Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)

Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Full text

SK
प्रथमाध्याये प्रथमः पादः /
SK
(अत्र पादे स्पष्टब्रह्मलिङ्गयुक्तानां वाक्यानां विचारः)
SK
ब्रह्मसूत्रशाङ्करभाष्यम्
SK
भाष्यरत्नप्रभाव्याख्या श्रीरामानन्दयतिप्रणीता /
SK
यमिह कारुणिकं शरणं गतो ऽप्यरिसहोदर आप महत्पदम् / तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम्
SK
श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढुण्ढितुण्डासिना / वन्दे चर्मकपालिकोपकपणैर्वैराग्यसौख्यात्परं नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम्
SK
यत्कृपालवमात्रेण मूको भवति पण्डितः / वेदशास्त्रशरीरां तां वाणीं वीणाकरां भजे
SK
कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्यश्रीगौरीनायकाभित्प्रकटनशिवरामार्यलब्धात्मबोधैः / श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मितास्यश्रीमद्गोविन्दवाणीचरणकमलगो निवृतो ऽहं यथालिः
SK
श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि / श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम्
SK
विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् / व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा
SK
श्रीमच्छारीरकं भाष्यं प्राप्य वाक् शुद्धिमाप्नुयात् / इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा
SK
यदज्ञानसमुद्भूतमिन्द्रजालमिदं जगत् / सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम्
SK
START Bस्Cओम्_१,१.१.१
SK
१ जिज्ञासाधिकरणम् / सू. १
SK
वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्-

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) (sa_bAdarAyaNa-brahmasUtra-comm-subcomm2.htm).

Source