The Upanishad of Katha

Kathopaniṣad · कठोपनिषद्

The Upanishad of Katha

Kathopaniṣad

कठोपनिषद्

Valli 5

SK
एतद् वै तत् // KअU_५.१ //
SK
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् / नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् // KअU_५.२ //
SK
ऊर्ध्वं प्राणम् उन्नयति अपानं प्रत्यग् अस्यति / मध्ये वामनम् आसीनं विश्वे देवा उपासते // KअU_५.३ //
SK
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः / देहाद् विमुच्यमानस्य किम् अत्र परिशिष्यते //
SK
एतद् वै तत् // KअU_५.४ //
SK
न प्राणेन नापानेन मर्त्यो जीवति कश्चन / इतरेण तु जीवन्ति यस्मिन्न् एताव् उपाश्रितौ // KअU_५.५ //
SK
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् / यथा च मरणं प्राप्य आत्मा भवति गौतम // KअU_५.६ //
SK
योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः / स्थाणुम् अन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम् // KअU_५.७ //
SK
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः / तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते / तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन //
SK
एतद् वै तत् // KअU_५.८ //
SK
अग्निर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव / एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च // KअU_५.९ //
SK
वायुर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव / एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च // KअU_५.१० //
SK
सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्यदोषैः / एकस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः // KअU_५.११ //
SK
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति / तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् // KअU_५.१२ //
SK
नित्यो ऽनित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् / तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषं शान्तिः शाश्वती नेतरेषाम् // KअU_५.१३ //
SK
तद् एतद् इति मन्यन्ते ऽनिर्देश्यं परमं सुखम् / कथं नु तद् विजानीयां किम् उ भाति विभाति वा // KअU_५.१४ //
SK
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः / तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति // KअU_५.१५ //
SK
// इति पञ्चमी वल्ली //
SK
ऊर्ध्वमूलो अवाक्शाख एषो ऽश्वत्थः सनातनः / तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते / तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṭha Upaniṣad: corpustei HTML transform of the Kaṭha Upaniṣad.

Source