The Upanishad of Katha

Kathopaniṣad · कठोपनिषद्

The Upanishad of Katha

Kathopaniṣad

कठोपनिषद्

Valli 6

SK
एतद् वै तत् // KअU_६.१ //
SK
यद् इदं किंच जगत् सर्वं प्राण एजति निःसृतम् / महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति // KअU_६.२ //
SK
भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः / भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः // KअU_६.३ //
SK
इह चेद् अशकद् बोद्धुं प्राक्शरीरस्य विस्रसः / ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते // KअU_६.४ //
SK
यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके / यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोर् इव ब्रह्मलोके // KअU_६.५ //
SK
इन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् / पृथग् उत्पद्यमानानां मत्वा धीरो न शोचति // KअU_६.६ //
SK
इन्द्रियेभ्यः परं मनो मनसः सत्त्वम् उत्तमम् / सत्त्वाद् अधि महानात्मा महतो ऽव्यक्तम् उत्तमम् // KअU_६.७ //
SK
अव्यक्तात् तु परः पुरुषो व्यापको ऽलिङ्ग एव च / यं ज्ञात्वा मुच्यते जन्तुर् अमृतत्वं च गच्छति // KअU_६.८ //
SK
न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् / हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति // KअU_६.९ //
SK
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह / बुद्धिश् च न विचेष्टति ताम् आहुः परमां गतिम् // KअU_६.१० //
SK
तां योगम् इति मन्यन्ते स्थिराम् इन्द्रियधारणाम् / अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ // KअU_६.११ //
SK
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा / अस्तीति ब्रुवतो ऽन्यत्र कथं तद् उपलभ्यते // KअU_६.१२ //
SK
अस्तीत्य् एवोपलब्धव्यस् तत्त्वभावेन चोभयोः / अस्तीत्य् एवोपलब्धस्य तत्त्वभावः प्रसीदति // KअU_६.१३ //
SK
यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः / अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते // KअU_६.१४ //
SK
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः / अथ मर्त्यो ऽमृतो भवत्य् एतावद् ध्य् अनुशासनम् // KअU_६.१५ //
SK
शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका / तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवति // KअU_६.१६ //
SK
अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः / तं स्वाच् छरीरात् प्रवृहेन् मुञ्जाद् इवेषीकां धैर्येण / तं विद्याच् छुक्रम् अमृतं तं विद्याच् छुक्रम् अमृतम् इति // KअU_६.१७ //
SK
मृत्युप्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्याम् एतां योगविधिं च कृत्स्नम् / ब्रह्मप्राप्तो विरजो ऽभूद् विमृत्युर् अन्यो ऽप्य् एवं यो विद् अध्यात्मम् एव // KअU_६.१८ //
SK
// इति षष्ठी वल्ली //
SK
// इति कठोपनिषत् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṭha Upaniṣad: corpustei HTML transform of the Kaṭha Upaniṣad.

Source