The Upanishad of Katha
Kathopaniṣad
कठोपनिषद्
SKऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे / छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः // KअU_३.१ //
SKयः सेतुर् ईजानानाम् अक्षरं ब्रह्म यत् परम् / अभयं तितीर्षतां पारं नाचिकेतं शकेमहि // KअU_३.२ //
SKआत्मानं रथिनं विद्धि शरीरं रथम् एव तु / बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च // KअU_३.३ //
SKइन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् / आत्मेन्द्रियमनोयुक्तं भोक्तेत्य् आहुर् मनीषिणः // KअU_३.४ //
SKयस् त्व् अविज्ञानवान् भवत्य् अयुक्तेन मनसा सदा / तस्येन्द्रियाण्य् अवश्यानि दुष्टाश्वा इव सारथेः // KअU_३.५ //
SKयस् तु विज्ञानवान् भवति युक्तेन मनसा सदा / तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः // KअU_३.६ //
SKयस् त्व् अविज्ञानवान् भवत्य् अमनस्कः सदाशुचिः / न स तत् पदम् आप्नोति संसारं चाधिगच्छति // KअU_३.७ //
SKयस् तु विज्ञानवान् भवति समनस्कः सदा शुचिः / स तु तत् पदम् आप्नोति यस्माद् भूयो न जायते // KअU_३.८ //
SKविज्ञानसारथिर् यस् तु मनः प्रग्रहवान् नरः / सो ऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् // KअU_३.९ //
SKइन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः / मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः // KअU_३.१० //
SKमहतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः / पुरुशान् न परं किंचित् सा काष्ठा सा परा गतिः // KअU_३.११ //
SKएष सर्वेषु भूतेषु गूढो ऽत्मा न प्रकाशते / दृष्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः // KअU_३.१२ //
SKयच्छेद् वाङ्मनसी प्राज्ञस् तद् यच्छेज् ज्ञान आत्मनि / ज्ञानम् आत्मनि महति नियच्छेत् तद् यच्छेच् छान्त आत्मनि // KअU_३.१३ //
SKउत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत / क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस् तत् कवयो वदन्ति // KअU_३.१४ //
SKअशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत् / अनाद्य् अनन्तं महतः परं ध्रुवं निचाय्य तन् मृत्युमुखात् प्रमुच्यते // KअU_३.१५ //
SKनाचिकेतम् उपाख्यानं मृत्युप्रोक्तं सनातनम् / उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते // KअU_३.१६ //
SKय इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि / प्रयतः श्राद्धकाले वा तद् आनन्त्याय कल्पते / तद् आनन्त्याय कल्पत इति // KअU_३.१७ //
SK// इति तृतीया वल्ली //