यते स इदानीं नवो यथाङ्करादिस् तद्विपरीतस् त्व् आत्मा पुराणो वृद्धिविवर्जित इत्य् अर्थः / यत एवम् अतो न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे / तत्स्थो ऽप्य् आकाशवद् एव // KअUBह्_२.१८/१,२.१८ //
SKहन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् / उभौ तौ न विजानीतो नायं हन्ति न हन्यते // KअU_२.१९/१,२.१९ //
SKएवं भूतम् अप्य् आत्मानं शरीरमात्रात्मदृष्टिर् हन्ता चेद् यदि मन्यते चिन्तयति हन्तुं हनिष्याम्य् एनम् इति यो ऽप्य् अन्यो हतः सो ऽपि चेन् मन्यते हतम् आत्मानं हतो ऽहम् इत्य् उभाव् अपि तौ न विजानीतः स्वम् आत्मानम्, यतो नायं हन्त्य् अविक्रियत्वाद् आत्मनस् तथा न हन्यत आकाशवद् अविक्रियत्वाद् एव / अतो ऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारो नात्मज्ञस्य श्रुतिप्रामाण्यान्न्यायाच्चधर्माधर्माद्यनुपपत्तेः // KअUBह्_२.१९/१,२.१९ //
SKअणोर् अणीयान् महतो महीयान् आत्मास्य जन्तोर् निहितो गुहायाम् / तम् अक्रतुः पश्यति वीतशोको धातुप्रसादान् महिमानम् आत्मनः // KअU_२.२०/१,२.२० //
SKकथं पुनर् आत्मानं जानातीत्य् उच्यते -- अणोः सूक्ष्माद् अणीयाञ् श्यामाकादेर् अणुतरः / महतो महत्परिमाणान् महीयान् महत्तरः पृथिव्यादेः / अणु महद् वा यद् अस्ति लोके वस्तु तत् तेनैवात्मना नित्येनात्मवत् सम्भवति / तद् आत्मना विनिर्मुक्तम् असत् सम्पद्यते / तस्माद् असाव् एवात्माणोर् अणीयान् महतो महीयान् सर्वनामरूपवस्तूपाधिकत्वात् / स चात्मास्य जन्तोर् ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहित आत्मभृतः स्थित इत्य् अर्थः / तम् आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गम् अक्रतुर् अकामो, दृष्टादृष्टबाह्यविषयोपरतबुद्धिर् इत्य् अर्थः / यदा चैवं तदा मन आदीनि करणानि धातवः शरीरस्य धारणात् प्रसीदन्तीत्य् एषां धातूनां प्रसादाद् आत्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यत्य् अयम् अहम् अस्मीति, साक्षाद् विजानाति / ततो वीतशोको भवति // KअUBह्_२.२०/१,२.२० //
SKअन्यथा दुर्विज्ञेयो ऽयम् आत्मा कामिभिः प्राकृतपुरुषैः, यस्मात्
SKआसीनो दूरं व्रजति शयानो याति सर्वतः / कस् तं मदामदं देवं मद् अन्यो ज्ञातुम् अर्हति // KअU_२.२१/१,२.२१ //
SKआसीनो ऽवस्थितो ऽचल एव सन् दूरं व्रजति शयानो याति सर्वतः, एवम् असाव् आत्मा देवो मदामदः समदो ऽमदश् च सहर्षो ऽहर्षश् च विरुद्धधर्मवान् अतो ऽशक्यत्वाज् ज्ञातुं कस् तं मदामदं देवं मदन्यो ज्ञातुम् अर्हति / अस्मदादेर् एव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयो ऽयम् आत्मा स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधित्वाद् विरुद्धधर्मवान् विश्वरूप इव चिन्तामणिवत् कस्यचिद् अवभासते / अतो दुर्विज्ञेयत्वं दर्शयति कस् तं मदन्यो ज्ञातुम् अर्हतीति / करणानाम् उपशमः शयनं करणजनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति / यदा चैवं केवलसामान्यविज्ञानत्वात् सर्वतो यातीव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मन आदिगतिषु तदुपाधिकत्वाद् दूरं व्रजतीव स चेहैव वर्तते // KअUBह्_२.२१/१,२.२१ //
SKअशरीरं शरीरेषु अनवस्थेष्व् अवस्थितम् / महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति // KअU_२.२२/१,२.२२ //
SKतद्विज्ञानाच् च शोकात्यय इत्य् अपि दर्शयति -- अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेष्व् अनवस्थेष्व् अवस्थितिर् अहितेष्व् अनित्येष्व् अवस्थितं नित्यम् अविकृतम् इत्य् एतत् / महान्तं महत्त्वस्योपेक्षिकत्वसङ्कायाम् आह विभुं व्यापिनम् आत्मानम् / आत्मग्रहणं स्वतो ऽनन्यत्वप्रदर्शनार्थम् / आत्मशब्दः प्रत्यगात्मविषय एव मुख्यस् तम् ईदृशम् आत्मानं मत्वायम् अहम् इति, धीरो धीमान् न शोचति / न ह्य् एवंविधस्यात्मविदः शोकोपपत्तिः // KअUBह्_२.२२/१,२.२२ //
SKनायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् // KअU_२.२३/१,२.२३ //
SKयद्य् अपि दुर्विज्ञेयो ऽयम् आत्मा तथाप्य् उपायेन सुविज्ञेय एवेत्य् आह नायम् आत्मा प्रवचनेनानेकवेदस्वीकरणेन लभ्यो ज्ञेयो, नापि मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन केवलेन / केन तर्हि लभ्य इत्य् उच्यते -- यम् एव स्वात्मानम् एष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयम् आत्मा लभ्यो ज्ञायत इत्य् एतत् / निष्कामश् चात्मानम् एव प्रार्थयते, आत्मनैवात्मा लभ्यत इत्य् अर्थः / कथं लभ्यत इत्य् उच्यते -- तस्यात्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनूं स्वां स्वकीयां स्वयाथात्म्यम् इत्य् अर्थः // KअUBह्_२.२३/१,२.२३ //
SKनाविरतो दुश्चरितान् नाशान्तो नासमाहितः / नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात् // KअU_२.२४/१,२.२४ //
SKकिञ् चान्यत् / न दुश्चरितात् प्रतिषिद्धाच् छ्रुतिस्मृत्यविहितात् पापकर्मणो ऽविरतो ऽनुपरतः / नापीन्द्रियलौल्याद् अशान्तो ऽनुपरतः / नाप्य् असमाहितो ऽनेकाग्रमना विक्षिप्तचित्तः / समाहितचित्तो ऽपि सन् समाधानफलार्थित्वान् नाप्य् अशान्तमानसो व्यापृतचित्तो वा / प्रज्ञानेन ब्रह्मविज्ञानेनैनं प्रकृतम् आत्मानम् आप्नुयात् / यस् तु दुश्चरिताद् विरत इन्द्रियलौल्याच् च, समाहितचित्तः समाधानफलाद् अप्य् उपशान्तमानसश् चाचार्यवान् प्रज्ञानेन यथोक्तम् आत्मानं प्राप्नोतीत्य् अर्थः // KअUBह्_२.२४/१,२.२४ //
SKयस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः / मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः // KअU_२.२५/१,२.२५ //
SKइति काठकोपनिषदि इति द्वितीया वल्ली
SKयस् त्व् अनेवं भूतः -- यस्यात्मनो ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारक अपि सर्वत्राणभूत उभ आदनो ऽशनं भवतः स्याताम् / सर्वहरो ऽपि मृत्युर् यस्योपसेचनम् इवौदनस्य, अशनत्वे ऽप्य् अपर्याप्तः, तं प्राकृतबुद्धिर् यथोक्तसाधनरहितः सन् क इत्था इत्थम् एवं यथोक्तसाधनवानिवेत्य् अर्थः / वेद विजानाति यत्र स आत्मेति // KअUBह्_२.२५/१,२.२५ //
SKइति काठवल्ल्यां द्वितीयवल्लीभाष्यम्