Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)

Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Adhyāya 3

SK
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् | BBस्_३,१.१ |
SK
द्वितीये ऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः / परपक्षाणां चानपेक्षत्वं प्रपञ्चितम् / श्रुतिविप्रतिषेधश्च परिहृतः / तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् / अथेदानीमुपकरणोपहितस्य जीवस्य संसारगतिप्रकारस्तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदो मुक्तिफलानियमश्चेत्येतदर्थजातं तृतीये ऽध्याये निरूपयिष्यते प्रसङ्गागतं च किमप्यन्यत् / तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः / ऽतस्माज्जुगुप्सेत्ऽ इति चान्ते श्रवणात् / जीवोमुख्यप्राणसचिवः सेन्द्रियः समनस्को ऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् / ऽअथैनमेते प्राणा अभिसमायन्तिऽ इत्येवमादेः ऽअन्यन्नवतरं कल्याणतरं रूपं कुरुतेऽ (बृ. ४.४.१.४) इत्येवमन्तात्संसारप्रकरणस्थाच्छब्दात् / धर्माधर्मफलोपभोगसंभवाच्च / स किं देहः बीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छत्याहोस्वित्संपरिष्वक्त इति चिन्त्यते / किं तावत्प्राप्तम् / असंपरिष्वक्त इति / कुतः करणोपादानवद्भूतोपादानस्याश्रुतत्वात् / ऽस एतास्तेजोमात्राः समभ्याददानःऽ (बृ. ४.४.१) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति / वाक्यशेषे चक्षुरादिसंकीर्तनात् / नैवं भूतमात्रोपादानसंकीर्तनमस्ति / सुलभाश्च सर्वत्र भूतमात्राः / यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ततश्च तासां नयनं निष्प्रयोजनम् / तस्मादसंपरिष्वक्तो यातीति / एवं प्राप्ते पठत्याचार्यः - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति / तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजभूतैर्सूक्ष्मैः संपरिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् / कुतः - प्रश् ननिरूपणाभ्याम् / तथाहि प्रश् नः - ऽवेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. ५.३.३) इति / निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतिर्दर्शयित्वा ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. ५.९.१) इति / तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते /
SK
नन्वन्या श्रुतिर्जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति- ऽतद्यथा तृणजलायुकाऽ (बृ. ४.४.३) इति /
SK
तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकस्योपमीयत इत्यव्रोधः / एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पना व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मलशाद्वृत्तिलाभस्तत्र भवति / केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति / इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते / मन एव वा केवलं भोगस्थानमभिप्रतिष्ठेत / जीव एवोत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् / इत्येवमाद्याः सर्वा एवानादर्तव्याः श्रुतिविरोधात्
SK
FN: दर्शनोपायाः संन्यासादयः / प्रसङ्गगतं देहात्मदूषणम् / पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निध्यानं पञ्चाग्निविद्या / कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः / भावनाया दीर्घीभावो भाविदेहविषयत्वम् / केवलेति सौगतकल्पनम् / मन इति वैशेषिककल्पनम् / जीव इति दिगम्बरकल्पनम् / लोकायतकल्पनामाद्यग्रहणेन संगृह्यति /
SK
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् / वृत्तमनूद्य तृतीयाध्यायार्थमाह-द्वितीय इत्यादिना / अविरुद्धे वेदान्तार्थे तज्ज्ञानसाधनचिन्तावसर इत्यनयोर्हेतुहेतुमद्भावः / लिङ्गोपाधिसिद्धौ तदुपहितजीवसंसारचिन्तेति पादयोरपि तद्भावसङ्गतिः / अत्र प्रथमपादे वैराग्यम् / द्वितीये स्वप्नाद्यवस्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये / तृतीये वाक्यार्थस्तदर्थमुपासनाश्च विचार्यन्ते / चतुर्थपादार्थमाह-सम्यग्दर्शनादिति / दर्शनोपायाः संन्यासादयः / मुक्तिरूपफलस्य स्वर्गवत्तारतम्यनियमाभावः एकरूपत्वमिति यावत् / प्रसङ्गागतं देहात्मदूषणम् / पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्नित्वध्यानं पञ्चाग्निविद्या / यस्मात् कर्मणा गत्यागतिरूपो ऽनर्थस्तस्मात् कर्मफले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चाग्निविद्योपसंहारे श्रवणाद्वैराग्यार्थं प्रदर्श्यते इत्यन्वयः / शास्त्रादिसूत्रे नित्यानित्यविवेककृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्यागतिक्लेशभावनाकृतं तदुच्यत इत्यपौनरुक्त्यम् / अधिकरणविषयमाह-जीव इति / अविद्या प्रसिद्ध / विद्येति पाठे उपासना ग्राह्या / कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः / अथ मरणकाले प्राणा हृदये जीवेनैकीभवन्तीत्यर्थः / रूपं शरीरं, पञ्चीकृतभूतभागाः उत्तरदेहपरिणामिनो भूतसूक्ष्माः / वेदान्तार्थज्ञानसाधनविचारत्वात् सर्वाधिकरणानां, श्रुतिशास्त्राध्यायसङ्गतयः वैराग्यफलकत्वादेतत्पादसङ्गतिः / पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारो ऽत्र निरूप्यत इति फलफलिभावो ऽवान्तरसङ्गतिः / अत्र पूर्वपक्षे निराश्रयप्राणगत्यभावात्, न वैराग्यं, सिद्धान्ते भूताश्रयप्राणगतेर्वैराग्यमिति फलभेदः / तेजोमात्राश्चक्षुरादयः, पश्यति जिघ्रतीति वाक्यशेषात् / आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच ऽअसौ वाव लोके गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह ख्ल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमाख्यदिव्यदेहात्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरुषशब्दवाच्याः पुमात्मका भवन्तिऽइति निरूपणं कृतम् / नन्वेतद्देहं त्यक्त्वाद्भिः सह गतस्य पश्चाद्देहान्तरप्राप्तिरित्ययुक्तम् / यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवो देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुतिविरोधादिति शङ्कते-नन्वन्येति / इहैव कर्मायत्तभाविदेहं देवो ऽहमित्यादिभावनया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः, अतो न विरोध इति समाधत्ते-तत्रापीति / भावनाया दीर्घीभावो भाविदेहविषयत्वम् / घटाकाशवदुपहितो जीवः सूक्ष्मोपाधिगत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्विरोधादन्याः कल्पनाः सर्वा अनादर्तव्या इत्यन्वयः / साङ्ख्यकल्पनामाह-व्यापिनामिति / सुगतकल्पनामाह-केवललस्येति / निर्विकल्पकज्ञानसन्तानरूपस्यात्मनो देहान्तरे शब्दादिसविकल्पकज्ञानाख्यवृत्तिलाभो भवतीत्यर्थः / काणादकल्पनामाह-मन इति / देहान्तरं प्रति मनोमात्रं गच्छति, इन्द्रियाणि तु नूतनान्येवारभ्यन्ते / दिगम्बरकल्पनामाह-जीव इति
SK
END Bस्Cओम्_३,१.१.१
SK
START Bस्Cओम्_३,१.१.२
SK
ननूदाहृताभ्यां प्रश् नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति / अपशब्दश्रवणसामर्थ्यात् / तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति / अत उत्तरं पठति-
SK
त्र्यात्मकत्वात् तु भूयस्त्वात् | BBस्_३,१.२ |
SK
तुशब्देन चोदितामाशङ्कमुच्छिनत्ति / त्र्यात्मिका ह्यापस्त्रिवृत्करणश्रुतेः / तास्वारम्भिकास्वाभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति / त्र्यात्मकश्च देहस्त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः / पुनश्च त्र्यात्मकस्त्रिधातुत्वात्त्रिभिर्वातपित्तश्लेष्माभिः / न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते / तस्माद्भूयस्त्वापेक्षो ऽयमापः पुरुषवचस इति / प्रश् नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः / सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते /
SK
ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते /
SK
नैष दोषः / इतरापेक्षयाप्यपा बाहुल्यं भविष्यति / दृश्यते च शुक्रशोणितलक्षणे ऽपि देहबीजे द्रवबाहुल्यम् / कर्म च निमित्तकारणं देहान्तरारम्भे / कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि / कर्मसमवायिश्चापः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्ये ऽग्नौ हूयन्त इति वक्ष्यति / तस्मादप्यपां बाहुल्यप्रसिद्धिः / बाहुल्याच्चाप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्
SK
ननु पाकस्वेदगन्धरूपकार्यत्रयोपलब्धेस्त्र्यात्मको देह इत्ययुक्तम् / प्राणावकाशयोरप्युपलब्ध्या देहस्य पञ्चभूतात्मत्वादित्यरुच्या व्याख्यान्तरमाह-पुनश्चेति / देहधारकत्वाद्धातवस्तैस्त्रिधातुत्वात्र्यायात्मक इत्यन्वयः / देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः / पृथिवीतरभूतापेक्षयापां बाहुल्यम् / किञ्च देहनिमित्तानां कर्मणामब्बाहुल्यात्ताभिर्भूतान्तराण्युपलक्ष्यन्त इत्याह-कर्म चेत्यादिना
SK
END Bस्Cओम्_३,१.१.२
SK
START Bस्Cओम्_३,१.१.३
SK
प्राणगतेश् च | BBस्_३,१.३ |
SK
प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२) इत्यादिश्रुतिभिः / सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपापमपि भूतान्तरोपसृष्टानां गतिरवगम्यते / नहि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात्
SK
उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वज्जीवद्देहस्थप्राणवदित्याह-प्राणगतेश्चेति
SK
END Bस्Cओम्_३,१.१.३
SK
START Bस्Cओम्_३,१.१.४
SK
अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात् | BBस्_३,१.४ |
SK
स्यादेतत् / नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः / तथाहि श्रुतिर्मरणकाले वागादयः प्राणा अग्न्यादीन्देवागच्छतीति दर्शयति- ऽयत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणःऽ (बृ. ३.२.१३) इत्यादिनेति चेत् /
SK
न / भाक्तत्वात् / वागादीनामग्न्यादिगतिश्रुतिर्गौणी केशेषु चादर्शनात् / ऽओषधीर्लोमानि वनस्पतीन्केशाःऽ (बृ. ३.२.१३) इति हि तत्राम्नायते / नहि लोमानि केशाश्चोत्प्लुत्यौषधीर्वनस्पतींश्च गच्छन्तीति संभवति / नच जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्प्यते / नापि प्राणैर्विना देहान्तर उपभोग उपपद्यते / विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् / अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयो ऽग्न्यादीन्गच्छन्तीत्युपचर्यते
SK
FN: अन्यत्र तमुत्क्रामन्तमित्यादौ /
SK
प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति-अग्न्यादीति /
SK
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः / लोमान्यपियन्तीत्यर्थः //
SK
प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः
SK
END Bस्Cओम्_३,१.१.४
SK
START Bस्Cओम्_३,१.१.५
SK
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः | BBस्_३,१.५ |
SK
स्यादेतत् / कथं पुनः ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. ५.३.३) इत्येतन्निर्धारयितुं पार्यते / यावता नैव प्रथमे ऽग्नावपां श्रवणमस्ति / इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामादारत्वेनाधीताः / तेषां च प्रमुखे ऽअसौ वाव लोको गौतमाग्निःऽ (छा. ५.४.१) इत्युपक्रम्य ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतिऽ (छा. ५.४.२)
SK
इति श्रद्धा हौम्यद्रव्यत्वेनावेदिता / न तत्रापो हौम्यद्रव्यतया श्रुताः / यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम / तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः / प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आपः परिकल्प्यन्त इति साहसमेतत् / श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् / तस्मादयुक्तः पञ्चम्याहुतावपां पुरुषभाव इति चेत् /
SK
नैष दोषः / यतस्तत्रापि प्रथमे ऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते / कुतः उपपत्तेः / एवंह्यादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते / इतरथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततो ऽन्यथा प्रश्नो ऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् / ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ इति चोपसंहरन्नेतदेव दर्शयति / श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते / सा च श्रद्धाया अप्त्वे युक्तिः / कारणानुरूपं हि कार्यं भवति / नच श्रद्धाख्यः प्रत्ययो मनसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोषादातुं शक्यते पश्वादिभ्य इव हृदयादीनित्याप एव श्रद्धाशब्दा भवेयुः / श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् ऽश्रद्धा वा आपःऽ इति / तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः / यथा सिंहपराक्रमो नरः सिंहशब्दो भवति / श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु / श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः ऽअपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणेऽ इति श्रुतेः
SK
FN: संगानं तमुत्क्रामन्तमित्यादौ /
SK
अनपः अब्द्यो ऽन्यतः /
SK
अस्मै यजमानाय / संनमन्ते जनयन्ति /
SK
भूतान्तरयुक्तानामपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते-प्रथम इति / ननु प्रथमपदं व्यर्थमुत्तराग्निष्वप्यपामश्रवणादित्याशङ्क्य सोमवृष्ट्यन्नरेतसामब्रूपत्वादुत्तरत्र तासां श्रवणमस्ति, न प्रथम इत्याह-यदिनामेति / पञ्चाग्निष्वपामाहुतित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासामनाहुतित्वादिति शङ्कार्थः एवं हि श्रद्धाशब्देनापां ग्रहे सति प्रश्नोत्तरोपसंहाराणां संगानादेकार्थत्वादेकवाक्यतोपपद्यते, अग्रहे तु चतुर्ष्वग्निष्वेवापामाहुतित्वाच्चतुर्थ्यामाहुताविति वाच्यं, अतः प्रश्नोपसंहारयोः पञ्चम्यामिति श्रवणात्, प्रथमाग्नावप्याप एव ग्राह्या इति समाधानार्थः / अनपः अद्भ्यो ऽन्यतः / एतदेवेति / श्रद्धाशब्दस्याबर्थकत्वं दर्शयतीत्यर्थः / उपपत्तेरित्यस्यार्थान्तरमाह-श्रद्धाकार्यमिति / तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धासोमादीनां पूर्वपूर्वपरिणामत्वं श्रुतं ततो द्रवपरिणामत्वात् श्रद्धाया अप्त्वं प्रत्ययात्मकमुख्यश्रद्धाया आहुतित्वायोगाच्चेत्यर्थः / श्रद्धाशब्दस्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भिरेककर्मयोगित्वं हेतुत्वं वा संबन्धमाह-श्रद्धापूर्वकेति /
SK
अस्मै यजमानाय / स्नानाद्यर्थमापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः
SK
END Bस्Cओम्_३,१.१.५
SK
START Bस्Cओम्_३,१.१.६
SK
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः | BBस्_३,१.६ |
SK
अथापि स्यात्प्रतिवचनाभ्यां नामापः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् / नतु तत्संपरिष्वक्ता जीवा रंहेयुः / अश्रुतत्वात् / नह्यत्रापामिव जीवानां श्रावयिता कश्चिच्छब्दो ऽस्ति / तस्माद्रंहति संपरिष्वक्त इत्ययुक्तमिति चेत् /
SK
नैष दोषः / कुतः - इष्टादिकारिणां प्रतीतेः / ऽअथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तिऽ (छा. ५.१०.६) इत्युपक्रम्येष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति- ऽआकाशाच्चन्द्रमसमेष सोमो राजाऽ (छा. ५.१०.४) इति / त एवेहापि प्रतीयन्ते ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽ (छा. ५.४.२) इति श्रुतिसामान्यात् / तेषां चाग्निहोत्रादर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेवापः सन्ति / तां आहवनीये हुताः सूक्ष्मा आहुत्यो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिण आश्रयन्ति / तेषां च शरीरं नैधनेन विधानेनान्त्ये ऽग्रावृत्विजो जुह्वति ऽअसौ स्वर्गाय लोकाय स्वाहाऽ इति / ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिणो जीवान्परिवेष्टयामुं लोकं फलदानाय नयन्तीति यत्तदत्र जुहोतिनाभिधीयते- ऽश्रद्धां जुह्वतिऽ (बृ. ६.२.९) इति / तथाचाग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ऽते वा एते आहुती हुते उत्क्रामतःऽ इत्येवमादिनाग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिः प्रदर्शिता / तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते
SK
FN: नैधनेन अन्त्येष्ट्याख्येन /
SK
असौ स्वर्गाय गच्छत्विति मन्त्रार्थः /
SK
अपां गतिमुपेत्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते-अथापीत्यादिना / द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभवतीत्युक्त्वा वाक्यशेषे धूमादिमार्गेण आकाशाच्चन्द्रमसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोमराजाशब्दसामान्यादिष्ट्यादिकारिणां जीवानां श्रद्धाशब्दिताद्भिः सह गतिरिह श्रद्धाहुतिवाक्ये प्रतीयत इत्यर्थः / तेषां सूक्ष्माभिर्द्रव्यापूर्वरूपाभिः पञ्चीकृताभिरद्भिः संबन्धं वदन् सहगतिं विवृणोति-तेषां चाग्निहोत्रेति / निधनं मरणं तन्निमित्तकमन्त्येष्टिविधानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः / हुतद्रव्यरूपाणामपां गमने श्रुत्यन्तरमाह-तथाचेति /
SK
अग्निहोत्रप्रकरणे जनकेन याज्ञवल्क्यं प्रति ऽनत्वेवैनयोः सायंप्रातराहुत्योस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थऽइति षट् प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव ऽते वा एते आहुती हुते उत्क्रामतः ते ऽन्तरिक्षद्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरुषरूपेणोत्तिष्ठतःऽइति वाक्यशेषेण कृतम्
SK
END Bस्Cओम्_३,१.१.६
SK
START Bस्Cओम्_३,१.१.७
SK
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते / यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति- ऽएष सोमो राजा तद्देवानामन्नं ते देवा भक्षयन्तिऽ (छा. ५.१०.४) इति ऽते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तिऽ (बृ. ६.२.१६) इति च समानविषयं श्रुत्यन्तरम् / नच व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति / अत उत्तरं पठति-
SK
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति | BBस्_३,१.७ |
SK
वाशब्दश्चोदितदोषव्यावर्तनार्थः / भाक्तमेषामन्नत्वं न मुख्यम् / मुख्ये ह्यन्नत्वे स्वर्गकामो यजेत इत्येवञ्जातीयकाधिकारश्रुतिरुपपध्येत / चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्किमर्थमधिकारिण इष्टाद्यायासबहुलं कर्म कुर्युः / अन्नशब्दश्चोपभोगहेतुत्वसामान्यादन्ने ऽप्युपचर्यमाणो दृश्यते / यथा विशो ऽन्नं राज्ञां पशवो ऽन्नं विशामिति / तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानां तदैवेषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा / ऽन ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्तिऽ (छा. ३.६.१) इति च देवानां चर्वणादिव्यापारं वारयति / तेषां चेष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् / अनात्मवित्त्वाच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते / तथाहि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति- ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्ऽ (बृ. १.४.१०) इति / स चास्मिन्नपि लोक इष्टादिभिः कर्मभिः प्रीमन्पशुवद्देवानामुपकरोतीति लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवद्देवानामुपकरोतीति गम्यते //
SK
अनात्मवित्त्वात्तथाहि दर्शयतीत्यस्यापरा व्याख्या- अनात्मविदो ह्येते केवलकर्मिणैष्टादिकारिणो न ज्ञानकर्मसमुच्चयानुष्ठायिनः / पञ्चाग्निविद्यामिहात्मविद्येत्युपचरन्ति प्रकरणात् / पञ्चाग्निविज्ञानविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै / पञ्चाग्निविद्या हीह विधित्सिता / वाक्यतात्पर्यावगमात् / तथाहि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति- ऽस सोमलोके विभूतिमनुभूय पुनरावर्ततेऽ (प्र. ५.४) इति / तथान्यदपि श्रुत्यन्तरम् ऽअथ ये शतं पितृणां जितलोलोकानामानन्दाः स एकः कर्मदेवनामानन्दो ये कर्मणा देवत्वमभिसंपद्यतेऽ (बृ. ४.३.३३) इतीष्टादिकारिणां देवैः संवसतां भोगप्राप्तिं दर्शयति / एवं भाक्तत्वादन्नभाववचनस्येष्टादिकारिणो ऽत्र जीवारंहन्तीति प्रतीयते / तस्माद्रंहति संपरिष्वक्त इति युक्तमेवोक्तम्
SK
FN: अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना /
SK
यथा पशुर्भोग्य एवमज्ञः न भेदधीमान्देवानां भोग्य इत्यर्थः /
SK
संप्रत्युत्तरसूत्रव्यावर्त्यं शङ्कते-कथमित्यादिना / अत्र सोमाख्यचन्द्रस्यान्नत्वमुक्तं नेष्टादिकारिणामिति भ्रान्तिनिरासार्थं श्रुत्यन्तरमाह-ते चन्द्रमिति / यथा यज्ञे चमसस्थं सोममृत्विज आप्यायस्वेति क्रियावृत्तौ लोट् पुनः पुनराप्याय्य पुनः पुनरपक्षय्य भक्षयन्ति / एवमेनानिष्टादिकारिणो ऽन्नरूपान् भक्षयन्ति देवा इत्यर्थः / अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना / शास्त्रानर्थक्यवारणाय अन्नत्वं गोणमिति भावः / केन दोषेण तेषां देवभोग्यतेत्यत आह-अनात्मवित्त्वाच्चेति / यथा पशुर्भोग्य एवमज्ञः स भेदधीमान् देवानां भोग्य इत्यर्थः / आत्मशब्दस्य मुख्यत्वबलेन सूत्रांशं व्याख्याय प्रकृतपञ्चाग्नयः सूत्रकृतात्मत्वेनोपचरिता इति व्याख्यान्तरमाह-अनात्मेत्यादिना / विद्यास्तुत्यर्थमन्नत्वं न मुख्यमित्यत्र श्रुत्यन्तरार्थं सूत्रशेषं व्याचष्टे-तथाहीति /
SK
एवं गतिपर्यालोचनया वैराग्यमिति सिद्धम्
SK
END Bस्Cओम्_३,१.१.७
SK
START Bस्Cओम्_३,१.२.८
SK
२ कृतात्ययाधिकरणम् / सू. ८-११
SK
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च | BBस्_३,१.८ |
SK
इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- ऽतस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वां पुनर्निवर्तन्ते तथेतम्ऽ (छा. ५.१०.५) इत्यारभ्य यावद्रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति / तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्माणो ऽवरोहन्त्याहोस्वित्सानुशया इति / किं तावत्प्राप्तम् / निरनुशया इति / कुतः - यावत्संपातमिति विशेषणात् / संपातशब्देनात्र कर्माशय उच्यते- संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति / यावत्संपातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति / तेषां यदा तत्पर्यवेतिऽ (बृ. ६.२.१६) इति च श्रुत्यन्तरेणैव एवार्थः प्रदर्श्यते / स्यादेतत् / यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म तावदुपभुङ् क्त इति कल्पयिष्यामीति / नैवं कल्पयितुं शक्यते यत्किञ्चेत्यन्यत्र परामर्शात् / प्राप्यन्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् / तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे (बृ. ४.४.६) इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयितां दर्शयति / अपिच प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकम् / प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः / तच्चाविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् / नहि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति / न ह्यविशिष्टे प्रदीपसंनिधौ धटो ऽभिव्यज्यते न पट इत्युपपद्यते / तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः कृतात्यये ऽनुशयवानिति / येन कर्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षीयते तेषां यदंमयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कादिव च घृतकाठिन्यम् / ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति / केन हेतुना / दृष्टस्मृतिभ्यामित्याह / तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति- ऽतद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ यैह क पूयचरणां अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वाऽ (छा. ५.१०.७) इति / चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति / दृष्टश्चायं जन्मनैव प्रतिपण्युच्चावचरूप उपभोगः प्रविभज्यमान / आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमित्वात् / स्मृतिरपि ऽवर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तसुखमेधसो जन्म प्रतिपद्यन्तेऽ इति सानुशयानामेवावरोहं दर्शयति - कः पुनरनुशयो नामेति / केचित्तावदाहुः - स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् / यथाहि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषो ऽवतिष्ठते तथानुशयो ऽपीति /
SK
ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् /
SK
नायं दोषः / नहि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे / ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढः / बाढम् / तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते / यथा किल कश्चित्सेवकः सकलैः सेवोपकरणै राजकुलमुपसृपश्चिरप्रवासात्परिक्षीणवहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुले ऽवस्थातुं शक्नोति / एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलो ऽवस्थातुं शक्नोतीति / नचैतद्युक्तमिव / नहि स्वर्गस्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् /
SK
नन्वेतदयुक्तम् / न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति / तदेतदपेशलम् / स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वग्रच्युतस्यापि कञ्चित्फललेशं जनयतीति / न शब्दप्रमाणकामानीदृशी कल्पनावकल्पते / स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते / तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते / नत्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् / अवश्यं चैतदेवं विज्ञेयम् / न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशो ऽनुवर्तमानो ऽनुशय इति / यदिहि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशो ऽनुशयः कल्प्येत ततो रमणीय एवैको ऽनुशयः स्यान्न विपरीतः / तत्रेयमनुशयविभागश्रुतिरुपरुध्येत- ऽतद्य इह रमणीयचरणा, अथ कपूयचरणाःऽ (छा. ५.१०.७) इति / तस्मादामुष्मिकफले कर्मजात उपभुक्ते ऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्वन्तऽवरोहन्तीति / यदुक्तं यत्किञ्चेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति /
SK
नैतदेवम् / अनुशयसद्भावस्यावगमितत्वात् / यत्किञ्चिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते / यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिंल्लोके फलमारभ्यते केनचिदस्मिन्नित्यत्वं प्रत्युक्तम् / अपिचकेन हेतुना प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् / यथैव तर्हि प्राक्प्रयाणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकाले ऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्धवानुपपतितिरिति / नह्यनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुं, प्रतिनियतफलत्वविरोधात् / नापि कस्यचित्कर्मणः प्रायणे ऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् / ऐकान्तिकफलत्वविरोधात् / नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः संभाव्यते / स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति- ऽकदाचित्सुकृतं कर्म कूचस्थमिह तिष्ठति //
SK
मज्जमानस्य संसारे यावद्दुःखादिमुच्यते इत्येवञ्जातीयका / यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन्प्रायणे ऽभिव्यक्तं सदेकां जातिमारभेत ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत / ब्रह्महत्यादीनां चैकैकस्य कर्मणो ऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत / नच धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं संभावयतुम् / नच दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं संभवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना / प्रदीपोपन्यासो ऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः / स्थूलसूक्ष्मरूपाभिव्क्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् / यथाहि प्रदीपः समाने ऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् / एवं प्रायणं समाने ऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति / तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टो ऽयमशेषकर्माभिव्यक्त्यभ्युपगमः / शेषकर्मसद्भावे ऽनिर्मोक्षप्रसङ्गः इत्ययमप्यस्थाने संभ्रमः / सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः / तस्मात्स्थितमेतदेवानुशयवन्तो ऽवरोहन्तीति / ते चावरोहन्तो यथेतमनेवं चावरोहन्ति / यथेतमिति यथागतमित्यर्थः / अनेवमिति तद्विपर्ययेणेत्यर्थः / धूमाकाशयोः पितृयाणे ऽध्वन्युपात्तयोरवरोहे संकीर्तनाद्यथेतंशब्दाच्च यथागतमिति प्रतीयते / रात्र्याद्यसंकीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययो ऽपि प्रतीयते
SK
FN: अनुशयः कर्म / तत् कर्म / प्रत्यवैति परिक्षीणं भवति / अभिव्यक्तिः फलोन्मुखता / तत् तत्रावरोहतां जीवानां मध्ये इह कर्मभूमौ रमणीयचरणाः पुण्यकर्मणः इति यत् तत् आभ्याशोह अवश्यं हीत्यर्थः / कपूयं पापम् / रिच्यमानं वियुज्यमानम् /
SK
इदानीं गत्यन्तरभाविनीमागतिं निरूपपयति-कृतात्यय इति / भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः / यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावत्तावदाम्नायत इति योजना / अत्र यावत्संपातमिति विशेषणाद्रमणीयचरणा इति वाक्याच्च संशयमाह-तत्रेति / अनुशयः कर्म, अत्र पूर्वपक्षे कर्माभावेनागतेरनियमाद्वैराग्यादार्ढ्यं, सिद्धान्ते कर्मसत्त्वेनागतिनियमाद्वैराग्यदार्ढ्यमिति भेदः / तेषामिष्टादिकारिणां यदा तत्कर्म पर्यवैति विपरिक्षीणं भवति तदा पुनरावर्तन्त इति श्रुत्यन्तरेणापि कृत्स्रकर्मणश्चन्द्रलोके भुक्तत्वमुच्यत इत्यर्थः / यावत्पदसङ्कोचो न युक्तः श्रुत्यन्तरविरोधादित्याह-नैवमिति / अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य कर्मार्थं पुनरायातीति श्रुत्यर्थः / कर्माभावे श्रुतिमुक्त्वा युक्तिमाह-अपिचेति / अभिव्यक्तिः फलोन्मुखता, मरणेनाभिव्यक्तस्य सर्वस्य कर्मणः परलोकभोगस्यावश्यंभावात्कर्माभाव इत्यर्थः / चरणाख्यसीलमात्रादवरोह इति प्राप्ते सिद्धान्तप्रतिज्ञां व्याचष्टे-येनेत्यादिना / तत् तत्रावरोहतां जीवानां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणाः पुण्यकर्माणः पुण्ययोनिभाज इति यत् तत् अभ्याशो ह अवश्यं हीत्यर्थः / कपूयं पापम् / दृष्टशब्दस्य श्रुत्यर्थमुक्त्वार्थान्तरमाह-दृष्टश्चेति / ऽपुण्यो वै पुण्येन कर्म भवति पापः पापेनऽइत्यादिशास्त्रेण सुखदुःखयोर्धर्मार्धर्महेतुकत्वमवगतम् / ततश्च जन्मारब्य दृष्टो भोगः कर्महेतुकः भोगत्वात्, स्वर्गभोगवदित्यानुशयसिद्धिः, विपक्षे च हेत्वभावात् भोगस्याकस्मिकत्वप्रसङ्ग इत्यर्थः / स्मृतवाश्रमाः आश्रमिणः प्रेत्य मृत्वा लोकान्तरे कर्मफलं भुक्त्वा ततः शेषेण भुक्तादन्येन कर्मणा अनुशयाख्येन पुनर्जन्म प्रतिपद्यन्ते इति संबन्धः / विशिष्टा देशादयो मेधान्ता दश गुणा येषु ते तथोक्ताः / श्रुतं ज्ञानं, वृत्तं आचारः / स्वाभिमतानुशयं वक्तुं पृच्छति-कः पुनरिति / कृतस्य कर्मणः स्वर्गे भोगे सति भुक्तस्य कर्मणो लेशो ऽनुशयस्तद्वानवरोहति भाण्डे स्नेहलेशस्य दृष्टत्वात्, ततः शेषेणेति स्मृतेश्चेत्येकदेशिव्याख्यामाह-केचिदित्यादिना / रिच्यमानं स्नेहेन वियुज्यमानम् / ननु भोगनाश्यत्वात् कर्मणो लेशो न युक्तः इति शङ्कते-नन्विति / कृत्स्नकर्मणो भोगे जाते नाशः स्यात्, नतु भोगो जात इति परिहारार्थः / भोगो न जायत इत्ययुक्तमिति शङ्कते-नन्विति / भोगः सावशेषो जात इति समाधत्ते-बाढमित्यादिना / इदमेकदेशिव्याख्यानं दूषयति-नचेति / ऽस्वर्गकामो यजेतऽइत्यादिशास्त्रेण स्वर्गभोगार्थं कर्म चोदितं, तच्छेषस्य मर्त्यभोगहेतुत्वे शास्त्रविरोध इत्यर्थः / किञ्च स्वर्गहेतुकर्मशेषादवरोहे कपूययोन्यापत्तिश्रुतिविरोध इत्याह-अवश्यं चेति / स्वाभिमतमनुशयमाह-तस्मादिति / पूर्वपक्षबीजमनूद्य दूषयति-यदित्यादिना / क्षपयित्वा पुनरागच्छन्तीति प्राप्यन्तमिति वाक्येन गम्यत इति योजना / जन्मारभ्य दृष्टभोगलिङ्गानुगृहीतया रमणीयकपूयचरणश्रुत्यैहिकानुशयाक्यकर्मविशेषणपरया विरोधात्, यत्किञ्चेति यावत्संपातमिति च सामान्यशब्दयोरामुष्मिकविषयत्वेन सङ्कोचो न्याय्य इति भावः / मरणं कृत्स्नकर्माभिव्यञ्जकमित्ययुक्तम्, उक्तानुशयश्रुतिविरोधादित्याह-तदपीति // बलवदनारब्धकर्मप्रतिबन्धाच्च न कृत्स्नकर्माभिव्यक्तिरित्याह-अपिचेत्यादिना / तस्य कृतस्नकर्मव्यञ्जकत्वे हेतुर्नास्तीति भावः / प्रश्नं मत्वोत्तरं शङ्कते-आरब्धेति / आरब्धवदनारब्धस्यापि बलवतः प्रतिबन्धकत्वान्न सर्वकर्मणः फलदानायाभिव्यक्तिरिति समाधत्ते-यथेति / अनारशब्धफलत्वाविशेषात्सर्वकर्मणामभिव्यक्तिमाशङ्क्य मिथोविरुद्धस्वर्गनरकादिदेहफलानामेकदेहारम्भकत्वासंभव उक्तस्तं विवृणोति-नहीति / अस्तु तर्हि दुर्बलस्य कर्मणो नाश इत्यत आह-नापीति / नाभुक्तं क्षीयते कर्मेत्येकान्त उत्सर्गः स च प्रायश्चितब्रह्मज्ञानध्यानैर्बाध्यते न मरणमात्रणेत्यर्थः / मरणेन दुर्बलकर्माविनाशे मानमाह-स्मृतिरिति / कर्मनाशपक्षं निरस्य प्रकृतकृत्स्नकर्माभिव्यक्तिपक्षे दोषान्तरमाह-यदि चेति / ऽकृत्स्नकर्मणामेकस्मिन् देवादिजन्मनि भोगेन क्षयान्न जन्मान्तरं स्यात्, ज्ञानाभावान्न मुक्तिरित्यज्ञदेवस्य कष्टान्तरालदशा स्यादित्यर्थः / ऽश्वसूकरखरोष्ट्राणां गो ऽजाविमृगपक्षिणाम् / चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति / ऽइत्यादिस्मृतिविरोधाच्च न सर्वकर्मणामेकजन्मारम्भकत्वमित्याह-ब्रह्मेति / नन्वेकस्य कर्मणः कथमनेकजन्मफलकत्वम्, अदृष्टत्वादित्याह-नचेति / किञ्च व्यञ्जकत्वे ऽपि मरणस्य किं सर्वकर्मव्यञ्जकत्वं कल्प्यते उत यत्किञ्चित्कर्मव्यञ्जकत्वम् / नाद्यः, इह कृतकारीर्यादेरत्रैव फलहेतोर्मरणव्यज्यत्वासंभवादित्याह-नचेति / द्वितीयं निरस्यन् परोक्तं दृष्टान्तं विघटयति-प्रदीपेति / रूपाणां प्रदीपवत्, मरणं न कस्यचिदपि कर्मणो वयञ्जकं किन्तु प्रबलकर्मप्रतिबन्धाभावे दुर्बलं व्यज्यत इत्यर्थः / एवं मरणस्य व्यञ्जकत्वानङ्गीकारेण प्रदीपदृष्टान्तो निरस्तः,
SK
अङ्गीकारे ऽप्यनुकूलो दृष्टान्त इत्याह-स्थूलेति / सूक्ष्ममनुद्भूतरूपमिति मरणे सर्वकर्माभिव्यक्त्यसिद्धिरिति शेषः / एवं सर्वकर्मसङ्घ एकजन्मारम्भक इत्यैकभविकः कर्माशय इति मतनिरासमुपसंहरति-तस्मादिति / चरणश्रुत्या ऽततः शेषेणऽइत्यादिस्मृत्या ऽप्रबलप्रतिबन्धात्ऽइतिन्यायेन चानभिव्यक्तकर्मसद्भावादित्यर्थः / ननु मुक्त्यनुपपत्त्याङ्गीकार्य ऐकभविक इत्यत आह-शेषेति / सूत्रशेषं व्याचष्टे-ते चेत्यादिना /
SK
अवरोहमार्ग इत्थं श्रूयते-ऽतस्मिन् यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भूत्वा मेघो भवति भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्तेऽइति / धूमाद्यध्वना यथेतं यथागतं तथेतमध्वानं पुनरायन्तीत्युक्त्वा धूमादिरूपपितृमार्गस्थरात्र्यादिकं नोक्तमधिकं चाभ्रादिकमुक्तमिति मत्वा सूत्रकृतोक्तं यथेतमनेवं चेति / अवशिष्टश्रुत्यर्थो ऽग्ने स्फुटीभविष्यति
SK
END Bस्Cओम्_३,१.२.८
SK
START Bस्Cओम्_३,१.२.९
SK
चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः | BBस्_३,१.९ |
SK
अतापि स्यात् / या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता- ऽतद्य इह रमणीयचरणाःऽ (छा. ५.१०.७) इति / सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् / अन्यच्चरणमन्यो ऽनुशयः / चरणं चारित्रमाचारः शीलमित्यनर्थान्तरम् / अनुशयस्तु भुक्तफलात्कर्मणो ऽतिरिक्तं कर्माभिप्रेतम् / श्रुतिश्च कर्माचरणे भेदेन व्यपदिशति- ऽयथाकारी यथाचारी तथा भवतिऽ (बृ. ४.४.५) इति, ऽयान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि, यान्यस्माकं सुचरितानि तानि त्वयोपस्यानिऽ (तै. १.११.२) इति च / तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेत् / नैष दोषः / यतो ऽनुशयोपलक्षणार्थैवैषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते
SK
संप्रति श्रुतिस्थचरणशब्दमाक्षेपपूर्वकं सूत्रकृद्व्याचष्टे-चरणादिति चेदिति /
SK
ऽअद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा / अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाःऽइति स्मृतावुक्तावद्रोहादयः शास्त्रार्थज्ञानरूपं शीलं सर्वकर्माङ्गमुक्तं तद्बोधकं चरणपदमङ्गिनः श्रौतादिकर्मणो लक्षकं, कर्मण एवोत्तरावस्था धर्माधर्माख्यापूर्वमिति कर्मलक्षणयैव तदभिन्नापूर्वाख्यानुशयसिद्धिरिति कार्ष्णाजिनिमतम्
SK
END Bस्Cओम्_३,१.२.९
SK
START Bस्Cओम्_३,१.२.१०
SK
आनर्थक्यम् इति चेन् न तदपेक्षत्वात् | BBस्_३,१.१० |
SK
स्यादेतत् / कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिको ऽनुशयः प्रत्याय्यते /
SK
ननु शीलस्यैव श्रौतस्य विहितप्रतिष्द्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति / अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् / अन्यथा ह्यानर्थक्यमेव प्रसज्यतेति चेत् /
SK
नैष दोषः / कुतः - तदपेक्षितत्वात् / इष्टादि हि कर्मजातं चरणापेक्षम् / नहि सदाचारहीनः कश्चिदधिकृतः स्यात्- ऽआचारहीनं न पुनन्ति वेदाःऽ इत्यादिस्मृतिभ्यः पुरुषार्थत्वे ऽप्याचारस्य नानर्थक्यम् / इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते / कर्म च सर्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः / तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् / नहि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता / नहि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हतीति
SK
तदेव शङ्कासमाधानाभ्यमाह-आनर्थक्यमिति चेदित्यादिना सूत्रेण / चरणशब्दवाच्यस्यैव ग्रहणसंभवान्न लक्षणा युक्तेति शङ्कित्वैव ब्रूते-नन्विति / प्रतिषिद्धं शीलं क्रोधानृतादिरूपम् / किञ्च शीलस्य निष्फलत्वायोगाच्छ्रुतयोन्यापत्तिस्तस्यैव फलं नानुशयस्येत्याह-अवश्यं चेति / वेदास्तदर्थकर्माण्याचारं विना न फलन्तीति स्मृत्या शीलस्य कर्माङ्गत्वान्न पृथक्फलापेक्षा, अङ्गिफलेनार्थवत्त्वात् / न चाङ्गमात्राद्योन्यापत्तिः फलमिति वाच्यम् / अङ्गस्य फलासंभवेन मुख्यार्थस्याचारस्य ग्रहणायोगाल्लक्षणा युक्तेति समाधानार्थः / यद्याचारस्य स्नानादिवत् पुरुषसंस्कारतया पुरुषार्थत्वं तदाप्यविरोध इत्याह-पुरुषार्थत्वे ऽपीति / अङ्गावबद्धोपास्तिवदाचारोर्ऽथवानित्यर्थः / अस्तु तर्हि शीलख्याचारादेव योन्यापत्तिरित्याशङ्क्य ऽपुण्यो वै पुण्येन कर्मणाऽइत्यादि श्रुत्या विरोधान्नैवमित्याह-कर्म चेति /
SK
पारयमाणः शक्तः
SK
END Bस्Cओम्_३,१.२.१०
SK
START Bस्Cओम्_३,१.३.११
SK
सुकृतदुष्कृते एवेति तु बादरिः | BBस्_३,१.११ |
SK
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते / चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् / तथाहि- अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते / यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येष महात्मेति / आचारो ऽपि च धर्मविशेष एव / भेदव्यपदेशस्तु कर्मचरणयोर्बाह्मणपरिव्राजकन्यायेनाप्युपपद्यते / तस्माद्रमणीयचरणाः प्रशस्तकर्मणाः कपूयचरणा निन्दितकर्माण इति निर्णयः
SK
FN: गोबलीवर्दन्यायो ऽप्ययमेव /
SK
यद्यप्यक्रोधादिरूपं शीलं साधारणधर्मात्मकं विशेषरूपात् कर्मणो ऽभिन्नं तथापि चरणाचारशब्दौ कर्मवाचिनावेव न शीलवाचकाविति न लक्षणावसर इति बादरिमतं मुख्यसिद्धान्तमाह-सुकृतेति / चरणशब्दार्थमुपसंहरति-आचारो ऽपीति / कर्मण एवाचारत्वे यथाकारीत्यादिभेदोक्तिः कथमित्यत आह-भेदव्यपदेश इति /
SK
निरूपपदाचारशब्दात् सदाचाररूपो विशेषो भाति / अतस्तत्समभिव्याहृतः कर्मसामान्यवाचको यथाकारीति शब्दस्तदितरविशेषपरः एवमनवद्यानि कर्माणीति सामान्यतः, अस्माकं सुचरितानीति विशेष इति विवेकः / तस्मादनुशयबलादागत्यवश्यंभावानुसन्धानाद्वैराग्यमिति सिद्धम्
SK
END Bस्Cओम्_३,१.३.११
SK
START Bस्Cओम्_३,१.३.१२
SK
३ अनिष्टादिकार्यधिकरणम् / सू. १२-२१
SK
अनिष्टादिकारिणाम् अपि च श्रुतम् | BBस्_३,१.१२ |
SK
इष्टादिकारिणश्चन्द्रमसं गच्छतीत्युक्तम् / ये त्वितरे ऽनिष्टादिकारिणस्ते ऽपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते / तत्र तावदाहुः - इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न / कस्मात् / यतो ऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् / एथाह्यविशेषेण कौषीतकिनः समामनन्ति- ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषी. १.२) इति / पञ्चभ्यामाहुतावित्याहुतिसंख्यानियमात् / यस्मात्सर्व एव चन्द्रमसमासीदेयुः / इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् /
SK
न / इतरेषां चन्द्रमण्डले भोगाभावात्
SK
एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति-अनिष्टादिकारिणामपीति / ऽये वै के चऽइत्यविशेषश्रुतेः, ऽवैवस्वतं संगमनं जनानाम्ऽइति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्धनियमाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-तत्रेत्यादिना / यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः / पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति नियमाभावात् पुण्यवैयर्थ्यं पापाद्वैराग्यादार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्रलोकदर्शनमपि नास्तीति पुण्यार्थवत्त्वं वैराग्यदार्ढ्यं चेति फलम् / पञ्चमाग्नौ देहारम्भ इति नियमात्पापिनामपि प्रथमद्युलोकाग्निप्राप्तिर्वाच्येत्याह-देहारम्भ इति /
SK
पापिनां स्वर्गभोगाभावे ऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः
SK
END Bस्Cओम्_३,१.३.१२
SK
START Bस्Cओम्_३,१.३.१३
SK
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् | BBस्_३,१.१३ |
SK
तुशब्दः पक्षं व्यावर्तयति / नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति / एतत्कस्मात् / यतो भोगायैव चन्द्रारोहणं न निष्प्रयोजनम् / नापि प्रत्यवरोहायैव / यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव न निष्प्रयोजनं नापि पतनायैव / भोगश्चानिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् / तस्मादिष्चादिकारिण एव चन्द्रमसमारोहन्ति नेतरे / ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोन्ति / एवंभूतौ तेषामारोहावरोहौ भवतः / कुतः - तद्गतिदर्शनात् / तथाहि यमवचनसरूपा श्रुतिः प्रयतामनिष्टादिकारिणां यमवश्यतां दर्शयति- ऽन सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् / अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मेऽ (कठ. २.६) इति / ऽवैवस्वतं संगमनं जनानाम्ऽ इत्येवञ्जातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति
SK
सिद्धान्तसूत्रं व्याचष्टे-तुशब्द इत्यादिना / संयमने यमलोके यमकृता यातना अनुभूयावरोहन्तीत्येवमारोहावरोहाविति योजना सूत्रस्य ज्ञेया / प्रयतां मृत्वा गच्छताम् / सम्यक् परस्तात्प्राप्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति / स च बालो ऽयं स्त्रीवित्तादिलोको ऽस्ति न परलोको ऽस्तीति मानी / स मे मम यमस्य वशमाप्नोतीत्यर्थः / पापिनां यमवश्यतावादिविशेषश्रुतिस्मृतिबलात्ऽये वै के चऽइत्यविशेषश्रुतिरिष्टादिकारिविषयत्वेन व्याख्येयेति भावः
SK
END Bस्Cओम्_३,१.३.१३
SK
START Bस्Cओम्_३,१.३.१४
SK
स्मरन्ति च | BBस्_३,१.१४ |
SK
अपिच मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु
SK
सूत्रत्रयस्य भाष्यं सुबोधम् //१४ // //१५
SK
END Bस्Cओम्_३,१.३.१४
SK
START Bस्Cओम्_३,१.३.१५
SK
अपि च सप्त | BBस्_३,१.१५ |
SK
अपिच सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः / ताननिष्टादिकारिणः प्राप्नुवन्ति / कुतस्ते चन्द्रं प्राप्नुयुरित्यभिप्रायः
SK
END Bस्Cओम्_३,१.३.१५
SK
START Bस्Cओम्_३,१.३.१६
SK
ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्मणो ऽनुभवन्तीति / यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति /
SK
नेत्याह-
SK
तत्रापि च तद्व्यापारादविरोधः | BBस्_३,१.१६ |
SK
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः / यमप्रयुक्ता एव हि ते चित्रगुप्तादयो ऽधिष्ठातारः स्मर्यन्ते
SK
END Bस्Cओम्_३,१.३.१६
SK
START Bस्Cओम्_३,१.३.१७
SK
विद्याकर्मणोर् इति तु प्रकृतत्वात् | BBस्_३,१.१७ |
SK
पञ्चाग्निविद्यायाम् ऽवेत्थ यथासौ लोको न संपूर्यतेऽ (छा. ५.३.३) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- ऽअथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति / जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा. ५.१०.८) इति / तत्रैतयोः पथोरिति विद्याकर्मणोरित्येतत् / कस्मात् / प्रकृतत्वात् / विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते / ऽतद्य इत्थं विदुःऽ इति विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः / ऽइष्टापूर्ते दत्तम्ऽ (छा. ५.१०.१,३) इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः / तत्प्पक्रियायाम्- ऽअथैतयोः पथोर्न कतरेणचनऽ इति श्रुतम् / एतदुक्तं भवति- ये न विद्यासाधनेन देवयाने पत्यधिकृता नापि कर्मणा पितृयाणे तेषामेष क्षुद्रजन्तुलक्षणो ऽसकृदावर्ती तृतीयः पन्था भवतीति / तस्मादपि नानिष्टादिकारिभिश्चन्द्रमाः प्राप्यते / स्यादेतत् / ते ऽपि चन्द्रबिम्बमारुह्य ततो ऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति / तदपि नास्ति / आरोहानर्थक्यात् / अपिच सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्स्वसौ लोकः प्रयद्भिः संपूर्येतेत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत / तथाहि प्रतिवचनं दातव्यं यथासौ लोको न संपूर्यते / अवरोहाभ्युपगमादसंपूर्णोपपत्तिरिति चेत् /
SK
न / अश्रुतत्वात् / सत्यमवरोहादप्यसंपूरणमुपपद्यते / श्रुतिस्तु तृतीयस्थानसंकीर्तनेनासंपूरणं दर्शयति- ऽएतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा. ५.१०.८) इति / तेनानारोहादेवासंपूरणमिति युक्तम् / अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् / तुशब्दस्तु शाकान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति / एवं सत्यधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दो ऽवतिष्ठते / ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति
SK
यदुक्तं मार्गान्तराभावात् पापिनामपि चन्द्रगतिरिति / तन्न / तृतीयमार्गश्रुतेरित्याह-विद्याकर्मणोरिति / मार्गद्वितयोक्त्यनन्तरं तृतीयमार्गोक्तिप्रारम्भार्थः श्रुतावथशब्दः / एतयोर्विद्याकर्मणोः पथिद्वयसाधनयोरन्यतरेणापि साधनेन ये नरा न युक्तास्ते जन्ममरणावृत्तिरूपतृतीयमार्गस्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्रगत्यभावाच्चन्द्रलोको न संपूर्यत इति श्रुत्यर्थः / प्रतिपत्ताविति / प्राप्तिसाधने इत्यर्थः / अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत ऽअतश्च न संपूर्यतेऽइत्येतत्प्रतिवचनं विरुद्धं प्रसज्येतेत्यन्वयः / अवरोहादसंपूरणमश्रुतं न कल्प्यं श्रुतहान्यापत्तेरित्याह-न अश्रुतत्वादिति / अवरोह एव तृतीयं स्थानं श्रुत्युक्तमित्यत आह-अवरोहस्येति /
SK
इममध्वानं पुनर्निवर्तन्त इति इष्टादिकारिणामवरोहोक्तेरनिष्टादिकारिणामपि अवरोहस्यार्थसिद्धत्वात् पुनरुक्तिर्व्यर्थेत्यर्थः / अथैतयोरिति मार्गान्तरोपक्रमबाधस्तृतीयशब्दबाधश्चेत्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम्
SK
END Bस्Cओम्_३,१.३.१७
SK
START Bस्Cओम्_३,१.३.१८
SK
यत्पुनरुक्तं देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, पञ्चम्यामाहुतावित्याहुतिसंख्यानियमादिति /
SK
तत्प्रत्युच्यते-
SK
न तृतीये तथोपलब्धेः | BBस्_३,१.१८ |
SK
न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः / कुतः - तथोपलब्धेः / तथाह्यन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते ऽजायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्ऽ (छा. ५.१०.८) इति / अपिच ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. ५.३.३) इति मनुष्यशरीरहेतुत्वेनाहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् / अपिच पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते नापञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् / तत्र येषामारोहावरोहौ संभवतस्तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति / अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते
SK
एवमविशेषश्रुतेर्मार्गान्तराभावाच्चेति पूर्वपक्षबीजद्वयं निरस्य तृतीयबीजनिरासार्थं सूत्रमादत्ते-यत्पुनरित्यादिना / विद्याकर्मशून्यानां कृमिकीटादिभावेन जायस्वेत्यादिश्रुत्या निरन्तरजन्ममरणोपलब्धेर्नाहुतिसंख्यादर इत्यर्थः / पुरुषशब्दाच्चैवमित्याह-अपिचेति / मनुष्यदेहस्यापि नाहुतिसङ्ख्यानियम इत्याह-अपिचेत्यादिना /
SK
विधिनिषेधरूपार्थद्वये वाक्यभेदः स्यादित्यर्थः
SK
END Bस्Cओम्_३,१.३.१८
SK
START Bस्Cओम्_३,१.३.१९
SK
स्मर्यते ऽपि च लोके | BBस्_३,१.१९ |
SK
अपिच स्मर्यते लोके / द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् / तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति / धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः / यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यत्रापि भविष्यति / बलाकाप्यन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः
SK
अनियमे स्मृतिसंवादार्थं सूत्रम्-स्मर्यते ऽपीति / लोक्यते ऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह-बलाकेति
SK
END Bस्Cओम्_३,१.३.१९
SK
START Bस्Cओम्_३,१.३.२०
SK
दर्शनाच् च | BBस्_३,१.२० |
SK
अपिच चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति / एवमन्यत्रापि भविष्यति
SK
FN: जीवजं जरायुजम् , उद्भिज्जं वृक्षादि /
SK
ऽअण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च ऽइतिश्रुत्यवष्टम्भेन सूत्रं व्याचष्टे-अपिचेति /
SK
अन्यत्राप्यनिष्टादिकारिष्वित्यर्थः
SK
END Bस्Cओम्_३,१.३.२०
SK
START Bस्Cओम्_३,१.३.२१
SK
ननु ऽतेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्ऽ (छा. ६.३.१) इति / अत्र त्रिविध एव भूतग्रामः श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति / अत्रोच्यते-
SK
तृतीयशब्दावरोधः संशोकजस्य | BBस्_३,१.२१ |
SK
ऽआण्डजं जीवजमुजद्भिजम्ऽ (छा. ६.३.१) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः / उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् / स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः
SK
FN: संशोकजं स्वेदजम् /
SK
अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्येवेत्यवधारणविरोधादिति शङ्कोत्तरत्वेन सूत्रमादत्ते-नन्वित्यादिना /
SK
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः / संशोकः स्वेदः
SK
END Bस्Cओम्_३,१.३.२१
SK
START Bस्Cओम्_३,१.४.२२
SK
४ साभाव्यापत्यधिकरणम् / सू. २२
SK
साभाव्यापत्तिरुपपत्तेः | BBस्_३,१.२२ |
SK
इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततःसानुशया अवरोहन्तीत्युक्तम् / अतावरोहप्रकारः परीक्ष्यते / तत्रेयमवरोहश्रुतिर्भवति- ऽअथैचमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायिर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भूत्वा प्रवर्षतिऽ (छा. ५.१०.५) इति / तत्र संशयः - किमाकाशादिस्वरूपमेवावारोहन्तः प्रतिपद्यन्ते किंवाकाशादिसाम्यमिति / तत्र प्राप्तं तावदाकाशादिस्वरूपमेव प्रतिपद्यन्त इति / कुतः एवं हि श्रुतिर्भवति / इतरथा लक्षणा स्यात् / श्रुतिलक्षमाविषये च श्रुतिर्न्याय्या न लक्षणा / तथाच वायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपत्तावाञ्जस्येनावकल्पन्ते / तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति / एवं प्राप्ते ब्रूमः - आकाशादिसाम्यं प्रतिपद्यन्त इति / चन्द्रमण्डले यदंमयं शरीरमुपभोगार्थमारब्धं तदुपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ततो वायोर्वशमेति ततो धूमादिभिः संपृच्यत इति / तदेतदुच्यते- ऽयथेतमाकाशमाकाशाद्वायुम्ऽ (छा. ५.१०.५) इत्येवमादिना / कुत एतत् / उपपत्तेः / एवं ह्येतदुपपद्यते / नह्यन्यस्यान्यभावो मुख्य उपपद्यते / आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते / विभुत्वाच्चाकाशेन नित्यसंबन्धवत्त्वान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटते / श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव / अत आकाशादितुल्यतापत्तिरेवात्राकाशादिभाव इत्युपचर्यते
SK
५ नातिचिराधिकरणम् / सू. २३
SK
एवं पापिनां गत्यागती विचार्य संप्रतीष्टादिकारिणामवरोहे विशेषमाह-साभाव्यापत्तिरूपपत्तेः / यथेतमनेवं चेत्युक्तरीत्या यथागतं धूमाद्यध्वानं पुनर्निवर्तन्ते, निवृत्ताश्चानुशयिनः कर्मान्ते द्रुतदेहा आकाशं गता आकाशसदृशा भवन्ति / आकाशसादृश्यानन्तरं पिण्डीकृता अतिसूक्ष्मलिङ्गोपहिताः वायुनेतस्ततश्च नीयमाना वायुसमा भवन्ति / सो ऽनुशयी संघो वायुसमो भूत्वा धूमसंगतस्तत्समो भवति, धूमसमो भूत्वाभ्रसमो भवति / अपो बिभर्तीत्यभ्रं, मेहति सिञ्चतीति वृष्टिकर्ता मेघस्तत्समो भूत्वा वर्षधाराद्वारा पृथिवीं प्रविश्य व्रीहियवादिरूपो भवतीति सिद्धान्तगत्या श्रुत्यर्थः / पूर्वोत्तरयुक्तिद्वयं संश्यबीजं मन्तव्यं, पूर्वत्र मार्गद्वयमुक्त्वा तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षकत्वमिह तु दुग्धं दधि भवतीत्यादिप्रयोगे भवतिश्रुतेर्विकारस्वरूपापत्तौ मुख्यत्वात् सादृश्यापत्तिलक्षणाबीजं नास्तीति प्रत्युदाहरणसङ्गतिः / श्रुतिमुख्यत्वं फलमिति पूर्वपक्षः / अनुशयिनां पूर्वसिद्धाकाशादिस्वरूपापत्त्ययोगाल्लक्षणेति सिद्धान्तयति-एवमित्यादिना / समानो भावो धर्मो यस्य तद्भावः साभाव्यं साम्यमिति सूत्रपदार्थः / एवं ह्येतदिति / एतद्भवनमेवं सादृश्यरूपमेवोपपद्यत इत्यर्थः / अनुशयिनामाकाशादिभ्यो निर्गमनान्यथानुपपत्त्यापि सादृश्यलक्षणेत्याह-आकाशस्वरूपेति / संयोगलक्षणामाशङ्क्याह-विभुत्वादि ति / भवतिश्रुत्या संयोगलक्षणायामनुवादः स्यादित्यर्थः / विविधभूतसाम्यमवरोहे भवतीत्यनुसंधानाद्वैराग्यमुपसंहरति-अत इति
SK
END Bस्Cओम्_३,१.४.२२
SK
START Bस्Cओम्_३,१.५.२३
SK
नातिचिरेण विशेषात् | BBस्_३,१.२३ |
SK
तत्राकाशादिप्रतिपत्तौ प्राग्विरीह्यादिप्रतिपत्तेर्भवति विशयः / किं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरसादृश्यं गच्छन्त्युताल्पमिति / तत्रानियमो नियमकारिणः शास्त्रस्याभावादिति / एवं प्राप्त इदमाह- नातिचिरेणेति / अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति / कुत एतत् / विशेषदर्शनात् / तथाहि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि- ऽअतो वै खलु दुर्निष्प्रपतरम्ऽ
SK
(छा. ५.१०.६) इति / तकार एतश्चन्दस्यां प्रक्रियायां लुप्तो मन्तव्यः / दुर्निप्रपततरं दुर्निष्क्रमतरं दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः / तदत्र दुःखं निष्प्रपतनं प्रदर्शयन्पूर्वेषु सुखं निष्प्रपतनं दर्शयति / सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः / तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात् / तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति
SK
नातिचिरेण / उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिराचिरगतिदर्शनात्संशयं वदन् पूर्वपक्षयति-तत्रेत्यादिना / अनियमात् कदाचिद्विलम्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहीयवादिभावादनुशयिनां विलम्बेन निर्गमनमिति विशेषादाकाशादिभावाच्छीघ्रं निर्गम इत्यविलम्बेन योन्यापत्तिरित्यनुसंधानाद्वैराग्यदार्ढ्यमिति विवेकः / नन्वाकाशादिष्वनुशयिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिराचिरनिर्गमनमित्यत आह-सुखदुःखताविशेषश्चायमिति /
SK
अवधिः कालः
SK
END Bस्Cओम्_३,१.५.२३
SK
START Bस्Cओम्_३,१.६.२४
SK
६ अन्याधिष्ठिताधिकरणम् / सू. २४-२७
SK
अन्याधिष्ठितेषु पूर्ववदभिलापात् | BBस्_३,१.२४ |
SK
तस्मिन्नेवारोहे प्रवर्षणानन्तरं पठ्यते- ऽत इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽ (छा. ५.१०.६)
SK
इति / तत्र संशयः - किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजो ऽनुशायिनो भवत्याहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति / किं तावत्प्राप्तम् / स्थावरजात्यापन्नास्तत्सुखदुःखभाजो ऽनुशयिनो भवन्तीति / कुत एतत् / जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः / पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः / तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म / श्वादिजन्मवत् / यथा श्वयोनिं वा सूकरयोनिं वा चम्डालयोनिं वेति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति / एवं व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखान्वितं भवति / एवं व्रीह्यादिजन्मापीति / एवं प्राप्ते ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति / पूर्ववत् / यथा वायुधूमादिभावो ऽनुशयिनां तत्संश्लेषमात्रम् / एवं व्रीह्यादिभावो ऽपि जातिस्थावरैः संश्लेषमात्रम् / कुत एतत् / तद्वदेवेहाप्यभिलापात् / को ऽभिलापस्य तद्वद्भावः / कर्मव्यापारमन्तरेण संकीर्तनम् / यथाकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशत्येवं व्रीह्यादिजन्मन्यपि / तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् / यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारं रमणीयचरणाः कपूयचरणा इति च / अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनो ऽनुशयिनः प्रवसेयुः / यो हि जीवो यच्छरीरमभिमन्यते स तस्मिन्पीड्यमाने प्रवसतीति प्रसिद्धम् / तत्र व्रीह्यादिभावाद्रेतःसिग्भावो ऽनुशयिनां नाभिलप्येत / अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति / एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयादुपभोगस्थानत्वं च स्थावरभावस्य / नच वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे / भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानम् / चन्द्रमसस्त्ववरोहन्तो ऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे
SK
अन्याभिलापात् / श्रुतिक्रमात् अर्थक्रमाच्चाधिकरणानां क्रमो बोध्यः / इह भूमौ वर्षधाराद्वारा पतितास्ते ऽनुशयिनो व्रीह्यादिसाम्येन जायन्त इति श्रुत्यर्थः / अत्र जायन्त इति श्रुतेः पूर्वत्राकाशादिवर्षान्तसादृश्योक्तेश्च संशयमाह-तत्रेति / अस्मिन्नवधौ वर्षसादृश्यानन्तरमित्यर्थः / दुर्निष्प्रपतरशब्देन चिरनिर्गलनलक्षणोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्यसंभवादित्याक्षेपसङ्गत्या पूर्वपक्षयति-किं तावदित्यादिना / अत्र पूर्वपक्षे स्थावरत्वनिवृत्तये ऽधिकारिणां यत्नगौरवं, सिद्धान्ते व्रीह्यादिसंश्लेषमात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः / ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यदेस्तु न देहत्वमित्यत आह-स्थावरभावस्येति / ऽस्थाणुमन्ये ऽनुसंयन्तिऽइत्याद्या श्रुतिः / ऽशरीरजैः कर्मदोषैर्याति स्थावरतां नरःऽइत्याद्या स्मृतिः / ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह-पश्विति / सोमाद्युच्छिष्टभक्षणसुराग्रहावादिशब्दार्थः / क्रत्वर्थहिंसादेरपि हिंसात्वादिसामान्येन प्रवृत्तेर्न हिंस्यादित्यादिशास्त्रनिषिद्धत्वाकारेण दुरितापूर्वकारित्वमविरुद्धमिति साङ्ख्या आहुः / श्रुतो ऽत्र व्रीह्यादिभावो ऽनुशयिनां न जन्यरूपः कर्मविशेषपरामर्शं विनात्रोक्तत्वात्, पूर्वोक्ताकाशादिभाववदिति सिद्धान्तयति-एवं प्राप्त इत्यादिना / पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्मविशेषपरामर्शकमुच्यते तज्जन्मेति व्यतिरेकदृष्टान्तमप्याह-यत्र त्विति / अपिच ऽयो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवतिऽइति वाक्यशेषे व्रीह्यादिषु प्रविष्टस्यानुशयिसंघस्यान्नद्वारा रेतःसिक्पुरुषयोगः श्रुतस्तदन्यथानुपपत्त्यापि जन्मश्रुतिर्न मुख्येत्याह-अपिचेत्यादिना / व्रीह्यादिरूपदेहनाशे देहिनामुक्तान्तेरवश्यंभावाद्रेतः सिग्योगो न स्यादित्यर्थः / एतेनेति / उक्तानुमानार्थापत्तिभ्याम् / जायत इति श्रुतेर्मुख्यार्थत्वमनुशयिभोगायतनत्वं च व्रीह्यादेः प्रतिब्रूयादित्यर्थः / ननु व्रीह्यादेर्भोगायतनत्वानङ्गीकारे पूर्वोक्तश्रुतिस्मृतिप्रसिद्धिबाध इत्यत आह-नचेति
SK
END Bस्Cओम्_३,१.६.२४
SK
START Bस्Cओम्_३,१.६.२५
SK
अशुद्धम् इति चेन् न शब्दात् | BBस्_३,१.२५ |
SK
यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनानर्थिकेति तत्परिह्रियते / न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य / अयं धर्मो ऽयमधर्म इति शास्त्रमेव विज्ञाने कारणम् / अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च / यस्मिन्देशे काले निमित्ते च यो धर्मो ऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति / तेन शास्त्रादृते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति / शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम् /
SK
ननु ऽन हिंस्यात्सर्वा भूतानिऽ इति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति / बाढम् / उत्सर्गस्तु सः / अपवादः ऽअग्नीषोमीयं पशुमालभेतऽ इति / उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् / तस्माद्विशुद्धं कर्म वैदिकं, शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च / तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम् / नच श्वादिजन्मादिवदपि व्रीह्यादिजन्म भवितुमर्हति / तद्धि कपूयतरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारो ऽस्ति / अतश्चन्द्रमण्डलस्खलितानामनुशायिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते
SK
वैदिकं कर्माशुद्धं न भवति शास्त्रविहितत्वादिति सूत्रार्थं प्रपञ्चयति-अयं धर्म इत्यादिना / शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः / ततः किं तत्राह-शास्त्राच्चेति / ननु या हिंसा सो ऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधो ऽत्र न युक्तः / नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषिद्धहिंसादेरपि क्रतूपकारकत्वाविरोधादिति, तत्राह-उत्सर्गापवादयोरिति / अयमर्थः-काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः / तथाच श्येनाख्ये कर्मणि निषेधे ऽपि रागप्राबल्यात् प्रवृत्तिः स्यात् क्रत्वङ्गहिंसादौ तु विधित एव प्रवृत्तिर्वाच्या / स च विधिर्यद्युत्सर्गप्राप्तमनर्थहेतुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः सावकाशमुत्सर्गमविहितहिंसादिषु स्थापयतीति / इदं च निषेधशास्त्रस्य हिंसात्वादिसामान्येन प्रवृत्तिमङ्गीकृत्योक्तम् / वस्तुतस्तस्य रागप्राप्तहिंसाविषयत्वाद्वैधहिंसायामप्रवृत्तेर्नाशुद्धत्वशङ्कावसर इति द्रष्टव्यम् / प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना / इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम्
SK
END Bस्Cओम्_३,१.६.२५
SK
START Bस्Cओम्_३,१.६.२६
SK
रेतःसिग्योगो ऽथ | BBस्_३,१.२६ |
SK
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावो यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते - ऽयो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवतिऽ (छा. ५.१०.६) इति / नचात्र मुख्यो रेतःसिग्भावः संभवति / चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति / कथमिवानुपचरितं तद्भावमद्यमानान्नानुगतो ऽनुशयी प्रतिपद्यते / तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावो ऽभ्युपगन्तव्यः / तद्वद्व्रीह्यादिभावो ऽपि व्रीह्यादियोग एवेत्यविरोधः
SK
अथ व्रीह्यादिभावानन्तरं रेतः सिग्भावः श्रुतः / तत्रान्नस्थानुशयिनो रेतः सेककर्तृत्वायोगाद्योगमात्रं वाच्यं तद्वदुपक्रमे ऽपि योग एवास्थेयः, अन्यथोपक्रमोपसंहारयोर्विरोधः स्यादिति मत्वोक्तम्-इत्यविरोध इति
SK
END Bस्Cओम्_३,१.६.२६
SK
START Bस्Cओम्_३,१.६.२७
SK
योनेः शरीरम् | BBस्_३,१.२७ |
SK
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेरधिकशरीरमनुशयिनामनुशयफलोपभोगाय जायत इत्याह शास्त्रम् - ऽऽतद्य इह रमणीयचरणाःऽ (छाय ५.१०.७) इत्यादि / तस्मादप्यवगम्यते नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःकान्वितं भवतीति / तस्माद्व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम्
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये तृतीयाध्यायस्य प्रथमः पादः
SK
योनेः शरीरश्रुतेर्न व्रीह्यादिशरीरत्वमनुशयिनामिति सूत्रार्थः / एवं कर्मिणां गत्यागतिसंसारो दुर्वार इत्यनुसन्धानात् कर्मफलाद्वैराग्यं तत्त्वज्ञानसाधनं सिद्धमिति पादार्थमुपसंहरति-इति सिद्धमिति
SK
इति श्रीमद्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्दभगवत्पादकृतौ शारीरकमीमांसाख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य प्रथमः पादः //
SK
END Bस्Cओम्_३,१.६.२७
SK
तृतीयाध्याये द्वितीयः पादः /
SK
START Bस्Cओम्_३,२.१.१
SK
तृतीयाध्याये द्वितीयः पादः /
SK
[अत्रपादे तत्त्वंपदार्थपरिशोधनविचारः]
SK
१ संध्याधिकरणम् / सू. १-६
SK
सन्ध्ये सृष्टिराह हि | BBस्_३,२.१ |
SK
अतिक्रीन्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः / इदानीं तु तस्यैवावस्थाभेदः प्रपञ्च्यते / इदमामनन्ति- ऽस यत्र प्रस्वपितिऽ (बृ. ४.३.९) इत्युपक्रम्य ऽन तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजतेऽ (बृ. ४.३.१०) इत्यादि / तत्र संशयः - किं प्रबोध इव स्वप्ने ऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति / तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा सृष्टिरिति / संध्यमिति स्वप्नानमाचष्टे, वेदे प्रयोगदर्शनात् ऽसंध्यं तृतीयं स्वप्नस्थानम्ऽ (बृ. ४.३.९) इति / द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयोर्वा संधौ भवतीति संध्यम् / तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति / कुतः - यतः प्रमाणभूता श्रुतिरेवमाह ऽअथ रथान्नथयोगान्पथः सृजतेऽ (बृ. ४,३.१०) इत्यादि / स हि कर्तेति चोपसंहारादेवमेवावगम्यते
SK
संध्ये सृष्टिराह हि / उक्तवैराग्यसाध्यस्तत्त्वंपदार्थविवेको वाक्यार्थज्ञानसाधनमस्मिन् पादे निरूप्यत इति पादयोर्हेतुसाध्यभावसंगतिमाह-अतिक्रान्त इति / साधनविचारत्वादेवास्य पादस्यास्मिन्नध्याये संगतिः / अस्मिन् पादे ऽन स्थानतो ऽपिऽइत्यतः प्रागुद्देश्यत्वेन प्रथमं जिज्ञासितत्वंपदार्थो ऽवस्थाद्वारा विविच्यते, तदारभ्यापादसमाप्तेर्विधेयतत्पदार्थविवेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथादिसृष्ट्युक्तेस्तदभावोक्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति-तत्र संशय इत्यादिना / स्वप्नरथादयो जाग्रद्रथादिवत् व्यावहारिकसत्ताका उत शुक्तिरजतवत् प्रातीतिका इति संशयार्थः / आरम्भणाधिकरणे प्रपञ्चस्य पारमार्थिकत्वनिषेधादिति मन्तव्यम् / अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः / सिद्धान्ते प्रातीतिकदृश्यसाक्षितया विवेकात् स्वयञ्ज्योतिष्ट्वसिद्धिरिति फलम् / मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवो सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाधृदये मनसा परलोकस्फूर्तिरूपः स्वप्नो भवति, सो ऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः / तथाच श्रुतिः-ऽतस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं चऽइति / अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबोधसंप्रसादसंधिभवत्वमुक्तम् / अन्येतु मर्त्यचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं परलोकलक्षणं, दैवचक्षुराद्यजन्यतद्वत्त्वं मर्त्यलोकलक्षणं च स्वप्ने ऽस्तीति लक्षणतो लोकद्वयस्पर्शित्वात् नित्यस्वप्नस्यैव लोकद्वयसंध्यत्वं ग्रामद्वयस्पर्शिमार्गस्य तत्संध्यत्ववदिति व्याचक्षते / न केवलं श्रुत्या स्वप्नार्थानां व्यावहारिकसत्यत्वं किन्तु सकर्तृकत्वादपीत्याह-स हि कर्तेति
SK
END Bस्Cओम्_३,२.१.१
SK
START Bस्Cओम्_३,२.१.२
SK
निर्मातारं चैके पुत्रादयश् च | BBस्_३,२.२ |
SK
अपिचैके शाखिनो ऽस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति- ऽय एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणःऽ (क. ५.८) इति / पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति /
SK
ननु कामशब्देनेच्छाविशेषा एवोच्येरन् /
SK
न / ऽशतायुषः पुत्रपौत्रान्वृणीष्वऽ (क. १.२३) इति प्रकृत्यान्ते ऽकामानां त्वा कामभाजं करोमिऽ (क. १.२४) इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् / प्राज्ञं चैनं निर्मितारं प्रकरणवाक्यशेषाभ्यां प्रतीमः / प्राज्ञस्य हीदं करणम् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. २.२४) इत्यादि, तद्विषय एव च वाक्यशेषो ऽपि- ऽतदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते / तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनऽऽ (क. ५.८) इति / प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति / तथाच श्रुतिः - अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्तः (बृ. ४.३.१४) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति / तस्मात्तथ्यरूपैव संध्ये सृष्टरिति
SK
किञ्च स्वप्नार्थाः सत्याः, प्राज्ञनिर्मितत्वात्, आकाशादिवदिति सूत्रार्थमाह-अपिचेत्यादिना / रूढिमाशङ्क्य प्रकरणान्निरस्यति-नन्वित्यादिना / यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः / स्वप्नस्य जाग्रदर्थैः / समानदेशत्वश्रुतेरभेदश्रुतेश्च सत्यत्वे तात्पर्यमित्याह-अथो खल्वाहुरिति
SK
END Bस्Cओम्_३,२.१.२
SK
START Bस्Cओम्_३,२.१.३
SK
एवं प्राप्ते प्रत्याह-
SK
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् | BBस्_३,२.३ |
SK
तुशब्दः पक्षं व्यवर्तयति / नैतदस्ति यदुक्तं संध्ये सृष्टिः पारमार्थिकीति / मायैव संध्ये सृष्टिर्न पारमार्थगन्धो ऽप्यस्ति / कुतः - कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् / नहि कार्त्स्न्येनपारमार्थवस्तुधर्मेणाभिव्यक्तस्वरूपः स्वप्नः / किं पुनरत्र कार्त्स्न्यमभिप्रेतं देशकालनिमित्तान्यबाधश्च / नहि परमार्थवस्तुविषयाणि देशकालनिमित्तान्यबाधाश्च स्वप्ने संभाव्यन्ते / न तावत्स्वप्ने रथादीनामुचितो देशः संभवति / नहि संवृते देहदेशेरथादयो ऽवकाशं लभेरन् / स्यादेतत् / बहिर्देहात्स्वप्नम् द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् / दर्शयति च श्रुतिर्बहिर्देहात्स्वप्नम्- ऽबहिष्कुलायादमृतश्चरित्वा / स ईयते ऽमृतो यत्र कामम्ऽ (बृ. ४.३.१२) इति स्थितिगतिप्रत्ययभेदश्च नानिष्क्रान्ते जन्तौ सामञ्जस्यामश्नुवीतेति /
SK
नेत्युच्यते / नहि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं संभाव्यते / क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः स्वप्ने पञ्चालानभिगतश्चास्मिन्प्रतिबुद्धश्चेति / देहाच्चेदपेयात्पञ्चालेषु प्रतिहुध्येत न तानसावभिगत इति कुरुष्वेव तु प्रतिबुध्यते / येन चायं देहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति / यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति / परिधावंश्चेत्पश्येज्जाग्रद्वद्वस्तुभूतमार अथमाकलयेत् / दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम्- ऽस यत्रैतत्स्वप्न्यया चरतिऽ इत्युपक्रम्य ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ. २.१.१८) इति / अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिर्गौणी व्याख्यातव्यया बहिरिव कुलायादमृतश्चरित्वेति / यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स बहिरिव शरीराद्भवतीति / स्थितिगतिप्रत्ययभेदो ऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः / कालविसंवादो ऽपि च स्वप्ने भवति रजन्यां सुप्तो वासरं भारते वर्षे मन्यते / तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद्बहुवर्षपूगानतिवाहयति / निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते / करणोसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति / रथादिनिर्वर्तने ऽपि कुतो ऽस्य निमेषमात्रेण सामर्थ्यं दारुणी वा / बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे / स्वप्न एव चैते सुलभबाधा भवन्ति / आद्यन्तयोर्व्यभिचारदर्शनात् / रथो ऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः संपद्यते मनुष्यो ऽयमिति निर्धारितः क्षणेन वृक्षः / स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् - ऽऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽ (बृ. ४.३.१०) इत्यादि / तस्मान्मायामात्रं स्वप्नदर्शनम्
SK
FN: संवृते संकीर्णः / पर्येतुं गन्तुम् / विपर्येतुं आगन्तुम् /
SK
स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्टत्वाच्छुक्तिरूप्यादिवदिति सिद्धान्तयति-तुशब्द इत्यादिना / चिन्मात्रनिष्ठाविद्या चित्त्वावच्छेदेन जीवे ऽपि स्थिता रथाद्याकारा मायेति सूत्रभाष्ययोरुक्ता मायाविद्ययोरभेदज्ञापनाय मात्रपदेन तु सति प्रमातर्यबाध्यत्वरूपस्य व्यावहारिकसत्यत्वस्य निरास उक्तः / कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः / सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति-न तावादित्यादिना / संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विपर्येतुमागन्तुं, श्रावयति प्रबुद्धो जनः,
SK
पार्श्वस्थान्प्रतीति शेषः / एतत्स्वप्नं यथा स्यात्तथा / यत्र काले स्वप्न्यया वृत्त्या चरति तथा स्वशरीरे यथेष्टं चरतीत्यर्थः / बहिरिवेति / कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः / गुणमाह-यो हीति / देहाभिमानहीनत्वगुणेन बहिष्ठवद्देहस्थो ऽपि बहिरित्युक्त इत्यर्थः / एवं सति श्रुतियुक्तिभ्यां अन्तरेव स्वप्ने सतीत्यर्थः / विप्रलम्भो विभ्रमः योग्यदेशाभावमुक्त्वा कालाभावमाह-कालेति /
SK
अत्र रात्रिसमये ऽपि केतुमालादिवर्षान्तरे वासरो भवति इति भारत इत्युक्तम् / पूर्वक्षानुमानानां जाग्रदर्थदृष्टान्ते कॢप्तमग्रीजन्यत्वमबाधयोग्यत्वं चोपाधिरिति सूत्रतात्पर्यम्
SK
END Bस्Cओम्_३,२.१.३
SK
START Bस्Cओम्_३,२.१.४
SK
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः | BBस्_३,२.४ |
SK
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धो ऽस्तीति /
SK
नेत्युच्यते / सूचकश्च हि स्वप्नो भवति भविष्यतोःसाध्वसाधुनोः / तथाहि श्रूयते - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति / समृद्धिं तत्र जानीयात्तस्मिन्स्वप्नदर्शनेऽ (छा. ५.२.९) तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति / आचक्षते च स्वप्नाध्यायविदः - ऽकुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानिऽ इति / मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते / तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वादित्यभिप्रायः / तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् / यदुक्तम् ऽआह हिऽ इति तदेवं सति भाक्तं व्याख्यातव्यम् / यथा लाङ्गलं गवादीनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते, नतु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति / एवं निमित्तमात्रत्वादेवात्सुप्तो रथादीन्सृजते स हि कर्तेति चोच्यते, नतु प्रत्यक्षमेव सुप्तो रथादीन्सृजति / निमित्त्त्वं त्वस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् / अपिच जागरिते विषयेन्द्रियसंयोगादादित्यादिज्योतिर्व्यतिकराच्चात्मनः स्वयञ्ज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः / तत्र यदि रथादिसृष्चिवचनं श्रुत्या नीयेत तदा स्वयञ्ज्योतिष्ट्वं न निर्णीतं स्यात् / तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् / एतेन निर्माणश्रवणं व्याख्यातम् / यदप्युक्तम् - ऽप्राज्ञमेनं निर्मातारमामनन्तिऽ इति / तदप्यसत् / श्रुत्यन्तरे ऽस्वयं विहत्य स्वयं निर्माय स्वेन भासा ज्योतिषा प्रस्वपितिऽ (बृ. ४.३.९) इति जीवव्यापारश्रवणात् / इहापि ऽय एष सुप्तेषु जागर्तिऽ (क. ५.८) इति प्रसिद्धानुवज्जीव एवायं कामानां निर्माता संकीर्त्यते / तस्य तु वाक्यशेषेण तदेव शुक्रं तद्ब्रह्मेति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते - ऽतत्त्वमसिऽ (छा. ६.९.४) इत्यादिवदिति न ब्रह्मप्रकरणं विरुध्यते / नचास्माभिः स्वप्ने ऽपि प्राज्ञव्यवहारः प्रतिषिध्यते / तस्य सर्वेश्वरत्वात्सर्वास्ववस्थाधिष्ठातृत्वोपपत्तेः / पारमार्थिकस्तु नायं संध्याश्रयः सर्गो वियदादिसर्गवदित्येतावत्प्रतिपाद्यते / नच वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति / प्रतिपादितं हि ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽ (ब्र. सू. २.१.१४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् / प्राक्तु ब्रह्मात्मत्वदर्शनाद्वियदादिप्रपञ्चो व्यवस्थितरूपो भवति / संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इति / अतो वैशेषिकमिदं संध्यस्य मायामत्रत्वमुदितम्
SK
स्वप्नस्य भ्रान्तिमात्रत्वे तत्सूचितो ऽप्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे-मायेत्यादिना / मन्त्रेण देवतानुग्रहेणौषधिसेवया वा स्वप्नः सत्यसूचकाश्चेत् सत्याः स्युरित्यत आह-तत्रापि भवतु नामेति / सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्यत्वादर्शनादिति भावः / यथा कृषिद्वारा लाङ्गलस्य गवादिजीवननिमित्तत्वं तथा स्वप्नभोक्तुरदृष्टद्वारा स्वप्नसृष्टिनिमित्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षाद् स्वप्नकर्तृत्वं सामग्र्यभावबाधयोरुक्तत्वादित्याह-यदुक्तमित्यादिना / तथाच स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः / श्रुतितात्पर्यविरोधाच्च न स्वप्नसत्यतेत्याह-अपिचेति / व्यतिकरः संकरः, श्रुत्यातत्परतयेत्यर्थः / जागरितादविशेषादिति भावः / फलितमाह-तस्मादिति / एतेनेति / भाक्तत्वेनेत्यर्थः / द्वितीयसूत्रोक्तप्राज्ञकर्तृकत्वहेतुरपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वेश्वरत्वात् सिद्धः, नाद्य इत्याह-यदप्युक्तमित्यादिना / स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्नमनुभवतीत्यर्थथः / न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठके ऽपीत्याह-इहापीति / जीवोक्तौ ब्रह्मप्रकरणविरोध इत्यत आह-तस्य त्विति / एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्वितीयमङ्गीकरोति-न चास्माभिरिति / तर्हि हेतुसिद्धेः स्वप्नस्य सत्यत्वमित्याशङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह-पारमार्थिकस्त्विति / द्वितीये दृष्टान्तस्य साध्यवैकल्यमित्याह-नचेति / कस्तर्हि स्वप्नस्य जाग्रतो विशेषो ऽत्र कथ्यत इत्याशङ्क्य प्रातिभासिकत्वमित्याह-प्रागिति
SK
END Bस्Cओम्_३,२.१.४
SK
START Bस्Cओम्_३,२.२.५
SK
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ | BBस्_३,२.५ |
SK
अथापि स्यात्परस्यैव तावदात्मन्ॐऽशो जीवो ऽग्निरिव विस्फुलिङ्गः / तत्रैवं सति यथाग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवत एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती, ततश्च जीवस्य ज्ञानैश्वर्यवशात्सांकल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति / अत्रोच्यते- सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् / किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव / न नास्त्येव / विद्यमानमपि तत्तिरोहितमविद्यादिव्यवधानात् / तत्पुनस्तिरोहितं सत्परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्शक्तिरौषधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनाम् / कुतः - ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः / ईश्वरस्वरूपापरिज्ञानाद्बन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्षः / तथाच श्रुतिः - ऽज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः / तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामःऽ (श्वे. १.११) इत्येवमाद्या
SK
पूर्वं कॢप्तसामग्र्यभावात् स्वप्नो मायेत्युक्तमयुक्तं सत्यसङ्कल्पमात्रेणापि सत्यसृष्टिसंभवादिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे-अथपि स्यादित्यादिना / सत्यसंकल्पस्य हि संकल्पात्सृष्टिः सत्या भवति जीवस्य त्वसत्यसंकल्पत्वं प्रत्यक्षमिति परिहारार्थः / तर्हि विरुद्धधर्मवत्त्वाज्जीवस्येश्वरत्वं नास्त्येवेति शङ्कते-किमिति / नास्तीति न किन्त्वावृतमस्ति तत्पुनरीश्वरप्रसादाकस्यचिद्व्यज्यत इत्याह-न नास्तीति / विधूतध्वान्तस्य निष्पापस्य संसिद्धस्याणिमादिविशिष्टस्येत्यर्थः / ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिक्लेशानामपहानिरपक्षयस्तद्रूपो भवति / क्षीणैश्च क्लेशैस्तत्कार्यजन्ममरणात्मकबन्धध्वंस इति निर्गुणविद्याफलमुक्तम् / सगुणविद्याफलमाह-तस्येति /
SK
परस्याभिमुख्येनाहङ्ग्रहेण ध्यानाद्बन्धमोक्षापेक्षया मनेत्रोक्तहानिद्वयापेक्षया वा तृतीयं विश्वैश्वर्यमणिमादिरूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तदभोगानन्तरमात्मज्ञानात्केवलो द्वैतशून्य आप्तकामः प्राप्तस्वयञ्ज्योतिरानन्दो भवतीति क्रममुक्तिरित्यर्थः
SK
END Bस्Cओम्_३,२.२.५
SK
START Bस्Cओम्_३,२.२.६
SK
देहयोगाद्वा सो ऽपि | BBस्_३,२.६ |
SK
कस्मात्पुनर्जीवः परमात्मांश एव संस्तिरस्कृतज्ञानैश्वर्यो भवति / युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्येव दहनप्रकाशनयोरिति /
SK
उच्यते / सत्यमेवैतत् / सो ऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावो देहयोगाद्देहेन्द्रियमनोबुद्धिविषयवेदनादियोगाद्भवति / अस्ति चात्रोपमा यथाग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणितस्य दहनप्रकाशने तिरोहिते भवतो यथा वा भस्मच्छन्नस्य / एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात्तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः / वाशब्दो जीवेश्वरयोरन्यत्वाशङ्काव्यावृत्त्यर्थः /
SK
नन्वस्य एव जीव ईश्वरादस्तु तिरस्कृतज्ञानैश्वर्यत्वात्किं देहयोगकल्पनया /
SK
नेत्युच्यते / नह्यन्यत्वं जीवस्येश्वरादुपपद्यते ऽसेयं देवतैक्षतऽ (छा. ६.३.२) इत्युपक्रम्य ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा. ६.३.२) इत्यात्मशब्देन जीवस्य परामर्शात् / ऽतत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽ (छा. ६.९.४) इति च जीवायोपदिशतीश्वरात्मत्वम् / अतो ऽनन्य एवेश्वराज्जीवः सेदेहयोगात्तिरोहितज्ञानैश्वर्यो भवति / अतश्च न सांकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते / यदि च सांकल्पिकी स्वप्ने रथादिसृष्टिः स्यान्नैवानिष्टं कश्चित्स्वप्नं पश्येत् / नहि कश्चिदनिष्टं संकल्प्यते / यत्पुनरुक्तं जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं स्थापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायं स्वयञ्ज्योतिष्ट्वविरोधात् / श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् / जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् / तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्
SK
उक्तैश्वर्यतिरोभावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह-कस्मादिति / सत्यावरणं नास्तीत्यङ्गीकृत्य कल्पितावरणं साधयति-उच्यत इत्यादिना / जीवस्येश्वरत्वमङ्गीकृत्यावरणकल्पनातो वरमन्यत्वकल्पनेत्याशङ्कामुद्भाव्य श्रुत्या निरस्यति-नन्वित्यादिना /
SK
स्वप्ने ऽप्यालोकादेः सत्यत्वे जाग्रतीवात्मनःस्वप्रकाशत्वमस्फुटं स्यात्, प्रातिभासिकत्वे त्वालोकेन्द्रियाद्यसत्त्वे ऽप्यर्थापरोक्ष्यमात्मज्योतिष एवेति स्फुटं सिध्यति / तस्माद्देशादिसाम्यवचनं स्वप्नस्य जाग्रत्तुल्यभानाभिप्रायमित्यर्थः
SK
END Bस्Cओम्_३,२.२.६
SK
START Bस्Cओम्_३,२.२.७
SK
२ तदभावाधिकरणम् / सू. ७-८
SK
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च | BBस्_३,२.७ |
SK
स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते / तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्ति / क्वचिच्छ्रूयते- ऽतद्यत्रैतत्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृपो भवतिऽ (छा. ८.६.३) इति / अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ऽताभिः प्रत्यवसृप्य पुरीतति शेतेऽ (बृ. २.१.१९) इति / तथान्यत्र नाडीरेवानुक्रम्य ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी. ४.१९) इति / तथान्यत्र ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ. २.१.१७) इति / तथान्यत्र ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. ६.८.१) इति / ऽप्राज्ञेनात्मना संपरिश्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ (बृ. ४.३.२१) इति च / तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानान्याहोस्वित्परस्परापेक्षयैकं सुषुप्तिस्थानमस्ति / किं तावत्प्राप्तं भिन्नानीति / कुतः - एकार्थत्वात् / नह्येकार्थानीं क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् / नाड्यादीनां त्वेकार्थता सुषुप्तौ दृश्यते - ऽनाडीशु सृप्तो भवतिऽ (छा. ८.६.३) ऽपुरीतति शेतेऽ
SK
(बृ. २.१.१९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् /
SK
ननु नैवं सति सप्तमीनिर्देशो दृश्यते - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८.१) इति /
SK
नैष दोषः / तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् / वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह - ऽअन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयतेऽ (छा. ६.८.२) इति प्राणशब्देन तत्र प्रकृतस्य सत उपादनात् / आयतनं च सप्तम्यर्थः / सप्तमीनिर्देशो ऽपि तत्र वाक्यशेषे दृश्यते - ऽसति संपद्य न विदुः सति संपद्यामहेऽ (छा. ६.९.२) इति / सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते / तस्मादेकार्तत्वान्नाड्यादीनां विकल्पेन कदाचित्किञ्चित्स्थानं स्वापायोपसर्पतीति / एवं प्राप्ते प्रतिपाद्यते - तदभावो नाडीष्वात्नि चेति / तदभाव इति तस्य प्रकृतस्य स्वप्नदर्शनस्याभावः सुषुप्तमित्यर्थः / नाडीष्वात्मनि चेति समुच्चयेनैतानि नाड्यादीनि स्वापायोपैति न विकल्पेनेत्यर्थः / कुतः - तच्छ्रुतेः / तथाहि - सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते तच्च मसुच्चये संगृहीतं भवति / विकल्पे ह्येषां पक्षे बाधः स्यात् /
SK
नन्वेकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत्युक्तम् /
SK
नेत्युच्यते / नह्येकविभक्तिनिर्देशमात्रेणैकार्थत्वं विकल्पश्चापतति / नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनाप्रासादे शेते पर्यङ् के शेत इत्येवमादिषु / तथेहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीत्येतदुपपद्यते समुच्चयः / तथाच श्रुतिः - ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी. ४.१९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयत्येकवाक्योपादानात् / प्राणस्य च ब्रह्मत्वं समधिगतम् - ऽप्राणस्तथानुगमात्ऽ (ब्र.सू. १.१.२८) इत्यत्र / यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति - ऽआसु तदा नाडीषु सृप्तो भवतिऽ (छा. ८.६.३) इति /
SK
तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणो ऽप्रतिषेधान्नाडीद्वारेणैव ब्रह्मण्येवावतिष्ठत इति प्रतीयते / नचैवमपि नाडीषु सप्तमी विरुध्यते / नाडीद्वारापि ब्रह्मोपसर्पन्सृप्त एव नाडीषु भवति / यो हि गङ्गया सागरं गच्छति गत एव स गङ्गायां भवति / अपिचात्र रश्मीनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वान्नाडीस्तुत्यर्थं सृप्तिसंकीर्तनम् / ऽनाडीषु सृप्तो भवतिऽ (छा. ८.६.३) इत्युक्त्वा ऽतं न कश्चन पाप्मा स्पृशतिऽ (छा. ८.६.३) इति ब्रुवन्नाडीः प्रशंसति / ब्रवीति च पाप्मस्पर्शाभावे हेतुम् - तेजसा नाडीगतेन पित्ताख्येनाभिव्याप्तकरणो न बाह्यान्विषयानीक्षत इत्यर्थः / अथवा तेजसेति ब्रह्मण एवायं निर्देशः / श्रुत्यन्तरे -ऽ ब्रह्मैव तेज एवऽ (बृ. ४.४.७) इति तेजः शब्दस्य ब्रह्मणि प्रत्युक्तत्वात् / ब्रह्मणा हि तदा संपन्नो भवति नाडीद्वारेणातस्तं न कश्चन पाप्मान स्पृशतीत्यर्थः / ब्रह्मसमपत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः - ऽसर्वे पाप्मानो ऽत निवर्तन्ते ऽपहतपाप्मा ह्येष ब्रह्मलोकःऽ (छा.
SK
८.४.२) इत्यादिश्रुतिभ्यः / एवञ्च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति / तथा पुरीततो ऽपि ब्रह्मप्रक्रियायां संकीर्तनात्तदनुगुणमेव सुप्तिस्थानत्वं विज्ञायते - ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ. २.१.१७) इति हृदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते ऽपुरीतति शेतेऽ (बृ. २.१.१९) इति / पुरीतदिति हृदयपरिवेष्टनमुच्यते / तदन्तर्वर्तिन्यापि हृदयाकाशे शयानः शक्यते पुरीतति शेत इति वक्तुम् / प्राकारपरिक्षिप्ते ऽपि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते / हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् - ऽदहर उत्तरेभ्यःऽ (ब्र.सू. १.३.१४) इत्यत्र / तथा नाडीपुरीतत्समुच्चयो ऽपि - ऽताभिः प्रत्यवसृत्य पुरीतति शेतेऽ (बृ. २.१.१९) इत्येकवाक्योपादानादवगम्यते / सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् / एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि नाड्यः पुरीतद्ब्रह्म चेति / तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव त्वेकं सुषुप्ति स्थानम् / अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति तत्रास्य करणानि वर्तन्त इति / नह्युपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्संभवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् / ब्रह्माधारत्वमप्यस्य सुषुप्ते नैवाधाराधेयभेदाभिप्रायेणोच्यते कथं तर्हि तादात्म्याभिप्रायेण / यत आह - ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. ६.८.१) इति / स्वशब्देनात्माभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः / अपिच न कदाचिज्जीवस्य ब्रह्मणा संपत्तिर्नास्ति स्वरूपस्यानपायित्वात् / स्वप्नजागरितयोस्तूपाधिसंपर्कवशात्पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्वक्ष्यते / अतश्च सुप्तावस्थायां कदाचित्सतां संपद्यते कदाचिन्न संपद्यत इत्ययुक्तम् / अपिच स्थानविकल्पाभ्युपगमे ऽपि विशेषविज्ञानोपलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते / तत्र सति संपन्नस्तावत्तदेकत्वान्न विजानतीति युक्तम् / ऽत्तकेन कं विजानीयात्ऽ (बृ. २.४.१४) इति श्रुतेः / नाडीषु पुरतीति च शयानस्य न किञ्चिदविज्ञाने कारणं शक्यं विज्ञातुं, भेदविषयत्वात् ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ (बृ. ४.३.३१) इति श्रुतेः /
SK
ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् /
SK
बाढम् / एवं स्याद्यदि जीवः स्वतःपरिच्छिन्नो ऽभ्युपगम्यते, यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यति / नतु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते / उपाधिगतमेवातिदूरादिकारणमविज्ञान इति यद्युच्येत तथाप्युपाधेरुपशान्तत्वात्सत्येव संपन्नो न विजानतीति युक्तम् / नच वयमिह तुल्यवन्नाड्यादिसमुच्चयं प्रतिपादयामः / नहि नाड्यः सुप्तिस्थानं पुरीतद्वेत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति / नह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते / नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते / ब्रह्म त्वनपायि सुप्तिस्थानमित्येतत्प्रतिपादयामः / तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च / तस्मादात्मैव सुप्तिस्थानम् /
SK
एवं बाह्यकरणोपरमे सति मनोवासनोद्दीपिताविद्याविलासात्मकं स्वप्नमात्मनःसाक्षिणः स्वयञ्ज्योतिष्ट्वार्थं विचार्य प्रतियोग्यनुयोगिभावसङ्गत्या स्वप्नावस्थमनोलयात्मिकां सुषुप्तिं विचारयति-तदभावो नाडीषु तच्छुतेरात्मनि च / तदेतत्स्वपनं यथा स्यात्तथा / यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनोलयात्सम्यक्प्रसङ्ग इत्यर्थः / स्वापे नाडीस्थानमुक्त्वा नाडीपुरीततोर्नाडीपरमात्मनोश्च समुच्चयश्रुती आह-अन्यत्रेति / परमात्ममात्रश्रुतीराह-तथान्यत्रेत्यादिना / नाडीपुरीतब्रह्मसु सप्तमीश्रुतेः समुच्चयश्रुतेश्च संशयमाह-तत्रेति / पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समुच्च्यात् तन्निर्णय इति विवेकः / एकपुरोडाशार्थत्वं व्रीहियवयोर्दृष्टं नाड्यादीनामेकस्मिन् स्वापरूपार्थे निरपेक्षस्थानत्वं तु कुत इत्यत आह-नाड्यादीनां चेति / सति ब्रह्मणि तृतीयश्रुतेर्न सप्तमीति शङ्कार्थः / आयतनशब्दात्सप्तम्यर्थ आधारत्वं गम्यत इत्याह-नैष दोष इति / अन्यत्रावस्थाद्वये श्रान्तो जीवो विश्रान्तिस्थानं प्राणाख्यं सद्ब्रह्मोपसर्पति सुषुप्तावित्यर्थः / सप्तमीश्रुत्या निरपेक्षाधारत्वभानाद्विकल्प आस्थेयः कदाचित्समुच्चित्यापि नाड्यादीनां स्थानत्वमिति न समुच्चयश्रुतिविरोध इति पूर्वपक्षार्थः / सिद्धान्तयति-एवं प्राप्त इति / सूत्रे चकारः पुरीतत्समुच्चयार्थः / यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुतस्थानत्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह-विकल्पे ह्येषामिति / व्रीहियवयोस्त्वगत्या विकल्प इति भावः / यत्तु सप्तमीश्रुत्या नाड्यादीनामेकफलकत्वमिति, तन्नेत्याह-न ह्येकेति / प्रासादस्य पर्यङ्कधारणमर्थः / पर्यङ्कस्य तु शयनमिति फलभेदे ऽप्येकविभक्तिर्दृश्यते, व्यवधानाव्यवधानाभ्यां शयनसाधनत्वात् समुच्चयश्च, तथेहापि नाडीपुरीततोर्जीवस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः / नाडीनां प्राणस्य च एकेन वाक्येनोपादानान्मिथः समुच्चय इत्याह-एकवाक्येति / आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह-न चैवमपीति / समुच्चये ऽपीत्यर्थः / अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मिसंबन्धनाडीरूपमार्गस्तुत्यर्थत्वादित्याह-अपिचेति / पित्तेन विषयेक्षणाभावे सुखदुःखयोरभावात् तद्धेतुधर्मात्मकपाप्मास्पर्श इत्यर्थः / अपहतपाप्मब्रह्मसंपत्त्या वा पाप्मास्पर्श इत्याह-अथवेति / अस्मिन् व्याख्याने लाभमाह-एवं च सतीति / ऽतासु तदा भवत्यथास्मिन् प्राण एवैकधा भवतिऽइति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः / नाडीब्रह्मणोर्गुणप्रधानभावेन सुप्तौ समुच्चयवत्पुरीतद्ब्रह्मणोरपीत्याह-तथेत्यादिना / आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतमिति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह-तथा नाडीति / सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्तिस्थानानीत्यत आह-सत्प्राज्ञयोरिति / किञ्च प्रकृतदर्शादिसाधनैकपुरोडाशनिष्पत्तौ मिथो ऽनपेक्षतया समर्थत्वाद्युक्तो व्रीहियवयोर्विकल्पः, नाड्यादीनां तु ब्रह्मनिरपेक्षतया सुषुप्तजीवाधारत्वासामर्थ्यान्न विकल्प इत्याह-अपिच नाड्य इति / उपाधिलिङ्गाश्रयनाडीपुरीततोरुपहितजीवाश्रयत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपाधिलयादित्यर्थः / ननु ब्रह्मापि जीवस्य न मुख्यं स्थानं अभेदादित्यत आह-ब्रह्माधारत्वमिति / जीवस्य ब्रह्मण्यभेदेनावस्थानं नाडीपुरीततोस्तु लीनोपाधेर्जीवस्य स्थितिरेव न संभवतीत्येकार्थसामर्थ्याभावान्न विकल्प इत्यर्थः / सुषुप्तौ जीवस्य भेदकोपाधिलयाच्चौत्सर्गिकब्रह्माभेदस्य विकल्पो न युक्त इत्याह-अपिचेति / किञ्च नाड्यादीनामन्यतमस्थाने क्वचित्सुप्तिवादिनापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह-अपिच स्थानेति / भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडीपूरितद्रतस्य तु जीवस्य भेदावस्थत्वाद्भेदाविज्ञाने करणं नास्तीत्यर्थः / द्वैतावस्थास्यापि द्वैताज्ञाने हेतुं शङ्कते-ननु भेदेति / द्रष्टुर्दृश्याद्दूरस्थत्वं स्वाभाविकमौपाधिकं वा / तत्राद्यं सदृष्टान्तमनूद्य प्रत्याह-बाढमित्यादिना / द्वितीयमनूद्य दूषयति-उपाधिगतमेवेति / उपाधिसंभिन्नस्यैव नाड्यादौ स्वापे कतिपयसंनिकृष्टार्थज्ञानप्रसङ्गात् सुषुप्तिव्याघातः स्यात् / उपाधिलये त्वन्यत्र जीवस्य स्थित्ययोगाद्ब्रह्मण्येव स्वाप आस्थेय इत्यर्थः / एवं विकल्पं निरस्य नाडीपुरीततोर्ब्रह्मणा सह तुल्यवत्समुच्चयमफलत्वेन दूषयन् गुणप्रधानत्वेन समुच्चयमुपसंहरति-नच वयमित्यादिना
SK
END Bस्Cओम्_३,२.२.७
SK
START Bस्Cओम्_३,२.२.८
SK
अतः प्रबोधो ऽस्मात् | BBस्_३,२.८ |
SK
यस्माच्चात्मैव सुप्तिस्थानमत एव च कारणान्नित्यवदेवास्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते - ऽकुत एतदागात्ऽ (बृ. २.१.१६) इत्यस्य प्रश्नस्य प्रतिवचनावसरे ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ (बृ. २.१.२०) इत्यादिना / ऽसत आगम्य न विदुः सत आगच्छामहेऽ (छा. ६.१०.२) इति च / विकल्प्यमानेषु तु सुषुप्तिस्थानेषु कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मन इत्यशासिष्यत् / तस्मादप्यात्मैव सुप्तिस्थानमिति
SK
किञ्च ब्रह्मणः सकाशाज्जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्याह-सूत्रकारः-अतः प्रबोध इति /
SK
नाडीपुरीततोः क्वाप्युत्थानापादानत्वाश्रवणान्न सुषुप्तिस्थानत्वमित्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्माभेदादौपाधिक एव भेद इति विवेकद्वाक्यार्थाभेदसिद्धिरिति स्थितम्
SK
END Bस्Cओम्_३,२.२.८
SK
START Bस्Cओम्_३,२.३.९
SK
३ कर्मानुस्मृतिशब्दविध्यधिकरणम् / सू. ९
SK
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः | BBस्_३,२.९ |
SK
तस्याः पुनः सत्संपत्तेः प्रतिबुध्यमानः किं य एव सतसंपन्नः स एव प्रतिबुध्यत उत स वान्यो वेति चिन्त्यते / तत्र प्राप्तं तावदनियम इति / कुतः - यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते जलराशिरेव स तदा भवति पुनरुद्धरणे च स एव जलबिन्दुर्भवतीति दुःसंपादम् / तद्वत्सुप्तः परेणैकत्मापन्नः संप्रसीदततीति न स एव पुनरुत्थातुमर्हति / तस्मात्स एवेश्वरो वान्यो वा जीवः प्रतिबुध्यत इत्येवं प्राप्त इदमाह - स एव तु जीवः लुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति नान्यः / कस्मात् / कर्मानुस्मृतिशब्दविधिभ्यः / विभज्य हेतुं दर्शयिष्यामि / कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः / तथाहि - पूर्वेद्युरनुष्ठितस्य कर्मणो ऽपरेद्युः शेषमनुतिष्ठन्दृश्यते / नचान्येन सामिकृतस्य कर्मणो ऽन्यः शेषक्रियायां प्रवरितितुमर्हति / अतिप्रसङ्गात् / तस्मादेक एव पूर्वेद्युरपरेद्युश्चैकस्य कर्मणः कर्तेति गम्यते / इतश्च स एवोत्तिष्ठति यत्कारणमतीते ऽहन्यहमदो ऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणमन्यस्योत्थाने नोपपद्यते / नह्यन्यदृष्टमन्यो ऽनुस्मर्तुमर्हति / सो ऽहमस्मीति चात्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते / शब्देभ्यश्च तस्यैवोत्थानमवगम्यते / तथाहि - ऽपुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवऽ (बृ. ४.३.१६) ऽसर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽ (छा. ८.३.२) ऽत इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्तिऽ
SK
(छा. ६.९.३) इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारे पठिता नात्मान्तरोत्थाने सामञ्जस्यमीयुः / कर्मविद्याविधिभ्यश्चैवमेवावगम्यते / अन्यथा हि कर्मविद्याविधयो ऽनर्थकाः स्युः / अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत / एवं चेत्स्याद्वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् / अपिचान्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरणमाणो जीव उत्तिष्ठेत्तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् / अथ तत्र सुप्त उत्तिष्ठेत्कल्पनानर्थक्यं स्यात् / योहि यस्मिञ्शरीरे सुप्तः स तस्मिन्नोतिष्ठत्यन्यस्मिञ्शरीरे सुप्तो ऽन्यस्मिन्नुत्तिष्ठतीति को ऽस्यां कल्पनायां लाभः स्यात् / अथ मुक्त उत्तिष्ठेदन्तवान्मोक्ष आपद्येत / निवृत्ताविद्यस्य च पुनरुत्थानमुपपन्नम् / एतेनेश्वरस्योत्थानं प्रत्युक्तम् / नित्यनिवृत्ताविद्यत्वात् / अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारवन्योत्थानपक्षे स्याताम् / तस्मात्स एवोत्तिष्ठति नान्य इति / यत्पुनरुक्तं यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यत एवं सति संपन्नो जीवो नोत्पत्पतितुमर्हतीति, तत्परिह्रियते / युक्तं तत्र विवेककारणाभावाज्जलबिन्दोरनुद्धरणम् / इह तु विद्यते विवेककारणं कर्म चाविद्या चेति वैषम्यम् / दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोर्हंसेन विवेचनम् / अपिच न जीवो नाम कश्चित्परस्मादन्यो विद्यते यो जलबिन्दुरिव जलराशेः सतो विविच्येत / सदेव तूपाधिसंपर्काज्जीव इत्यसकृत्प्रपञ्चितम् / एवं सति यावदेकोपाधिगता बन्धानुवृत्तिस्तावदेकजीवव्यवहारः / उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्चतरव्यवहारः / स एवायमुपाधिः स्वापप्रबोधयोर्बीजाङ् कुरन्यायेनेत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम्
SK
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः / सुषुप्तौ उपाधिनाशात् कर्मानुस्मृत्यादेर्दर्शनाच्च संशये सत्यस्माद्ब्रह्मणो जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्युक्तमयुक्तम् / सुप्तादन्यस्याप्युत्थानसंभवेन सुषुप्तस्य नाड्यादिस्थानत्वसंभवादित्याक्षेपसंगत्या नियमकाभावादनियम इति पूर्वपक्षमाह-तस्याः पुनरित्यादिना / पूर्वपक्षे ज्ञानवैयर्थ्यं सुषुप्त्यैवापुनरावृत्तिरूपमुक्तिसिद्धेः, सिद्धान्ते तु अज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन पुनस्तस्यैवोत्थानावश्यंभावादज्ञाननाशाय ज्ञानापेक्षेति फलम् / ईश्वरो वेत्यनियमदार्ढ्यायोक्तम् / स वान्यो वेत्येव पूर्वपक्षः / ज्ञानं विना बुद्ध्याद्युपाधेरत्यन्तनाशाभावाद्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नानाकर्मानुभवसंस्कारवत्योपहित उत्तिष्ठतीति सिद्धान्तयति-स एव त्वित्यादिना / सामिकृतस्यार्धकृतस्य एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातो ऽतिप्रसङ्गः / स्मृतिमुक्त्वानुशब्दसूचितां प्रत्यभिज्ञामाह-सो ऽहमिति / अयनं गमनं आयः / योनिः तत्तदिन्द्रियस्थानम् / प्रतिनियतं गमनं यथा भवति तथा प्रतियोन्यागच्छति जागरणायेति श्रुत्यर्थः / न विन्दतीत्यज्ञानसत्त्वात्सुप्तस्योत्थाननियम उक्तः / इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः / विधिं व्याचष्टे-कर्मेति / स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः अत्रैवोत्सूत्रं युक्त्यन्तरमाह-अपिचेत्यादिना / अन्योत्थाने सुखादेर्न पूर्वकर्मकार्यतेत्यकृतसुखाद्यागमः पूर्वसुप्तजीवकृतकर्मनाशश्चेत्यर्थः / पूर्वपक्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति-यत्पुनरित्यादिना / अस्मदाद्यशक्यमपि विवेचनं प्राण्यदृष्टापेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह-दृश्यते चेति / ब्रह्माभेदाच्च जीवस्य जलबिन्दुवैषम्यमित्याह-अपिचेति / अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीवभेदाच्चिन्तेत्याह-एवं सतीति / सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्युपाधिभेदादेकजीवस्य व्यवहारो न स्यादित्यत आह-स एवायमिति /
SK
स्थूलसूक्ष्मात्मना तिष्ठत्येकोपाधिरित्यर्थः
SK
END Bस्Cओम्_३,२.३.९
SK
START Bस्Cओम्_३,२.४.१०
SK
४ मुग्धेर्ऽधसंपत्त्यधिकरणम् / सू. १०
SK
मुग्धेर्ऽधसंपत्तिः परिशेषात् | BBस्_३,२.१० |
SK
अस्ति मुग्धो नाम यं मूर्छित इति लौकिकाः कथयन्ति / सतु किमवस्थ इति परीक्षायामुच्यते / तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा जागरितं स्वप्नः सुषुप्तिरिति / चतुर्थी शरीरादपसृप्तिः / नतु पञ्चमीकाचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति / तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छेत्येवं प्राप्ते ब्रूमः- न तावन्मुग्धो जागरितावस्थो भवितुमर्हति / नह्ययमिन्द्रियैर्विषयानीक्षते / स्यादेतत् / इषुकारन्यायेन मुग्धो भविष्यति / यथेषुकारो जाग्रदपीष्वासक्तमनस्तया नान्यान्विषयानीक्षत एवं मुग्धो मुसलसंपातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति /
SK
न / अचेतयमानत्वात् / इषुकारो हि व्यापृतमना ब्रवीतीषुमेवाहमेतावन्तं कालमुपलभमानो ऽभूवमिति / मुग्धस्तु लब्धसंज्ञो ब्रवीत्यन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तो ऽभूवं न किञ्चिन्मया चेतितमिति / जाग्रतश्चैकविषयविषक्तचेतसो ऽपि देहो विध्रियते / मुग्धस्य तु देहो धरण्यां पतति / तस्मान्न जागर्ति नापि स्वप्नान्पश्यति निःसंज्ञकत्वात् / नापि मृतः प्राणोष्मणोर्भावात् / मुग्धे हि जन्तौ मृतो ऽयं स्यान्न वा मृत इति संशयाना ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थं प्राणो ऽस्ति नास्तीति च नासिकादेशम् / यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति ततो मृतो ऽयमित्यध्यवसाय दहनायारण्यं नयन्ति / अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति / पुनरुत्थानाच्च न दिष्टं गतः / नहि यमराष्ट्रात्प्रत्यागच्छति / अस्तु तर्हि सुषुप्तो निःसंज्ञत्वादमृतत्वाच्च / न / वैलक्षण्यात् / मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति सवेपथुरस्य देहो भवति भयानकं च वदनं विस्फारिते नेत्रे / सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति निमीलिते अस्य नेत्रे भवतः / नचास्य देहो वेपते / पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति नतु मुग्धं मुद्गरघातेनापि / निमित्तभेदश्च भवति मोहस्वापयोः / मुसलसंपातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य / नच लोके ऽस्ति प्रसिद्धिर्मुग्धः सुप्त इति / परिशेषादर्धसंपत्तिर्मुग्धतेत्यवगच्छामः / नीःसंज्ञत्वात्संपन्न इतरस्माद्वैलक्षण्यादसंपन्न इति / कथं पुनरर्धसंपत्तिर्मुग्धतेति शक्यते वक्तुम् / यावता सुप्तं प्रति तावदुक्तं श्रुत्या - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८.१) इति ऽअत्र स्तेनो ऽस्तेनो भवतिऽ (बृ. ४.३.२२) ऽनैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दृष्कृतम्ऽ (छा. ८.४.१) इत्यादि / जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति / नच सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते, मुग्धे ऽपि तौ प्रत्ययौ नैव विद्येते / तस्मादुपाध्युपशमात्सुषुप्तवन्मुग्धे ऽपि कत्स्नसंपत्तिरेव भवितुमर्हति नार्धसंपत्तिरिति /
SK
अत्रोच्यते - न ब्रूमो मुग्धेर्ऽधसंपत्तिर्जीवस्य ब्रह्मणा भवतीति / किं तर्ह्यर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूमः / दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये / द्वारं चैतन्मरणस्य / यदास्य सावशेषं कर्म भवति तदा वाङ्मनसे प्रत्यागच्छतः / यदा तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः / तस्मादर्धसंपत्तिं ब्रह्मविद इच्छन्ति / यत्तूक्तं न पञ्चमी काचिदवस्था प्रसिद्धास्तीति /
SK
नैष दोषः / कदाचित्कीयमवस्थेति न प्रसिद्धा स्यात् / प्रसिद्धा चैषा लोकायुर्वेदयोः / अर्धसंपत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम्
SK
अवस्थात्रयादात्मानं विविच्य मूर्च्छातो विवेचयति-मुग्धेर्ऽधसंपत्तिः परिशेषात् / मूर्च्छा प्रसिद्धावस्थान्तर्गता वा पञ्चमावस्था वेति / अवस्थाचतुष्टयसिद्धेर्मुग्धस्य तद्वैलक्षण्याच्च संशये सो ऽहमिति प्रत्यभिज्ञयोत्थितस्य सुप्ताभेदवद्विशेषज्ञानाभावाविशेषेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्यभिज्ञानात्सुषुप्त्यन्तर्गता मूर्च्छेति दृष्टान्तसंगत्या पूर्वपक्षमाह-तिस्रस्तावदिति / पूर्वपक्षे प्रसिद्धावस्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथग्यत्नध्रौव्यमिति भेदः परिशेषं दर्शयन् सिद्धान्तयति-न तावदित्यादिना / जाग्रदपि जागरावस्थो ऽपीत्यर्थः / ऐन्द्रियकमर्थज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति-नेत्यादिना / मूर्च्छाया जागराद्भेदमुक्त्वा स्वप्नमृतिभ्यां भेदमाह-नापीत्यादिना / आलभन्ते स्पृशन्ति / दिष्टं मरणम् / सुषुप्तिमूर्च्छयोः किञ्चित्सारूप्ये ऽपि बहुवैलक्षण्याद्भेद इत्याह-नेति / लक्षणभेदमुक्त्वा निमित्तभेदमाह-निमित्तेति / प्रत्यभिज्ञाप्यसिद्धेत्याह-नचेति / उक्तसारूप्यवैरूप्याभ्यामर्धसंपत्तिः सर्वैः सुषुप्तिधर्मैरसंपन्नो मुग्धः सुषुप्तो न भवति, सर्वैर्मरणावस्थाधर्मैरसंपत्तेर्मृतो ऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः / अत्र सूत्रे जीवस्य ब्रह्मणार्धसंपत्तिरुक्तेति भ्रान्तः शङ्कते-कथमिति / यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदुपाध्याभावाभिप्रायम् / उपाध्यभावश्च मुग्धस्यापि मम इति यतस्तस्मात् कृत्स्नसंपत्तिरेवेत्यर्थः / सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्कार्याभावात्तदसंबन्धोक्तिरित्याह-जीवे हीति / ब्रह्मणा कृत्स्नसंपत्तिमङ्गीकृत्य परिहरति-न ब्रूम इति / मुग्धत्वं हि सुषुप्तस्यार्धेन निःसंज्ञत्वादिधर्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संपन्नमित्यर्धसंपत्तिरित्यर्थः / इतो ऽपि सुषुप्तिवैषम्यमित्याह-द्वारं चेति / अप्रसिद्धिमङ्गीकृत्योक्तं प्रसिद्धिरप्यस्तीत्याह-प्रसिद्धा चेति / नायुर्वेदो वैद्यशास्त्रम् / प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्चमत्वेनाप्रसिद्धेरित्याह-अर्धेति /
SK
सुषुप्तिमृतिधर्मार्धसंपत्त्या तदन्तर्भावबुद्धिर्लोकानामित्यर्थः
SK
END Bस्Cओम्_३,२.४.१०
SK
START Bस्Cओम्_३,२.५.११
SK
५ उभयलिङ्गाधिकरणम् / सू. ११-२१
SK
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि | BBस्_३,२.११ |
SK
येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्संपद्यते तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते / सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसःऽ (छा. ३.१४.२) इत्येलमादायाः सविशेषलिङ्गाः / ऽअस्थूलमनण्वर्ह्रस्वमदीर्धम्ऽ (बृ. ३.८.८) इत्येवमाद्याश्च निर्विशेषलिङ्गाः / किमासु श्रुतिषूभयलिङ्गं ब्रह्मप्रतिपत्तव्यमुतान्यतरलिङ्गम् / यदाप्यन्यतरलिङ्गं तदापि किं सविशेषमुत निर्विशेषमिति मीमांस्यते / तत्रोभयलिङ्गश्रुत्यनुग्रहादुभयलिङ्गमेव ब्रह्मेत्येवं प्राप्ते ब्रूमः - न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते /
SK
नह्येकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं चेत्याधारयितुं शक्यं विरोधात् / अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगादिति / तदपि नोपपद्यते / नह्युपाधियोगादप्यन्यादृशस्य वस्तुनो ऽन्यादृशः स्वभावः संभवति / नहि स्वच्छः सन्स्फटिको ऽलक्तकाद्युपाधियोगादस्वच्छो भवति भ्रममात्रत्वादस्वच्छताभिनिवेशस्य / उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् / अतश्चान्यतरलिङ्गपरिग्रहे ऽपि समस्तविशेषरहितं निर्विकल्पमेव ब्रह्म प्रतिपत्तव्यं न तद्विपरीतम् / सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ (क. ३.१५ / मुक्तिको. २.७२) इत्येवमादिष्वपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यते
SK
FN: स्थानं उपाधिस्तद्योगात् /
SK
सर्वाभिरवस्थाभिरलिप्तस्त्वमर्थ इति निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह-न स्थानतो ऽपि परस्योभ्यलिङ्गं सर्वत्र हि / उद्देशयत्वम्पदार्थजिज्ञासोपरमानन्तरं तत्स्वरूपब्रह्मविचारस्यावसरसंगतिमाह-येनेति / निर्विशेषत्वंसव् इशेषत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः / यथा विरुद्धसुषुप्तिमरणोभयरूपं मुग्धत्वं तथा श्रुतिप्रामाण्यादुभयरूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः / निर्विशेषमेकरूपमेव ज्ञेयमिति सिद्धान्तयति-एवमिति / किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्वगन्धत्वादिविशेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति / तत्राद्य निरस्य द्वितीयमनूद्य दूषयति-अस्तु तर्हीति / स्थानमुपाधिः / ब्रह्मणि विशेषः, कल्पितः औपाधिकत्वात्स्फटिकलौहित्यवदित्यर्थः / उपाधेः सत्यत्वे ऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्यात्वात्तत्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह-उपाधीनामिति / तृतीयं निरस्यति-अतश्चेति / सर्वस्य विशेषस्य कल्पितत्वादेवेत्यर्थः / निषेधश्रुतेश्चैवमित्याह-सर्वत्र हीति
SK
END Bस्Cओम्_३,२.५.११
SK
START Bस्Cओम्_३,२.५.१२
SK
न भेदाद् इति चेन् न प्रत्येकमतद्वचनात् | BBस्_३,२.१२ |
SK
अथापि स्याद्यदुक्तं निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वोभयलिङ्गत्वमस्तीति / तन्नोपपद्यते / कस्मात् / भेदात् / भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते / चतुष्पाद्ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवञ्जातीयकाः / तस्मात्सविशेषत्वमपि ब्रह्मणो ऽभ्युपगन्तव्यम् /
SK
ननूक्तं नोभयलिङ्गत्वं ब्रह्मणः संभवतीति / अयमप्यविरोधः / उपाधिकृतत्वादाकारभेदस्य / अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येतेति चेत् /
SK
नेति ब्रूमः / कस्मात् / प्रत्येकमतद्वचनात् / प्रत्युपाधिभेदं ह्यभेदमेव ब्रह्मणः श्रावयति शास्त्रम् - ऽयश्चायमस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयो ऽमृतमयः पुरुषो ऽयमेव स यो ऽयमात्माऽ (बृ. २.५.१) इत्यादि / अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् / भेदस्योपासनार्थत्वादभेदे तात्पर्यात् /
SK
भिद्यत इति भेदो विशेषः, निर्विशेषत्वश्रुतावपि विशेषस्यापि श्रुतेरुभयरूपत्वं स्यादिति शङ्कां व्याचष्टे-अथापि स्यादिति / पूर्वोक्तं विरोधं स्मारयति-ननूक्तमिति / भेदश्रुतिप्रामाण्यार्थमौपाधिकरूपभेदस्वीकारादविरोध इति समाध्यर्थः / किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते ध्यानार्थमुतोपाधियोगात्सत्यविरुद्धरूपवत्तया ब्रह्मणो भेदो भवतीति / आद्ये ऽस्मादिष्टसिद्धिः, द्वितीयमभेदश्रुत्या दूषयति-नेति ब्रूम इति
SK
END Bस्Cओम्_३,२.५.१२
SK
START Bस्Cओम्_३,२.५.१३
SK
अपि चैवम् एके | BBस्_३,२.१३ |
SK
अपिचैवं भेददर्सननिन्दापूर्वकमभेददर्शनमेवैके शाखिनः समामनन्ति - ऽमनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन / मृत्योः स मृत्युपमाप्नोति य इह नानेव पश्यतिऽ (क. ४.११) इति / तथान्येपि ऽभोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं त्रिविधं ब्रह्म मे तत्ऽ (श्वे. १.१२) इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते
SK
द्वैतनिन्दापूर्वकमद्वैतोक्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह-अपिचेति /
SK
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरितारमीश्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः
SK
END Bस्Cओम्_३,२.५.१३
SK
START Bस्Cओम्_३,२.५.१४
SK
कथं पुनराकारवदुपदेशिनीष्वनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतम्ति / अत उत्तरं पठति -
SK
अरूपवदेव हि तत्प्रधानत्वात् | BBस्_३,२.१४ |
SK
रूपाद्याकाररहितमेव ब्रह्मावधारयितव्यं न रूपादिमत् / कस्मात् / तत्प्रधानत्वात् / ऽऽअस्थूलमनण्वर्ह्रस्वमदीर्धम्ऽ (बृ. ३.८.८) ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ (कठ. ३.१५ / मुक्ति. २.७२) ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. ८.१४.१) ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःऽऽ (मुण्ड. २.१.२), ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमब्रह्ममयमात्मा ब्रहग्म सर्वानभूःऽ (बृ. २.५.१९) इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि नर्थान्तरप्रधानानीत्येतत्प्रतिष्ठापितं ऽतत्तु समन्वयात्ऽ (ब्र.सू. १.१.४) इत्यत्र /
SK
तस्मादेवञ्जातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्मावधारयितव्यम् / इतराणि त्वाकारपवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि / उपासनाविधिप्रधानानि हि तानि तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् / सति तु विरोधे तत्प्रधानान्यतत्प्रधानेभ्यो बलीयांसि भवन्तीति / एष विनिगमनायां हेतुः / येनोभयीष्वपि श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतमिति
SK
द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते-कथं पुनरिति / तत्परातपरविरोधे तत्परं बलवदिति न्यायो नियामक इत्याह-अरूपवदेवेति / उपासनापरवाक्येषु आकारे तात्पर्याभावे ऽपि देवताविग्रहादिवदाकारसिद्धिमाशङ्क्य निष्प्रपञ्चपरश्रुतिविरोधान्मैवमित्याह-तेष्वसतीति
SK
END Bस्Cओम्_३,२.५.१४
SK
START Bस्Cओम्_३,२.५.१५
SK
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिरित्यत आह -
SK
प्रकाशवच्चावैयर्थ्यात् | BBस्_३,२.१५ |
SK
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यावतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते / एवं ब्रह्मापि पृथिव्याद्युपाधिसंबन्धात्तदाकारतामिव प्रतिपद्यते तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते / एवमवैयर्थ्यमाकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति / नहि वेदवाक्यानां कस्यचिदर्थवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुं प्रमाणत्वाविशेषात् /
SK
नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातं नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणो ऽस्तीति तद्विरुध्यते /
SK
नेति ब्रूमः / उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपचत्तेः / उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् / सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्रावोचाम
SK
कल्पितद्वैते सावकाशत्वाच्च सप्रपञ्चत्वश्रुतयो दुर्बला इत्याह-प्रकाशवच्चेति / नन्वाकारवाक्यानामुपाधिकल्पितसर्वगन्धत्वादिनाथ्रवत्त्वं किमिति वर्ण्यते वैयर्थ्यमेवोच्यताम्, तत्राह-नहि वेदवाक्यानामिति / नन्वेवमपीति / उक्तरीत्योभयरूपत्वाङ्गीकारेण श्रुतीनां व्यवस्थितत्वे ऽपीत्यर्थः / उपाधीनां कल्पितत्वादौपाधिकस्य सत्यत्वादुपपत्तेर्न सत्यमुभयरूपत्वमिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सविशेषत्वमित्युच्यत इत्युभयरूपत्वाङ्गीकारे ऽपि न पूर्वापरविरोध इत्याह-नेति ब्रूम इति / द्वैतस्य मिथ्यात्वे ज्ञानेन बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह-सत्यमिति
SK
END Bस्Cओम्_३,२.५.१५
SK
START Bस्Cओम्_३,२.५.१६
SK
आह च तन्मात्रम् | BBस्_३,२.१६ |
SK
आह च श्रुतिश्चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म - ऽस यथा सैन्धवघनो ऽन्तरो ऽबाह्यः कृत्स्नो रसघन एवैवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. ४.५.१३) इति / एतदुक्तं भवति - नास्यात्मनो ऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति लवणरस एव निरन्तरो भवति न रसान्तरं तथैवेति
SK
FN: सैन्धवघनो लोहपिण्डः /
SK
यतः श्रुतिश्चिन्मात्रमाहातश्च विशेषो मिथ्येति सूत्रार्थमाह-आह चेति /
SK
सैन्धवघनो लवणपिण्डः
SK
END Bस्Cओम्_३,२.५.१६
SK
START Bस्Cओम्_३,२.५.१७
SK
दर्शयति चाथो अपि स्मर्यते | BBस्_३,२.१७ |
SK
दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म निर्विशेषत्वात्- ऽअथात आदेशो नेति नेतिऽ (बृ. २.३.६) इति, ऽअन्यदेव तद्विदितादथो अविदितादधि (के. १.३) ऽयतो वाचो निवर्तन्ते अप्राप्य मनसा सहऽ (तै. २.४.१) इत्येवमाद्या / बाष्कलिना च बाध्वःपृष्टः सन्नवचनेनैव ब्रह्म प्रोवाचेति श्रूयते - ऽस होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये वा तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि / उपशान्तो ऽयमात्माऽ इति / तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते - ऽज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते / अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यतेऽ (१३.१२) इत्येवमाद्यासु / तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद / सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसिऽ इति /
SK
FN: अधि अन्यत् / उपशान्तो निरस्तद्वैतः /
SK
किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मोपदेशान्निष्प्रपञ्चं ब्रह्मेत्याह-दर्शयति चेति / अथ द्वैतोक्त्यनन्तरं ज्ञानहेतुत्वान्नेति नेति उपदेशः क्रियत इत्यर्थः / अधि अन्यत् पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीयं तृतीयं च प्रश्ने तूष्णीभावं त्यक्त्वोवाच / उपशान्तो निरस्तद्वैतः / अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतोशब्दस्तथार्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् / सत् इन्द्रियवेद्यम् / असत् परोक्षं च न स्वप्रकाशत्वादित्यर्थः / सर्वभूतगुणैर्दिव्यगन्धादिभिर्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैतातीतत्वादित्यर्थः
SK
END Bस्Cओम्_३,२.५.१७
SK
START Bस्Cओम्_३,२.५.१८
SK
अत एव चोपमा सूर्यकादिवत् | BBस्_३,२.१८ |
SK
यत एव चायमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यो ऽत एव चास्योपाधिनिमित्तपारमार्थिकीं विशेषवत्ताभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेषु - ऽयथा ह्यजं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैको ऽनुगच्छन् / उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्माऽ इति / ऽएक एव हि भूतात्मा भूते भूते व्यवस्थितः / एकधा बहुधा चैव दृश्यते जलचन्द्रवत्ऽ (ब्र.बिं १२) इत्येवमादिषु
SK
किञ्च यथा जलाद्युपाधिकल्पितः सूर्यचन्द्रादेर्भेदचलनादिर्धर्म एवमात्मन इति दृष्टान्तश्रुतेश्च निर्विशेषं तत्त्वमित्याह-अत एव चोपमेति /
SK
जलस्थप्रतिबिम्बत्वाकारेण सूर्यस्याभासत्वद्योतनाय सूर्यकेति कप्रत्ययः / यथायं ज्योतिर्मयो विवस्वान्स्वत एको ऽपि घटभेदेन भिन्नाः अपो ऽनुगच्छन् बहुधा क्रियते एवमजो ऽयमात्मा देवः स्वप्रकाश एको ऽप्युपाधिना मायया क्षेत्रेष्वनुगच्छन् भेदरूपः क्रियत इति योजना
SK
END Bस्Cओम्_३,२.५.१८
SK
START Bस्Cओम्_३,२.५.१९
SK
अत्र प्रत्यवस्थीयते -
SK
अम्बुवदग्रहणात् तु न तथात्वम् | BBस्_३,२.१९ |
SK
न जलसूर्यकादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् / सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं गृह्यते तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः / नत्वात्मा मूर्तो नचास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः सर्वगतत्वात्सर्वानन्यत्वाच्च / तस्मादयुक्तो ऽयं दृष्टान्त इति
SK
इहात्मन्युक्तदृष्टान्तवैषम्यशङ्कासूत्रम्-अम्बुवदिति /
SK
आत्मनो नीरूपत्वाद्दूरस्थोपाध्यभावाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः
SK
END Bस्Cओम्_३,२.५.१९
SK
START Bस्Cओम्_३,२.५.२०
SK
अत्र प्रतिविधीयते -
SK
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् | BBस्_३,२.२० |
SK
युक्त एव त्वयं दृष्टान्तो विवक्षितांशसंभवात् / नहि दृष्टान्तदार्ष्ट्रान्तिकयोः क्वचित्कञ्चिद्विवक्षितांशं मुकत्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं शक्यते / सर्वसारूप्ये हि दृष्टान्तदार्ष्ट्रान्तिकभावोच्छेद एव स्यात् / नचेदं स्वमनीषया जलसूर्यकाजदिदृष्टान्तप्रणयनम् / शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते / किं पुनरत्र विवक्षितं सारूप्यमिति / तदुच्यते - वृद्धिह्रासभाक्त्वमिति / जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते जलह्रासे ह्रसति जलचलने चलति जलभेदे भिद्यत इत्येवं जलधर्मानुयायि भवति नतु परमार्थतः सूर्यस्य तथात्वमस्ति / एवं परमार्थतो ऽविकृतमेकरूपमपि सद्ब्रह्म देहाद्युपाध्यन्तर्भावाद्भजत इवोपादिधर्मान्वृद्धिर्ह्रासादीन् / एवमुभयोर्दृष्टान्तदार्ष्ट्रान्तिकयोः सामञ्जस्यादविरोधः
SK
उपाध्यन्तर्भावेन तत्कल्पितधर्मवत्त्वमत्र विवक्षितांशस्तेन साम्येन समाधानसूत्रम्-वृद्धिहासेति /
SK
दृष्टान्तसाम्ये ऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह-न चेदमिति / श्रूयते न कल्प्यत इत्यर्थः / श्रुतदृष्टान्तस्य ऽसूर्यकादिवत्ऽइत्युपन्यासेन किं फलमित्यत आह-शास्त्रेति /
SK
आत्मनो निर्विशेषत्वं फलमित्यर्थः / अविरोध इति न वैषम्यमित्यर्थः / आत्मा प्रतिबिम्बशून्यः, नीरूपद्रव्यत्वात्, वायुवदित्यनुमाने आकाशे व्यभिचारः / अल्पजले ऽविदूराकाशप्रतिबिम्बदर्शनादुपाधिदूरस्थत्वमपि क्वचिदनपेक्षतमिति भावः
SK
END Bस्Cओम्_३,२.५.२०
SK
START Bस्Cओम्_३,२.५.२१
SK
दर्शनाच् च | BBस्_३,२.२१ |
SK
दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् - ऽपुरुश्चक्रे द्विपदः पुरुश्चक्रे चतुश्पदः / पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्ऽ (बृ. २.५.१८) इति / ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा. ६.३.२) इति च / तस्माद्युक्तमेतत् - ऽअत एव चैपमा सूर्यकादिवत्ऽ (ब्र.सू. ३.२.१८) इति / तस्मान्निर्विकल्पकैकलिङ्गमेव ब्रह्म नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् / अत्र केचिद्द्वे अधिकरणे कल्पयन्ति / प्रथमं तावत्- किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्मोत प्रपञ्चवदनेकाकारोपेतमिति / द्वितीयं तु - स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमिति / अत्र वयं वदामः - सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति / यदि तावदनेकलिङ्गत्वं परस्यब्रह्मणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव न स्थानतो ऽपि इत्यनेनाधिकरणेन निराकर्तव्यमित्ययमुत्तरमधिकरणं प्रकाशवच्च एतद्व्यर्थमेव भवेत् / नच सल्लक्षणमेव भ्म न बोधलक्षणमिति शक्यं वक्तुम् / विज्ञानघन एवेत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् / कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत / नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणमिति शक्यं वक्तुम् अस्तीत्येवोपलब्धव्यः (फ. ६.१३)
SK
इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् / कथं वा निरस्तसत्ताको बोधो ऽभ्युपगम्येत / नाप्युभयलक्षणमेव ब्रह्मेति शक्यं वक्तुम् / पूर्वाभ्युपगमविरोधप्रसङ्गात् / सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तयोपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं ब्रह्मणः प्रसज्येत /
SK
श्रुतत्वाददोष इति चेत् /
SK
न / एकस्यानेकस्वभावत्वानुपपत्तेः / अथ सत्तैव बोधो बोध एव च सत्ता नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत तथापि किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमित्येवं विकल्पो निरालम्बन एव स्यात् / सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि / अपिच ब्रह्मविषयासु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नस्वानाकारे ब्रह्मणि परिगृहीते ऽवश्यं वक्तव्येतरासां श्रुतीनां गतिः / तादर्थ्येन प्रकाशवच्चेत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते /
SK
यद्यप्याहुराकारवादिन्यो ऽपि श्रुतयः प्रपञ्चप्रविलयमुखेनानाकारप्रतिपत्त्यर्था एव न पृथगर्था इति तदपि न समीचीनमिव लक्ष्यते / कथम् / ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते यथा - ऽयुक्ता ह्यस्य हरयः शता देशेत्यय वै हरयो ऽयं वै सहस्राणि बहूनि चानन्तानि चऽ (बृ. २.५.१९) इत्येवमादयस्ते भवन्ति प्रविलयार्थाः ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ (बृ. २.५.१९) इत्युपसंहारात् / ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते यथा ऽमनोमयः प्राणसीरो भारूपःऽ (छा. ३.१४.२) इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यम् / ऽस क्रतुं कुर्वीतऽ (छा. ३.१४.१) इत्येवञ्जातीयकेन प्रकृतेनैवोपासनविधिना तेषां संबन्धात् / श्रुत्या चैवञ्जातीयकानां गुणानामुपासनार्थत्वे ऽवकल्प्यमाने न लक्षणया प्रविलयार्तत्वमवकल्पते / सर्वेषां च साधारणे प्रविलयार्थत्वे सति ऽअरूपवदेव हि तत्प्रधानत्वात्ऽ (ब्र. सू. ३.२.१४) इति विनिगमनकारणवचनमनवकाशं स्यात् / फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः क्वचिदैश्वर्यप्राप्तिः क्वचित्क्रममुक्तिरित्यवगम्यत एवेत्यतः पार्थगर्त्यमेवोपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यं नैकवाक्यत्वम् / कथं चैषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् /
SK
एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् /
SK
न / ब्रह्मवाक्येषु नियोगाभावात् / वस्तुमात्रपर्यवसायीनि हि ब्रकह्मवाक्यानि न नियोगोपदेशीनीत्येतद्विस्तरे प्रतिष्ठापितं ऽतत्तु समन्वयात् (ब्र. सू. १.१.४) इत्यत्र / किंविषयश्चात्र नियोगो ऽभिप्रेयत इति वक्तव्यम् / पुरुषो हि नियुज्यमानः कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते /
SK
ननु द्वैतप्रपञ्चविलयो न योगविषयो भविष्यति / अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः / यथा स्वर्गामस्य यागो ऽनुष्ठातव्य उपदिश्यत एवमपवर्गकामस्य प्रपञ्चप्रविलयः / यथाच तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यत एवं ब्रह्मतत्तवमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः / ब्रह्मस्वभावो हि प्रपञ्चो न प्रपञ्चस्वभावं ब्रह्म, तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवतीति /
SK
अत्र वयं पृच्छामः - को ऽयं प्रपञ्चप्रविलयो नाम / किमग्निप्रतापसंपर्काद्घृतकाठिन्यप्रविलय इव प्पपञ्चप्रविलयः कर्तव्य आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापितव्य इति / तत्र तावद्विद्यामनो ऽयं प्रपञ्चो देहादिलक्षण आध्यत्मिको बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्येत स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशो ऽशक्यविषय एव स्यात् / एकेन चादिमुक्तेन पृथिव्यादिप्रविलयः कृत इतीदानीं पृथिव्यादिशून्यं जगदभविष्यत् / अथाविद्याध्यस्तो ब्रह्मण्येकस्मिन्नयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् / ततो ब्रह्मैवाविद्याध्यस्तप्रपञ्चप्रत्याख्यानेनावेदयितव्यम् एकमेवाद्वितीयं ब्रह्म, तत्सत्यं स आत्मा तत्वमसि (छा. ६.८.७) इति तस्मिन्नावेदिते विद्या स्वयमेवोत्पद्यते तया चाविद्या बाध्यते.
SK
ततश्चाविद्यध्यस्तः सकलो ऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत्प्रविलीयते / अनावेदिते तु ब्रह्मणि ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं चेति शतकृत्वो ऽप्युक्ते, न ब्रह्मविज्ञानं प्रपञ्पप्रविलयो वा जायते /
SK
नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् /
SK
न / निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैवोभयसिद्धेः / रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानमविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति / नच कृतमेव पुनः क्रियते / नियोज्योञपि च प्रपञ्चावस्थायां यो ऽवगम्यते जीवो नाम स प्रपञ्चस्यैव वा स्याद्ब्रह्मपक्षस्यैव वा / प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवज्जीवस्यापि प्रविलापितत्वात्कस्य प्रपञ्चविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षो ऽवाप्तव्य उच्येत / द्वितीये ऽपि ब्रह्मैवानियोज्यस्वभावं जीवस्य स्वरूपं जीवत्वं त्वविद्याकृतमेवेति प्रतिपादिते ब्रह्मणि नियोज्याभावान्नियोगाभाव एव / द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्वावबोधविधिप्रधाना भवन्ति / लोके ऽपीदं पश्येदमाकार्णयेति चैवञ्जातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते न साक्षाज्ज्ञानमेव कुर्विति / ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदाचिन्न जायते तस्मात्तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन / तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते / नच प्रमाणान्तरेणान्यथाप्रसिद्धेर्ऽथे ऽन्यथाज्ञानं नियुक्तस्याप्युपपद्यते / यदि पुनर्नियुक्तो ऽहमित्यन्यथा ज्ञानं कुर्यान्न तु तज्ज्ञानं किं तर्हि मानसी सा क्रिया / स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् / ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते / नच प्रतिषेधेनापि वारयितुं शक्यते / नहि तत्पुरुशतन्त्रं, वस्तुतन्त्रमेव हि तत् / अतो ऽपि नियोगाभावः / किञ्चान्यन्नियोगनिष्ठतयैव पर्यवस्याम्नाये यदभ्युपगतमनियोज्यब्रह्मात्मत्वं जीवस्य तदप्रमाणकमेव स्यात् / अथ शास्त्रमेवानियोज्यब्रह्मात्मत्वमप्याचक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येताम् / नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः / तस्मादवगतनिष्ठान्येव ब्रह्मवाक्यानि न नियोगनिष्ठानि / अतश्चैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् / अभ्युपगम्यमाने ऽपि च ब्रह्मवाक्येछु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपजदेशेषु चासिद्धम् / नहि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदे ऽवगम्यमाने सर्वत्रैका नियोग इति शक्यमाश्रयितुम् / प्रयाजदर्शपूर्णमासवाक्येछु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् / नत्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकीरांसो ऽस्ति / नहि भारूपतावादयो गुणाः प्रपञ्चप्रविलयोपकारिणः / नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् / नहि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं चैकस्मिन्धर्मिणि युक्तं समावेशयितुम् / तस्मादस्मादुक्त एव विभाग आकारवदनाकारोपदेशानां युक्ततर इति
SK
FN: अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया इन्द्रियाणि वा / तं ज्ञानार्थिनम् / भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् /
SK
प्रवेशश्रुतेश्चोक्तानुमानबाध इत्याह सूत्रकारः / दर्शनाच्चेति / द्विपदः पुरो मनुष्यादिदेहांश्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुरश्चक्षुराद्यभिव्यक्तेः पुरस्तात् स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टो ऽपि पुरुषः पूर्ण एवेत्यर्थः / तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् / एवं प्रतिबिम्बभावेन भेदादेः कल्पितत्वात् निर्विशेषं ब्रह्मेति स्वमतमुपसंहरति-तस्मादिति / एकदेशिव्याख्यामुत्थापयति-अत्रेति / न स्थानतो ऽपीत्याद्येकमधिकरणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रकाशवच्चेत्यादिद्वितीयमधिकरणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च / कुतः-अवैयर्थ्यात् / सत्यं ज्ञानं सदेव सोम्येत्युभयश्रुतेर्द्विरूपे ब्रह्मण्यर्थवत्त्वादिति पूर्वपक्षे सिद्धान्तः-आह च तन्मात्रम् / सन्मात्रं ब्रह्म श्रुतिराह, ऽज्ञानस्य सत्तानतिरेकात्ऽइति / इदं द्वितीयाधिकरणं दूषयति-अत्र वयमिति / द्वितीयाधिकरणस्य किं ब्रह्मणो ऽनेकरूपत्वनिरासः फलम्, उत बोधरूपत्वनिरास आहोस्वित्सत्तानिरास इति विकल्प्य सर्वथाप्यानर्थक्यं प्रपञ्चयन्नाद्ये गतार्थतामाह-यदि तावदिति / नहि द्वितीय इत्याह-नचेति / ब्रह्मणो बोधरूपत्वनिरासे जडत्वाज्जीवाभेदश्रुतिबाधश्च स्यादित्याह-कथं वेति / न तृतीय इत्याह-नापीति / सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह-कथमिति / नच बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् / सद्बोधपदयोर्वाच्यानतिरेके पर्यायत्वप्रसङ्गात् / एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति-नापीति / प्रसङ्गमेवाह-सत्तेति / व्यावृत्तत्वं भिन्नत्वम् / निष्प्रपञ्चैकरूपत्वसिद्धान्तविरोधात् भिन्नोभयरूपत्वपूर्वपक्षानुत्थानमित्यर्थः / उभयश्रुतिबलादुत्थानमिति शङ्कते-श्रुतत्वादिति / मेरुविन्ध्यवत्परस्परं भिन्नसत्ताबोधयोरेकब्रह्माभेदशङ्का श्रुतिशतेनापि न युक्तेत्याह-नेति / सद्बोधयोर्भेदो ऽस्ति न वा / आद्ये श्रुतेरपि विरुद्धार्थत्वानुपपत्तेर्न पूर्वपक्षोत्थानमित्युक्तम् / संप्रति द्वितीयं शङ्कते-अथ सत्तैवेति / सद्बोधपदयोर्वाच्यभेदे ऽपि लक्ष्यैक्योपपत्तिरखण्डार्थस्वीकारादित्यर्थः / अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सिद्धान्तत्वात् / किञ्चात्र संशये ऽप्ययुक्त इत्याह-तथापीति / एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह-सूत्राणीति / स्वपक्षे सूत्रसामञ्चस्यं चेत्याह-अपिचेति / अवश्यापेक्षितगत्यर्थत्वेनोत्तरसूत्राणां पूर्वैकवाक्यत्वान्नाधिकरणभेद इति भावः / आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रपञ्चविलयवादिनस्तु ऽमनोमयः प्राणशरीरः सत्यकामःऽइत्याद्याकारश्रुतीनां तदितराकारप्रविलयो गतिरित्याहुः / मनोमय इति कोर्ऽथः, मनो ऽतिरिक्तोपाधिशून्य इत्यर्थः / एवं प्राणशरीरपदेन प्राणातिरिक्तोपाधिनिषेधान्मनसो ऽप्यभावसिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति-यदपीत्यादिना / किं ज्ञेयब्रह्मप्रकरणस्थानामाकारशब्दानां निषेधपरत्वं उतोपासनाप्रकरणस्थानामपि / तत्राद्यमङ्गीकरोति-ये हीति / अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया हरणाद्दशेन्द्रियाणि प्राणिभेदापेक्षया शतानि सहस्राणि च तेषामीश्वराद्भेदमाशङ्क्याह-अयमिति / ईश्वर एव हरय इत्यर्थः / द्वितीयं दूषयति-ये पुनरिति / मनोमयादिशब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह-श्रुत्या चेति / किं चाकारानाकारश्रुतिद्वैविध्ये सति ब्रह्मनाकारमेवेत्यत्र किं विनिगमकमिति शङ्कोत्थानादस्थूलादिश्रुतीनां निराकारतात्पर्यं नियामकमिति कथनार्थमिदं सूत्रमर्थवद्भवति /
SK
सर्वश्रुतीनां निषेधार्थत्वे तु शङ्कानुत्थानान्नियामकसूत्रं व्यर्थं स्यादित्याह-सर्वेषां चेति / ननूपासनार्ऽथकवाक्यानां स्वार्थे फलाभावात् सफलनिषेधवाक्यशेषत्वमित्याशङ्क्य फलस्य श्रुतत्वान्नान्यशेषतेत्याह-फलमपीति / अर्थैक्याभावाच्च नैकवाक्यतेत्याह-कथं चेति / अर्थैक्यं शङ्कते-एकेति / यथा फलवत्परमापूर्वाख्यनियोगैक्यादङ्गप्रधानवाक्यानामेकवाक्यता तथा तत्त्वावबोधकामस्य प्रपञ्चप्रविलयविषयक एको नियोगरूपोर्ऽथो ऽस्तीत्याकारानाकारवाक्यानां सर्वेषामेकवाक्यतेत्यर्थः / नियोगासिद्या दूषयति-नेति / विषयं शङ्कते-ननु द्वैतेति / प्रत्यनीकं प्रतिबन्धकम् / ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह-ब्रह्मस्वभावो हि प्रपञ्च इति / कारणं हि कार्यस्य स्वरूपमतः कार्यनाशे ऽपि कारणस्य न लयः, घटनाशे ऽपि मृद्दर्शनादित्यर्थः / प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति-तत्र यदि तावदिति / सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्नद्वैतध्वंसायोगात् नभोग्रसनविधिवदशक्यविषयो ऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः / द्वितीयमनूद्य दूषयति-अथेत्यादिना / उपदेशजन्यज्ञानादेवाविद्यातज्जप्रपञ्चलयसिद्धेर्नियोगो वृथैवेत्यर्थः / किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा / नाद्यः, अशक्यत्वादित्याह-अनावेदिते त्विति / द्वितीयं शङ्कते-नन्विति / उपदेशादेव ज्ञाते ब्रह्मणि साक्षात्कारद्वैतबाधयोः सिद्धेर्विधिवैयर्थ्यं सिद्धस्य विधिना कर्तुमयोगादित्याह-नेति / एवंविषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावात्तदभावमाह-नियोज्यो ऽपि चेति / प्रपञ्चान्तर्भूतो ब्रह्म वेत्यर्थः / आद्ये जीवनाशाद्विध्ययोगः, द्वितीये नियोज्यासिद्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह-द्रष्टव्यादिशब्दा इति / ननु श्रुतं ज्ञानं त्यक्त्वा तत्साधनव्यापारविधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरुषकृत्यसाध्यत्वादित्याह-ज्ञेयाभिमुखस्यापीति / किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदान्तैर्ज्ञापनीयं विषयानवबोधे विधिबोधायोगात् / तथाच वेदान्तैरेव ज्ञानेत्पत्तेर्विध्यानर्थक्यमित्याह-तस्मादिति / तं ज्ञानार्थिनं प्रतीत्यर्थः / ननूत्पन्नं ज्ञानमन्यथाकर्तुं विधिरर्थवानिति, नेत्याह-नचेति / नन्वनग्निर्योषिदिति प्रत्यक्षप्रमाणादुत्पन्नमपि ज्ञानं तामग्निं ध्यायेदिति / विधिनान्यथाकृतं दृश्यत इत्यत आह-यदीति / अन्यथाधीः कृतिसाध्या चेत् क्रियैव, कृतिं विनैव चेद्भ्रान्तिरेवातो मानं विना विधितो ज्ञानासिद्धेर्मानवस्तुतन्त्रे ज्ञाने विधिर्मृषेत्यर्थः / वेदान्तेषु विधिवादिनो ऽन्यच्च दूषणमस्तीत्याह-किञ्चान्यदिति / ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति-अथेत्यादिना / किञ्च श्रुतं ब्रह्म न श्रुतो विधिर्वेदान्तेषु तत्कल्पने च कर्मजन्यत्वान्मोक्षस्यानित्यत्वसातिशयत्वादिप्रसङ्ग इत्याह-नियोगपरतायां चेति / फलितमाह-अतश्चेति / इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति-अभ्युपगम्यमाने ऽपीति / भिन्नक्रियावाचिशब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः / निर्गुणसगुणरूपभेदःप्रकरणभेदः मुक्त्यभ्युदयफलभेद इत्येतैः प्रमाणैर्निर्गुणज्ञानसगुणोपासनाविषयकनियोगभेद इत्यर्थः / कथं तर्ह्यङ्गाङ्गिवाक्येषु नियोगैक्यं, तत्राह-प्रयाजेति / एकस्यैव स्वर्गकामस्य साङ्गप्रधानाधिकारात्तत्साध्यफलापूर्वैक्यादेकवाक्यतेत्यर्थः / इहापि निर्गुणसगुणविद्ययोरेकाधिकारात् नियोगैक्यमस्तु, नेत्याह-न त्विहेति / मुक्त्यभ्युदयार्थिभेदान्मिथो विरुद्धार्थविद्ययोरङ्गाङ्गित्वायोगाच्च न वियोगैक्यम् / नच निर्गुणविद्यानियोग एक एव सगुणविद्यानङ्गीकारादिति वाच्यम् / अहो विपरीतं पाण्डित्यमायुष्मतः, विघ्न्ययोग्यविद्यायां विधिर्विधियोग्यायामविधिरिति, तस्मात्साकारवाक्यानामाकारलयद्वारा निर्गुणवाक्यैकवाक्यतागतिरसद्गतिरेव, किन्तु तेषां कल्पिताकारो गतिस्तदुपासनयाभ्युदयसिद्धेः, निर्गुणवाक्यानां तु परमार्थालम्बनत्वमित्यस्मदुक्त एव विभागः साधीयानित्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_३,२.५.२१
SK
START Bस्Cओम्_३,२.६.२२
SK
६ प्रकृतैतावत्त्वाधिकरणम् / सू. २२-३०
SK
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः | BBस्_३,२.२२ |
SK
ऽद्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चऽ (बृ. २.३.१) इत्युपक्रम्य पञ्चमहाभूतानि द्वैराश्येन प्रविभज्यामबर्तरसस्य च पुरुषशब्दोदितस्य महारजनादीनि रूपाणि दर्शयित्वा पुनः पठ्यते - ऽअथात आदेशो नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्तिऽ (बृ. २.३.६) इति / तत्र को ऽस्यप्रतिषेधस्य विषय इति जिज्ञासामहे / नह्यत्रेदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते / इतिशब्देन त्वत्र प्रतिषेध्यं किमपि समर्थ्यते नेति नेतीतिपरत्वान्नञ्प्रयोगस्य / इतिशब्दाश्रयं संनिहितालंबन एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते इति ह स्मोपाध्यायः कथयति इत्येवमादिषु / संनिहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणस्तच्च ब्रह्मयस्यैते द्वे रूपे / तत्र नः संशय उपजायते - किमयं प्रतिषेधो रूपे रूपावच्चोभयमपि प्रतिषेधत्याहोस्विदेकतरम् / यदाप्येकतरं तदापि किं ब्रह्म प्रतिषेधति रूपे परिशिष्ट्याहोस्विद्रूपे प्रतिषेधति ब्रह्म परिशिनष्टीति / तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे / द्वौ चैतौ प्रतिषेधौ द्विर्नेतिशब्दप्रयोगात् / तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते ऽपरेण रूपवद्ब्रह्मेति भवति मतिः / अथवा ब्रह्मैव रूपवत्प्रतिषिध्यते तद्धि वाङ्मनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् / नतु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात्प्रतिषेधार्हः / अभ्यासस्त्वादरार्थ इति / एवं प्राप्ते ब्रूमः / - न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गात् / किञ्चिद्धि परमार्थमालम्ब्यार्थः प्रतिषिध्यते यथा रज्ज्वादिषु सर्पादयः / तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे ऽवकल्पते / उभयप्रतिषेधे तु को ऽन्यो भावः परिशेष्यात् / अपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः / नापि ब्रह्मप्रतिषेध उपपद्यते ऽऽब्रह्म ते ब्रवाणिऽ (बृ. २.१.१) इत्याद्युपक्रमविरोधात् / ऽअसन्नेव स भवति / असद्ब्रह्मेति वेद चेत्ऽ (तैत्ति. २.६.१) इत्यादिनिन्दाविरोधात् / ऽअस्तीत्येवोपलब्धव्यःऽ (कठ. ६.१३) इत्यवधारणविरोधात् / सर्ववेदान्तव्याकोपप्रसङ्गाच्च /
SK
वाङ्मनसातीतत्वमपि ब्रह्मणो नाभावाभिप्रायेणाभिधीयते / नहि महता परिकरबन्धेन ऽब्रह्मविदाप्नोति परम्ऽ (तै. २.१.१), ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. २.१.१) इत्येवमादिना वेदान्तेषु ब्रह्मप्रतिपाद्य तस्यैव पुनरभावो ऽभिलप्येत / प्रक्षालनाद्धि पङ् कस्य दूरादस्पर्शं वरम् इति हि न्यायः / प्रतिपादनप्रक्रिया त्वेषा ऽयतो वाचो निवर्तन्ते / अप्राप्य मनसा सहऽ (तै. २.४.१) इति / एतदुक्तं भवति - वाङ्मनसातीतमविषयान्तःपाति प्रत्यगात्मभूतं नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति / तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति परिशिनष्टि ब्रह्मेत्यभ्युपगन्तव्यम् / तदेतदुच्यते प्रकृतैतावत्त्वं हि प्रतिषेधतीति / प्रकृतं यदेतावदियत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति / तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिनग्रन्थे ऽधिदैवतमध्यात्मं च तज्जनितमेव च वासनालब्क्षणमपरं रूपममूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं महाजनाद्युपमाभिर्दर्शितम् / अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः / तदेतत्सप्रपञ्चं ब्रह्मणो रूपं संनिहितालम्बनेनेतिकरणेन प्रतिषेधकं नञं प्रत्युपनीयत इति गम्यते / ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे न स्वप्रधानत्वेन / प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तम् ऽअथात आदेशो नेति नेतिऽऽ (बृ. २.३.६) इति / तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते / तदास्पदं हीदं समस्तं कार्यं नेति नेतीति प्रतिषिद्धम् / युक्तं च कार्यस्य वाचारम्भणसब्धादिभ्यो ऽसत्त्वमिति नेति नेतीति प्रतिषेधनं न तु ब्रह्मणः / कर्वकल्पनामूलत्वात् / नचात्रेयमाशङ्का कर्तव्या - कथं हि शास्त्रं स्वयमेव रूपद्वयं दर्शयित्वा स्वयमेव पुनः प्रतिषेधति - ऽप्रक्षालनाद्धि पङ् कस्य दूरादस्पर्शनं वरम्ऽ इति / यतो नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं त्विदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय चेति निरवद्यम् / द्वौ चैतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः / यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधत्युत्तरो वासनाराशिम् / अथवा ऽनेति नेतिऽ (बृ. २.३.६) इति वीप्सेयमितीति यावत्किञ्चिदुत्प्रेक्ष्यते तत्सर्वं न भवतीत्यर्थः / परिगणितप्रतिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् / वाप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधादविषयः प्रत्यगात्मा ब्रह्मेति जिज्ञासा निवर्तते / तस्मात्प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति परिश्नष्टि ब्रह्मेति निर्णयः / इतश्चैष एव निर्णयः / यतस्ततः प्रतिषेधाद्भूयो ब्रवीति ऽअन्यत्परमस्तिऽ (बृ. २.३.६) इति / अभावावासने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् / तत्रैषाक्षरयोजना - नेति नेतीति ब्रह्मादिश्य तमेवादेशं पुनर्निर्वक्ति / नेति नेतीत्यस्य कोर्ऽथः / नह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतो नेति नेतीत्युच्यते न पुनः स्वयमेव नास्तीत्यर्थः / तच्च दर्शयत्यन्यत्परमप्रतिषिद्धं ब्रह्मास्तीति / यदा पुनरेवमक्षराणि योज्यन्ते नह्येतस्मादिति नेति नेति /
SK
नहि प्रपञ्चप्रतिषेधरूपादादेशनादन्यत्परादेशनं ब्रह्मणो ऽस्तीति / तदा ततो ब्रवीति च भूय इत्येतन्नामधेयविषयं योजयितव्यम् / अथ नामधेयम् - ऽसत्यस्य सत्यमिति प्राण वै सत्यं तेषामेष सत्यम्ऽ (बृ. २.१.२०) इति हि ब्रवीतिति / तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति / अभावावसाने तु प्रतिषेधे किं सत्यस्य सत्यमित्युच्येत / तस्माद्ब्रह्मावसानो ऽयं प्रतिषेधो नाभावावसान इत्यध्यवस्यामः
SK
FN: पृथिव्यप्तेजोरूपं भूतत्रयं मूर्तं, वाय्वाकाशरूपं चामूर्तमिति द्विराशित्वेन / महाराजनं हरिद्रा /
SK
ब्रह्मणो निर्विशेषचिन्मात्रत्वमुक्त्वा सर्वनिषेधावधित्वेन सद्रूपत्वमाह-प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति / पृथिव्यप्तेजोभूतत्रयं मूर्तं वाय्वाकाशद्वयममूर्तमिति राशिद्वयमुक्त्वा भूतद्वयस्यामूर्तस्य सारः ऽकरणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणे ऽक्षिणि पुरुषःऽइत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि ऽतद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथेन्द्रगोपःऽइत्युपमाभिरुक्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि / केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्मपञ्चभूतान्यमूर्तानि पञ्चीकृतानि मूर्तानि ततश्चामूर्तरसत्वोक्त्या करणानां पाञ्चभौतिकत्वसिद्धिरिति व्याचक्षते / अथ सत्पदात्मकप्रपञ्चोक्त्यनन्तरं, अत उक्तारोपस्य निषेधार्थत्वान्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः / नेतिशब्दार्थमाह-नहीति / एतस्मादात्मनो ऽन्यन्नास्तीति नेतीत्युच्यत इत्यर्थः / शून्यतानिरासार्थं परं ब्रह्मास्तीत्युक्तमिति सिद्धान्तरीत्या श्रुत्यर्थः / अत्र निषेध्यविशेषानुपलम्भात्संशयमाह-तत्र को ऽस्येत्यादिना / नञ्प्रयोगस्य नाकारास्येतिशब्दोपस्थापितवस्तुनिषेधकत्वादित्यर्थः / इतिशब्दान्निषेध्यसामान्यसमर्पणे विशेषाकाङ्क्षायां प्रकरणाद्रूपद्वयस्य रूपिब्रह्मणश्च निषैध्यत्वभानात्संशयमुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्तीत्याक्षेपसङ्गत्या पूर्वपक्षयति-तत्र प्रकृतत्वेति / पूर्वपक्षे तत्पदार्थाभावाद्वाक्यार्थाभेदासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् / निरधिष्ठाननिषेधादर्शनात्सर्वनिषेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह-अथवेति / एकब्रह्मण एव निषेधे नकारद्वयस्य पौनरुक्त्यामित्यत आह-अभ्यासस्त्विति / उत्सूत्रमेव तावत्सिद्धान्तमुपक्रमते-एवमिति / शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह-किञ्चिद्धीति / तच्चेति प्रतिषेधनमित्यर्थः / अधिष्ठानानवशेषे तत्प्रमारूपहेत्वभावात् निषेधवाक्यार्थः प्रमा न स्यात् ऽइदमत्र नास्तिऽइति लोके निषेधस्य साधिष्ठानस्यैव प्रमितिदर्शनादित्यर्थः / किञ्च यद्भाति तत्सदित्युत्सर्गस्य भानार्थाभावाधिष्ठानप्रमितिरपवादस्तया पूर्वभानस्य भ्रमत्वनिश्चयेनार्थसत्त्वापलापात् / अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्यत्वापत्तेर्निषेधानुपपत्तिरित्याह-अपरिशिष्यमाणे चेति / अधिष्ठानसत्त्वं विना भ्रान्तिनिषेधयोरयोगाच्छून्यवादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति-नापीति / देहात्माभिमानवल्लौकिकमानप्राप्तद्वैतस्य निषेधो युक्तो न वेदान्तप्रमितब्रह्मण इति भावः यदुक्तं वाङ्मनसातीत्वात् निषेधार्हं ब्रह्म इति तत्राह-वाङ्मनसेति / ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत् किमर्थं तदुक्तिरित्यत आह-प्रतिपादनेति / उक्तार्थे सूत्रं योजयति-तदेतदित्यादिना / ऽद्वे वाव ब्रह्मणो रूपेऽइति रूपद्वयस्यैव प्राधान्येन प्रकृतत्वान्नेतीति निषेध इत्यर्थः / ननु ऽआदित्यमण्डले पुरुषऽइति ब्रह्माप्यत्र प्राधान्येनोक्तमित्याशङ्क्य पुरुषो लिङ्गात्मा अमूर्तरसत्वश्रुत्या भूतजनितत्वभानात् स्वप्नरूपत्वश्रुतेश्चेत्याह-तज्जनितमेवेति / रूपरूपिणोरभेद उक्तः ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह-अमूर्तरसस्येति / रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह-तदिति / प्रतियोगित्वेन समर्प्यत इत्यर्थः / न चार्थतः प्रधान्यद्ब्रह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राजनिषेधप्रसङ्गादिति भावः / किञ्चैत्र ब्रह्मणः प्रतिपाद्यत्वात् न निषेध इत्याह-प्रपञ्चिते चेति / ननु ब्रह्मणि निषिद्धस्याप्यन्यत्र स्थितिसंभवात् कथं कल्पितत्वमित्यत आह-तदास्पदमिति / उपादाने निषिद्धस्यान्यत्र न स्थितिरित्यर्थः / यत्तु द्वैतनिषेधे प्रत्यक्षादिविरोध इति, तत्राह-युक्तं चेति / स्थापितं हि आरम्भणाधिकरणे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः / ननु वस्तुत्वाद्वैतवद्ब्रह्मणो ऽपि निषेधो ऽस्तु, नेत्याह-नत्विति / द्वैतभावाभावसाक्षित्वादशक्यो निषेध इत्यर्थः / न चेत्यादि स्पष्टार्थम् / यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह-द्वौ चैताविति / उद्देश्यविधेयार्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः ऽयथासङ्ख्यमनुदेशः समानाम्ऽइति पाणिनिसूत्रसिद्धस्तेनात्र रूपद्वयोद्देशेन निषेधद्वयविधिरित्यर्थः / वीप्सापक्षे सर्वदृश्यनिषेधाज्जिज्ञासाशान्तिरिति विशेषमाह-परिगणितेति / मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः / सूत्रशेषं व्याचष्टे-इतश्चेति / प्रतिषेधानुपपत्त्या ब्रह्मास्तीत्यवगतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः / तच्चेति /
SK
अवशिष्टं ब्रह्मेत्यर्थः / स्पष्टमन्यत्
SK
END Bस्Cओम्_३,२.६.२२
SK
START Bस्Cओम्_३,२.६.२३
SK
तदव्यक्तमाह हि | BBस्_३,२.२३ |
SK
यत्प्रतिषिद्धात्प्रपञ्चजातादन्यत्परं ब्रह्म तदस्ति चेत्कस्मान्न गृह्यत इति / उच्यते - तदव्यक्तमनिन्द्रियग्राह्यं सर्वदृश्यसाक्षित्वात् / आह ह्येवं श्रुतिः ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वाऽ (मुण्ड. ३.१.८) ऽस एष नेति नेत्यात्मागृह्यो नहि गृह्यतेऽ (बृ. ३.९.२३) यत्तदद्रेश्यमग्राह्यम् (मुण्ड. १.१.६) ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयनेऽ (तै. २.७.१) इत्याद्या / स्मृतिरपि - ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्यो ऽयमुच्यतेऽ (भ. गी. २.२५) इत्याद्या
SK
नन्वग्राह्यत्वाद्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे-यत्प्रतिषिद्धादिति /
SK
रूपाद्यभावादव्यक्तमिन्द्रियाग्राह्यं न त्वसत्त्वादित्यर्थः / अन्यैर्देवैरिन्द्रियान्तरैर्न गृह्यत इत्यन्वयः
SK
END Bस्Cओम्_३,२.६.२३
SK
START Bस्Cओम्_३,२.६.२४
SK
अपि च संराधने प्रत्यक्षानुमानाभ्याम् | BBस्_३,२.२४ |
SK
अपिचैनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः / संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् / कथं पुनरवगम्यते संराधनकाले पश्यन्तीति / प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः / तथाहि श्रुतिः - ऽपराञ्चि खानि व्यतृणत्स्वयं भूतस्मात्पराङ्पश्यति नान्तरात्मन् / कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्ऽ (क. ४.१) इति / ऽज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानःऽ (मु. ३.१.८) इति चैवमाद्या / स्मृतिरपि - ऽयं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः / ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः //
SK
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्ऽ इति चैवमाद्या
SK
FN: स्वयंभूरीश्वरः खानीन्द्रियाणि पराञ्चि अनात्मग्राहकाणि कृत्वा व्यतृमत् नासितवान् / आवृत्तचक्षुर्निरुद्धेन्द्रियः / विनिद्रा वितमस्काः / युञ्जानः ध्यायिनः / योगलभ्य आत्मायोगात्मा /
SK
तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति-अपि चैनमिति / चस्त्वर्थः / इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्रसंस्कृतमनसेत्यर्थः / भक्तिध्यानाभ्यां प्रत्यगात्मनश्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानं /
SK
जपनमस्कारादिरादिशब्दार्थः / स्वयंभूरीश्वरः / स्वानीन्द्रियाणि / पराञ्चयनात्मग्राहकाणि कृत्वा व्यतृणत् नाशितवान् / स हि तेषां नाशो यदसदर्थग्राहितया सर्जनं तस्मात्तेषां तया सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् / कश्चित्तु धीरो धीमानावृत्तचक्षुर्निरुद्धेन्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षार्थीत्यर्थः / ततः कर्मणा विशुद्धचित्तो ज्ञानाख्यसत्त्वोत्कर्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः / विनिद्राः वितमस्काः, तत्र हेतुर्जितश्वासत्वं प्राणायामनिष्ठत्वं,
SK
युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा
SK
END Bस्Cओम्_३,२.६.२४
SK
START Bस्Cओम्_३,२.६.२५
SK
ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति / नेत्युच्यते -
SK
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् | BBस्_३,२.२५ |
SK
यथा प्रकाशाकाशसवितृप्रभृतयो ऽङ्गुलिकरकोदकप्रभृतिषु कर्मसूपाधिभूतेषु सविशेषा इवावभासन्ते, नच स्वाभाविकीमविशेषात्मतां जहति, एवमुपाधिनिमित्त एवायमात्मभेदः स्वतत्वैकात्म्यमेव / तथाहि - वेदान्तेष्वभ्यासेनासकृज्जीवप्राज्ञयोरभेदः प्रतिपाद्यते
SK
यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रकाशश्चिदात्मापि ध्यानादिकर्मण्युपाधो भिद्यते स्वतस्तस्यावैशेष्यमेकरसत्वमेव तत्त्वमसीत्यभ्यासादिति सूत्रयोजना
SK
END Bस्Cओम्_३,२.६.२५
SK
START Bस्Cओम्_३,२.६.२६
SK
अतो ऽनन्तेन तथा हि लिङ्गम् | BBस्_३,२.२६ |
SK
अतश्च स्वाभाविकत्वादभेदस्याविद्याकृतत्वाच्च भेदस्य विद्ययाविद्यां विधूय जीवः परेणानन्तेन प्राज्ञेनात्मनेकतां गच्छति / तथाहि लिङ्गम् - ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मु. ३.२.९) ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इत्यादि
SK
जीवस्य ब्रह्मात्मत्वफलश्रुतिरूपलिङ्गादपि भेद औपाधिक एवेत्याह सूत्रकारः-अतो ऽनन्तेनेति
SK
END Bस्Cओम्_३,२.६.२६
SK
START Bस्Cओम्_३,२.६.२७-२८
SK
उभयव्यपदेशात्त्वहिकुण्डलवत् | BBस्_३,२.२७ |
SK
तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति स्वमतविशुद्धये / क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते ऽततस्तु तं पश्यते निष्कलं ध्यायमानःऽ (मुण्ड. ३.१.८) इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च / परात्परं पुरुषमुपैति दिव्यम् (मु. ३.२.८) इति गन्तृगन्तव्यत्वेन / क्वचित्तु तयोरेवाभेदो व्यपदिश्यते ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१०) ऽएष त आत्मा सर्वान्तरःऽ (बृ. ३.४.१) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ. ३.७.३) इति / तत्रैवमुभयव्यपदेशे सति यद्यभेद एवैकान्ततो गृह्यते भेदव्यपदेशो निरालम्बन एव स्यात् / अत उभयव्यपदेशदर्शनादहिकुण्डलवदत्र तत्त्वं भवितुमर्हति / यथाहिरित्यभेदः कुण्डलाभोगप्रांशुत्वादीनीति तु भेद एवमिहापीति
SK
प्रकाशाश्रयवद्वा तेजस्त्वात् | BBस्_३,२.२८ |
SK
अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् / यथा प्रकाशः सवित्रस्तदाश्रयश्च सविता नात्यन्तभिन्नावुभयोरपि तेजस्त्वाविशेषात् / अथ च भेदव्यपदेशभाजौ भवत एवमिहापीति
SK
भेदाभेदपूर्वपक्षसूत्रद्वयस्य संगतिमाह-तस्मिन्नेवेति / यथाहित्वेनाभेदः / कुण्डलाख्यस्य सर्पावस्थाविशेषस्य कुण्डलत्वेन भेदः / तथा जीवस्य ब्रह्मत्वेनाभेदो जीवत्वेन भेदः / यद्वा सूर्यप्रकाशयोरेकतेजस्त्वधर्मावच्छेदेन भेदाभेदवज्जीवपरयोरपि एकेनैवात्मत्वधर्मेण भेदाभेदौ श्रुतिबलात्स्वीकार्याविति सूत्रद्वयार्थः / कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घदण्डाकारत्वं उद्गतमुखत्वमादिशब्दार्थः //२७
SK
END Bस्Cओम्_३,२.६.२७-२८
SK
START Bस्Cओम्_३,२.६.२९-३०
SK
पूर्ववद्वा | BBस्_३,२.२९ |
SK
यथा वा पूर्वमुपन्यस्तं प्रकाशादिवच्चावैशेष्यमिति तथैवैतद्भवितुमर्हति / तथाह्यविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते / यदि पुनः परमार्थत एव बद्धः कश्चिदात्माहिकुण्डलन्यायेन परस्यात्मनः संस्थानभूतः प्रकाशाश्रयन्यायेन चैकदेशभूतो ऽभ्युपगम्येत ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्रवोयर्थ्यं प्रसज्येत, नचात्रोभावपि भेदाभेदौ श्रुतिस्तुल्यवद्व्यपदिशति / अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया / तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः
SK
प्रतिषेधाच् च | BBस्_३,२.३० |
SK
अतश्चैष एव सिद्धान्तः / यत्कारणं परस्मादात्मनो ऽन्यं चेतनं प्रतिषेधति शास्त्रम् - ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ३.७.२३) इत्येवमादि / अतात आदेशो नेति नेति (बृ. २.३.६) तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् (बृ. २.५.१९) इति च ब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणाद्ब्रह्ममात्रपरिशेषाच्चैव एव सिद्धान्त इति गम्यते
SK
सिद्धान्तसूत्रम्-पूर्ववद्धेति / धर्मभेदनैकधर्मेण वा भेदाभेदस्वीकारे भेदस्य सत्यत्वादभेदवदनिवृत्तिः स्यात् एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्पदलक्ष्यमस्तीति सिद्धम् //२९
SK
END Bस्Cओम्_३,२.६.२९-३०
SK
START Bस्Cओम्_३,२.७.३१
SK
७ पराधिकरणम् / सू. ३१-३७
SK
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः | BBस्_३,२.३१ |
SK
यदेतन्निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धरितमस्मात्परमन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः / कानिचिद्धि वाक्यान्यापातेनैव प्रतिभासमानानि ब्रह्मणो ऽपि परमन्यत्तत्त्वं प्रतिपादयन्तीव / तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते / परमतो ब्रह्मणो ऽन्यत्तत्त्वं भवितुमर्हति / कुतः - सेतुव्यपदेशादुन्मानव्यपदेशात्संबन्धव्यपदेशाद्भेदव्यपदेशाच्चेति / सेतुव्यपदेशस्तावत् - ऽअथ य आत्मा स सेतुर्विधृतिःऽ (छा. ८.४.१) इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्तवं संकीर्तयति / सेतुशब्दश्च हि लोके जलसंतानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः / इह तु सेतुशब्द आत्मनि प्रयुक्त इति लौकिकसेतोरिवात्मसेतोरन्यस्य वस्तुनो ऽस्तित्वं गमयति / ऽसेतुं तीर्त्वाऽ (छा. ८.४.२) इति च तरतिशब्दप्रयोगात् / यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोत्येवमात्मानं सेतुं तीर्त्वानात्मानमसेतुं प्राप्नोतीति गम्यते / उन्मानव्यपदेशश्च भवति ऽतदेतद्ब्रह्म चतुष्पादष्टाशफं षोडशकलमिऽति / यच्च लोके उन्मितमेतावदिदमिति परिच्चिन्नं कार्षापणादि ततो ऽन्यद्वस्त्वस्तीति प्रसिद्धम् / तथा ब्रह्मणो ऽप्युन्मानात्ततो ऽन्येन वस्तुना भवितव्यमिति गम्यते / तथा संबन्धव्यपदेशो ऽपि भवति - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८.१) इति ऽशारीर आत्माऽ (तै. २.३.१) ऽप्राज्ञेनात्मना संपरिष्वक्तःऽ (बृ. ४.३.२१) इति च / मितानां च मितेन संन्धो दृष्टो यथा नराणां नगरेण / जीवानां च ब्रह्मणा संबन्धं व्यपदिशति सुषुप्तौ / अतस्ततः परमन्यदमितमस्तीति गम्यते / भेदव्यपदेशश्चैतमेवार्थं गमयति / तथाहि - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा.
SK
१.६.६) इत्यादित्याधारमीश्वरं व्यपदिश्यततो भेदेनाक्ष्याधारमीश्वरं व्यपदिशति - ऽअथ य एषो ऽन्तिक्षिणि पुरुषो दृश्यतेऽ (छा. १.७.५) इति / अतिदेशं चास्यामुना रूपादिषु करोति - ऽतस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ यन्नाम तन्नामऽ (छा. १.७.५)
SK
इति / सावधिकं चेश्वरत्वमुभयोर्व्यपदिशति - ऽये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽ (छा. १.६.८) इत्येकस्य / ऽये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चऽ (छा. १.७.६) इत्येकस्य / यथेदं मागधस्य राज्यमिदं वैदेहस्येति
SK
FN: वातप्रचुरो देशो जाङ्गलः /
SK
यदुक्तं नेति नेतीत्यादिश्रुतिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् / सेत्वादिश्रुतिभिर्वस्त्वन्तरास्तित्वभानादित्याक्षिपति-परमत इति / यद्यपि द्युभ्वाद्यधिकरणे सेतुशब्दो विधारकत्वेन गौणो व्याख्यातस्तथाप्युन्मानादिश्रुतीनां गतिमजानतो ऽयं पूर्वपक्षः, तत्रोन्मानादिश्रुतीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ताद्वितीयतत्पदलक्ष्यसिद्धिरिति विवेकः / ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् / तीर्णत्वश्रुतेश्चेत्याह-सेतुं तीर्त्वेति / जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् / दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतुष्पाद्ब्रह्मेति पादानामर्धानि अष्टौ शफा अस्येत्यष्टाशफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः / षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परिमितत्वादित्यर्थः / संबन्धित्वाच्च नगरवदित्याह-तथा संबन्धेति / अन्यदमितमिति असङ्ख्यातमित्यर्थः / अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् / भेदेनोक्तत्वाच्च घटवदित्याह-भेदव्यपदेशश्चेति / अस्याक्षिस्थस्यामुनादित्यस्थेन सहेति यावत् /
SK
आधारतो ऽतिदेशतश्च भेदमुक्त्वावधितो ऽपि तमाह-सावधिकं चेति
SK
END Bस्Cओम्_३,२.७.३१
SK
START Bस्Cओम्_३,२.७.३२
SK
एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीत्येवं प्राप्ते प्रतिपाद्यते -
SK
सामान्यात् तु | BBस्_३,२.३२ |
SK
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि / न ब्रह्मणो ऽन्यत्किञ्चिद्भवितुमर्हति प्रमाणाभावात् / नह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे / सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् / अनन्यत्वं च कारणात्कार्यस्य / ऽनच ब्रह्मव्यतिरिक्तं किञ्चिदजं संभवति सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) इत्यवधारणात् / एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानान्न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते /
SK
नु सेत्वादिव्यपदेशा ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् /
SK
नेत्युच्यते / सेतुव्यपदेशस्तावन्न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते / सेतुरात्मेति ह्याह न ततः परमस्तीति / तत्र परस्मिन्नसति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत / नचैतन्न्याय्यं / अजत्वादिश्रुतिविरोधात् / सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श् लिष्यते / जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः / अतः सेतुरिव सेतुरिति प्रकृत आत्मा स्तूयते / सेतुं तीर्त्वेत्यपि तरतेरतिक्रमासंभवात्प्राप्नोत्यर्थ एव वर्तते / यथा व्याकरणं तीर्ण इति प्राप्त इदमुच्यते नातिक्रान्तस्तद्वत्
SK
सिद्धान्तसूत्रं व्याचष्टे-तुशब्देनेत्यादिना / यदन्यत्तत्किं साद्यनादि वा, नाद्यः मानाभावात् कार्यस्य ब्रह्मनन्यत्वनिर्गुणयाच्चेत्युक्त्वा न द्वितीयः प्रागुत्पत्तेरद्वयत्वावधारणादित्याह-नच ब्रह्मव्यतिरिक्तमिति / उक्तानुमानानामागमबाध इति भावः / उक्तं स्मारयित्वा हेतुनामसिद्धिमाह-ननु सेत्वित्यादिना / किं सेतुश्रुत्या परसिद्धिरर्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते-तत्र परस्मिन्निति / सेतुत्वलिङ्गेनाद्वितीयत्वश्रुतिबाधनमन्याय्यमित्याह-नचेत् इ / लिङ्गं चासिद्धमित्याह-अपिचेति / विधारकत्वं तु कल्पितद्वितीयापेक्षयापि युज्यत इति भावः / तीर्णत्वहेतुरप्यसिद्ध इत्याह-सेतुं तीर्त्वेति
SK
END Bस्Cओम्_३,२.७.३२
SK
START Bस्Cओम्_३,२.७.३३
SK
बुद्ध्यर्थः पादवत् | BBस्_३,२.३३ |
SK
यदप्युक्तमुन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते - उन्मानव्यपदेशो ऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः / किमर्थस्तर्हि बुद्ध्यर्थः, उपासनार्थ इति यावत् /
SK
चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा बुद्धिः कतं नु नाम ब्रह्मणि स्थिरा स्यादिति विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते / नह्यविकारे ऽनन्ते ब्रह्मणि सर्वैः पुंभिः शक्या बुजद्धिः स्थापयितुं मन्दमध्यमोत्तमबुद्धित्वात्पुंसामिति / पादवत् / यथा मन आकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोश्चत्वारो वागादयो मनःसंबन्धिनः पादाः कल्प्यन्ते चत्वारश्चाग्न्यादय आकाशसंबन्धिनः आध्यानाय तद्वत् / अथवा पादवदिति यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते / नहि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते क्रयविक्रये परिमाणानियमात्तद्वदित्यर्थः
SK
FN: ब्रह्मण उन्मानकल्पनं मन्दधियां ध्यानव्यवहाराय कार्षापमस्य पादव्यवहारात् /
SK
परिमितत्वमप्यसिद्धमित्याह-बुद्ध्यर्थ इति / वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः / लौकिकं दृष्टान्तमाह-अथवेति / पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह-नहीति /
SK
कार्षापणस्य व्यवहाराय पादकल्पनावत् मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः
SK
END Bस्Cओम्_३,२.७.३३
SK
START Bस्Cओम्_३,२.७.३४
SK
स्थानविशेषात्प्रकाशादिवत् | BBस्_३,२.३४ |
SK
इह सूत्रे द्वयोरपि संबन्धभेदव्यदेशयोः परिहारो विदीयते / यदप्युक्तं संबन्धव्यपदेशाद्भेदव्यपदेशाच्च परमतः स्यादिति तदप्यसत् / यत एकस्यापि स्थानविशेषापेक्षयैतौ व्यपदेशावुपपद्यते / संबन्धव्यपदेशे तावदयमर्थः / बुद्द्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्योपाद्युपशमे य उपशमः स परमात्मना समबन्ध इत्युपाध्यपेक्षयैवोपचर्यते न परिमितित्वापेक्षया / तथा भेदव्यपदेशो ऽपि ब्रह्मण उपाधिभेदापेक्षयोपचर्यते न स्वरूपभेदापेक्षया प्रकाशादिवदित्युपमोपादानात् / यथैकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वोपाधियोगादुपजातविशेषस्योपाध्युपशमात्संबन्धव्यपदेशो भवत्युपाधिभेदाच्च भेदव्यपदेशः / यथावा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतस्तद्वत्
SK
संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह-स्थानेति /
SK
स्थानमुपाधिबुद्ध्यादिः एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते / यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत् तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः
SK
END Bस्Cओम्_३,२.७.३४
SK
START Bस्Cओम्_३,२.७.३५
SK
उपपत्तेश् च | BBस्_३,२.३५ |
SK
उपपद्यते चात्रेदृश एव संबन्धो नान्यादृशः ऽस्वमपीतो भवतिऽ (छा. ६.८.१) इति हि स्वरूपसंबन्धमेनमामनन्ति स्वरूपस्य चानपायित्वात् / न नरनगरन्यायेन संबन्धो घटते / उपाधिकृतस्वरूपतिरोभावात्तु - ऽस्वमपीतो भवतिऽ (छा. ६.८.१) इत्युपपद्यते / तथा भेदो ऽपि नान्यादृशः संभवति / बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् / तथाच श्रुतिरेकस्याप्याकाशस्य स्तानकृतं भेदव्यपदेशमुपपादयति - ऽयो ऽयं बहिर्धा पुरुषादाकाशःऽ (छा. ३.१२.८), ऽयो ऽयमन्तर्हृदय आकाशःऽ (छा. ३.१२.९) इति
SK
मुख्यावेव संबन्धभेदौ किं न स्यातमित्यत्र सूत्रम्-उपपत्तेश्चेति
SK
END Bस्Cओम्_३,२.७.३५
SK
START Bस्Cओम्_३,२.७.३६
SK
तथान्यप्रतिषेधात् | BBस्_३,२.३६ |
SK
एवं सेत्वादिव्यपदेशान्परपक्षहेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वान्तरेणोपसंहरति / तथान्यप्रतिषेधापि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते / तथाहि - स एवाधस्तात् (छा. ७.२५.१), अहमेवाधस्तात् (छा. ७.२५.१), आत्मैवाधस्तात् (छा. ७.२५.२), सर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेद (बृ. २.४.६), ब्रह्मैवेदं सर्वम् आत्मैवेदं सर्वम् (छा. ७.२५.२), नेह नानास्ति किञ्चन (बृ. ४.४.१), यस्मात्परं नापरमस्ति किञ्चित् (श्वे. ३.९), तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् (बृ. २.५.१९) इत्येवमादिवाक्यानि स्वप्रकरणस्तान्यन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति / सर्वान्तरश्रुतेश्च न परमात्मनो ऽन्यो ऽन्तरात्मास्तीत्यवधार्यते
SK
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात् तथा भेदो ऽपि न स्वत एकत्वश्रुतेरित्यर्थः
SK
END Bस्Cओम्_३,२.७.३६
SK
START Bस्Cओम्_३,२.७.३७
SK
अनेन सर्वगतत्वमायामशब्दादिभ्यः | BBस्_३,२.३७ |
SK
अनेन सेत्वादिव्यपदेशनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति / अन्यथा हि तन्न सिद्द्येत् / सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत सेत्वादीनामेवात्मकत्वात् /
SK
तथान्यप्रतिषेधे ऽप्यसति वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एवात्मनः प्रसज्येत / सर्वगतत्वं चास्यायामशब्दादिभ्यो विज्ञायते / आयामशब्दो व्याप्तिवचनः शब्दः ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाशःऽ (छा. ८.१.३) ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽज्यायान्दिवःऽ (छा. ३.१४.३) ऽज्यायानाकाशात्ऽ ऽनित्यः सर्वगतः स्थाणुरचलो ऽयं सनातनःऽ (भ.गी. २.२४)इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनो ऽवबोधयन्ति
SK
ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह-अनेन सर्वगतत्वमिति /
SK
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणो ऽल्पतास्यात् ऽयत्रान्यत्पश्यति तदल्पम्ऽइति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः
SK
END Bस्Cओम्_३,२.७.३७
SK
START Bस्Cओम्_३,२.८.३८
SK
७ फलाधिकरणम् / सू. ३८-४१
SK
फलमत उपपत्तेः | BBस्_३,२.३८ |
SK
तस्यैव ब्रह्मणो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावो वर्ण्यते /
SK
यद्तदिष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत्कर्मणो भवत्याहोस्विदीश्वरादिति भवति विचारणा / तत्र तावत्प्रतिपाद्यते फलमत ईश्वराद्बवितुमर्हति / कुतः - उपपत्तेः / स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान्विचित्रान्विदधद्देशकालविशेषाभिज्ञत्वात्कर्मिणां कर्मानुरूपं फलं संपादयतीत्युपपद्यते / कर्मणास्त्वनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् / अभावाद्धावानुत्पत्तेः / स्यादेतत् / कर्म विनश्यत्स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति / तदपि न परिशुध्यति प्राग्भोक्तृसंबन्धात्फलत्वानुपपत्तेः / यत्कालं हि यत्सुखं दुःखं वात्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम् / नह्यसंबद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः / अथोच्यते मा भूत्कर्मानन्तरं फलोत्पादः / कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति / तदपि नोपपद्यते / अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रर्तितस्य प्रवृत्त्यनुपपत्तेः / तदस्तित्वे च प्रमाणाभावात् /
SK
अर्थापत्तिः प्रमाणमिति चेत् /
SK
न / ईश्वरसिद्धेरर्थापत्तिक्षयात्
SK
FN: इष्टं स्वर्गः, अनिष्टमवीच्यादिस्थानयोग्यम् , व्यामिश्रं मनुष्यभोग्यम् / संसारो जन्ममृतिप्रवाहो आश्रयो यस्य /
SK
एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह-फलमत उपपत्तेः / निर्विशेषत्वादन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् / अत्र कर्मेश्वरयोः फलहेतुत्वश्रुतेः संशयमाह-किमिति / अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः / पूर्वोक्तनिर्विशेषत्वमुपजीव्य फलदातृत्वमपीश्वरस्य नास्तीति पूर्वपक्षोत्थानात्संगतिः / यद्यपि सर्वगतत्ववत्फलदातृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्कानिरासेनोक्तलक्ष्यार्थनिर्वाहकवाच्यार्थनिर्णयार्थमस्याधिकरणस्यारम्भ इति मत्वा सिद्धान्तं तावदाह-तत्र तावदिति / स्वर्गादिकं विशिष्टदेशकालकर्माभिज्ञदातृकं, कर्मफलत्वात्, सेवाफलवदित्युपपत्तिः / यागादिक्रियाख्यं कर्म तावत् क्षणिकं तत्किं स्वनाशात् फलं जनयत्युत फलमुत्पाद्य नश्यति, आहोस्विदपूर्वात्फलसिद्धिः, नाद्य इत्याह-अभावादिति / द्वितीयं शङ्कते-स्यादिति /
SK
कर्मनाशक्षणमारभ्यामभिव्यक्तस्वर्गसुखादिसत्त्वे मानं नास्तीति-दूषयति-तदपीत्यादिना / तृतीयं शङ्कते-अथेति / अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह-तदपीति / द्वितीये त्वदृष्टानभिज्ञजीवस्याधिष्ठातृत्वायोगादीश्वरस्याधिष्ठातृत्वसिद्धिरिति भावः / प्रौढवादेनापूर्वं नास्तीत्याह-तदस्तित्व इति /
SK
क्षणिकयागादेः श्रुतस्वर्गादिहेतुत्वानुपपत्त्या स्थाय्यपूर्वसिद्धिरिति चेत् / न / कर्मभिराराधितादीश्वरादेव स्थायिनः फलसिद्धेरित्यर्थः / न केवलतर्केणापूर्वं सिध्यतीति भावः
SK
END Bस्Cओम्_३,२.८.३८
SK
START Bस्Cओम्_३,२.८.३९
SK
श्रुतत्वाच् च | BBस्_३,२.३९ |
SK
न केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः किं तर्हि श्रुतत्वादपीश्वरमेव फलहेतुं मन्यामहे / तथाच श्रुतिर्भवति - ऽस वा एष महानज आत्मान्नादो वसुदानःऽ (बृ. ४.४.२४) इत्येवञ्जातीयका
SK
FN: अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः , वसुदानो धनदाता /
SK
ऽकृतात्यये ऽनुशयवान्ऽइत्यत्रोदाहृताभिः ऽय इह रमणीयचरणाःऽइत्यादिश्रुतिस्मृतिभिरपूर्वसिद्धिश्चेत्ताभिरीश्वरस्यापि फलदातृत्वं स्वीकार्यमित्याह-श्रुतत्वाच्चेतिसूत्रकारः / अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणो ऽपूर्वस्य वा जडत्वेनोपकरणमात्रत्वात्स्वतन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः
SK
END Bस्Cओम्_३,२.८.३९
SK
START Bस्Cओम्_३,२.८.४०
SK
धर्मं जैमिनिरत एव | BBस्_३,२.४० |
SK
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते / अत एव हेतोः श्रुतरुपपत्तेश्च / श्रूयते तावदयमर्थः स्वर्गकामो यजेत इत्येवमादिषु वाक्येषु / तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते / अन्यथा ह्यननुष्ठातृको याग आपद्येत तत्रास्योपदेशवैयर्थ्यं स्यात् /
SK
नन्वनुक्षणविनाशिनः सर्मणः फलं नोपपद्यत इति परित्यक्तो ऽयं पक्षः /
SK
नैष दोषः / श्रुतिप्रामाण्यात् / श्रुतिश्चेत्प्रमाणं यथायं कर्मफलसमबन्धः श्रुत उपपद्यते तथा कल्पयितव्यः / नचानुत्पाद्य किमप्यपूर्वं कर्म विनश्यत्कालान्तरितं फलं दातुं शक्नोति / अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्थापूर्वं नामास्तीति तर्क्यते / उपपद्यते चायमर्थं उक्तेन प्रकारेण / ईश्वरस्तु फलं ददातीत्यनुपपन्नम् / अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेर्वैषम्यनैर्घृम्यप्रसङ्गादनुष्ठानवैयर्त्यापत्तेश्च / तस्माद्धर्मादेव फलमिति
SK
इदानीं पूर्वपक्षयति-धर्ममिति / विधिश्रुतिर्विध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गसाधनमिति गम्यते / यागस्येष्टसाधनत्वाभावे प्रेरणानुपपत्तेरित्यर्थः / अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति-ईश्वरस्त्विति / ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह-अविचित्रस्येत्यादिना /
SK
द्वितीये संवेष्टनसंस्कारमात्रात्कटादौ वेष्टनवत्कर्मापूर्वादेव फलसिद्धेः किमीश्वरेणेति भावः / अत्र वयं वदामः-चन्दनकण्डकादिदृष्टसंपत्त्यैव सुखादिसंभवे कृतं धर्माधर्माभ्यामिति श्रुतिस्मृतिबलात्तदपेक्षायामीश्वरेण किमपराद्धम् / अतः ईश्वरानपेक्षात्केवलात्कर्मणः फलमित्ययुक्तमिति
SK
END Bस्Cओम्_३,२.८.४०
SK
START Bस्Cओम्_३,२.८.४१
SK
पूर्वं तु बादरायणो हेतुव्यपदेशात् | BBस्_३,२.४१ |
SK
बादरायणस्त्वाचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते / केवलाकर्मणो ऽपूर्वाद्वा केवलात्फलमित्ययं पक्षस्तुशब्देन व्यावर्त्यते / कर्मापेक्षादपूर्वापे ऽक्षाद्वा यथा तथास्त्वीश्वरात्फलमिति सिद्धान्तः / कुतः - हेतुव्यपदेशात् / दर्माधर्मयोरपि हि कारयितृत्वेनेश्वरो हेतुर्व्यपदिश्यते फलस्य च दातृत्वेन ऽएष ह्येष साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते / एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ इति / स्मर्यते चायमर्थो भगवद्गीतासु - ऽयो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति / तस्य तस्याचलां श्रद्झधां तामेव विदधाम्यहम् //
SK
स तया श्रद्धया युक्तस्तस्याराधनमीहते / लभते च ततः कामान्मयैव विहितान्हितान्ऽ (७.२१) इति / सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते / तदेव चेश्वरस्य फलहेतुत्वं यत्स्वकर्मानुरूपाः प्रजाः सृजतीति / विचित्रकार्यानुपपत्त्यादयो ऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाध्यायस्य द्वितीयः पादः
SK
सिद्धान्तयति-पूर्वं त्विति /
SK
अचेतनस्य कर्मणः स्वतः प्रवृत्त्ययोगात्सेवादिदृष्टान्तानुसारिश्रुतेर्बलीयस्त्वात्सर्ववेदान्तेष्वीरश्वस्य जगद्धेतुत्वश्रुतेश्चेश्वराधिष्ठितात्कर्मणो जगदन्तःपातिफलसिद्धिरिति समुदायार्थः
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां तृतीयस्याध्यायस्य द्वितीयः पादः //
SK
// इति तृतीयाध्यायस्य तत्त्वंपदार्थपरिशोधनाख्यो द्वितीयः पादः //
SK
END Bस्Cओम्_३,२.८.४१
SK
तृतीयाध्याये तृतीयः पादः /
SK
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे /
SK
विघ्नेशं विघ्नविध्वस्त्यै प्रणमामि मुहुर्मुहुः //
SK
START Bस्Cओम्_३,३.१.१
SK
तृतीयाध्याये तृतीयः पादः /
SK
[अत्र परापरब्रह्मविद्यागुणोपसंहारविवरणम्]
SK
१ सर्ववेदान्तप्रत्ययाधिकरणम् / सू. १-४
SK
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् | BBस्_३,३.१ |
SK
व्याख्यातं विज्ञेयस्य ब्रह्मणस्तत्त्वम् / इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते /
SK
ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवघनवदवधारितं तत्र कुतो विज्ञानभेदाभेदचिन्तावतारः / नहि कर्मबहुत्ववद्ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् / ब्रह्मण एकवाक्यत्वादेकरूपत्वाच्च / नचैकूपे ब्रह्मण्यनेतरूपाणि विज्ञानानि संभवन्ति / नह्यन्यथार्थो ऽन्यथा ज्ञानमित्यभ्रान्तं भवति / यदि पुनरेकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तान्तरेषु प्रतिपिपादयिषितानि तेषामेकमभ्रान्तं भ्रान्तानीतराणीत्यनाश्वासप्रसङ्गो वेदान्तेषु / तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते / नाप्यस्य चोदनाद्यविशेषादभेद उच्यते / ब्रह्मविज्ञानस्याचोदनालक्षणत्वात् / अविधिप्रधानैर्हि वस्तुपर्यवसायिभिर्ब्रह्मवाक्यैर्ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ऽतत्तु समन्वयात्ऽ (ब्र.सू. १.१.४) इत्यत्र /
SK
तत्कथमिमां भेदाभेदचिन्तामारभत इति /
SK
तदुच्यते - सगुणब्रह्मविषया प्राणादिविषया चेयं विज्ञानभेदाभेदच्न्तेत्यदोषः / अत्र हि कर्मवदुपासनानां भेदाभेदौ संभवतः कर्मवदेव चोपासनानि दृष्टफलानि चोच्यन्ते / क्रममुक्तिफलानि च कानिचित्सम्यग्ज्ञानोत्पत्तिद्वारेण / तेष्वेषा चिन्ता संभवति / किं प्रतिवेदान्तं विज्ञानभेद आहोस्विन्नेति / तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते / नाम्नास्तावद्भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु / अस्ति चात्र वेदान्तान्तरविहितेषु विज्ञानेष्वन्यदन्यन्नाम तैत्तिरीयकं वाजसनेयकं कौथुमकं शाट्यायनकमित्येवमादि / तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनऽ मित्येवमादिषु / अस्ति चात्र रूपभेदः / तद्यथा - केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्यत्परे पुनः पञ्चैव पठन्ति / तथा प्राणसंवादादिषु केचिदूनान्वागादीनामनन्ति केचिदधिकान् / तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु / अस्ति चात्र धर्मविशेषः / यथाथर्वणिकानां शिरोव्रतमिति / एवं पुनरुक्त्यादयो ऽपि भेदहेतवो यथासंभवं वेदान्तान्तरेषु योजयितव्याः / तस्मात्प्रतिवेदान्तं विज्ञानभेद इति / एवं प्राप्ते ब्रूमः - सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिंस्तस्मिन्वेदान्ते तानि तान्येव भवितुमर्हन्ति / कुतः - चेदनाद्यविशेषात् / आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते / संयोगरूपचोदनाख्याविशेषादित्यर्थः / यथैकस्मिन्नग्निहोत्रे शाखाभेदे ऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति / एवम् ऽयो ह वै ज्योष्ठं च श्रेष्ठं च वेदऽ (बृ.६.१.१, छा. ५.१.१) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना / प्रयोजनसंयोगो ऽप्यविशिष्ट एव ऽज्येष्ठश्च श्रेष्ठश्च स्वानां भवतिऽऽ (बृ. ६.१.१) इति / रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् / यथा च द्रव्यदेवते यागस्य रूपमेवं विज्ञेयं रूपं विज्ञानस्य तेन हि तद्रूप्यते / समाख्यापि सैव प्राणविद्येति / तस्मात्सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् / एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् / ये तु नामरूपादयो भेदहेत्वाभासास्ते प्रथम एव काण्डे न नाम्ना स्यादचोदनाभिधानत्वात् इत्यारभ्य परिहृताः
SK
FN: चोद्यत इति चोदना पुरुषप्रयत्नः स हि पुरुषव्यापारः /
SK
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञानसाधनोपासनास्वरूपमाह-सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति / पादसंगतिमाह-व्याख्यातमिति / पूर्वपादे तत्त्वंपदार्थविवेकः कृतः / इह तत्फलं वाक्यार्थज्ञानमानन्दादयः प्रधानस्येति सूत्रेणापुनरुक्तापेक्षिततत्पदद्वाच्यार्थोपसंहारेण निर्धार्यत इति फलफलिभावः संगतिः / सगुणवाक्यार्थविद्याचिन्ता तु तद्विद्यानां चित्तैकाग्र्यद्वारा निर्गुणज्ञानसाधनत्वात्क्रियत इति मन्तव्यम् / संप्रतिः / निर्गुणज्ञानं भेदाभेदविचारविषयत्वेनोक्तमिति मन्वान आक्षिपति-नन्विति / वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्यस्यैक्यान्न चिन्तावसर इत्यर्थः / ब्रह्मैक्ये ऽपि धर्मभेदाच्चिन्तेत्यत आह-एकरूपत्वाच्चेति / निर्धर्मत्वादित्यर्थः / एकरूपे ऽपि ब्रह्मण्यनेकप्रकारसंभवाद्भेदशङ्का इत्यत आह-नचेत्यादिना / पूर्वपक्षे ज्ञानभेदशङ्कानुपपत्तिमुक्त्वा चोदनाद्यभेदाज्ज्ञानाभेद इति सिद्धान्तो ऽप्ययुक्त इत्याह-नाप्यस्येति / एवं पादारम्भमाक्षिप्य समाधत्ते-तदुच्यत इति / सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गुणविद्यायां त्वैक्यं सिद्धमिति वाच्यार्थरूपगुणोपसंहारमात्रं क्रियते वाक्यार्थनिर्णयायेति भावः / पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वानरादिविद्या मिथोभिन्ना इति ऽनानाशब्दादिभेदात्ऽइत्यत्र वक्ष्यते / अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामादिभेदाच्चोदनाद्यविशेषाच्च संशयः / पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः / पूर्वतन्त्रे शाखान्तराधिकरणपूर्वपक्षसूत्रं नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यादिति / तत्रोक्ता हेतवो नामादयो विद्याभेदार्थमिहोच्यन्ते ऽअथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतऽइत्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणाख्यगुणविधिमाशङ्क्य ज्योतिरितिपदस्य कर्मान्तरनामत्वसंभवे ज्योतिष्टोमलक्षकत्वायोगादथेति प्रकरणविच्छेदाच्च ज्योतिष्टोमात्कर्मान्तरं विशिष्टदक्षिणाकं विधीयत इति नाम्नः कर्मभेदकत्वमुक्तम / ज्योतिरादिष्वित्यादिपदेनाध्वर्यवं हौत्रमिति संज्ञाभेदात्कर्मभेदो ग्राह्यः / तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः, ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्यत्र वैश्वदेव्यामिक्षायागे वाजिनाख्यगुणविधिः वाजिभ्य इति विश्वेदेवानुवादादित्याशङ्क्यामिक्षां पर्युपसर्जनत्वेनोक्तविश्वदेवानां वाजिभ्य इत्यनुवादायोगादुत्पत्तिशिष्टामिक्षावरुद्धे कर्मणि वाजिनद्रव्यस्यानाकाङ्क्षितस्य विध्ययोगाद्वाजिदेवताको वाजिनयागः कर्मान्तरमिति द्रव्यदेवताख्यरूपभेदात्कर्मभेदः सिद्धान्तितः / आदिपदात् ऽऐन्द्रं दध्यैन्द्रं पयःऽइति द्रव्यभेदाद्यागभेदो ग्राह्यः / एवमिहापि पञ्चाग्निषडग्निरूपभेदाद्विद्याभेदो वाजिच्छन्दोगयोः / तथा रेतोन्यूना वागादयश्छान्दोग्ये तत्सहिता वाजिनामिति प्राणविद्याभेदः, कारीरिवाक्याध्ययने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषाञ्चिदुपाध्यायार्थमुदकाहरणं धर्मो नान्येषां, अश्वमेधाध्ययने ऽश्वघासानयनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्मविशेषमपेक्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्मविशेषाच्छाखान्तरे कर्मभेदः शङ्कितस्तथात्रापि मुण्डकाध्ययेन केषाञ्चिदेव शिरस्यङ्गारपात्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुनरुक्तिरभ्यासः / यथा ऽसमिधो यजति तनूनपातं यजतिऽइति यजत्यभ्यासात्प्रयाजानां भेद उक्तस्तथा शाखान्तरे ऽभ्यासाद्विद्याभेदः / आदिपदान्निन्दादिग्रहः, ऽप्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति ये ऽग्निहोत्रम्ऽइत्यनुदितहोमस्य ऽयदुदिते सूर्ये प्रातर्जुहुयाद्यथातिथये प्रद्रुताय शून्यायावसाथायाहार्यं हरन्ति तादृगेव तत्ऽइत्युदितहोमस्य च निन्दाश्रुतेर्भेदः, एकस्यैवोदिते ऽनुदिते चानुष्ठानायोगात्, तथोदितानुदितहोमातिक्रमकृतप्रायश्चित्तादप्यग्निहोत्रभेदः शङ्कितः / एते निन्दाप्रयश्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते / यथा सर्वशाखाविहितस्य कर्मणो ज्ञातुं कर्तुं चाशक्तेर्भेदस्तथा सर्ववेदान्ताध्ययनज्ञानाद्यशक्तेस्तत्तद्वेदान्तविद्याभेदः स्यात् तथा शाखानां सर्वासामेकरूपा समाप्तिर्नोच्यते किन्तु कस्याश्चित्क्वचित्कर्मणि समाप्तिरतः समाप्तिवचनभेदात्प्रतिशाखं कर्मभेदः शङ्कितः, तथा कस्यचिद्वेदान्तस्योङ्कारसार्वात्म्ये समाप्तिः कस्यचिदन्यत्रेति विद्याभेदः, अन्यार्थदर्शनमर्थवादस्तद्भेदात्कर्मभेदवद्विद्याभेद इति पूर्वपक्षसूत्रोक्ता हेतवो दर्शितास्ते केचित्सिद्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति / तथा शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजेद्दद्याज्जुहुयादिति प्रकृतिशब्दभेदेन धात्वर्थभेदात्तदवच्छिन्नभावनाख्यकर्मभेद उक्तस्तथात्र वेदोपास्त इत्यादिशब्दभेदाद्विद्याभेदः, ऽतिस्र आहुतीर्जुहोतिऽइति संख्यया कर्मभेदवत् ऽवायुप्राणौऽइति द्वित्वसंख्यया संवर्गविद्याभेदः स्यात् / नित्याग्निहोत्रप्रकरणात्प्रकरणान्तरे कुण्डपायिनामयने ऽमासमग्निहोत्रं जुह्वतिऽइति श्रुतमग्निहोत्रं प्रकरणान्तरस्थत्वात्कर्मान्तरमिति सिद्धान्तितम् / तथात्र वेदान्तभेदे प्रकरणभेदादुभास्तिभेद इति पूर्वपक्षः / सिद्धान्तयति-एवमिति / सर्वैर्वेदान्तैः प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि तैर्विहितानीत्यर्थः / उक्तनामादिभिरग्निहोत्रादिकर्मणां प्रतिशाखं भेदे प्राप्ते शाखान्तराधिकरणसिद्धान्तसूत्रं ऽएकं वा संयोगरूपचोदनाख्याविशेषात्ऽइति / तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा / तस्या अविशेषमाह-यथैकस्मिन्निति / एकधात्वर्थहोमावच्छिन्नप्रयत्नैक्यादुपास्तियत्नैक्यमित्यर्थः / यथा ज्येष्ठत्वादिगुणकप्राणविद्या सर्वशाखास्वेका तथा पञ्चाग्निविद्याप्येका फलसंयोगाद्यविशेषात्, तथान्यापि विद्याभिन्नेत्याह-एवं पञ्चाग्नीति / पूर्वपक्षहेतून्निराचष्टे-ये त्विति / काठकमित्यादिनाम्ना कर्मभेदो न युक्तः, कुतः अचोदनाभिधानत्वात्काठकादिशब्दानां ग्रन्थनामतया कर्मवाचित्वाभावादतो भिन्ननामकशाखाग्रन्थभेदे ऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदो ऽपि न कर्मैक्यविरोधी, धर्मविशेषस्त्वध्ययनाङ्गं न कर्माङ्गमतो न कर्मभेदकः शाखाभेदे पुनरुक्तिरसिद्धा,
SK
निन्दान्यार्थदर्शनयोरपि न भेदकत्वं तत्तद्विधिस्तुतिमात्रत्वाद्बहुशाखाध्ययनाशक्तावपि स्वशाखनुक्तविशेषस्यापेक्षितस्यान्यतो ग्रहणसंभवादशक्तिरभेदिका, एकस्मिन्नपि कर्मण्यङ्गलोपादिना प्रायश्चित्तं संभवति / एवं समाप्तिवचनभेदो ऽप्यप्रयोजक इत्यैवं कर्माभेदप्रमाणप्राबल्ये भेदहेतवः परिहृता इत्यर्थः
SK
END Bस्Cओम्_३,३.१.१
SK
START Bस्Cओम्_३,३.१.२
SK
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति -
SK
भेदान् नेति चेन् नैकस्याम् अपि | BBस्_३,३.२ |
SK
स्यादेतत् / सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते / तथाहि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्यः ष्ठमपरमग्निमामनन्ति - ऽतस्याग्निरेवाग्निर्भवतिऽ (बृ. ६.२.१४) इत्यादिना / छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्ति ऽअथ ह य एतानेवं पञ्चाग्नीन्वेदऽ (छा. ५.१०.१०) इति / योषां च स गुणो ऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत / नचात्र गुणोपसंहारः शक्यते प्रत्येतुं, पञ्चसंख्याविरोधात् / तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुरः प्राणान्वाक्चक्षुः श्रोतमनांसि छन्दोगा आमनन्ति / वाजसनेयिनस्तु पञ्चममप्यामनन्ति ऽरेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेदऽ (बृ. ६.१.६) इति /
SK
आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्येति चेत् /
SK
नैष दोषः / यत एकस्यामपि विद्यायामेवञ्जातीयको गुणभेद उपपद्यते / यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायामानत्वान्न विद्याभेदो भवितुमर्हति / नहि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते / पठ्यते ऽपि च षष्ठो ऽग्निश्छन्दोगैः - ऽतं प्रेतं दिष्टमितो ऽग्नय एवं हरन्तिऽ
SK
(छा. ५.९.२) इति / वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ऽतस्याग्निरेवाग्निर्भवति समित्समित्ऽ (बृ. ६.२.१४) इत्यादि समामनन्ति स नित्यानुवादः / अथाप्युपासनार्थ एष वादस्तथापि स गुणः शक्यतेछन्दोगैरप्युपसंहर्तुम् / नचात्र पञ्चसंख्याविरोधे आशङ्क्यः / सांपादिकाग्न्यभिप्राया ह्येषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनीत्यदोषः / एवं प्राणसंवादेष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते / नचावापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्चाशङ्क्यः / कस्यचिद्वेद्यांशस्यावापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् / तस्मादैकविद्यमेव
SK
FN: इतो ऽस्माल्लोकान् दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः /
SK
तर्हि शाखान्तरन्यायेनैव कर्मैक्यवद्विद्यैक्यसिद्धैः पुनरुक्तिरित्यत आह-इहापीति / रूपस्योत्पत्तिशिष्टत्वं विशेषः / पञ्चाग्नीन्वेदेत्याद्युपासनोत्पत्तिविधिस्थपञ्चाग्न्यादिरूपभेदादुपासनाभेदः स्यादामिक्षावाजिनरूपभेदात्कर्मभेदवादित्यधिकाशङ्कानिरासार्थत्वान्न पौनरुक्त्यमस्याधिकरणस्येति मत्वा शङ्कां व्याचष्टे-स्यादित्यादिना / अस्य पृथक्शास्त्रत्वात्कर्मन्यायानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुनरुक्तिगन्धो ऽपि नास्तीति मन्तव्यम् / ननु तस्य मृतस्य दाहार्थमग्निरन्त्येष्टिगतः षष्ठो यः प्रसिद्धवद्वाजिभिरुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह-न चात्रेति / अस्तु प्रजननगुणवतो रेतसो वाजिनामावापश्छन्दोगानां च तस्योद्वापस्ततः किमित्यत आह-आवापेति / छान्दोग्ये षष्ठाग्न्यभावमङ्गीकृत्याल्परूपभेदो न विद्यैक्यविरोधीति परिहरति-नैष इत्यादिना / अङ्गीकारं त्यजति-पठ्यते ऽपीति / इतो ऽस्माल्लोकादिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः / ननु छान्दोग्ये ऽग्निमात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूपभेदस्तदवस्थः, तत्राह-वाजसनेयिनस्त्विति / षष्ठाग्नेस्तद्विशेषस्य चानुवादमात्रत्वेनानुपास्यत्वात्पञ्चाग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः / सविशेषस्य षष्ठाग्नेरूपास्यत्वे ऽपि न रूपभेद इत्याह-अथापीति / द्युलोकादीनां पञ्चानामनग्नीनामग्नित्वसंपत्तिविधिनैवार्थात्पञ्चत्वं संपत्तिकल्पिताग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः / छन्दोगैर्वाजिशाखास्थं रेत उपसंहर्तव्यमित्युक्त्वानुपसंहारे ऽपि न विद्याभेद इत्याह-न चावापेति
SK
END Bस्Cओम्_३,३.१.२
SK
START Bस्Cओम्_३,३.१.३
SK
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः | BBस्_३,३.३ |
SK
यदप्युक्तमाथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणादन्येषां च तदनपेक्षणाद्वद्याभेद इति तत्प्रत्युच्यते / स्वाध्यायस्यैष धर्मो न विद्यायाः / कथमिदमवगम्यते / यतस्तथात्वेन स्वाद्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्त आथर्वणिका इदमपि वेदव्रतत्वेन व्याक्यातमिति समामनन्ति / ऽनैतदचीर्णव्रतो ऽधीतेऽ (मु. ३.२.११) इति चादिकृतविषयादेच्छब्दादध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एवैष इति निर्दार्यते /
SK
ननु च ऽतेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्ऽ (मुण्ड. ३.२.१०) इति ब्रह्मविद्यासंयोगश्रवणादेकैव सर्वत्र ब्रह्मविद्येति संकीर्येतैष धर्मः /
SK
न / तत्राप्येतामिति प्रकृत्यप्रत्यवमर्शात् / प्रक-तत्वं च ब्रह्मविद्याया ग्रन्थविशेषापेक्षमिति ग्रन्थविशेषसंयोग्येवैष धर्मः / सववच्च तन्नियम इति निदर्शननिर्देशः / यथाच सवाः सप्त सौर्यादयः सथौदनपर्यन्ता वेदान्तरोदितत्रेताग्न्यनभिसंबन्धादथर्वणोदितैकाग्न्यभिसंबन्धाच्चाथर्वणिकानामेव नियम्यन्ते तथैवायमपि धर्मः स्वाध्यायविशेषसंबन्धात्तत्रैव नियम्यते / तस्मादप्यनवद्यं विद्यैकत्वम्
SK
एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषो ऽपि न भेदक इत्याह-स्वाध्यायस्येति / गोदानवदध्ययनाङ्गत्वेन शिरोव्रतमाथर्वणिकानां सूत्रे विहितं न विद्याङ्गमित्यर्थः / अधिकाराच्चेति व्याचष्टे-नैतदिति / एतत्प्रकृतं मुण्डकमननुष्ठितशिरोव्रतो नरो नाधीत इति श्रुतेर्मुण्डकाध्ययनाङ्गमेव शिरोव्रतमित्यर्थः / ननु विद्याङ्गत्वेनापि इदं व्रतं श्रुतमिति शङ्कते-नन्विति / सर्वशाखासु ब्रह्मविद्यैकैव चेद्विद्यासंयुक्तं व्रतमपि सर्वत्र संबध्येत / नच संबध्यत इति विद्याभेद इत्यर्थः / प्रकृतग्रन्थवाच्यैतच्छब्दबलाद्ब्रह्मप्रकाशग्रन्थपरो ब्रह्मविद्याशब्द इति परिहरति-नेति /
SK
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः / सवा होमाः / अथर्वणैः स्वसूत्रे उदित एको ऽग्निरेकर्षिसंज्ञया प्रसिद्धस्तस्मिन्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः
SK
END Bस्Cओम्_३,३.१.३
SK
START Bस्Cओम्_३,३.१.४
SK
दर्शयति च | BBस्_३,३.४ |
SK
दर्शयति च वेदो ऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् सर्वे वेदा यत्परमामनन्ति (क. २.१५) इति / तथा एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य एतं महाव्रते छन्दोगाः इति च / तथा ऽमहद्भयं वज्रमुद्यतम्ऽ (क.६.२) इति काठक उक्तस्येश्वरगुणस्य भयहेतुकस्य तैत्तिरीयके भेदर्शननिन्दायै परामर्शो दृश्यते ऽयदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते / अथ तस्य भयं भवति / तत्त्वेव भयं विदुषो ऽमन्वानस्यऽ (तै. २.७.१) इति / तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्वानरस्य छान्दोग्ये सिद्धवदुपादानम् ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्तेऽ (छा. ५.१८.१) इति / तथा सर्ववेदान्तप्रत्ययत्वेनान्यत्र विहितनामुक्थादीनामन्यत्रोपासनविधानायोपादानात्प्रायदर्शनन्यायेनोपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः
SK
किञ्च वेद्यैक्येन निर्गुणब्रह्मविद्यैक्यं तावच्छ्रुतिर्दर्शयति, तत्संनिधिपाठात्सगुणविद्यानामपि सर्वशाखास्वैक्यसिद्धिरित्याह सूत्रकारः-दर्शयति चेति / सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह-तथेति / किञ्च शाखान्तरोक्तपादार्थस्य शाखान्तरे सिद्धवत्परामर्शो विद्यैक्यं दर्शयतीत्याह-तथा महद्भयमित्यादिना / एष नर एतस्मिन्नद्वये ऽल्पमप्यन्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मैवाहमित्यमन्वानस्येत्यर्थः / प्रादेशमात्रमुपास्त इति सिद्धवदुपासनं वैश्वानरविद्यैक्यं दर्शयतीत्याह-तथेति / किञ्च सर्वेषु वेदान्तेषूक्थादीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते-अन्यत्रोक्तानां तेषामन्यत्रोपास्त्यर्थमुपादानमिति / ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं बाहुल्येन सिध्यतीत्याह-तथेति /
SK
ब्रह्मविद्यैक्यवदुक्थादिविद्यैक्यमित्यर्थः
SK
END Bस्Cओम्_३,३.१.४
SK
START Bस्Cओम्_३,३.२.५
SK
२ उपसंहाराधिकरणम् / सू. ५
SK
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च | BBस्_३,३.५ |
SK
इदं प्रयोजनसूत्रम् / स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानामन्यत्रोदितानां विज्ञानगुणानामन्यत्रापि समाने विज्ञान उपसंहारो भवति / अर्थाभेदात् / य एव हि तेषां गुणानामेकत्रार्थो विशिष्टविज्ञानोपकारकः स एवान्यत्रापि / उभयत्रापि हि तदेवैकं विज्ञानं तस्मादुपसंहारः / विधिशेषवत् / यथाहि विधिशेषाणामग्निहोत्रादिधर्माणां तदेवैकमग्निहोत्रादि कर्म सर्वत्रेत्यर्थाभेदादुपसंहरणमेवमिहापि / यदि हि विज्ञानभेदो भवेत्ततो विज्ञानान्तरनिबद्धत्वाद्गुणानां प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः / विज्ञानैकत्वे तु नैवमस्ति / अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः सर्वाभेदादित्यारभ्य भविष्यति
SK
सर्वशाखासु विद्यैक्यचिन्तायाः फलमाह-उपसंहार इति / शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्ये ऽपि तत्र तत्रोक्तैरेव गुणैर्विद्योपकारसिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृतविद्यैक्यचिन्तानैष्फल्यमिति फलम् / सिद्धान्तत्वेन सूत्रं व्याचष्टे-स्थिते चेत्यादिना / गुणानां गुण्यविनाभावादेतच्छाखास्था विद्या शाखान्तरोक्ततद्विद्यागुणवती, तदभिन्नत्वात्, तद्विद्यावदित्यनुमानद्विद्यैक्ये गुणोपसंहारसिद्धिरित्यर्थः / प्रधानैक्ये तत्तदुपकारकाणमङ्गानामुपसंहारे दृष्टान्तमाह-विधिशेषवदिति / उक्तमेव व्यतिरेकमुखेनाह-यदिहीति / नन्वाग्नेययागावरुद्धानां गुणानां ततो ऽभिन्ने सौर्ये प्राप्तिवद्विद्यान्तरस्थगुणानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह-प्रकृतीति / प्रकृतिगुणानां विकारे प्राप्तिर्युक्ता विद्यानां तु प्रकृतिविकृतिभावासिद्धेर्न तत्प्राप्तिरित्यर्थः / नैवमिति गुणानुपसंहारो नेत्यर्थः / उत्तरसूत्राणामनेन सूत्रेण पौनरुक्त्यं वारयति-अस्यैवेति
SK
END Bस्Cओम्_३,३.२.५
SK
START Bस्Cओम्_३,३.३.६
SK
३ अन्यथात्वाधिकरणम् / सू. ६-८
SK
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् | BBस्_३,३.६ |
SK
वाजसनेयके ऽते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेतिऽ (बृ. १.३.१) ऽते ह वाचमुचुस्त्वं न उद्गायऽ (बृ.
SK
१.३.२) इति प्रक्रम्य वागादीन्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ऽ (बृ. १.३.७) इति / तथा छान्दोग्ये ऽपि - ऽतद्धदेवा उद्गीथमाजग्मुरनेनैनानभिभविष्यामःऽ (छा. १.२१) इति प्रक्रम्येतरान्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा तथैव मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरेऽ (छा. १.२.७) इति / उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते / तत्र संशयः - किमत्र विद्याभेदः स्यादाहोस्विद्विद्यैकत्वमिति / किं तावत्प्राप्तं पूर्वेण न्यायेन विद्यैकत्वमिति /
SK
ननु न युक्तं विद्यैकत्वं प्रक्रमभेदात् / अन्यथा हि प्रक्रमन्ते वाजसनेयिनो ऽन्यथा छन्दोगाः ऽत्वं न उद्गायऽ (बृ. १.३.२) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति / छन्दोगास्तूद्गीथत्वेन ऽतमुद्गीथमुपासंचक्रिरेऽ (छा. १.२.७) इति /
SK
तत्कथं विद्यैकत्वं स्यादिति चेत् /
SK
नैष दोषः / न ह्येतावता विशेषेण विद्यैकत्वमपगच्छति / अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् / तथाहि - देवासुरसंग्रामोपक्रमत्वमसुरात्ययाभिप्राय उद्गीथोपन्यासो वागादिसंकीर्तनं तन्निन्दया मुख्यप्राणव्यपाश्रयस्तद्वीर्याच्चासुरविध्वंसनमश्मलोष्टनिदर्शनेनेत्येवं बहवोर्ऽथा उभयत्राप्यविशिष्टाः प्रतीयन्ते / वाजसनेयके ऽपिचोद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् - ऽएष उ वा उद्गीथःऽ (बृ. १.३.२३) इति / तस्माच्छान्दोग्ये ऽपि कर्तृत्वं लक्षयितव्यम् / तस्माच्च विद्यैकत्वमिति
SK
FN: आसन्यं आस्ये भवम् /
SK
असुरात्ययाभिप्रायो ऽसुरजयार्थं संवादः /
SK
पूर्वं चोदनाद्यविशेषादुत्सर्गतो विद्यैक्यमुक्तं तस्यापवादं वक्तुमाह-अन्यथात्वमिति / अत्र वाजिनामुद्रीयब्राह्मणं छन्दोगानामुद्गीथाध्यायं च विषयमाह-वाजेत्यादिना / ऽते ह देवाः सात्त्विकवृत्तयः प्राणा अन्योन्यमुचूर्हन्तेदानीमस्मिन्यज्ञे उद्गीथेनौद्गात्रेण कर्मणा रजस्तमोवृत्तिरूपानसुरानतीत्य देवत्वं गच्छामःऽइति ते चैवं निर्देषमुद्गीथकर्तारमुपास्यं निर्धारयितुं कृतसंवादाः प्रथमं वाच्यं परीक्षितवन्तस्त्वमौद्गात्रं नो ऽस्माकं कुर्विति तया त्वनृतं कृतं तथा घ्राणचक्षुःश्रोत्रमनांस्यपि कामेनासुरपाप्मना ग्रस्तानीति निन्दित्वा आसन्यमास्ये भवं मुखमध्यस्थं प्राणमुपास्यं निर्धारितवन्त इत्यर्थः / तत्तत्रान्योन्यभिभवात्मकयुद्धे प्रवृत्ते देवाः पूर्ववदुद्गीथमाहृतवन्तः अनेनोद्गीथेनैनानसुराञ्जयेमेत्यर्थः / भेदाभेदमानाभ्यां संशयमाह-तत्रेति / अत्र पूर्वाधिकरणसिद्धान्तन्यायेनोद्गीथविद्येति संज्ञैक्येन विद्यैक्यमिति पूर्वपक्षे मिथो गुणोपसंहारः फलं, सिद्धान्ते संज्ञैक्ये ऽपि विद्यैक्यापवादादनुपसंहार इति / एवं यत्र पूर्वन्यायेन पूर्वपक्षः तत्रापवादिकी संगतिरिति मन्तव्यम् / सूत्रस्थसिद्धान्तिशङ्काभागं व्याचष्टे-ननु न युक्तमिति / संपूर्णोद्गीथकर्मकर्ता प्राणो वाजिनामुपास्यः, उद्गायेति कर्तृशब्दाच्छन्दोगानां तूद्गीथावयव ओङ्कारः प्राणदृष्ट्योपास्यः, ॐमित्येतदक्षरमुद्गीथमित्युपक्रम्य प्राणमुद्गीथमिति कर्मरूपत्वशब्दात्, तथाच कर्तृकर्मणोरूपास्ययोर्भेदाद्विद्ययोरन्यथात्वं भेद इति शङ्कार्थः / उद्गीथत्वेनेति ओङ्कारत्वेनेत्यर्थः / अल्परूपभेदो न विद्यैक्यविरोधीत्युक्तन्यायेन पूर्वपक्षी परिहरति-नैष इति / असुरात्ययाभिप्रायः असुरजयार्थं संवादः, यथाश्मानं प्राप्य लोष्टो विध्वंसते तथा प्राणं हन्तुमागता असुरास्तस्य वीर्येण स्वयमेव ध्वस्ता इति श्रुतमुभयत्रेत्यर्थः / अल्परूपभेदमङ्गीकृत्यापि विद्यैक्यमुक्तं सो ऽपि नास्तीत्याह-वाजेति /
SK
उद्गीथकर्तृरूपत्वेन प्राणस्योभयत्र श्रुतत्वादेकत्र श्रुतं कर्तृत्वमप्युभयत्र द्रष्टव्यमित्यर्थः
SK
END Bस्Cओम्_३,३.३.६
SK
START Bस्Cओम्_३,३.३.७
SK
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् | BBस्_३,३.७ |
SK
न वा विद्यैकत्वमात्र न्याय्यं विद्याभेद एवात्र न्याय्यः / कस्मात् / प्रकरणभेदादिति / प्रक्रमभेदादित्यर्थः / तथाहि - इह प्रक्रमभेदो दृश्यते / छान्दोग्ये तावत् - ओमित्येतदक्षरमुद्गीथमुपासीत (छा. १.१.१) इत्येवमुद्गीथावयवस्योङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानं तत्र कृत्वा अथ खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति (छा. १.१.१०) इति पुनरपि तमेवोद्गीथावयवमोङ्कारमनुवर्त्य देवासुराख्यायिकाद्वारेण तम् प्राणमुद्गीथमुपासांचक्रिरे (छा. १.२.२) इत्याह / तत्र यद्युद्गीथशब्देन सकला भक्तिरभिप्रेयेत तस्याश्च कर्तोद्गातर्त्विक्तत उपक्रमश्चोपरपध्येत लक्षणा च प्सज्येत / उपक्रमानुरोधेन चैकस्मिन्वाक्य उपसंहारेण भवितव्यम् / तस्मादत्र तावदुद्गीथावयव ओङ्कारे प्राणदृष्टिरुपदिस्यते / वाजसनेयके तद्गीथशब्देनावयवग्रहणे कारणाभावात्सकलैव भक्तिरावेद्यते / त्वं न उद्गाय (बृ. १.३.२) इत्यपि तस्याः कर्तोद्गातर्त्विक्प्राणत्वेन निरूप्यत इति प्रस्थानान्तरम् / यदपि तत्रोद्गीथसामानाधिकरण्यं प्राणस्य तदप्युद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति / सकलभक्तिविषय एव च तत्राप्युद्गीथशब्द इति वैषम्यम् / नच प्राणस्योद्गातृत्वमसंभवेन हेतुना परित्यजत उद्गीथभाववदुद्गातृभावस्याप्युपासनार्थत्वेनोपदिश्यमानत्वात् / प्राणवीर्येणैव चोद्गातौद्गात्रं करोतीति नास्त्यसंभवः / तथाच तत्रैव श्रावितम्- वाचा च ह्येव स प्राणेन चोदगायत् (बृ. १.३.२४) इति / नच विवक्षितार्थभेदे ऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् / तथाह्यभ्युदयवाक्ये पशुकामवाक्ये च त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् इत्यादिनिर्देशसाम्ये ऽप्युपक्रमभेदादभ्युदयवाक्ये दवतापनयो ऽध्यवसितः, पशुकामवाक्ये तु यागविधिः / तथेहाप्युपक्रमभेदाद्विद्याभेदः / परोवरीयस्त्वादिवत् / यथा परमात्मदृष्ट्यध्याससाम्ये ऽपि ऽआकोशो ह्येवैभ्यो ज्यायानाक्शः परायणम्ऽ (छा. १.९.१) ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छा. १.९.२) इति परोवरीयस्त्वगुणविशिष्टमुद्गीथोपासनमक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनाद्भिन्नम् / नचेतरेतरगुणोपसंहार एकस्यामपि शाखायां तद्वच्छाखान्तरस्थेष्वप्येवञ्जातीयकेषूपासनेष्विति
SK
FN: वैषम्यमुभयत्र विद्यानानात्वम् / अपनयो वियोगः / परस्मात्परो वराच्च वरतरः परोवरीयान् /
SK
बहुविरुद्धरूपभेदात् न विद्यैक्यमिति सिद्धान्तयति-न वेति / अक्षरं विशिनष्टि-उद्गीथमिति / तदवयवमित्यर्थः पृथिव्यादिरसानां रसतम ओङ्कारः, आप्तिः समृद्धिरिति गुणानुक्त्वा गुणवत्योङ्कारे प्राणदृष्टिविधानायाख्यायिका प्रस्तुतेत्याह-रसतमेति / ननु वाजिवाक्यैकवाक्यत्वार्थं छान्दोग्योपक्रमस्थमुद्गीथपदं संपूर्णसामभक्तिपरमस्तु, प्राणमुद्गीथमित्यत्राप्युद्गीथकर्ता प्राण उपास्य इति व्याख्यायतामित्यत आह-तत्र यद्युद्गीथेति / ओङ्कारोपास्त्युपक्रमसङ्ग उद्गीथपदे कर्तृलक्षणा चेति दोषद्वयं स्यादित्यर्थः / ननु सिद्धान्ते ऽपि तत्पदे ऽवयवलक्षणा स्वीकार्या ततो वरं कर्तृलक्षणा श्रुत्यन्तरानुग्रहात्तथा चोपसंहारे कर्तृप्राणोपास्तिनिश्चयादुपक्रमे ऽपि तन्निश्चय इत्यत आह-उपक्रमेति / संदिग्धोपक्रमो हि वाक्यशेषान्निश्चीयते / यथा ऽअक्ताः शर्कराःऽइत्यत्राञ्जनद्रव्यसंदेहे ऽतेजो घृतम्ऽइति शेषान्निश्चयः / इह तूपक्रमे ऽक्षरस्योपास्यत्वं निश्चितं, तत्समानाधिकारणोद्गीथपदस्यावयवलक्षणा च विनिश्चितेति प्राणमुद्गीथमित्युपसंहारस्तदेकार्थतया नेय इत्यर्थः / एवं छान्दोग्ये ओङ्कार उपास्य उक्त इतरत्र तु प्राण इत्युपास्यभेदाद्विद्याभेद इत्याह-वाजेति / यदुक्तं वाजिश्रुतावपि प्राणस्योद्गीथरूपत्वश्रुतेरूपास्यैक्यमिति तद्दूषयति-यदपीत्यादिना / तत्रोद्गीथ उपास्यतया नोक्तः किन्तु प्राणस्योपास्यस्य गुणतयेत्यर्थः / किञ्चोद्गीथ ओङ्कारश्छान्दोग्ये ऽत्र तु भक्तिरित्युपास्यभेद इत्याह-सकलेति / प्राणस्य जडत्वान्नोद्गातृत्वं किन्तूद्गीथत्वमेव वाजिभरपि ग्राह्यमित्यैक्यमाशङ्क्याह-नचेति / स उद्गाता वाग्विशिष्टप्राणेनौद्गात्रं कृतवानिति श्रुतेरसंभवो ऽपि नेत्यर्थः / यदुक्तं बहुतरार्थाविशेषाद्धि विद्यैक्यमिति, तत्राह-नचेति / एकत्रोद्गाता प्राण उपास्यो ऽन्यत्रोङ्कार इत्यन्तरङ्गोपास्यरूपभेदे स्पष्टे सति बहिरङ्गार्थवादसाम्यमात्रेण नोपासनैक्यं युक्तमित्यर्थः / वाक्यसाम्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह-तथाहीति / ऽवि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये ऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्ऽइत्यभ्युदयवाक्यम् / अस्यार्थः-यस्य यजमानस्य चतुर्दश्यामेवामावास्याभ्रान्त्यादर्शकर्मार्थं प्रवृत्तस्य पुरस्तात्पूर्वं हविस्तण्डुलदधिपयोरूपं निरुप्तं दर्शदेवताभ्यो ऽग्न्यादिभ्यः सङ्कल्पितं चन्द्रमाश्च पश्चादभ्युदेति तमेतं यजमानं कालव्यत्ययापराधात्तदेव निरुप्तं हविः प्रजादिनार्धयति वियोजयति शत्रुं चास्य वर्धयति यस्मात्कालभ्रान्तिमान्यजमानः, ये मध्यमादिभावेन त्रेधा भूतास्तण्डुला दध्यादिसहिता निरुप्तास्तान्विभजेदग्न्यादिभ्यो वियोजयद्वियोज्य च दातृत्वादिगुणकानग्न्यादिभ्यो दर्शदेवाभिन्नेभ्यो निर्वपेदिति दधन् दधनि स्थविष्ठतण्डुलचरुं शृते दुग्धे ऽणिष्ठचरुमित्यर्थः / अत्र कालापराधे देवान्तरयुक्तं प्रायश्चित्तरूपं दर्शाद्भिन्नं कर्म विधीयत इति प्राप्ते तण्डुलत्रेधात्वाद्यनुवादेन विभजेदिति हविषः प्रकृतदेववियोगेन तस्मिन्नेव दर्शकर्मणि देवतान्तरसंबन्धमात्रविधानं न कर्मान्तरमिति सिद्धान्तितम् / एवमभ्युदयवाक्ये कालापराधेनोपक्रमाद्दर्शकर्मण्येव हविषः पूर्वदेवताभ्यो ऽपनयो वियोगो ऽध्यवसितः, पशुकामवाक्ये तु यद्यपि ये स्थविष्ठास्तानग्नये सनिमते ऽष्टाकपालं निर्वपेद्ये मध्यमास्तान् विषणवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुमिति निर्देशो ऽभ्युदयवाक्येन समो ऽस्ति, तथापि यः पशुकामः स्यात्सो ऽमावास्यामिष्ट्वा वत्सानपाकुर्यादिति नित्यं दर्शकर्म समाप्य पुनर्देहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्य यागान्तरविधिरेव नाभ्युदयवाक्येनार्थैक्यमिति तथा प्रकृते ऽपि निर्देशसाम्यं न विद्यैक्यप्रयोजकमित्यर्थः / वत्सानापाकुर्यान्मातृदेशाद्देशान्तरं नयेदित्यर्थः / सूत्रोक्तं दृष्टान्तं व्याचष्टे-परोवरीयस्त्वादिवदिति /
SK
पर इति सकारान्तं परस्मात् परश्चासौ वराच्च वरतर इति परोवरीयानित्येकं पदम् / अनन्तश्च आकाशाख्यः परमात्मा तद्दृष्ट्यालम्बनत्वादुद्गीथस्तथोक्त इत्यर्थः / आकाशात्मना हिरण्यश्मश्रुपुरुषात्मना चोद्गीथोपास्तिसाम्ये ऽपि विद्याभेदवदिहापि भेद इत्यर्थः
SK
END Bस्Cओम्_३,३.३.७
SK
START Bस्Cओम्_३,३.३.८
SK
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि | BBस्_३,३.८ |
SK
अथोच्यते संज्ञैकत्वाद्विद्यैकत्वमत्र न्याय्यमुद्गीथविद्येति ह्युभयणाप्येका संज्ञेति / तदपि नोपपद्यते / उक्तं ह्येतत् - ऽन वा प्रकरणभेदात्परोवरीयस्त्वादिवत्ऽ (ब्र. सू. ३.३.७) इति / तदेव चात्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत्संज्ञैकत्वं तु श्रुत्यक्षरबाह्यमुद्गीथशब्दमात्रप्रयोगाल्लौकिकैर्व्यहर्तृभिरुपचर्यते / अस्ति चैतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषूद्गीथविद्येति / तथा प्रसिद्धभेदानामप्यग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञकत्वं दृश्यते तथेहापि भविष्यति / यत्र तु नास्ति कश्चिदेवञ्जातीयको भेदहेतुस्तत्र भवतु संज्ञैकत्वाद्विद्यैकत्वं यथा संवर्गविद्यादिषु
SK
संज्ञैक्यं पूर्वपक्षबीजमुद्भाव्य दूषयति-संज्ञात इति / उपास्यरूपभेदाद्विद्यानानात्वं यदुक्तं तच्छ्रुत्यक्षरानुगतं बलवत्, संज्ञा तु पौरुषेयी दुर्बलेत्यर्थः / संज्ञैक्यं कर्मैक्यव्यभिचारि चेत्याह-अस्ति चेति / किं संज्ञैक्यं सर्वत्राप्रमाणमेव नेत्याह-यत्र त्विति /
SK
असति बाधके संज्ञैक्यमपि मानं यथा संवर्गविद्येति संज्ञैक्यात्सर्वशाखासु तद्विद्यैक्यं, तथा पञ्चाग्न्यादिविद्यैक्यमित्याद्यसूत्रे दर्शितमित्यर्थः
SK
END Bस्Cओम्_३,३.३.८
SK
START Bस्Cओम्_३,३.४.९
SK
४ व्याप्त्यधिकरणम् / सू. ९
SK
व्याप्तेश् च समञ्जसम् | BBस्_३,३.९ |
SK
ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा. १.१.१) इत्यत्राक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे ऽध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात्कतमो ऽत्र पक्षो न्याय्यः स्यादिति विचारः / तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते / यस्मिन्नितरबुद्धिरध्यस्यते ऽनुवर्तत एव तस्मिंस्तद्बुद्धिरध्यस्तेतरबुद्धावपि / यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामप्यनुवर्तत एव नामबुद्धिर्न ब्रह्मबुद्ध्या निवर्तते / यथावा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः / एवमिहाप्यक्षर उद्गीथबुद्धिरध्यस्यत उद्गीथे वाक्षरबुद्धुरिति / अपवादो नाम यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति / यथा देहेन्द्रियसंघात आत्मबुद्धिरात्मन्येवात्मबुद्ध्या पश्चाद्भाविन्या ऽतत्त्वमसिऽ (छा. ६.८.७) इत्यनया यथार्थबुद्ध्या निवर्तते / यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते / यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते / एवमिहाप्यक्षरबुद्ध्योद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्ध्या वाक्षरबुद्धिरिति / एकत्वं त्वक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् / यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति / विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्ग औद्गात्रविशेषस्य समर्पणम् / यथा नीलं यदुत्पलं तदानयेति / एवमिहाप्युद्गीथो य ओङ्कारस्तमुपासीतेति / एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमान एते पक्षाः प्रतिभान्ति तत्रान्यतमनिर्धारणकारणाभावादनिर्दारणप्राप्ताविदमुच्यते - व्याप्तेश्च समञ्जसमिति / चशब्दो ऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजन- / तदिह क्षयः पक्षाः सावद्या इति पर्युदस्यन्ते / विशेषणपक्ष एवैको निरवद्य इत्युपादीयते / तत्राध्यासे तावद्या बुद्धिरितरत्राध्यस्यते तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत तत्फलं च कल्प्येत / श्रूयत एव फलम् ऽआपयिता ह वै कामानां भवतिऽ (छा. १.१.७) इत्यादीति चेत् / न / तस्यान्यफलत्वात् / आप्त्यादिदृष्टिफलं हि तन्नोद्गीथाध्यासफलम् / अपवादे ऽपि समानः फलाभावः / मिथ्याज्ञाननिवृत्तिः फलमिति चेत् / न /
SK
पुरुषार्थोपयोगानवगमात् / नच कदाचिदप्योङ्कारादोङ्कारबुद्धिर्निवर्तत उद्गीथाद्वेद्गीथबुद्धिः / नचेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् / उपासनाविधिपरत्वात् / नाप्येकत्वपक्षः संगच्छते निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् / एकेनैव विवक्षितार्थसमर्पणात् / नच हौत्रविषय आध्वर्यवविषये वाक्षर ओङ्कारशब्दवाच्य उद्गीथशब्दप्रसिद्धिरस्ति / नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दप्रसिद्धिरस्ति / नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दवाच्यायामोङ्कारशब्दप्रसिद्धिर्येनानतिरिक्तार्थता स्यात् / परिशेषाद्विशेषणपक्षः परिगृह्यते / व्याप्तेः सर्ववेदसाधारण्यात् / सर्वव्याप्यक्षरमिह मा प्रसञ्जीत्यत उद्गीथशब्देनाक्षरं विशेष्यते कथं नामोद्गीथावयवभूत ओङ्कारो गृह्येतेति /
SK
नन्वस्मिन्नपि पक्षे समाना लक्षणा / उद्गीथशब्दस्यावयवलक्षणार्थत्वात् /
SK
सत्यमेतत् / लक्षणायामपि तु संनिकर्षविप्रकर्षो भवत एव / अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा विशेषणपक्षे प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु / अतश्च व्याप्तेर्हेतोरोमित्येतदक्षरमित्येतस्योद्गीथमित्येतद्विशेषणमिति समञ्जसमेतन्निरवद्यमित्यर्थः
SK
व्याप्तेश्च समञ्जसम् / सामानाधिकरण्यं विषयीकृत्य संशयमाह-ओमित्येतदिति /
SK
अध्यासादिपदार्थान्व्याचष्टे-तत्राध्यास इत्यादिना / बुद्धिपूर्वकाभेदारोपो ऽध्यासः, बाधो ऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः / पूर्वमुद्गातृकर्मात्मकोद्गीथावयवत्वमोङ्कारस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येयभेदाद्विद्याभेदः सिद्धान्तितः स न युक्त इत्याक्षेपसंगत्या पूर्वपक्षयति-तत्रेति / अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे-चशब्द इत्यादिना / पक्षत्रयस्य दुष्टत्वं प्रतिज्ञायाध्यासपक्षे दोषमाह-तत्राध्यास इति / यस्योद्गीथस्य बुद्धिरोङ्कारे ऽध्यस्यते तद्वाचकोद्गीथशब्दस्योङ्कारे लक्षणा स्यात्तद्बुद्धिविषयत्वगुणपरत्वात्तथा संबन्धो ऽप्यसिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः / फलं न कल्प्यमिति शङ्कते-श्रूयत इति / आप्त्यादीति / ऽओङ्कार आप्तिः समृद्धिरितिऽ ऽय उपास्ते स कामानाप्नोतिऽइति श्रुतं फलं नाध्यासस्येत्यर्थः / उद्गीथोङ्कारयोरन्यतरबुद्यान्यतरबुद्यपवादमङ्गीकृत्यान्यतरमिथ्याबुद्धिनिवृत्तिवैफल्यमुक्तं संप्रत्यन्यतरबुद्धेरभ्रान्तित्वान्नापवाद इत्याह-नच कदाचिदपीति / भ्रान्तिश्चेत् निवर्तेत न तु निवर्तत इत्यभ्रन्तिरित्यर्थः / किञ्च तत्त्वबोधकाद्वाक्याद्भ्रान्त्यपवादो भवति नेदं वाक्यं तत्त्वपरमित्याह-नचेति / घटकुम्भशब्दयोरिवोङ्कारोद्गीयशब्दयोः पर्यायत्वपक्षं दूषयति-नापीति / पर्यायत्वमपि नास्तीत्याह-नचेति / परिशिष्टविशेषणपक्षे सूत्रं योजयति-व्याप्तेरिति /
SK
ऽओमित्यक्षरमुपासीतऽइत्युक्ते सर्ववेदव्याप्योङ्कार इहोपास्तौ प्रसज्येत तन्निरासार्थमुद्गीथावयवत्वं विशेषणं समञ्जसमित्यर्थः / अध्यासपक्षे तद्बुद्धिविषयत्वगुणयोगरूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा अवयवलक्षणा तु संनिकृष्टा अवयवावयविसंबन्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च / नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्मबुद्धिग्राह्यत्वगुणलक्षणाश्रिता तत्र प्रतीकोपास्तेर्विवक्षितत्वात् / इह तु प्रतीकोपास्तिविधिकल्पने आप्त्यादिगुणकोङ्कारे प्राणदृष्टिविधाने च वाक्यभेदः स्यादतः सर्ववेदव्याप्योङ्कारनिरासेनोङ्कारे प्राणदृष्टिविधानार्थं विशेषणमेव समञ्जसं कल्प्नालाघवादिति सिद्धम्
SK
END Bस्Cओम्_३,३.४.९
SK
START Bस्Cओम्_३,३.५.१०
SK
५ सर्वाभेदाधिकरणम् / सू. १०
SK
सर्वाभेदादन्यत्रेमे | BBस्_३,३.१० |
SK
वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्योपास्यत्वमुक्तम् / वागादयो ऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः ते च प्राणे पुनः प्रत्यर्पिताः - ऽयद्वा अहं वसिष्ठो ऽस्मि त्वं तद्वसिश्षो ऽसिऽ (बृ. ६.१.१४) इत्यादिना / अन्येषामपि तु शाखिनां कौषीतकि प्रभृतीनां प्राणसंवादेषु अथातो निःश्रेयसादानम् ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ (कौ. २.१४) इत्येवञ्जातीयकेषु प्राणस्य श्रैःष्टमुक्तं न त्विमे वसिष्ठत्वादयो ऽपि गुणा उक्ताः / तत्र संशयः - किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्राप्यस्येरन्नुत नास्येरन्निति / तत्र प्राप्तं तावन्नास्येरन्निति / कुतः - एवंशब्दसंयोगात् / ऽअथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वाऽ इति तत्रतत्रैवंशब्देन वेद्यं वस्तु निवेद्यते / एवंशब्दश्च संनिहितावलम्बनो न शाखान्तरपरिपठिमेवञ्जातीयकं गुणजातं शक्नोति निवेदयितुम् / तस्मात्स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमिति / एवं प्राप्ते प्रत्याह - अस्येतन्नियमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयो ऽन्यत्रापि / कुतः - सर्वाभेदात् / सर्वत्रैव हि तदेवैकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते / प्राणसंवादादिसारूप्यात् / अभेदे च विज्ञानस्य कथमिमे गुणाः क्वचिदुक्ता अन्यत्र नास्येरन् /
SK
नन्वेवंशब्दस्तत्र तत्र भेदेनैवञ्जातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम् /
SK
अत्रोच्यते - यद्यपि कौषीतकिब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातमसंशब्दितमसंनिहितत्वात्तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनैवंशब्देन तत्संशब्दितमिति न परशाखागतमप्यभिन्नविज्ञानावरुद्धं गुणजातं स्वशाखागताद्विशिष्यते / नचैवं सति श्रुतहानिरश्रुतकल्पना वा भवति / एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति गुणवतो भेदाभावात् / नहि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धो देशान्तरं गतस्तद्देश्यैरविभावितशौर्यादिगुणो ऽप्यतद्गुणो भवति / यथाच तत्र परिचयविशेषाद्देशान्तरे ऽपि देवदत्तगुणा विभाव्यन्ते / एवमभियोगविशेषाच्छाखान्तरे ऽप्युपास्या गुणाः शाखान्तरे ऽप्यस्येरन् / तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैवोपसंहर्तव्या इति
SK
FN: निःश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणम् / अहंश्रेयसे स्वश्रैष्ठ्याय /
SK
सर्वाभेदादन्यत्रेमे / विषयं वक्तुं संमतमर्थमाह-वाजिनामिति / वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् / चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पादप्रतिष्ठादर्शनात् / श्रोत्रं संपद्गुणकं श्रवणात्सर्वार्थसंपत्तेः / मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्वभोग्याश्रयत्वात् / ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागादिभिस्तस्मिन्नर्पिता इति शाखाद्वयसंमतोर्ऽथः / विषयमाह-अन्येषामित्यादिना / निश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारमं प्रस्तूयतल इत्यर्थः / देवता वागादयो ऽहंश्रेयसे स्वश्रैष्ठ्यायेत्यर्थः / एवंशब्दाच्छैष्ठ्यगुणकप्राणप्रत्यभिज्ञानाच्च संशयमाह-तत्रेति / गुणानामनुपसंहारोपसंहारावेव पूर्वोत्तरपक्षयोः फलम् / उद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवत्प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तरिति दृष्टान्तेन पूर्वपक्षयति-तत्र प्राप्तमिति / यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः / एवं जातीयकविद्यैक्यात्प्राप्तमार्थिकं वसिष्ठत्वादिगुणजातमेवंशब्दो न गृह्णाति श्रुतावलम्बित्वादिति प्राप्ते सिद्धान्तयति-अस्येरन्निति / वाजसनेयिब्राह्मणे तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणविद्यासंबन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्यभिज्ञायते, तथाच गुणानां गुण्यविनाभावेनार्थतः प्राप्तानामपि श्रुतगुणैरविरोधात्सहैव श्रुतमार्थं च गुणजातं श्रुत्यर्थाभ्यां संनिहितत्वाविशेषात्कौषीतकिगतेनैवंशब्देन परामृश्यत इत्याह-तथापीति / कौषीतकिश्रुतिस्थः प्राणो वसिष्ठत्वादिगुणकः, श्रेष्ठप्राणत्वात्, वाजिश्रुतिस्थप्राणवदित्यश्रुतगुणानुमाने सति श्रुतहानिर्नास्ति, अविरोधादित्युक्तं, स्पष्टयति-न चैवं सतीति / अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह-नहीति / फलितमाह-तस्मादिति
SK
END Bस्Cओम्_३,३.५.१०
SK
START Bस्Cओम्_३,३.६.११
SK
६ आनन्दाद्यधिकरणम् / सू. ११-१३
SK
आनन्दादयः प्रधानस्य | BBस्_३,३.११ |
SK
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिष्वानन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवञ्जातीयका ब्रह्मणो धर्माः क्वचित्केचिच्छ्रूयन्ते / तेषु संशयः - किमानन्दादयो ब्रह्मधर्मा यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः किंवा सर्वे सर्वत्रेति / तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायामिदमुच्यते - आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः / कस्मात् / सर्वाभेदादेव / सर्वत्र हि तदेवैकं प्रधानं विशेष्यं ब्रह्म न भिद्यते / तस्मात्सार्वत्रिकत्वं ब्रह्मधर्माणां तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यदिनिदर्शनेन
SK
नन्वेवं सति प्रियशिरस्त्वादयो ऽपि धर्माः सर्वत्र संकीर्येरन् / तथाहि - तैत्तिरीयक आनन्दमयमात्मानं प्रक्रम्याम्नायते - ऽतस्य प्रियमेव शिरः / मोदो दक्षिणः पक्षः / प्रमोद उत्तरः पक्षः / आनन्द आत्मा / ब्रह्म पुच्छं प्रतिष्ठाऽ (तै. २.५) इति /
SK
आनन्दादयः प्रधानस्य / ब्रह्मणो ज्ञेयस्यैक्यान्निर्विशेषत्वाच्च संशयमाह-तेषु संशय इति / पूर्वपक्षे सत्यादिपदानुपसंहाराद्वाक्यार्थानवधारणं, सिद्धान्ते त्ववधारणमिति फलम् / प्राणस्यसविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः, ब्रह्मणस्तु निर्विशेषत्वात्स्वशाखागतपदैरेव प्रमितिसिद्धेर्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः / सिद्धान्तमाह-इदमिति / आनन्दत्वसत्यत्वज्ञानत्वादिसामान्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्वशाखासूपसंहारो नाम तद्वाचकानन्दादिपदानामेकवाक्यतयोच्चारणं आनन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्धमद्वयमात्मेति / तानि च समानाधिकरणानि पदानि विरुद्धधर्मत्यागेन सर्वाधिष्ठानभूतामेकामखण्डव्यक्तिं क्षयन्ति / न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् / यद्यपि पदद्वये ऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःखत्वाल्पत्वभ्रन्तिनिरासे ऽप्यसत्त्वजडत्वादिभ्रमो भवेदतस्तन्निरासार्थं सत्यज्ञानादिपदानि प्रयोक्तव्यानि / नच भ्रमस्यानवधित्वाद्वाक्यमपर्यवसितं स्यादिति वाच्यम् / सच्चिदानन्दात्मकं सर्वधर्मशून्यमद्वयमविकल्पं ब्रह्माहमिति विशेषदर्शने सर्वभ्रमनिरासात् / तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदान्युपसंहर्तव्यानीति भावः
SK
END Bस्Cओम्_३,३.६.११
SK
START Bस्Cओम्_३,३.६.१२
SK
अत उत्तरं पठति -
SK
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे | BBस्_३,३.१२ |
SK
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयक आम्नातानां नास्त्यन्यत्र प्राप्तिः / यत्कारणं प्रियं मोदः प्रमोद आनन्द इत्येते परस्परापेक्षया भोक्त्रन्तरापेक्षया चोपचितापचितरूपा उपलभ्यन्ते / उपचयापचयौ च सति भेदे संभवतः / निर्भेदं तु ब्रह्म ऽएकमेवाद्वितीयम्ऽ (छा. ६.२.१) इत्यादिश्रुतिभ्यः / नचैते प्रियशिरस्त्वादयो ब्रह्मधर्माः, कोशधर्मास्त्वेत इत्युपदिष्टमस्माभिः ऽआनन्दमयो ऽभ्यासात्ऽ (ब्र.सू. १.१.१२) इत्यत्र / अपिच परस्मिन्ब्रह्मणि चित्तावतारोपायमात्रत्वेनैते परिकल्प्यन्ते न द्रष्टव्यत्वेन / एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् / ब्रह्मधर्मास्त्वेतान्कृत्वा न्यायमात्रमिदमाचार्येण प्रदर्शितं प्रियशिरस्त्वाद्यप्राप्तिरिति / स च न्यायो ऽन्येषु निश्चितेषु ब्रह्मधर्मेषूपासनायोपदिश्यमानेषु नेतव्यः संयद्वामादिषु सत्यकामादिषु च / तेषु हि सत्यप्युपास्यस्य ब्रह्मण एकत्मे प्रक्रमभेदादुपासनाभेदे सति नान्योन्यधर्माणामन्योन्यत्र प्राप्तिः / यथा च द्वे नार्यावेकं नृपतिमुपासते छत्रेणैका चामरेणान्या तत्रोपास्यैकत्वे ऽप्युपासनाभेदो धर्मव्यवस्था च भवेत्येवमिहापीति / उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते न निर्गुणे परस्मिन्ब्रह्मणि / अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः
SK
ब्रह्मैक्याच्चेदानन्दत्वादिधर्माणां सर्वत्र प्राप्तिस्तर्हि सगुणब्रह्मविद्यागतधर्मप्राप्तिरपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे-प्रियेति / पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषामब्रह्मस्वरूपाणां ब्रह्मज्ञानानुपयोगादिति भावः / तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह-न चैत इति / ब्रह्मणि चित्तावतारोपायत्वे ऽपि तेषां प्राप्तिः स्यादित्याशङ्क्याह-एवमपीति / अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्तिरित्यर्थः / किमर्थं तर्हि सूत्रमित्यत आह-ब्रह्मधर्मानिति / कृत्वाचिन्ताफलमाह-स चेति / ज्ञेये बाह्यधर्माणामनुपयोगादप्राप्तिरिति न्यायात्संयद्वामत्वादीनामप्राप्तिरिति सूत्रं व्याख्येयमित्यर्थः / ज्ञानानुपयोगे ऽपि ध्याने तेषां धर्माणामुपयोगादुपास्यब्रह्मैक्यात्प्राप्तिरन्योविद्यासु स्यादित्याशङ्क्याह-तेषु हीति /
SK
ध्यानविधिपरतन्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः
SK
END Bस्Cओम्_३,३.६.१२
SK
START Bस्Cओम्_३,३.७.१३
SK
इतरे त्वर्थसामान्यात् | BBस्_३,३.१३ |
SK
इतरे त्वानन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैवोच्यमाना अर्थसामान्यात्प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात्सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यं प्रतिपत्तिमात्रप्रयोजना हि त इति
SK
संयद्वामत्वादिधर्मेभ्य आनन्दादीनां वैषम्यं ज्ञानोपयोगित्वादितयाह-इतरे त्विति /
SK
सत्यज्ञानानन्दात्मब्रह्मशब्दाः पञ्च सर्वत्रोपसंहर्तव्या इति सिद्धम्
SK
END Bस्Cओम्_३,३.७.१३
SK
START Bस्Cओम्_३,३.८.१४
SK
७ आध्यानाधिकरणम् / सू. १४-१५
SK
आध्यानाय प्रयोजनाभावात् | BBस्_३,३.१४ |
SK
काठके हि पठ्यते - ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः / मनसस्तु परा बुद्धिःऽ (क. ३.१०) इत्यारभ्य ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (क. ३.११ ) इति / तत्र संशयः - किमिमे सर्व एवार्थादयस्ततस्ततः परत्वेन प्रतिपाद्यन्त उत पुरुष एवैभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति / तत्र तावत्सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः / तथाहि श्रूयते -
SK
इदमस्मात्परमिदमस्मात्परम् इति /
SK
ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् /
SK
नैष दोषः / वाक्यबहुत्वोपपत्तेः / बहून्येवह्येतानि वाक्यानि प्रभवन्ति बहुविषयान्परत्वोपेतान्प्रतिपादयितुम् / तस्मात्प्रत्येकमेषां परत्वप्रतिपादनमिति / एवं प्राप्ते ब्रूमः - पुरुष एव ह्येभ्यः सर्वेभ्यः परः प्रतिपाद्य इति युक्तं न प्रत्येकमेषां परत्वप्रतिपादनम् / कस्मात् / प्रयोजनाभावात् / नहीतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते प्रयोजनं मोक्षसिद्धिः / तथाच श्रुतिः - ऽनिचाय्य तं मृत्युमुखात्प्रमुच्यतेऽ (क. ३.१५) इति / अपिच परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन्पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति - आध्यानायेति / आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः / सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते न त्वाध्यानमेव स्वप्रधानम्
SK
आध्यानाय वाक्यभेदाभेदानवधारणात्संशयमाह-तत्रेति / पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फलम् / पूर्वत्र ब्रह्मस्वभावानामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानफलोपायत्वमुक्तम्, अत्रत्वब्रह्मस्वभावस्यार्थादिपरत्वस्यानुपसंहार्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः तत्तत्परत्वविशिष्टत्वेनार्थादीनामपूर्वतया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः / उत्सूत्रसिद्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे-पुरुष एवेति / फलवत्त्वे सत्यपूर्वत्वात्पुरुषस्यैव प्राधान्येन प्रतिपाद्यत्वमफलार्थादीनां परत्वं तु तच्छेषत्वेनोच्यत इत्यर्थः / किञ्च ऽपुरुषान्न परं किञ्चित्सा काष्ठाऽइति वेदः परनिषेधलिङ्गेन सर्वबाधावधित्वलिङ्गेन च पुरुषे तात्पर्यं दर्शयन्पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिस्तदर्थेति दर्शयतीत्याह-अपिचेति / अर्थादीनामत्रोक्तिराध्यानाय तत्तत्परत्वाध्यानपूर्वकं पुरुषदर्शनायैव स्वतः प्रयोजनाभावादिति सूत्रं योजयति-आध्यानायेति
SK
END Bस्Cओम्_३,३.८.१४
SK
START Bस्Cओम्_३,३.७.१५
SK
आत्मशब्दाच् च | BBस्_३,३.१५ |
SK
इतश्च पुरुषप्रतिपत्त्यर्थैवेयमिन्द्रियादिप्रवाहोक्तिः / यत्कारणम् ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते / दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ (कठ. ३.१२) इति प्रकृतं पुरुषमात्मेत्याह / अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते / तस्यैव च दुर्विज्ञानतां संस्कृतमितिगम्यतां च दर्शयति / तद्विज्ञानायैव ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ (कठ. ३.१३) इत्याध्यानं विदधाति / तद्व्याख्यतम् ऽआनुमानिकमप्येकमप्येकेषाम्ऽ (ब्र.सू. १.४.१) इत्यत्र / एवमनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते नेतरेषु / अपिच ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ (क. ३.९) इत्युक्ते किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायामिन्द्रियाद्यनुक्रमणात्परमपदप्रतिपत्त्यर्थ एवायमायाम इत्यवसीयते
SK
आत्मत्वादिलिङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह-आत्मशब्दाच्चेति / किञ्च ऽतद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्ऽइत्युपक्रमोपसंहारयोरैकरूप्यात्कॢप्तफलवदेकपुरुषपरत्वेनैकवाक्यत्वनिश्चये सति वाक्यभेदफलभेदकल्पना न युक्ता गौरवादित्याह-अपिचेति
SK
END Bस्Cओम्_३,३.७.१५
SK
START Bस्Cओम्_३,३.८.१६
SK
८ आत्मगृहीत्यधिकरणम् / सू. १६-१७
SK
आत्मगृहीतिर् इतरवद् उत्तरात् | BBस्_३,३.१६ |
SK
ऐतरेयके श्रूयते - ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजाऽ (ऐ. १.१) इति ऽस इमांल्लोकानसृजताम्भो मरीचीर्मरमापःऽ (ऐ. १.२) इत्यादि / तत्र संशयः - किं पर एवात्मशब्देनाभिलप्यत उतान्यः कश्चिदिति / किं तावत्प्राप्तं न परमात्मेहात्मशब्दाभिलप्यो भवितुमर्हतीति / कस्मात् / वाक्यान्वयदर्शनात् /
SK
ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते प्रागुत्पत्तेरात्मैकत्वावधारणात् /
SK
ईक्षणपूर्वकस्रष्टृवचनाच्च /
SK
नेत्युच्यते / लोकसृष्टिवचनात् / परमात्मनि हि स्रष्टरि परिगृह्यमाणे महाभूतसृष्टिरादौ वक्तव्या लोकसृष्टिस्त्विहादावुच्यते / लोकाश्च महाभूतसंनिवेशाविशेषाः / तथाचाम्भःप्रभृतींल्लोकत्वेनैव निर्ब्रवीति - ऽअदो ऽम्भः परेण दिवम्ऽ (ऐ. १.२) इत्यादिना / लोकसृष्टिश्च परमेश्वराधिष्ठितेनापरेण केनचिदीश्वरेण आसीत्पुरुषविधःऽ (बृ. १.४.१) इत्याद्या / स्मृतिरपि ऽस वै शरीरी प्रथमःस वै पुरुषः उच्यते / आदिकर्ता स भूतानां ब्रह्माग्रे समवर्ततऽ इति / ऐतरेयिणो ऽपि अथातो रेतसः प्रजापते रेतो देवाः इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति / आत्मशब्दो ऽपि तस्मिन्प्रयुज्यमानो दृश्यते - आत्मैवेदमग्र आसीत्पुरुषविधिःऽ (बृ. १.४.१) इत्यत्र / एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते / ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् / अपिच ताभ्यो गामानयत्ताभ्यो ऽश्वमानयत्ताभ्योः पुरुषमानयत्ता अब्रुवन्नित्येवञ्जातीयको भूयान्व्यापारविशेषो लौकिकेषु विशेषवत्स्वात्मसु प्रसिद्ध इहानुगम्यते / तस्माद्विशेषावानेव कश्चिदिहात्मा स्यादिति / एवं प्राप्ते ब्रूमः - ऽपर एवात्मेहात्मशब्देन गृह्यत इतरवत् / यथेतरेषु सृष्टिश्रवणेषु तस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१.१) इत्येवमादिषु परस्यात्मनो ग्रहणम् / यथा चेतरस्मिंल्लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति यत्र तु ऽआत्मैवेदमग्र आसीत्ऽ (बृ. १.४.१) इत्येवमादौ ऽपुरुषविधःऽ (बृ. १.४.१) इत्येवमादि विशेषणान्तरं श्रूयते भवेत्तत्र विशेषत आत्मनो ग्रहणम् / अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमप्युत्तरमुपलभ्यते ऽस ईक्षत लोकान्नु सृजा इतिऽ (ऐ. १.१) ऽस इमांल्लोकानसृजतऽ (ऐ. १.२) इत्येवमादि / तस्मात्तस्यैव ग्रहणमिति न्याय्यम्
SK
FN: अम्भः स्वर्गः , मरीचयो ऽन्तरिक्षलोकः , मरो मर्त्यलोकः , आपः पाताललोकः //
SK
पुरुषविधो नराकारः / आत्मा हिरण्यगर्भः / रेतः रेतःकार्यम् /
SK
आत्मगृहीतिः / मिषत् चलत् / लोकानाह-अम्भ इति / अम्भः स्वर्गः, मरीचयो ऽन्तरिक्षलोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः / आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयोगात्संशयमाह-तत्रेति / अत्र पूर्वपक्षे वाक्यस्य सूत्रोपास्तिपरत्वात्परब्रह्मधर्माणामानन्दादीनामैतरेयके ऽनुपसंहारः, सिद्धान्ते ब्रह्मपरत्वादुपसंहार इति फलम् / पुरुषवाक्याद्भेदप्रसङ्गादर्थादिवाक्यानां नार्थादिप्रतिपादकत्वमित्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्वस्मात्प्रजापतिवाक्याद्भेदप्रसङ्गादात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति-न परमात्मेत्यादिना / वाक्यस्य प्रजापतौ तात्पर्यदर्शनादित्यर्थः / पूर्वपक्षमाक्षिप्य लोकस्रष्टृत्वलिङ्गान्न प्रजापतौ वाक्यान्वय इत्याह-नन्वित्यादिना / लोका एव महाभूतानीत्यत आह-लोकाश्चेति / लोकशब्दस्य महाभूतेष्वरूढात्वाद्भौतिका एव लोकाः / निर्वचनाच्चेत्याह-तथाचेति / अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्व्याचष्टे-परेण दिवं दिवः परस्ताद्दिवि प्रतिष्ठितश्चन्द्राम्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति / ननु लोकसृष्टिरपीश्वरादेवास्तु नेत्याह-लोकेति / पुरुषविधो नराकारः / आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्वमसृजतेत्यर्थः / भूतानां लोकानामित्यर्थः / प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह-ऐतरेयिणो ऽपीति / रेतः कार्यमिति यावत् / ब्रह्मलिङ्गानि प्रजापतौ योजयति-आत्मशब्दो ऽपीत्यादिना / किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामानयल्लोकस्रष्टा तथाश्वमानयत् / तास्तु गवाश्वप्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रुवंस्तृप्ताः स्म इति / अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह-अपिचेति / आत्मशब्दस्य चिदात्मनि मुख्यत्वान्मुख्यग्रहे बाधकाभावादुत्तरस्येक्षणादेरनुकूलत्वात्परमात्मग्रहणमिति सिद्धान्तयति-एवं प्राप्त इति /
SK
महाभूतसृष्टिपूर्वकं लोकानासृजतेति श्रुतिर्व्याख्येयेति भावः
SK
END Bस्Cओम्_३,३.८.१६
SK
START Bस्Cओम्_३,३.८.१७
SK
अन्वयाद् इति चेत् स्याद् अवधारणात् | BBस्_३,३.१७ |
SK
वाक्यान्वयदर्शनान्न परमात्मग्रहणमिति पुनर्यदुक्तं तत्परिहर्तव्यमिति / अत्रोच्यते / स्यादवधारमादिति / भवेदुपपन्नं परमात्मनो ग्रहणम् / कस्मात् / अवधारणात् / परमात्मग्रहणे हि प्रागित्पत्तेरात्मैकत्वावधारणमाञ्जमसवकल्पते / अन्यथा ह्यनाञ्जसं तत्परिकल्पेत / लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि / यथा तत्तेजो ऽसृजत (छा. ६.२.३) इत्येतच्छ्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमित्ययूयुजमेवमिहापि / श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषूपसंहर्तव्यो भवति / यो ऽप्ययं व्यापारविशेषानुगमस्ताभ्यो गामानयदित्येवमादिः सो ऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः / नह्ययं सकलः कथाप्रबन्धो विवक्षत इति शक्यते वक्तुम, तत्प्रतिपत्तौ पुरुषार्थाभावात् / ब्रह्मात्मत्वं त्विह विवक्षितम् / तथाह्यमभःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्टावा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टा ऽकथं न्विदं मदृते स्यात्ऽ (ऐ. ३.११ इति वीक्ष्येदं शरीरं प्रविवेशेति दर्शयति - ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ (ऐ. ३.१२) इति / पुनश्च ऽयदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्ऽ (ऐ. ३.१२) इत्येवमादिना करणव्यापारविवेचनपूर्वकम् ऽअथ को ऽहम्ऽ (ऐ. ३.११) इति वीक्ष्य ऽस एतमेव पुरुषं ब्रह्म ततममपश्यत्ऽ (ऐ. ३.१३) इति ब्रह्मात्मत्वदर्शनमवधारयति / तथोपरिष्टात् एष ब्रह्मैष इन्द्रः (ऐ. ५.३) इत्यादिना समस्तभेदजातं सह महाभूतैरमुक्रम्य ऽसर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मऽ (ऐत. ५.३) इति ब्रह्मात्मत्वदर्शनमेवावधारयति / तस्मादिहात्मगृहीतिरित्यनपवादम् / अपरा योजना - आत्मगृहीतिरितरवदुत्तरात् / वाजसनेयके ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. ४.३.७) इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रहामात्मतामवधारयति / तथाह्युपसंहरति - ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४.२५) इति / छान्दोग्ये तु ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) इत्यन्तरेणैवात्मशब्दमुपक्रम्योदर्के ऽस आत्मा तत्त्वमसिऽ (छा. ६.८.७) इति तादात्म्यमुपदिशति / तत्र संशयः - तुल्यार्थत्वं किमनयोराम्नानयोः स्यादतुल्यार्थत्वं वेति / अतुल्यार्थत्वमिति तावत्प्राप्तमतुल्यत्वादाम्नानयोः / नह्याम्नानवैषम्ये सत्यर्थसाम्यं युक्तं प्रतिपत्तुमाम्नानतन्त्रत्वादर्थपरिग्रहस्य / वाजसनेयके चात्मशब्दोपक्रमादात्मतत्त्वोपदेश इति गम्यते / छान्दोग्ये तूपक्रमविपर्ययादुपदेशविपर्ययः /
SK
ननु छन्दोगानामप्यस्त्युदर्के तादात्म्योपदेश इत्युक्तम् /
SK
सत्यमुक्तम् / उपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपत्तिः सेति मन्यते / तथा प्राप्ते ऽभिधीयते - ऽआत्मगृहीतिः सदेव सोम्येदमग्रासीत्ऽ (छा. ६.२.१) इत्यत्र छन्दोगानामपि भवितुमर्हतीतरवत् / यथा ऽकतम आत्माऽ (बृ. ४.३.७) इत्यत्र वाजनेयिनामात्मगृहीतस्तथैव / कस्मात् / उत्तरात्तादात्म्योपदेशात् / अन्वयादिते चेत्स्यादवधारणात् / यदुक्तमुपक्रमान्वयादुपक्रमे चात्मशब्दश्रवणाभावान्नात्मगृहीतिरिति तस्य कः परिहार इति चेत्सो ऽभिधीयते स्यादवधारणादिति / भवेदुपपन्नेहात्मगृहीतिः / अवधारणात् / तथाहि - ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ ((छा. ६.१.१) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य तत्संपिपादयिषया ऽसदेव-ऽ इत्याह / तच्चात्मगृहीतौ सत्यां संपद्यते / अन्यथा हि यो ऽयं मिख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्येत / तथा प्रागुत्पत्तेरेकत्वावधारणं जीवस्य चात्मशब्देन परामर्शः स्वापावस्थायां च तत्स्वभावसंपत्तिकथनं परिचोदनापूर्वकं च पुनः पुनः ऽतत्त्वमसिऽ (छा. ६.८.७) इत्यवधारणमिति च सर्वमेतत्तादात्म्यप्रतिपादनायामेवावकल्पते न तादात्म्यसंपादनायाम् / नचाज्ञोपक्रमतन्त्रत्वोपन्यासो न्याय्यः / नह्युपक्रम आत्मत्वसंकीर्तनमनात्मत्वसंकीर्तनं वास्ति / सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकाङ्क्षित्वात्सामान्यस्य / सच्छब्दार्थो ऽपि च पर्यालोच्यमानो न मुख्यादात्मनो ऽन्यः संभवत्यतो ऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्यो ऽनृतत्वोपपत्तेः / आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति / आहर पात्रं पात्रमाहरेत्येवमादिष्वर्थसाम्ये ऽपि तद्दर्शनात् / तस्मादेवञ्जातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदे ऽपि प्रतिपाद्यार्थाभेद इति सिद्धम्
SK
FN: ततमं व्याप्ततमम् / तकारलोपश्छान्दसः / उदर्क उपसंहारः /
SK
पूर्वपक्षबीजमनूद्य दूषयति-अन्वयादिति / ऽआत्मा वा इदमेक एवाग्र आसीत्ऽइति ऽप्रज्ञानं ब्रह्मऽइति चोपक्रमोपसंहारस्थात्मब्रह्मश्रुतिभ्यामेकत्वावधाराणात्प्रवेशादिलिङ्गैश्च लोकस्रष्टृत्वादिलिङ्गबाधेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः / स परमेश्वरः / एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्मरन्ध्राख्यया द्वारा लिङ्गविशिष्टः प्रविष्टवानित्यर्थः / मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतदेव शोधितमात्मानं ब्रह्म ततमं व्याप्ततममपश्यत् / तकारलोपश्छान्दसः / प्रज्ञा चिदात्मा नेत्रं नीयते ऽनेनेति नियामकं यस्य तत् प्रज्ञानेत्रं चिदात्मनियम्यमित्यर्थः / उक्तव्याख्याने गुणोपसंहारस्यास्फुटत्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह-अपरेति / उदर्क उपसंहारः / सच्छब्दस्यात्मानात्मसाधारण्यात्संशयमाह-तत्रेति / पूर्वपक्षे सत्तासामान्ये ब्रह्मात्मत्वसंपदुपास्तिश्छान्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदान्मिथोगुणानुपसंहारः / सिद्धान्ते तूभयत्र निर्गुणविद्यैक्यादुपसंहार इति फलभेदः / पदानां जातौ शक्तिग्रहात्सच्छब्दो ऽपि सत्ताजातिवाचीत्युपक्रमस्य निश्चितार्थत्वादसंजातविरोध्युपक्रमबलेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्वपक्षनिष्कर्षः / पूर्वत्र वाक्यैक्यादर्थादिपरत्वं त्यक्त्वा विद्यैक्यमुक्तमिह तु सदात्मशब्दाभ्यां जात्यात्मवाचिभ्यामुपक्रमभेदाद्वाक्यभेदे सति विद्याभेद इति प्रत्युदाहरणसंगतिः / न चात्मशब्दो जातिवाचकः, आत्मव्यक्त्यैक्याज्जात्यभावात्किन्तु सर्वान्तरवस्तुवाचकः / कल्पितजातिवाचित्वे ऽप्युपक्रमभेदः स्फुट एव सत्तात्मत्वयोर्भेदादिति मन्तव्यम् / सिद्धान्तयति-तथेत्यादिना / उपक्रमान्वयादिति / उपक्रमाधीनत्वादुपसंहारस्येत्यर्थः / तच्चावधारणं सत्पदेनात्मगृहीतौ सत्यां युज्यत इत्याह-तच्चेति / सदेकमेवेत्यवधारणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीवस्यात्मशब्देन परामर्शः / सुप्तौ जीवः सता संपन्नौ भवतीति कथनं / भूय एव मा भगवान् विज्ञापयत्विति परिचोदना / सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृवाचिशतृप्रत्ययान्तत्वात् / तथा चोपक्रमे सत्ताश्रयसामान्योक्तौ क आश्रय इत्याकाङ्क्षायां वाक्यशेषादात्मेति निश्चीयत इत्याह-नचेति / सच्छब्दस्यात्मानात्मसाधारण्यमुपेत्योक्तं तदपि नास्ति आत्मपदवत्सत्पदस्य व्यक्तिवाचित्वाद्व्यक्तिश्च बाधायोग्य चिदात्मैवेति न वाचिछन्दोगयोरूपक्रमवैषम्यमित्याह-सच्छब्देति / वैषम्यमुपेत्याप्याह-आम्नानेति / वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वमर्थपर्यन्तस्य प्रतिपादनमिति प्रकारभेदे ऽपि वाक्यार्थैक्याद्विद्यैक्यमिति फलितमाह-तस्मादिति
SK
END Bस्Cओम्_३,३.८.१७
SK
START Bस्Cओम्_३,३.९.१८
SK
९ कार्याख्यानाधिकरणम् / सू. १८
SK
कार्याख्यानादपूर्वम् | BBस्_३,३.१८ |
SK
छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिसंवादे श्वादिमर्यादं प्राणस्यान्नमाम्नान्य तस्यैवापो वास आमनन्ति / अनन्तरं च छन्दोगा आमनन्ति -ऽतस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोष्टाच्चाद्भिः परिदधातिऽ (छा. ५.२.२) इति / वाजसनेयिनस्त्वामनन्ति - ऽतद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ. ६.१.१४) ऽतस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुतेऽ इति / तत्र त्वाचमनमनग्नताचिन्तनं त प्राणस्य प्रतीयते त्किमुभयमपि विधीयत उताचमनमेवोतानग्नताचिन्तनमेवेति विचार्यते /
SK
किं तावत्प्राप्तम् / उभयमपि चैतदपूर्वत्वाद्विध्यर्हम् / अथवाचमनमेव विदीयते / विस्पष्टा हि तस्मिन्विधिविभक्तिस्तस्मादेवंविदश्ष्यन्नाचामेदशित्वा चाचामेदिति / तस्यैव स्तुत्यर्थमनग्नतासंकीर्तनमिति / एवं प्राप्ते ब्रूमः - नाचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात् / प्राप्तमेव हीदं कार्यत्वेनाचमनं प्रायत्यार्थं स्मृतिप्रसिद्धमन्वाख्यायते /
SK
नन्वियं श्रुतिस्तस्याः स्मृतेर्मूलं स्यात् /
SK
नेत्युच्यते / विषयनानात्वात् / सामान्यविषया हि स्मृतिः पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयति / श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्वषयमेवाचमनं विदधती विदध्यात् / नच भिन्नविषययोः श्रुतिस्मृत्योर्मूलमूलिभावो ऽवकल्पते / नचेयं श्रुतिः प्राणविद्यासंयोग्यपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् / पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्येह प्रत्यभिज्ञायमानत्वात् / अत एव च नोभयविधानम् / उभयविधाने च वाक्यं भिद्येत / तस्मात्प्राप्तमेवाशिसिषतामशितवतां चोभयत आचमनमनूद्य ऽएतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ. ६.१.१४) इति प्राणस्यानग्नताकरणसंकल्पो ऽनेन वाक्येनाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्व उपदिश्यते / नचायमनग्नतावाद आचमनस्तुत्यर्थ इति न्याय्यम् / आचमनस्याविधेयत्वात् / स्वयं चानग्नतासंकल्पस्य विधेयत्वप्रतीतेः / नचैवं सत्येकस्याचमनस्योभयार्थताभ्युपगता भवति प्रायत्यार्थता परिधानार्था छेति / क्रियान्तरत्वाभ्युपगमात् क्रियान्तरमेव ह्याचमनं नाम प्रायत्यार्थं पुरुषस्याभ्युपगम्यते, तदीयासु त्वप्सु वासःसंकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्याभ्युपगम्यत इत्यनवद्यम् / अपिच ऽयदिदं किञ्चाश्वस्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्ते ऽन्नम् (बृ. ६.१.१४) इत्यत्र सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् / अशब्दत्वादशक्यत्वाच्च / सर्वं तु प्राणस्यान्नमितीयमन्नदृष्टिश्चोद्यते तत्साहचर्याच्चापो वास इत्यत्रापि नापामाचमनं चोद्यते प्रसिद्धास्वेवत्वाचमनीयास्वप्सु परिधानदृष्चिश्चोद्यत इति युक्तम् / नह्यर्धवैशसं संभवति / अपिचाचामन्तीति वर्तमानापदेशित्वम् शब्दो विधिक्षमः /
SK
ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम् / सत्यमेवमेतत् / अवश्यविधेये त्वन्यतरस्मिन्वासःकार्याख्यानादपां वासःसंकल्पनमेवापूर्वं विधीयते नाचमनं पूर्ववद्धि तदित्युपपादितम् / यदप्युक्तं विस्पष्टा चाचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैवाचमनस्य प्रत्युक्तम् / अत एवाचमनस्याविधित्सितत्वादेतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्रैव काण्वाः पर्यवस्यन्ति नामनन्ति तस्मादेवंविदित्यादि / तस्मान्माध्यन्दिनानामपि पाठ आचमनानुवादेनैवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् / यो ऽप्ययमभ्युपगमः क्वचिदाचमनं विधीयते क्वचिद्वासोविज्ञानमिति सो ऽपि न साधुः / आपो वास इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् तस्माद्वासोविज्ञानमेवेह विधीयते नाचमनमिति न्याय्यम्
SK
कार्याख्यानादपूर्वम् / ऽमे किमन्नं किं वासःऽइति प्राणेन पृष्टा वागादयः ऊचुः, ऽयदिदं किं चाश्वभ्य आ कृमिभ्यस्तत्ते ऽन्नमापो वासःऽइति सर्वप्राणिभिर्भुज्यमानं यदिदं प्रसिद्धं श्वादिपर्यन्तमन्नं तत्प्राणस्य तवान्नमाप आच्छादनमित्युपासकेन चिन्तनीयमित्यर्थः / शाखाद्वये ऽप्यविशेषश्रुतिमुक्त्वा विशेशषश्रुतिभेदमाह-अनन्तरं चेति / तस्मादपां प्राणवस्त्रत्वादशिशष्यन्तो ऽशनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति / किं तत्, भोजनात्पूर्वमूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परिदधत्याच्छादयन्तीत्यर्थः / पूर्वोत्तराचमनसंबन्धिनीष्वप्सु प्राणवासस्त्वचिन्तनरूपमनग्नताध्यानं कार्यमिति भावः / तत् तस्मादित्युक्तार्थं यतः पूर्वे विद्वांसो ऽशनात्प्रागूर्ध्वं चाचामन्त एतमेवानां प्राणं तत्तेनाचमनेनानग्नमाच्छादितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मादेवंविदिदानीन्तनो ऽप्युपासक एवं कुर्यादिति वाजिश्रुत्यर्थः / अत्रोभयोरप्यपूर्वत्वात्संशयमाह-तत्किमिति / संदिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदाचामन्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्यशेषाद्विधित्वनिर्णय इति दृष्टान्तसंगत्या पूर्वपक्षमाह-किं तावदिति / ज्ञानसाधनोपासनाङ्गविधिविचारात्पादसङ्गतिर्बोध्या / पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वाचमनं विहितमन्यत्रोपसंहर्तव्यमिति फलं सिद्धान्ते तस्याविधेयत्वान्नाङ्गत्वेनोपसंहार इति विवेकः उभयविधाने वाक्यभेदः स्यादित्यरुच्यापक्षान्तरमाह-अथवेति / प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः / प्रसिद्धानुवादेनाप्रसिद्धं विधेयमिति न्यायेन सिद्धान्तयति-एवमिति / प्रयतस्य प्रयत्नवतो भावः प्रायत्यंशुद्धिस्तदर्थमित्यर्थः / स्मृत्या शुद्यर्थं कार्यत्वेन विहितसकलकर्माङ्गतया प्राप्ताचमनानुवादेनापूर्वमनग्नताध्यानमेव विधीयत इति सूत्रार्थः / स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं समृत्यानूद्यत इति शङ्कते-नन्विति / श्रुतिस्मृत्योरनयोर्न मूलमूलिभावो भिन्नविषयत्वादिति परिहरति-नेति / ऽद्विजो नित्यमुपस्पृशेत्ऽइत्याद्या स्मृतिः आचमनान्तरविधिमुपेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह-नचेयं श्रुतिरिति / अत एवेति आचमनविध्यभावादेवेत्यर्थः / अप्सु प्राणवासस्त्वध्यानाख्यः संकल्पः प्राणविद्याङ्गत्वेन विधीयत इत्याह-तस्मादिति / स्वयं चेति अपूर्वत्वादित्यर्थः / शुद्यर्थं विनियुक्तस्याचमनस्य प्राणाच्छादनार्थत्वं विरुद्धमित्याशङ्क्याह-न चैवं सतीति / आचमनस्याच्छादनार्थत्वमसिद्धमित्यर्थः / किञ्च यथा पूर्ववाक्ये प्राणस्यान्नध्यानमङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यानविधिरुत्तरत्र क्रियाविधिरित्यर्धवैशसं स्यादित्याह-अपिचेति / भक्षयेदिति शब्दाभावाच्छ्वाद्यन्नस्य सर्वस्य मनुष्वेणेपासकेन भोक्तुमशक्यत्वाच्च न पूर्ववाक्ये क्रियाविधिरित्यर्थः / इतश्चाचमनमत्र न विधेयमित्याह-अपिचेति / अनग्नं मन्यन्त इत्यत्र वासस्त्वध्यानमपि न विधेयं दोषसाम्यदिति शङ्कते-नन्विति / उभयोरप्यनुवादत्वे वैफल्यादवश्यमेकानुवादेनैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्यस्यानग्नत्वस्याख्यानादपूर्वत्वाच्चेति समाधानार्थः / पूर्ववदिति स्मृत्या प्राप्तमित्यर्थः / आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह-अत एवेति / तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति वाक्यस्याविधित्वे काण्वैरपठनं लिङ्गमित्यर्थः / तर्हि पाठबलान्माध्यन्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति-यो ऽपीति
SK
END Bस्Cओम्_३,३.९.१८
SK
START Bस्Cओम्_३,३.१०.१९
SK
१० समानाधिकरणम् / सू. १९
SK
समान एवं चाभेदात् | BBस्_३,३.१९ |
SK
वाजसनेयिशाखायमगिनिरहस्ये शाण्डुल्यनामाङ् किता विद्या विज्ञाता / तत्र च गुणाः श्रूयन्ते - स आत्मानमुपासीत मनमयं प्राणशरीरं भारूपम् इत्येवमादयः. तस्यामेव शास्त्रायां बृहदारण्यके पुनः पठ्यते - ऽमनोमयो ऽयं पुरुषो भाः सत्यस्मिन्नन्तर्हदये यदा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्चऽ (बृ. ५.६.१) इति / तत्र संशयः - किमियमेका विद्याग्निरहस्यबृहदारण्यकयोर्गुणोपसंहारश्चोत द्वे इमे विद्ये गुणानुपसंहारश्चेति / किं तावत्प्राप्तम् / विद्याभेदो गुणव्यवस्था चेति / कुतः - पौनरुक्त्यप्रसङ्गात् / भिन्नासु हि शाखास्वध्येतृभेदात्पौनरुक्तस्यपरिहारमालोच्य विद्यैकत्वमध्यवसायैकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिष्वत्युक्तम् / एकस्यां पुनः शाखायामध्येतृवेदितृभेदाभावादशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्थैका विद्या भवितुमर्हति / नचात्रैकमाम्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति विभागः संभवति / तदा ह्यतिरिक्ता एव गुणा इतरत्रेतरत्र चाम्नायेरन्न समाना अपि तूभयत्राम्नायन्ते मनोमयत्वदयः / तस्मान्नान्योन्यं गुणोपसंहार इति / एवं प्राप्ते ब्रूमहे - यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवत्येवमेकस्यामपि शाखायां भवितुमर्हति / उपास्याभेदात् तदेव हि ब्रह्म मनोमयत्वादिगुणकमुभयत्राप्युपास्यमभिन्नं प्रत्यभिजानीमः / उपास्यं च रूपं विद्यायाः / नच विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः / नापि विद्याभेदे गुणव्यवस्थानम् /
SK
ननु पौनरुक्त्यप्रसङ्गद्विद्याभेदो ऽध्यवसितः /
SK
नेत्युच्यते / अर्थविभागोपपत्तेः / एकं ह्याम्नानं विद्याविद्याविधानार्थमपरं गुणविधानार्थमिति न किञ्चिन्नोपपद्यते /
SK
नन्वेवं सति यदुपठिमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् स एष सर्वस्येशानः इत्यादि / यत्तु पठितमेव मनोमय इत्यादि चेन्न पठितव्यम् /
SK
नैष दोषः / तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् / मसानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्यामीशानत्वाद्युपदिश्यते / अन्यथा हि कथं तस्यामयं गुणविधिरभिधीयते / अपिचाप्राप्तांशोपदेशेनार्थवति वाक्ये संजाते प्राप्तांशपरामर्शस्य नित्यानुवादतयाप्युपपद्यमानत्वान्न तद्बलेन प्रत्यभिज्ञोपोदितुं शक्यते / तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम्
SK
समान एवञ्चाभेदात् / शाण्डिल्येन दृष्टा तन्नाम्नाङ्किता, अन्तर्हृदये व्रीह्यादिवत्सूक्ष्मस्तिष्ठतीत्यर्थः / अभ्यासप्रत्यभिज्ञाभ्यां संशयमाह-तत्रेति / गुणानुपसंहारोपसंहारौ पूर्वोत्तरपक्षयोः फलम् / पूर्वत्र प्राप्ताचमनानुवादेनानग्नताध्यानविधिरुक्तः / इह त्वेकशाखायां विप्रकृष्टदेशस्थवाक्ययोरेकस्य विधित्वमन्यस्यानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमिति प्रत्युदाहरणेन पूर्वपक्षयति-किं तावदिति /
SK
यत्पुनरुक्तं, तद्विद्यान्तरमिति न व्याप्तिः प्राणपञ्चाग्न्यादिविद्यासु व्यभिचारदित्याशङ्क्य शाखाभेदे पुनरुक्तिरसिद्धेत्युक्तमित्याह-भिन्नास्विति / यथाग्निहोत्रवाक्ये कर्मविधिः, ऽदध्ना जुहोतिऽइति वाक्ये गुणविधिस्तथात्राप्यस्तु न विद्यामेद इत्याशङ्क्याह-नचात्रैकमिति / उक्तगुणानां पुनरुक्तिर्वृथास्यादतो ऽभ्यासाद्विद्याभेदः प्रयाजभेदवदिति भावः / उक्तगुणोक्तिर्न वृथा कतिपयगुणविशिष्टोपास्याभेदप्रत्यभिज्ञानार्थत्वादत उपास्यरूपाभेदाद्भिन्नशाखास्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति-यथेति /
SK
सौत्रश्चकारो ऽप्यर्थो व्याख्यातः / यत्र बहवो गुणाः श्रुतास्तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति निश्चयादग्निरहस्ये प्रधानविधिवदुत्तरत्र गुणविधिरिति भावः
SK
END Bस्Cओम्_३,३.१०.१९
SK
START Bस्Cओम्_३,३.११.२०
SK
११ संबन्धाधिकरणम् / सू. २०-२१
SK
संबन्धादेवमन्यत्रापि | BBस्_३,३.२० |
SK
बृहदारण्यके ऽसत्यं ब्रह्मऽ (बृ. ५.५.१) इत्युक्रम्य ऽतद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ. ५५.२) इति तस्यैव सत्यस्य ब्रह्मणो ऽधिदैवतमध्यात्मं चायतनविशेषमुपदिश्य व्याहृतिशरीरत्वं च संपाद्य द्वे उपनिषदावुपदिश्येते / तस्योपनिषहरित्यधिदैवतम् / तस्योपनिषदहमित्यध्यात्मम् / तत्र संशयः - किमविभागेनैवोभे अप्युपनिषदावुभयत्रानुसंगातव्ये उत विभागेनैकाधिदैवमेकाध्यात्ममिति / तत्र सूत्रेणैवोपक्रमते / यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्त एवमन्यत्राप्येवञ्जातीयके विषये भवितुमर्हति / एकविद्याभिसंबन्धात् / एका हीयं सत्यविद्याधिदैवमध्यात्मं चाधीता / उपक्रमाभेदाद्व्यतिषक्तपाठाच्च / कथं तस्यामुदितो धर्मस्तस्यामेव न स्यात् / योह्याचार्यो कश्चिदनुगमनादिराचारश्चोदितः स ग्रामगते / रण्यगते च तुल्यवदेव भवति / तस्मादुभयोरप्युपनिषदोरुभयत्र प्राप्तिरिति
SK
संबन्धादेवमन्यत्रापि / सद्भूतत्रयं त्यद्वाय्वाकाशात्मकं, सत्य परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत् स यो ऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवाध्यात्ममक्षिस्थानस्थ इत्युपदिश्य ऽतस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौऽइति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदो रहस्यदेवतानामनी उपदिश्येते तस्यादित्यमण्डलस्थस्याहरिति नाम प्रकाशकत्वात्तस्याक्षिस्थस्याहमिति नाम प्रत्यक्त्वादिति / इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एकत्वात्स्थानभेदोक्तेश्च संशयमाह-तत्रेति / पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं सिद्धान्ते यथाश्रुत्यैकैकनामानुष्ठानमिति फलम् / दृष्टान्तसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-यथेति / यथा विद्यैक्यादुपसंहार उक्त एवमन्यत्राप्येकाविद्यामुपसंहारो भवितुमर्हतीत्यर्थः / सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावक्ष्यादित्यपुरुषावन्योन्यस्मिन्प्रतिष्ठितौ, आदित्यरश्मीनां चक्षुष चक्षुषश्चादित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्लेषपाठस्ताभ्यां विद्यैक्यसिद्धिः / विद्यैक्ये ऽपि किं स्यात्तत्राह-कथमिति / विद्यैक्ये ऽपि स्थानभेदादुपनिषदोरसंकरः स्यादित्याशङ्कां दृष्टान्तेन परिहरति-यो हीति
SK
END Bस्Cओम्_३,३.११.२०
SK
START Bस्Cओम्_३,३.११.२१
SK
एवं प्राप्ते प्रतिविधत्ते -
SK
न वा विशेषात् | BBस्_३,३.२१ |
SK
न वोभयोरुभयत्र प्राप्तिः / कस्मात् / विशेषात् / उपासनस अतानविशेषोपनिबन्धादित्यर्थः / कथं स्थानविशेषोपनिबन्ध इत्युच्यते - ऽय एष एतस्मिन्मण्डले पुरुषःऽ (बृ. ५.५.३) इति ह्याधिदैवकं पुरुषं प्रकृत्य तस्योपनिषदहरिति श्रावयति / ऽयो ऽयं दक्षिणे ऽक्षन्पुरुषःऽ (५.५.४) इति ह्यध्यात्मिकं पुरुषं प्रकृत्य तस्योपनिषदमिति / तस्येति चैतत्संनिहितावलम्बनं सर्वनाम, तस्मादायतनविशेषव्यपाश्रयेणैवैते उपनिषदावुपदिश्येते / कुत उभयोरुभयत्र प्राप्तिः /
SK
नन्वेक एवायमधिदैवतमध्यात्मं च पुरुष एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् /
SK
सत्यमेवेतत् / एकस्यापि त्ववस्थाविशेषोपादानेनैवोपनिषद्विशेषोपदेशात्तदवस्थास्यैव सा भवितुमर्हति / अस्ति चायं दृष्टान्तः सत्यप्याचार्यस्वरूपापानपाये यदाचार्यस्यासीनस्यनुवर्तनमुक्तं न तत्तिष्ठतो भवति / यच्च तिष्ठत उक्तं न तदासीनस्येति / ग्रामारण्ययोस्त्वाचार्यस्वरूपानापायात्तत्स्वरूपानुबुद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावादुभयत्र तुल्यवद्भाव इत्यदृष्टान्तः सः / तस्माद्व्यवस्थानयोरुपनिषदोः
SK
नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षिस्थो ऽहरिति नामवान् सत्यब्रह्मत्वादादित्यस्थवदिति प्राप्ते सिद्धान्तसूत्रंयोजयति-नवेति / नाम्नोरूपासनस्थानविशिष्टसंबन्धित्वादित्यर्थः / तस्यो ऽपनिषदहरहमिति च वाक्यद्वयेन तच्छब्दपरामृष्टयोः संनिहितस्थानविशिष्टयोः पुरुषयोर्नामसंबन्धपरेणोपसंहारानुमानं बाध्यमिति भावः / विशेष्यैक्यान्नामसंकर इत्याशङ्क्य स्थानभेदेन विशिष्टपुरुषभेदान्नामव्यवस्थामाह-नन्वित्यादिना / विशिष्टसंबन्धे दृष्टान्तमाह-अस्तीति / प्रतिदृष्टान्तस्य स्वरूपसंबन्धित्वाद्विशिष्टे ध्येये प्रकृते दृष्टान्तं नास्तीत्याह-ग्रामेति
SK
END Bस्Cओम्_३,३.११.२१
SK
START Bस्Cओम्_३,३.११.२२
SK
दर्शयति च | BBस्_३,३.२२ |
SK
अपि चैवञ्जातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति - ऽतस्यैतस्य तदेव रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामऽ (छा. १.७.५) इति / कथमस्यलिङ्गत्वमिति तदुच्यते /
SK
अक्ष्यादिनित्यस्थानभेदभिन्नान्धर्णानन्योन्यस्मिन्ननुपसंहार्यान्पश्यन्निहातिदेशेनादित्यपुरुषगतान्रूपादीनक्षिपुरुष उपसंहरति - ऽतस्यैतस्य तदेव रूपम्ऽ (छा. १.७.५) इत्यादिना / तस्माद्व्यवस्थिते एवैते उपनिषदाविति निर्णयः
SK
उक्तनामव्यवस्थायामतिदेशो लिङ्गमित्याह-दर्शयति चेति /
SK
विद्यैक्यादेवोपसंहारसिद्धावतिदेशो वृथा स्यात्तस्मादेकविद्यायामपि स्थानभेदेनोक्तगुणानां विनातिदेशमनुपसंहार इति सिद्धम्
SK
END Bस्Cओम्_३,३.११.२२
SK
START Bस्Cओम्_३,३.१२.२३
SK
१२ संभृत्यधिकरणम् / सू. २३
SK
संभृतिद्युव्याप्त्यपि चातः | BBस्_३,३.२३ |
SK
ब्रह्मज्येष्ठा विर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते / तेषामेव चोपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते / तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन्न वेति विचारणायां ब्रह्मसंबन्धादुपसंहारप्राप्तावेवं पठति / संभृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः / अत एव चायतनविशेषयोगात् / तथाहि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् - ऽएष म आत्मान्तर्हृदयेऽ (छा. ३.१४.३) इति / तद्वदेव दहरविद्यायामपि ऽदहरं पुण्डरीके वेश्म दहरो ऽस्मिन्नन्तराकाशःऽ (छा. ८.१.१) इति / उपकोसलविद्यायां त्वक्ष्यायतनत्वम् ऽय एषो ऽक्षणि पुरुषो दृश्यतेऽ (छा. ४.१५.१) इति / एवं तत्र तत्रत् तदाध्यात्मिकमायतनमेतासु विद्यासु प्रतीयते / आधिदैविक्यस्त्वेता विभूतयः संभृतिद्युव्याप्तिप्रभृतयस्तासां कुत एतासु प्राप्तिः /
SK
नन्वेतास्वप्याधिदैविक्यो विभूतयः श्रूयन्ते - ऽज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छा. ३.१४.३) ऽएष उ एव भामनीरेष हि सर्वेषु लोकेषु भातिऽ (छा. ४.१५.४) ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहितेऽ (छा. ८.१.३) इत्येवमाद्याः / सन्ति चान्या आयतनविशेषहीना अपीह ब्रह्मविद्याः षोडशकलाद्याः / सत्यमेतत् / तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहारहेतुः / समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशा गुणा उपसंह्रियेरन्निति युक्तम् / संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वान्न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते विद्याभेदे ऽपि तदुपपत्तेः / एकमपि हि ब्रह्म विबूतिभेदैरनेकधोपास्यत इति स्थितिः / परोवरीयस्तवादिवद्भेददर्शनात् / तस्माद्वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिष्वनुपसंहार इति
SK
FN: ब्रह्मज्येष्ठा ब्रह्मज्येष्ठानि निलोपश्छान्दसः / वीर्या वीर्याणि पराक्रमभेदाः /
SK
संभृतिद्युव्याप्त्यपि चातः / ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्ठानि, निलोपश्चान्दसः, वीर्याणि पराक्रमविशेषा आकाशोत्पादनादयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्नकर्तुरसत्त्वात् / तच्च ज्येष्ठं ब्रह्माग्ने देवाद्युत्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्वव्यापकमित्यर्थः / सर्वप्राथम्यं स्पर्धानर्हत्वमिति वाक्यशेषस्था गुणाः प्रभृतिपदग्राह्याः / खिलेष्विति विधिनिषेधशून्यवाक्येष्वित्यर्थः / ब्रह्मसंबन्धाद्विद्याभेदभानाच्च संशयमाह-तास्विति / अनारभ्याधीतब्रह्मविभूतीनां ब्रह्मसंबन्धेन सर्वब्रह्मविद्यासु प्रत्यभिज्ञानादुपसंहार इति पूर्वपक्षः / सिद्धान्तमाह-संभृतीति / संभृतिश्च द्युव्याप्तिश्च संभृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव व्यवस्थापकविशेषयोगादिति सूत्रयोजना / आध्यात्मिकायतनविशेषयुक्तासु विद्यास्वाधिदैविकविभूतीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्तिरित्युक्ते हेतुं शङ्कते-नन्वेतास्विति /
SK
आधिदैविकत्वसाम्यादाध्यात्मिकायतनहीनत्वसाम्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः / उक्तहेतुद्वयं न गुणप्रापकमाधिदैविकविद्यानां शाण्डिल्यदहरादीनामायतनहीनविद्यायां च मिथोगुणसांकर्यप्रसङ्गात्, तस्मात् कतिपयसमानगुणविशिष्टोपास्यरूपैक्यं विद्यैक्यमावहद्गुणप्राप्तिहेतुस्तदभावान्न प्राप्तिरिति परिहरति-सत्यमित्यादिना / स्थानविशिष्टभेदान्नाम्नोर्व्यवस्थावत्संभृत्याद् इगुणविशिष्टस्य ब्रह्मणः शाण्डिल्यादिविद्योक्तगुणविशिष्टब्रह्मणश्च मिथो भेदेन रूपभेदात्संभृत्यादीनां नोपसंहार इत्युक्तन्यायातिदेशत्वादस्य न संगत्याद्यपेक्षा यथैकस्मिन्नुद्गीथे परोवरीयस्त्वादिगुणोपास्तेर्हिरण्यश्मश्रुत्वाद्युपास्तिर्भिद्यते तथैकस्मिन्नपि ब्रह्मणि विद्याभेदोपपत्तेः ब्रह्मप्रत्यभिज्ञा न गुणप्रापिकेत्याह-परोवरीयस्त्वादिवदिति /
SK
तस्मात्संभृत्यादिगुणविशिष्टविद्यान्तरविधिरिति सिद्धम्
SK
END Bस्Cओम्_३,३.१२.२३
SK
START Bस्Cओम्_३,३.१३.२४
SK
१३ पुरुषाद्यधिकरणम् / सू. २४
SK
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात् | BBस्_३,३.२४ |
SK
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या / तत्र पुरुषो यज्ञः कल्पितः / तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् / अशिशिषादीनि च दीक्षादिभावेन कल्पितानि / अन्ये च धर्मस्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः / तैत्तिरीयका अपि कञ्चित्पुरुषयज्ञं कल्पयनव्ति - ऽतस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नीऽ (नारा. ८०) इत्येतेनानुवाकेन / तत्र संशयः - किं य इतरत्रोक्ताः पुरुषयज्ञस्य धर्मास्ते तैत्तिरीयकेषूपसंहर्तव्याः किंवा नोपसंहर्तव्या इति / पुरुषयज्ञत्व्विशेषादुपसंहारप्राप्तावाचक्ष्महे - नोपसंहर्तव्या इति / कस्मात् / तद्रूपप्रत्यभिज्ञानाभावात् / तदाहाचार्यः - पुरुषविद्यायामिवेति / यथैकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानं नैवमितरेषां तैत्तिरीयाणामाम्नानमस्ति / तेषां हूतरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यश्वृत्विगाद्यनुक्रमणात् / यदपि सवनसंपादनं तदपीतरविलक्षणमेव ऽयत्प्रातर्मध्यन्दिनंसायं च तानिऽ (नारा. ८०) इति / यदपि किञ्चिन्मरणावभृथत्वादिसाम्यं तदप्यल्पीयस्तवाद्भूयसा वैलक्षण्येनाभिभूयमानं न प्रत्यभिज्ञापनक्षमम् / नच तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते / विदुषो यज्ञस्येति हि नचैते समानाधिकरणे षष्ठ्यौ विद्वानेव योयज्ञस्तस्येति / नहि पुरुषस्य मुख्यं यज्ञत्वमस्ति / व्यधिकरणे त्वेते षष्ठ्यौ विदुषो यो यज्ञस्तस्येति / भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः / सत्यां च गतौ मुख्य एवार्थ आश्रयितव्यो न भाक्तः / आत्मा यजमान इति च यजमानत्वं पुरुषस्य निर्ब्रुवन्वैयधिकरण्येनैवास्य यज्ञसंबन्धं दर्शयति / अपिच तस्यैवंविदुषैति सिद्धवदनुवादश्रुतौ सत्यां पुरुषस्य यज्ञभावमात्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् / अपिच संसन्यासामात्मविद्यां पुरस्तादुपदिश्यानन्तरं तस्यैवंविदुष इत्याद्यनुक्रमणं फस्यन्तः पूर्वशेष एवैष आम्नायो न स्वतन्त्र इति प्रतीमः / तथाचैकमेव फलमुभयोरप्यनुवाकयोरुपलबामहे ऽब्रह्मणो महिमानमाप्नोतिऽ (नारा. ८०) इति / इतरेषां त्वनन्यशेषः पुरुषविद्याम्नायः / आयुरभिवृद्धिफलो ह्यसौ ऽस ह --षोडशं वर्षशतं जीवति य एवं वेदऽ (छा. ३.१६.७) इति समभिव्याहारात् / तस्माच्छाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके
SK
पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह-अस्तीति / ऽपुरुषो वाव यज्ञस्तस्य यानि चतुर्विशति वर्षाणि तत्प्रातः सवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम्ऽइति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितं, ऽस यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं यावदायुरनुसंतनुतेऽइत्याशीः ऽअक्षितमस्यच्युतमसि प्राणं संशितमसिऽइति मन्त्रत्रयप्रयोगः / षोडशाधिकशतवर्षजीवित्वं फलमिति दर्शितम् / संशयार्थं शाखान्तरीयपुरुषविद्यामाह-तैत्तिरीयका इति / अत्र विदुषो यज्ञस्येति षष्ठ्योःसामानाधिकरण्यवैयधिकरण्यानिश्चयात्संशयमाह-तत्रेति / उपसंहारानुपसंहारावेव फलम् / पूर्वत्रासाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः / इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिधानाद्वि द्यैक्यमिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति-नोपसंहर्तव्या इति / तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपो ऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्माऽइति बहुतरधर्मवैलक्षण्यान्न रूपैक्यप्रत्यभिज्ञेत्यर्थः / वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः / किञ्च छान्दोग्ये त्रिधाविभक्तायुषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह-यदपीति / यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह-यदपि किञ्चिदिति / गजोष्ट्रयोश्चतुष्पात्त्वसारूप्यवदिदं सारूप्यं नैक्यप्रयोजकमित्यर्थः / किञ्च छान्दोग्ये पुरुषयज्ञयोरैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह-नचेति / यद्यपि निषादस्थपतिन्यायेन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथाप्यप्रसिद्धैक्यकल्पनागौरवाद्यज्ञस्यात्मेति भेदोक्तेरेकस्यैव यज्ञत्वयजमानत्वविरोधादात्मविदो यो यज्ञः प्रसिद्धस्तस्येति वैयधिकरण्यमेव युक्तम् / किञ्च विद्वत्संबन्धियज्ञरूपविशेष्यानुवादेन विद्वदङ्गैरङ्गसंपद्विधावेकवाक्यता प्रतीयते तस्यां सत्यां विशेष्यस्याङागानां च पृथग्विधिवादिनस्तव वाक्यभेददोषः स्यादित्यर्थः / किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्याससाध्यात्मविद्यां पुरस्तात्प्राजापत्यानुवाके उपदिश्यानन्तरानुवाके तस्यैवं विदुष इत्युक्तात्मविद्यानुवादेन प्रशंसार्थत्वेन, तच्छेषतयायज्ञसंपत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वतन्त्रविद्याविधिरित्याह-अपिच ससंन्यासामिति / चिन्ताफलमाह-तस्मादिति
SK
END Bस्Cओम्_३,३.१३.२४
SK
START Bस्Cओम्_३,३.१३.२५
SK
१४ वेधाद्यधिकरणम् / सू. २५
SK
वेधाद्यर्थभेदात् | BBस्_३,३.२५ |
SK
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः - ऽसर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरो ऽभिप्रवृज्यत्रिधा विपृक्तःऽ इत्यादिः / ताण्डिनाम् - ऽदेव सवितः प्रसुव यज्ञम्ऽ इत्यादिः / शाठ्यायनिनाम् - ऽश्वेताश्वो हरितनीलो ऽसिऽ इत्यादिः / कठानां तैत्तिरीयाणां - ऽशं नो मित्रः शं वरुणःऽ (तै. १.१.१) इत्यादिः / वाजसनेयिनां तूपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते - ऽदेवा ह वै निषेदुःऽ इत्यादि / कौषीतकिनामप्यग्निष्टोमब्राह्मणम् - ऽब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति ते ऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्तिऽ इति / किमिमे सर्वे प्रविध्यमादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासूपसंह्रियेरन्किंवा नोपसंह्रियेरन्निति मीमांसामहे / किं तावन्नः प्रतिभाति उपसंहार एवैषां विद्यास्विति / कुतः / विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् /
SK
नन्वेषां विद्यार्थतया विधानं नोपलबामहे /
SK
बाढम् / अनुपलभमाना अपि त्वनुमास्यामहे संनिधिसामार्थ्यात् / नहि संनिधेरर्थवत्त्वे संभवत्यकस्मादसावनाश्रयितुं युक्तः /
SK
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः / कथं च प्रवर्ग्यादीनि कर्माण्यन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति /
SK
नैष दोषः / सामर्थ्यं तावन्मन्त्राणां विद्याविषयमपि किञ्चिच्छक्यं कल्पयितुं हृदयादिसंकीर्तनात् / हृदयादीनि हि प्रयेणोपासनेष्वायतनादिभावेनोपदिष्टानि तद्द्वारेण च हृदयं प्रविध्येत्येवञ्जातीयकानां मन्त्राणामुपपन्नमुपासनाङ्गत्वम् / दृष्टश्चोपासनेष्वपि मन्त्रविनियोगः ऽभूः प्रपद्ये ऽमुनामुनामुनाऽ (छा. ३.१५.३) इत्येवमादिः / तथा प्रवर्ग्यादीनां कर्मणामन्यत्रापि विनियुक्तानां सतामविरुद्धो विद्यासु विनियोगो वाजपेय इव बृहस्पतिसवस्येति / एवं प्राप्ते ब्रूमः -
SK
नैषामुपसंहारो विद्यास्विति / कस्मात् / वेधार्थभेदात् / हृदयं प्रविध्येत्येवञ्जातीयकानां हि मन्त्राणां येर्ऽथा हृदयवेधादयो भिन्ना अनभिसंबद्धास्त उपनिषदुदिताभिर्विद्याभिः / न तेषां ताभिः संगन्तुं सामर्थ्यमस्ति /
SK
ननु हृदयस्योपासनेष्वप्युपयोगात्तद्द्वारक उपासनसंबन्ध उपन्यस्तः /
SK
नेत्युच्यते / हृदयमात्रसंकीर्तनस्य ह्येवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत नच हृदयमात्रमत्र मन्त्रार्थः / हृदयं प्रविध्य धमनीः प्रवृज्येत्येवञ्जातीयको हि न सकलो मन्त्रार्थे विद्याभिरभिसंबध्यते / आभिचारिकविषयो ह्येषोर्ऽथस्तस्मादाभिचारिकेण कर्मणा सर्वं प्रविध्येत्येतस्य मन्त्रस्याभिसंबन्धः / तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः / एवमन्येषामपि मन्त्राणां केषाचिल्लिङ्गेन केषाञ्चिद्वचनेन केषाञ्चित्प्रमाणान्तरेणात्येवमर्थान्तरेषु विनियुक्तानां रहस्यपठितानामपि सतां न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः / दुर्बलो हि संनिधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै. सू. ३.३.१३) इत्यत्र /
SK
तथाकर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः / नह्येषां विद्याभिः सहैकार्थ्यं किञ्चिदस्ति / वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् - ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति / अपि चैको ऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेनान्यत्र विनियुक्तो न दुर्बलेन प्रमाणेनान्यत्रापि विनियोगमर्हति / अगृह्यमाणविशेषत्वे हि प्रमाणयोरेतदेवं स्यान्नतु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता संभवति बलवदबलवत्त्वविशेषादेव / तस्मादेवञ्जातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् / अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतोष्टव्यम्
SK
वेधाद्यर्थभेदात् / देवतामभिचारकर्ता प्रार्थयते-सर्वमिति / हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः / हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्वर्तयेत्यर्थः / उच्चैः श्रवाः श्वेतो ऽश्वो यस्येन्द्रस्य स त्वं हरितमणिवन्नीलो ऽसीत्यर्थः / नो ऽस्माकं शं सुखकरो भवत्वित्यर्थः / अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मोपयन्त्यनुतिष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमेणामृतत्वमाप्नुवन्तीति योजना / मन्त्रादिषु तत्तदुपनिषद्विद्याशेषत्वे प्रमाणभावाभ्यां संशयमाह-किमिति / फलं पूर्ववत् / ननु तेषां शेषत्वे मानाभावान्नोपसंहार इति शङ्कते-नन्वेषामिति / मन्त्रादयस्तत्तद्विद्याशेषाः फलवद्विद्यासंनिहितत्वात्तैत्तिरीयकगतपुरुषयज्ञवदिति समाधत्ते-बाढमिति / तथाच दृष्टान्तसंगतिः / सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह-नहीति / अफलमन्त्रादीनां फलवच्छेषत्वबोधनं संनिधेरर्थवत्त्वं तत्संभवे सत्यकस्मादर्थशून्यत्वेनासौ संनिधिराश्रयितुं नहि युक्त इत्यर्थः / नञ्पाठेत्वकस्माद्धेतुं विनासावर्थो नाश्रयितुं नहि युक्त इत्यर्थः / ननु मन्त्राणां विद्यासमवेतार्थप्रकाशनसामर्थ्याभावान्न विद्याशेषत्वमिति शङ्कते-नन्विति / पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्निष्टोमादेश्च तत्तद्वाक्येन स्वर्गाद्यर्थत्वमतो न विद्यार्थत्वमित्याह-कथं चेति / मन्त्राणां विद्यासमवेतहृदयनाड्यादिप्रकाशकत्वमस्तीत्याह-नैष इति / उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह-दृष्टश्चेति / पुत्रस्य दीर्घायुष्यार्थं छान्दोग्ये त्रैलोक्यस्य केशात्वेनोपास्तिरुक्ता तत्र पितुरयं प्रार्थनामन्त्रः / तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः / तत्तद्वाक्येनान्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह-वाजपेय इति / ऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽइति वाजपेयप्रकरणप्रकरणस्थ वाक्येन वाजपेयोत्तराङ्गतया विनियोगवदविरोध इत्यर्थः / यद्यप्येकेन वाक्येन प्रकरणान्तरस्थबृहस्पतिसवस्य प्रत्यभिज्ञानमङ्गत्वविधानं च कर्तुमयुक्तं वाक्यभेदप्रसङ्गादतो मासाग्निहोत्रवत्कर्मान्तरमेव बृहस्पतिसवाख्यमङ्गतया विधीयत इति न विनियुक्तस्य विनियोग इति भट्टगुरुतन्त्रद्वयसिद्धं, यथापि यथा नित्याग्निहोत्रस्याश्वमेधप्रकरणे वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्शपूर्णमासविकृतीष्टावाज्यभागौ यजतीत्येकस्मिन्वाक्ये प्रकृतिस्थाज्यभागयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्येनाङ्गताविधानं किं न स्यात् / नच साध्यभावार्थविधायकाख्यातपरतन्त्रं नामपदं न सिद्धकर्मप्रत्यभिज्ञाक्षममिति वाच्यं, सिद्धस्याप्यङ्गतया पुनः साध्यत्वसंभवे ऽन्यथासिद्धाख्यातस्यैव प्रसिद्धार्थकनामपारतन्त्र्योपपत्तेः / नचैवं सति कुण्डपायिसत्रे ऽप्यङ्गत्वेन नित्याग्निहोत्रस्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् / नच पूर्वतन्त्रविरोधः उत्तरतन्त्रस्य बलीयस्त्वात् / पूर्वतन्त्रस्य स्वतन्त्रपरतन्त्रभावनाभेदे तात्पर्याच्च / तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भगवत्पादतात्पर्यम् / अस्तिच विनियुक्तस्य विनियोगे सर्वसंमतमुदाहरणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफले ऽपि विनियोगात् / तथा मन्त्रकर्मणामन्यत्र विनियुक्तानां विद्याशेषत्वमिति प्राप्ते सिद्धान्तयति-नैषामित्यादिना / विद्यासु हृदयादिसंबन्धे ऽपि वेधाद्यर्थानामसंबन्धात्कृत्स्नमन्त्रार्थानामभिचारादिसंबन्धलिङ्गेन संनिधेर्बलीयसाभिचारादावेव मन्त्राणां विनियोग इत्यर्थः / ऽदेव सवितः प्रसुवऽइति प्रदक्षिणतो ऽग्निं पर्युक्षेदिति वाक्यादग्निपर्युक्षणे ऽसावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोतिऽइति वाक्याद्वाजपेये कर्मविशेषे संबन्धो ऽस्य मन्त्रस्येत्याह-तद्विशेषेति / उक्तन्यायं श्वेताश्व इत्यादिष्वतिदिशति-एवमन्येषामिति / प्रमाणान्तरं प्रकरणादिकम् / ननु लिङ्गादिभरन्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनियोगो ऽस्त्वविरोधादित्युक्तं, तत्राह-दुर्बलो हीति / समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थविप्रकर्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृत्तेरित्यर्थः / अयमाशयः-एकत्र विनियुक्तस्य निराकाङ्क्षत्वादन्यत्र विनियोगो विरुद्ध एव परन्तु विनियोजकप्रमाणयोः समबलत्वे ऽन्यतरविनियोगत्यागायोगादगत्याकाङ्क्षोत्पादनेन विनियुक्तविनियोगः स्वीक्रियते ऽयथा खादिरो यूपो भवतिऽऽखादिरं वीर्यकामस्य यूपं कुर्यात्ऽइति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः / यत्र तु प्रमाणयोरतुल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्बलविनियोगबाधात् / यथा ऽकदाचन स्तरीरसिऽइत्यस्या ऋच ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति तृतीयाविभक्तिश्रुत्यान्यनिरपेक्षतया गार्हपत्योपस्थानशेषत्वबोधिकयेन्द्रप्रकाशनसामार्थ्यरूपलिङ्गप्राप्तमिन्द्रशेषत्वं बाध्यते / लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्विन्द्रप्रकाशनमात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया,
SK
तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थबोधकश्रुत्या बाध्यम् / तथा लिङ्गेन वाक्यं बाध्यं यथा ऽस्यो ऽनं ते सदनं करोमि घृतस्य धारया कल्पयामिऽ, ऽतस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्रकाशनसामर्थ्यलिङ्गेन श्रुतिद्वारा विनियोगे सति प्रतीतमेकवाक्यत्वं बाध्यते, तस्य कृत्स्ने ऽपि मन्त्रे सदनकरणप्रकाशनसामर्थ्यं पुरो ऽडाशासादनप्रकाशनसामर्थ्यं च लिङ्गं कल्पयित्वा श्रुतिकल्पनयोभयत्र कृत्स्नमन्त्रविनियोगबोधने द्वाभ्यां लिङ्गश्रुतिभ्यां व्यवधानेन श्रुत्येकव्यवहितकॢप्तलिङ्गाद्दुर्बलत्वात् / नच सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते / तथा वाक्येन प्रकरणं बाध्यं यथा साह्नप्रकरणाम्नातद्वादशोपसदां द्वादशाहीनस्येति वाक्येनाहीनाङ्गत्व बोधकेन प्रकरणप्राप्तसाह्नाङ्गत्वबाधादुत्कर्षः / प्रधानस्याङ्गाकाङ्क्षारूपं प्रकरणं तस्याङ्गप्रधानवाक्यैकवाक्यतासामर्थ्यश्रुतिभिः कल्प्यमानाभिः स्वार्थविनियोगप्रमितौ व्यवधानेनाङ्गसामर्थ्यश्रुत्योर्द्वयोः कल्पकवाक्याद्दुर्बलत्वात् / तथा प्रकरणेन संनिधिर्बाध्यः / यथा राजसूयप्रकरणेन तदन्तर्गताभिषेचनीयाख्यसोमयागविशेषसंनिधिपाठप्राप्तं शुनः शेपोपाख्यानादेरभिषेचनीयशेषत्वं बाधित्वा कृत्स्नराजसूयशेषत्वमापादितं संनिधेः प्रकरणादिकल्पकत्वेन कॢप्तप्रकरणाद्दुर्बलत्वात् तथा संनिधिना समाख्या बाध्यते / तथाहि-पौरोडाशिकसमाख्याके काण्डे आग्नेयपुरोडाशादिकर्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधिपयोरूपसान्नाय्यसन्निधौ ऽशुन्धध्वं दैव्याय कर्मणेऽइति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरोडाशपात्रशुन्धनशेषत्वं प्राप्तं संनिधिना बाधित्वा सान्नाय्यपात्रशुन्धनशेषत्वमापाद्यते / पुरोडाशसंबन्धिकाण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डान्तर्गतमन्त्रस्य पुरोडाशसंबन्धसामान्यबोधकत्वे ऽपि शेषशेषिभावरूपविनियोगबोधकत्वे संनिध्याद्यपेक्षत्वेन दुर्बलत्वादिति / एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुतिलिङ्गसूत्रार्थः / तस्माल्लिङ्गादिनान्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् / तथा कर्मणामिति / कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चिन्नास्तीत्यर्थः / अपिचेत्युक्तार्थम् / ननु तर्हि वेधादिवाक्यानामुपनिषद्भिः सह पाठस्य का गतिस्तामाह-अरण्येति /
SK
तस्माद्वेधादिमन्त्रकर्मणां विद्यास्वनुपसंहार इति सिद्धम्
SK
END Bस्Cओम्_३,३.१४.२५
SK
START Bस्Cओम्_३,३.१५.२६
SK
१५ हान्यधिकरणम् / सू. २६
SK
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम् | BBस्_३,३.२६ |
SK
अस्ति ताण्डानां श्रुतिः - ऽअश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामिऽ (छा. ८.१३.१) इति / तथाथर्णिकानाम ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. ३.२.८) इति / तथा शाट्यायनिनः पठन्ति ऽतस्य पुत्रा दायमुपयन्ति सिहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति / तथैव कौषीतकिनः ऽतत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपन्त्यप्रिया दुष्कृतम्ऽ (कौ. १.४) इति / तदिह क्वचित्सुकृतदुष्कृतयोर्हानं श्रूयते क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनं क्वचित्तूभयमपि हानमुपायनं च तद्यत्रोभयं श्रूयते तत्र तावन्न किञ्चिद्वक्तव्यमस्ति / यत्राप्युपायनमेव श्रूयते न हानं तत्राप्यर्थादेव हानं संनिपतति / अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोरावश्यकत्वात्तद्धानस्य / यत्र तु हानमेव श्रूयते नोपायनं तत्रोपायनं सनिपतेद्वा न वेति विचिकित्सायामश्रवणादसंनिपातः / विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य / अपिचात्मकर्तृकं सुकृतदुष्कृतयोर्हानं परकर्तृकं तूपायनं तयोरसत्यावश्यकभावे कथं हानेनोपायमाक्षिप्येत / तस्मादसंनिपातो हानावुपायनस्येति / अस्यां प्राप्तौ पठति - हानौ त्विति / हानौ त्वेतस्यां केवलायामपि श्रूयमाणायामुपायनं संनिपतितुमरपहति / तच्छेषत्वात् / हानशब्दशेषो ह्युपायनशब्दः समधिगतः कौषीतकिरहस्ये / तस्मादन्यत्र केवलहानशब्दश्रवणे ऽप्युपायनानुवृत्तिः / यदुक्तमश्रवणाद्विद्यन्तरगोचरत्वादनावश्यकत्वाच्चासंनिपात इति,
SK
तदुच्यते / भवेदेषा व्यवस्थोक्तिर्यद्यनुष्ठेयत्वेन संकीर्त्यते / विद्यास्तुत्यर्थं त्वनयोः संकीर्तनम् / इत्थं महाभागा विद्या यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयते ते चास्य सुहृद्विषत्सु निविशेते इतै / स्तुत्यर्थे चास्मिन्संकीर्तने हानानन्तरभावित्वेनोपायस्य क्वचिच्छ्रुतत्वादन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते स्तुतिप्रकर्षलाभाय / प्रसिद्धा चार्थवादान्तरापेक्षार्थवादान्तरप्पवृत्तिः - ऽएकविंशो वा इथो ऽसावादित्यःऽ (छा. २.१०.५) इत्येवमादिषु / कथं हीहैकविंशतादित्यस्याभिधीयतानपेक्ष्यमाणेर्ऽथवादान्तरे द्वादश मासाःपञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः इत्येतस्मिन् / तथा त्रिष्टुभौ भवतः सेन्द्रियत्वाय इत्येवमादिषु इन्द्रियं वै त्रिष्टुप् इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते / विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्य कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् / उपायनशब्दशेषत्वादिति तु शब्दशब्दं समुच्चारयन्स्तुत्यर्थमेव हानावुपायनानुवृत्तिं सूचयति / गुणोपसंहारविवक्षायां ह्युपायनार्थस्यैव हानावृत्तिं ब्रूयात् / तस्माद्गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् / कुशाच्छन्दस्तुत्युपगानवदित्युपमोपादानम् / तद्यथा भाल्लविनाम् - ऽकुशा वानस्पत्याः स्थ ता मा पातऽ इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे शाट्यायनिनामौदुम्बराः कुशा इति विशेषवचनादौदुम्बर्यः कुशा आश्रीयन्ते / यथाच क्वचिद्देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे ऽदेवच्छन्दांसि पूर्वाणिऽ इति पैङ्ग्याम्नानात्प्रतीयन्ते / यथाच षोडशुस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ ऽसमयाध्युषिते सूर्येऽ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः / यथैव चाविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः / यथैतेषु कुशादिषु श्रुत्यन्तरगतविशेषैरन्वय एवं हानावप्युपायनान्वय इत्यर्थः / श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरे ऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् / स चान्याय्यः सत्यां गतौ / तदुक्तं द्वादशलक्षणायाम् - ऽअपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्ऽ इति / अथवैतास्वेव विधूनवश्रुतिष्वेतेन सूत्रेणैतच्चिन्तयितव्यम् / किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते किंवार्ऽथान्तरमिति / तत्र चैवं प्रापयितव्यम् / न हानं विधूननमभिधीयते ऽधञ् कम्पनेऽ इति स्मरणात् / दोधूयन्ते ध्वजाग्राणीति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् / तस्माच्चालनं विधूननमभिधीयते / चालनं तु सुष्कृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनादित्येवं प्रापय्य प्रतिवक्तव्यम् / हानावेवैष विधूयननशब्दो वर्तितुमर्हति / उपायनशब्दशेषत्वात् / नहि परपरिग्रहभूतयोः सुकृतदुष्कृतयोरप्रहीणयोः परैरुपायनं संभवति / यद्यपीदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं नाञ्जसं संभाव्यते तथापि तत्सर्न्तनात्तावत्तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते / क्वचिदपि चेदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाछन्दस्तुत्युपगानवद्विधनूनश्रुत्या सर्वत्रापेक्षामाणं सार्वत्रिकं निर्णयकारणं संपद्यते / नच चालनं ध्वजाग्रवत्सुकृतदुष्कृतयोर्मुख्यं संभवति / अद्रव्यत्वात् / अश्वश्च रोमाणि विधून्वानस्त्यजन्रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा. ८.१३.१) इति च ब्राह्मणम् / अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः / तदुक्तमिति व्याख्यातम् /
SK
हानौ तूक्तम् / यथाश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्मलीकृतचित्तः सन् यथा वा राहुग्रस्तश्चन्द्रो राहुमुखात्प्रमुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहाभिमानान्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकं अभि प्रत्यक्त्वेन संभवामीत्यर्थः / यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः / तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः / उपायनं ग्रहणं तस्य त्यागपूर्वकत्वात्, अत्यक्तयोर्ग्रहणायोगात्त्यागोर्ऽथादायति / यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह-यत्र त्विति / अत्र पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् / यद्यपि ताण्ड्याथर्वणश्रुत्योर्निर्गुणविद्यार्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्यङ्कस्थसगुणब्रह्मविद्यायामुपायनं श्रुतमत्रोपसंहर्तव्यमित्याशङ्क्य विद्याभेदान्नोपसंहार इत्याह-विद्यान्तरेति / किञ्च यथा मन्त्रकर्मणामनावश्यकत्वाद्विद्यास्वनुपसंहार उक्तः तथा परैरुपादानं विनापि हानसंभवेनोपादनस्यानावश्यकत्वान्न प्राप्तिरिति दृष्टान्तसंगत्या प्राप्ते सिद्धान्तयति-हानौ त्वियादिना / उपायनशब्दस्य शेषत्वाद्धानशब्देनापेक्षितत्वादिति सूत्रार्थः / अश्वरोमदृष्टान्तेन विधूतयोः पुण्यपापयोः परत्रावस्थानसापेक्षत्वात्परैरूपादानं वाच्यमिति भावः /
SK
विद्याभेदे गुणानुपसंहार इति व्यवस्थानुष्ठानविषया न स्तुतिविषयेत्याह-यदुच्यत इति / मन्यते सूत्रकार इत्यर्थः / ननु श्रुतहानार्थवादेनापि स्तुतिसिद्धौ किमर्थमुपायनार्थवाद आनीयते, तत्राह-स्तुतिप्रकर्षलाभायेति / नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थवादान्तरेणेत्यत आह-प्रसिद्धा चेति / इतो भूलोकादित्यर्थः / हेमन्तशिशिरयोरैक्यात्पञ्चर्तवः / यज्ञस्य पुरुषरूपकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे, तत्र त्रिष्टुभश्छन्दोमात्रत्वात्कथमिन्द्रियत्वकल्पनेत्याकाङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः / नन्वमूर्तयोः पुण्यपापयोः उपादानस्यासंभवादनुपसंहार इत्यत आह-विद्यास्तुत्यर्थत्वाच्चेति / विद्वन्निष्ठयोरेव तयोः फलं परे प्राप्नुवन्ति विद्यासामर्थ्यादित्युपयन्तिपदेनोच्यत इत्यर्थः / नन्वन्यनिष्टकर्मणोरन्यत्र फलसंचारः कथम् / ननु वचनबलादिति चेत् / न / फलमुपयन्तीत्यश्रुतेः / नच यथा पुत्रकृतश्राद्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधिकरणफलत्वे ऽपि विदुषः कर्मकाले ऽनुद्दिष्टव्यधिकरणफलायोगात् / किञ्च विदुषो देहपाते कर्मणो ऽसत्त्वाद्यावज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह-नातीवाभिनिवेष्टव्यमिति / विद्वत्सेवाद्वेषाभ्यां विद्वन्निष्ठपुण्यपापतुल्ये पुण्यपापे सेवकद्वेषिणोर्जायेते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः / उपायनादेः स्तुतित्वे लिङ्गमाह-उपायनेति / उपायनविवक्षायामुपायनस्यैवोपसंहारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रूवन्स्तुतिं सूचयतीत्यर्थः / विद्याविचारात्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह-तस्मादिति / शाखान्तरस्थो विशेषः शाखान्तरे ऽपि ग्राह्य इत्यत्र दृष्टान्तमाह-कुशेति / कुशा उद्गातृणां स्तोत्रगणनार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना / अत्र ता इति स्त्रीलिङ्गनिर्देशादौदुम्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुशमित्यनुशासनात् / छन्दोदृष्टान्तं व्याचष्टे-यथाचेति / नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्यत्राविशेषप्राप्तौ पैङ्गिवाक्याद्विशेषग्रह इत्यर्थः / स्तुतिं विवृणोति-यथेति / आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दोगादीनामाकाङ्क्षायामुदयसमयाविष्टे सूर्ये षोडशिनः स्तोत्रमित्यार्चश्रुतेः कालविशेषग्रह इत्यर्थः / ऋचो ऽधीयत इत्यार्चाः / उपगानं विभजते-यथेति / ऽऋत्विज उपगायन्तिऽइत्यविशेषश्रुतेः ऽनाध्वर्युरूपगायतिऽइति श्रुत्यन्तरादध्वर्युभिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः / ननु कुशादिवाक्यानामपि किमिति विशेषश्रुत्यन्तरैकवाक्यताभ्युपगम्यते, तत्राह-श्रुत्यन्तरकृतं हीति / सामान्यविशेषयोरेकवाक्यतारूपायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषेधादविशेषश्रुतेश्चाध्वर्युरुपगायति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहियवयोस्त्वगत्या विकल्प आश्रित इत्यर्थः / विकल्पस्यान्याय्यत्वमष्टदोषदुष्टत्वात् / तथाहि-यदि व्रीहिवाक्यमाश्रीयते तदा यववाक्यस्येष्टप्रामाण्यत्यागः, अनिष्टाप्रामाण्यस्वीकारः, कदाचिद्यववाक्याश्रयणे त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यत्यागश्चेत्येकस्मिन्यववाक्ये चत्वारो दोषा भवन्ति / एवं व्रीहिवाक्येपि चत्वारो दोषा इत्येवं दुष्टविकल्पपरिहाराय भिन्नशाखश्रुत्योरप्येकवाक्यता जैमिनिसंमतेत्याह-तदुक्तमिति / ज्योतिष्टोमप्रकरणे ऽदीक्षितो न जुहोतिऽ, इति श्रुतं ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्वर्थत्वान्निषेधो ऽनुष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः / अपि तु यावज्जीववाक्यं प्रति नदीक्षितवाक्यस्य शेषत्वान्नकार इतरपर्युदासार्थकः स्याद्दीक्षितान्यलक्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहुयादित्येकवाक्यतेति नदीक्षिताधिकरणसिद्धान्तसूत्रार्थः / अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्युदासाधिकरणसिद्धान्तसूत्रं ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् / सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषेधकत्वे ऽप्यतिरात्रे षोडशिग्रहणाग्रहणयोरिवानुयाजेषु यज्ञत्वाविशेषात्प्रयोक्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्यान्याय्यत्वात् येयजामहविधेरेव नानुयाजवाक्यमेकदेशः स्यात्, पर्युदासवृत्त्या विधिवाक्यशेषः स्यादिति यावत् / तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयोक्तव्यमित्येकवाक्यतेति / वर्णकान्तरमाह-अथवेति / पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः / उभयत्र लक्षणासाम्यात्संशयमाह-किमिति / विधूननस्य हि फलद्वयमश्वरोमादिषु दृष्टं पूर्वस्वभावात् च्युतिरन्यत्र संक्रान्तिश्चेति / तत्र संक्रान्तिरूपहानिर्लक्षणीया किंवा च्युतिरिति संशयार्थः / तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् / तच्चामूर्तयोः पुण्यपापयोर्न संभवति / अतस्तयोर्यः स्वभावः फलदातृत्वशक्तिस्ततश्चालनं विद्यया प्रतिबन्धाच्च्युतिः सा लक्षणीया न हानिरमूर्तयोरन्यत्र संक्रान्त्ययोगादन्यसापेक्षत्वाच्चेति पूर्वपक्षार्थः / सिद्धान्तयति-हानावेवेति / यदि च्युतिमात्रं लक्ष्यं तदोपयन्तीत्यनन्वितं स्यात् / नच यत्र धुनोतेरूपायनशब्दसांनिध्यं तत्र हानिर्लक्ष्यते न केवलधुनोतेर्हानिश्चान्यत्र विदुषः सेवकादौ तुल्यकर्मसंक्रान्तिरिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्यार्थासंभवेनान्यत्र लक्ष्यतया बुद्धिस्थहानिलक्षणाया एव युक्तत्वादिति भावः / उपायनस्यामुख्यत्वान्न क्वापि हानिलक्षणाबीजत्वमिति शङ्कित्वा पुण्यपापयोः फलतः स्वीकारात्मकमुपायनं हानिं विनानुपपन्नं सल्लक्षणानिर्णायकमिति परिहरति-यद्यपीत्यादिना / यथान्यत्रश्रुतमौदुम्बरत्वादिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह-क्वचिदपीति / विधूननं मुख्यं किमिति नोच्यते, तत्राह-नचेति / तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्यसंबन्धादित्याह-अश्वश्चेति / अनुपपत्तिसंबन्धौ लक्षणाबीजरूपामुक्त्वा लक्षकं पदं निर्दिशति-अश्व इवेति / विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दार्ष्टान्तिके ऽपि हानलक्षकमित्यर्थः / यद्वा हानवाचकमेवास्तु नच धूञ् कम्पन इति धातुपाठविरोधस्तस्योपलक्षणार्थत्वादित्याह-अनेकेति /
SK
शाखान्तरस्थमुपायनं विधूननस्य हानत्वनिश्चायकमित्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्यातमित्यर्थः / एवं विधृननस्य हानित्विसिद्धेः केवलहानावुपायनोपसंहार इति सिद्धम्
SK
END Bस्Cओम्_३,३.१५.२६
SK
START Bस्Cओम्_३,३.१६.२७
SK
१६ सांपरायाधिकरणम् / सू. २७-२८
SK
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये | BBस्_३,३.२७ |
SK
देवयानेन पथा पर्यङ् कस्थं ब्रह्माभिप्रस्तितस्य व्यध्वनि सुकृतदुष्कृतयोर्विभागं कौषीतकिनः पर्यङ् कविद्यायाममनन्ति ऽस एतं देवयानं पन्तानमासाद्याग्निलोकमागच्छतिऽ (कौ. १.३) इत्युपक्रम्य ऽस आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुतेऽ (कौ. १.४) इति / तत्किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यमाहोस्विदादावेव देहादपसर्पण इति विचारणायां श्रुतिप्रामाण्याद्यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति - सांपराय इतै / सांपराये गमन एव देहादपसर्पण इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवतीति प्रतिजानीते / हेतुं चाचष्टो तर्तव्याभावादिति / नहि विदुषः संपरेतस्य विद्यया ब्रह्म संप्रेप्सतो ऽन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम् / विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति / तस्मात्प्रागेव सन्नयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते / तथा ह्यन्ये ऽपि शिखिनस्ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा. ८.१३.१) इति, ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति च
SK
संपराये अन्ये / व्यध्वनि अर्धमार्गे / पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदीतरणानन्तर्यश्रुतेरश्वैव रोमाणि इत्यादौ देहत्यागात्प्राक्कालत्वश्रुतेश्च संशयमाह-तत्किमिति / ब्रह्मलोकमार्गमध्ये विरजाख्यां नदीमत्येति तत्सुकृतदुष्कृते विधूनुते, इत्यत्र तदितिसर्वनामश्रुत्यास्तेनेत्यर्थतया संनिहितनदीतरणस्य कर्महानिहेतुत्वोक्तेरर्धपथे कर्मक्षय इति पूर्वपक्षः / तत्र विद्यायाः कर्मक्षयहेतुत्वासिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति-सांपराय इति / मरणात्प्रागित्यर्थः / संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फलाभावाद्देवयानमार्गप्रवेशायोगाच्चादावेव क्षय इत्यर्थः / क्षयहेतोर्विद्याया मध्येमार्गमसत्त्वाच्चेत्याह-विद्याविरुद्धेति / नदीतरणानन्तरपाठस्तु बाध्यः, अर्थविरोधादित्याह-तस्मादिति /
SK
तदिति सर्वनाम्नापि प्रकृतविद्यैवोच्यत इति भावः
SK
END Bस्Cओम्_३,३.१६.२७
SK
START Bस्Cओम्_३,३.१६.२८
SK
छन्दत उभयाविरोधात् | BBस्_३,३.२८ |
SK
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्यार्धपथे सुकृतदुष्कृतक्षयो ऽभ्युपगम्येत ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषप्रयत्नस्येच्छातो ऽनुष्ठानानुपपत्तेरनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् / तस्मात्पूर्वमेव साधकावस्थायां छन्दतो ऽनुष्ठानं तस्यस्यात् / तत्पूर्वकं च सुकृतदुष्कृतहानमिति द्रष्टव्यम् / एवं निमित्तनैमित्तिकयोरुपपत्तिस्ताण्डिशाट्यायनिश्रुत्योश्च संगतिरिति
SK
किञ्च मृतस्य छन्दतो यथाकामं विद्यानुष्ठानानुपपत्तेरुभ्योर्विद्याकर्मक्षययोः श्रुतो हेतुफलभावो विरुध्यते / किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायोपेतताण्ड्यादिश्रुतिविरोधस्तव स्यादस्मत्पक्षे त्वविरोध इत्याह-छन्दत इति /
SK
तस्मात्कर्महानस्य विद्याफलत्वात्केवलहानावुपायनोपसंहारो विद्यास्तुतय इति सिद्धम्
SK
END Bस्Cओम्_३,३.१६.२८
SK
START Bस्Cओम्_३,३.१७.२९
SK
१७ गतेरर्थवत्त्वाधिकरणम् / सू. २९-३०
SK
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः | BBस्_३,३.२९ |
SK
क्वचित्पुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते क्वचिन्न / तत्र संशयः - किं हानावविशेषेणैव देवयानः पन्थाः संनिपतेदुत विभागेन क्वचित्संनिपतेत् क्वचिन्नेति / यथा तावद्धानावविशेषेणैवोपायनानुवृत्तिरुक्तैवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तावाचक्ष्महे / गतेर्देवयानस्य पथोर्ऽथवत्त्वमुभयथा विभागेन भवितुमर्हति क्वचिदर्थवती गतिः क्वचिन्नेति नाविशेषेण / अन्यथा ह्यविशेषेणैवैतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् / ऽपुण्यपारपे विधूय निरञ्जनः परमं साम्यमुपैतिऽ (मु. ३.१.३) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत / कथं हि निरञ्जनो ऽगन्ता देशान्तरं गच्छेत् / गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तमित्यानर्थक्यमेवात्र गतेर्मन्यामहे
SK
गतेरर्थवत्त्वङ्क्वचित्सगुणविद्यायां मार्गः श्रूयते निर्गुणविद्यायां न श्रूयते / तत्र हानसंनिधौ मार्गस्य श्रुतत्वादनपेक्षितत्वाच्च संशये दृष्टान्तसंगत्या पूर्वपक्षमाह-यथा तावदिति /
SK
उपायनवन्मर्गस्यापि क्वचिच्छ्रुतत्वात्सर्वत्रोपसंहार इत्यर्थः / अत्र निर्गुणविदो ऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् / देशादिव्यवहितवस्तुप्राप्तौ मार्गस्यापेक्षेतिन्यायानुगृहीतश्रुतिविरोधान्नोपसंहार इति सिद्धान्तः / निरञ्जनो ऽसङ्गः, साम्यं ब्रह्म
SK
END Bस्Cओम्_३,३.१७.२९
SK
START Bस्Cओम्_३,३.१७.३०
SK
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् | BBस्_३,३.३० |
SK
उपपन्नश्चायमुभयथाभावः क्वचिदर्थवती गतिः क्वचिन्नेति / तल्लक्षणार्थोपलब्धेः / गतिकारणभूतो ह्यर्थः पर्यङ् कविद्यासु सगुणेषूपासनेषूपलभ्यते / यत्र हि पर्यङ् कारोहणं पर्यङ् कस्तेन ब्रह्मणा संवदनं विशिष्टगन्धादि प्राप्तिश्चेत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते तत्रार्थवती गतिः / नहि सम्यग्दर्शने तल्लक्षणार्तोपलब्धिरस्ति / नह्यात्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेशबीजानामारब्धभोगकर्माशयक्षपणव्यतिरेकेणापेक्षितव्यं किञ्चिदस्ति तत्रानर्थिका गतिः / लोकवच्चैष विभागो द्रष्टव्यो यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते नारोग्यप्राप्तावेवमिहापीति / भूयश्चैनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः
SK
ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह-उपपन्न इति /
SK
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः
SK
END Bस्Cओम्_३,३.१७.३०
SK
START Bस्Cओम्_३,३.१८.३१
SK
१८ अनियमाधिकरणम् / सू. ३१
SK
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम् | BBस्_३,३.३१ |
SK
सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायामित्युख्तम् / सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते यथा पर्यङ् कविद्यायामुपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति / नान्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडषकलविद्यायां वैश्वानरविद्यायामिति / तत्र संशयः - किं यास्वेवैषा गतिः श्रूयते तास्वेव नियम्येतोतानियमेन सर्वाभिरेवञ्जातीयकाभिर्विद्याभिरभिसंबध्यतेति / किं तावत्प्राप्तं नियम इति / यत्रैव श्रूयते तत्रैव भवितुमर्हति / प्रकरणस्य नियामकत्वात् / यद्यन्यत्र श्रूयमाणापि गतिर्विद्यान्तरं गच्छेच्छ्रुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात् / अपिचार्चिरादिकैकैव गतिरुपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते तत्सर्वार्थत्वे ऽनर्थकं पुनर्वचनं स्यात् / तस्मान्नियम इत्येवं प्राप्ते पठति - अनियम इति / सर्वासामेवाभ्युदयप्राप्तिफलानां सगुणानां विद्यानामविशेषेणैषा दवयानाख्या गतिर्भवितुमर्हति /
SK
नन्वनियमाभ्युपगमे प्रकरणविरोध उक्तः /
SK
नैषो ऽस्ति विरोधः शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः / तथाहि श्रुतिः - ऽतद्य इत्थं विदुःऽ (छा. ५.१०.१) इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽ (छा. ५.१०.१) इति विद्यान्तरशीलिनामपि प्चाग्निविद्याविद्भिः समानमार्गतां गमयति / कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति /
SK
ननु श्रद्धातपःपरायणानामेव स्यात्तन्मात्रश्रवणात् /
SK
नैष दोषः / नहि केवलाभ्यां श्रद्दातपोभ्यामन्तरेण विद्याबलमेषा गतिर्लभ्यते ऽविद्यया तदारोहन्ति यत्र कामाः परागताः / न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनःऽ इति श्रुत्यन्तरात् / तस्मादिह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् / वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारे ऽधीयते - ऽय एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ. ६.२.१५) इति / तत्र श्रद्धलवो ये सत्यं ब्रह्मोपासत इति व्याख्येयम् / सत्यशब्दस्य ब्रह्मण्यसकृत्प्रयुक्तत्वात् / पञ्चाग्निविद्याविदां चेत्थंवित्तयैवोपात्तत्वाद्विद्यान्तरपरायणानामेवैतदुपादानं न्याय्यम् / ऽअथ य एतौ पन्थानौ न विदुस्ते पतङ्गा यदिदं दन्दशूकम्ऽ (बृ. ६.२.१६) इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनानन्तर्भावयति / तत्रापि विद्याविसेषादेषां देवयानप्रतिपत्तिः / समृतिरपि - ऽशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते / एकया यात्यानावृत्तिमन्ययावर्तते पुनःऽ (भ.गी. ८.२३) इति / यत्पुनर्देवयानस्य पथो द्विराम्नानमुपकोसलविद्यायां पञ्चाग्निविद्यायां च तदुभयत्राप्यनुचिन्तनार्थम् / तस्मादनियमः
SK
FN: श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति / दन्दशूकः सर्पः /
SK
अनियमः सर्वासां / अत्राप्यर्चिरादिमार्ग एव विषयस्तत्र विद्याविशेषप्रकरणादविशेषश्रुतेश्च संशये पूर्वपक्षमाह-किं तावदिति / सगुणनिर्गुणविद्यासु मार्गस्य भावाभावव्यवस्थावत्सगुणास्वपि व्यवस्थेति दृष्टान्तेन प्राप्तौ सिद्धान्ते व्यवस्थापवादाद्गतिनियमो ऽनियम उभयत्र फलम् / नियमे प्रकरणमुक्त्वा पुनरुक्तिं लिङ्गमाह-अपिचेति / एकत्रोक्तगतेरन्यत्र प्राप्तौ पुनरुक्तिर्वृथा स्यादित्यर्थः / सिद्धान्तयति-सर्वासामिति / अभ्युदयो ब्रह्मलोकः / अविशेषश्रुत्यादिना प्रकरणबाधो न दोष इत्याह-नैष इति / तत्तत्र अधिकृतानां मध्ये य इत्थं पञ्चाग्नीन्विदुर्ये चामी अरण्ये श्रद्धातप इत्युपासते श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति ते ऽर्चिषमभिसंभवन्तीत्यन्वयः / ननु श्रद्धातपोमात्रश्रुतेस्ताभ्यामेवार्चिरादिगमनं स्यान्न वैश्वानरादिविद्याशीलानामिति शङ्कते-कथं पुनरिति / अविदुषां गतिनिषेधाच्छ्रद्धातपःशब्दाभ्यां तत्साध्यब्रह्मविद्यालक्षणेति परिहरति-नैष दोष इति / तत् ब्रह्मलोकस्थानं, परागताः परावृत्ताः, कामक्रोधदोषा न सन्तीति यावत् / दक्षिणाः केवलकर्मिणस्तपस्विनो ऽप्यविद्वांसो न गच्छन्तीत्यर्थः / लक्षणादोषहीनं वाक्यमाह-वाजसनेयिनस्त्विति / किञ्च विद्याकर्मलक्षणमार्गद्वयभ्रष्टानामधोगतिश्रुतेः वैश्वानराद्युपासकानामर्चिरादिमार्गप्राप्तिरित्याह-अथ य एताविति / दन्दशूकः सर्पः / किञ्च ऽअग्निर्ज्योतिराह-शुक्लः षण्मासा उत्तरायणम् / तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःऽइत्यविशेषेणोपसकानामर्चिरादिगतिमुक्त्वोपसंहारस्मृतेश्च तेषां तत्प्राप्तिरित्याह-स्मृतिरिति / शुक्ल गतिरार्चिरादिका, कृष्णा धूमादिका, जगतो विद्याकर्माधिकृतस्य, शाश्वते ध्रुवे संमते / तत्रैकया शुक्लया पुनरावृत्तिवर्जं कार्यं ब्रह्म गच्छति अन्यया स्वर्गे गत्वा पुनरायातीत्यर्थः / पुनरुक्तिदोषं दूषयति-यत्पुनरिति /
SK
तत्र तत्र मार्गश्रुतिरन्वहं मार्गचिन्तनार्थं, प्रकरणेन मार्गध्यानस्य विद्याङ्गत्वावगमात् / तथाच वक्ष्यति सूत्रकारः-ऽतच्छेषगत्यनुस्मृतियोगाच्चऽइति / येषां न श्रुतो मार्गस्ते मार्गध्यानं विनापि विद्यासामर्थ्यान्मार्गं लभन्त इति ज्ञापनार्था पुनरुक्तिरित्यर्थः / तस्मात्सर्वोपासनासु प्रतीकभिन्नास्वर्चिरादिप्राप्तिरिति सिद्धम्
SK
END Bस्Cओम्_३,३.१८.३१
SK
START Bस्Cओम्_३,३.१९.३२
SK
१९ यावदधिकाराधिकरणम् / सू. ३२
SK
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् | BBस्_३,३.३२ |
SK
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते / ननु विद्यायाः साधनभूतायाः संपत्तौ कैवल्यनिर्वृत्तिः स्यान्न वेति / नेयं चिन्तोपपद्यते / नहि पाकसादनसंपत्तावोदनो भवेन्न वेति चिन्ता संभवति / नापि भुञ्जानस्तृप्येन्न वेति चिन्त्यते / उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् / तथाह्यपान्तरतमा नाम वेदाचार्यः पुराणर्षिर्विष्णुनियोगात्कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति / वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां संबभूवेति / भृग्वादिनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते / सनत्कुमारो ऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात्स्कन्दत्वेन प्रादुर्बभूव / एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ / श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते / ते च केचित्पतिते पूर्वदेहे देहान्तरमाददत्ते केचित्तु स्थित एव तस्मिन्योगैश्वर्यवशादनेकदेहादानन्यायेन / सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते / तदेतेषां देहान्तरोत्पत्तिदर्शनात्प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेति / अत उत्तरमुच्यते / न / तेषामपान्तरतमप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारततन्त्रत्वास्थितेः / यथासौ भगवान्सविता सह्स्रयुगपर्यन्तं जगतो ऽधिकारं चरित्वा तदवसान उदयास्तमयवर्जितं कैवल्यमनुभवति ऽअथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाताऽ (छा. ३.११.१) इति श्रुतेः / यथाच वर्तमाना ब्रह्मविद आरब्धभोगक्षये कैवल्यमनुभवन्ति / ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा. ६.१४.२) इति श्रुतेः / एवमपान्तरमप्रभृतयो ऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्माणो यावदधैकारमवतिष्ठन्ते, तदवसाने चापवृज्यन्त इत्यविरुद्धम् / सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येणैव गृहादिव गृहान्तरमन्यमन्यं देहं संचरन्तः स्वाधिकारनिवर्तनायापरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वान्निर्माय देहान्युगपत्क्रमेण वाधितिष्ठन्ति / नचैते जातिस्मरा इत्युच्यन्ते ऽत एवैतेऽ इति स्मृतिप्रसिद्धेः / यथाहि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामाख्युदस्य स्वं देहं जानकं देहमाविश्य व्युद्य तेन पश्चात्स्वमेव देहमाविवेशेति स्मर्यते / यदि ह्यपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्ततो ऽन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत, नत्वियमाशह् का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् / तथाहि श्रुतिः - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड. २.२.८) इति / ऽस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षःऽ (छा. ७.२६.२) इति चैवमाद्या / स्मृतिरपि - ऽयथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुतेर्ऽजुन / ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाऽ (भ.गी. ४.३७) ऽबीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः / ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनःऽ इति चैवमाद्या / नचाविद्यादिक्लेशदाहे सति क्लेशबीजस्य सर्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते / नह्यग्निदग्धस्य शालिबीजस्यैकदेशप्ररोहो दृश्यते / प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयान्निवृत्तिः / ऽतस्य तावदेव चिरम्ऽ (छा. ६.१४.२) इति शरीरपातावधि क्षेपकरणात् / तस्मादुपपन्ना यावदधिकारमाधिकारिणामवस्थितिः / नच ज्ञानफलस्यानैकान्तिकता / तथाच श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्ऽ (बृ. १.४.१०) इति / ज्ञानान्तरेषु चैश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः / ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते / ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे / परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽ इति स्मरणात् / प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः / कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति / अनुभवारूढं तु ज्ञानफलम् ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ. ३.४.१) इति श्रुतेः ऽतत्त्वमसिऽ (६. ८.७) इति च सिद्धवदुपदेशात् / नहि ऽतत्त्वमसिऽ इत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः / ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृ. १.४.१०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति / तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः
SK
FN: ऊर्ध्वो विलक्षणः ब्रह्मरूपः सन् उद्गम्य / तेन जनकेन , व्युद्य विवादं कृत्वा / निर्विण्णा विरक्ताः / प्रतिसंचरः प्रलपः /
SK
यावदधिकारम् / निर्गुणविद्यायां गतिर्व्यर्था मुक्तिफलत्वात्, सगुणविद्यासु सर्वत्रार्थवती ब्रह्मलोकफलत्वादिति व्यवस्था कृता, सा न युक्ता, तत्त्वज्ञानिनामपीतिहासादौ पुनर्जन्मदर्शनेन ज्ञानस्य मुक्तिफलत्वाभावादित्याक्षेपात्संगतिः / ज्ञानिनां पुनर्जन्मदर्शनं संशयबीजं भाष्ये दर्शितम् / पूर्वपक्षे ज्ञानान्मुक्तिश्रुतीनां ज्ञानस्तुतिमात्रत्वेन ज्ञानस्य मुक्तिफलत्वाभावे सति ब्रह्मलोकफलत्वाविशेषादर्चिरादिमार्गोपसंहारः फलं, सिद्धान्ते तूक्तव्यवस्थासिद्धिरिति विवेकः / श्रुतावपीति / मेधातिर्थेर्मेषेतिमन्त्रे इन्द्रस्य मेषजन्मोपलभ्यते / वसिष्ठ उर्वशीपुत्रे जात इत्येवमर्थो बह्वृचार्थवाद इत्यर्थः / पाक्षिकमित्यापाततः / अहेतुत्वमेवेति पूर्वपक्षः / ज्ञानस्य मुक्त्यहेतुत्वं नेति सिद्धान्तयति-ते चेति / लोकव्यवस्थासु स्वामित्वमधिकारः, तत्प्रापकं प्रारब्धं यावदस्ति तावत्कालं जीवन्मुक्तत्वेनाधिकारिकाणामवस्थितिः, प्रारब्धक्षये प्रतिबन्धकाभावाद्विदेहकैवल्यमित्यत्र मानमाह-अथेति / अथ प्रारब्धक्षयानन्तरम् / ततः पश्चादूर्ध्वो विलक्षणः केवलः ब्रह्मस्वरूपः सन् उदेत्योद्गम्य देहं त्यक्त्वेति यावत् / एकल एव अद्वितीयः, मध्ये उदासीनात्मकस्वरूपे तिष्ठतीत्यर्थः / ननु ज्ञानिनामपि जन्मान्तरं चेत्कथं मुक्तिरित्यत आह-सकृत्प्रवृत्तमिति / यदि ज्ञानिनां प्रारब्धातिरिक्तकर्माधीनां जन्मान्तरं स्यात्तदा ज्ञानान्मुक्त्यभावः स्यात् / नैतदस्ति / किन्तु बहुजन्मफलाय सकृदुद्भूतं प्रारब्धं ते क्षपयन्ति, जन्मग्रहणे ऽपि ज्ञानयोगबलान्न शोचन्ति प्रारब्धसमाप्तौ मुच्यन्त इत्यर्थः / ज्ञानिनां जन्मान्तरस्य पूर्वजन्महेतुप्रारब्धाधीनतायामलुप्तस्मृतित्वं हेतुः / यो ह्यजातिस्मरत्वे सति कर्मान्तराधीनजन्मान्तरवान्, स लुप्तस्मृतिरिति व्याप्तेः / ज्ञानिषुव्यापकाभावाद्विशिष्टव्याप्याभावसिद्धिः / ननु तेषां जातिस्मरत्वादलुप्तस्मृतित्वमन्यथासिद्धिमित्यत आह-न चैत इति / तथाच तेषामजातिस्मरत्वरूपविशेषणे सति विशेष्याभावादेव विशिष्टाभावसिद्धिरित्यर्थः / पूर्वदेहेनामप्रत्यभिज्ञानहीनाः परतन्त्राः साभिमाना जातिस्मराः, आधिकारिकास्तु पूर्वनामानः स्वतन्त्रा निरभिमाना इति वैषम्यम् / तेन जनकेन सह व्युद्य विवादं कृत्वेत्यर्थः / विदुषः प्रारब्धातिरिक्तकर्माभावान्न बन्धः / निमित्ताभावे नैमित्तिकाभाव इति न्यायानुगृहीतानां ज्ञानान्मुक्तिश्रुतीनां न स्तुतिमात्रत्वमितिममर्थमुपपादयति-यदि ह्युपयुक्त इत्यादिना / श्रुतिस्मृत्युक्तार्थे युक्तिमप्याह-न चाविद्येति / विद्यया क्लेशदाहात्तत्कार्यकर्मक्षयश्चेत्तर्हि प्रारब्धस्य कथं स्थितिः, तत्राह-प्रवृत्तफलस्येति / विदुषो देहपातावधिश्रुतेरनुभवाच्च ज्ञानस्यावरकाज्ञानांशनिवर्तकस्य प्रारब्धविक्षेपस्थित्यनुकूलाज्ञानांशनिवर्तनसामर्थ्याभावसिद्धेर्भोगेनैव प्रारब्धक्षय इति भावः / ज्ञानिनामधिकारिकत्वं कथमित्याशङ्क्य ज्ञानात्प्राक्कृतोपासनादिवशादित्याह-ज्ञानान्तरेषु चेति / प्रतिसंचरो महाप्रलयः, परस्य हिरण्यगर्भस्य, अधिकारान्ते साक्षात्कृतात्मानो मुच्यन्ते इत्यर्थः / ब्रह्मभावफलस्यापि भावित्वमाशङ्क्य तत्त्वमसीति श्रुतिबाधमाह-नहीति /
SK
तस्मान्निर्गुणविद्यायां मार्गानुपसंहार इति सिद्धम्
SK
END Bस्Cओम्_३,३.१९.३२
SK
START Bस्Cओम्_३,३.२०.३३
SK
२० अक्षरध्यधिकरणम् / सू. ३३
SK
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् | BBस्_३,३.३३ |
SK
वाजसनेयके श्रूयते - ऽएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्ऽ (बृ. ३.८.८) इत्यादि / तथाथर्वणे श्रूयते - ऽअथ परा यया तदक्षरमदिगम्यते / यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्ऽ (मु. १.१.५) इत्यादि / तथैवान्यत्रापि विशेषनिराकरणद्वारेणाक्षरं परं ब्रह्मश्राव्यते / तत्र च क्वचित्केचिदतिरिक्ता विशेषाः प्रतिपद्यन्ते / तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिरुत व्यवस्थेति संशये श्रुतिविभागाद्व्यवस्थाप्राप्तावुच्यते - अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः सामान्यतद्भावाभ्याम् - समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः / तदेव च सर्वत्र प्रतिपाद्यं ब्रह्माभिन्नं प्रत्यभिज्ञायते / तत्र किमित्यन्यत्र कृता बुद्धयो ऽन्यत्र न स्युः / तथाच ऽआनन्दादयः प्रधानस्यऽ (ब्र.सू. ३.३.११) इत्यत्र व्याख्यातम् / तत्र विधिरूपाणि विशेषणानि चिन्तितानीह प्रतिषेधरूपाणीति विशेषः / प्रपञ्चार्थश्चायं चिन्ताभेदः / औपसदवदिति निदर्शनम् / यथा जामदग्न्ये ऽहीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रदानमन्त्राणाम् अग्नेर्वेर्हेत्रं वेरध्वरम् इत्येवमादीनामुद्गातृवेदोत्पन्नानामप्यध्वर्युभिरभिसंबन्धो भवति /
SK
अध्वर्युकर्तृत्वातत्पुरोडाशप्रदानस्य प्रधानतन्त्रत्वाच्चङ्गानाम् / एवमिहाप्यक्षरतन्त्रत्वात्तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानामक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः / तदुक्तं प्रथमे काण्डे - ऽगुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगःऽ (जै. सू. ३.३.८) इत्यत्र
SK
अक्षरधियाम् / अत्राक्षरब्रह्मप्रमापका निषेधशब्दा विषयाः, तेषु यत्र यावन्तः श्रुतास्तत्र तावतामशेषद्वैतनिषेधकत्वसंभवासंभवाभ्यां संशयमाह-तासामिति / यथा निर्गुणविद्यायां मार्गस्यानपेक्षितत्वादनुपसंहारस्तथा श्रुतनिषेधानामुपलक्षणतया सर्वद्वैतनिषेधसंभवाच्छाखान्तरीयनिषेधशब्दानामनपेक्षितत्वादनुपसंहार इति दृष्टान्तेन पूर्वपक्षस्तत्र लाघवं फलम् / सिद्धान्ते तु दोषद्वयाभावः फलम् / तथाहि-यदि श्रुतशब्दैरश्रुतनिषेधा लक्ष्यन्ते तदा लक्षणादोषः, यदि न लक्ष्यन्ते तदा सर्वद्वैतनिषेधासिद्धेर्निर्विशेषप्रमित्यभावदोष इति विवेकः / अक्षरे धर्मिणि द्वैतनिषेधधियो ऽक्षरधियस्तद्धेतवः शब्दा इति यावत्, तासामवरोध उपसंहार इति सूत्रयोजना / शेषिब्रह्मणाः सर्वशाखासु भावात्तत्प्रमितेः समानत्वाच्छेषाणामुसंहारः इति चेत्तर्हि न्यायसाम्यात्पुनरुक्तितावदवस्थ्यमित्यत आह-प्रपञ्चार्थ इति / आनन्दादीनां स्वरूपत्वादस्तूपसंहारः निषेधानामनात्मत्वादानन्त्याच्चानुपसंहार इत्यधिकारशङ्कायां तेषामनात्मवे ऽपि निर्विशेषब्रह्मप्रमित्यर्थत्वादविद्यातज्जनिषेधत्वेन संग्रहसिद्धेश्च निरपेक्षास्थूलानणुवाक्यस्थातया कॢप्तनिषेधशब्दानामन्यत्रश्रुतिनिषेधवाक्यैकवाक्यतयोपसंहार इति चिन्ता युक्तेत्यर्थः / अन्यत्रश्रुतशेषाणामन्यत्रस्थशेषिसंबन्धे दृष्टान्तं व्याचष्टे-यथेति / ऽजमदग्निः पुष्टिकामश्चतूरात्रेणायजतऽइत्युपक्रम्य विहितो जमदग्निना कृतो जामदग्न्यः, अहीनश्चतूरात्रः क्रतुस्तस्मिन्पुरोडाशिन्य उपसदो भवन्तीति पुरोडाशसाध्या इष्टयस्तैत्तिरीयके विहिताः, तासामध्वर्युकर्तृकत्वात्सामवेदोत्पन्नमन्त्राणां तात्सु विनियोगादध्वर्युणैव प्रयोगो नोद्गात्रेत्यर्थः / वेर्देवगणस्य होत्रं अध्वरं च कर्माग्नेस्त्वत्त एवेत्यग्न्यामन्त्रणमन्त्रार्थः / उत्पत्तिविधिर्गुणः फलापेक्षत्वादुत्पन्नस्य फले विनियोगविधिर्मुख्यः सफलत्वात् / तथाच मन्त्रणामुद्गातृवेदेत्पन्नत्वादुदेगात्रा प्रयोगः, विनियोगविधनाध्वर्युणा प्रयोग इति गुणमुख्ययोर्व्यतिक्रमे विरोध सति मुख्येन बलीयसा मन्त्रात्मकवेदस्याध्वर्युणा संप्रयोग उत्पत्तेर्विनियोगार्थत्वादिति जैमिनिसूत्रार्थः / यद्यपि शाबरभाष्ये वारवन्तीयादिसाम्नामुच्चैः स्वरकसामवेदोत्पन्नत्वादाधानाङ्गत्वेनोच्चैः स्वरप्रयोगः ऽय एवं विद्वान्वारवन्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायतिऽइत्याधाने तेषां विनियोगविधिना याजुषेण याजुषस्योपांशुस्वरस्य प्रयोग इति गुणमुख्ययोर्विरोधे सत्त्युत्पत्तेर्विनियोगार्थत्वान्मुख्यविनियोगबलेन साम्नां यजुर्वेदस्वरसंयोग इति सूत्रं व्याख्यातं, तथापि न्यायसाम्यादौपसदमन्त्राः सूत्रविषयत्वेनोदाहृता इत्यविरोधः
SK
END Bस्Cओम्_३,३.२०.३३
SK
START Bस्Cओम्_३,३.२१.३४
SK
२१ इयदधिकरणम् / सू. ३४
SK
इयदामननात् | BBस्_३,३.३४ |
SK
ऽद्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते / तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (मु. ३.१.१) इत्यध्यात्माधिकारे मन्त्रमाथर्वमिकाः श्वेताश्वतराश्च पठन्ति / तथा कठाः ऽऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे / छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताःऽ (क. ३.१) इति / किमत्र विद्यैकत्वमुत विद्यानानात्वमिति संशयः / किं तावत्प्राप्तं, विद्यानानात्वमिति / कुतः / विशेषदर्शनात् / द्वा सुपर्णेत्यत्र ह्येकस्य भोक्तृत्वं दृश्यते / एकस्य चाभोक्तृत्वं दृश्यते / ऋतं पिबन्तावित्यत्रोभयोरपि भोक्तृत्वमेव दृश्यते तद्वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति विद्यैकत्वमिति / कुतः - यत उभयोरप्यनयोर्मन्त्रयोरियत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यरूपमभिन्नमामनन्ति /
SK
ननु दर्शितो रूपभेदः /
SK
नेत्युच्यते / उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतो नार्थान्तरम् / द्वा सुपर्णा इत्यत्र तावत् अनश्नन्नन्यो अभिचाकशीति इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते / वाक्यशेषे ऽपि च स एव प्रतिपाद्यम्नो दृश्यते / ऽजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्ऽ (श्वे. ४.७) इति / ऋतं पिबन्तौ इत्यत्र तु जीवे पिबत्यशनायाद्यतीतः परमात्मापि साहचर्याच्छत्रिन्यायेन पिबतीत्युपचर्यते / परमात्मप्रकरणं ह्येतत् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. २.१४) इत्युपक्रमात् / तद्विषय एव चात्रापि वाक्यशेषो भवति ऽयः सेतुरीजानानामक्षरं ब्रह्म यत्परम्ऽ (क. ३.२) इति / ऽगुहां प्रविष्टावात्मानौ हिऽ (ब्र.सू. १.२.११) इत्यत्र चैतत्प्रपञ्चितम् / तस्मान्नास्ति वेद्यभेदस्तस्माच्च विद्यैकत्वम् / अपिच त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यलोचने परमात्मविद्यैवावगम्यते तादात्म्यविवक्षयैव जीवोपादानं नार्थान्तरविवक्षया / नच परमात्मविद्यायां भेदाभेदविचारावतारो ऽस्तीत्युक्तम् / तस्मात्प्रपञ्चार्थ एवैष योगः / तस्माच्चाधिकधर्मोपसंहार इति
SK
इयदामननात् / मन्त्रद्वये ऽपि प्रतिपादनप्रकारभेदात् ज्ञेयैक्यभानाच्च संशयमाह-किमत्रेति /
SK
ऋतपानवाक्ये ऽअक्षरं ब्रह्म यत्परम्ऽइति गुणाः श्रुताः, सुपर्णवाक्ये ऽनश्नत्वादयस्तेषां मिथो ऽनुपसंहार इति पूर्वपक्षफलं, सिद्धान्ते तूपसंहारे ब्रह्मस्वरूपवाक्यार्थैक्यादुपसंहार इति विवेकः / अस्तु वेद्यैक्यादक्षरधियामुपसंहारः / इह तु वेद्यभेदान्नोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः / नन्वयं गुणाधिकरणे निरस्त इति चेत्, सत्यं, किन्तु पिबत्पदस्य मुख्यार्थत्वाय स्वतः कल्पनया च पानकृत्याश्रयौ बुद्धिजीवौ पिबन्तौ ग्राह्यौ, सुपर्णौ तु जीवेश्वराविद्याधिकाशङ्कायां मन्त्रद्वये ऽपि द्विवचनशब्दसामान्यादौत्पत्तिकद्वित्वविशिष्टतया तुल्यवस्तुद्वयप्रत्यभिज्ञानस्य बाधकाभावात्प्रकरणाद्यनुग्रहाच्च जीवानुवादेनासंसारिब्रह्मणि मन्त्रद्वयतात्पर्यमिति प्रपञ्चार्थमिदं सूत्रमिति भावः
SK
END Bस्Cओम्_३,३.२१.३४
SK
START Bस्Cओम्_३,३.२२.३५
SK
२२ अनन्तराधिकरणम् / सू. ३५-३६
SK
अन्तरा भूतग्रामवत्सात्मनः | BBस्_३,३.३५ |
SK
ऽयत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरःऽ (बृ. ३.४.१ - ३.५.१)इत्येवं द्विरुष्स्तकहोलप्रश्नयोर्नैरल्तर्येण वाजसनेयिनः समामनन्ति / तत्र संशयः - विद्यैकत्वं वा स्याद्विद्यानानात्वं वेति / विद्यानानात्वमिति तावत्प्राप्तम् / अभ्याससामर्थ्यात् / अन्यथा ह्यन्यूनानातिरिक्तार्थे द्विराम्नानमर्थकमेव स्यात् / तस्माद्यथाभ्यासात्कर्मभेद एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते प्रत्याह - अन्तराम्नानाविशेषात्स्वात्मनो विद्यैकत्वमिति / सर्वान्तरो हि स्वात्मोभयत्राप्यविशिष्टः पृच्छ्यते च प्रत्युच्यते च / नहि द्वावात्मानावेकस्मिन्देहे सर्वान्तरौ संभवतः / तदा ह्येकस्याञिजसंसर्वान्तरत्वमवकल्प्येत / एकस्य तु भूतग्रामवन्नैव सर्वान्तरत्वं स्यात् / यथाच पञ्चभूतसमूहे देहे पृथिव्या आपोन्तरा अद्भ्यस्तेजो ऽन्तरमिति सत्यप्यापेक्षिके ऽन्तरत्वे नैव मुख्य सर्वान्तरत्वं भवति तथेहापीत्यर्थः / अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति / यथा ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे.
SK
६.११) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्राम्येष्वेक एव सर्वान्तर आत्माम्नायते / एवमनयोरपि ब्राह्मणयोरित्यर्थः / तस्माद्वेद्यैक्याद्विद्यैकत्वमिति
SK
अन्तरा भूतग्रामवत्स्वात्मनः / घटादिकं चिद्विषयत्वेनापरोक्षं, ब्रह्म तु साक्षादविषयत्वेनापरोक्षमिति / प्रथमार्थे पञ्चमि / अत्र श्रुतावात्मधर्मो ऽपरोक्षत्वं ब्रह्मणयुक्तं, ब्रह्मधर्मः सर्वान्तरत्वमात्मन्युक्तं, तेन तयोरैक्यं दृढीकृतं मन्तव्यं, तन्मे व्याचक्ष्वेत्युषस्तप्रश्ने याज्ञवल्क्येन प्राणादिप्रेरको दृष्ट्यादिसाक्षी प्रतिपादितः / तथैव ऽयदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्वऽइति कहोलप्रश्ने ऽशनायाद्यतीतः प्रतिपादितः / तत्र ब्राह्मणद्वये ऽपि प्रश्नादभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशये मन्त्रयोर्वेद्यैक्यादस्तु विद्यैक्यं, इह तु ब्राह्मण्योर्वेद्यैक्ये ऽपि अभ्यासाद्विद्याभेदः, यजत्यभ्यासात्प्रयाजभेदवदिति प्रत्युदाहरणेन पूर्वपक्षः, तत्र मिथो धर्मानुपसंहारः फलं, सिद्धान्ते तूपसंहार इति विवेकः / द्वयोः सर्वान्तरत्वानुपपत्त्या तावद्ब्रह्माणयोरेकवस्तुपरत्वं सिद्धम् / तथाच वेद्यैक्यान्निर्गुणविद्यैक्ये न विवादः
SK
END Bस्Cओम्_३,३.२२.३५
SK
START Bस्Cओम्_३,३.२२.३६
SK
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत् | BBस्_३,३.३६ |
SK
अथ यदुक्तमनभ्युपगम्यमाने विद्याभेद आम्नानभेदानुपपत्तिरिति तत्परिहर्तव्यम् / अत्रोच्यते - नायं दोषः / उपदेशान्तरवदुपपत्तेः / यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके - ऽस आत्मा तत्त्वमसि श्वेकतेतोऽ (छा. ६.८.७) इति नवकृत्वो ऽप्युपदेशे न विद्याभेदो भवत्येवमिहापि भविष्यति / कथं न नवकृत्वो ऽप्युपदेशे विद्याभेदो न भवति / उपक्रमोपसंहाराभ्यामेकार्थतावगमात् / ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. ६.५.४) इति चैकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितव्यत्वेनोपक्षेपात् / आशङ्कान्तरनिराकरणेन चासकृदुपदेशोपपत्तेः / एवमिहापि प्रश्नरूपाभेदात् अतो ऽन्यदार्तम्ऽ (बृ. ३.४.२ - ३.५.१) इति च परिसमाप्त्यविशेषादुपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्यते / ऽयदेव साक्षादपरोक्षाद्ब्रह्मऽ (बृ. ३.५.१) इति द्वितीये प्रश्न एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थमुत्तरत्रानुकृष्यमाणं दर्शयति / पूर्वस्मिन्श्च ब्राह्मणो कार्यकरणव्यतिरिक्तस्यात्मनः सद्भावः कथ्यते / उत्तरस्मिंस्तु तस्यैवाशनायादिसंसारधर्मातीतत्वं कथ्यते / इत्येकार्थतोपपत्तिः / तस्मादेका विद्येति
SK
ननु अन्यथा विद्यैक्याङ्गीकारे अभ्यासानुपपत्तिरिति चेदुच्यते-स एवाभ्यासः कर्मभेदको यो निरर्थकः, इह तूषस्तब्राह्मणोक्तात्मन एवाशनायाद्यत्ययरूपविशेषकथनार्थत्वादभ्यासो ऽन्यथासिद्धो न विद्याभेदक इति समुदायार्थः
SK
END Bस्Cओम्_३,३.२२.३६
SK
START Bस्Cओम्_३,३.२३.३७
SK
२३ व्यतिहाराधिकरणम् / सू. ३७
SK
व्यतिहारो विशिंषन्ति हीतरवत् | BBस्_३,३.३७ |
SK
तथा - ऽतद्यो ऽहं सो ऽसौ यो ऽसौ सो ऽहम्ऽ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः त्वं वा अहमस्मि भगवो देवते ऽहं वै त्वमसिऽ इति / तत्र संशयः - किमिह व्यतिहारेणोभयरूपा मतिः कर्तव्योतैकरूपैवेति / एकरूपैवेति तावदाह / नह्यत्रात्मन ईश्वरेणैकत्वं मुक्त्वान्यत्किञ्चिच्चिन्तयितव्यमस्ति / यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत संसारिणस्तावदीश्वरात्ममीश्वरस्य संसीर्यात्मत्वमिति / तत्र संसारिणस्तावदीश्वरात्मत्व उत्कर्षो भवेदीश्वरस्य तु संसार्यात्मत्वे निकर्षः कुतः स्यात् / तस्मादैकारूप्यमेव मतेः / व्यतिहाराम्नायस्त्वेकत्वदृढीकारार्थ इति / एवं प्राप्ते प्रत्याह - व्यतिहारो ऽयमाध्यानायामनायते इतरवत् / यथेतरं गुणाः सर्वात्मत्वप्रभृतय आध्यानायाम्नायन्ते तद्वत् / तथाहि विशिंषन्ति समाम्नातार उभयोच्चारणेन ऽत्वमहमस्म्यहं च तत्त्वमसिऽ इति / तच्चोभयरूपायां मतौ कर्तव्यायामर्थवद्भवति / अन्यथा हीदं विशेषेणोभयाम्नानमनर्थकं स्यात् / एकेनैव कृतत्वात् /
SK
ननूभयाम्नानस्यार्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेर्निकर्षः प्रसज्येतेत्युक्तम् /
SK
नैष दोषः / ऐकात्म्यस्यैवानेन प्रकारेणानुचिन्त्यमानत्वात् /
SK
नन्वेवं सति स एवैकत्वदृढीकार आपद्येत / न वयमेकत्वदृढीकारं वारयामः / किं तर्हि व्यतिहारेणेह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यान्नैकरूपेत्येतावदुपपादयामः / फलतस्त्वेकत्वमपि दृढीभवति / यथाध्यानार्थो ऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिद्ध्यति तद्वत् / तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषय उपसंहर्तव्यो भवतीति
SK
FN: जीवेशयोर्मिथो विशेषणविशेश्याभावो व्यतिहारः /
SK
व्यतिहारः / जीवेशयोर्मिथो विशेषणविशेष्यभावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृष्टदृष्टिर्निकृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यतिहारश्रुतिस्तु तस्या एव दृढीकरणार्थत्वेनाभ्यासवदन्यथासिद्धेति दृष्टान्तेन पूर्वपक्षः / तत्र लाघवं फलं लिद्धान्ते तु श्रुत्यर्थवत्त्वमिति विवेकः / एकेनैव त्वमहमस्मीत्युच्चारणेनैकत्वमतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः / उक्तदोषं स्मारयति-नन्विति / संदिग्धेर्ऽथे न्यायः सावकाशः, इह तु श्रुतत्वादन्योन्यात्मत्वं, ध्येयं, ब्रह्मणि मनोमयत्वादिवज्जीवात्मत्वस्य ध्यानार्थमारोपे ऽपि निकर्षप्रसक्त्यभावादिति परिहरति-नैष दोष इति / ब्रह्मणि निकर्षं हित्वा जीवतादात्म्यध्याने मदुक्तमेवागतमिति शङ्कते-नन्वेवमिति / मतेर्द्विरूपत्वं त्वदनुक्तमस्माभिरुच्यते ध्यानपरं वाक्यमिदमेकत्वं तु मानान्तराविरोधात्सिध्यतीति समाधत्ते-न वयमिति / अहङ्ग्रहोपास्तिष्वयं व्यतिहार उपसंहर्तव्य इत्याह-तस्मादिति
SK
END Bस्Cओम्_३,३.२३.३७
SK
START Bस्Cओम्_३,३.२४.३८
SK
२४ सत्याद्यधिकरणम् / सू. ३८
SK
सैव हि सत्यादयः | BBस्_३,३.३८ |
SK
ऽस यो हैतं महद्यक्षं प्रथमजं वेद ब्रह्मऽ (बृ. ५.४.१) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधायानन्तिमाम्नायते - ऽतद्यत्तत्सत्यमसो स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ. ५.५.२) इत्यादि / तत्र संशयः -ऽ किं द्वे एते सत्यविद्ये किंवैकैवेति / द्वे इति तावत्प्राप्तम् / भेदेन हि फलसंयोगो भवति जयतीमांल्लोकान्ऽ (बृ. ५.४.१२) इति पुरस्तात् / हन्ति पाप्मानं जहाति च (बृ. ५.५.३,४) इत्युपरिष्चात् / प्रकृताकर्षणं तूपास्यैकत्वादिति / एवं प्राप्ते ब्रूमः - एकैवेयं सत्यविद्येति / कुतः - ऽतद्यत्तत्सत्यम्ऽ (बृ. ५.५.२) इति प्रकृताकर्षणात् /
SK
ननु विद्याभेदे ऽपि प्रकृताकर्षणमुपास्यैकत्वादुपपद्यत इत्युक्तम् /
SK
नैतदेवम् / यत्र तु विस्पष्टात्कारणान्तराद्विद्याभेदः प्रतीयते तत्रैतदेवं स्यात् / अत्र तूक्षया संभवे तद्यत्तत्सत्यमिति प्रकृताकर्षणात्पूर्वविद्यासंबद्दमेव सत्यमुत्तरत्राकृष्यत इत्येकविद्यात्वनिश्चयः / यत्पुनरुक्तं फलान्तरश्रवणाद्विद्यान्तरमिति / अत्रोच्यते - तस्योपनिषदहरहमिति चाङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः / अपिचार्थवादादेव फले कल्पयितव्ये सति विद्यैकत्वे चावयवेषु श्रूयमाणानि बहून्यपि फलान्यवयविन्यामेव विद्यायामुपसंहर्तव्यानि भवन्ति / तस्मात्सैवेयमेका सत्यविद्या तेन तेन विशेषणोपेताम्नातेत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेव प्रयोग उपसंहर्तव्याः / केचित्पुनरस्मिन्सूत्र इदं च वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यं, छान्दोग्ये च - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा. १.६.६) ऽअथ य एषो ऽक्षिणि पुरुषो दृश्यतेऽ (छा. ४.१५.१) इत्युदाह-त्य सैवेयमक्ष्यादित्यपुरुषविषया विद्योभयत्रैकैवेति कृत्वा सत्यादीन्गुणान्वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान्मन्यन्ते / तन्न साधु लक्ष्यते / छान्दोग्ये हि ज्योतिष्टोमकर्मसमबन्धिनीयमुद्गीथव्यपाश्रया विद्या विज्ञायते तत्र ह्यदिमध्यावसानेषु हि कर्मसंबन्धचिह्नानि भवन्ति ऽइयमेवर्गग्निः सामऽ (छा. १.६.१) इत्युपक्रमे, ऽतस्यर्क्क साम च गेष्णौ तस्मादुद्गीथःऽ (छा. १.६.८) इति मध्ये, ऽय एवं विद्वान्साम गायतिऽ (छा. १.७.९) इत्युपसंहारे / नैवं वाजसनेयके किञ्चित्कर्मसंबन्धि चिह्नमस्ति / तत्र प्रक्रमभेदाद्विद्याभेदे सति गुण्यवस्थैव युक्तेति
SK
FN: गेष्णौ गायकौ / तस्मादृक्सामगेष्णत्वात् /
SK
सैव हि सत्यादयः / स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः / सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्यस्थमक्षरमनृतमुभयतः सत्येन संपुटितत्वात्सत्त्यप्रायमेव भवतीति नामाक्षरोपासना सत्यविद्याङ्गत्वेनोक्ता / यत्तत्पूर्वप्रकृतं हृदयाख्यं तत्संप्रत्युक्तयक्षत्वादिगुणकं, सो ऽसावादित्यमण्डले ऽक्षिणि च पुरुषस्तस्याहरित्यहमिति च नामद्वयज्ञानात्पापक्षयः फलमित्यर्थः / अत्र पूर्वोत्तरवाक्ययोः फलभेदश्रुतेः प्रकृताकर्षणाच्च संशयमाह-तत्रेति / पूर्वपक्षे गुणानां व्यवस्थयानुष्ठानं, सिद्धान्ते त्वनुष्ठानैक्यमिति फलम् / यथा जीवेशयोरन्येन्यात्मत्वश्रुतिभेदान्मतिद्वैरूप्यमुक्तं, तथात्र फलश्रुतिभेदाद्विद्याभेद इति दृष्टान्तेन पूर्वपक्षयति-द्वे इति / विशेष्यब्रह्ममात्राकर्षणमयुक्तं, तद्यत्तदिति सर्वनामभिः पूर्वोक्तगुणविशिष्टं ब्रह्म आकृष्यादित्याक्षिस्थानादिगुणविधानात्, तथाच वाक्यादेव विद्यैक्यसिद्धिरिति सिद्धान्तयति-एकैवेति / यथा दहरशाण्डिल्यविद्ययोर्ब्रह्मैक्यप्रत्यभिज्ञानमात्रं तथात्र नेत्याह-नैतदिति / कारणान्तरं प्रकरणभेदादिकम् / एवं विद्याभेदे ऽप्येतदुपास्यैक्यज्ञानं स्यादत्र तूभयथासंभवे विद्यैक्यनानात्वसंशये सत्यमित्युपास्यरूपैक्यज्ञानाद्विद्यैक्यनिश्चय इत्यक्षरार्थः / असत्यपवादकारणे रूपैक्याद्विद्यैक्योत्सर्गसिद्धिर्न च फलभेदादपवादः / अङ्गे फलश्रुतेः श्रुतिमात्रतया फलभेदासिद्धिरित्याह-यत्पुनरित्यादिना / किञ्च यत्र प्रधानविधावेवङ्काम इति फलं श्रुतं, तत्र प्रधानफलेनैवाङ्गानां फलाकाङ्क्षानिवृत्तेरङ्गे फलश्रुतेः स्तुतिमात्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधानविद्याविधिस्थत्वं लोकजयफलस्याभ्युपेत्यास्माभिर्नामरूपाङ्गस्य फलश्रुतेः स्तुतित्वमुक्तम् / वस्तुतस्तु प्रधानविधावप्येवङ्कामपदाभावाद्रात्रिसत्रन्यायेन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुतत्वाविशेषाज्जातेष्टिफलन्यायेन समुच्चित्यैकप्रधानफलत्वभेदो ऽसिद्ध इत्याह-अपिचेति / सूत्रं योजयति-तस्मादिति / एकदेशिव्याख्यामुद्भाव्य दूषयति-केचिदित्यादिना / छान्दोग्ये कर्माङ्गोद्गीथे हिरण्यमयपुरुषदृष्टिरित्यत्र लिङ्गमाह-तत्रेति / पृथिव्यग्न्यात्मना दृष्टे ऋक्सामे गेष्णौ, तस्मादृक्सामगेष्णत्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्मफलसमृद्धिसमर्थ इति श्रुत्यर्थः / सत्यविद्या तु न कर्माङ्गश्रितेत्याह-नैवमिति /
SK
अङ्गविद्यातः स्वतन्त्रहिरण्यगर्भविद्याया भेदान्न गुणोपसंहार इत्यर्थः
SK
END Bस्Cओम्_३,३.२४.३८
SK
START Bस्Cओम्_३,३.२५.३९
SK
२५ कामाद्यधिकाराधिकरमम् / सू. ३९
SK
कामादीतरत्र तत्र चायतनादिभ्यः | BBस्_३,३.३९ |
SK
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः (छा. ८.१.१) इति प्रस्तुत्य छन्दोगा अधीयते ऽएष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पःऽ (छा. ८.१.५) इत्यादि / तथा वाजसनेयिनः - स वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु य एषो ऽन्तर्हदय आकाशस्तस्मिञ्छेते सर्वस्य वशी (बृ. ४.४.२२) इत्यादि / तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये विद्यैकत्वमिति / तत्रेदमुच्यते - कामादीति / सत्यकामादित्यर्थः / यथा देवदत्तो दत्तः सत्यभामा भामेति / यदेतच्चान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुलभ्यते तदितरत्र वाजसनेयके वशित्वाद्युपलभ्यते तदपीतरत्र छान्दोग्ये एष आत्मापहतपाप्मा (छा. ८.१.५) इत्यत्र संबध्यते / कुतः - आयतनादिसामान्यात् /
SK
समानं ह्युभयमत्रापि हृदयमातनं समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनमित्येवमादि बहु सामान्यं दृश्यते /
SK
ननु विशेषो / ञपि दृश्यते छान्दोग्ये हृदयाकाशस्य गुणयोगो वाजसनेयके त्वाकाशाश्रयस्य ब्रह्मण इति /
SK
न / ऽदहर उत्तरेभ्यःऽ (ब्र.सू. १.३.१४) इत्यत्र छान्दोग्ये ऽप्याकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् / अयं त्वत्र विद्यते विशेषः / सगुणा हि ब्रह्मविद्या छान्दोग्य उपदिश्यते ऽअथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्ऽ (छा. ८.१.६) इत्यात्मवत्कामानमपि वेद्यत्वश्रवणात् / वाजसनेयके तु निर्गुणमेव परं ब्रह्मोपदिश्यमानं दृश्यते ऽअत ऊर्ध्वं विमोक्षाय ब्रूहिऽ (बृ. ४.३.१४) असङ्गो ह्ययं पुरुषः (बृ. ४.३.१५) इत्यादिप्रश्नप्रतिवचनसमन्वयात् / वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीर्त्यते / तथाचोपरिष्टात् ऽस एष नेति नेत्यात्माऽ (बृ. ३.९.२६) इत्यादिना निर्गुणमेव ब्रह्मोपसंहरति / गुणवतस्तु ब्रह्मण एकत्वाद्विभूतिप्रदर्शनायायं गुणोपसंहारः सूत्रितो नोपासनायेति द्रष्टव्यम्
SK
कामादीतरत्र / सगुणनिर्गुणविद्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एकत्वाद्गुणसांकर्ये ऽप्यत्र विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान्निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्चानुपसंहार इति बहिरेव प्राप्ते सिद्धान्तयति-तत्रेदमित्यादिना / एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह-गुणवतस्त्विति /
SK
भिन्नाविद्यास्थानामपि गुणानामायतनादिसाम्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्यर्थमुपसंहारो युक्तः, ज्ञानस्तुतिप्रकर्षस्याकाङ्क्षितत्वात्, यत्र क्वचिद्दृष्टगुणैः स्तुतेः कर्तुं योग्यत्वात् / यद्यपि सगुणस्थसत्यकामादिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोपसंहारोक्तेर्वैयर्थ्यं निर्गुणस्तावकत्वेन श्रुतगुणानामन्यत्राप्यध्येयत्वमिति शङ्कनिरासेनान्तर्भावदार्ढ्यात्वादित्यनवद्यम्
SK
END Bस्Cओम्_३,३.२५.३९
SK
START Bस्Cओम्_३,३.२६.४०
SK
२६ आदराधिकरणम् / सू. ४०-४१
SK
आदरादलोपः | BBस्_३,३.४० |
SK
छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणस्य स्वाहाऽ (छा. ५.१९.१) इत्यादि / तत्र पञ्च प्राणाहुतयो विहिताः / तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ऽय एतदेवं विद्वानग्निहोत्रं जुहोतिऽ (छा. ५.२४.२) इति ऽयथेह क्षुधिता बाला मातरं पर्युपासते / एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽ (छा. ५.२४.५) इति च / तत्रेदं विचार्यते - किं भोजनलोपे लोपः प्राणाग्निहोत्रस्योतालोप इतै / तद्यद्भवति भक्तागमनसंयोगश्रवणाद्भक्तागमनस्य च बोजनार्थत्वाद्भोजनलोपे लोपः प्राणाग्निहोत्रस्येति / एवं प्राप्ते न लुप्येतेति तावदाह / कस्मात् / आदरात् / तथाहि वैश्वारविद्यायामेव जाबालानां श्रुतिः - ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात् / यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्ऽ इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्र आदरं करोति / या हि न प्राथम्यलोपं सहते नेतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहतेति मन्यते /
SK
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रथितः /
SK
न / तस्य द्रव्यविशेषविधानार्थत्वात् / प्राकृते ह्यग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वादिहाप्यग्निहोत्रशब्दात्कौण्डपायिनामयनवत्तद्धर्मप्राप्तौ सत्यां भक्तद्रव्यैकतागुणविशेषविधानार्थमिदं वाक्यं तद्यद्भक्तमिति / अतो गुणलोपे न मुख्यस्येत्यें प्राप्तम् / भोजनलोपे ऽप्यद्भिर्वान्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति
SK
आदरादलोपः / अत्र यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह-तत्रेदं विचार्यत इति / वैश्वानरोपासकेनातिथिभोजनात्प्राक्कार्यात्वेन विद्याङ्गप्राणाग्निहोत्रविचारात्पादसंगतिः / पूर्वपक्षे भोजनलोपे ऽपि द्रव्यान्तरेण प्राणाग्निहोत्रानुष्ठानं, सिद्धान्ते तल्लेप इति भेदः / ननु यद्भक्तमिति यच्छब्देन भोजनाक्षिप्तं भक्तमनूद्य यद्धोमीयमिति होमसंयोगविधिनादाक्षेपकभोजनलोपे तदाक्षिप्तभक्ताश्रितहोमलोप इति सिद्धान्ती शङ्कते-तद्यदिति / निर्गुणस्योपास्तिलोपे ऽपि स्तुत्यर्थगुणस्थैर्यवद्भोजनलोपे ऽपि प्राणाग्निहोत्रस्यादरेण स्तुतिनिर्वाहार्थमलोप इति दृष्टान्तेन पूर्वपक्षसूत्रेण परिहरति-एवं प्राप्त इति / एवं तदिति स्वयं प्राणाग्निहोत्रमकृत्वातिथीनां तत्करणमित्यर्थः / उक्तं स्मारयित्वा परिहरति-नन्वित्यादिना /
SK
यथा कुण्डपायिसत्रगते मासाग्निहोत्रे ऽग्निहोत्रशब्दाद्गौणान्नित्याग्निहोत्रवाचकान्नित्याग्निहोत्रधर्माणां पयोद्रव्यादीनां प्राप्तिस्तथेहापि प्राणाहुतिष्वग्निहोत्रशब्दवशात्पयोद्रव्यादीनामुत्सर्गतः प्राप्तौ सत्यां भोजनार्थभक्तद्रव्यविधिनापवादः कृतः, अतो भक्तविधेरपवादार्थत्वाद्भोजनलोपे भक्ताख्यगुणस्याङ्गस्य लोपे ऽपि न मुख्यस्याग्निहोत्रस्य लोपः, अपवादाभावे उत्सर्गप्राप्तपयादिना तस्य निष्पत्तिसंभवादिति प्राप्तमित्यर्थः / ऽगुणलोपे न मुख्यस्यऽइति जैमिनिसूत्रम् / आधाने सन्ति पवमानेष्ट्यस्तत्राग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदिति निर्वापः श्रुतस्तदङ्गत्वेनाग्निहोत्रहवण्यां हवींषि निर्वपेदिति दर्शपूर्णामासाख्यप्रकृतौ विहिताग्निहोत्र हवण्यतिदेशेन प्राप्त आधानकाले चाग्निहोत्राभावात्तस्या गुणभूताया लोपे ऽपि मुख्यस्य निर्वापस्य न लोप इत्यर्थः / आरब्धनित्यादिकर्मणो ऽवश्यानुष्ठेयत्वाच्छ्रुतद्रव्यालाभे प्रतिनिहितद्रव्येणापि कर्म कर्तव्यमिति प्रतिनिधिन्यायः
SK
END Bस्Cओम्_३,३.२६.४०
SK
START Bस्Cओम्_३,३.२६.४१
SK
अत उत्तरं पठति -
SK
उपस्थिते ऽतस्तद्वचनात् | BBस्_३,३.४१ |
SK
उपस्थिते भोजने ऽतस्तस्मादेव भोजनद्रव्यात्प्रथमोपनिपतितात्प्राणाग्निहोत्रं निर्वर्तयितव्यम् / कस्मात् / तद्वचनात् / तथाहि - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्ऽ (छा. ५.१९.१) इति / सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति / ता अप्रयोजकलक्षणापन्नाः सत्यः कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः / नचात्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति / कुण्डपायिनामयने हि मासाग्निहोत्रं जुहोतीति विध्युद्देशगतो ऽग्निहोत्रशब्दस्तद्वद्भावं विदापयेदिति युक्ता तद्धर्मप्राप्तिः / इह पुनरर्तवादगतो ऽग्निहोत्रशब्दो न तद्वद्भावं विधापयितुमर्हति / तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामग्न्युद्धरणादयोष-पि प्राप्येरन् / नचास्ति संभवः / अग्न्युद्धरणं तावद्धोमाधिकरमभावाय / नचायमग्नौ होमो भोजनार्थताव्याघातप्रसङ्गात् / भोजनोपनीतद्रव्यसंबन्धाच्चास्य एवैष होमः / तथाच जाबालश्रुतिः पूर्वो ऽतिथिभ्यो ऽश्नीयादित्यास्याधारामेवेमां होमनिर्वत्तिं दर्शयति / अत एव चेहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति - ऽउर एव वेदिर्लोमानि बहुर्हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यमाहवनीयःऽ (छा. ५.१८.२) इति / वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या / मुख्याग्निहोत्रे वेद्याभावात् / तदङ्गानां चेह संपिपादयिषितत्वात् / भोजनेनैव च कृतकालेन संयोगान्नाग्निहोत्रकालावरोधसंभवः / एवमन्ये ऽप्युपस्थानादयो धर्माः केचित्कथञ्चिद्विरुध्यन्ते / तस्माद्भोजनपक्ष एवैते मन्त्रद्रव्यदेवतासंयोगात्पञ्च होमा निर्वर्तयितव्याः / यत्त्वादरदर्शनवचनं तद्भोजनपक्षे प्राथम्यविधानार्थम् / नह्यस्ति वचनस्यातिभारः / न त्वनेनास्य नित्यता शक्यते दर्शयितुम् / तस्माद्भोजनलोप एव प्राणाग्निहोत्रस्येति
SK
सिद्धान्तयति-उपस्थिते ऽतस्तद्वचनादिति / तद्धोमीयमिति तच्छब्देन भोजनार्थसिद्धभक्तमाश्रित्य होमविधानादित्यर्थः / सिद्धवद्भक्तोपनिपातः प्रकृतभक्तागमनं, तस्य तच्छब्देन परामर्शेनेत्यर्थः / आश्रित्य विहिताहुतीनामाश्रयलोपे लोप एव न द्रव्यान्तराक्षेपकत्वं, यथा क्रतुप्रयुक्तात्प्रणयनाश्रितस्य गोदोहनस्य क्रतुलोपे लोपे न त्वाश्रयान्तरप्रयोजकत्वं तथेति फलितमाह-ता इतियदुक्तमग्निहोत्रशब्दाद्द्रव्यान्तरप्राप्तिरिति, तत्राह-न चात्रेति / तद्वद्भावो नित्याग्निहोत्रसादृश्यमर्थवादस्थशब्दस्य स्तुतित्वेनोपपत्तेरित्यर्थः / धर्मप्रापकत्वे दोषमाह-तद्धर्मप्राप्तौ चेति / अव एवेति तद्धर्मप्राप्त्यभावादेवेत्यर्थः / प्राप्तौ संपादनं वृथा स्यादिति भावः / मुख्याग्निहोत्राङ्गानि संपाद्यन्ते चेत्कथं तदनङ्गं वेदिरत्र संपाद्यते तत्राह-वेदिश्रुतिश्चेति / मुख्याग्निहोत्रस्याग्न्युद्धरणवत्सायंप्रातःकालद्वयस्यापि न प्राप्तिरिति-भोजनेनेति / उपस्थानपरिस्तरणादयो ऽप्यग्न्यभावान्न प्राप्नुवन्तीत्याह-एवमिति / यस्मात्तद्धर्मप्राप्त्यभावस्तस्माद्भोजनद्रव्येणैव होम इत्युसंहारः / प्राणाय स्वाहा इत्यादयो मन्त्राः / ननु स्वामिभोजनस्योत्तरकालत्वं श्रुत्यादिविहितं कथं पूर्वो ऽतिधिभ्यो ऽश्नीयादितिवचने बाध्यते तत्राह-न ह्यस्तीति / उपासकान्यस्वामिविषयमुत्तरकालत्वविधानमित्यर्थः / न त्विति प्राथम्यमात्रेणेत्यर्थः / प्राणोपासकस्य प्राप्ते भोजने प्राथम्यार्थतयादरस्यान्यथासिद्धौ फलितमाह-तस्मादिति
SK
END Bस्Cओम्_३,३.२६.४१
SK
START Bस्Cओम्_३,३.२७.४२
SK
२७ तन्निर्धारणाधिकरणम् / सू. ४२
SK
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् | BBस्_३,३.४२ |
SK
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि - ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. १.१.१) इत्येवमादीनि / किं तानि नित्यान्येव स्युः कर्मसु पर्णमयीत्वादिवदुतानित्यानि गोदोहनादिवदिति विचारयामः / किं तावत्प्राप्तं - नित्यानीति / कुतः - प्रयोगवचनपरिग्रहात् / अनारभ्याधीतान्यपि ह्येतान्युद्गीथादिद्वारेण क्रतुसंबन्धात्क्रतुप्रयोगवचनेनैवाङ्गान्तरवत्संस्पृश्यन्ते / यत्त्वेषां स्ववाक्येषु फलश्रवणम् ऽआपयिता ह वैकामानां भवतिऽ (छा. १.१.७) इत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेवापापश्लोकश्रवणादिवन्न फलप्रदानम् / तस्माद्यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति इत्येवमादीनामप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात्प्रकरणपठितवन्नित्यतैवमुद्गीथाद्युपासनानामपीति / एवं प्राप्ते ब्रूमः - तन्निर्धारणनियम इति / यान्येतान्युद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतम आप्तिः समृद्धिर्मुख्यप्राण आदित्य इत्येवमादीनि नैतानि नित्यवत्कर्मसु नियम्येरन् / कुतः - तद्दृष्टेः / तथाह्यनियतत्वमेवञ्जातीयकानां दर्शयति श्रुतिः - ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा. १.११०) इत्यविदुषो ऽपि क्रियाभ्यनुज्ञानात् / प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्सनात् ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसिऽ (छा. १.१०.९) ऽतां चेदविद्वानुद्गास्यसिऽ (छा. १.१०.१०) ऽतां चेदविद्वान्प्रतिहरिष्यसिऽ (छा. १.१०.११) इति च / अपि चैवञ्जातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलमुपलभ्यते कर्मफलसिद्धिद्द्यप्रतिबन्धस्तत्समृद्धिरतिशयविशेषः कश्चित् ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद / नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. १.१.१०) इति / तत्र नाना त्विति विद्वदविद्वत्प्रयोगयोः पृथक्करणाद्वीयर्वत्तरमिति च तरप्प्रत्ययप्रयोगाद्विद्याविहीनमपि कर्मविर्यवदिति गम्यते / तच्चानित्यत्वे विद्याया उपपद्यते / नित्यत्वे तु कथं तद्विहीनं कर्मविर्यवदित्यनुज्ञायेत / सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः / तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते ऽकल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चऽ (छा. २.२.३) इत्येवमादीनि, नचेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् / तथाहि गुणवाद आपद्येत / फलोपदेशे तु मुख्यवादोपपत्तिः / प्रयाजादिषु त्वितिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात्तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् / तथानारभ्याधीतेष्वपि पर्णमयीत्वादिषु / नहि पर्णमयीत्वादीनामक्रियात्मकानामाश्रयमन्तरेण फलसंबन्धो ऽवकल्पते / गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः / तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः / नतु पर्णमयीत्वादिष्वेवंविधः कश्चिदाश्रयः प्रकृतो ऽस्ति / वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फले ऽपि विधिं विवक्षतो वाक्यभेदः स्यात् / उपासनानां तु क्रियात्मत्वाद्विशिष्टविधानोपपत्तेरुद्गीथाद्याश्रयाणां फले विदानं न विरुध्यते / तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यान्येवमुद्गीथाद्युपासनान्यपीति द्रष्टव्यम् / अत एव च कल्पसूत्रकारा नैवञ्जातीयकान्युपासनानि क्रतुषु कल्पयाञ्चक्रुः
SK
तन्निर्धारणा / उभयथा दृष्टान्तदर्शनात्संशयमाह-किं तानीति / यथानाराभ्याधीतपर्णमयीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथाङ्गाश्रितोपासनान्युद्रीथादिद्वाराङ्गतया नित्यानि, उत क्रत्वङ्गाप्प्रणयनश्रयो गोदोहनसंयोगः पशुफलार्थत्वादनित्यत्वेन यथा प्रयुज्यते यथा वा पश्वङ्गयूपाश्रयं बैल्वत्वमन्नाद्यफलत्वादनित्यं तथा कर्मसमृद्यादिफलकत्वादुपासनान्यनङ्गत्वेनानित्यानीति संशयार्थः / पूर्वपक्षे उपासनानां प्रयोगनित्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः / अनित्यभोजनाश्रयप्राणाग्निहोत्रस्यानित्यत्ववन्नित्यकर्माङ्गोपास्तीनां नित्यत्वमिति प्रत्युदाहरणदृष्टान्तेन पूर्वपक्षमाह-किं तावदिति / उपासनानि कर्माङ्गानि, अफलत्वे सति कर्माङ्गाश्रितत्वात्पर्णमयीत्वादिवत् / तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-यानीत्यादिना / उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्मयं रसतमत्वादिकं तन्निर्धारणान्युपासनानि यानि तानि कर्मसु नित्यपर्णमयीत्वादिवन्न नियम्येरन्नित्यर्थः / एषां कर्माङ्गत्वे तद्धीनस्याविदुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषो ऽपि कर्मकर्तृत्वश्रुतिलिङ्गैरङ्गत्वानुमानबाध इत्याह-तद्दृष्टेरिति / तस्यानियमस्य दर्शनादित्यर्थः / तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रायणेनर्त्विजामाक्षिप्तत्वादनुपासकानामपि कर्मप्रयोगो ऽस्तीत्याह-प्रस्तावादीति / उपास्तीनां कर्मफलात् पृथक्फलश्रुतेर्न कर्माङ्गत्वमित्याह-अपिचेति / तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तु विद्याविद्ययोर्नानात्वं भिन्नफलत्वम् / दृष्टं हि मणिविक्रये ज्ञानाज्ञानाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्ययोद्गीथाद्युपास्त्या श्रद्धयास्तिक्यबुद्ध्योपनिषदा रहस्यदेवताध्यानेन करोति तदेव कर्म फलातिशयवदित्यर्थः / कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः / साम्नि लोकादिदृष्ट्युपासनेषु कर्मसमृद्यतिरिक्तलोकादिफलश्रुतेश्च नाङ्गत्वमित्याह-तथेति / अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अधस्तनाश्चेत्यर्थः / तथाहि गुणवाद इति / फलश्रुतेरर्थवादमात्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् /
SK
प्रयाजानुयाजकर्मणां तु प्रकरणाद्दर्शाद्यङ्गत्वलाभाद्भातृव्याभिभूतिफलश्रुतेरगत्या स्तुतिलक्षकत्वं, यद्यपि पर्णमयीत्वादीनामङ्गत्वबोधकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषामक्रियात्वेन क्रियासंबन्धं विना फलहेतुत्वानुपपत्तेरतस्तेषां फलार्थं क्रियापेक्षित्वात्क्रतोश्च जुहूप्रकृतिद्रव्याकाङ्क्षित्वात् पर्णमयी जुहूरित्यादिवाक्येनैव प्रकृतिद्रव्यार्पकेण जुहूद्वारा संनिहितक्रत्वङ्गत्वसिद्धेर्युक्तं फलश्रुतेरर्थवादत्वमिति भावः / अक्रियात्मकगोदोहनादेरपि फलश्रुतिरर्थवादः स्यादत आह-गोदोहनादीनां हीति / यदपः प्रणयेत्तत् पशुकामस्य सतो गोदोहनेन ब्रह्मवर्चसकामस्य कंस्न्येति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्वनाकाङ्क्षितत्वेनाङ्गत्वाभावात्, चमसेन निराकाङ्क्षक्रियासंबन्धितया स्वफलसाधकत्वसंभवात् / तथा खादिरत्वेन निराकाङ्क्षक्रत्वङ्गयूपमाश्रित्य बैल्वमन्नाद्यकामस्य खादिरं वीर्यकामस्येति फलार्थविधिरेवार्थः / पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह-न त्विति / एवंविधो यूपादिवन्निराकाङ्क्ष इत्यर्थः / जुहुरेवाश्रय इत्यत आह-वाक्येनेति / जुह्वाः प्रकृतिद्रव्यापेक्षित्वादनेनैव वाक्येन क्रत्वङ्गतया जुहूप्रकृतिद्रव्यसंबन्धो विधेयः पश्चान्निराकाङ्क्षजुहूमाश्रित्य तस्यैव प्रकृतिद्रव्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः / पर्णतादिवैलक्षण्यमुपासनानामाह-उपासनानां त्विति /
SK
स्वयं क्रियात्वाद्यागादिवत्फलविशिष्टत्वेन विधानोपपत्तिरित्यर्थः / तस्मादिति अङ्गत्वावेदकमानाभावादित्यर्थः / अत एवेति अनङ्गत्वादेवेत्यर्थः / तस्मादङ्गोपास्त्यभावे ऽपि कर्माधिकार इति सिद्धम्
SK
END Bस्Cओम्_३,३.२७.४२
SK
START Bस्Cओम्_३,३.२८.४३
SK
२८ प्रदानाधिकरणम् / सू. ४३
SK
प्रदानवदेव तदुक्तम् | BBस्_३,३.४३ |
SK
वाजसनेयके - ऽवदिष्याम्येवाहमीति वाग्दध्रेऽ (बृ. १.५.२१) इत्यत्राध्यात्मं वागादीनां श्रेष्ठो ऽवधारितो ऽधिदैवतमग्न्यादीनां वायुः तथा छान्दोग्ये - ऽवायुर्वाव संवर्गःऽ (छा. ४.३.१) इत्यत्राधिदैवतमग्न्यादीनां वायुः सर्ङ्गो ऽवधारितः ऽप्राणो वाव संवर्गःऽ (छा. ४.३.२) इत्यत्राध्यात्मं वागादीनां प्राणः /
SK
तत्र संशयः - किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्यातामपृथग्वेति / अपृथगेवेति तावत्प्राप्तं तत्त्वभेदात् / नह्यभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् / दर्शयति च श्रुतिरध्यात्ममधिदैवतं च तत्त्वाभेदम् - ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ. २.४) इत्यारभ्य / तथा ऽत एते सर्व एव समाः सर्वो ऽनन्ताःऽ (बृ. १.५.१३) इत्याध्यात्मिकानां प्रामानामाधिदैविकीं विबूतिमात्मभूतां दर्शयति / तथान्यत्रापि तत्र तत्राध्यात्ममधिदैवतं च बहुधा तत्त्वभेददर्शनं भवति / क्वचिच्च ऽयः प्राणः स वायुः इति स्पष्टमेव वायुं प्राणं चैकं करोति / तथोदाहृते ऽपि वाजसनेयिब्राह्मणे यतश्चेदेति सूर्यः (बृ. १.५.२३) इत्यस्मिन्नुपसंहारश्लोके ऽप्राणाद्वा एष उदेति प्राणे ऽस्तमेतिऽ (बृ. १.५.२३) इति प्राणेनैवोपसंहरन्नेत्वं दर्शयति / तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापायान्याच्चऽ (बृ. १.५.२३) इति च प्राणव्रतेनैकेनोपसंहरेन्नेतदेव द्रढयति / तथा छान्दोग्ये ऽपि परस्तात् ऽमहात्मनश्चतुरो देव एकः कः स जागर भुवनस्य गोपाःऽ (छा. ४.३.६) इत्येकमेव संवर्गं गमयति न ब्रवीत्येक एकेषां चतुर्णां संवर्गो ऽपरो ऽपरेषामिति / तस्मादपृथक्त्वमुपगमनस्येति / एवं प्राप्ते ब्रूमः - पृथगेव वायुप्राणावुपगन्तव्याविति / कस्मात् / पृथगुपदेशात् / आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेशः सो ऽसत्याध्यानपृथक्त्वे ऽनर्थक एव स्यात् /
SK
ननूक्तं न पृथगनुचिन्तनं तत्त्वाभेदादिति /
SK
नैष दोषः / तत्त्वाभेदे ऽप्यवस्थाभेदादुपदेशभेदवशेनानुचिन्तनभेदोपपत्तेः / श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणाप्युपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् / ऽस यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुःऽ (बृ. १.५.२२) इति चोपमानोपमेयकरणात् / एतेन व्रतोपदेशो व्याख्यातः / ऽएकमेव व्रतम्ऽ (बृ. १.५.२३) इति चैवकारो वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः / भग्नव्रतानि हि वागादीन्युक्तानि ऽतानि मृत्युः श्रमो भूत्वोपयेमेऽ (बृ. १.५.२१) इति श्रुतेः / ऽन वायुव्रतनिवृत्त्यर्थः अथातो व्रतमीमांसाऽ (बृ. १.५.२१) इति प्रस्तुत्य तुल्यवद्वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् / ऽएकमेव व्रतं चरेत्ऽ (बृ. १.५.२३) इति चेक्त्वा ऽतेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति (बृ. १.५.२३) इति वायुप्राप्तिं फलं ब्रुवन्वायुव्रतमनिवर्तितं दर्शयति / द्वतेत्यत्र वायुः स्यादपरिच्चिन्नात्मकत्वस्य प्रेप्सितत्वात् / पुरस्तात्प्रयोगाच्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ. १.५.२२) इति / तथा ऽतौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषुऽ (छा. ४.३.४) इति भेदेन व्यपदिशति ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ (छा. ४.३.८) इति च भेदेनैवोपसंहरति / तस्मात्पृथगेवोपगमनम् / प्रदानवत् / यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ सर्वेषामभिगमयन्नवद्यत्यछंबट्कारमिति / अतो वचनादिन्द्राभेदाच्च सहप्रदानाशङ्कायां राजादिगुणभेदाद्याज्यानुवाक्यव्यत्यासविधानाच्च यथान्यसमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति / एवं तत्त्वाभेदे ऽप्याध्येयांशपृथक्त्वादाध्यानपृथक्त्वमित्यर्थः / तदुक्तं संकर्षे ऽनाना वा देवता पृथग्ज्ञानात्ऽ इति / तत्र तु द्रव्यदेवताभेदाद्यागभेदो विद्यते नैवमिह विद्याभेदो ऽस्ति / उपक्रमोपसंहाराभ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीतेः / विद्यैकस्थे ऽपि त्वध्यात्माधिदैवभेदात्प्रवृत्तिभेदो भवति अग्निहोत्र इव सायंप्रातःकालभेदात् / इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम्
SK
प्रदानवदेव तदुक्तम् / वायुप्राणयोर्भेदाभेदवाक्याभ्यां संशयमाह-तत्रेति / अस्तु कर्माङ्गानां तत्संबद्धोपास्तीनां च फलभेदान्नित्यत्वानित्यत्वरूपः प्रयोगभेदः, इह तु वायुप्राणयोः स्वरूपाभेदात्तत्स्वरूपप्राप्तिलक्षणफलैक्याच्च ध्यानप्रयोगैक्यमिति पूर्वपक्षयति-अपृथगिति / ऽअग्निर्वाग्भूत्वाऽइत्यारभ्यः ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽइत्यभेदं दर्शयतीत्यर्थः / ऽयतश्चोदेति सूर्यस्तं वदऽइति प्रश्ने सूत्रात्मकवायुर्वाच्यो वायुस्थाने प्राणं वदन्नेकत्वं तयोर्दर्शयतीत्याह-तथेति / किञ्च यदि वायुप्राणयोः पृथग्ध्यानं स्यात्तर्हि ध्यानाङ्गव्रतभेदो ऽपि स्यादिह तु प्राणापाननिरोधात्मकव्रतैक्यश्रुतेर्ध्यानैक्यमित्याह-तस्मादिति / व्रतैक्यस्य प्रशस्तत्वादित्यर्थः / किञ्च वायुप्राणो संवर्गौ भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गदेवैक्यश्रुतेः प्रयोगैक्यमित्याह-तथेति / महात्मन इति द्वितीयाबहुवचनम् / चतुरश्चतुः संख्याकानग्निसूर्योदकचन्द्रानपरांश्च वाक्चक्षुःश्रोत्रमनोरूपानेको देवः कः प्रजापतिः जगार गीर्णवानुपसंहृतवानित्यर्थः / न ब्रवीति भेदमिति शेषः / यथा ऽअग्निहोत्रं जुहोतिऽइत्युत्पन्नाग्निहोत्रस्यैकस्यैव दधितण्डुलादिगुणभेदेन सायंप्रातःकालभेदेन प्रयोगभेदस्तथा ऽअन्नादो भवति य एवं वेदऽइत्युत्पन्नायाः संवर्गविद्याया एकत्वे ऽप्युत्पन्नशिष्टवायुप्राणाख्यगुणभेदात्प्रयोगभेद इत्युत्सूत्रं सिद्धान्तयति-पृथगेवेति / ऽतौ वा एतौ द्वौ संवर्गौऽइत्युपास्यभेदवाक्यस्य प्रयोगभेदपरत्वाद्वाक्यादेव भेदसिद्धिरित्यर्थः / पूर्वपक्ष्युक्तमनूद्य प्रत्याह-ननूक्तमित्यादिना / उपास्यतया प्रधानभूतसंवर्गगुणविशिष्टोपास्यभेदवाक्यप्राणात्तावुक्तौ / ततो ऽध्यात्माधिदैवावस्थाभेदेनोक्तस्य ध्येयभेदस्य निरासे ऽयतश्चोदेतिऽइति श्लोकस्य न शक्तिरित्याह-श्लोकेति / असामर्थ्ये लिङ्गमाह-स यथेति / श्लोकोपन्यासवद्ब्रतैक्योपन्यासो ऽपि तत्त्वाभेदाभिप्रायेणेत्याह-एतेनेति / नन्वेवकाराद्वायुव्रतनिवृत्तेः प्राण एवैको ध्येयो भातीत्यत आह-एकमेवेति / वदनदर्शनादीनि वाक्चक्षुरादीनां व्रतानि श्रमरूपमृत्युना भग्नानीत्युक्त्वा प्राणस्याभग्नव्रतत्वं निर्धारितं, तथा ज्वलनतापादीन्यग्न्यादित्यादीनां व्रतानि भग्नानीत्युक्त्वा वायोरभग्नव्रतत्वं निर्धारितं, ऽस यथैषां प्राणानां मध्यमः प्राणः स्थिरव्रत एवमेतासां देवनां वायुर्लोचन्ति ह्यन्या देवता न वायुःसैषानस्तमिता देवता यद्वायिःऽइति श्रुतेः / अतो भग्नवतनिरासार्थ एवकारो न वायुव्रतनिवृत्त्यर्थ इत्यर्थः / अत्रैवार्थे लिङ्गमाह-एकमिति / उकारश्चार्थः / तेन व्रतेन वायोः सायुज्यं समानदेहत्वं सलोकतां च जयतीत्यर्थः / नन्वत्र वायुप्राप्तिर्न श्रुतेत्यत्राह-देवतेति / तस्मात्तत्त्वाभेददृष्ट्या व्रतैक्यमिति स्थितं, संप्रति पूर्वोक्तं पृथगुपदेशं विवृणोति-तथा तौ वा इति / सौत्रं दृष्टान्तं व्याचष्टे-प्रदानवदिति / त्रयः पुरोडाशा अस्यां सन्तीति त्रिपुरोडाशिनीष्टिस्तस्यां किं सहप्रदानमुत भेदेनेति संदेहे पूर्वपक्षमाह-सर्वेषामिति / सर्वेषां देवानामाभिमुख्येन प्राप्यन्हविरवद्यति गृह्णाति, अच्छंवट्कारं वषट्काराख्यदेवभागमित्यर्थः / यद्वा सर्वदेवार्थं युगपदवदानं कार्यमित्यत्र हेतुरच्छंवट्कारमिति अव्यर्थत्वायेत्यर्थः / एकार्थमवत्ते हविषि शेषो यागानर्हतया वृथा स्यादिति भावः / एवं सहावदानश्रुतेर्देवैक्याच्च पुरोडाशानां सहप्रक्षेपे प्राप्ते पृथक्प्रक्षेप इति सिद्धान्तमाह-राजेति / राजाधिराजस्वराजगुणभेदेन विशिष्टदेवताभेदादित्यर्थः / किञ्चाध्वर्युणा यजेति प्रैषे कृते होत्रा यो मन्त्रः पठ्यते सा याज्या, अनुब्रूहीति प्रैषानन्तरमन्त्रः पुरोनुवाक्येति भेदो ऽस्ति, तत्रास्यामिष्टौ प्रथमपुरोडाशप्रदाने या कॢप्ता याज्या स द्वितीयप्रदाने पुरोनुवाक्य, या च पूर्वमनुवाक्य, स पश्चाद्याज्येति व्यत्यासमन्वाहेति श्रुत्या विधानात्, यथाश्रुति प्रक्षेपपृथक्त्वमित्याह-याज्येति / संकर्षो देवताकाण्डम् / वाशब्दो ऽवधारणे, नानैव देवता राजादिगुणभेदेन भेदावगमादिति सूत्रार्थः / दृष्टान्ते देवताभेदात्कर्मभेदवद्विद्याभेदः स्यादित्यत आह-तत्र त्विति / कर्मोत्पत्तिवाक्यस्थदेवताभेदः कर्मभेदे हेतुरिह त्वन्नादो भवति य एवं वेदेत्युत्पत्तावेकत्वेन ज्ञातविद्यायाः पश्चाच्छ्रुतवायुप्राणभेदो न भेदकः, अग्निहोत्रस्येव दध्यादिद्रव्यभेद इत्यर्थः / तर्हि केनांशेन प्रदानस्य दृष्टान्तत्वमित्यत आह-विद्यैक्ये ऽपीति /
SK
अवस्थाभेदाद्देवताभेदः प्रयोगभेदश्चेत्यंशेनायं दृष्टान्त इत्यर्थः
SK
END Bस्Cओम्_३,३.२८.४३
SK
START Bस्Cओम्_३,३.२९.४४
SK
२९ लिङ्गभूयस्त्वाधिकरणम् / सू. ४४-५२
SK
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि | BBस्_३,३.४४ |
SK
वाजसनेयिनो ऽग्निरहस्ये - ऽनैव इदमग्रे सदासीत्ऽ इत्येतस्मिन्ब्राह्मणे मनो ऽधिकृत्याधीयते ऽतत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयामनश्चितःऽ इत्यादि / तथैव ऽवाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितो ऽग्निचितःऽ इति पृथगगमनीनामनन्ति सांपादिकान् / तेषु संशयः - किमेते मनश्चिदादयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति / तत्र प्रकरणाक्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभयस्त्वादिति / भूयांसि हिलिङ्गान्यस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इति, ऽतान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति चैवञ्जातीयकानि / तद्धि लिङ्गं प्रकरणाद्बलीयः / तदप्युक्तं पूर्वस्मिन्काण्डे - ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै.सू. ३.३.१३) इति
SK
लिङ्गभूयस्त्वात् / उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनः सृष्टिमुक्त्वा तन्मन आत्मानमैक्षतेतीक्षणपूर्वकमग्नीनपश्यदिति मनो ऽधिकृत्य पठन्तीत्यर्थः / पुरुषायुष्ट्वेन कॢप्तशतवर्षान्तर्गतैः षट्रत्रिंशत्सहस्रैरहोरात्रैरवच्छिन्नतया मनोवृत्तीनामसङ्ख्येयानामपि षट्त्रिंशत्सहस्रत्वम् / ताभिरिष्टकात्वेन कल्पिताभिर्मनसैव संपादिता अग्नयो मनश्चितस्थानर्कान्पूज्यान्मनोवृत्तिषुसंपादितानात्मनः स्वस्य संबन्धित्वेन मनो ऽपश्यत्, तथा वाक्प्राणादयो ऽपि स्वस्ववृत्तिरूपानग्नीनपश्यन्नित्याह-तथेति / प्राणो घ्राणं कर्मेन्द्रियेण हस्तादिना चितः कर्मचितः अग्निस्त्वक् पूर्वत्राग्निचयनप्रकरणात्किमेते ऽग्नयः क्रत्वर्था उत प्राधान्यज्ञापकलिङ्गादिभूयस्त्वात्पुरुषार्था वेति संशयमाह-तेष्विति / केवलविद्यात्मकाः क्रियाङ्गत्वं विना भावनामया इत्यर्थः / एकप्रयोगासंभवाद्वायुप्राणयोर्ध्यानप्रयोगभेदो ऽस्तु, इह तु मनश्चिदाद्यग्नीनां प्रकरणात्कर्माङ्गत्वेनैकप्रयोगत्वमिति प्रापय्य सिद्धान्तमुपक्रमते-तत्रेत्यादिना / पूर्वपक्षे भावनाग्नीनां क्रत्वङ्गत्वमिष्टं तेषां क्रियाङ्गत्वं विकल्पः समुच्चयो वास्तु / सिद्धान्ते पुरुषार्थत्वमिति फलम् / तत्तत्र सर्वप्राणिमनोवृत्तिभिर्मम सदाग्नयः चीयन्त इति ध्यानदार्ढ्ये सति सर्वभूतानि यत्किञ्चित् मनसा संकल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येकं लिङ्गं, क्रियाङ्गस्य यत्किञ्चित्करणेन सिद्यदर्शनादित्याह-तद्यदिति /
SK
एवंविदे स्वपते जाग्रते ऽपि तदीयाग्नीन्भूतानि सर्वदा चिन्वन्तीति लिङ्गान्तरं, क्रियाङ्गस्य चोदितकालानुष्ठेयस्य सदा सर्वैरनुष्ठीयमानत्वायोगादित्यर्थः / षट्त्रिंशत्सहस्रसंख्याप्यनङ्गत्वे लिङ्गं एवञ्जातीयकपदेनोक्तम्
SK
END Bस्Cओम्_३,३.२९.४४
SK
START Bस्Cओम्_३,३.२९.४५
SK
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् | BBस्_३,३.४५ |
SK
नैतदुक्तं स्वतन्त्रा एते ऽग्नयो ऽनन्यशेषभूता इति / पूर्वस्य क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायं विकल्पविशेषोपदेशः स्यान्न स्वतन्त्रः /
SK
ननु प्रकरणाल्लिङ्गं बलीयः /
SK
सत्यमेतत् / लिङ्गमपि त्वेवञ्जातीयकं न प्रकरणाद्बलीयो भवति / अन्यार्थदर्शनं ह्येतत् / सांपादिकाग्निप्रशंसारूपत्वात् / अन्यार्थदर्शनं चासत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते / तस्मातसांपादिका अप्येते ऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः / मानसवत् / यथा दशरात्रस्य दसणे ऽहन्यविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गुह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येवाम्नायन्ते / स च मानसो ऽपि ग्रहकल्पः क्रियाप्रकरणात्क्रियाशेष एव भवत्येवमयमप्यग्निकल्प इत्यर्थः
SK
FN: अविवाक्यमिति दशमस्याह्नो नामधेयम् /
SK
एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति-पूर्वेति / पूर्वस्येष्टकाभिरग्निं चिनुत इत्युक्तस्य स एष त्विष्टकाग्निरिति संनिहितस्यायं विकल्पविशेषोपदेशः संकल्पमयत्वाख्यप्रकारभेदोपदेशः क्रियाग्निवत्सांकल्पिकाग्नयो ऽप्यङ्गमिति यावत् / किं विधिवाक्यस्थं लिङ्गं प्रकरणाद्बलीयः, अर्थवादस्थं वा / आद्यमङ्गीकरोति-सत्यमिति / न द्वितीय इत्याह-लिङ्गमिति / मानसाग्निविध्यर्थवादस्थलिङ्गानां स्वार्थप्रापकमानाभावाद्दौर्बल्यमित्यर्थः / सूत्रस्थक्रियापदं व्याचष्टे-तस्मादिति / ननु अक्रियारूपाग्नीनां ध्यानमयानां कथं क्रियाङ्गत्वं तत्राह-मानसवदिति / द्वादशाहस्याद्यन्ताहर्द्वयं त्यक्त्वा मध्यस्थदशरात्रस्यैव द्विरात्रादिषु प्रकृतित्वं, तद्धर्ममाणामेव तेष्वतिदेशात्तस्य मध्यदशरात्रस्य दशमे ऽहन्यर्थादेकादशे ऽहनि मानसग्रहः श्रूयते-ऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातिऽइति / अनया रसया पृथिव्या पात्रेण समुद्रं त्वां प्रजापतिदेवताकं मनोग्रहं गृह्यते इति ग्रहः सोमरसः, मनसा रसत्वेन भावितमध्वर्युर्गृह्णातीत्यर्थः / अत एवर्त्विजां ध्यायितया विविधवाक्योच्चारणाभावादविवाक्यसंज्ञा अह्नः प्राप्तः / ग्रहणं नाम सोमपात्रस्योपादानं, गृहीतस्य स्वस्थाने स्थापनमासादनं सोमस्य होमो हवनं हुतशेषादानमाहरणं शेषभक्षणायर्त्विजां मिथो ऽनुज्ञानकरणमुपह्वानं ततो भक्षणमित्येतानि मानसान्येवेत्यर्थः / स च मानसो ग्रहो द्वादशाहादहरन्तरं स्वतन्त्रमित्याशङड्क्य द्वादशाहसंज्ञाविरोधान्नाहरन्तरं किन्तु प्रकरणादविवाक्यस्याह्नो ऽङ्गमिति सिद्धान्तमाह-स चेति /
SK
कल्पः कल्पनाप्रकारः / केचित्त्वत्र भाष्ये दशरात्रशब्दो विकृतिपरः, तत्रापि दशमे ऽहन्यविवाक्यसंज्ञके मानसग्रहस्यातिदेशप्राप्ततयाङ्गत्वादित्याहुः
SK
END Bस्Cओम्_३,३.२९.४५
SK
START Bस्Cओम्_३,३.२९.४६
SK
अतिदेशाच् च | BBस्_३,३.४६ |
SK
अतिदेशश्चैषामग्नीनाङ्क्रियानुप्रवेशमुपोद्बलयति - ऽषट्त्रिंशत्सहसस्राण्यग्नयोर्ऽकास्तेषामेकैक एव तावन्यावानसौ पूर्वःऽ इति / सति हि सामान्ये ऽतिदेशः प्रवर्तते / ततश्च पूर्वेणेष्टकाचितेन क्रियानुप्रवेशिनाग्निना संपादिकानग्नीनतिदिशन्क्रियानुप्रवेशमेवैषां द्योतयति
SK
मनश्चिदादीनां क्रियाङ्गत्वे प्रकरणमुक्त्वा लिङ्गमाह-अतिदेशाच्चेति /
SK
क्रियाङ्गत्वसादृश्यादतिदेश इत्यर्थः
SK
END Bस्Cओम्_३,३.२९.४६
SK
START Bस्Cओम्_३,३.२९.४७
SK
विद्यैव तु निर्धारणात् | BBस्_३,३.४७ |
SK
तुशब्दः पक्षं व्यावर्तयति / विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयो ऽग्नयः स्युर्न क्रियाशेषभूताः / तथाहि निर्धारयति - ऽते हैते विद्याचित एवऽ इति / विद्यया हैवैत एवंविदश्चिता भवन्ति इति च
SK
सिद्धान्तमाह-विद्येति
SK
END Bस्Cओम्_३,३.२९.४७
SK
START Bस्Cओम्_३,३.२९.४८
SK
दर्शनाच् च | BBस्_३,३.४८ |
SK
दृश्यते चैषां स्वातन्त्र्ये लिङ्गम् / तत्पुरस्ताद्दर्शितम् लिङ्गभूयस्त्वात् (ब्र. सू. ३.३.४४) इत्यत्र
SK
न श्रुतिलिङ्गवाक्यैः प्रकरणं बाध्यमिति सूत्रत्रयार्थः
SK
END Bस्Cओम्_३,३.२९.४८
SK
START Bस्Cओम्_३,३.२९.४९
SK
ननु लिङ्गमप्यसत्यांमन्यस्यां प्राप्तावसाधकं कस्यचिदर्थस्येत्यपास्य तत्प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसितमित्यत उत्तरं पठति -
SK
श्रुत्यादिबलीयस्त्वाच् च न बाधः | BBस्_३,३.४९ |
SK
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्रयपक्षो बाधितव्यः / श्रुत्यादेर्बलीयस्त्वात् / बलीयांसि हि प्रकरणाच्छ्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे / तानि चेह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते / कथम् / श्रुतिस्तावत् ऽते हैते विद्याचित एवऽ इति / तथा लिङ्म् ऽसर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति / तथा वाक्यमपि ऽविद्यया हैवैत एवंविदाश्रिताभवन्तिऽ इति / ऽविद्याचित एवऽ इति हि सावधारणेयं श्रुतिः क्रियानुप्रवेशे ऽमीषामभ्युपगम्यमाने पीडिता स्यात् /
SK
नन्वबाह्यसाधनत्वाभिप्रायमिदवधारणं भविष्यति /
SK
नेत्युच्यते / तदभिप्रायतायां हिविद्योचित इतीयता स्वरूपसमकीर्तनेनैव कृतत्वादनर्थकमवधारणं भवेत् / स्वरूपमेव ह्येषामबाह्यसाधनमिति / अबाह्यसाधनत्वे ऽपि तु मानसग्रहवत्क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलमवधारणर्थवद्भविष्यति / तथा ऽस्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतान्येतानग्निंश्चिन्वन्तिऽ इति सातत्यदर्शनमेषां स्वातन्त्र्ये ऽवकल्पते / यथा सांपादिके वाक्यप्राणमये ऽग्निहोत्रे ऽप्राणं तदा वाचि जुहोति - वाचं तदा प्राणे जुहोतिऽ (कौ. २.५) इति चोक्त्वोच्यते - ऽएते अनन्ते आहुती जाग्रच्च स्वपंश्च सततं - जुहोतिऽ (कौषी. २.५) इति / तद्वत् / क्रियानुप्रवेशे तु क्रियाप्रयोगस्याल्पकालत्वेन न सातत्येषां प्रयोगः कल्पेत / नचेदमर्थवादमात्रमिति न्याय्यम् / यत्र हि विस्पष्टो विधायको लिङ्गादिरुपलभ्यते युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् / इह हि विस्पष्टोविध्यन्तरानुपलब्धेः संकीर्तनादेवैषां विज्ञानविधानं कल्पनीयम् / तच्च यथासंकीर्तनमेव कल्पयितुं शक्यत इति सातत्यदर्शनात्तथाभूतमेव कल्प्यते / ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः / एतेन तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इत्यादि व्याख्यातम् / तथा वाक्यमपि एवंविदे इति पुरुषविशेषसंबन्धमेवैषामाचक्षणं न क्रतुसंबन्धं मृष्यते / तस्मात्स्वातन्त्र्यपक्ष एव ज्यायानिति
SK
तत्रावधारणश्रुतेरन्यथासिद्धिं शङ्कते-नन्वबाह्येति / विद्याचित इतिपदेनैवाबाह्यसाधनत्वस्य लब्धत्वादवधारणं व्यर्थमित्याह-नेति / तर्हि कथमस्यार्थवत्त्वं तत्राह-अबाह्येति / लिङ्गं व्यनक्ति-तथेति / अग्नीनां सर्वकालव्यापित्वेनानङ्गत्वे दृष्टान्तरमाह-तथेति / तदा ध्यानकाल इत्यर्थः / होमे यथा सातत्यमुच्यते तद्वदग्नीनां सातत्यदर्शनमित्यन्वयः / यदुक्तमर्थवादस्थत्वाल्लिङ्गं दुर्बलमिति तन्न / सर्वदा सर्वभूतानि मदर्थमग्नीन् चिन्वन्तीति ध्यायेदित्यपूर्वार्थतया विधिकल्पनात् / तथाच विधिवाक्यस्थत्वाल्लिङ्गं प्रकरणाद्बलवादित्याह-न चेदमित्यादिना / एतेनेति विधित्वेनेत्यर्थः / वाक्यं विवृषोति-तथेति
SK
END Bस्Cओम्_३,३.२९.४९
SK
START Bस्Cओम्_३,३.२९.५०
SK
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् | BBस्_३,३.५० |
SK
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् / यत्क्रियावयवान्मन-आदिव्यापारेष्वनुबध्नाति ऽते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियतेऽ इत्यादिना / संपत्फलो ह्ययमनुबन्धः / नच प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः / नचात्रोद्गीथाद्युपासनवत्क्रियाङ्गसंबन्धात्तदनुप्रवेशित्वमाशङ्कितव्यं श्रुतिवैरूप्यात् / नह्यत्र क्रियाङ्गं किञ्चिदादाय तस्मिन्नदो नामाध्यवसितव्यमिति वदति / षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदानादाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति पुरुषयादिवत् / संख्या चेयं पुरुषायुषस्याहःसु दृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् / एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् / आदिशब्दादतिदेशाद्यपि यथासंभवं योजयितव्यम् / तथाहि - ऽतेषामेकैक एव तावान्यानानसौ पूर्वःऽ इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्यातिदिशन्किरियायामनादरं दर्शयति / नच सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् / नहि येन व्यापारेणाहनीयधारणादिना पूर्वः क्रियायामुपकरोति तेनोत्तर उपकर्तुं शक्नुवन्ति / यत्तु पूर्वपक्षे ऽप्यतिदेश उपोद्बलक इत्युक्तं सति हि सामान्ये ऽतिदेशः प्रवर्तत इति तदस्मात्पक्षे ऽग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् / अस्ति हि सांपादिकानामप्यग्नीनामग्नित्वमिति / श्रुत्यादीनि च कारणानि दर्शितानि / एवमनुबन्धादिभ्यः कारणेभ्यः स्वतान्त्र्यं मनश्चिदादीनाम / प्रज्ञान्तरपृथक्त्ववत् / यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेनानुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्त्येवमिति / दृष्टश्चावेष्टे राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षो वर्णत्रयानुबन्धाद्राजयज्ञत्वाच्च राजसूयस्य / तदुक्तं प्रथमे काण्डे - ऽक्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्ऽ (जै.सू. ११.४.७) इति
SK
FN: अवेष्टिरेतन्नाम्नी इष्टिः /
SK
संपदुपास्त्यै मनोवृत्तिषु क्रियाङ्गानां योजनमनुबन्धः श्रुत्या क्रियते तदन्यथानुपपत्त्याप्यग्नीनां पुरुषार्थत्वं क्रत्वर्थत्वे ऽङ्गानां सिद्धत्वेन संपादनानुपपत्तेरित्याह-इतश्चेत्यादिना / ते अग्नयः, अधीयन्त तेषामाधानं मनसैव कुर्यादित्यर्थः / कालस्य छन्दस्यनियमात् / अचीयन्त इष्टकाश्चेतव्या इत्यर्थः / ग्रहाः पात्राणि, अस्तुवन्, उद्गातारः स्तुवन्ति, अशंसन् होतारः शंसन्ति, किं बहूक्त्या यत्किञ्चिद्यज्ञे कर्मारादुपकारकं यज्ञियं यज्ञस्वरूपोत्पादकं च तत्सर्वं मनोमयं कुर्यादिति श्रुत्यर्थः / वृत्तिष्वग्निध्यानस्य क्रियानङ्गत्वे ऽप्युद्गीथध्यानवत्क्रियाङ्गाश्रितत्वं स्यान्नेत्याह-न चात्रोद्गीथेति / अङ्गावबद्धश्रुतितो ऽस्याः श्रुतेर्वैरूप्यं स्फुटयति-नहीति / अनङ्गवृत्तिषु साङ्गक्रतुसंपादनं पुरुषस्य यज्ञत्वध्यानवत् स्वतन्त्रमित्यर्थः / अनादरार्थो ऽतिदेशो न भवति किन्तु विकल्पार्थ इत्यत आह-नचेति / एकस्मिन्माध्ये निरपेक्षसाधनयोर्विकल्पो भवति यथा व्रीहियवयोरत्र तु क्रियाग्नेर्ध्यानाग्नीनां साध्यभेदान्न विकल्प इत्यर्थः / अत एव समुच्चयो ऽपि निरस्तः / यदुक्तं क्रियाङ्गत्वसामान्येनातिदेश इति तन्नेत्याह-यत्त्विति / सूत्रे बहुवचनार्थमाह-श्रुत्यादीनि चेति / अनुबन्धातिदेशश्रुतिलिङ्गवाक्येभ्य इत्यर्थः / एवमिति / अर्थ इति शेषः मनश्चिदादीनां स्वातन्त्रये क्रियाप्रकरणादुत्कर्षः स्यादित्याशङ्क्य स इष्ट इत्याह-दृष्टश्चेति / एकादशे चिन्तितं ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति प्रकृत्यावेष्टिर्नाम काचिदिष्टिराम्नाता-ऽआग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणाऽ,बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणाऽ, ऽऐन्द्रमेकादशकपालमृषभो दक्षिणाऽइति / तस्यां वर्णभेदेन प्रयोगभेदः, श्रूयते-ऽयदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद्यदि वैश्यो वैश्वदेवं चरुं मध्ये निदध्याद्यदि राजन्यस्तदैन्द्रम्ऽइति / आग्नेयैन्द्रपुरोडाशयोर्मध्ये बार्हस्पत्यं चरुं निधायेत्यर्थः / तत्राग्नेयादिचरुषु अङ्गानां तन्त्रेण प्रयोगो भवति मध्येनिधानलिङ्गात्प्रयोगभेदे मध्ये निधानायोगादेतयान्नाद्यकामं याजयेदित्येकवचनाच्च / स च तन्त्रप्रयोगो राजसूयक्रतुबाह्यायामन्नाद्यकामवर्णत्रयकर्तृकायामेवावेष्टौ ज्ञेयो न तु क्रत्वन्तर्गतायाम् / ननु किमत्र नियामकं क्रत्वर्थायामप्यवेष्टौ तन्त्रप्रयोगः किं न स्यादिति चेत् / न / वर्णत्रयसंयुक्तानां काम्यायामेवाङ्गतन्त्रैक्यसाधकस्य मध्ये नधानादिलिङ्गस्य सत्त्वादतो लिङ्गैकवचनाभ्यां तन्त्रैक्ये सति हिरण्यादिका मिलितैकैवा दक्षिणाधेया, अन्यथा प्रयोगैक्यायोगात् / राजमात्रकर्तृकक्रत्वन्तर्गतेष्टौ तु वर्णत्रयसंयोगाभावान्मध्ये निधानादिलिङ्गं नास्ति ततश्च तन्त्रैक्यसाधकाभावाद्दक्षिणाभेदेन तन्त्रभेद इत्यङ्गानामावृत्तिरेव चरुष्विति सूत्रार्थः / अत्र चैकप्रयोगलिङ्गस्य क्रत्वर्थेष्टावसंभवं काम्येष्टौ च संभवं वदतानेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिविलक्षणत्वात्क्रतुप्रकरणादुत्कर्ष इति सूचितम् / स चोत्कर्षो युक्त एव, राजमात्रकर्तृकराजसूयक्रतौ वर्णत्रयकर्तृकेष्टेरन्तर्भावायोगादिति स्थितं, तथा मनश्चिदादीनामुत्कर्ष इति भावः
SK
END Bस्Cओम्_३,३.२९.५०
SK
START Bस्Cओम्_३,३.२९.५१
SK
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः | BBस्_३,३.५१ |
SK
यदुक्तं मानसावदिति तत्प्रत्युच्यते / न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् / पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः / नहि किञ्चित्कस्यचित्केनचित्सामान्यं न संभवति / नच तावता यथात्वं वैषम्यं निवर्तते / मृत्युवत् / यथा ऽस वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषःऽ इति ऽअग्निर्वै मृत्युःऽ (बृ. ३.२.१०) इति चाग्न्यादित्यपुरुषयोः समाने ऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्तिः / यथा च ऽअसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्ऽ (छा. ५.४.१) इत्यत्र न समिदादिसामान्याल्लोकस्याग्निभावापत्तिस्तद्वत्
SK
एवं दृष्टान्तं विघटयति-न सामान्यादिति /
SK
क्रत्वर्थत्वपुरुषार्थत्ववैषम्ये ऽपि मानसत्वसामान्यं न विरुध्यते विषमयोरपि साम्यदर्शनादित्यर्थः
SK
END Bस्Cओम्_३,३.२९.५१
SK
START Bस्Cओम्_३,३.२९.५२
SK
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः | BBस्_३,३.५२ |
SK
परस्तादपि ऽअयं वाव लोक एषो ऽग्निश्चित्तःऽ इत्यस्मिन्ननन्तरे ब्राह्मणे तावद्वध्यं केवलविद्याविधित्वं शब्दस्य प्रयोजनं लक्ष्यते न शुद्धकर्माङ्गविधित्वम् / तत्र हि -ऽ विद्यया तदारोहन्ति यत्र कामाः परागताः / न तत्र दक्षीणा यन्ति नाविद्वांसस्तपस्विनःऽ इत्यनेन श्लोकेन केवलं कर्मनिन्दन्विध्यां च प्रशंसन्निदं गमयति / तथा पुरस्तादपि यदेतन्मण्डलं तपति इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते सो ऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति इति विद्याफलेनैवोपसंहारान्न कर्मप्रधानता तत्सामान्यादिहापि तथात्वम् / भूयांसस्त्वग्न्यवयवाः संपादयितव्या विद्यायामित्येतस्मात्कारणादग्निनानुबध्यते विद्या न कर्माङ्गत्वात् / तस्मान्मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः
SK
किञ्च पूर्वोत्तरब्राह्मणयोः स्वतन्त्रविद्याविधानात्तन्मध्यस्थस्यापि ब्राह्मणस्य स्वतन्त्रविद्याविधिपरत्वमित्याह-परेण चेति / चिते ऽग्नौ लोकदृष्टिविधानं स्वतन्त्रमुत्तरत्र गम्यते पूर्वत्र मण्डलपुरुषोपास्तिस्तत्सांनिध्यान्मध्ये ऽपि मानसाग्नयः स्वतन्त्रा इत्यर्थः / तर्हि क्रियाग्निना सह पाठः किमर्थमित्यत आह-भूयांसस्त्विति
SK
END Bस्Cओम्_३,३.२९.५२
SK
START Bस्Cओम्_३,३.३०.५३
SK
३० ऐकात्म्याधिकरणम् / सू. ५३-५४
SK
एक आत्मनः शरीरे भावात् | BBस्_३,३.५३ |
SK
इह देहव्यतिरिक्तस्यात्मनः सद्भावः समर्थ्यते बन्धमोक्षाधिकारसिदमधयो / नह्यसति देहव्यतिरिक्तात्मनि परलोकाश्चोदना उपपजद्येरन्कस्य वा ब्रह्मात्मत्वमुपदिश्येत /
SK
ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोग्यस्य देहाव्यतिरिक्तस्यात्मनो ऽस्तित्वमुक्तम् /
SK
सत्यमुक्तं भाष्यकृचा नतु तत्रात्मास्तित्वे सूत्रमस्ति / इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् / इत एव चाकृष्याचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् / अत एव च भगवतोपवर्षेण प्रथमे तन्त्र आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्यमाः इत्युद्धारः कृतः / इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय / अपिच पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितं को ऽसौ पुरुषो यदर्था एते मनश्चिदादय इत्यस्यां प्रसक्ताविदं देहव्यतिरिक्तस्यात्मनो ऽस्तित्वमुच्यते / तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् / आक्षेपपूर्विका हि परिहारोक्तिर्विवक्षितेर्ऽथे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयति / अत्रैके देहमात्रात्मदर्शिनो लोकायतिका देहव्यतिरिक्तस्यात्मनो ऽभावं मन्यमानाः समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति संभावयन्तस्तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानं चैतन्यविशिष्टः कायः पुरुष इति चाहुः / न स्वर्गगमनायापवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मास्ति / हेतुं चाचक्षतशरीरे भावादिति / यद्धि यस्मिन्सति भवत्यसति च न भवति तत्तद्धर्मत्वेनाध्यवसीते यथाग्निधर्मावौष्ण्यप्रकाशौ / प्राणचेष्टाचैतन्यस्मृत्याश्चात्मधर्मत्वेनाभिमता आत्मवादिनां ते ऽप्यन्तरेव देह उपलभ्यमाना बहिश्चानुपलभ्यमाना असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति / तस्मादव्यतिरिक्तो देहादात्मन इति
SK
FN: उद्धारः उपरमः /
SK
मनश्चिदादीनां पुरुषार्थत्वमुक्तं तदयुक्तं देहातिरिक्तपुरुषाभावादित्याक्षिपति-एक आत्मनः शरीरे भावात् / सिद्धान्तफलमाह-बन्धेति / पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षार्थविद्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह-न ह्यसतीति / व्यतिरिक्तात्मविचारस्य पूर्वतन्त्रे कृतत्वात्पौनरुक्त्यमित्याशङ्क्य तत्रत्यविचारस्यापीदमेव सूत्रं मूलं जैमिनिसूत्राभावादतः क्व पुनरुक्तिरित्याह-ननु शास्त्रेत्यादिना / ऽयज्ञायुधी यजमानः स्वर्गं लोकमेतिऽइत्यादिवाक्यस्य भोक्तुरभावादप्रामाण्यप्राप्तावित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह-अत एवेति / तत्र सूत्राभावादेवेत्यर्थः / उद्धार उपरमः / अस्याधिकरणस्यास्मिन्पादे प्रसङ्गसंगतिरित्याह-इह चेति / आमुष्मिकफलोपासनानिर्णयप्रसङ्गेन तदपेक्षितात्मास्तित्वमुच्यत इत्यर्थः / एतत्सिद्धवत्कृत्य प्रथमसूत्रे ऽथशब्देनाधिकारी चिन्तितस्तस्मादिदमधिकरणं सर्वशास्त्राङ्गमिति शास्त्रसंगतिमाह-कृत्स्नेति / आक्षेपलक्षणामवान्तरसंगतिमाह-अपिचेति / देहातिरिक्त आत्मास्ति न वेति वादिविप्रतिपत्तेः संशये पूर्वपक्षमाह-अत्रैक इति / यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञानाभावाद्व्यस्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूतेभ्यश्चैतन्यं संभावयन्तो मदशक्तिवद्विज्ञानं संघातजं तद्विशिष्टसंघात आत्मेत्याहुरित्यन्व्यः / यथा मादकद्रव्येषु ताम्बूलपत्रादिषु प्रत्येकमदृष्टापि मदशक्तिस्तत्संघाताज्जायते तद्वदित्यार्थः / ननु देहः स्वयं न चेतनः घटवद्भौतिकत्वात् किन्तु चेतनः कश्चित्स्वर्गादिभोक्तास्ति तत्सांनिध्याद्देहस्य चैतन्यविभ्रम इत्यत आह-न स्वर्गेति
SK
END Bस्Cओम्_३,३.३०.५३
SK
START Bस्Cओम्_३,३.३०.५४
SK
एवं प्राप्ते ब्रूमः -
SK
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् | BBस्_३,३.५४ |
SK
नत्वेदमस्ति यदुक्तमव्यतिरेको देहादात्मन इति / व्यतिरेक एवास्य देहाद्भवितुमर्हति तद्भावाभ्वित्वात् / यदि देहभावे भावाद्देहधर्मत्वमात्मधर्माणां मन्येत ततो देहभावे ऽप्यभावादतद्धर्मत्वमेवैषां किं न मन्येत / देहधर्मवैलक्षण्यात् / येहि देहधर्मा रूपादयस्ते यावद्देहं भवति / प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न बवन्ति / देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते नत्वात्मधर्माश्चैतन्यस्मृत्यादयः / अपिच सति हि तावद्देहे जीवदवस्थायामेषां भावः शक्यते निश्चेतुं नत्वसत्यभावः / पतिते ऽपि कदाचिदस्मिन्देहे देहान्तरसंचारेणात्मधर्मा अनुवर्तेरन् / संशयमात्रेणापि परपक्षः प्रतिषिध्यते / किमात्मकं च पुनरिदं चैतन्यं मन्यते यस्य भूतेभ्य उत्पत्तिमिच्छतीति परः पर्यनुयोक्तव्यः / नहि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित्तत्त्वं प्रत्येति / यदनुभवनं भूतभौतिकानां तच्चैतन्यमिति चेत् / तर्हि विषयत्वात्तेषां न तद्धर्मत्वमश्नुवीत स्वात्मनि क्रियाविरोधात् / नह्यग्निरुष्णः सन्स्वात्मानं दहति / नहि नटः शिक्षितः सन्स्वस्कन्धमधिरोक्ष्यति / नहि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् / नहि रूपादिभिः स्वरूपं पररूपं वाविषयीक्रियते / विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन / अतश्च यथैवास्या भूतभौतिकविषयाया उपलब्धेर्भावो ऽभ्युपगन्तव्यः / उपलब्धिस्वरूप एव च न आत्मेत्यात्मनो देहव्यतिरिक्तत्वम् / नित्यत्वं चोपलब्धेरैकरूप्यात् / अहमिदमद्राक्षमिति चावस्थान्तरयोगे ऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् / स्मृत्याद्युपपत्तेश्च / यत्तूक्तं शरीरे भावाच्छरीरधर्म उपलब्दैरिति तद्वर्णितेन प्रकारेण प्रत्युक्तम् / अपिच सत्सुप्रदीपादिषूपकरणेषूपलब्धिर्भवत्यसत्सु न भवति / नचैतावता प्रदीपादिधर्म एवोपलब्धिर्भवति / एवं सति देह उपलब्धिर्भवत्यसति च न भवतीति न देहधर्मौ भवितुमर्हति / उपकरणत्वमात्रेणापि प्रदीपादिवद्देहोपयोगोपपत्तेः / नचात्यन्तं देहस्योपलब्धावुपयोगो ऽपि दृश्यते निश्चेष्टे ऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् / तस्मादनवद्यं देहव्यतिरिक्तस्यात्मनो ऽस्तित्वम्
SK
मनुष्यो ऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्यक्षत्वादात्मधर्मत्वेन प्रसिद्धानां धर्माणां देहान्व्यव्यतिरेकानुभवात्तदन्यात्मनि प्रत्यक्षाभावादप्रत्यक्षस्याप्रामाणिकत्वाद्देह एवात्मेति प्राप्ते सूत्रस्थनत्वितिपदेन सिद्धान्तं प्रतिजानीते-नत्वेतदिति / अनुमानस्य तावत्प्रामाण्यमनिच्छिताप्यास्थेयमन्यथा व्यवहारासिद्धेः / न ह्यनागतपाकादाविष्टसाधनतानुमितं विना प्रवृत्तिः संभवति / तथाच ज्ञानादयो देहव्यतिरिक्ताश्रया देहसत्त्वे ऽप्यसत्त्वाद्व्यतिरेकेण देहरूपादिवदित्याह-व्यतिरेक एवास्येति / नचादौ श्यामदेहस्य पश्चाद्रूपान्तरे व्यभिचारः, गुणत्वसाक्षाद्व्याप्यजात्यवच्छेदेन असत्त्वस्य विवक्षितत्वात् देहे ऽवस्थिते सदा रूपत्वावच्छिन्नमस्त्येव / ज्ञानत्वावच्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः / किञ्च एते न देहगुणाः परैरदृश्यत्वादित्याह-देहधर्माश्चेति / किञ्च देहव्यतिरिके तेषामभावस्य संदिग्धत्वान्न देहधर्मत्वनिश्चय इत्याह-अपिचेति / न चानुपलम्भात्तेषामभावनिश्चयस्तवानुपलब्धेरमानत्वात्, तद्धर्म्यात्मनो देहान्तरप्राप्त्याप्यनुपलम्भोपपत्तेश्चेति भावः / उपलब्धिवदिति सूत्रस्थं पदं व्याख्यातुमुपक्रमते-किमात्मकमिति / तत्किं भूतातिरिक्तं तत्त्वमुत रूपादिवद्भूतधर्मः / नाद्यः, अपसिद्धान्तादित्युक्त्वा द्वितीयमाशङ्क्य निषेधति-यदनुभवनमित्यादिना / देहात्मकभूतानां चैतन्यं प्रति विषयत्वात्कर्तृकर्मविरोधेन विषयस्य कर्तृत्वा योगान्न भूतकर्तृकत्वं चैतन्यस्येत्यर्थः / किञ्च ज्ञानस्य भूतधर्मत्वे रूपादिवज्जाड्यापत्तेर्न तद्धर्मत्वमित्याह-नहीति / फलितं सूत्रपदार्थमाह-अतश्चेति / या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादुपलब्धेरनित्यत्वादित्यत आह-नित्यत्वं चेति / घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्तेरभेदान्नित्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः / एवमात्मा देहाद्भिन्न उपलब्धिरूपत्वादुपलब्धिवदित्युक्तम् / किञ्च जाग्रत्स्वप्नयोर्देहभेदे ऽप्यात्मैकत्वप्रत्यभिज्ञानादात्मभेदे चान्यानुभूते ऽन्यस्य स्मृतीच्छानुपपत्तेः स्वप्नस्मृत्यादिमानात्मा देहाद्भिन्न इत्याह-अहमिति / निरस्तमप्यधिकाभिधित्सयानुवदति-यत्तूक्तमिति / उपलब्धेर्देहान्वयव्यतिरेकौ न देहधर्मत्वसाधकौ तन्निमित्तत्वेनान्यथासिद्धेरित्यधिकमाह-अपिचेति / उपलब्धिमात्रे देहस्य निमित्तत्वमप्यसिद्धमित्याह-न चात्यन्तमिति / स्वप्नोपलब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् / अत एव तन्वभावे ऽपि स्वप्नवद्योगिनां भोगं सूत्रकृद्वक्ष्यति / जाग्रदुपलब्धेर्देहजत्वमस्तीत्यत्यन्तमित्युक्तम् / तस्मादुक्तानुमानुगृहीतान्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_३,३.३०.५४
SK
START Bस्Cओम्_३,३.३१.५५
SK
३१ अङ्गावबद्धाधिकरणम् / सू. ५५-५६
SK
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् | BBस्_३,३.५५ |
SK
समाप्ता प्रासङ्गिकी कथा, संप्रति तु प्रकृतामेवानुवर्तामहे - ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा.
SK
१.१.१) ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.१.१), ऽउक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम्ऽ, ऽइयमेव पृथिवीऽ, ऽअयं वाव लोक एषो ऽग्निश्चितःऽ इत्येवमाद्या य उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहितास्ते तत्तच्छाखागतेष्वेवोद्गीथादिषु भवेयुरथवा सर्वशाखागतेष्विति विशयः / प्रतिशाखं न स्वरादिबेदादुद्गीथादिषु विधीयेरन्निति / कुतः - संनिधानात् / ऽउद्गीथमुपासीतऽ (छा. १.१.१) इति हि सामान्यविहितानां विश्षाकाङ्क्षायां संनिकृष्टेनैव स्वशाखागतेन विशेषणाकाङ्क्षादिनिवृत्तेः / तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति / तस्मात्प्रतिशाखं व्यवस्थेति / एवं प्राप्ते ब्रवीत्यङ्गावबद्धास्त्विति / तुशब्दः पक्षं व्यवर्तयति / नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् / अपितु सर्वशाखास्वनुवर्तेरन् / कुतः - उद्गीथादिश्रुत्यविशेषात् / स्वशाखाव्यवस्थायां ह्युद्गीथमुपासीतेति साम्न्यश्रुतिरविशेषप्रवृत्ता सती संनिधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् / नचैतन्न्याय्यम् / संनिधानात्तु श्रुतिर्बलीयसी / नच सामान्याश्रयः प्रत्ययो नोपपद्यते / तस्मात्स्वरादिभेदे सत्यप्युद्गीथत्वाद्यविशेषात्सर्वशाखागतेष्वेवोद्गीथादिष्वेवञ्जातीयकाः प्रत्ययाः स्युः
SK
अङ्गावबद्धाः / उद्गीथावयवोङ्कारे प्राणदृष्टिः, ऽपृथिवी हिङ्कारे ऽग्निः प्रस्तावो ऽन्तरीक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम् / ऽइति हिङ्कारादिपञ्चविधे साम्नि पृथिव्यादिलोकदृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोकदृष्टिरित्येवं कर्माङ्गाश्रितोपास्तयः सन्ति, तासूद्गीथादिसाधारणश्रुत्या विशेषसंनिधिना च संशयः / ननूद्गीथादीनां सर्वशाखास्वेकत्वादुपास्तयः सर्वत्रेति वेद्यैक्यान्निश्चये कथं संशय इत्यत आह-प्रतिशाखं चेति / यथा देहात्मनोर्भेदादात्मधर्मा देहे न संभवन्ति तथा प्रतिवेदमुद्गीथादीनां भिन्नत्वादेकस्मिन्वेदे विहितोद्गीथाद्युपास्तयो वेदान्तरस्थोद्गीथादिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति-स्वशाखेति / उद्गीथमुपासीतेति विधिवाक्यस्थोद्गीथत्वासामान्यस्य व्यक्त्यपेक्षत्वास्त्वशाखासंनिहितव्यक्तिग्रह इत्यर्थः / सामान्यश्रुतेः संनिहितव्यक्तिग्रहाख्यसंकोचस्तत्र कर्तव्यो यत्र व्यक्तिमात्रग्रहो नोपपद्यते, यथा शुक्लं गामानयेत्यत्र गोश्रुतेः संनिहितशुक्लव्यक्तिपरतया संकोचः, अत्र नानुपपत्त्यभावाद्व्यक्तिमात्रसंबन्धसामान्यमुपास्यमिति सिद्धान्तयति-एवमित्यादिना
SK
END Bस्Cओम्_३,३.३१.५५
SK
START Bस्Cओम्_३,३.३१.५६
SK
मन्त्रादिवद्वाविरोधः | BBस्_३,३.५६ |
SK
अथवा नैवात्र विरोधः शङ्कितव्यः / कथमन्यशाखागतेषूद्गीथादिष्वन्यशाखाविहिता प्रत्यया भवेयुरिति / मन्त्रादिवविरोधोपपत्तेः / तथाहि मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तर उपसंग्रहो दृश्यते / येषामपि हि शाखिनां कुटरुरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामप्यसौ विनियोगो दृश्यते कुक्कुटरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामप्यसौ विनियोगो दृश्यते कुक्कुटो ऽसीत्यश्मादानमादत्ते कुदरुरसीति वेति / येषामपि समिदादयः प्रयाजडा नाम्नातस्तेषामपि तेषु गुणविधिराम्नायते - ऋतवो वै प्रयाजाः समानत्र होतव्याः इति / तथा येषामपि अजो ऽग्नीषोमीयः इति जातिविशेषोपदेशो नास्ति तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते - छागस्य वपाया मेदसो ऽनुर्ब्रूहि इति / तथा वेदान्तरोत्पन्नानामपि ऽअग्नेर्वेर्हेत्रं वेरध्वरम्ऽ इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः / तथाबह्वृचपठितस्य सूक्तस्य यो जात एव प्रथमो मनस्वान् (ऋ.सं २.६.७) इत्यस्य अध्वर्यवे सजनीयं शस्यम् इत्यत्र परिग्रहो दृष्टः / तस्माद्यथाश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिरेवमाश्रितानामपि प्रत्ययानामित्यविरोधः
SK
पूर्वं शाखान्तरविहितोपास्तीनां शाखान्तरस्थाङ्गसंबन्धे यः प्रतीतो विरोधस्तमङ्गीकृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखान्तरविहिताङ्गानां शाखान्तरस्थाङ्गिसंबन्धवदुक्तसंबन्धोपपत्तेरित्याह-अथवेत्यादिना / यजुर्वेदिनां कुक्कुटो ऽसीति मन्त्रो ऽस्ति कुटरुरसीति नास्ति तथापि तण्डुलपेषणार्थाश्मादाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सो ऽपि प्राप्नोतीत्यर्थः / सूत्रस्थादिपदोपात्तकर्मणामुदाहरणमाह-येषामिति / मैत्रायणीयानामित्यर्थः / हेमन्तशिशिरयोरैक्यादृतवः पञ्च तद्वत्पञ्चसंख्याकाः प्रयाजाःप्ढ.द.१-समानदेशे / फ्समानत्रतुल्यकर्मस्थले होतव्या इति पञ्चत्वगुणविधानाद्गुणिनः शाखान्तरविहिताः संबध्यन्त इति भावः / गुणमुदाहरति-तथा येषामिति / यजुर्वेदिनामग्नीषोमीयः पशुः श्रुतो नाज इति जातिविशेषस्तथापि प्रैषमन्त्रलिङ्गाज्जातिविशेषसंग्रह इत्यर्थः / मन्त्राणमुदाहरणान्तरमाह-तथेति /
SK
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः / तथेति ऽस जनास इन्द्रऽइत्यनेनोपलक्षितं सूक्तं सजनीयं तस्य याजुषाध्वर्युकर्तृकप्रयोगे शंसनं दृष्टमित्यर्थः / यो जातो बाल एव प्रथमो गुणैः श्रोष्ठो मनस्वान्विवेकवान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः
SK
END Bस्Cओम्_३,३.३१.५६
SK
START Bस्Cओम्_३,३.३२.५७
SK
३२ भूमज्यायस्त्वाधिकरणम् / सू. ५७
SK
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति | BBस्_३,३.५७ |
SK
ऽप्राचीनशाल औपमन्यवःऽ (छा. ५.११.१) इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रूयते / व्यस्तोपासनं तावत् ऽऔपमन्यव कं त्वमात्मानमुपाःस इति देवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपाःसेऽ (छा. ५.१२.१) इत्यादि / तथा समस्तोपासनमपि ऽतस्य ह वा एतस्यात्मनो वैश्वानरस्यमूर्धैव सुतेजाश्चक्षुर्विश्वरूप प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौऽ (छा. ५.१८.२) इत्यादि / तत्र संशयः - किमिहोभयथाप्युपासनं स्याद्व्यस्तस्य समस्तस्य चोत स्मस्तस्यैवेति / किं तावत्प्राप्तम् / प्रत्यवयवं सुतेजःप्रभृतिषूपाःस इति क्रियापदश्रवणात् ऽतस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यतेऽ (छा. ५.१२.१) इत्यादिफलभेदश्रवणाच्च व्यस्तान्यप्युपासनानि स्युरिति प्राप्तम् / ततो ऽबिधीयते - भून्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यमस्मिन्वाक्ये विवक्षितं भवितुमर्हति न प्रत्येकमवयवोपासनानामपि / क्रतुवत् / यथा क्रतुषु दर्शपूर्णमासाप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एवैकोविवक्ष्यते न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् / नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य तद्वत् / कुत एतद्भूमैव ज्यायानिति / तथाहि श्रुतिर्भूम्नो ज्यायस्त्वं दर्शयति एकवाक्यतावगमात् / एकं हीदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते / तथाहि - प्राचीनशालप्रभृतय उद्दालकावसानाः षडृषयो वैश्वानरविद्यायां परिनिष्ठमप्रतिपद्यमाना अश्वपतिं कैकेयं राजानमभ्याजग्मुरित्युपक्रम्यैकैकस्यर्षेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा ऽमूर्धा त्वेष आत्मन इति होवाचऽ (छा. ५.१२.२) इत्यादिना मूर्धादिभावं तेषां विदधाति / ऽमूर्धा तेव्यपतिष्यद्यन्मां नागमिष्यःऽ (छा. ५.१२.२) इत्यादिना च व्यस्तोपासनमपवदति / पुनश्च व्यस्तोपासनं व्यावर्त्य समस्तोपासनमेवानुवर्त्य ऽस सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिऽ (छा. ५.१८.१) इति भूमाश्रयमेव फलं दर्शयति / यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणं तदेवं सत्यङ्गफलानि प्रधान एवाभ्युपगतानीति द्रष्टव्यम् / तथोपाःस इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थं न व्यस्तोपासनविधानार्थम् / तस्मात्समस्तोपासनपक्ष एव श्रेयानीति / केचित्त्वत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारो ऽनुमन्यत इति कथयन्ति तदयुक्तम् / एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् / ऽमूर्धा ते व्यपतिष्यत्ऽ (छा. ५.१२.२) इति चैवमादिनिन्दावचनविरोधात् / स्पष्टो चोपासंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् / सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणाप्युपपद्यमानत्वात्
SK
भूम्नः क्रतुवत् / द्युलोकादिषु प्रत्येकं वैश्वानरत्वोपास्तिर्व्यस्तोपास्तिस्तदवयव्युपास्तिः समस्तोपास्तिरिति भेदः / आख्यायिका पूर्वमेव व्याख्याता / अत्रोभयत्र विधिफलयोः श्रवणादेकवाक्यत्वोपपत्तेश्च संशयमाह-तत्रेति / ऽसैव हि सत्यादयःऽइत्यत्र तद्यत्तत्सत्यमिति प्रकृताकर्षाद्विद्यैक्यमुक्तं तद्वदत्रैक्यहेत्वभावादगतार्थत्वं मत्वा पूर्वत्रोद्गीथादिश्रुत्या संनिधिबाधेनोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारवद्व्यस्तोपास्तीनां विधिश्रुतेः फलश्रवणस्य च समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह-प्रत्यवयवमिति / फलानुक्तौ पूर्वोत्तरपक्षसिद्धिरेव फलं मन्तव्यम् / सुतं खण्डितं सोमद्रव्यं तस्यैव प्रस्तुत्वमासमन्तात् सुतत्वमवस्थाभेदः / सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् / आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्यप्रकरणाभ्यां व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकप्रधानफलतयोपसंहाराद्वाक्यभेदो न युक्त इति सिद्धान्त्याशयः / एकदेशिव्याख्यामनूद्य दूषयति-केचिदिति / यद्युभयथोपासनं सिद्धान्तस्तर्हि व्यस्तोपासमेवेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह-स्पष्टे चेति / कथं तर्हि सूत्रे ज्यायस्त्वोक्तिस्तत्राह-सौत्रस्योति /
SK
व्यस्तोपास्तीनामप्रामाणिकत्वद्योतनार्थं तदुक्तिरिति भावः
SK
END Bस्Cओम्_३,३.३२.५७
SK
START Bस्Cओम्_३,३.३३.५८
SK
३३ शब्दादिभेदाधिकरणम् / सू. ५८
SK
नाना शब्दादिभेदात् | BBस्_३,३.५८ |
SK
पूर्वस्मिन्नधिकरणे सत्यमपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम् / अतः प्राप्ता बुद्धिरन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्योपाशिष्यन्त इति / अपिच नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते /
SK
वेद्यं हि रूपं विद्याया द्रव्यदैवतमिव यागस्य / वेद्यश्चैक एवेस्वरः श्रुतिनानत्वे ऽप्यवगम्यते ऽमनोमयः प्राणशरीरःऽ (छा. ३.१४.२) ऽकं ब्रह्म खं ब्रह्मऽ (छा. ४.१०.५) ऽसत्यकामः सत्यसंकल्पःऽ (छा. ८.१.५) इत्येवमादिषु / तथा एक एव प्राणः प्राणो वाव संवर्गःऽ (छा. ४.३.३) ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. ५.१.१) ऽप्राणो ह पिता प्राणो माताऽ (छा. ७.१५.१) इत्येवमादिषु /
SK
वैद्यैकत्वाच्चविद्यैकत्वम् / श्रुतिनानात्वमप्यस्मिन्पक्षे गुणान्तरपरत्वान्नानार्थकम् / तस्मात्स्वपरशाखाविहितमेकद्यव्यपाश्रयं गुणजातंमुपसंहर्तव्यं विद्याकार्त्स्न्यायेति / एवं प्राप्ते प्रतिपद्यते नानेति / वेद्याभेदे ऽप्येवञ्जातीयकाविद्या भिन्ना भवितुमर्हति / कुतः शब्दादिभेदात् / भवति हि शब्दभेदः ऽवेदऽ ऽउपासीतऽ ऽस क्रतुं कुर्वतिऽ (छा. ३.१४.१) इत्येवमादिः / शब्दभेदाश्च कर्मभेदहेतुः समधिगतः पुरस्ताच्छब्दान्तरे कर्मभेदः कृतानुबन्धत्वादिति / आदिग्रहणाद्गुणादयो ऽपि यथासंभवं भेदहेतवो योजयितव्याः /
SK
ननु वेदेत्यादिषु शब्दभेद एवावगम्यते न यजतीत्यादिवदर्थभेदः सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् अर्थान्तरासंभवाच्च / तत्कथं शब्दभेदाद्विद्याभेद इति /
SK
नैष दोषः / मनोवृत्त्यर्थत्वाभेदे ऽप्यनुबन्धभेदाद्वेद्यबेदे सति विद्याभेदोपपत्तेः / एकस्यापीश्वरस्योपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते / तथैकस्यापि प्राणस्य तत्र तत्रोपास्यस्यभेदे ऽप्यन्यादृग्गुणो ऽन्यत्रोपासितव्यो ऽन्यादृग्गुणश्चान्त्रेत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते / नचात्रैको विद्याविधिरितरे गुणविधय इति शक्यं वक्तुम् / विनियोगमनायां हेत्वभावात् / अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः / नचास्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः / प्रतिप्रकरणं चेदङ्कामेनेदमुपासितव्यमिदङ्कामेन चेदमिति नैराकाङ्क्ष्यावगमान्नैकवाक्यतापत्तिः / नचात्र वैश्वानरविद्यायामिव समस्तचोदनापरास्ति यद्बलेन प्रतिप्रकरणवर्तिन्यवयवोपासनानि भूत्वैकवाक्यतामियुः / विद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ् कुशे प्रतिज्ञायमाने समस्तगुणोपसंहारो ऽशक्यः प्रतिज्ञायेत / तस्मात्सुष्ठूच्यते नाना शब्दादिभेदादिति / स्थिते चेतस्मिन्नधिकरणे सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम्
SK
नाना शब्दादिभेदात् / शाण्डिल्यादिब्रह्मविद्यैका नाना वा तथा संवर्गादि प्राणविद्यैका नाना वेति रूपैक्यभावाभावाभ्यां संशये दृष्टान्तसंगत्या पूर्वपक्षमाह-पूर्वस्मिन्निति / रूपैक्याच्च विद्यैक्यमित्याह-अपिचेति / विद्यैक्यं चेदेकश्रुत्युक्तविद्यायाः श्रुत्यन्तरे ऽप्युक्तिर्वृथेत्यत आह-श्रुतिनानात्वमपीति / पूर्वपक्षफलमाह-तस्मादिति / सिद्धान्ते तु गुणानुपसंहार इति मत्वा सूत्रं योजयति-वेद्याभेदे ऽपीति / ननु भिन्नभावार्थवाचकशब्दः शब्दान्तरं यथा ऽयजति ददाति जुहोतिऽइति तस्मिञ्शब्दभेदे कर्मशब्दितविध्यर्थभावानाया भेदो युक्तस्तस्याः कृतानुबन्धत्वाद्भेदेन स्वीकृतविषयत्वाद्भावार्थभेदादिति यावत् / प्रकृते तु वेदोपासीतेत्यादिशब्दार्थोपास्तेर्यागदानहोमवत्स्वतो भेदाभावात्सिद्धगुणकब्रह्मणा एकत्वेन विषयतो ऽपि भेदाभावात्कथमुपास्तिभेद इति शङ्कते-नन्विति / अत्र सूत्रे शब्दभेदो ऽभ्युच्चयमात्रतयोक्तः, विद्यानानात्वे सम्यग्घेतवस्त्वादिपदोपात्ता गुणादय एव / तथाहि सिद्धस्यापि गुणस्य कार्यान्वयितया कार्यत्वमस्ति / यथा आरुण्यादिगुणानां क्रयणभावनान्वयितया कार्यत्वं तथाच तत्तत्प्रकरणेषूत्पत्तिशिष्टैरुपास्तिभावनान्वयितया साध्यैस्तत्तद्गुणैर्विशिष्टतयोपास्यरूपाभेदादुपासनाभेदः / यथा छत्रचामरादिगुणभेदेन राजोपास्तिभेदः, यथावामिक्षावाजिनगुणभेदेन यागभेदस्तद्वत् / तथा प्रतिविद्यं फलसंयोगभेदाद्दहरशाण्डिल्यादिसमाख्याभेदाद्भेद इति समाधत्ते-नैष दोष इत्यादिना / यदुक्तं श्रुतिनानात्वं गुणान्तरविध्यर्थमिति तन्नेत्याह-न चात्रैक इति / किञ्च प्राप्तविद्यानुवादेनाप्राप्तानेकगुणविधाने वाक्यभेदः स्यादित्याह-अनेकत्वाच्चेति / किञ्च विद्यैक्यपक्षे गुणानां पुनरुक्तिर्वृथा, नच प्रत्यभिज्ञानार्था ब्रह्मैक्यादेव तत्सिद्धेः, विद्यानानात्वपक्षे तु गुणानामप्राप्तेः सा प्राप्यर्थेत्याह-न चास्मिन्पक्ष इति / फलभेदाच्चोदनैक्याभावात्सर्वगुणध्यानस्याशक्यत्वाच्च विद्या नानेत्याह-प्रतिप्रकरणं चेत्यादिना / दहरध्यातुः सर्वेषु लोकेषु कामचारो भवति वैश्वानरध्याता सर्वत्रान्नमत्तीत्यादिफलभेद इत्यर्थः / ननु विद्यानानात्वे सिद्धे पश्चाद्दहरादिविद्या प्रतिवेदान्तमेकानेका वेति चिन्तोचिता तत्कथमादौ सा कृतेत्यत आह-स्थिते चेति /
SK
विद्यानानात्वाधिकरणं पादादावेव संगतमत्र प्रासङ्गिकमिति भावः
SK
END Bस्Cओम्_३,३.३३.५८
SK
START Bस्Cओम्_३,३.३४.५९
SK
३४ विकल्पाधिकरमम् / सू. ५९
SK
विकल्पो ऽविशिष्टफलत्वात् | BBस्_३,३.५९ |
SK
स्थिते विद्याभेदे विचार्यते किमासामिच्छया समुच्चयो विकल्पो वा स्यात्, अथवा विकल्प एव नियमेनेति / तत्र स्थितत्वात्तावद्विद्याभेदस्य न समुच्चयनियमे किञ्चित्कारणमस्ति /
SK
ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते /
SK
नैष दोषः / नित्यताश्रुतिर्हि तत्र कारणं नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति / तस्मान्न समुच्चयनियमः / नापि विकल्पनियमः / विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् / पारिशेष्याद्याथाकाम्यमापद्यते /
SK
नन्वविशिष्टफलत्वादासां विकल्पो न्याय्यः / तथाहि - मनोमयः प्राणशरीरः (छा. ३.१४.२) ऽकं ब्रह्म खं ब्रह्मऽ (छा.४.१०५) ऽसत्यकामः सत्यसंकल्पःऽ (छा. ८ १.५) इत्येवमाद्यास्तुल्यवदीश्वरप्राप्तिफला लक्ष्यन्ते /
SK
नैष दोषः / समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु यताकाम्यदर्शनात् / तस्माद्यथाकाम्यप्राप्तावुच्यते विकल्प एवासां भवितुमर्हति न समुच्चयः / कस्मात् / अविशिष्टफलत्वात् / अविशिष्टं ह्यासां फलमुपास्यविषयसाक्षात्करणम् / एकेन चोपासनेन साक्षात्कृ उपास्ये विषय ईश्वरादौ द्वितीयमनर्थकम् / अपि चासंभवः / साक्षात्करणस्य समुच्चयपक्षे चित्तविक्षेपहेतुत्वात् / साक्षात्करणसाद्यं च विद्याफलं दर्शयन्ति श्रुतयः -
SK
ऽयस्य स्यादद्धा न विचिकित्सास्तिऽ (छा. ३.१४.४) इति ऽदेवो भूत्वा देवानप्येतिऽ (बृ. ४.१.२) इति चैवमाद्याः / तस्मादविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्याद्यावदुपास्यविषयसाक्षात्करमेन तत्फलं प्राप्तमिति
SK
विकल्पः / विद्यानां स्वरूपमुक्त्वानुष्ठानप्रकारो ऽत्र निरूप्यत इत्युपजीव्यत्वसंगतिमाह-स्थित इति / विद्यास्त्रिविधाः अहङ्ग्रहास्तटस्था अङ्गाश्रिताश्चेति / तत्राहङ्ग्रहविद्यासु याथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यात्संशयमाह-किमिति / पूर्वपक्षे यथेच्छमनुष्ठानमित्यनियमः सिद्धान्ते विकल्पेनानुष्ठानमिति नियम इति फलभेदः तत्रानियमं साधयति-तत्र स्थितत्वादित्यादिना / एकपुरोडाशफलत्वाद्यथा व्रीहियवयोर्विकल्पस्तथा विकल्पनियम एवासां विद्यानां न्याय्यः, तुल्यफलत्वात् / नच फलभूयस्त्वार्थिनः काम्यकर्मसमुच्चयो ऽपि दृष्ट इति वाच्यम्, ईश्वरसाक्षात्कारात्परं फलभेदे ऽप्यासामहङ्ग्रहोपास्तीनां साक्षात्कारात्मकफलस्य तुल्यत्वात्, तस्य चैकयाकृतत्वे अन्यस्याः कृत्याभावाच्चित्तविक्षेपकतया तद्विघातकत्वाच्चेति सिद्धान्तभाष्यार्थः / मास्तु साक्षात्कार इत्यत आह-साक्षात्करणसाध्यं चेति / यस्य पुंसः, अद्धा ईश्वरो ऽहमिति साक्षात्कारः स्याद्विचिकित्सा च नास्ति अहमीश्वरो न वेति तस्यैवेश्वरप्राप्तिरित्यर्थः / जीवन्नेव भावनया देवत्वं साक्षात्कृत्य देहपातोत्तरकालं देवान्प्राप्नोतीति श्रुत्यन्तरार्थः /
SK
अहङ्ग्रहाणामनुष्ठानप्रकारमुपसंहरति-तस्मादिति
SK
END Bस्Cओम्_३,३.३४.५९
SK
START Bस्Cओम्_३,३.३५.६० ३५ काम्याधिकरणम् / सू. ६०
SK
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् | BBस्_३,३.६० |
SK
अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम् / यासु पुनः काम्यासु विद्यासु ऽस य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितिऽ (छा. ३.१५.२) ऽस यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यताकामचारो भवतिऽ (छा. ७.१.५) इति चैवमाद्यासु क्रियावददृष्टेनात्मनात्मीयं फलं साधयन्तीषु साक्षात्करणापेक्षा नास्ति / ता यताकामं समुच्चीयेरन्न वा समुच्चीयेरन्पूर्वहेत्वाभावात् / पूर्वस्याविशिष्टफलत्वादित्यस्य विकल्पहेतोरभावात्
SK
३६ यथाश्रयभावादिकरणम् / सू. ६१-६६
SK
काम्यास्तु / तटस्थोपास्तयो ऽत्र विषयस्तासु किं विकल्प उत यथाकाममनुष्ठानमिति पूर्ववत्संशये सत्युपास्तित्वाविशेषादहङ्ग्रहवद्विकल्प इति प्राप्तावपवादं सिद्धान्तयति-अविशिष्टेति /
SK
स यः कश्चिदेतं वायुमेवं गोत्वेन कल्पितानां दिशां वत्सं वेदोपास्ते नासौ पुत्रमरणनिमित्तं रोदनं रोदिति लभते नित्यमेव जीवत्पुत्रो भवतीत्यर्थः / अहङ्ग्रहदृष्टान्ते साक्षात्कारद्वारत्वमुपाधिरिति भावः
SK
END Bस्Cओम्_३,३.३५.६०
SK
START Bस्Cओम्_३,३.३६.६१
SK
अङ्गेषु यथाश्रयभावः | BBस्_३,३.६१ |
SK
कर्माङ्गेषूद्गीथादिषु य आश्रिताः प्रत्यया वेदत्रयविहिताः किं ते समुच्चीयेरन्किंवा यथाकामं स्युरिति संशये यथाश्रयभाव इत्याह / यतैवैषामाश्रयाः स्तोत्रादयः संभूय भवन्त्येवं प्रत्यया अपि आश्रयतन्त्रत्वात्प्रत्ययानाम्
SK
संप्रत्यङ्गावबद्धोपास्तीनामनुष्ठानक्रमं वक्तुं पूर्वपयति-अङ्गेष्विति / अङ्गाश्रितत्वात्सफलत्वाच्च संशयमाह-किमिति /
SK
यथा क्रत्वनुष्ठाने तदाश्रिताङ्गानां समुच्चित्यानुष्ठाननियमस्तथाङ्गानुष्ठाने तदाश्रितोपास्तीनां तन्नियम इति सूत्रार्थः / ननु तन्निर्धारणानियम इत्यत्राङ्गाश्रितानां गोदोहनवदनङ्गत्वमुक्तं तत्कथमनङ्गानामङ्गवत्समुच्चयशङ्केत्युच्यते / अङ्गान्यनुष्ठापयन्प्रयोगविधिर्यद्युपासनानि नानुष्ठापयेत्तर्हि तेषां तदाश्रितत्वं व्यर्थमिति मन्वानस्य शङ्केति भावः
SK
END Bस्Cओम्_३,३.३६.६१
SK
START Bस्Cओम्_३,३.३६.६२
SK
शिष्टेश् च | BBस्_३,३.६२ |
SK
यथा वाश्रयाः स्तोत्रादयस्त्रिषु शिष्यन्त एवमाश्रिता अपि प्रत्ययाः / नोपदेशकृतो ऽपि कश्चिद्विशेषो ऽङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः
SK
तर्हि गोदोहनस्यापि समुच्चयः स्यादित्यत आह-शिष्टेश्चेति /
SK
शिष्टिः शासनं विधानमिति यावत् / विहितत्वाविशेषात्समुच्चयो ऽङ्गत्वादित्यर्थः / गोदोहनस्य तु नानुष्ठाननियमः, चमसस्थाने विहितत्वात्तन्नियमे चमसविधिवैयर्थ्यात् / उपासनानां तु न कस्यचिदङ्गस्य स्थाने विहितत्वमिति समुच्चयनियमो न विरुध्यत इति भावः
SK
END Bस्Cओम्_३,३.३६.६२
SK
START Bस्Cओम्_३,३.३६.६३
SK
समाहारात् | BBस्_३,३.६३ |
SK
होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति (छा. १.५.५) इति च प्रणवोद्गीथैकत्वाविज्ञानमाहात्म्यादुद्गातास्वकर्मणयुत्पन्नं क्षतं होत्रात्कर्मणः प्रतिसमादधातीति ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात्स्रववेदोदितप्रत्ययोपसंहारसूचयतीति लिङ्गदर्शनम्
SK
समुच्चये लिङ्गम्-समाहारादिति / ऽऋग्वेदिनां यः प्रणवः स सामवेदिनामुद्गीथःऽइति छान्दोग्ये प्राणवोद्गीथयोरैक्यध्यानविधिरस्ति, तस्य फलार्थवादो होतृषदनादित्यादिः / होतुः शंसनस्थलवाचिना होतृषदनशब्देन शंसनं लक्ष्यते-उद्गाता स्वरादिप्रमादाद्दुष्टमप्युद्गीथं सम्यक्कृताद्धोतृशंसनादनुसमाहारत्येव निर्देषं करोत्येव किल, शंस्यमानप्रणवेन स्वीयोद्गीथस्यैक्यध्यानबलादित्यर्थः / ततः किं तत्राह-इति ब्रुवन्निति /
SK
सामवेदस्थोद्गीथध्यानस्य ऋग्वेदोक्तप्रणवसंबन्धो यो दृष्टः स एवाङ्गानां सर्ववेदान्तविहितोपास्तिसमुच्चये लिङ्गं प्रणवरूपपदार्थस्योपास्तीनां च वेदान्तरोक्तत्वसादृश्याद्वेदान्तरोक्ताङ्गसंबन्धस्यापि समानत्वादित्यर्थः
SK
END Bस्Cओम्_३,३.३६.६३
SK
START Bस्Cओम्_३,३.३६.६४
SK
गुणसाधारण्यश्रुतेश् च | BBस्_३,३.६४ |
SK
विद्यायां च विद्याश्रयं सन्तमोङ्कारं वेत्रयसाधारणांश्रावयति- ऽतेनेयं त्रयी विद्या वर्तत ओमित्याश्रायत्योमिति शंसत्योमित्युद्गायतिऽ (छा. १.१.९) इति च / ततश्चाश्रयसादारण्यादाश्रितसाधारम्यमिति लिङ्गदर्शनमेव / अथवा गुणसाधारण्यश्रुतेश्चेति / यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युर्न स्यात्ततस्तदाश्रयाणां प्रत्ययानां सहभावः / ते तूद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते / तथश्चाश्रयसहभावात्प्रत्ययसहभाव इति
SK
ओङ्कारस्य ध्येयस्य साधारण्यादपि तदाश्रितध्यानानां समुच्चित्यानुष्ठानं गम्यत इति लिङ्गान्तरमाह-गुणेति / तेनोङ्कारेण, वेदत्रयोक्तं कर्म प्रवर्तत इत्यर्थः अन्वयमुखेनोक्तमेवार्थं व्यतिरेकतो ऽपि व्याचष्टे-अथवेति
SK
END Bस्Cओम्_३,३.३६.६४
SK
START Bस्Cओम्_३,३.३६.६५
SK
न वा तत्सहभावाश्रुतेः | BBस्_३,३.६५ |
SK
न वेति पक्षव्यावर्तनम् / न यताश्रयभाव आश्रितानामुपासनानां भवितुमर्हति / कुतः - तत्सहभावाश्रुतेः / यथा हि त्रिवेदीविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते - ऽग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति स्तोत्रमनुशंसति प्रस्तोतः साम गाय होतरेतद्यजऽ इत्यादिना / नैवमुपासनानां सहभावश्रुतिरस्ति /
SK
ननु प्रयोगवचन एषां सहभावं प्रापयेत् /
SK
नेति ब्रूमः - पुरुषार्थत्वादुपासनानाम् / प्रयोगवचनो हि ऋत्वर्तानामुद्गीथादीनां सहभावं प्रापयेत् / उद्गीथाद्युपासनानि ऋत्वर्थाश्रयाण्यपि गोदोहनादिवत्पुरुषार्थनीत्वोचाम ऽपृथग्घ्यप्रतिबन्धः फलम्ऽ (ब्र.सब. ३.३.४२) इत्यत्र / अयमेव चोपदेशाश्रयो विसेषो ऽङ्गानां तदालम्बनानां चोपासनानां यदेकेषां क्रत्वर्थत्वमेकेषां पुरुषार्थत्वमिति / परं च लिङ्गद्वयमकारणमुपासनसहभावस्य श्रुतिन्यायाबावात् / नच प्रतिप्रयोगमाश्रयकार्त्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् / अतत्प्रत्युक्तत्वादुपासनानाम् / आश्रयतन्त्राण्यपि ह्युपासनानि काममाश्रयाभावे मा भूवन्न त्वाश्रयसहभावेन सहभावनियममर्हन्ति तत्सहभावाश्रुतेरेव / तस्माद्यथाकाममेवोपासनान्यनुष्ठीयेरन्
SK
फलेच्छाया अनियमादुपास्त्यनियम एव युक्तः, अङ्गत्समुच्चयनियमे मानाभावादिति सिद्धान्तयति-न वेति / प्रयोगविधिः खलु साङ्गप्रधानानुष्ठाननियामको न त्वनङ्गानां संग्रहक इत्याह-नेति ब्रूम इति / विमतोपास्तयः क्रतौ न समुच्चित्यानुष्ठोयाः, भिन्नफलत्वाद्गोदोहनवदिति भावः / शिष्टेश्चेत्युक्तं निरस्यति-अयमेवेति / समाहाराद्गुणसाधारण्यश्रुतेश्चेत्युक्तं लिङ्गद्वयमपि मानान्तरप्राप्तस्य द्योतकं न स्वयं साधकमर्थवादस्थत्वादित्याह-परं चेति / गुणसाधारण्यसूत्रस्य द्वितीयां व्याख्यां दूषयति-नचेति / तत्प्रयुक्तत्वाभावे तदाश्रितत्वं कथमित्यत आह-आश्रयेति /
SK
इदमेव तेषां अङ्गाश्रितत्वं यदङ्गाभावे सत्यसत्त्वं न त्वङ्गव्यापकत्वमित्यर्थः
SK
END Bस्Cओम्_३,३.३६.६५
SK
START Bस्Cओम्_३,३.३६.६६
SK
दर्शनाच् च | BBस्_३,३.६६ |
SK
दर्शयति च श्रुतिसहभावं प्रत्ययानम् - ऽएवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजो ऽभिरक्षतिऽ
SK
(छा. ४.१७.१०) इति / सर्वप्रत्ययोपसंहारे हि सर्वे सर्वविदः इति न विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां संकीर्त्येत / तस्माद्यथाकाममुपासनानां समुच्चयो विकल्पो वेति
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाद्यायस्य तृतीयः पादः
SK
किञ्च विदुषा ब्रह्मणान्येषामृत्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह-दर्शनाच्चेति /
SK
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मण इत्यर्थः
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकव्याख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य तृतीयः पादः
SK
// इति तृतीयाध्यायस्य परापरब्रह्मविद्यागुणोपसंहाराख्यस्तृतीयः पादः //
SK
END Bस्Cओम्_३,३.३६.६६
SK
तृतीयाध्याये चतुर्थः पादः /
SK
अत्र निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचारः
SK
तृतीयाध्याये चतुर्थः पादः /
SK
START Bस्Cओम्_३,४.१.१
SK
१ पुरुषार्थाधिकरणम् / सू. १-१७
SK
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः | BBस्_३,४.१ |
SK
अथेदानीमौपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित्स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनैव तादुपक्रमते पुरुषार्थो ऽत इति / अस्मद्वेदान्तविहितादात्मज्ञानात्स्वतनत्रात्पुरुषार्थः सिद्द्यतीति बादरायण आचार्यो मन्यते / कुत एतदवगम्यते शब्दादित्याह / तथाहि - ऽतरति शोकमात्मवित्ऽ (छा. ७.१.३) ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मु. ३.२.९) ऽब्रह्मविदाप्नोति परम्ऽ (तै. २.१.१) ऽआचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्नविमोक्ष्ये ऽथ संपत्स्येऽ (छा / ६.१४.२) इति / ऽय आत्मापहतपाप्माऽ (छा. ८.७.१) इत्युपक्रम्य ऽसर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति (छा. ८.७.१) इति / ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ. ४.५.६) इत्युपक्रम्य ऽएतावदरे खल्वमृतत्वम्ऽ (बृ. ४.५.१५) इत्येवञ्जातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति
SK
कर्माङ्गविद्याप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्याह-पुरुषार्थो ऽतः शब्दादिति बादरायणः / पूर्वपादे परापरविद्यानां गुणोपसंहारोक्त्या स्वरूपं निश्चितमस्मिन्पादे तासां कर्मानङ्गतया पुरुषार्थहेतुत्वं निरूप्यते / ततो ऽङ्गाकाङ्क्षायां यज्ञादीनि बहिरङ्गानि शमाद्दीन्यन्तरङ्गानि च निरूप्यन्त इत्येकविद्याविषयत्वं पादयोः संगतिः तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादिविप्रतिपत्त्या संशयमाह-अथेति /
SK
पूर्वपक्षे ज्ञानकर्मणोरङ्गाङ्गित्वेन समुच्चयः / सिद्धान्ते केवलज्ञानान्मुक्तिरिति फलभेदः / ऽय आत्मेतिऽप्रजापत्युक्तब्रह्मविद्यायां लोकादिकं सगुणविद्याफलं मोक्षानन्दे ऽन्तर्भावाभिप्रायेणोक्तमिति मन्तव्यम्
SK
END Bस्Cओम्_३,४.१.१
SK
START Bस्Cओम्_३,४.१.२
SK
अथात्र प्रत्यवतिष्ठते -
SK
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः | BBस्_३,४.२ |
SK
कर्तृत्वमात्मनः कर्मशेषत्वात्तद्विज्ञानमपि व्रीहिप्रोक्षणादिवद्विषयद्वारेण कर्मसंबन्ध्येवेत्यतस्तस्मिन्नवगतप्रयोजन आत्मज्ञाने या फलश्रुतिः सार्थवाद इति जैमिनिराचार्यो मन्यते यथान्येषु द्रव्यसंस्कारकर्मसु ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति / यदङ् के चक्षुरेव भ्रातृव्यस्य वृङ् क्ते / यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते कर्म यजमानस्य भ्रातृव्याभिभूत्यैऽ इत्येवञ्जातीयका फलश्रुतिरर्थवादः / तद्वत् /
SK
कथं पुनरस्यानरभ्याधीतस्यात्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते / कर्तृद्वारेण वाक्यात्तद्विज्ञानस्य क्रतुसंबन्ध इति चेत् /
SK
न / वाक्यात्तद्विनियोगानुपपत्तेः / अव्यभिचारिणा हि केनचिद्द्वारेणानारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसंबन्धो ऽवकल्पते / कर्ता तु व्यभिचारि द्वारं लोकिकवैदिककर्मसाधारण्यात् / तस्मान्न तद्द्वारेणात्मज्ञानस्य क्रतुसंबन्धसिद्धिरिति / न / व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्यो ऽन्यत्रानुपयोगात् / नहि देहव्यतिरिक्तात्मज्ञानं लोकिकेषु कर्मसूपयुज्यते / सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः / वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिर्नोपपद्यत इत्युपयुज्यते व्यतिरेकविज्ञानम् /
SK
नन्वपहतपाप्मत्वादिविशेषणादसंसार्यात्मविषयमौपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् /
SK
न / प्रियादिसंसूचितस्य संसारिण एवात्मनो द्रष्टव्यत्वेनोपदेशात् / अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति /
SK
ननु तत्र तत्र प्रसीधितमेतदधिकमसंसारि ब्रह्म जगत्कारणं तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपमुपनिषत्सूपदिश्यत इति / सत्यं प्रसादितं तस्यैव तु स्थूणानिखननवत्फलद्वारेणाक्षेपसमाधाने क्रियेते दार्ढ्याय
SK
एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति-शेषत्वादिति / सूत्रेर्ऽथवादपदमावर्तनीयम् / ज्ञानात्पुरुषार्थवादोर्ऽथवाद इत्यर्थः / ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मेशेषाश्रयत्वात्प्रोक्षणपर्णमयीत्वादिवदिति भावः / तत्त्वनिर्णयार्थं गुरुशिष्ययोः कथावादो ऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् / अङ्गिफलेनाङ्गभूत आत्मावगतप्रयोजनस्तदाश्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः-यथेति / पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः / वर्म कवचम् / आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते-कथमिति / पूर्वपक्ष्याह-कर्त्रिति / युक्तो ह्यनारभ्याधीतायाः पर्णताया जुहूद्वारेण वाक्यात्क्रत्वङ्गभावो जुह्वाः क्रतुव्याप्यतया क्रतूपस्थापकत्वात्, न तथात्मविज्ञानस्य ऽआत्मा द्रष्टव्यःऽइति वाक्यात्क्रतुसंबन्ध उपपद्यते, आत्मनः क्रतुव्याप्त्यभावादिति सिद्धान्ती दूषयति-नेति / देहभिन्नत्वेन ज्ञातात्मनः क्रतुव्याप्यत्वमस्तीति पूर्वपक्षी समाधत्ते-न व्यतिरेकेति / सर्वथेति / देहात्मत्वेनापीत्यर्थः / देहभिन्नकर्तृज्ञानस्याङ्गत्वे ऽप्यकर्तृब्रह्मात्मज्ञानस्य नाङ्गत्वमिति शङ्कते-नन्वपहतेति / यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचितभोक्तृभिन्नमकर्तृस्वरूपं नास्तीति समाध्यर्थः / जन्मादिसूत्रमारभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते-नन्विति / स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्वर्थत्वपुरुषार्थत्वविचारेण दार्ढ्यं क्रियत इत्याह-सत्यमिति
SK
END Bस्Cओम्_३,४.१.२
SK
START Bस्Cओम्_३,४.१.३
SK
आचारदर्शनात् | BBस्_३,४.३ |
SK
ऽजनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजेऽ (बृ. ३.१.१) ऽयक्ष्यमाणो वै भगवन्तो ऽहमस्मिऽ (छा. ५.११.५) इत्येवमादीनि ब्रह्मविदामप्यन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति / तथोद्दालकादीनामपि पुत्रानुशासनादिदर्शनाद्गार्हस्थ्यसंबन्धो ऽवगम्यते / केवलाच्चेज्ज्ञानात्पुरुषार्थसिद्धिः स्यात्किमर्थमनेकायाससमन्वितानि कर्माणि ते कुर्युः ऽअर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्ऽ इति न्यायात्
SK
ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह-आचारेति / ईजे यागं कृतवानित्यर्थः / हे भगवन्त इति ब्राह्मणान्संबोध्य ब्रह्मवित्कैकेयराजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणो ऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः / अन्यपरेष्विति विद्याविधिपरेष्वित्यर्थः / अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह-अक्व इति / समीप इत्यर्थः //
SK
अर्क इति पाठे ऽप्ययमेवार्थः
SK
END Bस्Cओम्_३,४.१.३
SK
START Bस्Cओम्_३,४.१.४
SK
तच्छ्रुतेः | BBस्_३,४.४ |
SK
ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. १.१.१०) इति च कर्मशेषत्वश्रवणाद्विद्याया न केवलायाः पुरुषार्थहेतुत्म्
SK
ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुतिरप्यस्तीत्याह-तच्छ्रुतेरिति
SK
END Bस्Cओम्_३,४.१.४
SK
START Bस्Cओम्_३,४.१.५
SK
समन्वारम्भणात् | BBस्_३,४.५ |
SK
ऽतं विद्याकर्मणी समन्वारभेतेऽ (बृ. ४.४.२) इति च विद्याकर्मणोः फलारम्भे सहकारित्वदर्शनान्न स्वातन्त्र्यं विद्यायाः
SK
लिङ्गान्तरमाह-समिति /
SK
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः
SK
END Bस्Cओम्_३,४.१.५
SK
START Bस्Cओम्_३,४.१.६
SK
तद्वतो विधानात् | BBस्_३,४.६ |
SK
ऽआचार्यकुलाद्वेदमधीत्य यथाविदानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानःऽ (छा. ८.१५.१) इति चैवञ्जातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् /
SK
नन्वत्राधीत्येत्यध्ययनमात्रं वेदस्य श्रूयते नार्थविज्ञानम् /
SK
नैष दोषः / दृष्टार्थत्वाद्वेदाध्ययनमर्थावबोधपर्यन्तमितिस्थितम्
SK
गुरोः शुश्रूषारूपं कर्म कुर्वन्नतिशेषेणावशिष्टेन कालेन यथाविधानं वेदमधीत्यानन्तरमाचार्यस्य कुलाद्गृहात् / ब्रह्मचर्यादिति यावत् / अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्नन्यांश्च नित्यादिधर्माननुतिष्ठन्ब्रह्मलोकं प्राप्नोतीति श्रुत्यर्थः / यथावघातस्तुषविमोकपर्यन्त एवमध्ययनमर्थावबोधान्तम् / दृष्टेर्ऽथावबोधाख्ये फले संभवति अध्ययनस्यादृष्टार्थत्वायोगादिति पूर्वतन्त्रे स्थितम् / ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्मविधानमित्यर्थः
SK
END Bस्Cओम्_३,४.१.६
SK
START Bस्Cओम्_३,४.१.७
SK
नियमाच् च | BBस्_३,४.७ |
SK
ऽकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः / एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरेऽ (ईश. २) इति / तथा ऽएतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वाऽ इत्येवञ्जातीयकान्नियमादपि कर्मशेषत्वमेव विध्यया इति
SK
यावज्जीवं कर्मनियमो ऽप्यत्र लिङ्गमित्याह-नियमाच्चेति /
SK
इह देहे कर्माणि कुर्वन्नेव शतं संवत्सराञ्जीवितुमिच्छेदेवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते / इतः कर्मणो ऽन्यथा नास्ति / कर्म विना श्रेयो नास्तीत्यर्थः / जरामर्यं जरामरणावधिकमित्यर्थः
SK
END Bस्Cओम्_३,४.१.७
SK
START Bस्Cओम्_३,४.१.८
SK
एवं प्राप्ते प्रतिविधत्ते -
SK
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् | BBस्_३,४.८ |
SK
तुशब्दात्पक्षो विपरिवर्तते / यदुक्तम् - ऽशेषत्वात्पुरुषार्थवादःऽ (ब्र. सू. ३.४.२) इति तन्नोपपद्यते / कस्मात् / अधिकोपदेशात् / यदि संसार्येवात्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषूपदिष्टः स्यात्ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् /
SK
अधिकस्तावच्छरीरादात्मनो ऽसंसारीश्वरः कर्तृत्वादिसंसारिधर्मरहितो ऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु / नच तद्विज्ञानं कर्मणां प्रवर्तकं भवति प्रत्युत कर्माण्युच्छिनत्तीति वक्ष्यति ऽउपमर्दं चऽ (ब्र.सू. ३.४.१६) इत्यत्र / तस्मात् ऽपुरुषार्थो ऽतः शब्दात्ऽ (ब्र.सू. ३.४.१) इति यन्मतं भगवतो बादरायणस्य तत्तथैव तिष्ठति न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते / तथाहि तमधिकं शारीरादीश्वरमात्मानं दर्शयन्ति श्रुतयः - ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. १.१९) ऽभीषास्माद्वातः पवतेऽ (तै. २.८.१) ऽमहद्भयं वज्रमुद्यतम्ऽ (कठ. ६.२) ऽएतस्य वा अक्षरस्य प्रशासने गार्गिऽ (बृ. ३.८.९) ऽतदैक्षत बहु स्यां प्रजायेयेति तत्तेजो ऽसृजतऽ (छा. ६.२.३) इत्येवमाद्याः / यत्तु प्रियादिसंसूचितस्य संसारिण एवात्मनो वेद्यतयानुकर्षणम् ऽआत्मनस्तु कामाय सर्वं प्रियं भवति / आत्मा वा अरे द्रष्टव्यःऽ (बृ. २.४.५) ऽयः प्राणेन प्राणिति स त आत्मा सर्वान्तरःऽ (बृ. ३.४.१) ऽय एषो ऽक्षीणि पुरुषो दृश्यतेऽ (छा. ८.७.४) इत्युपक्रम्य ऽएतं त्वेव ते भूयो ऽनुव्याख्यस्यामिऽ (छा. ८.९.३) इति चैवमादि तदपि ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ (बृ. २.४.१०) ऽयो ऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतिऽ (बृ. ३.५.१) ऽपरं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. ८.१२.३) इत्येवमादिभिर्वाक्यशेषैः सत्यामेवाधिकोपदिदिक्षायामत्यन्ताभेदाभिप्रायमित्यविरोधः / पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम् / उपाधिकृतं तु शारीरत्वम् ऽतत्वमसिऽ (छा. ६.८.७) ऽनान्योदतो ऽस्ति द्रष्टृऽ (बृ. ३.८.११) इत्यादिश्रुतिभ्यः / सर्वं चातद्विस्तरेणास्माभिः पुरस्तात्तत्र तत्र वर्णितम्
SK
कर्तुरधिकस्यासंसार्यात्मनः कर्मशेषत्वाभावात्तत्त्वज्ञानं कर्माङ्गं नेति सिद्धान्तयति-अधिकेति / अस्य महत इति वाक्यशेषात्प्रियसंसूचित आत्मा पर एव द्रष्टव्यः / यः प्राणादि प्रेरयति सो ऽप्यशनायाद्यत्ययवाक्यशेषात्पर एव / तथाक्षिपुरुषो ऽप्यवस्थासाक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः जीवानुकर्षणमभेदाभिप्रायमित्यङ्गीकारे न विरोध इति कथम्, अभेदे जीवत्वविरोधादित्यत आह-पारमेश्वरमिति /
SK
ज्ञानं कर्माङ्गमफलत्वे सति कर्मशेषाश्रयत्वादित्युक्तो हेतुरसिद्ध इति भावः
SK
END Bस्Cओम्_३,४.१.८
SK
START Bस्Cओम्_३,४.१.९-१०
SK
तुल्यं तु दर्शनम् | BBस्_३,४.९ |
SK
यत्तूक्तमाचारदर्शनात्कर्मशेषो विद्येति / अत्र ब्रूमः - तुल्यामाचारदर्शनमक्मशेषित्वे ऽपि विद्यायाः / तथाहि श्रुतिर्भवति - ऽएतद्वा स्म वै तद्विद्वांस आहुरृषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्थावयं यक्ष्यामहे / एतद्ध स्म वै तत्पूर्वे विद्वांसो ऽग्निहोत्रं न जुहवाञ्चक्रिरेऽ ऽएतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणयाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ (बृ. ३.५.१) इत्येवजातीयका / याज्ञवल्क्यादीनामपि ब्रह्मविदामर्मनिष्ठत्वं दृश्यते - ऽएतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहारऽ (बृ. ४.५.१५) इत्यादिश्रुतिभ्यः / अपिच यक्ष्यमाणो वै भगवन्तो ऽहमसमि (छा. ५.११.५) इत्येतल्लिङ्गदर्शनं वैश्वानरविद्याविषयम् / संभवति च सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् / नत्वत्रापि कर्माङ्गत्वमस्ति / प्रकरणाद्यभावात्
SK
यत्पुनरुक्तम् - ऽतच्छ्रुतेःऽ (ब्र.सू. ३.४.४) इति अत्र ब्रूमः -
SK
असार्वत्रिकी | BBस्_३,४.१० |
SK
ऽयदेव विद्यया करोतिऽ (छा. १.१.१०) इत्येषा श्रुतिर्न सर्वविद्याविषया / प्रकृतविद्याभिसंबन्धात् /
SK
प्रकृता चोद्गीथविद्या ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. १.१.१) इत्यत्र
SK
ब्रह्मविदां कर्मवत्संन्यासस्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोकसंग्रहार्थत्वेनान्यथासिद्धमित्याह-तुल्यं त्विति / किञ्च यस्य कर्म स न ब्रह्मविदित्याह-अपिचेति / तर्हि वैश्वानरविद्यायाः कर्माङ्गत्वं स्यादित्यत आह-नत्विति / ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभिमानाभावेनानधिकारित्वादिति भावः //९
SK
END Bस्Cओम्_३,४.१.९-१०
SK
START Bस्Cओम्_३,४.१.११
SK
विभागः शतवत् | BBस्_३,४.११ |
SK
यदप्युक्तम् - ऽतं विद्याकर्मणी समन्वारभेतेऽ (बृ. ४.४.२) इत्येतत्समान्वारम्भवचनमस्वतन्त्र्ये विद्याया लिङ्गमिति तत्प्रत्युच्यते / विभागो ऽत्र द्रष्टव्यो विद्यान्यं पुरुषमन्वारभते कर्मान्यमिति / शतवत् / यथा शतमाभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वत् / नचेदं समन्वारमभवचनं मुमुक्षुविषयम् ऽइति नु कामयमानःऽ (बृ. ४.४.६) इति संसारिविषयत्वोपसंहारात् / ऽअथाकामयमानःऽ (बृ. ४.४.६) इति च मुमुक्षोः पृथगुपक्रमात् / तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते विशेषाभावात् / करमापि विहितं प्रतिषिद्धं च यथाप्राप्तानुवादित्वात् / एवं सत्यविभागेनापीदं समन्वारम्भवचनमवकल्पते
SK
समन्वारम्भवचनस्य मुमुक्षुविषयत्वमङ्गीकृत्य विद्या अन्यं मुमुक्षुं मुक्तत्वेनान्वारभत इति विभाग उक्तः सूत्रकृताः वस्तुतस्तु तन्नास्तीत्याह-नचेदं समन्वारम्भवचनमिति / तत्र संसारिविषये तं विद्येत्यादिवाक्ये यथाप्राप्तानुवादिनि विद्यादिपदार्थमाह-तत्रेति /
SK
विहितोद्गीथादिविद्या प्रतिषिद्धा नग्निस्त्रीध्यानादिरूपा
SK
END Bस्Cओम्_३,४.१.११
SK
START Bस्Cओम्_३,४.१.१२-१३
SK
यच्चैतत् ऽतद्वतो विधानात्ऽ (ब्र. सू. ३.४.६) इत्यत उत्तरं पठति -
SK
अध्ययनमात्रवतः | BBस्_३,४.१२ |
SK
ऽआचार्यकुलाद्वेदमधीत्यऽ (छा. ८.१५.१) इत्यध्ययनमात्रस्य श्रवणादध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः /
SK
नन्वेवं सत्याविद्यत्वानधिकारः कर्मसु प्रज्येत /
SK
नैष दोषः / न वयमध्ययनप्रभवं कर्मावबोधनमधिकारकारणं वारयामः किं तर्ह्येनिषदमात्मज्ञानं स्वातन्त्र्येणैव प्रयोजनवत्प्रतीयमानं न कर्माधिकारकारणतां प्रतिपद्यत इत्येतावत्प्रतिपादयामः / यथाच न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेणापेक्ष्यत एवमेतदपि द्रष्टव्यमिति
SK
यदप्युक्तं नियमच्च (ब्र. सू. ३.४.७) इत्यत्राभिधीयते -
SK
नाविशेषात् | BBस्_३,४.१३ |
SK
ऽकुर्वन्नेवेह कर्माणि जिजीविषेत्ऽ (ईशा. २) इत्येलमादिषु नियमश्रवणेषु न विदुष इति विशेषो ऽस्ति / अविशेषेण नियमविधानात्
SK
यच्चैतदिति / उक्तमिति शेषः अविद्यत्वाद्वेदार्थज्ञानशून्यत्वादित्यर्थः / मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह-नैष दोष इति //१२
SK
END Bस्Cओम्_३,४.१.१२-१३
SK
START Bस्Cओम्_३,४.१.१४
SK
स्तुतये ऽनुमतिर्वा | BBस्_३,४.१४ |
SK
ऽकुर्वन्नेवेह कर्माणिऽ (ईशा. २) इत्यत्रापरो विशेष आख्यायते यद्यप्यत्र प्रकरणसामर्थ्याद्विद्वानेव कुर्वन्निति संबध्यते तथापि विद्यास्तुतये कर्मानुज्ञानमेतद्द्रष्टव्यम् / ऽन कर्म लिप्यते नरेऽ (ईशा. २) इति हि वक्ष्यति / एतदुक्तं भवति / यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे हि वक्ष्यति / एतदुक्तं भवति / यावज्जीवं कर्म कुर्वत्यपि विदुषुपुरुषे न कर्म लेपाय भवति विद्यासामर्थ्यादिति तदेवं विद्या स्तूयते
SK
नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह-स्तुतय इति /
SK
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् / यतः कर्म न लिप्यते / अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः
SK
END Bस्Cओम्_३,४.१.१४
SK
START Bस्Cओम्_३,४.१.१५
SK
कामकारेण चैके | BBस्_३,४.१५ |
SK
अपिचैके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तस्तदवष्टभ्यात्फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति / कामकारेणेति श्रुतिर्भवति वाजसनेयिनाम् ऽएतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. ४.४.२२) इति अनुभवारूढमेव च विद्याफलं न क्रियाफलवत्कालान्तरभावीत्यसकृदवोचाम / अतो ऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम्
SK
स्वेच्छातः कर्मसाधनप्रजादित्यालिङ्गाच्च विद्या स्वतन्त्रफलेत्याह-कामेति / तदेतद्ब्रह्म येषां नो ऽस्माकं अयमपरोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः / नन्वयं लोक इति ज्ञानफलस्य प्रत्यक्षत्वोक्तिरयुक्ता कर्मफलवददृष्टत्वादित्यत आह-अनुभवेति
SK
END Bस्Cओम्_३,४.१.१५
SK
START Bस्Cओम्_३,४.१.१६
SK
उपमर्दं च | BBस्_३,४.१६ |
SK
अपिच कर्माकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्याविद्याकृतस्य विद्यासामर्थ्यात्स्वरूपोपमर्दमामनन्ति - ऽयत्र वा अस्य सर्वमात्मत्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्ऽ (बृ. २.४.१४) इत्यादिना / वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासनस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत / तस्मादपि स्वातन्त्र्यं विद्यायाः
SK
न केवलमनुपयोगाज्ज्ञानस्य कर्मानङ्गत्वं किन्तु कर्मनाशकत्वाच्चेत्याह-उपमर्दं चेति
SK
END Bस्Cओम्_३,४.१.१६
SK
START Bस्Cओम्_३,४.१.१७
SK
ऊर्ध्वरेतस्सु च शब्दे हि | BBस्_३,४.१७ |
SK
ऊर्ध्वरेतःसु चाश्रमेषु विद्या श्रूयते / नच तत्र कर्माङ्गत्वं विद्याया उपपद्यते / कर्माभावात् / नह्यग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति / स्यादेतत् / ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति तदपि नास्ति / ते ऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते ऽत्रयो धर्मस्कन्धाःऽ (छा. २.२३.१) ऽये चेमे ऽरण्ये श्रद्धा तप इत्युपासतेऽ (छा. ५.१०.१) ऽतपःश्रद्धे यो ह्युपवसन्त्यरण्येऽ (मु. १.२.११) ऽएतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्तिऽ (बृ. ४.४.२२) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा. ४) इत्येवमादिषु / प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानामपाकृतानापाकृतर्णत्रयाणां चोर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् / तस्मादपि स्वातन्त्र्यं विद्यायाः
SK
किञ्च कर्मतत्त्वज्ञाने नाङ्गाङ्गिभूते भिन्नाधिकारिस्थत्वाद्राजसूयबृहस्पतिसववदित्याह-ऊर्ध्वेति / त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः / ऽब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणःऽइति श्रुतेः / ऽऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् / अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधःऽइति स्मृतेश्च प्राप्तगार्हस्थ्यस्यैव निरस्तर्णत्रयस्य पारिव्राज्यमित्यपि शङ्का न कार्या / ब्रह्मचर्यादेव प्रव्रजेदिति द्वितीयमाश्रममिच्छेत्तमावसेदिति च विधिश्रुतिस्मृतिविरोधेन अर्थवादश्रुतिस्मृत्योरविरक्तविषयत्वागमादित्याह-प्रतिपन्नेति /
SK
तस्मादि ति संन्यासनिष्ठत्वादित्यर्थः
SK
END Bस्Cओम्_३,४.१.१७
SK
START Bस्Cओम्_३,४.२.१८
SK
२ परामर्शाधिकरणम् / सू. १८-२०
SK
परामर्शं जैमिनिरचोदनाच्चापवदति हि | BBस्_३,४.१८ |
SK
ऽत्रयो धर्मस्कन्धाःऽ (छा. २.२.३.१) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावायोदाहृता न ते तत्प्रतिपादनाय प्रभवन्ति / यतः परामर्शमेषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते न विदिम् / कुतः - नह्यत्र लिङ्गादीनामन्यतमश्चोदनाशब्दो ऽस्ति / अर्थान्तरपरत्वं चैषु प्रत्येकमुपलभ्यते / त्रयो धर्मस्कन्धा इत्यत्र तावद्यज्ञो ऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयो ऽत्यन्तमात्मानमाचार्यकुले ऽवसादयन्सर्व एते पुण्यलोका भवन्तीति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीर्त्यात्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते - ऽब्रह्मसंस्थो ऽमृतत्वमेतिऽ (छा. २.२३.१) इति /
SK
ननु परामर्शे ऽप्याश्रमा गम्यन्त एव /
SK
सत्यं गम्यन्ते / स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिर्न प्रत्यक्षश्रुतेः / अतश्च प्रत्यक्षश्रुतिविरोधे सत्यनादरणीयास्ते भविष्यन्ति / अनधिकृतविषया वा /
SK
ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टं यज्ञो ऽध्ययनं दानमिति प्रथम इति /
SK
सत्यमेवं तथापि तु गृहस्थं प्रत्येवाग्निहोत्रादीनां कर्मणां विधानाच्छ्रुतिप्रसिद्धमेव हि तदस्तित्वम् / तस्मात्स्तुत्यर्थ एवायं परमर्शो न चोदनार्थः / अपिचापवदति हि प्रत्यक्षा श्रुतिराश्रमान्तर् ऽवीरहा वा एष देवानां यो ऽग्निमुद्वासयतेऽ, ऽआचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीःऽ (तै. १.११.१) ऽनापुत्रस्य लोको ऽस्तीति तत्सर्वे पशवो विदुःऽ इत्येवमाद्या / तथा ऽये चेमेरण्ये श्रद्धा तप इत्युपासतेऽ (छा. ५.१०.१) ऽतपःश्रद्धे ये ह्युपासन्त्यरण्येऽ (मुण्ड. १.२.११) इति च देवयानोपदेशो नाश्रमान्तरोपदेशः / संदिग्धं चाश्रमान्तराभिधानम् ऽतप एव द्वितीयःऽ (छा. २.२.३.१) इत्येवमादिषु / तथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ. ४.४.२२) इति लोकसंस्तवो ऽयं न पारिव्राज्यविधिः /
SK
ननु ब्रह्मचर्यादेव प्रव्रजेदितिविस्पष्टमिदं प्रत्यक्षं प्रिव्राज्यविधानं जाबालानाम् /
SK
सत्यमेतत् / अनपेक्ष्य त्वेतां श्रुतिमयं विचार इति द्रष्टव्यम्
SK
संन्यासो नास्तीत्याक्षिपति-परामर्शं जैमिनिरिति / ऊर्ध्वरेतः शब्दितं पारिव्राज्यमनुष्ठेयं न वेति मानभ्रान्तिमूलत्वाभ्यां संदेहे भ्रान्तिमूलत्वान्नानुष्ठेयमित्याह-त्रय इति /
SK
आश्रमाणामवान्तरभेदापेक्षया बहुवचनम् / तथाच काण्वायनस्मृतिरर्थतो ऽनुक्रम्यते / गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारीचतुर्विधः / तत्रोपनयनादूर्ध्वं यस्त्रिरात्रमक्षारालवणाशी गायत्रीमधीते स गायत्रः / यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः / ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेदव्रतकृद्वटुर्वा प्राजापत्यः / आमरणं गुरुकुलवासी नैष्ठिको बृहन्नित्युच्यते / गृहस्थो ऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोरसंन्यसिकश्चेति / तत्र कृषिगोरक्षादिकया वैश्यादिवृत्त्या जीवन्नित्यादिक्रियापरो वार्ताकवृत्तिः / यायावरस्त्वयाचितवृत्तिर्याजनाध्यापनप्रतिग्रहविमुखः / शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी / उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्प्रत्यहं कृतोञ्छवृत्तिर्ग्रामवासी घोरसंन्यसिक इत्युच्यते, हिंसाविमुखत्वात् / वानप्रस्थो ऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति / तत्राकृष्टपच्यौषधीभिर्ग्रामबहिष्कृताभिरग्निहोत्रादिकुर्वन्वैखानस उच्यते / यस्तु प्रातरुथाय यां दिशं पश्यति तत्रत्यौदुम्बरबदरीनीवारश्यामाकैः कर्मपरः स औदुम्बरः / यस्तु जटावल्कलधारी अष्टौ प्रातसान्वृत्त्युपार्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः / फेनपास्तु शीर्णपर्णफलवृत्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति / तथा परिव्राजाकाश्चतुर्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति / तत्र स्वपुत्रगृहे भिक्षां चरन्तस्त्रिदण्डिनः कुटीचकाः / बहूदकास्तु त्रिदण्डिनः शिक्यजलपवित्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारास्तीर्थान्यटन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते /
SK
हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्यकमण्डलुपाणयः ग्रामैकरात्रवासिनः कृच्छ्रचान्द्रायणपराः / परमहंसास्त्वेकदण्डधरा मुण्डा अयज्ञोपवीतिनः त्यक्तसर्वकर्माण आत्मनिष्ठा इति / अत्र पूर्वपक्षे संन्यासाभावाञ्ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः सिद्धान्ते तद्भावात्तत्सिद्धिरिति फलभेदः / स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः / स्कन्धश्रुतावाश्रमा न विधीयन्ते किन्तु ब्रह्मसंस्थतास्तुर्थमनूद्यन्त इत्युक्ते शङ्कते-ननु परामर्शे ऽपीति / अनुवादापेक्षितपुरोवादात्प्रतीतिमङ्गीकरोति-सत्यमिति / प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादो ऽस्तु नानुवाद इत्यत आह-स्मृतीति / तयोरपि इयमेव श्रुतिर्मूलमस्तु / कॢप्तश्रुतौ विधिमात्रकल्पनालाघवात् / अस्या अनुवादत्वे तु मूलत्वेन साग्निकानग्निकाश्रमश्रुतिस्तत्र विधिश्चेति द्वयकल्पनागौरवादित्यत आह-अतश्चेति / स्मार्तत्वादाश्रमाः प्रत्यक्षयावज्जीवकर्मविधिश्रुत्यविरुद्धा ग्राह्याः / विरुद्धास्त्वनग्निकाश्रमा उपेक्ष्याः कर्मानधिकृतैरन्धादिभिर्वा अनुष्ठेया इत्यर्थः / यावज्जीवश्रुतिविरोधाल्लाघवं त्याज्यमिति भावः / स्कन्धश्रुतावनुवाद्यत्वाविशेषाद्गार्हस्थ्यवदितरेषामनुष्ठेयत्वमाशङ्क्य तस्य श्रौतत्वादनुष्ठानं नेतरेषामश्रौतत्वादतो ब्रह्मसंस्थतास्तुतिपरमिदं स्कन्धवाक्यमित्याह-नन्वित्यादिना / तन्तुं संततिम् / तथा ये चेति / ते ऽर्चिषमभिसंभवन्तीति वाक्यशेषादित्यर्थः / स्कन्धशब्दस्य आश्रमेष्वरूढत्वाच्चात्र नाश्रमिविधिरित्याह-संदिग्धं चेति / तर्हि प्रव्रजन्तीत्याश्रमविधिरीत्यत आह-तथैतमिति / आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुतिर्वर्तमानापदेशादित्यर्थः / संप्रति पूर्वपक्षमाक्षिप्येयं श्रुतिर्नास्तीतिकृत्वा चिन्त्यत इत्याह-नन्वित्यादिना
SK
END Bस्Cओम्_३,४.२.१८
SK
START Bस्Cओम्_३,४.२.१९
SK
अनुष्ठेयं बादरायणः साम्यश्रुतेः | BBस्_३,४.१९ |
SK
अनुष्ठेयमाश्रमान्तरं बादरायण आचार्यो मन्यते / वेदे श्रवणात् / अग्निहोत्रादीनां चावश्यानुष्ठोयत्वात्तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरमितिहीमां मतिं निराकरोति गार्हस्थ्यवदेवाश्रमान्तरमप्यनिच्छता प्रतिपत्तव्यमिति मन्यमानः / कुतः साम्यश्रुतेः / समा हि गार्हस्त्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते ऽत्रयो धर्मस्कन्धाःऽ (छा. २.२.३.१)इत्याद्या / यथेह श्रुत्यन्तरविहितमेव गार्हस्त्यं परामृष्टमेवाश्रमान्तरमपीति प्रतिपत्तव्यम् / यथाच शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनवीतयोः परामर्श उपवीतविधिपरे वाक्ये / तस्मात्तुल्यमनुष्ठेयत्वं गार्हस्थ्येनाश्रमान्तरस्य / तथा ऽएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ. ४.४.२२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः / ऽये चेमे ऽरम्ये श्रद्दा तप इत्युपासतेऽ (छा. ५.१०१) इत्यस्य च पञ्चाग्निविद्यया / यत्तूक्तम् ऽतप एव द्वितीयः (छा. २.२.३.१) इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति / नैष दोषः / निश्चयकारणसद्भावात् / ऽत्रयो धर्मस्कन्धाःऽ (छा. २.२३.१) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् / नच यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तो ऽन्यत्राश्रमसंबन्धात्रित्वे ऽन्तर्भावयितुं शक्यन्ते / तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टो ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशस्तपैत्यपि को ऽन्यस्तपःप्रधानादाश्रमाद्धर्मस्कन्धो ऽभ्युपगम्येत / ऽये चेमे ऽरण्येऽ (छा. ५.१०.१) इति चारण्यलिङ्गाच्छ्रद्धातपोभ्यामाश्रमगृहीतिः / तस्मात्परामर्शे ऽप्यनुष्ठेयमाश्रमान्तरम्
SK
स्कन्धश्रुतावितराश्रमाः श्रुत्यन्तरविहिता अनूद्यन्ते एतद्वाक्यानुवाद्यत्वाद्गार्हस्थ्यवदिति सिद्धान्तयति-अनुष्ठेयमिति / अनुवादस्य क्वचिद्विधिपूर्वकत्वे दृष्टान्तमाह-यथाचेति / निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते / तत्स्तुतये द्वयमनूद्यते / मानुषक्रियासु देहार्धवस्त्रबन्धनाख्यनिवीतस्य सौकर्यार्ततया प्राप्तत्वात् पित्र्ये कर्मणि प्राचीनावीतस्यापि विध्यन्तरप्राप्तत्वादित्यर्थः / वाक्यान्तरे च साक्षादेव पारिव्राज्यविधिर्विधेयैः साहित्यादित्याह-तथैतमेवेति / अस्येति पारिव्राज्योक्तिः / विधेयवेदानुवचनादिसाहित्यात्पारिव्राज्यस्य विधेयतेत्यर्थः / वाक्यान्तरे ऽपि साम्यश्रुतिमाह-य चेति / अस्येति वानप्रस्थोक्तिः / विधेयपञ्चाग्निविद्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः / श्रुतत्रित्वान्यथानुपपत्त्या स्कन्धशब्दस्य आश्रमपरत्वनिश्चय इत्याह-यत्तूक्तमित्यादिना / उत्पत्तिभिन्ना इति /
SK
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः
SK
END Bस्Cओम्_३,४.२.१९
SK
START Bस्Cओम्_३,४.२.२०
SK
विधिर् वा धारणवत् | BBस्_३,४.२० |
SK
विधिरिवायमाश्रमान्तरस्य न परामर्शमात्रम् /
SK
ननु विधित्वाभ्युपगम एकवाक्यताप्रतीतिरुपरुध्येत प्रतीयते चात्रैकवाक्यता पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रह्मसंस्थाता त्वमृतत्वफलेति /
SK
सत्यमेतत् / सतीमपि त्वेकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यो ऽपूर्वत्वात् / विध्यन्तरस्यादर्शनात् /
SK
विस्पष्टाच्चाश्रमान्तरप्रत्ययाद्गुणवादकल्पनयैकवाक्यत्वायोजनानुपपत्तेः / धारणवत् / यथा ऽअधस्तत्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽ इत्यत्र सत्यामप्यविरोधोधारणैनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् / तथाचोक्तं शेषलक्षणे - ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽ इति / तद्वदिहाप्याश्रमपरामर्शश्रुतिर्विधिरिवेति कल्प्यते / यदापि परामर्श एवायमाश्रमान्तराणां तदपि ब्रह्मसंस्थता तावत्संस्तवसामर्थ्यादवश्यं विधेयाभ्युपगन्तव्या / सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचिदाहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् / यदि च ब्रह्माचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजको ऽपि परामृष्टस्तश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषादनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति / अथ न परामृष्टस्ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति संत्स्यति / तत्र तपःशब्देन वैखानसग्राहिणापरामृष्टःपरिव्राडपीति केचित् / तदप्युक्तम् / नहि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमिति / यथात्र ब्रह्मचारिगृहमेधिनावसादारणेनैव स्वेन स्वेन विशेषणेन विशेषितावेवं भिक्षुवैखानसावपीति युक्तम् / तपश्चासाधारणोधर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् / तपःशब्दस्य तत्र रूढेः / भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यते / चतुष्ठ्वेन च प्रसिद्धा आश्रमास्त्रित्वेन परामृश्यन्त इत्यन्याय्यम् / अपिच भेदव्यपदेशो ऽत्र भवति ऽत्रय एते पुण्यलोकभाज एको ऽमृतत्वभाक्ऽ इति / पृथक्त्वेव चैष भेदव्यपदेशो ऽवकल्पते / नह्येवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञावन्यस्त्वनयोर्महाप्रज्ञ इति / भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्रज्ञ इति / तस्मात्पूर्वो त्रय आश्रमिणः पुण्यलोकभाजः परिशिष्यमाणः परिव्राडेवामृतत्वभाक् / कथं पुनर्ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र संभवन्परिव्राजक एवावतिष्ठेत / रूढ्यभ्युपगमे चाश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति /
SK
अत्रोच्यते - ब्रह्मसंस्थ इति हि ब्रह्मणि परिसम्प्तिरनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते / तच्च त्रयाणामा८माणां न संबवति / स्वाश्रमविहितकर्माननुष्ठाने प्र्यवायश्रवणात् / परिव्राजकस्य तु सर्वकर्मसंन्यासातप्रत्यवायो न संभवत्यननुष्ठाननिमित्तः / शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलको न विरोधी / ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म यज्ञादीनि चेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवायः तथाच ऽन्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्म तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्ऽ (नारा. ७८) ऽवेदान्तविज्ञानसुनिष्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाःऽ (मुण्ड. ३.२.६. नारा. १.२.३. कैवल्य. ३) इत्याद्याः श्रुतयः / स्मृतयश्च -ऽतद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाःऽ (गी. ५.१७) इत्याद्या ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति / तस्मातपरिव्राजकस्याश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येतेषो ऽपि दोषो न्वतरति / तदेवं परामर्शो ऽपीतरेषामाश्रमाणां पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्येतैव / अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीमयमाच्र्योण विचारः प्रवर्तितः / विद्यत एव त्वाश्रमान्तरविधिश्रुतिः प्रत्यक्षा / ऽब्रह्मचर्यं परिसम्प्य गृही भवेद्गृही भूत्वा वनीभवेद्वनी भूत्वा प्रव्रजेत् / यदि वेतरथा ब्रह्मचर्यादेव ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽ (जाबा. ४) इति / न चेयं श्रुतिरनदिकृताविषया शक्या वक्तुम् / अविशेषश्रवणात् / पृथग्निधानाच्चानधिकृतानाम ऽअथ पुनरेव व्रती वाव्रती वा स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वाऽ (जाबा. ४) इत्यादिना / ब्रह्मदानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य नानधिकृतविषयत्वम् / तच्च दर्शयति - ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवतिऽ (जाबा. ५) इति / तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः / सिद्धं चोर्ध्वरेतःसु विदानाद्विद्यायाः स्वातन्त्र्यमिति
SK
स्कन्धश्रुतेरनुवादकत्वमङ्गीकृत्य विध्यन्तरकल्पनेनाश्रमा अनुष्ठेया इत्युक्तम् / इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह-विधिर्वेति / यावज्जीवादिश्रुतेरविरक्तविषयत्वान्न लाघवबाधकत्वमिति भावः / अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतिपरमेकमिदं वाक्यं भाति / तत्राश्रमविधिचतुष्टयमयुक्तमिति शङ्कते-नन्विति / आश्रमाणां विध्यन्तरप्राप्त्यभावादनुवादायोगात् / स्तुतिलक्षणादोषाच्च वरं विस्पष्टाश्रमविधिभेदकल्पनमपूर्वत्वादित्याह-सत्यमित्यादिना / प्रतीतैकवाक्यत्वभङ्गेन भेदकल्पने दृष्टान्तमाह-धारणवदिति / महापितृयज्ञे प्रेताग्निहोत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हविषः ऽअधस्तात्समिधं धारयन्ननुद्रवेत्ऽइति विहिताधोधारणस्तावकतयोपरि हीत्यस्यैकवाक्यत्वभाने ऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधिरेवापूर्वत्वादिति वाक्यभेदस्तृतीयाध्याये जैमिन्याचार्येणोक्त इत्यर्थः / एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः / संप्रत्याश्रमत्रयानुवादेन पारिव्राज्यमेकमेव विधीयत इति पक्षान्तरमाह-यदापीत्यादिना / ब्रह्मसंस्थताविधौ कथं पारिव्राज्यविधिरित्याशङ्क्य विचारयति-सा चेति / ननु त्रय इति वाक्य आश्रमचतुष्टयस्याप्राप्तेर्निर्बीजो ऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्वपक्षप्राप्तिमाह-यदिचेति / नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह-अनाश्रमित्वेति / अनाश्रमी न तिष्ठेतेति निषेधादिति भावः / द्वितीये सिद्धान्प्राप्तिमाह-अथेति / एवं परामर्शतदभावाभ्यां संशयमुक्त्वा पूर्वपक्षयति-तत्रेति /
SK
वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् / तेनैकेन तपः शब्देनोभयग्रहणमन्याय्यं भिक्षोस्तपस्वित्वप्रसिद्ध्याभावाच्च //
SK
तथाच यज्ञाद्यसाधारणधर्मद्वारा गृहस्थाद्याश्रमत्रयवद्ब्रह्मसंस्थशब्देनैव ब्रह्मनिष्ठाप्रधानश्चतुर्थाश्रमो गृह्यते / स च स्तुतिसामर्थ्यात् सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति-तदयुक्तमित्यादिना / पृथग्व्यपदेशाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह-अपिचेति / नचावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् / कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञाधिक्यवत्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्मसंस्थानुपपत्तेः / कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्यस्मदिष्टसिद्धिरिति भावः / इममेवार्थं स्पष्टयितुं शङ्कते-कथं पुनरिति / यद्यपि ब्रह्मसंस्थशब्दः संन्यासाश्रमे न रूढस्तथापि योगात्तमेवोपस्थापयति / अन्याश्रमेषु यौगिकार्थासमवायादित्याह-अत्रोच्यत इति / सर्वकर्मत्यागिनः प्रणवार्थब्रह्मनिष्ठातिरेकेणानुष्ठेयं नास्तीत्यत्र मानमाह-तथाचेति / न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह-ब्रह्मा हीति / हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति / ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः / तद्बुद्धये ब्रह्मचित्तास्तदात्मानो ब्रह्मस्वरूपास्तन्निष्ठाः श्रवणादिपरास्तत्परायणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् / एवं ब्रह्मसंस्थशब्दस्य ज्ञानप्रधानाश्रमवाचित्वादमृतत्वकामस्त्वमुमाश्रममनुतिष्ठेदिति विधिः परिणम्यते / अतो न ज्ञानानर्थक्यदोष इत्युपसंहरति-तस्मादिति / संप्रति कृत्वाचिन्तामुद्धाटयति-अनपेक्ष्येति / शिष्यबुद्धिवैशद्यार्थं स्कन्धश्रुतिमादाय चिन्ता कृतेति भावः / यदिवेतरथेति / ब्रह्मचर्ये स्थितस्यैव पूर्वसुकृतपरिपाकाद्वैराग्यं यदि स्यादित्यर्थः / यदुक्तं कर्मानधिकृतान्धादिविषयः संन्यास इति तन्नेत्याह-नचेति / सामान्यश्रुतेः संकोचहेत्वभावादिति भावः / पृथगिति / संन्यासस्येति शेषः / व्रती गोदानादिवेदव्रतवान् / गुरुकुलान्निवृत्तिरूपस्नानानन्तरमकृतगार्हस्थ्यो गुरुसेवी स्नातकः उत्सन्नाग्निर्विधुरः अगृहीताग्निरनग्निकः प्रव्रजेदित्यन्वयः / सकलाङ्गानमेव कथञ्चित्कर्मानधिकृतानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञानप्रधानसंन्यासाधिकार इत्याह-ब्रह्मेति / दृष्टिपूतसंचारश्रवणादिकं विना ज्ञानानुत्पत्तेः / ऽशरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा / कर्णाभ्यां भूरिविश्रुवम्ऽइत्यङ्गसाकल्यप्रार्थनालिङ्गाच्च नान्धपङ्गुमूकबधिरदीनामधिकार इत्यर्थः / तच्चेति /
SK
पारिव्राज्यस्य ब्रह्मज्ञानाङ्गत्वं चेत्यर्थः / ब्रह्मभूयाय ब्रह्मसाक्षात्कारायेति यावत्
SK
END Bस्Cओम्_३,४.२.२०
SK
START Bस्Cओम्_३,४.३.२१
SK
स्तुतिमात्राधिकरणम् / सू. २१-२२
SK
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् | BBस्_३,४.२१ |
SK
ऽस एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथःऽ (छा. १.१.३) ऽइत्येवमाग्निः सामऽ ( छा. १.६.१) अयं वाव लोक एषो ऽग्निश्चितः / तदिदमेवोक्थमियमेव पृथिवीऽ इत्येवञ्जातीकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्था आहोस्विदुपासनाविद्यर्था इत्यस्मिन्संशये स्तुत्यर्था इति युक्तम् / उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् / यथा ऽइयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयःऽ इत्याद्या जुह्वादिस्तुत्यर्थास्तद्वदिति चेत् /
SK
नेत्याह / नहि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तमपूर्वत्वात् / विध्यर्थतायां ह्यपूर्वोर्ऽथो विहितो भवति स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् / विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः इत्यत्र / प्रदेशान्तरविहितानां तूद्गीथादीनामियं प्रदेशान्तरपठिता स्तितिर्वाक्यशेषभावमप्रतिपद्यमानानर्थिकैव स्यात् / इयमेव जुहूरित्यादि तु विधिसंनिधावेवाम्नतमिति वैषम्यम् / तस्माद्विध्यर्था एवैवञ्जातीयकाः श्रुतयः
SK
स्तुतिमात्रं / पृथिव्यबोषधिपुरुषवागृक्साम्नां सप्तानां रसानां रसतमो ऽष्टम उद्गीथावयव ओङ्कारः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परार्ध्यं इत्यर्थः / आसु श्रुतीष्वङ्गोपादानादपूर्वार्थत्वाच्च संशयमाह-किमिति / यथानुष्ठेयगार्हस्थ्यसाम्यश्रुतेः पारिव्राज्यस्यानुष्ठेयत्वं तद्वदासां श्रुतीनां जुह्वादिस्तुतिश्रुतिसाम्यात्स्तुतित्वमिति पूर्वपक्षयति-स्तुत्यर्था इति / जुहूरियमेव पृथिवीति स्तूयते / चयनस्थः कूर्म आदित्य इति / आहवनीयः स्वर्गलोक इति स्तुतिः / तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः / स्तुतिलक्षणातो वरं विधिकल्पनमनुष्ठानफललाभादिति सिद्धान्तयति-नहि स्तुतीति / पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् / स्तावकत्वेनार्थवत्त्वं किं न स्यादित्यत आह-विधायकस्येति /
SK
युक्तमियमेव जुहूरित्यादिश्रुतीनां फलवज्जुह्वादिविधिप्रकरणस्थतया स्तावकत्वेनार्थवत्त्वं;रसतमादिश्रुतीनां तु क्रत्वङ्गविधिप्रकरणस्थत्वाभावात्फलवदपूर्वोपास्तिविधायकत्वमेव युक्तं क्रत्वन्तरश्रुतिवदिति भावः
SK
END Bस्Cओम्_३,४.३.२१
SK
START Bस्Cओम्_३,४.३.२२
SK
भावशब्दाच् च | BBस्_३,४.२२ |
SK
ऽउद्गीथमुपासीतऽ (छा. १.१.१) ऽसामोपासीतऽ (छा. २.२.१) ऽअहमुक्थमस्मीति विद्यात्ऽ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् / तथाच न्यायविदां स्मरणम् -ऽकुर्यात्क्रियेत कर्तव्यं भवेतस्यादिति पञ्चमम् / एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्ऽ इति लिङ्गाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति / प्रतिप्रकरणं च फलानि श्राव्यते - ऽआपयिता ह वै कामानां भवतिऽ (छा. १.१.७) ऽएष ह्येव कामागानस्येष्टेऽ (छा. १.७.९) ऽकल्पन्ते हास्मै लोका ऊर्ध्वश्चावृत्ताश्चऽ (छा. २.२.३) इत्यादीनि / तस्मादप्युपासनाविधानार्था उद्गीथादिश्रुतयः
SK
किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह-भावेति / न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् / विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः / देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह-तथाचेति / एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् / उपपदादिबाधके त्वन्यार्थपरमित्यर्थः / तदिदमाह-लिङादीति / नच श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् / क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् / यद्यपि डुकृञ् करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस् भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः / तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते / तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते / कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता / तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ / कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता / आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् / कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते / तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः / तथा दण्डी भवेत् भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् / तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् / अस्तेर्भूरादेशात् / एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते / धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदे ऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् / एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे-प्रतिप्रकरणं इति /
SK
एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः / एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति / आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः
SK
END Bस्Cओम्_३,४.३.२२
SK
START Bस्Cओम्_३,४.४.२३
SK
४ पारिप्लवाधिकरणम् / सू. २३-२४
SK
पारिप्लवार्था इति चेन् न विशेषितत्वात् | BBस्_३,४.२३ |
SK
ऽअथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्ययनी चऽ (बृ. ४.५.१) ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामऽ (कौषी. ३.१) ऽजानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आसऽ (छा. ४.१.१) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः - किमिमानि पारिप्लवप्रयोगार्थान्योहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति / पारिप्लवार्था इमा आख्यानश्रुतयः / आख्यानसामान्यात् / आख्यानप्रयोगस्य च परिप्लवे चोदितत्वात् / ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात्, मन्त्रवत्प्रयोगशेषत्वादिति चेत् /
SK
तन्न / कस्मात् / विशेषितत्वात् / ऽपारिप्लवमाचक्षीतऽ इति हि प्रकृत्य ऽमनुर्वैवस्वतो राजाऽ इत्येवमादीनि कानिचिदेवाख्यानानि तत्र विशेष्यन्ते / आख्यानसामान्याच्चेत्सामान्याच्चेत्सर्वगृहीतिः स्यादनर्थकमेवेदं विशेषणं भवेत् / तस्मान्न पारिप्लवार्था एता आख्यानश्रुतयः
SK
पारिप्लवार्थाः / अश्वमेधे पुत्रादिपरिवृताय राज्ञे पारिप्लवमाचक्षीतेति नानाविधाख्यानकथनात्मकः पारिप्लवप्रयोगो विहितः / तथाच वेदान्तस्थकथानामाख्यानत्वसामान्याद्विद्यासंनिधानाच्च संशयमाह-किमिति / पूर्वं स्तुत्यपेक्षया विझिर्ज्यायाननुष्ठानलाभादित्युक्तम् / तथैव कथानां न विद्यास्तावकत्वं पारिप्लवानुष्ठानलाभादिति पूर्वपक्षः / तत्र फलमाह-ततश्चेति / यथा देवस्य त्वा सवितुरित्यादिमन्त्रे कस्यचित्पदस्य प्रयोगसमवेतार्थतया शेषस्य प्रयोगाङ्गत्वं तथा वेदान्तस्थकथानां प्रयोगशेषत्वम् / तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्याप्राधान्यमित्यर्थः / कथानां गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा संनिहितविद्याशेषत्वं सामर्ध्यलिङ्गादतो विद्याप्राधान्यमिति फलं मत्वा सिद्धान्तयति-तन्नेत्यादिना /
SK
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूयाद्द्वितीये ऽहनि यमो वैवस्वत इति तृतीये ऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशिष्योक्तत्वादुपक्रमस्य संकोचो युक्त इति भावः
SK
END Bस्Cओम्_३,४.४.२३
SK
START Bस्Cओम्_३,४.५.२४
SK
तथा चैकवाक्यतोपबन्धात् | BBस्_३,४.२४ |
SK
असति च परिप्लवार्थत्व आख्यानानां संनिहितविद्याप्रतिपादनोपयोगितैव न्याय्या / एकवाक्यतोबन्धात् / तथाहि त६ तत्र संनिहिताभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात्प्रतिपत्तिसौकर्योपयोगाच्च / मैत्रेयीब्राह्मणे तावत् - ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ. ४.५.६) इत्याद्या विद्ययैकवाक्यता दृश्यते / प्रातर्दने ऽपि प्राणो ऽस्मि प्रज्ञात्मा इत्याद्यया / जानश्रुतिरिय्यत्रापि ऽवायुर्वाव संवर्गःऽ (छा. ४.३.१) इत्याद्या / यथा ऽस आत्मानो वपामुदखिदत्ऽ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानां संनिहितविधिस्तुत्यर्थता तद्वत् / तस्मान्न पारिप्लवार्थत्वम्
SK
क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह-तथाचेति /
SK
प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदत् होमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम्
SK
END Bस्Cओम्_३,४.५.२४
SK
START Bस्Cओम्_३,४.५.२५
SK
५ अग्नीन्धनाद्यधिकरणम् / सू. २५
SK
अत एव चाग्नीन्धनाद्यनपेक्षा | BBस्_३,४.२५ |
SK
ऽपुरुषार्थो ऽतः शब्दात्ऽ (ब्र.सू. ३.४.१) इत्येतद्व्यवहितमपि संभवादत इति परामृश्यते / अतेव च विद्यायाः पुरुषार्थहेतुत्वादग्नीन्धनादीन्याश्रमक्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीत्याद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया
SK
एवमाद्याधिकरणप्रमेयं विद्यास्वातन्त्र्यमधिकरणत्रयेण दृढीकृत्याद्याधिकरणस्य फलमाह-अत एव चेति / ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादिविवादात्संशये तेनैति ब्रह्मवित्पुण्यकृत्तैजस इत्यादिश्रुत्या ज्ञानकर्मसमुच्चयेन मोक्षप्राप्तिकथनादपेक्षत इति प्राप्ते विद्याया मुक्तिहेतुत्वादविद्यानिवृत्त्याख्यमुक्तौ न कर्मापेक्षेति सिद्धान्तयति-पुरुषार्थ इति / अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते / पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्मविद्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुतिर्व्याख्येयेति भावः / मुक्तावेव कर्मणामसामर्थ्यादनपेक्षा विद्यायां त्वस्ति चित्तशुद्धिद्वारा तेषामपेक्षेत्यधिकं वक्तुमयमुपसंहार इत्युपसंहारसूत्रस्य फलमाह-अधिकेति
SK
END Bस्Cओम्_३,४.५.२५
SK
START Bस्Cओम्_३,४.६.२६
SK
६ सर्वापेक्षाधिकरणम् / सू. २६-२७
SK
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् | BBस्_३,४.२६ |
SK
इदमिदानीं चिन्त्यते किं विद्याया अत्यन्तमेवानपेक्षाश्रमकर्ममामुतास्ति काचिदपेक्षेति / तत्रात एवाग्नीन्धनादीन्याश्रमकर्माणि विद्या स्वार्थसिद्धौ नापेक्ष्यन्त एवमत्यन्तमेवानपेक्षायां प्राप्तायामिदमुच्यते सर्वापेक्षा चेति / अपेक्षत च विद्या सर्वाण्याश्रमकर्माणि नात्यन्तमनपेक्षैव /
SK
ननु विरुद्धमिदं वचनमपेक्षते चाश्रमकर्माणि विद्या नापेक्षते चेति /
SK
नेति ब्रूमः / उत्पन्ना हि विद्या फलसिद्धिं प्रति न किञ्चिदन्यदपेक्षत उत्पत्तिं प्रति त्वपेक्षते / कुतः - यज्ञादिश्रुतेः / तथाहि श्रुतिः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनऽ (बृ. ४.४.२२) इति यज्ञादीनां विद्यासाधनभावं दर्शयति / विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोषवसीयते / ऽअथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यस्य यज्ञादिभिः यंस्तवाद्यज्ञादीनामपि हि साधनभावः सूच्यते / ऽसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति / यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमिऽ (कठ. २.१५) इत्येवमाद्या च श्रुतिराश्रमकर्मणां विद्यासाधनभावं सूचयति / स्मृतिरपि - ऽकषायपकतिः कर्माणि ज्ञानं तु परमा गतिः / कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्ततेऽ इत्येवमाद्या / अश्ववदिति योग्यतानिदर्शनम् / यथाच योग्यतावशेनाश्वो न लाङ्गलाकर्षणे युज्यते रथचर्यायां तु युज्यते / एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्त उत्पत्तौ चापेक्ष्यन्त इति
SK
अधिकमाह-सर्वापेक्षा / यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः / तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः / फलं सिद्धान्ते तत्सिद्धिरिति भेदः / अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते / प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् / नच पारंपर्ये तृतीयाश्रुतिविरोधः / ज्वालाद्वारा पारंपर्ये ऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् / नच शुद्धेर्द्वारत्वे मानाभावः / ऽज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः / कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्ततेऽइति स्मृतेः / ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽइत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति-इदमिति / नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति / तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह-विविदिषासंयोगाच्चेति / इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः / कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह-अथेत्यादिना /
SK
कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते / कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् /
SK
स्पष्टमन्यत्
SK
END Bस्Cओम्_३,४.६.२६
SK
START Bस्Cओम्_३,४.६.२७
SK
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् | BBस्_३,४.२७ |
SK
यदिकश्चिन्मन्येत यज्ञादीनां विद्यासाधनभावो न न्याय्यो विध्यबावात् / ऽयज्ञेन विविदिषन्तिऽ इत्येवञ्जातीयका हि श्रुतिरनुवादस्वरूपाविद्याभिष्टवपरा न यज्ञादिविधिपरा / इत्थं महाभागा विद्या स्याद्विद्यार्थी ऽतस्मादेवंविच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मनेयेवात्मानं पश्यतिऽ (बृ. ४.४.२३) इति विद्यासाधनत्वेन शमदमादीनां विधानाद्विहितानां चावश्यानुष्ठेयत्वात् /
SK
नन्वत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते न विधिः /
SK
नेति ब्रूमः / तस्मादिति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः / पश्येदिति न माध्यन्दिना विस्पष्टमेव विधिमधीयते / तस्माद्यज्ञाद्यनपेक्षायामपि शमदीन्यपेक्षितव्यानि / यज्ञादीन्यपि त्वपेक्षितव्यानीति यज्ञादिश्रुतेरेव /
SK
ननूक्तं यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति / सत्यमुक्तं तथापि त्वत्पूर्वत्वात्संयोगस्य विधिः परिकल्प्यते / नह्ययं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तो येनानूद्येत / ऽतस्मात्पूषा प्रपिष्टभागो ऽदन्तको हि इत्येवमादिषु चाश्रुतविधिकेष्वपि वाक्येष्वपूर्वत्वाद्विधिं परिकल्प्य पौष्णं पेषणं विकृतौ प्रतीयेत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः / तथाचोक्तम् ऽविधिर्वा धारणवत्ऽ (ब्र, सू. ३.४.२०) इति / स्मृतिरपि भगवद्गीताद्यास्वनभिसंधाय फलमनुतिष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् / तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येवाश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि / तत्राप्येवंविदिति विद्यासंयोगात्प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु ब्रह्यतराणि यज्ञादीनीति विवेक्तव्यम्
SK
एवं विद्योत्पत्तौ बहिरङ्गानि कर्माण्युक्त्वान्तरङ्गण्याह-शमेति / विद्यास्तुत्यर्थत्वेनैकवाक्यत्वसंभवे वर्तमानोक्तिभङ्गेन विधिकल्पनमयुक्तं विद्यावाक्याद्भेदप्रसङ्गात् / अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति पराभिप्रायमनूद्याङ्गीकरोति-तथापि त्विति / शमादेरावश्यकत्वान्न शब्दमात्रलभ्या विद्येत्यर्थः यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह-नेति ब्रूम इति / अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमादिविशिष्टश्रवणमत्र विधीयते / यदि तु ऽलोकमिच्छन्तः प्रव्रजन्तिऽ, ऽज्ञानं पुरस्कृत्य संन्यसेत्ऽइत्यादि श्रुतिस्मृतिषु फलवत्त्वेनोत्पन्नसंन्यासस्याङ्गत्वायोगात्, श्रोतव्य इति विहितश्रवणानुवादेनानेकशमादिविधाने वाक्यभेदापातात्, पश्येदिति च प्रकृत्या श्रवणलक्षणादोषाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्रागनुष्ठोयत्वे ऽपि श्रवणवज्ज्ञानार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमादिसमुच्चयविधिरित्यनवद्यम् / यः पूर्वं यज्ञादिश्रुतेः स्तुत्यर्थत्वाङ्गीकारः आपाततो गुडजिह्विकान्यायेन शमादिस्वीकारार्थं कृतस्तमिदानीं त्यजति-यज्ञादीन्यपीति / यज्ञादीनां विद्यासाधनत्वरूपसंयोगस्यापूर्वत्वादवान्तरवाक्यभेदेन विधिः स्वीक्रियत / ब्रह्मविद्यावाक्येन महावाक्यैकवाक्यता चेत्यर्थः / परमप्रकरणे ऽप्यवान्तरविधिरित्यत्र पूर्वतन्त्रसंमतिमाह-तस्मात्पूषेति / दर्शपूर्णमासप्रकरणे श्रुतं पूषा प्रपिष्टभाग इति / तत्र पूषा देवता पिष्टभागो वा दर्शपूर्ममासयोर्नास्ति / अतः समासात्प्रतीतस्य कालत्रयानवमृष्टस्य द्रव्यदेवतासंबन्धस्याविनाभावेन यागविध्युपस्थापकत्वात् प्रयोगज्ञानाय विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः / पौष्णं पेषणमिति सूत्रे विचारितमित्यर्थः / ऽस्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःऽइत्याद्याः स्मृत्यः / कर्मणां ज्ञानहेतुत्वे शमादिवद्यावज्ज्ञानोदयमनुवृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह-तत्रापीति /
SK
दृष्टविक्षेपनिवृत्तिद्वारा शमादीनां शानार्थत्वादनुवृत्तिर्न कर्मणामदृष्टद्वारा ज्ञानार्थत्वादिति भावः
SK
END Bस्Cओम्_३,४.६.२७
SK
START Bस्Cओम्_३,४.७.२८-२९
SK
७ सर्वान्नानुमत्यधिकरणम् / सू. २८-३१
SK
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् | BBस्_३,४.२८ |
SK
प्राणसंवादे श्रूयते छन्दोगानाम् - ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ (छा. ५.२.१) इति / तथा वाजसनेयिनाम् - ऽन ह वा अस्यान्नं जग्धं भवति नानन्नं प्रतिगृहीतम्ऽ (बृ. ६.१.१४) इति / सर्वमेवास्यादनीयमेव भवतीत्यर्थः / किमिदं सर्वान्नानुज्ञानं शमादिवद्विद्याङ्गं विधीयत उत स्तुत्यर्थं संकार्त्यत इति संशये विधिरिति तावत्प्रात्म् / तथाहि - प्रवृत्तिविशेषकर उपदेशो भवत्यतः प्राणविद्यासंनिधानात्तदङ्गत्वेनेयं नियमनिवृत्तिरुपदिश्यते /
SK
नन्वेवंसति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् /
SK
नैष दोषः / स्मान्यविशेषभावाद्बाधोपपत्तेः / यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञापनविधिना बाधः / यथाच ऽन काञ्चन परिहरेत्तद्व्रतम्ऽ (छा. २.१३.२) इत्यनेन वामदेव्याविद्याविषयेण सर्वस्त्रयपरिहारवचनेन तत्सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते / एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्यतेति / एवं प्राप्ते ब्रूमः - नेदं सर्वान्नानुज्ञानं विधीयत इति / नह्यत्र विधायकः शब्द उपलभ्यते ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ (छा. ५.२.१) इति वर्तमानापदेशात् / नचासत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते / अपिच श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वेदमुच्यते ऽनैवंविदः किञ्चिदनन्नं भवतिऽ इति / नच श्वादिमर्यामन्नं मानुषेण देहेनोपभोक्तुं शक्यते / शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् / तस्मात्प्राणान्नविज्ञानप्रशंसार्थो ऽयमर्थवादो न सर्वान्नानुज्ञानविधिः / तद्दर्शयति ऽसर्वान्नानुमतिश्च प्राणात्ययेऽ इति / एतदुक्तं भवति- प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदीयत्वेनाभ्यनुज्ञायते तद्दर्शनात् / तथाहि श्रुतिश्चाक्रायणस्येर्षेः कष्टायामवस्थायामभक्ष्यभक्षणे प्रवृत्तिं दर्शयति - ऽमटचीहतेषु कुरुषुऽ (छा. १.१०.१) इत्यस्मिन्ब्राह्मणे / चाक्रायणः किलर्षिरापद्गत इभ्येन सामिखादिन्तान्कुल्माषांश्चखाद / अनुपानं तु तदीयमुच्छिष्टदोषात्प्रत्याचचक्षे / कारणं चात्रोवाच ऽन वा अजीविष्यमिमानखादन्ऽ (छा. १.१०.४) इति, ऽकामो म उदपानम्ऽ (छा. १.१०.४) इति च / पिनश्चोत्तरेद्युस्तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान्भक्षयांबभूवेति / तदेतदुच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेराशयातिशयो लक्ष्यते प्राणात्ययप्रसङ्गे प्राणसंधारणायाभक्ष्यमपि भक्षयितव्यमिति / स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापीत्यनुपानप्रत्याख्यानाद्गम्यते / तस्मादर्थवादो ऽन ह वा एवंविदिऽ (चा. ५.२.१) इत्येवमादिः
SK
अबाधाच् च | BBस्_३,४.२९ |
SK
एवञ्च सत्याहारशुद्धौ सत्त्वशुद्धिरित्येवमादि भक्ष्याभक्ष्यविभागशास्त्रमबाधितं भविष्यति
SK
सर्वान्नानुमतिःएवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः / जग्धं भक्षितम् / अपूर्वत्वाद्विध्यश्रुतेश्च संशयः / अपूर्वत्वाद्यज्ञादिवद्विधिः कल्प्य इति इति पूर्वपक्षयति-विधिरिति / अत्र भक्ष्याभक्ष्यनियमत्यागस्य विद्याङ्गत्वसिद्धिः फलं सिद्धान्ते तु विद्यास्तुतिरिति विवेकः / न कलञ्जं भक्ष्येदिति शास्त्रं प्राणविद्व्यतिरिक्तविषयम् / यथा ग्राम्यकर्मणि वामदेव्यसामोपासकव्यतिरिक्तविषयं परस्त्रीनिषेधशास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति-नेदमिति / प्राणविद्याविधिसंनिधेरशक्यत्वाच्च स्तुतिरेव न विधिः कल्प्यः निषेधशास्त्रविरोधात् कॢप्तो हि विधिः सामान्यशास्त्रबाधको नतु कल्प्य इति भावः / स्वस्थस्य प्राणविदो न सर्वान्नानुमतिरित्यत्र लिङ्गं वदन् सूत्रं योजयति-तद्दर्शयतीति / मटच्यो रक्तक्षुद्रपक्षिणस्तैर्हतेषु कुरुदेशस्थसस्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छन्निभ्याग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामिखादितानर्धभक्षितान् कुत्सितमाषान् याचयित्वा भक्षितवान् / इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच / अन्नांशे मम आपदस्ति / जलपानं तु स्वेच्छातस्तडागादौ लभ्यत इति माषान् खादित्वावशिष्टाञ्जायायै दत्तवान् / सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ / स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तोत्रादीनाक्षिप्य प्राणादिकां प्रास्तावादिदेवतामुपदीश्य धनं प्राप्य स्थित इति भावः / अत्रोच्छिष्टभक्षणजलत्यागात्मकशिष्टाचारलिङ्गाच्छ्रौतादनापदि विदुषाप्यभक्ष्यं न भक्षणीयमिति सूच्यत इति भावः //२८
SK
END Bस्Cओम्_३,४.७.२८-२९
SK
START Bस्Cओम्_३,४.७.३०
SK
अपि च स्मर्यते | BBस्_३,४.३० |
SK
अपिचापदि सर्वान्नभक्षणमपि स्मर्यतेविदुषो.विदुषश्चाविशेषेण - ऽजीवितात्ययमापन्नो यो ऽन्नमत्ति यतस्ततः / लिप्यते न स पापेन पद्मपत्रमिवाम्भसाऽ इति / तथा ऽमद्यं नित्यं ब्राह्मणःऽ, ऽसुरापस्य ब्राह्मणस्योष्णामसिंचेयुःऽ, ऽसुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्ऽ इति च स्मर्यतेवर्जनमन्नस्य
SK
FN: उष्णमतितप्ताम् /
SK
सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह-तथा मद्यं नित्यं ब्रह्मण इति / वर्जयोदिति शेषः / कुत इत्याशङ्क्य मरणान्तप्रायश्चित्तविधानादित्याह-सुरापस्येति / उष्णामतितप्तां सुरामिति शेषः / इतश्च सा न पेयेत्याह-सुरापा इति
SK
END Bस्Cओम्_३,४.७.३०
SK
START Bस्Cओम्_३,४.७.३१
SK
शब्दश् चातो ऽकामकारे | BBस्_३,४.३१ |
SK
शब्दश्चानन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः काठकानां संहितायां श्रूयते - ऽतस्माद्ब्रह्मणः सुरां न पिबेत्ऽ इति / सो ऽपि ऽन ह वा एवंविदिऽ (छा. ५.२.१) इत्यस्यार्थवादत्वादुपपन्नतरो भवति / तस्मादेवञ्जातीयका अर्थवादा न विधय इति
SK
उदाहृतस्मृतीनां मूलश्रुतिमाह-शब्दश्चेति /
SK
कामकारो यथेष्टप्रवृत्तिः सो ऽपि निषेधो ऽपि उपपन्नतरो भवति / न ह वा एवंविदीत्यस्यार्थवादत्वात् / यद्ययमपि विधिः स्यात्तर्हि विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्सुरापाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः
SK
END Bस्Cओम्_३,४.७.३१
SK
START Bस्Cओम्_३,४.८.३२
SK
८ आश्रमकर्माधिकरणम् / सू. ३२-३६
SK
विहितत्वाच् चाश्रमकर्मापि | BBस्_३,४.३२ |
SK
ऽसर्वापेक्षा च -ऽ (ब्र. सू. ३.४.२३) इत्यत्राश्रमकर्मणां विद्यासाधनत्वमवधारितम् / इदानीं तु किममुमुक्षोरप्यश्रममात्रनिष्ठस्य विद्यामकाममयमानस्य तान्यनुष्ठेयान्युताहो नेति चिन्त्यते / तत्र ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. ४.४.२२) इत्यादिनाश्रमकर्मणां विद्यासाधनत्वेन विहितत्वाद्विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यन्यननुष्ठेयानि / अथ तस्याप्यनुष्ठेयानि न तर्ह्येषां विद्यासाधनत्वं नित्यानित्यसंयोगविरोधादिति / अस्यां प्राप्तौ पठति - ऽआश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यन्येव नित्यानि कर्माणि यावज्जीवमग्निहोत्रं जुहोतिऽ इत्यादिना विहितत्वात् / नहि वचनस्यातिभारो नाम कश्चिदस्ति
SK
विहितत्वाच्चाश्रमकर्मापि / नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह-तत्रेति /
SK
ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् / तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे / सिद्धान्ते तूभयथानुष्ठानं फलम्
SK
END Bस्Cओम्_३,४.८.३२
SK
START Bस्Cओम्_३,४.८.३३
SK
अथ यदुक्तं नैवं सति विद्यासाधनत्वेषां स्यादित्यत उत्तरं पठति -
SK
सहकारित्वेन च | BBस्_३,४.३३ |
SK
विद्यासहकारीणि चैतानि स्युर्विहितत्वादेव ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. ४.४.२२) इत्यादिना / तदुक्तम् - ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ (ब्र. सू. ३.४.२६) इति / नचेदं विद्यासहकारित्वावचनमाश्रमकर्मणां प्रयाजादिवद्विद्याफलविषयं मन्तव्यम् / अविधिलक्षणत्वाद्विद्यायाः / असाध्यत्वाच्च विद्याफलस्य / विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरमपेक्षते नैवं विद्या / तथाचोक्तम् ऽअत एव चाग्नीन्धनाद्यनपेक्षाऽ (ब्र. सू. ३.४.२५) इति / तस्मादुत्त्पत्तिसाधनत्व एवैषां सहकारित्ववाचोयुक्तिः / नचात्र नित्यानित्यसंयोगविरोध आशङ्कयः, कर्माभेदे ऽपि संयोगभेदात् / नित्ये ह्येकः संयोगो यावज्जीवादिवाक्यकल्पितो न तस्य विद्याफलत्वम् / अनित्यस्त्वपरः संयोगः ऽतमेतं वेदानुवचनेनऽ (बृ. ४.४.२२)
SK
इत्यादिवाक्यकल्पितस्तस्य विद्याफलत्वम् / यथैकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वमनित्येन संयोगेन पुरुषार्थत्वं तद्वत्
SK
सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि / तेषां भावस्तत्वं तेनेत्यर्थः / विद्यया सह फलकारित्वं सहकारिपदात्प्राप्तं निरस्यति-नचेदमिति / विद्याया अविहितत्वान्नाङ्गपेक्षास्ति / अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्षस्यासाध्यत्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः / तुल्यबलश्रुतिद्वयेन विनियोगपृथक्त्वं संयोगभेदस्ततो न विरोधः / कामनाया अनित्यत्वे ऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् / सत्यां कामनायां काम्यप्रयोगेनैव नित्यत्वसिद्धेर्न कश्चिद्विरोधः / इदञ्च ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइति सूत्रे चिन्तितम् / यथा ऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति / अतः सति वाक्यद्वये विनियुक्तविनियोगो न विरुध्यत इत्यर्थः
SK
END Bस्Cओम्_३,४.८.३३
SK
START Bस्Cओम्_३,४.८.३४
SK
सर्वथापि त एवोभयलिङ्गात् | BBस्_३,४.३४ |
SK
सर्वथाप्याश्रमकर्मपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयो धर्मा अनुष्टोयाः / त एवेत्यवधारयन्नाच्र्यः किं निवर्तयति / कर्मभेदशह् कामिति ब्रूमः / यथा कुण्डपायिनामयने ऽमासमग्निहोत्रं जिहोतिऽ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदो ऽस्तीत्यर्थः /
SK
कुतः -उभयलिङ्गात् / श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च / श्रुतिलिङ्गं तावत् ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. ४.४.२२) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ् क्ते नतु जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयतीति / स्मृतिलिङ्गमपि ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यःऽ (६.१) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति / यस्यैते ऽष्टाचत्वारिंशत्संस्कारा इत्याद्या च संस्कारत्वप्रसिद्धिर्वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति / तस्मात्साद्विदमभेदावधारणम्
SK
ननु नित्याग्निहोत्रादिभ्यो भिन्ना एवापूयर्वज्ञादयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनियुक्तविनियोगस्तत्राह-सर्वथापीति / नित्यत्वे काम्यत्वे चेत्यर्थः / कुण्डपायिनामयने मासमग्निहोत्रं जुह्वतीत्याख्यातस्य साध्यहोमवाचित्वात्तदेकार्थकाग्निहोत्रपदस्य व्यवहितसिद्धाग्निहोत्रपरामर्शकत्वायोगान्मासगुणविशिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुबन्तानामाख्यातेनैकार्थत्वाभावात्सिद्धव्यवहितकर्मानुवादकत्वात्तेषामेव कर्मणां ज्ञानार्थत्वविधिरिति भावः / सिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि शुद्धाख्यसंस्कारद्वारा ज्ञानार्थककर्माभेदे लिङ्गमित्याह-यस्यैत इति
SK
END Bस्Cओम्_३,४.८.३४
SK
START Bस्Cओम्_३,४.८.३५
SK
अनभिभवं च दर्शयति | BBस्_३,४.३५ |
SK
सहकारित्वस्यैवैतदुपोद्बलकं लिङ्गदर्सनमनभिभवं त दर्शयति श्रुतिर्ब्रह्मचर्यादिसाधनसंपन्नस्य रागदिभिः क्लेशैः ऽएष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽ (छा. ८.५.३) इत्यादिना / तस्माद्यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम्
SK
ब्रह्मचर्यादिकर्मणां प्रतिबन्धध्वंसद्वारा विद्यार्थत्वे लिङ्गमाह-अनभिभवं चेति
SK
END Bस्Cओम्_३,४.८.३५
SK
START Bस्Cओम्_३,४.९.३६-३७
SK
९ विधुरादिकरणम् / सू. ३६ -३९
SK
अन्तरा चापि तु तद्दृष्टेः | BBस्_३,४.३६ |
SK
विधुरादीनां द्रव्यादिसंपद्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारो ऽस्ति किंवा नास्तीति संशये नास्तीति तावत्प्राप्तम् / आश्रमकर्मणां विद्याहेतुत्वावधारणादाश्रमकर्मासंभवाच्चैतेषामिति / एवं प्राप्त इदमाह - अन्तरा चापि त्वनाश्रमित्वेन वर्तमानो ऽपि विद्यायामधिक्रियते / कुतः तद्दृष्टेः / रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मत्वश्रुत्युपलब्धेः
SK
अपि च स्मर्यते | BBस्_३,४.३७ |
SK
संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्माणामपि महायोगित्वं स्मर्यत इतिहासे
SK
अन्तरा चापि तु तद्दृष्टेः / अनाश्रमिणां जपादिकर्मसत्त्वान्निन्दितत्वाच्च संशये सति आश्रमकर्मणामेव विद्याहेतुत्वश्रुतेरनाश्रमस्य निन्दितत्वाच्चानधिकार इति पूर्वपक्षः / तत्रानाश्रमकर्मणां विद्याहेतुत्वासिद्धिः / सिद्धान्ते तत्सिद्धिरिति फलम् //३६
SK
END Bस्Cओम्_३,४.९.३६-३७
SK
START Bस्Cओम्_३,४.९.३८
SK
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमिपन्यस्तं का नु खलु प्राप्तिरिति साभिधीयते -
SK
विशेषानुग्रहश् च | BBस्_३,४.३८ |
SK
तेषामपि च विधुरादीनामविरुद्धैः पुरुषमात्रसंबन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः संभवति / तथाच स्मृतिः - ऽजप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः / कुर्यादन्त्र वा कुर्यान्मन्त्रो ब्राह्मण उच्यतेऽ इत्यसंभवदाश्रमकर्माणो ऽपि जप्ये ऽधिकारं दर्शयति / जन्मान्तरानुष्ठितैरपि चाश्रमकर्मभिः संभवत्येव विद्याया अनुग्रहः / तथाच स्मृतिः - ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽ (६.४५) इति जन्मान्तरसंचितानामपि संस्कारविशेषाननुग्रहीतृन्विद्यायां दर्शयति / दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्तिनमधिकरोति श्रवणादिषु / तस्माद्विधुरादीनामप्यधिकारो न विरुध्यते
SK
रैक्वादीनां विद्यावत्त्वलिङ्गस्य जन्मान्तराश्रमकर्मणान्यथासिद्धेरनाश्रमकर्मणो विद्यार्थत्वप्रापकं मानान्तरं वाच्यमिति शङ्कते-ननु लिङ्गमिति / अनाश्रमित्वाविरुद्धानां वर्णमात्रप्राप्तधर्माणां विद्यार्थत्वे मानमाह-तथाचेति / मैत्रो दयावानित्यर्थः / नन्वनाश्रमिणां कर्म भवतु विद्याहेतुस्तथापि तेषां न श्रवणादावधिकारः संन्यासाभावादित्यत आह-दृष्टार्था चेति /
SK
बन्धकाज्ञानध्वस्तिफलकविद्याकामस्य श्रवणे ऽधिकारः / संन्यासो ऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्यनङ्गत्वादिति भावः
SK
END Bस्Cओम्_३,४.९.३८
SK
START Bस्Cओम्_३,४.९.३९
SK
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च | BBस्_३,४.३९ |
SK
अतस्त्वन्तरालवर्तित्वादितरदाश्रमवर्तित्वं ज्यायो विद्यासाधनम् / श्रुतिस्मृतिसंदृष्टत्वात् / श्रुतिलिङ्गाच्च ऽतेनैति ब्रह्मवित्पूण्यकृत्तेजसश्चऽ (बृ. ४.४.१) इति / ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः / संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्ऽ इति च स्मृतिलिङ्गात्
SK
तर्ह्याश्रमित्वं वृथेत्यत आह-अतस्त्विति / पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नोतीत्यर्थः //
SK
अत्र पुण्यकृत्त्वलिङ्गादाश्रमित्वं ज्यायः पुण्योपचये शीघ्रं विद्यालाभादनाश्रमस्य निन्दितत्वाच्चेति भावः
SK
END Bस्Cओम्_३,४.९.३९
SK
START Bस्Cओम्_३,४.१०.४०
SK
१० तद्भूताधिकरणम् / सू. ४०
SK
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः | BBस्_३,४.४० |
SK
सन्त्यूर्ध्वरेतसा आश्रमा इति स्थापितम् / तांस्तु प्राप्तस्य कथञ्चित्ततः प्रच्युतिरस्ति नास्ति वेति संशयः / पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतो ऽपि स्याद्विशेषाभावादिति / एवं प्राप्त उच्यते - तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदप्यतद्भावो न ततः प्रच्युतिः स्यात् / कुतः - नियमातद्रूपाभावेभ्यः / तथाहि - ऽअत्यन्तमात्मानमाचार्यकुले ऽवसादयन्ऽ (छा. २.२३.१) इति ऽअरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्ऽ इति ऽआचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् / आ विमोक्षाच्छरीरस्य सो ऽनुतिष्ठेद्यथाविदिऽ इति चैवञ्जातीयके नियमः प्रच्युत्यप्रभावं दर्शयति / यथाच ऽब्रह्मचर्यं समाप्य गृही भवेत्ऽ (जा. ४) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा. ४) इति चैवमादीन्यारोहरूपाणि वचांस्युपलभ्यन्ते नैवं प्रत्यवरोहरूपाणि / नचैवमाचाराः शिष्ठा विद्यन्ते / यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति तदसत् ऽश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्ऽ (३.३५) इति स्मरणात् / न्यायाच्च / यो हि यं प्रति विधीयते स तस्य धर्मो नतु यो येन स्वनुष्ठातुं शक्यते / चोदनालक्षणत्वाद्धर्मस्य / नच रागादिवशात्प्रच्युतिः / नियमशास्त्रस्य बलीयस्त्वात् / जैमिनेरपीत्यपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय
SK
तद्भूतस्य तु / उत्तमाश्रमात्पूर्वाश्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्याहेतुरनाश्रमिकर्मवदिति संगतिः, पूर्वपक्षफलं चैतत् / सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् / रागादिप्राबल्यात्प्रच्युतिनिषेधाच्च प्रच्युतिः प्रामाणिकी न वेति संशयमाहः / सिद्धान्तसूत्रे नियमं व्याचष्टे-तथाहीति / अत्यन्तमिति नैष्ठिकत्वनियमः / अरण्यमित्येकान्तोपलक्षितं पारिव्राज्यं गृह्यते / तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मात्पारिव्राज्यान्न पुनरेयान्न प्रच्यवेदिति उनिषद्रहस्यमित्यर्थः / अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे-यथाचेति / शिष्टाचाराभावमाह-नचैवमिति /
SK
ऽचण्डालाः प्रत्यवसिताःऽइति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः
SK
END Bस्Cओम्_३,४.१०.४०
SK
START Bस्Cओम्_३,४.११.४१
SK
११ अधिकाराधिकरणम् / सू. ४१ - ४२
SK
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् | BBस्_३,४.४१ |
SK
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत किं तस्य ऽब्रह्मचर्यावकीर्णी नैरृतं गर्दभमालभेत्ऽ इत्येतत्प्रायश्चित्तं स्यादुत नेति /
SK
नेत्युच्यते / यदप्यधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽ (जै. सू / ६.८.२१) इति तदपिन नैष्ठिकस्य भवितुमर्हति / किं कारणम् - ऽआरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पिनः / प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महाऽ इत्यप्रतिसमाधेयपतनस्मरणाच्छिन्नशिरस इव प्रतिक्रियानुपपत्तेः / उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम्
SK
नचाधिकारिकम् / अवकीर्येत व्यभिचरेदित्यर्थः / अवकीर्णं योनौ निषिक्तं रेतो ऽस्यास्तीत्यवकीर्णी / अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उपपातकत्वात्पतनस्मृतेश्च संशयः / प्रच्युतस्य यज्ञादिकं निष्फलमित्युक्तं तद्वत्प्रायश्चित्तमापि निष्फलमिति पूर्वपक्षयति-नेत्युच्यत इति /
SK
अत्र कृतप्रायश्चित्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः / यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः / दारसंबन्धोत्तरकालविहिताधानस्य संप्रत्यप्राप्तकालत्वेनाहवनीयाभावात्तद्वदवकीर्णिनो ब्रह्मचारिणः प्रायश्चित्तपशुर्गर्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्रायश्चित्तमाधिकारिकं तदुपकुर्वाणस्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति
SK
END Bस्Cओम्_३,४.११.४१
SK
START Bस्Cओम्_३,४.११.४२
SK
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम् | BBस्_३,४.४२ |
SK
अपित्वेक आचार्या उपपातकमेवैतदिति मन्यते / यन्नैष्ठिकस्य गुरुदारादिभ्यो ऽन्यत्र ब्रह्मचर्यं विशीर्येत न तन्महापातकं भवति गुरुतल्पादिषु महापातकेष्वपरिगणनात् / तस्मादुपकुर्वाणवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति ब्रह्मचारित्वाविशेषादवकीर्णितत्वाविशेषाच्च / अशनवत् / यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनःसंस्कारश्चैवमिति / ये हि प्रायश्चित्तस्याभावमिच्छन्ति तेषां न मूलमुपलभ्यते / ये तु भावमिच्छन्ति तेषां ब्रह्मचार्यवकीर्णेत्यदविशेषश्रवणं मूलम् / तस्माद्भावो युक्ततरः / तदुक्तं प्रमाणलक्षणे - ऽसमा विप्रतिपत्तिः स्यात्ऽ (जै. सू. १.३.८) ऽशास्त्रस्था वा तन्निमित्तत्वात्ऽ (जै. सू. १.३.९) इति / प्राश्चित्ताभावस्मरणं त्वेवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातम् / एवं भिक्षुवैखानसयोरपि वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् भिक्षुर्वानप्रस्थवत्सोमवल्लिङ्गवर्जं स्वशास्त्रसंस्कारश्च इत्यवमादि प्रायश्चित्तस्मरणमनुवर्तव्यम्
SK
उपपूर्वमिति / उपपदं पूर्वं यस्य पातकस्य तदुपपातकमित्यर्थः / ऽप्रायश्चित्तं न पश्यामिऽइति दर्शनाभावस्मृतेः प्रायश्चित्ताभावापरत्वं कल्पयित्वा तन्मूलश्रुतिकल्पनात्प्रागेव कॢप्तसाधारणश्रुत्या प्रायश्चित्तसद्भावसिद्धेः / कल्पनं नोदेति कॢप्तश्रुतिविरोधादिति भावः / प्रायश्चित्तस्य भावाभावसिद्ध्योः समत्वे ऽपि भावप्रसिद्धिः श्रुतिमूलत्वादादर्तव्येत्यत्र संमतिमाह-तदुक्तमिति / यवमयश्चरूरित्यत्र यवशब्दङ्केचिद्दीर्घशूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु / अतः कस्य चरुः कार्य इति संदेहे वृद्धप्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धान्तः-शास्त्रमूला प्रतिपत्तिर्ग्राह्या शास्त्रनिमित्तत्वाद्धर्मादिज्ञानस्य / तथाच ऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोदमानास्तिष्ठन्ति, इति शास्त्रमूलत्वाद्दीर्घशूकप्रयोगस्यैवादर इत्यर्थः / स्मृतेर्गतिमाह-प्रायश्चित्तेति / ब्रह्मचर्यरक्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भगवदत्रिणेत्यर्थः / नैष्ठिकवद्यतिवनस्थयोरपि प्रमादाद्ब्रह्मचर्यभङ्गे प्रायश्चित्तमस्तीत्याह-एवमिति / कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत / यतिस्तु सोमलतावर्जं वर्धयेत् / ऽसर्वपापप्रसक्तो ऽपि ध्यायन्निमिषमच्युतम् / भूयस्तपस्वी भवति पङ्क्तिपावन एव च / उपापातकसङ्घेषु पातकेषु महत्सु च / प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् //
SK
ऽइत्यादिस्वशास्त्रविहितध्यानप्राणायामादिसंस्कारो ऽपि भिक्षुणा कार्य इत्यर्थः /
SK
आदिपदात् ऽमनोवाक्कायजान्दोषानज्ञानोत्थान्प्रमादजान् / सर्वान्दहति योगाग्निस्तूलराशिमिवानलः / नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश / अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः / ऽइत्यादिवाक्यं ग्राह्यम्
SK
END Bस्Cओम्_३,४.११.४२
SK
START Bस्Cओम्_३,४.१२.४३
SK
१२ बहिरधिकरमम् / सू. ४३
SK
बहिस् तूभयथापि स्मृतेर् आचाराच् च | BBस्_३,४.४३ |
SK
यदूर्ध्वरेतसां स्वश्रमेभ्यः प्रच्यवनं महापातकं यदि वोपपातकमुभयथापि शिष्ठैस्ते बहिर्कर्तव्याः / ऽआरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः / प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महाऽ इति ऽआरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् / उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्ऽ इति चैवमादिनिन्दातिशयस्मृतिभ्यः / शिष्टाचाराच्च / नहि यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः
SK
बहिस्तूभयथापि / कृतप्रायश्चित्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्धत्वात्साधनमिति प्राप्ते प्रायश्चित्तात्परलोके तेषां शुद्धत्वे ऽप्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति-यद्यूर्ध्वेति /
SK
सुगमं भाष्यम्
SK
END Bस्Cओम्_३,४.१२.४३
SK
START Bस्Cओम्_३,४.१३.४४
SK
१३ स्वाम्यधिकरणम् / सू. ४४ -४६
SK
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः | BBस्_३,४.४४ |
SK
अङ्गेषूपासनेषु संशयः / किं तानि यजमानकर्माण्याहोस्विदृत्विक्कर्माणीति / किं तावत्प्राप्तम् यजमानकर्माणीति / कुतः - फलश्रुतेः / फलं हि श्रूयते - ऽवर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्तेऽ (छा. २.३.२) इत्यादि / तच्च स्वामिगामि न्याय्यम् / तस्य साङ्गे प्रयोगे ऽधिकृतत्वात् / अधिकृताधिकारत्वाच्चैवञ्जातीयकस्य / फलं च कर्तर्युपासनानां श्रूयते - ऽवर्षत्यस्मै य उपास्तेऽ इत्यादि /
SK
नन्वृत्विजो ऽपि फलं दृष्टम् ऽआत्मने वा यं कामं कामयते तमागायतिऽ (बृ. १.३.२८) इति /
SK
न / तस्य वाचनिकत्वात् / तस्मात्स्वामिन एव फलवत्सूपासनेषु कर्तृत्वमित्यात्रेय आचार्यो मन्यते
SK
स्वामिनः फलश्रुतेः / अङ्गाश्रितोपास्तिषूभयकर्तृकत्वसंभवात्संशयः / यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयस्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्युत्सर्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह-किमिति / अत्र कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यजमानगामिस्वतन्त्रफलाः किमु वाच्यं स्वनिष्ठब्रह्मविद्यायाः स्वातन्त्र्यमिति फलं विवेक्तव्यम् / अतः पादसंगतिः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चप्रकारे साम्नि वृष्टिध्यातुर्वर्षसमृद्धिः फलमिति श्रुत्यर्थः / श्रुतं फलं ऋत्विग्गतं किं न स्यादित्यत आह-तच्चेति / यथासाङ्गक्रत्वधिकृताधिकारत्वाद्गोदोहनस्य फलं क्रत्वधिकारिगतं तद्वदङ्गोपासनस्यापि फलं तद्गतमेवेत्यर्थः / अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह-फलं चेति / यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते-नन्विति /
SK
उद्गानेन साधयतीत्यर्थः / याजमानं फलमित्युत्सर्गस्यासति बाधकवचने सिद्धिरिति समाध्यर्थः / तस्मात्फलभोक्तृत्वादित्यर्थः
SK
END Bस्Cओम्_३,४.१३.४४
SK
START Bस्Cओम्_३,४.१३.४५-४६
SK
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते | BBस्_३,४.४५ |
SK
नैतदस्ति स्वामिकर्माण्युपासनानीति / ऋत्विक्कर्माण्येतानि स्युरित्यौडुलोमिराचार्यो मन्यते / किं कारणं, तस्मै हि साङ्गाय कर्मणे यजमानेनर्त्विक्परिक्रीयते / तत्प्रयोगान्तःपातीनि चोद्गीथाद्युपासनान्यधिकृताधिकारकत्वात् / तस्माद्गोदोहनादिनियमवदेवर्त्विग्भिर्निर्वर्त्येतन् / तथाच ऽतं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव (छा. १.२.१३) इत्युद्गातृकतृर्कतां विज्ञानस्य दर्शयति / यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति /
SK
नैष दोषः / परार्थत्वादृत्विजो ऽन्यत्र वचनात्फलसंबन्धानुपपत्तेः
SK
श्रुतेश्च | BBस्_३,४.४६ |
SK
यां वै काञ्चन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाचेति तस्मादु हैवंविदुद्गाता ब्रूयात्कं ते काममागायानि (छा. १.७.८ - ९) इति / तच्चर्वित्वक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति /
SK
तस्मादङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः
SK
उपासनमार्त्विज्यं ऋत्विक्कर्तृकमित्यत श्रौतं लिङ्गमाह-तथाचेति / तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यातवान्ध्यात्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः / यजमानेन स्वगामिफलकसाङ्गप्रयोगकरणायर्त्विजां क्रीतत्वात्कर्तृत्वे ऽपि न तत्फलभाक्त्वमुत्सर्गस्य बाधकाभावादित्युक्तत्वात् / क्रयणद्वारा कर्तृत्वभोक्तृत्वसामानाधिकरण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः //४५
SK
END Bस्Cओम्_३,४.१३.४५-४६
SK
START Bस्Cओम्_३,४.१४.४७
SK
१४ सहकार्यन्तरविध्यधिकरणम् / सू. ४७ - ४९
SK
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् | BBस्_३,४.४७ |
SK
ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मोनं च निर्विद्याथ ब्राह्मणःऽ (बृ. ३.५.१) इति बृहदारण्यके श्रूयते / तत्र संशयः मौनं विदीयते न वेति / न विदीयत इति तावत्प्राप्तम् / बाल्येन तिष्ठासेदित्यत्रैव विधेरवसितत्वात् / नह्यथ मुनिरित्यत्र विदायका विभक्तिरुपलभ्यते तस्मादयमनुवादो युक्तः / कुतः प्राप्तिरिति चेत् /
SK
मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात्पाण्डित्यं निर्विद्येत्येवं प्राप्तं मौनम् / अपिचामौनं च मौनं च निर्विद्याथ ब्राह्मण इत्यत्र तावन्न ब्राह्मणत्वं विधीयते प्रागेव प्राप्तत्वात् / तस्मादथ ब्राह्मण इति प्रशंसावदस्तथैवाथ मुनिरित्यपि भवितुमर्हति समाननिर्देषत्वादिति / एवं प्राप्ते ब्रूमः - सहकार्यन्तरविधिरिति / विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेवाश्रयितव्यो ऽपूर्ववत् /
SK
ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् /
SK
नैष दोषः / मुनिशब्दस्य ज्ञानातिशयार्थत्वात् / मननान्मुनिरिति च व्युत्पत्तिरिति च व्युत्पत्तिसंभवात् / ऽमुनीनामप्यहं व्यासःऽ (गी. १०.३७) इति च प्रयोगदर्शनात् /
SK
ननु मुनिशब्द उत्तमाश्रमवचनो ऽपि श्रूयते ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽ इत्यत्र /
SK
न / ऽवाल्मीकिर्मुनिपुङ्गवःऽ इत्यादिषु व्यबिचारदर्शनात् / इतराश्रमसंनिधानात्तु पारिशेष्यात्तत्रोत्तमाश्रमोपादानं ज्ञानप्रधानत्वादुत्माश्रमस्यष तस्माद्बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विदीयते / यत्तु बाल्य एव विधेः पर्यवसानमिति तथाप्यपूर्वत्वान्मुनित्वस्य विधेयत्वामाश्रीयते मुनिः स्यादिति / निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् / तद्वतो विद्यावतः सन्यासिनः / कथञ्च विद्यावः संन्यासिन इत्यवगम्यते / तदधिकारात् ऽआत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ इति /
SK
ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः किं मोनविधिनेत्यत आह - पक्षेणेति / एतदुक्तं भवति -
SK
यस्मिन्पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मिन्नेष विधिरिति / विध्यादिवत् / यथा - ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्येवञ्जातीयके विध्यादौ सहकारित्वेनाग्न्यन्बाधानादिकमङ्गजातं विधीयते / एवमविप्रधाने ऽप्यस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः
SK
सहकार्यन्तरविधिः / यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनो ऽपि ब्राह्मण आपातज्ञानरूपपण्डावान्पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मननेनासंभावनानिरासेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातुमिच्छेदेवं मननश्रवणे कृत्वादानन्तरं मुनिर्निदिध्यासनकृत्स्यादेवममौनं च मौनादन्यद्बाल्यपाण्डित्यद्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञानसामग्रीपौष्कल्यानन्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः / मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः / यथा तं ह बक इत्यादिवाक्यशेषादुद्गीथाद्युपासनस्यार्त्विज्यत्वनिर्णयस्तद्वदथ ब्राह्मण इति विधिहीनवाक्यशेषान्मौनस्याप्यविधेयत्वनिश्चय इति पूर्वपक्षमाह-न विधीयत इति / अत्र ध्यानस्याननुष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् / यदि मौनं पारिव्राज्यं तदा वाक्यान्तरप्राप्तमनूद्यते बाल्यविधिप्रशंसार्थम् / यदि ज्ञानं तदा पाण्डित्यशब्दात्प्राप्तमिति पूर्वपक्षग्रन्थार्थः / मुनिशब्दाद्विज्ञानातिशयः प्रतीयते तस्य ज्ञानमात्रवाचिपाण्डित्यशब्दान्न प्राप्तिः / नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयुज्यमानत्वात् / तस्मादप्राप्तं मौनमपूर्वत्वाद्विधिं कल्प्यतीति सिद्धान्तयति-एवमित्यादिना / आपस्तम्बप्रयोगस्य गतिमाह-इतराश्रमेति / किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह-निर्वेदनीयत्वेति / नच त्रयाणां विधाने वाक्यभेदो दोषः / उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः / कस्येदं ध्यानं विधीयत इत्याह-तद्वत इति / आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः / सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह-नन्वित्यादिना / ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्ये ऽङ्गविधिवदित्याह-विध्यादिवदिति /
SK
प्रधानमारभ्याङ्गपर्यन्तो विधिः / तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः / एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति / विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः
SK
END Bस्Cओम्_३,४.१४.४७
SK
START Bस्Cओम्_३,४.१४.४८
SK
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्माच्छान्दोग्ये गृहिणोपसंहारः ऽअभिसमावृत्य कुटुम्बेऽ (छा. ८.१५.१) इत्यत्र / तेन ह्युपसंहरंस्तद्विषयमादरं दर्शतीति / अत उत्तरं पठति -
SK
कृत्स्नभावात् तु गृहिणोपसंहारः | BBस्_३,४.४८ |
SK
तुशब्दो विशेषणार्थः / कृत्स्नभावो ऽस्य विशेष्यते / बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टान्याश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते / तस्माद्गृहमेधिनोपसंहारो न विरुध्यते
SK
समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः / आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः
SK
END Bस्Cओम्_३,४.१४.४८
SK
START Bस्Cओम्_३,४.१४.४९
SK
मौनवद् इतरेषाम् अप्य् उपदेशात् | BBस्_३,४.४९ |
SK
यथा मौनं गार्हस्थ्यं चैतावाश्रमौ श्रुतिमन्तावेवमितरावपि वानप्रस्थगुरुकुलवासौ / दर्शिता हि पुरस्ताच्छ्रुतिः- ऽतपः एव द्वितीयो ब्रह्मचर्याचार्यकुलवासी तृतीयःऽ (छा. २.२३.१) इत्याद्या / तस्माच्चतुर्णामप्याश्रमाणामुपदेशाविशेषात्तुल्यवद्विकल्पसमुच्चयाभ्यां प्रतिपत्तिः / इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षयानुष्ठातृभेदापेक्षया वेति द्रष्टव्यम्
SK
संन्यासगार्हस्थ्यद्वयमत्र सूत्रकृतोक्तम् / ततो ऽन्यदाश्रमद्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति-मौनवदिति /
SK
आश्रमद्वयवदित्यर्थः / इतरयोरपीति वाच्ये बहूक्तिरवान्तरभेदमपेक्ष्य / स चास्माभिः प्राग्दर्शितः
SK
END Bस्Cओम्_३,४.१४.४९
SK
START Bस्Cओम्_३,४.१५.५०
SK
१५ अनाविष्काराधिकरणम् / सू. ५०
SK
अनाविष्कुर्वन्न् अन्वयात् | BBस्_३,४.५० |
SK
ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्वेद्य बाल्येन तिष्ठासेत्ऽ (बृ. ३.५.१) इति बाल्यमनुष्ठेयतया श्रूयते / तत्र बालस्य भावः कर्म वा बाल्यमितिरद्धिते सति बालभावस्य वयोविशेषस्येच्छाया संपादयितुमशक्यत्वाद्यथोपपादं मूत्रपुरीषत्वादिबालचरितन्तर्गता वा भावविशुद्धिरप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयः / किं तावत्प्राप्तं कामचारवादभक्षणता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् /
SK
ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् /
SK
न / विद्यावतः संन्यासिनो वचनस्मर्थ्याद्दोषनिवृत्तेः पशुहिंसादिष्विवेति / एवं प्राप्ते ऽभिधीयते / न / वचनस्य गत्यन्तराभावात् / अविरुद्धे ह्यन्यस्मिन्बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता / प्रधानोपकाराय चाङ्गं विधीयते / ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् / नच सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते / तस्मादान्तरो भावविशेषो बाल्यस्याप्ररूढेन्द्रियत्वादिरिह बाल्यमाश्रीयते / तदाह - अनाविष्कुर्वन्निति / ज्ञानाध्ययनधार्मिकत्वादिभिरात्मानमविख्यापयन्दम्भदर्पादिरहितो भवेत् / यथा बालो ऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते तद्वत् / एवं ह्यस्य वाक्यस्य प्रधानोपकार्यार्थानुगम उपपद्यते / तथाचोक्तं स्मृतिकारैः - ऽयं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् / न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः //
SK
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् / अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्ऽ //
SK
ऽअव्यक्तलिङ्गो ऽव्यक्ताचारःऽ इति चैवमादि
SK
अनाविष्कुर्वन्नन्वयात् / तत्र बाल्ये विषये तद्धितस्य भावार्थत्वासंभवात्कर्मार्थत्वं गृहीत्वा तिष्ठन्मूत्रत्वादिकर्मणो ऽप्ररूढेन्द्रियत्वादिरूपभावशुद्धेश्च बालकर्मत्वाविशेषात्संशयमाह-तत्रेति / पूर्वपक्षे विद्याङ्गत्वेन तिष्ठन्मूत्रत्वादेरप्यनुष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् / पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसिद्धत्वात् ध्यानं विधेयमित्युक्तम्, तद्वद्बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधिग्रहणमित्याह-किं ताविदिति / कामतश्चरणवदनभक्षणानि यस्य स कामचारवादभक्षणस्तस्य भावस्तत्तेत्यर्थः / यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्यविधिबलात्पातित्यशास्त्रमन्यविषयमिति भावः / ऽयस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः / न स तत्पदमाप्नोति संसारं चाधिगच्छतिऽइत्यादि शौचभिक्षादिनियमविधिशास्त्राविरुद्धस्य भावशुद्धाख्यबाल्यस्य विधिसंभवान्न यथेष्टचेष्टाविधिरिति सिद्धान्तयति-एवमिति / प्रधानविरोधित्वाच्च न तद्विधिरित्याह-प्रधानेति /
SK
भावशुद्धेर्विद्योपकारकत्वेनान्वयादनाविष्कुर्वन्भवेदिति बाल्यविध्यर्थ इति सूत्रयोजना
SK
END Bस्Cओम्_३,४.१५.५०
SK
START Bस्Cओम्_३,४.१६.५१
SK
१६ ऐहिकाधिकरणम् / सू. ५१
SK
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् | BBस्_३,४.५१ |
SK
ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र.सू. ३.४.२३) इत्यत आरभ्योच्चावचं विद्यासाधनमवधारितं, तत्फलं विद्या सिद्ध्यन्ती किमिहैव जन्मनि सिद्ध्यत्युत कदाचिदमुत्रापीति च्नव्त्यते / किं तावत्प्राप्तम् / इहैवेति /
SK
किं कारणम् / श्रवणादिपूर्विका हि विद्या / नच कश्चिदमुत्र मे विद्या जायतामित्यभिसंधाय श्रवणादिषु प्रवर्तते / समान एव तु जन्मनि विद्याजन्माभिसंधायैतेषु प्रवर्तमानो दृश्यते / यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति प्रामाणजन्यत्वाद्विद्यायाः / तस्मादैहिकमेव विद्याजन्मेति / एवं प्राप्ते वदामः - ऐहिकं विद्याजन्म भवत्यसति प्रस्तुतप्रतिबन्ध इति / एतदपक्तं भवति - यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियत उपस्थितविपाकेन कर्मान्तरेण तदेहैव विद्योत्पद्यते, यदा तु खलु तत्प्रतिबन्धः क्रियते तदामुत्रेति / उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिनिपाताद्भवति / यानि चाकस्य कर्मणो विपाचकानि देशकालनिमित्तानि तान्येवान्यस्यापीति न नियन्तुं शक्यते / यतो विरुद्धफलान्यपि कर्माणि भवन्ति / शास्त्रमप्यस्य कर्मण इदं फलं भवतीत्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकार्तयति / साधनवीर्यविशेषात्त्वतीन्द्रिया कस्यचिच्छक्तिराविर्भवति तत्प्रतिबद्धा परस्य तिष्ठति / नचाविशेषेण विद्यायामभिसंधिर्नोत्पद्यत इहामुत्र वा मे विद्या जायतामित्यभिसंधेर्निरङ् कुशत्वात् / श्रवणादि द्वारेणापि विद्योत्पद्यमाना प्रतिबन्धक्षयापेक्षयैवोत्पद्यते / तथाचश्रुतिर्दुर्बोधत्वमात्मनो दर्शयति - ऽश्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः / आश्चर्यो ऽस्य वक्ता कुशलो ऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टःऽ (क. २.७) इति / गर्भस्य एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसंचितात्साधनाज्जन्मान्तरे विद्योत्पत्तिं दर्शयति / नहि गर्भस्यैवैहिकं किञ्चित्साधनं संभाव्यते / समृतावपि - ऽअप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छतिऽ (गी. ६.३६) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः ऽनहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छतिऽ (गी. ६.४०) इत्युक्त्वा पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संबूतिं चाभिधायानन्तरम् ऽतत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्ऽ (गी.
SK
६.४३) इत्यादिना ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽ (गी. ६.४५) इत्येतेनैतदेव दर्शयति / तस्मादैहिकमामुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम्
SK
ऐहिकमपि संन्यासादिबाल्यान्तं साधनजातमुक्त्वा तत्साध्यविद्याजन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फलसंभवात्संशयमाह-सर्वेत्यादिना / कारीरीष्टिवदैहिकफलत्वनियमः श्रवणादीनामिति पूर्वपक्षमाह-तिन्तावदिति / नन्वामुष्मिकफलकयज्ञादिसाध्यविद्यायाः कथमैहिकत्वनियम इत्यत आह-यज्ञादीन्यपीति / शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षाद्विद्याहेतुषु घटितेषु विद्याविलम्बो न युक्तः / दृश्यते च विलम्बः अतः श्रवणादेर्विद्याहेतुत्वमसिद्धमिति पूर्वपक्षे फलम् / प्रतिबन्धकवशाद्विलम्बे ऽपि हेतुत्वसिद्धिरिति सिद्धान्ते फलं मत्वा चित्रादिवदनियतफलं श्रवणादिकमिति सिद्धान्तयति-एवमिति / ननु प्रारब्धकर्मविशेषेण श्रवणादिफलप्रतिबन्धः किमिति क्रियते श्रवणादिनैव कर्मविपाकप्रतिबन्धः किं न स्यादित्यत आह-उपस्थितविपाकत्वं चेति / देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः / तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह-यानि चेति / विपाचकत्वं पलौन्मुख्यहेतुत्वम् / ननु तर्हि श्रवणादिविपाचकदेशादिकं कीदृशमित्यत आह-शास्त्रमपीति / फलबलाद्देशादिज्ञानमिति भावः / तथापि कर्मणैव श्रवणादिप्रतिबन्धो न वैपरीत्यमित्यत्र को हेतुस्तमाह-साधनेति / प्रतिबन्धकत्वशक्तिरपि फलबलाज्ज्ञातव्येति भावः / प्रतिबन्धकसद्भावे श्रौतं स्मार्तं च लिङ्गमाह-तथाचेत्यादिना /
SK
शृण्वन्तो ऽपि न विद्युरित्युक्तेः प्रतिबन्धसिद्धिः / आत्मनो यथावद्वक्ताप्याश्चर्यः अद्भुतवत् कश्चिदेव भवति / तिष्ठतु लब्धा साक्षात्कारवान्, परोक्षतो ज्ञाताप्याश्चर्यः / कुशलेनाचार्येणानुशिष्टो ऽपीत्यर्थः
SK
END Bस्Cओम्_३,४.१६.५१
SK
START Bस्Cओम्_३,४.१७.५२
SK
१७ मुक्तिफलाधिकरणम् / सू. ५२
SK
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः | BBस्_३,४.५२ |
SK
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यलक्षणे फल ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः / एवं मुक्तिलक्षणे ऽप्युत्कर्षीपकर्षकृतः कश्चिद्विशेषप्रतिनियमः / स्यादित्याशङ्क्याह - एवं मुक्तिफलानियम इति / न खलु मुक्तिफले कश्चिदेवंभूतो विशेषप्रतिनियम आशङ्कितव्यः / कुतः - तदवस्थावधृतेः / मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैवावधार्यते / ब्रह्मैव हि मुक्त्यवस्था नच ब्रह्मणो ऽनेकाकारयोगो ऽस्ति / एकलिङ्गत्वावधारणात् ऽअस्तूलमनणुऽ (बृ. ३.८.८) ऽस एष नेति नेत्यात्माऽ (बृ. ३.९.२३) ऽयत्र नान्यत्पश्यतिऽ (छा. ७.२४.१) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड. २.२.११) ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४.२५) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. ४.५.१५) इत्यादिश्रुतिभ्यः / अपिच विद्यासाधनं स्ववीर्यविशेषास्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेन्न विद्याफले मुक्तौ / तद्ध्यसाध्यं नित्यसिद्धस्वभावमेव विद्यायाधिगम्यत इत्यसकृदवादिष्म / नच तस्यामप्युत्कर्षनिकर्षात्मको ऽतिशय उपपद्यते निकृष्टाया विद्यात्वाभावादुत्कृष्टैव हि विद्या भवति / तस्मात्तस्यां चिराचिरोत्पत्तिरूपो ऽतिशयो भवन्भवेत् / नतु मुक्तौ कश्चिदतिशयसंभवो ऽस्ति / विद्याभेदाभावादपि तत्फलभेदनियमाभावः कर्मफलवत् / नहि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदो ऽस्तीति / सगुणासु तु विद्यासु - ऽमनोमयः प्राणशरीरःऽ (छा. ३.१४.२) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्यामुपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् / तथाच लिङ्गदर्शनम् - ऽतं यथा यथोपासते तदेव भवतिऽ इति / नैवं निर्गुणायां विद्यायां गुणाभावात् / तथाच स्मृतिः - ऽनहि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्ऽ इति / तदवस्थावधृतेस्तदवस्थाधृतेरिति पदाभ्यसो ऽध्यायपरिसमाप्तिं द्योतयति
SK
असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् / सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फले ऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह-एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः / मुक्तिरत्र विषयः / तस्यां विद्यावद्विशेषनियमो ऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह-यथेति / मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् / सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् / किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह-अपिच विद्यासाधनमिति / ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह-तद्धीति / विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः / अन्ये तु सा ब्रह्मानन्येत्याहुः / नच साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् / यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते / यथाच विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावो ऽनर्थरूपा अविद्यैवास्ति / अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् / तथाच विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते / विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् / संप्रति विद्यायामतिशयाङ्गीकार त्यजति-नचेति / एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः / कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह-तस्मादिति / सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः / तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह-नत्विति / वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बे ऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः / किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् /
SK
निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह-विद्याभेदेत्यादिना /
SK
स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः / तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम्
SK
END Bस्Cओम्_३,४.१७.५२
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये तृतीयाध्यायस्य चतुर्थः पादः
SK
// इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचाराख्यश्चतुर्थः पादः //
SK
// इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये साधनाख्यस्तृतीयोध्यायः //
SK
अथ चतुर्थो ऽध्यायः /
SK
[अत्र अस्मिन् फलाध्याये प्रथमपादे जीवन्मुक्तिनिरूपणम्]
SK
अथ चतुर्थो ऽध्यायः /
SK
यज्ज्ञानाज्जीवतो मुक्तिरुक्रान्तिगतिवर्जिता / लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम्
SK
START Bस्Cओम्_४,१.१.१
SK
१ आवृत्ति अधिकरणम् / सू. १-२

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) (sa_bAdarAyaNa-brahmasUtra-comm-subcomm2.htm).

Source