The Upanishad of Katha
Kathopaniṣad
कठोपनिषद्
SKउशन् ह वै वाजश्रवसः सर्ववेदसं ददौ / तस्य ह नचिकेता नाम पुत्र आस // KअU_१.१ //
SKतं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश / सो ऽमन्यत // KअU_१.२ //
SKपीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः / अनन्दा नाम ते लोकास् तान् स गच्छति ता ददत् // KअU_१.३ //
SKस होवाच पितरं तत कस्मै मां दास्यसीति / द्वितीयं तृतीयम् / तं होवाच मृत्यवे त्वा ददामीति // KअU_१.४ //
SKबहूनाम् एमि प्रथमो बहूनाम् एमि मध्यमः / किं स्विद् यमस्य कर्तव्यं यन् मयाद्य करिष्यति // KअU_१.५ //
SKअनुपश्य यथा पूर्वे प्रतिपश्य तथापरे / सस्यम् इव मर्त्यः पच्यते सस्यम् इवाजायते पुनः // KअU_१.६ //
SKवैश्वानरः प्रविशति अतिथिर् ब्राह्मणो गृहान् / तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् // KअU_१.७ //
SKआशाप्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश् च सर्वान् / एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे // KअU_१.८ //
SKतिस्रो रात्रीर् यद् अवत्सीर् गृहे मे अनश्नन् ब्रह्मन्न् अतिथिर् नमस्यः / नमस् ते ऽस्तु ब्रह्मन् स्वस्ति मे ऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व // KअU_१.९ //
SKशान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर् गौतमो माभि मृत्यो / त्वत्प्रसृष्टं माभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे // KअU_१.१० //
SKयथा पुरस्ताद् भविता प्रतीत औद्दालकिर् आरुणिर् मत्प्रसृष्टः / सुखं रात्रीः शयिता वीतमन्युस् त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् // KअU_१.११ //
SKस्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति / उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके // KअU_१.१२ //
SKस त्वम् अग्निं स्वर्ग्यम् अध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् / स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण // KअU_१.१३ //
SKप्र ते ब्रवीमि तद् उ मे निबोध स्वर्ग्यम् अग्निं नचिकेतः प्रजानन् / अनन्तलोकाप्तिम् अथो प्रतिष्ठां विद्धि त्वम् एतं निहितं गुहायाम् // KअU_१.१४ //
SKलोकादिम् अग्निं तम् उवाच तस्मै या इष्टका यावतीर् वा यथा वा / स चापि तत् प्रत्यवदद् यथोक्तम् अथास्य मृत्युः पुनर् आह तुष्टः // KअU_१.१५ //
SKतम् अब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः / तवैव नाम्ना भवितायम् अग्निः सृङ्कां चेमाम् अनेकरूपां गृहाण // KअU_१.१६ //
SKत्रिणाचिकेतस् त्रिभिर् एत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू / ब्रह्मजज्ञं देवम् ईड्यं विदित्वा निचाय्येमां शान्तिम् अत्यन्तम् एति // KअU_१.१७ //
SKत्रिणाचिकेतस् त्रयम् एतद् विदित्वा य एवं विद्वांश् चिनुते नाचिकेतम् / स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके // KअU_१.१८ //
SKएष ते ऽग्निर् नचिकेतः स्वर्ग्यो यम् अवृणीथा द्वितीयेन वरेण / एतम् अग्निं तवैव प्रवक्ष्यन्ति जनासस् तृतीयं वरं नचिकेतो वृणीष्व // KअU_१.१९ //
SKयेयं प्रेते विचिकित्सा मनुष्ये अस्तीत्य् एके नायम् अस्तीति चैके / एतद् विद्याम् अनुशिष्टस् त्वयाहं वराणाम् एष वरस् तृतीयः // KअU_१.२० //
SKदेवैर् अत्रापि विचिकित्सितं पुरा न हि सुज्ञेयम् अणुर् एष धर्मः / अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीर् अति मा सृजैनम् // KअU_१.२१ //
SKदेवैर् अत्रापि विचिकित्सितं किल त्वं च मृत्यो यन् न सुज्ञेयम् आत्थ / वक्ता चास्य त्वादृग् अन्यो न लभ्यो नान्यो वरस् तुल्य एतस्य कश्चित् // KअU_१.२२ //
SKशतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् / भूमेर् महद् आयतनं वृणीष्व स्वयं च जीव शरदो यावद् इच्छसि // KअU_१.२३ //
SKएतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च / महाभूमौ नचिकेतस् त्वम् एधि कामानां त्वा कामभाजं करोमि // KअU_१.२४ //
SKये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश् छन्दतः प्रार्थयस्व / इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः / आभिर् मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः // KअU_१.२५ //
SKश्वोभावा मर्त्यस्य यद् अन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः / अपि सर्वं जीवितम् अल्पम् एव तवैव वाहास् तव नृत्यगीते // KअU_१.२६ //
SKन वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तम् अद्राक्ष्म चेत् त्वा / जीविष्यामो यावद् ईशिष्यसि त्वं वरस् तु मे वरणीयः स एव // KअU_१.२७ //
SKअजीर्यताम् अमृतानाम् उपेत्य जीर्यन् मर्त्यः क्वधःस्थः प्रजानन् / अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत // KअU_१.२८ //
SKयस्मिन्न् इदं विचिकित्सन्ति मृत्यो यत् साम्पराये महति ब्रूहि नस् तत् / यो ऽयं वरो गूढम् अनुप्रविष्टो नान्यं तस्मान् नचिकेता वृणीते // KअU_१.२९ //
SK// इति प्रथमा वल्ली //