The Upanishad of Katha

Kathopaniṣad · कठोपनिषद्

The Upanishad of Katha

Kathopaniṣad

कठोपनिषद्

Valli 2

SK
अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयस् ते उभे नानार्थे पुरुषं सिनीतः / तयोः श्रेय आददानस्य साधु भवति हीयते ऽर्थाद् य उ प्रेयो वृणीते // KअU_२.१ //
SK
श्रेयश् च प्रेयश् च मनुष्यम् एतस् तौ संपरीत्य विविनक्ति धीरः / श्रेयो हि धीरो ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते // KअU_२.२ //
SK
स त्वं प्रियान् प्रियरूपांश् च कामान् अभिध्यायन् नचिकेतो ऽत्यस्राक्षीः / नैतां सृङ्कां वित्तमयीम् अवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः // KअU_२.३ //
SK
दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता / विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्त // KअU_२.४ //
SK
अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः / दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः // KअU_२.५ //
SK
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् / अयं लोको नास्ति पर इति मानी पुनः पुनर् वशम् आपद्यते मे // KअU_२.६ //
SK
श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः / आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः // KअU_२.७ //
SK
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः / अनन्यप्रोक्ते गतिर् अत्र नास्त्य् अणीयान् ह्य् अतर्क्यम् अणुप्रमाणात् // KअU_२.८ //
SK
नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ / यां त्वम् आपः सत्यधृतिर् बतासि त्वादृङ् नो भूयान् नचिकेतः प्रेष्टा // KअU_२.९ //
SK
जानाम्य् अहं शेवधिर् इत्य् अनित्यं न ह्य् अध्रुवैः प्राप्यते हि ध्रुवं तत् / ततो मया नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः प्राप्तवान् अस्मि नित्यम् // KअU_२.१० //
SK
कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोर् अनन्त्यम् अभयस्य पारम् / स्तोममहद् उरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः // KअU_२.११ //
SK
तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् / अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति // KअU_२.१२ //
SK
एतच् छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य / स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये // KअU_२.१३ //
SK
अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् / अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद // KअU_२.१४ //
SK
सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति / यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ब्रवीमि //
SK
ओम् इत्य् एतत् // KअU_२.१५ //
SK
एतद् ध्य् एवाक्षरं ब्रह्म एतद् ध्य् एवाक्षरं परम् / एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत् // KअU_२.१६ //
SK
एतद् आलम्बनं श्रेष्ठम् एतद् आलम्बनं परम् / एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते // KअU_२.१७ //
SK
न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन् न बभूव कश्चित् / अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे // KअU_२.१८ //
SK
हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् / उभौ तौ न विजानीतो नायं हन्ति न हन्यते // KअU_२.१९ //
SK
अणोर् अणीयान् महतो महीयान् आत्मास्य जन्तोर् निहितो गुहायाम् / तम् अक्रतुः पश्यति वीतशोको धातुप्रसादान् महिमानम् आत्मनः // KअU_२.२० //
SK
आसीनो दूरं व्रजति शयानो याति सर्वतः / कस् तं मदामदं देवं मद् अन्यो ज्ञातुम् अर्हति // KअU_२.२१ //
SK
अशरीरं शरीरेषु अनवस्थेष्व् अवस्थितम् / महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति // KअU_२.२२ //
SK
नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन / यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् // KअU_२.२३ //
SK
नाविरतो दुश्चरितान् नाशान्तो नासमाहितः / नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात् // KअU_२.२४ //
SK
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः / मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः // KअU_२.२५ //
SK
// इति द्वितीया वल्ली //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaṭha Upaniṣad: corpustei HTML transform of the Kaṭha Upaniṣad.

Source