Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)

Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Adhyāya 2

SK
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् | BBस्_२,१.१ |
SK
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम् / कुतः स्मृत्यनवकाशदोषप्रसङ्गात् / स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसीरिण्यः स्मृतयः, एवं सत्यनवाकाशाः प्रसज्येरन् / तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते / मन्वादिसमृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यःसावकाशा भवन्ति / अस्य वर्णस्यास्मिन्काले ऽनेन विधानंनोपनयनं, ईदृशश्चाचारः, इत्थं वेदाध्ययनं, इत्थं सहधर्मचारिणीसंयोग इति / तथा पुरुषार्थाश्च वर्णाश्रमधर्मान्नानाविधान्विदधति / नैवं कपिलादिस्मृतीनामनुष्ठेये विषये ऽवकाशो ऽस्ति / मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः / यदि तत्राप्यनवकाशाः स्युरानर्थक्यमेवासां प्रसज्येत / तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः / कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते / भवदेयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् / परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् / तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् / अस्मत्कृते च व्याख्याने न विश्वस्युर्बहुमानात्स्मृतीनां प्रणेतृषु / कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते / श्रुतिश्च भवति- ऽऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्ऽ (श्वे. ५.२) इति / तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् / तर्कावष्टम्भेन चैतेर्ऽथं प्रतिष्ठापयन्ति / तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः / तस्य समाधिः नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति / यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयो ऽनवकाशाः प्रसज्येरन् / ता उदाहरिष्यामः - ऽयत्तत्सूक्ष्ममविज्ञेयम्ऽ इति परं ब्रह्म प्रकृत्य ऽस ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेऽ इति चोक्त्वा ऽतस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमऽ इत्याह / तथान्यत्रापि ऽअव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयतेऽ इत्याह / ऽअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः / स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयःऽ इति पुराणे / भगवद्गीतासु च- ऽअहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथाऽ (भ.गी. ७.६) इति / परमात्मानमेव च प्रकृत्यापस्तमबः पठति- ऽतस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः (ध.सू. १.८.२३.२) इति / एवमनेकशः स्मृतिश्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते / समृतिबलेन प्रत्यवतिष्टमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतो ऽयमन्यस्मृत्यनवकाशदोषोपन्यासः / दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् / विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्ये ऽन्यतरपरिग्रहे ऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणमनपेक्ष्या इतराः / तदुक्तं प्रमाणलक्षणे- ऽविरोधे त्वनपेक्षं स्यादस्ति ह्यनुमानम्ऽ (जै.सू. १.३.३) इति / नचातीन्द्रियानर्थञ्श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुं निमित्ताभावात् /
SK
शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् /
SK
न / सिद्धेरपि सापेक्षत्वात् / धर्मानुष्ठानापेक्षा हि सिद्धिः / स च धर्मश्चोदनालक्षणः / ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते / सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रद्रशितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति / परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः / कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवौश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् / तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन स्मृत्यनुसाराविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया / या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यं, कापिलमिति श्रुतिसामान्यमात्रत्वात् / अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् / अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् / भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः - ऽयद्वै किञ्च मनुरवदत्तद्भेषजम्ऽ (तै.सं २.२.१०.२) इति / मनुना च ऽसर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि / संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति //
SK
ऽ (१२.११) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते / कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् / महाभारते ऽपि च ऽबहवः पुरुषा ब्रह्मन्नुताहो एक एव तुऽ इति विचार्य ऽबहवः पुरुषा राजन्सांख्ययोगविचारिणाम्ऽ इति परपक्षमुपन्यस्य तद्व्युदासेन- ऽबहूनां पुरुषाणां हि यथैका योनिरुच्यते / तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् //
SK
ऽ इत्युपक्रम्य ऽममान्तरात्मा तव च ये चान्ये देहसंस्थिताः / सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित्क्वचित् //
SK
विश्वमूर्धा विश्वभुजो विस्वपादाक्षिनासिकः / एकश्चरति भूतेषु स्वैरचारी यथासुखम् //
SK
ऽ इति सर्वात्मतैव निर्धारिता / श्रुतिश्च सर्वात्मतायां भवति- ऽयस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः / तत्र को मोहः कः शोकः एकत्वमनुपश्यतःऽ (ई. ७) इत्येवंविधा / अतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति / वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये / पुरुषवचसां तु मूलान्तरापेक्षं वक्तुस्मृतिव्यवहितं चेति विप्रकर्षः / तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः
SK
FN: ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता / भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धताऽ इति संग्रहश्लोकः / परमर्षिः कपिलः / अन्या आसुरिपञ्चशिखादिप्रणीताः / उपचरितं श्रुत्यर्थं प्रतिपद्येरन्नित्यर्थः / सूक्ष्मत्वमतीन्द्रियत्वम् / अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् / काया ब्रह्मादयः / शाश्वतिकः कूटस्थः / श्रुतिविरोधे स्मृतिप्रामाण्यं अनपेक्षं हेयम् / हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति / प्रतप्तुर्दाहकस्य / विश्वे मूर्धनो ऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् / एवं विश्वभुजादौ योज्यम् /
SK
ऽनामरूपे व्याकरवाणिऽइति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः / स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसंगतिं वक्तुं वृत्तं कीर्तयति-प्रथमे ऽध्याय इति / जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितं, ऽशास्त्रदृष्ट्या तुऽइत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तं, ऽआनुमानिकम्ऽइत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः / एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः संक्षिप्य कथयति-इदानीमिति / अत्र प्रथमपादे समन्वयस्य सांख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते / द्वितीयपादे सांख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते / तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते / चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः / अयमेवार्थः / सुखबोधार्थं श्लोकेन संगृहीतः-ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता / भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता //
SK
ऽइति / तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् / तत्र प्रथमाधिकरणतात्पर्यमाह-प्रथममिति / श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसंगतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसंगतिः / अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः / तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः / स किं सांख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां संदेहे पूर्वपक्षमाह-यदुक्तमिति / तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम्, अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः / तासामपि ब्रह्मार्थककत्वमस्तीत्यविरोध इत्यत आह-तासु हीति / ननु सांख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रमाण्यं स्यादित्याह-मन्वादीति / तर्हि सांख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह-नैवमिति / तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितं, सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह-तस्मादिति / श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते-कथमिति / ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत्, सांख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह-भवेदिति / तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह-कपिलप्रभृतीनां चेति /
SK
ऽआदौ यो जायमानं च कपिलं जनयेदृषिम् / प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् //
SK
ऽइति श्रुतियोजना / यथा सांख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति-तस्य समाधिरिति / तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् / सूक्ष्मात्मकं जगदिति यावत् / इतिहासवाक्यान्युक्त्वा पुराणसंमतिमाह-अतश्चेति / प्रभवत्यस्मादिति प्रभवो जन्महेतुः / प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् / तस्मात् कर्तुरीश्वरात् काया ब्रह्मादयः प्रभवन्ति / स एव मूलमुपादानम् / किं परिणामि, न, शाश्वतिकः कूटस्थः / अतः स नित्य इत्यर्थः / ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह-स्मृतिबलेनेति / स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह-दर्शितं त्विति / श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः / स्मृतीनां का गतिरित्यत आह-विप्रतिपत्तौ चेति / वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात् कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणं, इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः / कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यत्रः जैमिनीयन्यायमाह-तदुक्तमिति / ऽऔदुम्बरीं स्पृष्ट्वोद्गायेत्ऽइति प्रत्यक्षश्रुतिविरुद्धा ऽसा सर्वा वेष्टयितव्याऽइति स्मृतिर्मानं न वेति संदेहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः-कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् / हेयमिति यावत् / हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात् सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः / अस्तु सांख्यस्मृतिः प्रत्यक्षमूलेत्यत आह-न चेति / योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं संभावयितुं शक्यमिति शङ्क्यते-शक्यमिति / कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः संपादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति-न / सिद्धेरपीति / अतिशङ्कितुमिति / श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः / स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेत् न / अनीश्वरस्य स्वतःसिद्धौ मानाभावात् / अङ्गीकृत्याप्याह-सिद्धेति / सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः / श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः / ननु मन्दमतेः सांख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह-परतन्त्रेत्यादिना / ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह-या त्विति / कपिलशब्दमात्रेण सांख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् / अत्र च सर्वज्ञानसंभृतत्वेन श्रुतः कपिलो वासुदेवांश एव / स हि सर्वात्मत्वज्ञानं वैदिकं सांख्यमुपदिशतीति सर्वज्ञ इति भावः / प्रतप्तुः प्रदाहकस्य / किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह-अन्यार्थेति / द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह-भवति चेति / इतिहासे ऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह-महाभारते ऽपीति / पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः / बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञात्वादिगुणैः संपन्नं कथयिष्यामि / विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानो ऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् / एवं विश्वयुजत्वादियोजना / सर्वभूतेष्वेकश्चरत्यवगच्छति / सर्वत्र इत्यर्थः / स्वैरचारी स्वतन्त्रः / नास्य नियन्ता कश्चिदस्ति / सर्वेश्वर इत्यर्थः / यथासुखमिति / विशोकानन्दस्वरूप इति यावत् / कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह-श्रुतिश्चेति / यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति संबन्धः / स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह-वेदस्य हीति / वेदस्य प्रमाण्यं स्वतःसिद्धमपौरुषेयत्वात् / पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रमाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः / श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः / समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् / इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः / तस्मादिति /
SK
विशेषादित्यर्थः / भ्रान्तिमूलत्वसंभवादिति भावः
SK
END Bस्Cओम्_२,१.१.१
SK
START Bस्Cओम्_२,१.१.२
SK
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः -
SK
इतरेषां चानुपलब्धेः | BBस्_२,१.२ |
SK
प्रधानादितराणि यानि प्रधानपरिणामत्वं न समृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते /
SK
भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् / अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते / यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातम् ऽआनुमानिकमप्येकेषाम्ऽ (ब्र. १.४.१) इत्यत्र / कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः / तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः / तर्कावष्टम्भं तु ऽन विलक्षणत्वात्ऽ (ब्र. २.१.४) इत्यारभ्योन्मथिष्यति
SK
महदहङ्कारौ तावदप्रसिद्धौ, अहङ्कारप्रकृतिकत्वेन तन्मात्राण्यप्यप्रसिद्धानि स्मर्तुं न शक्यन्त इत्याह-इतरेषां चेति / ननु ऽमहतः परमव्यक्तम्ऽइतिश्रुतिप्रसिद्धानि महदादीनीत्यत आह-यदपीति / सूत्रतात्पर्यमाह-कार्येति / सांख्यस्मृतेर्महदादिष्विव प्रधाने ऽपि प्रामाण्यं नेति निश्चीयत इत्यर्थः / सांख्यस्मृतेर्बाधे ऽपि तदुक्तयुक्तीनां कथं बाध इत्यत आह-तर्केति
SK
END Bस्Cओम्_२,१.१.२
SK
START Bस्Cओम्_२,१.२.३
SK
२ योगप्रत्युक्त्यधिकरणम् / सू. ३
SK
एतेन योगः प्रत्युक्तः | BBस्_२,१.३ |
SK
एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति / तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते /
SK
नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतं किमर्थं पुनरतिदिश्यते /
SK
अस्ति ह्यत्राभ्यधिकाशङ्का / सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. २.४.५) इति / ऽत्र्युन्नतं स्थाप्य समं शरीरम्ऽ (श्वे. २.८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते / लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते ऽतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्ऽ (का. २.६.१८) इति ऽविद्यामेतां योगविधिं च कृत्स्नम् (का. २.६.१८) इति चैवमादीनि / योगशास्त्रे ऽपि ऽअथ तत्त्वदर्शनोपायो योगःऽ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोङ्गीक्रियते / अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति / इयमप्यधिका शङ्कातिदेशेन निवर्त्यते / अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् / सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः / सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन न श्रौतेनोपबृंहितौ / ऽतत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैःऽ (श्वं. ६.१३) इति / निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति / श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वं. ३.८) इति / द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः / यत्तु दर्शनमुक्तं ऽतत्कारणं सांख्ययोगाभिपन्नम्ऽ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् / येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् / तद्यथा- ऽअसङ्गो ह्ययं पुरुषःऽ (बृ. ४.३.१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते / तथाच योगैरपि ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहःऽ (जाबा. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते / एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि / तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम / तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति ऽनावेदविन्मनुते तं बृहन्तम्ऽ (तै. ब्रा. ३.१२.९.७) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृ. ३.९.२३) इत्येवमादिश्रुतिभ्यः
SK
FN: त्रीणि उरोग्रीवशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतम् / तर्को ऽनुमानमनुग्राह्यं मानम् / उपपत्तिरनुग्राहिका युक्तिरिति भेदः /
SK
ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति संदेहे पूर्वन्यायमतिदिशति-एतेन योगः प्रत्युक्तः / अतिदेशत्वात्पूर्ववत्संगत्यादिकं द्रष्टव्यम् / पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह-अस्तिह्यत्रेति / निदिध्यासनं योगः / त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तन्त्र्युन्नतम् त्रिरुन्नतमितिपाठश्चेच्छान्दसः / युञ्जीतेति शेषः / न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह-लिङ्गानि चेति / तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते / उक्तामेतां ब्रह्मविद्यां योगिविधिं ध्यानप्रकारं च मृत्युप्रसादान्नचिकेता लब्धा ब्रह्म प्राप्त इति संबन्धः / योदस्मृतिः प्रधानादितत्त्वांशे ऽपि प्रमाणत्वेन स्वीकार्यां / संप्रतिपन्नः प्रामाणिकोर्ऽथैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः / ऽअष्टकाः कर्तव्याःऽ ऽगुरुरनुगन्तव्यःऽइत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे / एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशे ऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति-इयमिति / ननु बौद्धादिस्मृतयो ऽत्र किमिति न निराकृता इत्यत आह-सतीष्वपीति / तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः / तत्कारणमिति / तेषां प्रकृतानां कामानां कारणं सांख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः / समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह-निराकरणं त्विति / इति हेतोः / कृतमिति शेषः / प्रत्यासत्तेरिति / श्रुतिस्थसांख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् / किं सर्वांशेषु स्मृत्यप्रामाण्यं, नेत्याह-येन त्वंशेनेति / ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति-एतेनेति / श्रुतिविरोधेनेत्यर्थः / उपकारकबाधो न युक्त इत्याशङ्क्य य्ॐऽश उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह-तान्यपीति / तर्को ऽनुमानं,
SK
तदनुग्राहिको युक्तिरुपपत्तिः
SK
END Bस्Cओम्_२,१.२.३
SK
START Bस्Cओम्_२,१.३.४
SK
विलक्षणत्वाधिकरणम् / सू. ४-१२
SK
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् | BBस्_२,१.४ |
SK
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः / तर्कनिमित्त इदानीमाक्षेपः परिह्रियते / कुतः पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः /
SK
ननु धर्म इव ब्रह्मण्यनपेक्ष आगमो भवितुमर्हति / भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयो ऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः / परिनिष्पन्नरूपं तु ब्रह्मावगम्यते / परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु / यथाच श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधे ऽपि तद्वशेनैव श्रुतिर्नीयेत / दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते / विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् / अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते / श्रुतिरपि- ऽश्रोतव्यो मन्तव्यःऽ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति / अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ऽन विलक्षणत्वादस्यऽ इति / यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति / तन्नोपपद्यते / कस्मात् / विलक्षणत्वादस्य विकारस्य प्रकृत्याः / इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगत् ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते / ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते / नच विलक्षणत्वं प्रकृतिविकारभावो दृष्टः / नहि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः / मृदैव तु मृदान्विता विकाराः क्रियन्ते सुवर्णेन च सुवर्णान्विताः / तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सदचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रह्मणः / ब्रह्मविलक्षणं चास्य जगतो ऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् / अशुद्धं हि जगत्सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च / अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् / नहि साम्ये सत्युपकार्योपकारकभावो भवति / नहि प्रदीपौ परस्परस्योपकुरुतः /
SK
ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति /
SK
न / स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् / यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिचेतनभागः स एवान्यस्य चेतनस्योपकरोति नतु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा / निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते / तस्मादचेतनं कार्यकारणम् / नच काष्टलोष्टादीनां चेतनत्वे किं चित्प्रमाणमस्ति / प्रसिद्धश्चायं चेतनाचेतनविभागो लोके / तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् / यो ऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि / प्रकृतिरूपस्य विकारे ऽन्वयदर्शनात् / अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति / यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते / एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषे ऽपि गुणप्रधानभावो न विरोत्स्यते / यथा च पार्थिवत्वाविशेषे ऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति / प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति / तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत / शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते / नचेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह- तथात्वं च शब्दादिति / अनवगम्यमानमेवं हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षत, तच्च शब्देनैव विरुध्यते / यतः शब्दादपि तथात्वमवगम्यते / तथात्वमिति प्रकृतिविलक्षणत्वं कथयति / शब्द एव ऽविज्ञानं चाविज्ञानं चऽ (ते. २.६) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति
SK
FN: अवष्टम्भो दृष्टान्तः / ऐतिह्यमात्रेण परोक्षतयेति यावत् / सुखदुःखमोहाः सत्त्वरजस्तमांसि / उपजनापायवद्धर्मयोगो ऽतिशयस्तदभावो निरतिशयत्वम् / इतरच्चेतनाचेतनत्वरूपम् /
SK
स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह-ब्रह्मास्येति / पूर्वपक्षमाक्षिपति-कुतःपुनरिति / अनवकाशे हेतुमाह-ननु धर्म इवेति / मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः / तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः / सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते-भवेदयमिति / अवष्टम्भो दृष्टान्तः / नन्वेकविषयत्वेन विरोधे ऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह-यथा चेति / प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः / किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् / शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह-दृष्टेति / ऐतिह्यमात्रेण / परोक्षतयेति यावत् / अनुभवस्य प्राधान्यं दर्शयति-अनुभवावसानं चेति / ऽनैषा तर्केण मतिःऽइत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह-श्रुतिरपीति / एवं पूर्वपक्षं संभाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकं, कार्यद्रव्यत्वात्, घटवदिति सांख्ययोगन्यायेन विरुध्यते न वेति संदेहे स्मृतेर्मूलाभावाद्दुर्बलत्वे ऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति-न विलक्षणत्वादिति / पूर्वोत्तरपक्षयोः समन्वयासिद्धि, तत्सिद्धिश्चेति पूर्ववत्फलम् / जगन्न ब्रह्मप्रकृतिकं, तद्विलक्षणत्वात्, यद्यद्विलक्षणं तन्न तत्प्रकृतिकं, यथा मृद्विलक्षणा रुचकादय इत्यर्थः / सुखदुःखमोहाः सत्त्वरजस्तमांसि / तथा च जगत् सुखदुःखमोहात्मकं सामान्यप्रकृतिकं, तदन्वितत्वात्, यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह-मृदैवेति / विलक्षणत्वं साधयति-ब्रह्मविलक्षणत्वं चेति / यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्ये ऽपि भावा द्रष्टव्याः / तत्र प्रीतिः सुखं, परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः / उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तं, स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते-ननु चेतनमपीति / भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह-नेत्यादिना / उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह-निरतिशया इति / तस्मादुपकारकत्वात् / श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति-यो ऽपीति / घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह-अविभावनं त्विति / अन्तःकरणान्यपरिणामत्वात्सतो ऽपि चैतन्यस्यानुपलब्धिरित्यर्थ / अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः / वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः-यथेति / आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह-एतस्मादेवेति / साम्ये ऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः-यथा चेति / चेतनाचेतनभेदः कथमित्यत आह-प्रविभागेति / चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः / सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य सांख्यः परिहरति-तेनापि कथञ्चिदिति / अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति-न चेत्यादिना /
SK
इतरच्चेतनाचेतनत्वरूपम् / वैलक्षण्यं तथात्वशब्दार्थः / श्रुतार्थापत्तिः शब्देन बाध्येति भावः
SK
END Bस्Cओम्_२,१.३.४
SK
START Bस्Cओम्_२,१.३.५
SK
ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते / यथा ऽमृदब्रवीत्ऽ ऽआपो ऽब्रुवन्ऽ ( श.प.ब्रा. ६.१.३.२.४) इति, ऽतत्तेज ऐक्षतऽ ऽता आप ऐक्षन्तऽ (छा. ६.२.३,४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः /
SK
इन्द्रियविषयापि ऽते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुःऽ (बृ. ६.१.७) इति, ऽते ह वाचमूचुस्त्वं न उद्गायेतिऽ (बृ. १.३.२) इत्येवमाद्येन्द्रियविषयेति / अत उत्तरं पठति-
SK
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् | BBस्_२,१.५ |
SK
तुशब्द आशङ्कामपनुदति / न खलु मृदब्रवीदित्येवञ्जातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् / यतो ऽभिमानिव्यपदेश एषः / मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् / कस्मात् / विशेषानुगतिभ्याम् / विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः / सर्वचेतनतायां चासौ नोपपद्येत / अपिच कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तये ऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति- ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ इति / ऽता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वाऽ (२.१४) इति च / अनुगताश्च सर्वत्राभिमानिन्यश्चेतनादेवता मन्त्रार्थवादेतिहासपुराणादिभ्यो ऽवगम्यन्ते / ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ.आ. २.४.२.४) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति / प्राणसंवादवाक्यशेषे च ऽते ह प्राणाः प्रजापतिं पितरमेत्योचुःऽ (छा. ५.१.७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं, तद्वचनाचैकैकोत्क्रमणेनान्वयव्यतिर्काभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः / ऽतस्मै बलिहरणम्ऽ (बृ. ६.१.१३) इति चैवञ्जातीयको ऽस्मदादिष्विव व्यवहारो ऽनुगम्यमानो ऽभिमानिव्यपदेशं द्रढयति / ऽतत्तेज ऐक्षतऽ इत्यपि परस्या एव देवताया अधिष्टात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् / तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् / विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते
SK
FN: संवदनं विवादः / विशिंषन्ति वागादीन्प्राणादीनिति शेषः / अहंश्रेयसे स्वस्वश्रेष्ठत्वाय / निःश्रेयसं श्रैष्ठ्यम् /
SK
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते-नन्विति / मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात्, तथा ऽविज्ञानं चाविज्ञानं चऽइति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति सांख्यः समाधत्ते-अभिमानीति / संवदनं विवादः / न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते / लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः / विशेषपदस्यार्थान्तरमाह-अपि चेति / अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात् प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः / प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः / अनुगतिं बहुधा व्याचष्टे-अनुगताश्चेति /
SK
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् / तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः / यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः
SK
END Bस्Cओम्_२,१.३.५
SK
START Bस्Cओम्_२,१.३.६
SK
दृश्यते तु | BBस्_२,१.६ |
SK
तुशब्दः पक्षं व्यावर्तयति / यदुक्तं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति / नायमेकान्तः / दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् /
SK
नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति /
SK
उच्यते- एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् / महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् / तथा गोमयादीनां वृश्चिकादीनां च / अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत / अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्विति / ब्रह्मणो ऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानोदृश्यते / विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतित्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदस्य चैतन्यस्येति वक्तव्यम् / प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेदप्रसङ्गः / नह्यसत्यतिशये प्रकृतिविकार इति भवति / द्वितीये चासिद्धत्वम् / दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् / तृतीये तु दृष्टान्ताभावः / किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मवादिनं प्रत्युदाह्रियेत / समस्तस्य वस्तुजायस्य ब्रह्मप्रकृतित्वाभ्युपगमात् / आगमविरोधस्तु प्रसिद्ध एव / चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् / यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि संभवेयुरिति / तदपि मनोरथमात्रम् / रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः / लिङ्गाद्यभावाच्च नानुमानादीनाम् / आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् / तथाच श्रुतिः - ऽनैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठऽ (का. १.२.९) इति / ऽको अद्धा वेद क इह प्रवोचत्ऽ / ऽइयं विसृष्टिर्यत आबभूवऽ (ऋ.सं १.३०.६) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः / स्मृतिरपि भवति- ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्ऽ इति / ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्योयमुच्यतेऽ (गी. २.२५) इति च / ऽन मे विदुः सुरगणाः प्रभवं न महर्षयः / अहमादिर्हि देवानां महर्षीणां च सर्वशःऽ (गी. १०.२) इति चैवञ्जातीयका / यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् / नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति / श्रुत्यनुगृहीत एव ह्यत्र तर्को ऽनुभवाङ्गत्वेनाश्रीयते / स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनो ऽनन्वागतत्वं, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेक इत्येवञ्जातीयकः / ऽतर्काप्रतिष्ठानात्ऽ (ब्र. २.१.११) इति च केवलस्य तर्कस्यविप्रलम्भकत्वं दर्शयिष्यति / यो ऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षते तस्यापि विज्ञानं चाविज्ञानं च इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् / परस्यैव त्विदमपि विभागश्रवणं न युज्यते / कथम् / परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते ऽविज्ञानं चाविज्ञानं चाभवत्ऽ इति / तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते / प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथाश्रुत्यैव कारणं ग्रहीतव्यं भवति
SK
FN: पारिणामिकस्तत्तत्केशादिगतपरिणामात्मक इत्यर्थः / एषा वेदान्तशास्त्रजन्या मतिस्तर्केण स्वमत्यूहमात्रेणापनेया बाधार्हा न / यद्वा तर्केण प्राप्तव्या नेत्यर्थः / किन्तु अन्येन निपुणेनाचार्येण प्रोक्तप्रबोधिता सती सुज्ञानाय साक्षात्काराय भवति / हे प्रेष्ठ प्रियतमेति नाचिकेतसंप्रति यमसंबोधनम् / इयं विसृष्टिराकाशादिसृष्टिः कुतः कस्माज्जाता कस्माच्च स्थितिं प्राप्तेत्यद्धा तत्त्वेन को वेद, न को ऽपि / कः प्रवोचत् न को ऽपि प्रवक्ताभूत् / विप्रलम्भकत्वं अर्थविशेषाव्यवस्थापकत्वम् /
SK
किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा / आद्ये व्यभिचारमाह-नायमेकान्तः / दृश्यते हीति / हेतोरसत्त्वान्न व्यभिचार इति शङ्कते-नन्विति / यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह-उच्यत इति / शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः / द्वितीये ऽपि तत्रैव व्यभिचारमाह-महानिति / परिणामिकः / केशादीनां स्वगतपरिणामात्मक इत्यर्थः / किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति / आद्ये दोषमाह-अत्यन्तेति / द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह-अथेत्यादिना / विलक्षणत्वं विकल्प्य दूषणान्तरमाह-विलक्षणत्वेनेत्यादिना / जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात्, तदसंगतमित्याह-प्रथम इति / तृतीये तु दृष्टान्ताभाव इति / नच जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तो ऽस्तीति वाच्यं, अनादित्वस्योपाधित्वात् / नच ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति / संप्रति कल्पत्रयसाधारणं दोषमाह-आगमेति / पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासंभवान्न तर्केणाक्षेप इत्याह-यत्तूक्तमित्यादिना / लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः / ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः / एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न संपादनीया / यद्वा कुतर्केण न बाधनीया / कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति / हे प्रेष्ठ, प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् / इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को अद्धा साक्षाद्वेद / तिष्ठतु वेदनं, क इह लोके तं प्रवोचत् प्रावोचत् / छान्दसो दीर्घलोपः / यथावद्वक्तापि नास्तीत्यर्थः / प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् / मिषेण मननविधिव्याजेन / शुष्कः श्रुत्यनपेक्षः / श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात् पुरुषदोषस्यासंभावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः / तमाह-स्वप्नान्तेति / जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसंभवि, द्वैतग्राहिप्रामाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासंभावनायां, तन्निरासाय सर्वस्वास्वस्थास्वात्मनो ऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे ब्रह्म्यौष्णावदात्मव्यभिचारायोगात् सुषुप्तौ प्रपञ्चभ्रान्त्यभावे ऽसता सोम्यऽइत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसंभवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः / इतो ऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः / ब्रह्मणि शुष्कतर्कस्याप्रवेशः / सूत्रसंमत इत्याह-तर्काप्रतिष्ठानादिति / विप्रलम्भकत्वमप्रमापकत्वम् / यदुक्तं एकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं सांख्येन / तन्न / तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् / सांख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासंभवादित्याह-यो ऽपीत्यादिना / सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह-प्रत्युक्तत्वादिति /
SK
अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः
SK
END Bस्Cओम्_२,१.३.६
SK
START Bस्Cओम्_२,१.३.७
SK
असद् इति चेन् न प्रतिषेधमात्रत्वात् | BBस्_२,१.७ |
SK
यदि चेतनं शुद्धं शब्दविहीनं च ब्रह्म तद्विपरूतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत / अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् /
SK
नैष दोषः / प्रतिषेधमात्रत्वात् / प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति / नह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति / कथम् / यथैव हीदानामपीदं कार्यं कारणात्मना सदेवं प्रागुत्पत्तेरपीति गम्यते / नहीदानामपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति / ऽसर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेदऽ (बृ. २.४.६)
SK
इत्यादिश्रवणात् / कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् /
SK
ननु शब्दादिहीनं ब्रह्मजगतः कारणम् /
SK
बाढम् / नतु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वास्ति / तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति / विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः
SK
कार्यमुत्पत्तेः प्रागसदेव स्यात्, स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रये ऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते-असदितिचेदित्यादिना / असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः / कार्यसत्यत्वाभावे श्रुतिमाह-सर्वं तमिति / मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति-नन्वित्यादिना / विस्तरेण चैतदिति /
SK
मिथ्यात्वमित्यर्थः
SK
END Bस्Cओम्_२,१.३.७
SK
START Bस्Cओम्_२,१.३.८
SK
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् | BBस्_२,१.८ |
SK
अत्राह- यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणमभ्युपगम्येत तदपीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदित्यपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपप्रसङ्गात्सर्वज्ञं ब्रह्म जगत्कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् / अपिच समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् / अपिच भोक्तृणां परेण ब्रह्मणाविभागं गतानां कर्मादिनिमित्तप्रलये ऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्तत्तिप्रसङ्गादसमञ्जसम् / अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतीश्च न संभवति, कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति
SK
सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे-अत्राहेति / प्रतिसंसृज्यमानपदस्य व्याख्या-कारणेति / यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः / सूत्रस्य योजनान्तरमाह-अपिचेति / सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः / अर्थान्तरमाह-अपिचेति / कर्मादीनामुत्पत्तिनिमित्तानां प्रलये ऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः / शङ्कापूर्वकं व्याख्यान्तरमाह-अथेति /
SK
यदि लयकाले ऽपिकार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः
SK
END Bस्Cओम्_२,१.३.८
SK
START Bस्Cओम्_२,१.३.९
SK
अत्रोच्यते-
SK
न तु दृष्टान्तभावात् | BBस्_२,१.९ |
SK
नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति / यत्तावदभिहितं कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तददूषणम् / कस्मात् / दृष्टान्ताभावात् / सन्ति हि दृष्टान्ता यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति / तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति / रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति / पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति / त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तो ऽस्ति / अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत / अनन्यत्वे ऽपि कार्यकारणयोः कार्यस्य कारणात्मत्वं नतु कारणस्य कार्यात्मत्वं ऽआरम्भणशब्दादिभ्यःऽ इति वक्ष्यामः (ब्र.सू. २.१.१४) / अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति / स्थितावपि समानो ऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् / ऽइदं सर्व यदयमात्माऽ (बृ. २.४.६), ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२), ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मु. २.२.११), ऽसर्वं खल्विदं ब्रह्मऽ (छा. ३.१४.१) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते / तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः / अस्ति चायमपरो दृष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पश्यते, अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति / यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यत इति / प्रबोधसंप्रदायोरनन्वागतत्वात् / एवमवस्थात्रयसाक्ष्येको ऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते / मायामात्रं ह्येतद्यत्परमात्मनो ऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति / अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः - ऽअनादिमायया सुप्तो यदा जीवः प्रबुध्यते / अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदाऽ (गौडपा. कारि. १.१६) इति / तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् / यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति / अयमप्यदोषः / दृष्टान्तभावादेव / यथाहि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवत्येवमिहापि भविष्यति / श्रुतिश्चात्र भवति- ऽइमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्तिऽ (छा. ६.९.२,३) इति / यथा ह्यविभागे ऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितो दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते / एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः / सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् / यः पुनरयमन्ते ऽपरो विकल्प उत्प्रेक्षितो ऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सो ऽप्यनभ्युपगमादेव प्रतिषिद्धः / तस्मात्समञ्जसमिदमौपनिषदं दर्शनम्
SK
FN: अपिगच्छत् लीयमानम् / विभागावस्था स्थितिकालः / सति ब्रह्मणि एकीभूय न विदुरित्यज्ञानोक्तिः / इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः /
SK
अपीतौ जगत् स्वकारणं न दूषयति, कारणे लीनत्वात्, मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे-नैवेत्यादिना / अपिगच्छत् लीयमानम् / विभागावस्था स्थितिकालः / त्वत्पक्षस्येति / मधुरजलं लवणस्याकारणमित्यदृष्टान्तः / किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह-अपीतिरेवेति / असति कार्ये तद्धर्मेण कारणस्य योगो न संभवति / धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः / ननु सत्कार्यवादे लये ऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह-अनन्यत्वे ऽपीति / कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः / किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते-अत्यल्पं चेति / परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे-अस्ति चेति / मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह-यथेति / अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह-प्रबोधेति / जाग्रत्सुषुप्त्योः स्वप्नेनात्मनो ऽस्पर्शात् तत्काले ऽप्यस्पर्श इत्यर्थः / यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह-एवमिति / यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् / तदसङ्गित्वे वृद्धसंमतिमाह-अत्रोक्तमिति / यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः / फलितमाह-तत्रेति / द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति-यत्पुनरिति / सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह-श्रुतिश्चेति / सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः / इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः / ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वे ऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह-यथा हीति / यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागे ऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलये ऽपि मिथ्याभूताज्ञानसंबन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते / यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात् स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः / अज्ञानां जीवानां महाप्रलये ऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः / एतेनेति /
SK
जन्मकारणज्ञानशक्त्यभावेनेत्यर्थः
SK
END Bस्Cओम्_२,१.३.९
SK
START Bस्Cओम्_२,१.३.१०
SK
स्वपक्षदोषाच् च | BBस्_२,१.१० |
SK
स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुष्युः / कथमित्युच्यते / यत्तावदभिहितं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् / अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः / तथापीतौ कार्यस्य कारणविभागाभ्युपगमात्तद्वत्प्रसङ्गो ऽपि समानः / तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनरुत्पतौ नियन्तुं शक्यन्ते कारणाभावात् / विनैव कारणेन नियमे ऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः /
SK
अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केनचिन्नेति चेत् /
SK
ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोतीत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति / अवश्याश्रयितव्यत्वात्
SK
FN: प्रादुष्युः प्रादुर्भवेयुः /
SK
वैलक्षण्यादीनां सांख्यपक्षे ऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह-स्वपक्षेति / सूत्रं व्याचष्टे-स्वेति / प्रादुःष्युः प्रादुर्भवेयुः / अत एवेति / सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात् सांख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् / ऽअपीतौऽइति सूत्रोक्तदोषचतुष्टयमाह-तथापीताविति /
SK
कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः / इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः / बद्धमुक्तव्यवस्था च / यदि व्यवस्थार्थं मुक्तानां भेदाः संघातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्यते तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः
SK
END Bस्Cओम्_२,१.३.१०
SK
START Bस्Cओम्_२,१.३.११
SK
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः | BBस्_२,१.११ |
SK
इतश्च नागमगम्येर्ऽथे केवलेन तर्केण प्रत्यवस्थातव्यम् / यस्मिन्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति / उत्प्रेक्षाया निरङ् कुशत्वात् / तथाहि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्तरैरन्यैराभास्यमाना दृश्यन्ते / तैरप्युत्प्रेक्षिताः सन्तस्ततो ऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं, पुरुषमतिवैरूप्यात् / अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत / एवमप्यप्रतिष्ठितत्वमेव / प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् / अतोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति / नहि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् / एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते / केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वात् / सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः / अतीतवर्तमानाध्वसाम्येन ह्यनागते ऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते / श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते / मनुरपि चैवं मन्यते- ऽप्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् / त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सिता //
SK
ऽ इति / ऽआर्षं धर्मोपदेशं च वेदशास्त्रविरोधिना / यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः //
SK
ऽ (१२.१०५,१०६) इति च ब्रुवन् / अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम / एवंहि तावद्यत्तर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति / नहि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् / तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत्, एवमप्यविमोक्षप्रसङ्गः / यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य / नहीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् / रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम / अपिच सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः / तच्च सम्यग्ज्ञानमेकरूपं वस्तुतन्त्रत्वात् / एकरूपेण ह्यवस्थितो योर्ऽथः स परमार्थः / लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते यथाग्निरुष्णा इति / तत्रैवं सति सम्ग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना / तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः / यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते, तेनापि प्रतिष्ठापितं ततो ऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके / कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् / नच प्रधानवादी तर्कविदामुत्तम इति सर्वास्तार्किकैः परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि / नच शक्यन्ते ऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात / वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेस्तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् / अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् / अतो ऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत / अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेति स्थितम्
SK
FN: तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् / धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः / अतिगमभीरत्वमागमातिर्मेकामानायोग्यत्वम् / भावयाथात्म्यं कारणगतमद्वितीयत्वम् / मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् /
SK
किञ्च तर्कस्य संभावितदोषत्वात्तेन निर्देषवेदान्तसमन्वयो न बाध्य इत्याह-तर्काप्रतिष्ठानादपीति / पुरुषमतीनां विचित्रत्वे ऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते-अथेति / ऽकपिलो यदि सर्वज्ञः कणादो नेति का प्रमाऽइति न्यायेन परिहरति-एवमपीति / सूत्रमध्यस्थशङ्काभागं व्याचष्टे-अथोच्येतेति /
SK
विलक्षणत्वादितर्काणामप्रतिष्ठितत्वे ऽपि व्याप्तिपक्षधर्मतासंपन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः / ननु सो ऽप्यप्रतिष्ठितः तर्कजातीयत्वात् विलक्षणत्वादिवदित्यत आह-नहीति / तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा / आद्ये ऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः / द्वितीये ऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसंधिमानाह-एतदपीति / किञ्चानागतपाक इष्टसाधनं, पाकत्वात्, अतीतपाकवदित्यादिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह-सर्वतर्केति / अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः / किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह-श्रुत्यर्थेति / मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह-मनुरिति / धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः / कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति-अयमेवेति / सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः / पूर्वपक्षतर्कवत्सिद्धान्ततर्को ऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति-नहीति / क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे-यद्यपीत्यादिना / अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् / भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् / मुक्तिनिबन्धनं मुक्त्यालम्बनम् / ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति-रूपादिति / अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह-अपिचेत्यादिना / एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वे ऽपि तर्कजन्यत्वं किं न स्यादित्यत आह-तत्रैवं सतीति / तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् / सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः / एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना / ननु सांख्यस्य श्रेष्ठत्वात्तञ्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह-नच प्रधानेति / ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह-नच शक्यन्त इति / तस्मात् तर्कोत्थज्ञानान्मुक्त्ययोगात् तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति-अतो ऽन्यत्रेति / समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति-अत आगमेति
SK
END Bस्Cओम्_२,१.३.११
SK
START Bस्Cओम्_२,१.४.१२
SK
४ शिष्टपरिग्रहाधिकरणम् / सू. १२
SK
एतेन शिष्टापरिग्रहा अपि व्याख्याताः | BBस्_२,१.१२ |
SK
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्ठैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृतः / इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति / परिगृह्यन्त इति परिग्रहाः न परिग्रहा अपरिग्रहाः शिष्टानामपरिग्रहाः / एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदंशंनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति / तुल्यमात्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं तर्कस्याप्रतिष्ठितत्वमन्यथानुमाने ऽप्यविमोक्ष आगमविरोधश्चेत्येवञ्जातीयकं निराकरणम्
SK
ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः / स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति संदेहे सांख्यवृद्धानां तर्काकुशलमतित्वे ऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्ते ऽतिदिशति-एतेनेति / फलं पूर्ववत् / ननु सांख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि संभवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह-वैदिकस्येति /
SK
सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः / प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः / अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः / किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह-तुल्यत्वादिति / कारणमेवाह-तुल्यमिति /
SK
यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः / महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् / अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम्
SK
END Bस्Cओम्_२,१.४.१२
SK
START Bस्Cओम्_२,१.५.१३
SK
५ भोक्त्रापत्त्याधिकरणम् / सू. १३
SK
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् | BBस्_२,१.१३ |
SK
अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते / यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारे ऽन्यपरा भवितुमर्ति / यथा मन्त्रार्थवादौ / तर्के ऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् यथा धर्माधर्मयोः / किमतो यद्येवम् / अत इदमयुक्तं यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः / कथं पुनः प्रमाणान्तरप्रसिद्धोर्ऽथः श्रुत्या बाध्यत इति /
SK
अत्रोच्यते- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरो भोग्याः शब्दादयो विषया इति / यथा भोक्ता देवदत्तो भोज्य ओदन इति / तस्य च विभागस्याभावः प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत / भोग्यं वा भोक्तृभावमापद्येत / तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणो ऽनन्यत्वात्प्रसज्येत / नचास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् / यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः / तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रतिब्रूयात्- स्याल्लोकवदिति / उपपद्यत एवायमस्मत्पक्षे ऽपि विभागः एवं लोके दृष्टत्वात् / तथाहि- समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनवीचीतरङ्गादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते / नच समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति / नच तेषामितरेतरभावानापत्तावपि समुद्रात्मनो ऽन्यत्वं भवति / एवमिहापि नच भोक्तृभोग्ययोरितरेतरभावापत्तिः, नच परस्माद्ब्रह्मणो ऽन्यत्वं भविष्यति / यद्यपि भोक्ता न ब्रह्मणो विकारः / ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यतः परमकारणब्रह्मणो ऽनन्यत्वंऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्
SK
FN: अन्यपरत्वं गौणार्थकत्वम् / विभागो जन्म / यद्वा तथापीतिशब्देनैवोक्तः परिहारः /
SK
अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः / स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति संदेहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वे ऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति-भोक्रापत्तेरिति / विरोधादद्वैतासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति भेदः / अनपेक्षश्रुत्यास्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते-यद्यपीति / मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः / यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स ऽआदित्यो यूपःऽइत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणेरपह्रियत इति समाधत्ते-तथापीति / अन्यपरत्वं गौणार्थकत्वम् / स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह-तर्को ऽपीति / तर्कादेर्द्वैते प्रामाण्ये ऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते-किमत इति / पूर्वपक्षी समाधत्ते-अत इति / तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः / इयमर्थं शङ्कापूर्वकं स्फुटयति-कथमित्यादिना / ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह-तयोश्चेति / तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः / ततश्च भेदो बाध्येतेत्यर्थः / इष्टापत्तिं वारयति-न चास्येति / श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः / ननु विभागस्याधुनिकत्वादनद्याद्वैतश्रुत्या बाध इत्यत आह-यथेति / अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात्, वर्तमानकालवदित्यनुमानाद्विभागो ऽनाद्यनन्त इत्यर्थः / एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह-स्याल्लोकवदिति / दृष्टान्ते ऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह-नचेति / एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह-एवमिहेति / जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते-यद्यपीति / औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह-तथापीति / विभागो जन्म / यद्वा तथापीतिशब्देनैवोक्तः परिहारः / ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह-कार्यमनुप्रविष्टस्येति / औपाधिकविभागे फलितमुपसंहरति-इत्यत इति /
SK
एकब्रह्मभिन्नत्वे ऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः
SK
END Bस्Cओम्_२,१.५.१३
SK
START Bस्Cओम्_२,१.६.१४
SK
६ आरम्भणाधिकरणम् / सू. १४-२०
SK
तदनन्यत्वम् आरम्भणशब्दादिभ्यः | BBस्_२,१.१४ |
SK
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोषऽभिहितः / नत्वयं विभागः परमार्थतो ऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते / कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परंब्रह्म, तस्मात्कारणात्परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते / कुतः / आरम्भणशब्दादिभ्यः / आरम्भणशब्दस्तावत् / एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- ऽयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ (छा. ६.१.१) इति / एतदुक्तं भवति- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् / यतो वाचारम्भणं विकारो नामधेयं वाचैव केवलमस्तीत्यारभ्यते / विकारो घटः शराव उदञ्चनं चेति / नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति / नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमिति / एष ब्रह्मणो दृष्टान्तः आम्नातः / तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते / पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- ऽअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्ऽ (छा. ६.४.१) इत्यादिना / आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽ (छा. ६.८.७), ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६), ऽब्रह्मैवेदं सर्वम्ऽ (मु. २.२.११), ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२), ऽनेह नानास्ति किञ्चनऽ (बृ.४.४.१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् / नचान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते / तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं, यथाच मृगतृष्णिकोदकादीनामूषरादिभ्यो ऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् /
SK
नन्वनेकात्मकं ब्रह्म, यथा वृक्षो ऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म / अत एकत्वं नानात्वं चोभयमपि सत्यमेव / यथा वृक्ष इत्यनेकत्वं शाखा इति नानात्वम् / यथाच समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् / यथाच मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् / तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति / नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति / एवञ्च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति /
SK
नैवं स्यात् / ऽमृत्तिकेत्येव सत्यम्ऽ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् / वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् / दार्ष्टान्तिके ऽपि ऽऐतदात्म्यमिदं सर्वं तत्सत्यम्ऽ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति च शारीरस्य ब्रह्मभावोपदेशात् / स्वयं प्रसिद्धं ह्येतच्छरीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् / अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् / बाधिते च शारीरात्मत्वस्य तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशो ऽपरो ब्रह्मणः कल्प्येत / दर्शयति च-
SK
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. ४.५.१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् / नचायं व्यवहाराभावोषऽवस्थाविशेषनिबद्धो ऽभिधीयत इति युक्तं वक्तुम्, ऽतत्त्वमसिऽ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् / तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति (छा. ६.१६) / मिथ्याज्ञानविजृम्भितं च नानात्वम् / उभयसत्यतायां हि कथं व्यवहारगोचरो ऽपि जन्तुरनृताभिसंध इत्युच्येत / ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. ४.४.१९) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति / नचास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञनापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् / उभयसत्यतायां हि कथमेकत्वविज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते /
SK
नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावत्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि / तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत, मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघातः स्यात् / कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति /
SK
अत्रोच्यते- नैष दोषः / सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः / स्वप्नव्यवहारस्येव प्राक्प्रबोधात् / यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते / विकारानेव त्वहं ममेत्यविद्यायामात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा / तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः / यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, नच प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् /
SK
कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत / नहि रज्जुसर्पेण दृष्टो म्रियते / नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति /
SK
नैष दोषः / शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः / स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् / तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् /
SK
तत्र ब्रूमः- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगतिः सत्यमेव फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात् / नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् / एतेन स्वप्नदृशो ऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः / तथाच श्रुतिः - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति / समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शनेऽ (छा. ५.२.९) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति / तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ऽन चिरमिव जीविष्यतीति विद्यात्ऽ इत्युक्त्वा ऽअथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिऽ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति / प्रसिद्धं चेदं लोके ऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेनासाध्वागम इति / तथाकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्तेः / अपिचान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकाङ्क्ष्यमस्ति / यथाहि लोके यजेतेत्युक्ते किं केन कथमित्याकाङ्क्ष्यते नैवं ऽतत्त्वमसिऽ ऽअहं ब्रह्मास्मिऽ इत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति, सर्वात्मैकत्वविषयत्वावगतेः / सति ह्यस्मिन्नवशिष्यमाणेर्ऽथे आकाङ्क्षा स्यात् / नत्वात्मैकत्वव्यतिरेकेणावशिष्यमाणो ऽन्योर्ऽथो ऽस्ति य आकाङ्क्ष्येत / न चेयमवगतिर्नोपपद्यत इति शक्यं वक्तुम्, ऽतद्धास्य विजज्ञौऽ (छा. ६.१६.३) इत्यादिश्रुतिभ्यः / अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् / नचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् / अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च / प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम / तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशो ऽस्ति /
SK
ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते / परिणामिनो हि मृदादयोर्ऽथा लोके समधिगता इति /
SK
नेत्युच्यते / ऽस वा एष महाजन आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४.२५) ऽस एष नेति नेत्यात्माऽ (बृ. ३.९.२३), ऽअस्थूलमनणुऽ (बृ. ३.८.८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् / नह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च श्क्यं प्रतिपत्तुम् /
SK
स्थितिगतिवत्स्यादिति चेत् /
SK
न / कूटस्थस्येति विशेषणात् / नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति / कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम / नच यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते / प्रमाणाभावात् / कूटस्थब्रह्मात्मविज्ञानादेव हि फलं दर्शयति शास्त्रम्- ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्य ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. ४.२.४)
SK
इत्येवञ्जातीयकम् / तत्रैतत्सिद्धं भवति- ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत् / नतु स्वतन्त्रं फलाय कल्प्यत इति / नहि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तं, कूटस्थनित्यत्वान्मोक्षस्य /
SK
कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् /
SK
न / अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य / ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थि तिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेत्येषोर्ऽथः प्रतिज्ञातः ऽजन्माद्यस्य यतःऽ (ब्र.सू. १.१.४) इति / सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोर्ऽथः पुनरिहोच्यते / कथं नोच्यते ऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता / श्रुणु यथा नोच्यते / सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते / ताभ्यामन्यः सर्वज्ञ ईश्वरः ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. ८.१४.१) इति श्रुतेः / ऽनामरूपे व्याकरवाणिऽ (छा. ६.३.२), ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै. आ. ३.१२.७), ऽएकं बीजं बहुधा यः करोतिऽ (श्वं. ६.१२) इत्यादिश्रुतिभ्यश्च / एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि / स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये / तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते / तथाचोक्तम्- ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा. ७.२४.१) इति ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन पश्येत्ऽ (बृ. ४.५.१५) इत्यादिना च / एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे / तथेश्वरगीतास्वपि- ऽन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः / न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते //
SK
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः / अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःऽ (गी. ५.१४.-१५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते / व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ. ४.४.२२) इति / तथाचेश्वरगीतास्वपि- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्ठति / भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ (गी. १८.६१) इति / सूत्रकारो ऽपि परमार्थाभिप्रायेण तदन्यत्वमित्याह / व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति / अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणोपासनेषूपयोक्ष्यत इति
SK
FN: दृष्टं प्रातीतिकं नष्ठमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः / स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः / एकत्वस्यैकान्तः कैवल्यम् / व्याहन्येरन्नप्रमाणानि स्युः / सत्यत्वं बाधा भावः / बाधो मित्यात्वनिश्चयः / रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धम् /
SK
पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह-तदानन्यत्वमिति / समानविषयत्वं संगतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह-अभ्युपगम्येति / प्रत्यक्षादीनाम उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, संप्रत्यङ्गीकृतं प्रामाण्यं, तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथाच मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः / एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति-यस्मात्तयोरिति / स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह-व्यतिरेकेणेति / कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः / वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति-एतदुक्तमिति / आरम्भणशब्दार्थान्तरमाह-पुनश्चेति / अपागादग्नित्वमपगतं कारणमात्रत्वात् / त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् / तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः / जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह-न चान्यथेति / तयोरनन्यत्वे क्रमेण दृष्टान्तावाह-तस्माद्यथेति / प्रतिज्ञाबलादित्यर्थः / दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः / शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति-नन्विति / अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः / भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति-नैवं स्यादिति / एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः / किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह-स आत्मेति / एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह-स्वयमिति / अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह-अतश्चेति / स्वतः-सिद्धोपदेशादित्यर्थः / यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा / नाद्य इत्याह-बाधिते चेति / स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः / ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः / न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः / यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह-न चायमिति / संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात्, भेदाभेदयोरेकदैकत्र विरोधात् / अतो ऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारो ऽपि मिथ्यैवेत्यर्थः / किञ्च यथा लोके कश्चित् तस्करबुद्ध्या भटैर्गृहीतो ऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च / तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह-तस्करेति / व्यवहारगोचरो नानात्वव्यवहाराश्रयः / नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह-मृत्योरिति / किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात्, प्रमायाः प्रमान्तराबाध्यत्वादित्याह-न चास्मिन्निति / वैपरीत्यस्यापि संभवादिति भावः / इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति-नन्वित्यादिना / एकत्वस्यैकान्तः कैवल्यम् / व्याहन्येरन्नप्रमाणानि स्युः / उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः / ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह-कथं चानृतेनेति / धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः / तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह-अत्रोच्यत इत्यादिना / सत्यत्वं बाधाभावः / बाधो मिथ्यात्वनिश्चयः / वस्तुतो मिथ्यात्वे ऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति-यथा सुप्तस्य प्राकृतस्येति / एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति-कथं त्वसत्येनेति / किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न / आद्य इष्ट एव / नहि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः / अङ्गीकृत्यापि दृष्टान्तमाह-नैष दोष इति / सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात् सत्यं न जायत इत्यनियम इत्यर्थः / दृष्टान्तान्तरमाह-स्वप्नेति / असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः / यथाश्रुतमादाय शङ्कते-तत्कार्यमपीति / उक्तमर्थं प्रकटयति-तत्र ब्रूम इत्यादिना / अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः / प्रसङ्गाद्देहात्मवादो ऽपि निरस्त इत्याह-एतेनेति / स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नो ऽवगत इत्यबाधितावगतिप्रतिसंधानं न स्यात् / अतो देहभेदे ऽप्यनुसंधानदर्शनाद्देहान्यो ऽनुसंधातेत्यर्थः / असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह-तथाच श्रुतिरिति / नच स्त्रियो मिथ्यात्वे ऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृत्धेर्ज्ञानमिति वाच्यम्, विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृते ऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याञ्ज्ञानसंभवाच्चेति भावः / असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह-तथेति / असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह-तथाकारादीति / रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः / एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना / तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं संभवतीति तात्त्विकं प्रामाण्यमिति भावः / यदुक्तं एकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न / भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् / किञ्च यद्युभयोरेकदा व्यवहारः स्यात् तदा स्यादपि सत्यत्वम् / नैवमस्ति / एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात्, शुक्तिज्ञानेनेव रजतस्येत्याह-अपि चान्त्यमिति / ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह-न चेयमिति / तत् किलात्मतत्त्वमस्य पितुर्वाक्यात् श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः / व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यं, तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते / किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः / किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह-न चेयमिति / ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्नऽपीत्युक्तस्वप्नदृष्टान्तं स्मारयति-प्राक्चेति / व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसंगतमित्युपसंहरति-तस्मादिति / नेदं कल्पितं, किन्तु श्रुतमिति शङ्कते-नन्विति / कार्यकारणयोरनन्यत्वांशे ऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति-नेत्युच्यत इति / सृष्टौ परिणामित्वं प्रलये तद्राहित्य च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते-स्थितीति / कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह-नेति / कूटस्थत्वासिद्धिमाशङ्क्याह-कूटस्थस्येति / कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः / किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह-नच यथेत्यादिना / ऽतं यथा यथोपासते तदेव भवतिऽइति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह-नहि परिणामवत्त्वेति / ऽब्रह्मविदाप्नोति परम्ऽइति श्रुतकूटस्थनित्यमोक्षफलसंभवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः / ननु पूर्वं ऽजन्माद्यस्य यतःऽइति ईश्वरकारणप्रतिज्ञा कृता / अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते-कूटस्थेति / कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतो ऽनन्यत्वमित्यविरोधमाह-नेत्यादिना / अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः / संगृहीतार्थं विवृणोति-तस्मादित्यादिना / तत्वान्यत्वाभ्यामिति / नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् / नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः / संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते-मायेति / नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह-ताभ्यामन्य इति / अन्यत्वे व्याकरणे च श्रुतिमाह-आकाश इत्यादिना / अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वं, प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह-स च स्वात्मभूतानिति / न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यं, बुद्ध्यादिसंघातभेदेन भेदोक्तेः / अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् / परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह-तथा चेति / कथं तर्हि कर्तृत्वादिकमित्यत आह-स्वभावस्त्विति / अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः / भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह-नादत्त इति / न संहरतीत्यर्थः / तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति / उक्तार्थः सूत्रकारसंमत इत्याह-सूत्रकारो ऽपीति / न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह-परिणामप्रक्रियां चेति /
SK
तदुक्तम्-ऽकृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्ऽइति
SK
END Bस्Cओम्_२,१.६.१४
SK
START Bस्Cओम्_२,१.६.१५
SK
भावे चोपलब्धेः | BBस्_२,१.१५ |
SK
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे / तद्यथा सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पटः / नच नियमेनान्यभावे ऽन्यस्योपलब्धिर्दृष्टा / नह्यश्वो गोरन्यः सन् गोर्भाव एवोपलभ्यते / नच कुलालभाव एव घट उपलभ्यते / सत्यपि निमित्तनैमित्तिकभावे ऽन्यत्वात् /
SK
नन्वन्यस्य भावे ऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति /
SK
नेत्युच्यते / उद्धापिते ऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् / अथ धूमं कयाचिदवस्थया विशिंष्यादीदृशो धूमो नासत्याग्नौ भवतीति / नैवमपि कश्चिद्दोषः तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः / नचासावग्निधूमयोर्विद्यते / भावाच्चोपलब्धेरिति वा सूत्रम् / न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं,
SK
प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः / भवतिहि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे / तद्यथा-
SK
तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशव्ॐऽशुषु तदवयवाः / अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि ततो रूपाणि वायुमात्रमाकाशमात्रं चेत्यनुमेयम् / (छा. ६.४) ततः परं ब्रह्मैकमेवाद्वितीयं, तत्र सर्वप्रमाणानां निष्ठामवोचाम
SK
FN: कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः /
SK
एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह-भावे चेति / कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः / घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात् मृद्वत् / अन्यत्वे ऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति-नचेति / मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः / गवश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः / अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह-नच कुलालेति / न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावे ऽपि हेतुसत्त्वादन्यत्वे गवाश्वत्तद्भावायोगाच्चेति भावः / कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात्, कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः / यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते-नन्विति / अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह-नेति / अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमो ऽस्तीति व्यभिचार इत्याशङ्कते-अथेति / तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह-नैवमिति /
SK
आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् / आलोकाभावे ऽपि घटादिरूपसत्त्वान्न व्यभिचारः / उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः / तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः / यद्वा / तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः / मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः / अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे-भावाच्चेति / पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः / न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणं, अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः / अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः / पटन्यायं तन्त्वादावतिदिशति-तथेत्यादिना / प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः / यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नं, कार्यत्वात्, पटवदित्यनुमेयमित्याह-अनयेति / कारणपरिशेषे प्रधानादिकं परिशिष्यतां, न ब्रह्मेत्यत आह-तत्र सर्वेति /
SK
ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः
SK
END Bस्Cओम्_२,१.६.१५
SK
START Bस्Cओम्_२,१.६.१६
SK
सत्वाच् चापरस्य | BBस्_२,१.१६ |
SK
इतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते / ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. ६.२.१), ऽआत्मा वा इदमेक एवाग्र आसीत्ऽ (ऐ.आ. २.४.१.१) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् / यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् / तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते / यथाच कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरत्येवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति / एकं च पुनः सत्त्वमतो ऽप्यनन्यत्वं कारणात्कार्यस्य
SK
इदं जगत् सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतं, तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारःसत्त्वाच्चेति / श्रुत्यर्थे युक्तिमप्याह-यच्च यदात्मनेति / घटादिकं प्राग् मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात् सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः / कारणवत्कार्यस्यापि सत्त्वात् सत्त्वभेदे मानाभावात् कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह-यथा चेति /
SK
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात् सत्त्वाव्यभिचारः / तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् / तदभेदेन सती मृत् सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः
SK
END Bस्Cओम्_२,१.६.१६
SK
START Bस्Cओम्_२,१.६.१६
SK
न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यं, वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् / तर्हि मृद्घटयोः को विशेषः / तादात्म्यमिति ब्रूमः / वस्तुतः सर्वत्र सत्तैक्ये ऽपि घटपटयोरभेदेन सत्ताया भिन्नत्वान्न तादात्म्यं, कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः
SK
END Bस्Cओम्_२,१.६.१६
SK
START Bस्Cओम्_२,१.६.१७
SK
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात् | BBस्_२,१.१७ |
SK
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः - ऽअसदेवेदमग्र आसीत् (छा. ३.१९.१) इति, ऽअसद्वा इदमग्र आसीत्ऽ (तै. २.७.१) इति च / तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् /
SK
नेति ब्रूमः / नह्ययमत्यन्तासत्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः,किं तर्हि व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य / कथमेतदवगम्यते / वाक्यशेषात् / यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते / इह च तावत् ऽअसदेवेदमग्र आसीत्ऽ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ऽतत्सदासीत्ऽ इति / असतश्च पूर्वापरकालासंबन्धादासीच्छब्दानुपपत्तेश्च / ऽअसद्वा इदमग्र आसीत्ऽ इत्यत्रापि ऽतदात्मानं स्वयमकुरुतऽ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् / तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य / नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् / अतः प्राङ्नामरूपव्याकरणादसदिवासीदिवासीदित्युपचर्यते
SK
FN: अग्रे शून्यमासीच्छून्यादेव जगतभूदिति पूर्वः पक्षः / राद्धान्ते तु इदं जगदग्रे सृष्टेः प्रागसदव्याकृतनामरूपत्वादसत्तुल्यमतिसूक्ष्मं ब्रह्मैवासीत् / ततो ब्रह्मणः सत् व्याकृतनामरूपं जगदजायतेति /
SK
उक्तं कार्यस्य प्राक् कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते-असदिति / ऽअक्ताः शर्करा उपदध्यात्ऽइत्युपक्रमे केनाक्ता इति संदेहे ऽतेजो वै घृतम्ऽइति वाक्यशेषाद्धृतेनेति यथा निश्चयः एवमत्रापि ऽतत्सत्ऽइति वाक्यशेषात्सन्निश्चय इत्यर्थः / आसीदित्यतीतकालसंबन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह-असतश्च पूर्वापरेति / उक्तन्यायं वाक्यान्तरे ऽतिदिशति-असद्वेति /
SK
क्रियमाणत्वविशेषणं शून्यस्यासंभवीति भावः
SK
END Bस्Cओम्_२,१.६.१७
SK
START Bस्Cओम्_२,१.६.१८
SK
युक्तेः शब्दान्तराच् च | BBस्_२,१.१८ |
SK
युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च / युक्तिस्तावद्वर्ण्यते- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते / नहि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरं तदसत्कार्यवादे नोपपद्येत / अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् / अथाविशिष्टे ऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च / शक्तिश्च कारणस्य कार्यनियमार्था कल्पमाना नान्यासती वा कार्यं नियच्छेत् / असत्त्वाविशेषादन्यत्वाविशेषाच्च / तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् / अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् / समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धे ऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः / अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः / अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते, संयोगो ऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव समवायं संबध्येत / तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् / कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते / किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् / यदि तावत्समस्तेषु वर्तेत ततो ऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसमनिकर्षस्याशक्यत्वात् / नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते / अथावयवशः समस्तेषु वर्तेत तदाप्यरम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशो ऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति / अनवस्था चैवं प्रसज्येत / तेषु तेष्वयवयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् / अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारे.ऽन्यत्राव्यापारः स्यात् / नहि देवदत्तः स्नुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रे ऽपि संनिधीयेत / युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् / देवदत्तयज्ञदत्तयोरिव स्रुघ्नापाटलिपुत्रनिवासिनोः / गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् / न / तथा प्रतीत्यभावात् / यदि गोत्वादिवत्प्रत्येकं परिसमाप्तो ऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत / नचैवं नियतं गृह्यते / प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् / नचैवं दृश्यते / प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् / उत्पचत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत् / क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत / घटस्य चेत्पत्तिरुच्यमाना न घटकर्तृका किं तरिह्यन्यकर्तृकेति कल्प्या स्यात् / तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत / तथाच सति घट उत्पद्यत इत्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते / उत्पन्नताप्रतीतेश्च / अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् / सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा / अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् / सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य / नहि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकारणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यपुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते / यदि च वन्द्यापुत्रो ऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपात्स्यत कार्याभावो ऽपि कारकव्यापारादूर्ध्वं भविष्यतीति / वयं तु पश्यामो वन्द्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावो ऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति /
SK
नन्वेवं सति कारकव्यापारो ऽनर्थकः प्रसज्येत / यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते / एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धये ऽपि न कश्चिद्व्याप्रियेत / व्याप्रियते च / अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव / कार्यस्येति /
SK
नैष दोषः / यतः कार्याकारेण कारणं व्यवस्तापयतः कारकव्यापारस्यार्थवत्त्वमपपद्यते / कार्याकारो ऽपि कारणस्यात्मभूत एवानात्मभूतस्यानारभ्यत्वादित्यभाणि / नच विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति / नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषण दृश्यमानो ऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् / तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् / जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् /
SK
न / क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् / अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ् कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा / तेषामेवायवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा / तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वपत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः / तथाच बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च / एतेन क्षणभङ्गवादः प्रतिवदितव्यः / यस्यपुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् / अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् /
SK
समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् /
SK
न / अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् / समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् /
SK
न / सत्कार्यतापत्तेः / तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् / तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते / एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते / शब्दान्तराच्चैतदवगम्यते / पूर्वसूत्रे ऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततो ऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्यादि / ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इति चासत्पक्षमुपक्षिप्य ऽकथमसतः सज्जायेतऽ इत्याक्षिप्य ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. ६.२.१) इत्यवधारयति / तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः / यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यकारणात्स्यात् / तत्र ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. ६.१.३) इतीयं प्रतिज्ञा पीड्येत / सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते
SK
FN: अतिशयः कार्यधर्मः कारणधर्मो वा / कार्याभावो ऽसत्कार्यमित्यर्थः उपापत्स्यत उपपन्नमभविष्यदित्यन्वयः / वस्त्वन्तरत्वं परमार्थतो भिन्नत्वम् / एतेन कारणस्य सर्वकार्येष्वन्वयकथनेन / विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् /
SK
सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः-युक्तेरिति / दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः / असतो ऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह-अविशिष्टे हीति / असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः / तदुक्तं सांख्यवृद्धैः-ऽअसदकरणादुपादानग्रहणात्सर्वसंभवाभावात् / शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्ऽइति / शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतो ऽशक्यत्वात् / किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः / कार्यस्यासत्त्वे ऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते-अथेति / अतिशयः कार्यधर्मः कारणधर्मो वा / आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह-तर्ह्यतिशयवत्त्वादिति / द्वितीये ऽपि कार्यसत्त्वमायातीत्याह-शक्तिश्चेति / कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् / तस्मात् कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यं, ततः सत्कार्यसिद्धिरित्यर्थः / किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह-अपिचेति / तयोरन्यत्वे ऽपि समवायशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति-समवायेति / समवायः समवायिभिः संबद्धोन न वा / आद्ये स संबन्धः किं समवायः उत स्वरूपम् / आद्ये समवायानवस्था / द्वितीये मृद्घटयोरपि स्वरूपसंबन्धादेवोपपत्तेः समवायासिद्धिः / असंबद्ध इति पक्षे दोषमाह-अनभ्युपगम्यमान इति / द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः / असंबद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः / विशिष्टधीनियामको हि संबन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात्, अतः स्वपरनिर्वाहकः समवाय इति शङ्कते-अथेति / संबध्यते / स्वस्य स्वसंबन्धिनश्च विशिष्टधियं करोतीत्यर्थः / प्रतिबन्द्या दूषयति-संयोगो ऽपीति / यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न संबन्धत्वादिति, तन्न, धर्मत्वात्, समवायस्यापि संबन्धान्तरापत्तेरसंबद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् / किञ्च ऽनिष्पापत्वादयो गुणाःऽइति श्रुतिस्मृत्यादिषु ऽव्यवहारादिष्टधर्मो गुणःऽइति परिभाषया समायस्यापि गुणत्वाच्च / ऽजातिविशेषो गुणत्वम्ऽइति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् / अतः समवायसिद्धेः प्राक् संयोगस्य गुणत्वमसिद्धमिति दिक् / किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् / तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासंभवादित्याह-तादात्म्येति / एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वं, स्वरूपेण तु मिथ्यात्मित्युक्तम् / वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह-कथं चेति / तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति-यदीत्यादिना / व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात् संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः / द्वितीयं शङ्कते-अथेति / यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहे ऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसंभवे ऽप्यवयवानामनवस्था स्यादिति दूषयति-तदापीति / आद्यद्वितीयमुद्भाव्य दूषयति-अथ प्रत्यवयवमित्यादिना / एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात्, वृत्तावनेकत्वापत्तेरित्यर्थः / यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते-गोत्वेति / जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति-न / तथेति / दोषान्तरमाह-प्रत्येकेति / अधिकारात्संबन्धात् / यथा देवदत्तः स्वकार्यमध्ययनं ग्रामे ऽरण्ये वा करोति, यथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः / एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् / संप्रत्यसत्कार्यवादे दोषान्तरमाह-प्रागिति / यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते / अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् / कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः / जनेरनुभवसिद्धे ऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह-उत्पत्तिश्चेति / असतो घटस्योत्पत्तौ कर्तृत्वासंभवे ऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह-घटस्य चेति / घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति-तथेति / शङ्कामनूद्य दोषमाह-तथा चेति / अनुभवविरोधमित्यर्थः / उत्पत्तिर्भावस्याद्य विक्रियेति स्वमतेन कार्यसत्त्वमानीतं, संप्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते-अथेति / तन्मतेनापि कार्यस्य सत्त्वमावश्यकं, असतः संबन्धित्वायोगादित्याह-कथमिति / असतोर्वेति दृष्टान्तोक्तिः / ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक् ध्वंसानन्तरं चासत् मध्ये तु सदेवेति वैषम्यात्संबन्धित्वोपपत्तिरित्याशङ्क्याह-अभावस्येति /
SK
अत्राभावब्दा असच्छब्दापरपर्याया व्याख्येयाः / असतः कालेनासंबन्धात्प्राक्त्वं न युक्तमित्यर्थः / ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह-यदि चेति / कार्याभावो ऽसत्कार्यमित्यर्थ इत्युपापत्स्वत उपपन्नमभविष्यदित्यन्वयः / कस्तर्हि निर्णयः, तत्राह-वयं त्विति / ऽनासतो विद्यते भावःऽइति स्मृतेरिति भावः / सत्कार्यवादे कारकवैयर्थ्यं शङ्कते-नन्विति / सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह-तदनन्यत्वाच्चेति / अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह-नैष दोष इति / कार्यसत्यत्वमिच्छतां सांख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् / अद्वैतवादिनां त्वघटितघठनावभासनचतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् / विचार्यमाणे सर्वमयुक्तं, युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् / ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह-कार्याकारो ऽपीति / अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः / ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते / तथाच घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात्, वृक्षवदित्यत आह-नचेति / वस्तुतो ऽन्यत्वं सत्यो भेदः / हेतोर्व्यभिचारस्थलान्तरमाह-तथा प्रतिदिनमिति / प्रत्यहं पित्रादिदेहस्यावस्थाभेदे ऽपि जन्मनाशयोरभावादभेदो युक्तः / दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते-जन्मेति / कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति-नेति / दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः / ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह-अदृश्येति / तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः / अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततो ऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह-तत्रेदृगिति / पितृदेहे ऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह-पित्रादीति / एतेनेति / कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः / स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति-यस्य पुनरिति / असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वे ऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते-समवायीति / समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्पाद्यं निरस्यति-नेत्यादिना / द्वितीयमाशङ्क्येष्टापत्तिमाह-समवायीति / कार्याणामवान्तरकारणानन्यत्वमुपसंहरति-तस्मादिति / परमकारणानन्यत्वं फलितमाह-तथा मूलेति / असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह-यदि तु प्रागुत्पत्तेरिति
SK
END Bस्Cओम्_२,१.६.१८
SK
START Bस्Cओम्_२,१.६.१९
SK
पटवच् च | BBस्_२,१.१९ |
SK
यथा च संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वान्यद्द्रव्यमिति / स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते / यथाच संवेष्टनसमये पट इति गृह्यमाणे ऽपि न विशिष्टायामविस्तारो गृह्यते स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्यो ऽयं भिन्नः पट इति / एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापारदिभिर्व्यक्तं स्पष्टं गृह्यते / अतः संवेष्टितप्रसीरितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः
SK
FN: आयामो दैर्घ्यम् /
SK
कार्यमुपादानद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात् ततो ऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम्-पटवच्चेति / द्वितीयहेतोर्व्यभिचारं स्फुटयति-यथा च संवेष्टनेति /
SK
आयामो दैर्घ्यम्
SK
END Bस्Cओम्_२,१.६.१९
SK
START Bस्Cओम्_२,१.६.२०
SK
यथा च प्राणादिः | BBस्_२,१.२० |
SK
यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निवर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् / तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रासारणादिकमपि कार्यान्तरं निर्वर्त्यते / नच प्राणभेदानां प्रभेदवतः प्राणादन्यत्वं, समीरणस्वभावाविशेषात् / एवं कार्यस्य कारणादनन्यत्वम् / अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. ६.१.१) इति
SK
तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात्, संमतवत् इति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः-यथा च प्राणादीति / एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति-अतश्च कृत्स्नस्येति
SK
END Bस्Cओम्_२,१.६.२०
SK
START Bस्Cओम्_२,१.७.२१
SK
७ इतरव्यपदेशाधिकरणम् / सू. २१-२३
SK
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः | BBस्_२,१.२१ |
SK
अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते / चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते / कुतः / इतरव्यपदेशात् / इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः - ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ (छा. ६.८.७) इति प्रबोधनात् / यद्वा / इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् / ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति / तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छरीरस्यैवेति / अतः स स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् / नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति / नच स्वयमत्यन्तनिर्मलः सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात् / कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् / सुखकरं चोपाददीत / स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति / सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति / यथाच मायावी स्वयं प्रसारितां मायामिच्छयानायासेनैवोपसंहरति, एवं शारीरो ऽपीमां सृष्टिमुपसंहरेत् / स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् / एवं हितक्रियाद्यदर्शनादन्याय्या चेतमाज्जगत्प्रक्रियेति गम्यते
SK
जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः / स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत् स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति संदेहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे-इतरव्यपदेशादित्यादिना / पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् / हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः / आदिपदोक्तं भ्रान्त्यादिकमापादयति-नच स्वयमित्यादिना
SK
END Bस्Cओम्_२,१.७.२१
SK
START Bस्Cओम्_२,१.७.२२
SK
अधिकं तु भेदनिर्देशात् | BBस्_२,१.२२ |
SK
तुशब्दः पक्षं व्यावर्तयति / यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तद्वयं जगतः स्रष्टृ ब्रूमः / न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते / नहि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं, नित्यमुक्तस्वभावात् / नच तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च / शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः / नतु तं वयं जगतः स्रष्टारं ब्रूमः / कुत एतत् /
SK
भेदनिर्देशात् / ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽऽ (बृ. २.४.५), ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. ८.७.१), ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८.१) ऽशारीर आत्मा प्राज्ञेनात्मनान्वारूढःऽ (बृ. ४.३.३५) इत्येवञ्जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति /
SK
नन्वभेदनिर्देशो ऽपि दर्शितः ऽतत्त्वमसिऽ इत्येवञ्जातीयकः / कथं भेदाभेदौ विरुद्धौ संभवेयाताम् /
SK
नैष दोषः / आकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठपितत्वात् / अपिच यदा तत्त्वमसीत्येवञ्जातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् / तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः / अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारो नतु परमार्थतो ऽस्तीत्यसकृदवोचाम / जन्ममरणच्छेदनभेदनाद्यभिमानवत् / अबाधिते तु भेदव्यवहारे ऽसे ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ इत्येवञ्जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणो ऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि
SK
जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः / न चेष्टापत्तिः / जीवस्य स्वशरीरे ऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-तुशब्द इत्यादिना / जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः / यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते नतु तं ब्रूम इत्यन्वयः / किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा / नाद्य इत्याह-अपिचेति / उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति-अविद्येति / कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति-जन्मेति / द्वितीयं प्रत्याह-अबाधिते त्विति /
SK
ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात् पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः
SK
END Bस्Cओम्_२,१.७.२२
SK
START Bस्Cओम्_२,१.७.२३
SK
अश्मादिवच् च तदनुपपत्तिः | BBस्_२,१.२३ |
SK
यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयो ऽन्ये मध्यमवीर्याः सूर्यकान्तादयो ऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते / यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते / यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति / एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यस्तदनुपपत्तिः / परपरिकल्पितदोषानुपपत्तिर्त्यर्थः / श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः
SK
FN: किंपाको महातालफलम् /
SK
नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यं, कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः-अश्मादिवच्चेति / किंपाको महातालफलम् / तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः / सूत्रस्थचकारार्थमाह-श्रुतेश्चेति / ब्रह्म जीवगतदोषवत्, जीवाभिन्नत्वात्, जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् / किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः / यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात्, व्यतिरेकेण मृत्तन्त्वादिवदिति / तन्न / एकरूपे स्नप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः / तस्मात् प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,१.७.२३
SK
START Bस्Cओम्_२,१.८.२४
SK
८ उपसंहारदर्शनाधिकरणम्. सू. २४-२५
SK
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि | BBस्_२,१.२४ |
SK
चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते / कस्मात् / उपसंहारदर्शनात् / इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्राद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते / ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत / तस्मान्न ब्रह्म जगत्कारणमिति चेत् /
SK
नैष दोषः / यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते / यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमते ऽनपेक्ष्य बाह्यं साधनं तथेहापि भविष्यति /
SK
ननु क्षीराद्यपि दध्यादिभावेन परिणाममानपेक्षत एव बाह्यं साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धीति /
SK
नैष दोषः / स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रमनुभवति तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय / यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत / नहि वायुराकाशो वौष्ण्यदिना बलाद्दधिभावमापद्यते / सादनसामग्र्या च तस्य पूर्णता संपाद्यते / परिपूर्णशक्तिकं तु ब्रह्म / न तस्यान्येन केनचित्पूर्णता संपादयितव्या / श्रुतिश्च भवति- ऽन तस्य कार्यं कारणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते / परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च //
SK
ऽ (श्वे. ६.२) इति / तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते
SK
FN: कारकाणामुपसंहारो मेलनम् / त्वार्यते शैघ्र्यं कार्यते क्षीरं दधिभावमौष्ण्यादिना /
SK
उपसंहारदर्शनात् / असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः / स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति संदेहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम्, संप्रति उपाधितो ऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे-चेतनमित्यादिना / फलं पूर्ववत् / कारकाणामुपसंहारो मेलनम् / उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति-नैष दोष इति / शुद्धस्य ब्रह्मणो ऽकारणत्वमिष्टमेव / विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह-बाह्यमिति / क्षीरस्याप्यातञ्चनादिसहायो ऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावे ऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह-नन्वित्यादिना / तर्हि सहायो व्यर्थः, तत्राह-त्वार्यत इति / ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतो ऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात्, तत्राह-यदि चेति / शक्तस्य सहायसंपदा किं कार्यमित्यत्राह-साधनेति / सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः / तर्हि शक्तिव्यञ्जको ऽपि सहायो ब्रह्मणो वाच्यः, तत्राह-परिपूर्णोति / निरपेक्षमायाशक्तिकमित्यर्थः / तादृशशक्तौ मानमाह-श्रुतिश्चेति
SK
END Bस्Cओम्_२,१.८.२४
SK
START Bस्Cओम्_२,१.८.२५
SK
देवादिवद् अपि लोके | BBस्_२,१.२५ |
SK
स्यादेतत् / उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् / चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै कार्याय प्रवर्तमाना दृश्यन्ते / कथं ब्रह्म चेतनं सदसहायं प्रवर्तेतेति / देवादिवदिति ब्रूमः / यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तो ऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानि शरीरीणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् / तन्तुनाभश्च स्वत एव तन्तून्सृजति / बलाका चान्तरेणैव शुक्रं गर्भं धत्ते / पद्मिनी चानपेक्ष्य किञ्चित्प्रस्तानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते / एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति / स यदि ब्रूयाद्य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्ट्रान्तिकेन ब्रह्मणा न समाना भवन्ति / शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादन उपादानं नतु चेतन आत्मा / तन्तुनाभ्या च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति / बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते / पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेवैव शरीरेण सरोन्तरोपसर्पणे व्याप्रियते / तस्मानैते ब्रह्मणो दृष्टान्ता इति / तं प्रति ब्रूयान्नायं दोषः / कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति / यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतद्वाक्यं देवाद्युदाहरणेन विवक्ष्यामः / तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः
SK
FN: लोक्यते ज्ञायतेर्ऽथोनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च / अभिध्यानं संकल्पः / यथा भारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः तथा असहायस्यापि ब्रह्मणः कारणत्वम् /
SK
ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह-स्यदेतदिति / तस्यापि हेतोर्देवादौ व्यभिचार इत्याह-देवादिवदिति / लोक्यते ज्ञायतेर्ऽथो ऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च / अभिध्यानं संकल्पः / ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायो ऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते-स यदि ब्रूयादित्यादिना / व्यभिचारो ऽस्तीति परिहरति-तं प्रति ब्रूयादिति /
SK
अयं दोषः दृष्टान्तवैषम्याख्यः / अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वं, तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः / असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वं, तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् / तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् / देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् / नरदेवादीनां कार्यारम्भे नारस्त्येकरूपा सामग्री / श्रूयते हि महाभारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः / अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम्
SK
END Bस्Cओम्_२,१.८.२५
SK
START Bस्Cओम्_२,१.९.२६
SK
९ कृत्स्नप्रसक्त्यधिकरणम् / सू. २६-२९
SK
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा | BBस्_२,१.२६ |
SK
चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यसाधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् / शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति / कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति,
SK
निरवयवत्वात् / यदि ब्रह्म पथिव्यादिवत्सावयवमभविष्यत्ततो ऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत् / निरवयवं तु ब्रह्म श्रुतिभ्यो ऽवगम्यते- ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे. ६.१९), ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजःऽ (मु. २.१.२), ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवऽ (बृ. २.४.१२), ऽस एष नेति नेत्यात्माऽ (बृ. ३.९.२६), ऽअस्थूलमनणुऽ (बृ. ३.८.८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः / ततश्चैकदेशपरिणामसंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत / द्रष्टव्यतोपदेशानर्थक्यं चापन्नमयत्नद्रष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणो ऽसंभवात् अजत्वादिशब्दकोपश्च / अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुष्येयुः / सावयवत्वे चानित्यत्वप्रसङ्ग इति / सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति
SK
FN: पर्यणंस्यत् परिणतो ऽभविष्यत् / एकदेशश्चावस्थास्यदपरिणतो ऽभविष्यत् /
SK
कृत्स्नप्रसक्तिः / क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं संगतिमाह-चेतनमिति / निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः / स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति संदेहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे-कृत्स्नेति / ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा / आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति-यदि ब्रह्मेत्यादिना / पर्यणंस्यत् परिणतो ऽभविष्यत् / एकदेशश्चावास्थास्यदपरिणतो ऽभविष्यत् / उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह-ततश्चेति / यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोर्ऽथशून्यः स्यादिति दोषान्तरमाह-द्रष्टव्यतेति / ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे ऽअजो ऽमरःऽइति श्रुतिविरोधश्चेत्याह-अजत्वादीति / सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति-अथेत्यादिना
SK
END Bस्Cओम्_२,१.९.२६
SK
START Bस्Cओम्_२,१.९.२७
SK
श्रुतेस् तु शब्दमूलत्वात् | BBस्_२,१.२७ |
SK
तुशब्देनाक्षेपं परिहरति / न खल्वस्मत्पक्षे कश्चिदपि दोषो ऽस्ति / न तावत्कृत्स्नप्रसक्तिरस्ति / कुतः / श्रुतेः / यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत एवं विकारव्यतिरेकेणापि ब्रह्मणो ऽवस्तानं श्रूयते, प्रकृतिविकारयोर्भेदेन व्यपदेशात् ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२) इति, ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः / पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इति चैवञ्जातीयकात् / तथा हृदयायतनत्ववचनात्सत्संपत्तिवचनाच्च / यदि च कृत्स्नं ब्रह्म कार्याभावेनोपयुक्तं स्यात् ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८१) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् / विकृतेन ब्रह्मणा नित्यसंपन्नत्वादिविकृतस्य च ब्रह्मणो ऽभावात् / तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः / तस्मादस्त्यविकृतं ब्रह्म / नच निरवयवत्वशब्दकोपो ऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् / शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् / शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च / लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते / ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते ऽस्य वस्तुन एतावत्य एतत्सहाय एतद्विषया एतत्प्रयोजनाश्च शक्तय इति / किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत / तथाचाहुः पौराणिकाः - ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् / प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् //
SK
ऽ इति तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः /
SK
ननु शब्देनापि न शक्यते विरुद्धोर्ऽथः प्रत्याययितुं निरवयवं च ब्रह्म परिणमते नच कृत्स्नमिति / यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत / कृत्स्नमेव वा परिणमेत / अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत / क्रियाविषये हि ऽअतिरात्रे षोडशिनं गृह्णातिऽ ऽनातिरात्रे षोडशिनं गृह्णातिऽ इत्येवञ्जातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वाच्चानुष्ठानस्य / इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवत्यपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुर्घटमेतदिति /
SK
नैष दोषः / अविद्याकल्पितरूपभेदाभ्युपगमात् / नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते / नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानो ऽनेक एव भवति / अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते / पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणमतवतिष्ठते / वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति / नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् / सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिफलावगमात् / ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्याह- ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. ४.२.४) इति / तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गो ऽस्ति
SK
परिणामपक्षो दुर्घट इति यदुक्तं तदस्मादिष्टमेवेति विवर्तवादेन सिद्धान्तयति-श्रुतेरिति / स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति-तुशब्देनेत्यादिना / ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात् पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह-सेयं देवतेति / न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह-तावानिति / इतश्चास्त्यविकृतं ब्रह्मेत्याह-तथेति / ऽस वा एष आत्मा हृदिऽइति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म / ऽतदा ऽइति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः / लिङ्गान्तरमाह-तथेन्द्रियेति / भ्रूम्यादेर्विकारस्येन्द्रियगोचरत्वात् ऽन चक्षुषा गृह्यतेऽइत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः / कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषो ऽपि नास्तीत्याह-नचेति / ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत् सावयवत्वं दुर्वारं, निरवयवस्यैकस्य द्विधा सत्त्वायोगात्, अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति-शब्दमूलं चेति / यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् / अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् / न तर्केण बाधनीयमित्यर्थः / प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः / आशयानवबोधेन शङ्कते-ननु शब्देनापीति / यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति-नन्विति / शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः / ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह-क्रियेति / निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति-नैष दोष इति / निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति / वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः / रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति-नहीत्यादिना / कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति-वाचारम्भणेति / ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वं, तत्राह-न चेयमिति / निष्प्रपञ्चब्रह्माधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम्, अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_२,१.९.२७
SK
START Bस्Cओम्_२,१.९.२८
SK
आत्मनि चैवं विचित्राश् च हि | BBस्_२,१.२८ |
SK
अपिच नैवात्र विवदितव्यं कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति / यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते- ऽन तत्र रथा न रथयोगो न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजतेऽ ( बृ. ४.३.१०) इत्यादिना / लोके ऽपि देवादिषु मायाव्यादिषु च स्वप्नरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते / तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति
SK
पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः / पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः / तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः-आत्मनि चेति /
SK
रथयोगाः अश्वाः
SK
END Bस्Cओम्_२,१.९.२८
SK
START Bस्Cओम्_२,१.९.२९
SK
स्वपक्षदोषाच् च | BBस्_२,१.२९ |
SK
परेषामप्येष समानः स्वपक्षे दोषः / प्रधानवादिनो ऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं साववस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः / तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा /
SK
ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते, सत्त्वरजस्तमांसि त्रयो गुणा नित्यास्तेषां साम्यावस्था प्रधाने तैरेवावयवैस्तत्सावयवमिति / नैवञ्जातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते / यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् / एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य / तर्कप्रतिष्ठानात्सावयवत्वमेवेति चेत् /
SK
एववमप्यनित्यत्वादिदोषप्रसङ्गः / अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः / तास्तु ब्रह्मवादिनो ऽप्यवशिष्टाः / तथाणुवादिनो ऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः / अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षे ऽपि समान एष दोषः / समानत्वाच्च नान्यन्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति / परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः
SK
FN: वैशेषिकाणां ह्यणुभ्यां संयुज्य ह्यणुकमेकमारभ्यते, तैस्त्रिभिर्ह्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया /
SK
किञ्च कृत्स्नप्रसक्त्यादीनां सांख्यादिपक्षे ऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वं, ऽयश्चोभयोः समो दोषःऽइति न्यायादित्याह सूत्रकारः-स्वपक्षेति / प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते-नन्विति / किं साम्यावस्था गुणानां विकारः, समुदायो वा / आद्ये तस्या न मूलप्रकृतित्वं, विकारत्वात् / द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् / अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत्, तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति-नैवमित्यादिना / इति यतो ऽतःसमानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः / प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसंभवादिति शङ्कते-तर्केति / एतद्दोषाभावे ऽपि दोषान्तरं स्यादिति परिहरति-एवमपीति / ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणो ऽपि सावयवत्वं तुल्यमित्याह-अथेत्यादिना / अणुवादे ऽपि दोषसाम्यमाह-तथेति / सांख्यवद्दोषः समान इति संबन्धः / निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा / आद्ये तत्कार्यस्य द्व्यगुणकस्यैकपरमाणुमात्रत्वापत्तिः प्रथिम्नो ऽधिकपरिमाणस्यानुपपत्तेः / न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततो ऽधिकद्रव्यं संभवतिः द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः / ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह-परिहृतस्त्विति /
SK
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम्, अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,१.९.२९
SK
START Bस्Cओम्_२,१.१०.३०
SK
१० सर्वोपेताधिकरणम् / सू. ३०-३१
SK
सर्वोपेता च तद्दर्शनात् | BBस्_२,१.३० |
SK
एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् / तत्पुनः कथमवगम्यते परं ब्रह्मेति / तदुच्यते / सर्वोपेता च तद्दर्शनात् / सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् / कुतः / तद्दर्शनात् / यथाहि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः - ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो ऽवाक्यनादरःऽ (छा. ३.१४.४), ऽसत्यकामः सत्यसंकल्पःऽ (छा. ८.७.१), ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. १.१.९), ऽएतस्य वा अक्षरस्य प्रशासने गार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ. ३.८.९) इत्येवञ्जातीयका
SK
FN: अभ्यात्तः अभितोव्याप्तः / अवाकी वागिन्द्रियशून्यः / अनादरो निष्कामः /
SK
सर्वोपेता / मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधो ऽस्ति न वेति संदेहे न्यायस्यानाभासत्वादस्तीति पूर्वपक्षे पूर्वोक्तशक्तिमत्त्वसमर्थनादेकविषयत्वं संगतिं वदन् सिद्धान्तसूत्रं व्याचष्टे-एकस्येत्यादिना /
SK
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमित्युक्तमेवापादसमाप्तेरवगन्तव्यम् / अभ्यात्तः अभितो व्याप्तः / अवाकी वागिन्द्रियशून्यः / अनादरो निष्कामः
SK
END Bस्Cओम्_२,१.१०.३०
SK
START Bस्Cओम्_२,१.१०.३१
SK
विकरणत्वान् नेति चेत् तद् उक्तम् | BBस्_२,१.३१ |
SK
स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम्- ऽअचक्षुष्कमश्रोत्रमवागमनाःऽ (बृ.३.८.८) इत्येवञ्जातीयकम् / कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् / देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यत्मिककार्यकरणसंपन्ना एव तस्मैतस्मै कार्याय प्रभवन्तो विज्ञायन्ते / कथञ्च ऽनेति नेतिऽ (बृ. ३.९.२३) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेदिति चेत् /
SK
यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् / श्रत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् / नच यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमो ऽस्तीति / प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव / तथाच शास्त्रम्- ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णःऽ (श्वं. ३.१९) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति
SK
पूर्वपक्षन्यायमनूद्य दूषयति-विकरणत्वादिति /
SK
देवादिचेतनानां शक्तानामपि देहभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टं, अतो ब्रह्मणः शक्तत्वे ऽप्यदेहत्वान्न कर्तृत्वम् / नाप्यदेहस्य शक्तिः संभवतीति शङ्कार्थः / विकरणस्य जीवस्य कर्तृत्वासंभवे ऽपीश्वरस्य संभवतीति, ऽदेवादिवदपि लोकेऽइत्यत्रोक्तम् / तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः
SK
END Bस्Cओम्_२,१.१०.३१
SK
START Bस्Cओम्_२,१.११.३२
SK
११ प्रयोजनवत्त्वाधिकरणम्. सू. ३२-३३
SK
न प्रयोजनवत्त्वात् | BBस्_२,१.३२ |
SK
अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति / न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति / कुतः / प्रयोजनवत्त्वात्प्रवृत्तीनाम् / चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनामारभमाणो दृष्टः / किमुत गुरुतरसंरम्भाम् / भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः- ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवतिऽ (बृ. २.४.५) इति गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् / यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तित्वं परमात्मनः श्रूयमाणं बाध्येत / प्रयोजनाभावे वा प्रवृत्त्यभावो ऽपि स्यात् / अथ चेतनो ऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत / तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत / तस्मादश्लिष्टा चेतनात्सृष्टिरिति
SK
FN: बुद्ध्यपराधो विवेकाभावः /
SK
न प्रयोजनवत्त्वात् / परिवृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः / स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति संदेहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-अन्यथेत्यादिना / ईश्वरस्य फलाभावे ऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह-भवति चेति / या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः / नच दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः / किञ्च गुरुतरायासस्य फलं वाच्यमित्याह-गुरुतरेति / तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह-यदीयमपीति / अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः / ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह-अथेत्यादिना /
SK
बुद्धेरपराधो विवेकाभावः
SK
END Bस्Cओम्_२,१.११.३२
SK
START Bस्Cओम्_२,१.११.३३
SK
लोकवत् तु लीलाकैवल्यम् | BBस्_२,१.३३ |
SK
तुशब्देनाक्षेपं परिहरति / यथा लोके कस्यचिदाप्तैषणस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयो ऽनभिसंधाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव संभवन्ति एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति / न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति / नच स्वभावः पर्यनुयोक्तुं शक्यते /
SK
यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्वरस्य लीलैव केवलेयं, अपरिमितशक्तित्वात् / यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः / नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च / नचेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात्, ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम्
SK
FN: व्यतिरिक्तं लीलायाः सकाशादिति यावत् / सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः /
SK
उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे-तुशब्देनेति / व्यतिरिक्तं / लीलातिरिक्तम् / क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः / कदाचिद्राजादीनां लीलाया अपि किञ्चित् फलं सुखोल्लासादिकं संभाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह-यथा चेति / प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया / नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित्, कल्प्यतां, तत्राह-नहीति / आप्तकामत्वव्याघातादित्यर्थः / नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह-नच स्वभाव इति / कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः / यदुक्तं गुरुतरायासत्वात् फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह-यद्यपीत्यादिना / अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह-यदि नामेति / सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः / स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह-न चेयमिति /
SK
नच निष्फलसृष्टिश्रुतीनामानर्थक्यं, सफलब्रह्मधीशेषत्वेनार्थवत्त्वादियुक्तं न विस्मर्तव्यमित्यर्थः
SK
END Bस्Cओम्_२,१.११.३३
SK
START Bस्Cओम्_२,१.१२.३४
SK
वैषम्यनैर्घृण्याधिकरणम् / सू. ३४-३६
SK
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति | BBस्_२,१.३४ |
SK
पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय / नेश्वरो जगतः कारणमुपपद्यते / कुतः / वैषम्यनैर्घृण्यप्रसङ्गात् / कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीनीत्येवं विषमां सृष्टिं निर्मिमाणस्यैश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः /
SK
श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत / तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत / तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः - वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते / कस्मात् / सापेक्षत्वात् / यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च / नतु निरपेक्षस्य निर्मातृत्वमस्ति / सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते / किमपेक्षत इति चेत् / धर्माधर्मावपेक्षत इति वदामः / अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्लवरस्यापराधः / ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः / यथाहि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं क्षवति / देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्त्येवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति / कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति / तथाहि दर्शयति श्रुतिः - ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौ.ब्रा. ३.८) इति / ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽ (बृ. ३.२.१३) इति च / स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतत्वं च दर्शयति- ऽये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्ऽ (भ.गी. ४.११) इत्येवञ्जातीयका
SK
FN: पृथग्जनः पामरः / यं जनुमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः /
SK
वैषम्यनैर्घृण्ये न / निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः / स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसंगत्या पूर्वपक्षयति-पुनश्चेत्यादिना / ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोर्ऽथः / पृथग्जनः पामरः, ऽनिरवद्यं निरञ्जनम्ऽइति श्रुतिः, ऽन मे द्वेष्यो ऽस्ति न प्रियःऽइति स्मृतिः / स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः / निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात्, न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति-एवं प्राप्त इत्यादिना / नच सापेक्षत्वे अनीश्वरत्वं, सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् / ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह-ईश्वरस्तु पर्जन्यवदिति /
SK
साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यं, अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः / यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः / नच कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यं, अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् / अतो ऽनवद्य ईश्वर इति भावः
SK
END Bस्Cओम्_२,१.१२.३४
SK
START Bस्Cओम्_२,१.१२.३५
SK
न कर्माविभागाद् इति चेन् नानादित्वाद् | BBस्_२,१.३५ |
SK
ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् / सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत / अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम / प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणो ऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् /
SK
नैष दोषः / अनादित्वात्संसारस्य / भवेदेष दोषो यद्यादिमान्संसारः स्यात् / अनादौ तु संसारे बीजाङ् कुरवद्धेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते
SK
प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात्, तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः-न कर्मेति / प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह-सृष्ट्युत्तरेति /
SK
आद्या सृष्टिरित्युपलक्षणम् / आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् / परिहारः सुगमः
SK
END Bस्Cओम्_२,१.१२.३५
SK
START Bस्Cओम्_२,१.१२.३६
SK
कथं पुनरवगम्यते ऽनादिरेष संसार इति / अत उत्तरं पठति -
SK
उपपद्यते चाप्य् उपलभ्यते च | BBस्_२,१.३६ |
SK
उपपद्यते च संसारस्यानादित्वम् / आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् / नचेश्वरो वैषम्यहेतुरित्युक्तम् / नचाविद्या केवला वैषम्यस्य कारणं, एकरूपत्वात् / रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् / नच कर्मान्तरेण शरीरं संभवति, नच शरीरमन्तरेण कर्म संभवतीतीतरेतराश्रयत्वप्रसङ्गः / अनादित्वे तु बीजाङ् कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति / उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः / श्रुतौ तावत् ऽअनेन जीवेनात्मनाऽ (छा. ६.३.२) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति / आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणादधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे ऽभिलप्येत / नच धारयिष्यतीत्यतो ऽभिलप्येत / अनागताद्धि संन्धादतीतः संबन्धो बलवान्भवति, अभिनिष्पन्नत्वात् / ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्ऽ (ऋ.सं १०.१९०.३) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति / स्मृतावप्यनादित्वं संसारस्योपलभ्यते- ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽ (गी. १५.३) इति / पुराणे चातीतानागतानां च कल्पनां न परिमाणमस्तीति स्थापितम्
SK
प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति-कथं पुनरिति / उपपत्तिसहतश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति-उपपद्यत इति / हेतुं विनैव सार्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः / ननु सुखादिवैषम्ये ईश्वरो ऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति-नचेश्वर इत्यादिना / कस्तर्हि हेतुः, तत्राह-रागादीति / रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः / तस्मादविद्यासहकारिचत्वेन क्लेशकर्मणामनादिप्रवाहो ऽङ्गीकर्तव्य इति भावः / किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न संभवति, हेत्वभावात् / नच कर्म हेतुः, शरीरात्प्राक्कर्मासंभवात् / तस्मात् कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह-नचेति / सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणो ऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह-नच धारयिष्यतीति / ऽगृहस्थः सदृशीं भार्यामुपेयात्ऽइत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः / अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते / ज्ञानं विनान्तो ऽपि नास्ति / नाप्यादिरुपलभ्यते, असत्त्वादेव / नच संप्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः / संसारस्यानादित्वे ऽपि मिथ्यात्वात् ऽएकमेवाद्वितीयम्ऽइत्यवधारणमुपपन्नम् / तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,१.१२.३६
SK
START Bस्Cओम्_२,१.१३.३७
SK
१३ सर्वधर्मोपपत्त्यधिकरणम्. सू. ३७
SK
सर्वधर्मोपपत्तेश् च | BBस्_२,१.३७ |
SK
चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः / इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति / यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ऽसर्वज्ञं सर्वशक्ति महामायं च ब्रह्मऽ इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति
SK
सर्वधर्मोपपत्तेश्च / निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति संदेहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात्, नतूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह-चेतनमिति / विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धं, अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात्, सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः / यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम्, ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसंधायाह-सर्वज्ञं सर्वशक्तीति / महामायमिति /
SK
कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् / तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम्
SK
END Bस्Cओम्_२,१.१३.३७
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यशङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य प्रथमः पादः समाप्तः
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयस्याध्यायस्य प्रथमपादः समाप्तः
SK
// इति द्वितीयाध्यायस्य सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः //
SK
द्वितीयाध्याये द्वितीयः पादः //
SK
सांख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः / यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम्
SK
START Bस्Cओम्_२,२.१.१
SK
रचनानुपपत्तेश् च नानुमानं | BBस्_२,२.१ |
SK
यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तं न तर्क्शास्त्रवत् देवलाभिर् युक्तिभिः कंचित् सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् / तथापि वेदान्तवाक्यम् अपि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि सांख्यादिदर्शनानि निराकरणीयाणीति तदर्थः परः पादः प्रवर्तते / वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात् तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतं तद्द्यभ्यर्हितं परपक्षप्रत्याख्यानाद् इति / ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनम् एव केवलं कर्तुं युक्तं किं परपक्षनिराकरणेन परद्वेषकरेण / बाढम् एवम् / तथापि महाजनपरिगृहीतानि महान्ति सांख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत् केषांचिन् मन्दमतीनाम् एतान्य् अपि सम्यग्दर्शनायोपदेयानीत्यपेक्षा / तथा युक्तगाढत्वसंभवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेष्वित्यतस्तदसारतोपपादनाय प्रयत्यते / ननु ऽईक्षतेर्नाशब्दम्ऽ (ब्र,सू. १.१.५), ऽकामाच्च नानुमानापेक्षाऽ (ब्र,सू. १.१.१८) ऽएतेन सर्वे व्याख्याता व्याख्याताःऽ (ब्र,सू. १.४.२८) इति च पूर्वत्रापि सांख्यादिपक्षप्रतिक्षेपः कृतः, किं पुनः कृतकरणेनेति / तदुच्यते- सांख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुणेनैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्यनाभासं न सम्यग्व्यख्यानमित्येतावत्पूर्वं कृतम् / इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः / तत्र सांख्या मन्यन्ते- यथा घटशरावादयो भेदा मृदात्मनान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, तथा सर्व एव बाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्विका भवितुमर्हन्ति / यत्तत्सुखदुःखमोहात्मकं सामान्यं तत्त्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना विवर्तत इति / तथा परिणामादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिनुते / तत्र वदामः - यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किञ्चिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम् / गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते / तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यम्, आध्यत्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः संभाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् / लोष्टपाषाणादिष्वदृष्टत्वात् / मृदादिष्वपि कुमभकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते तद्वत्प्रधानस्यापि चेतनान्तरादिष्ठितत्वप्रसङ्गः / नच मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयं न बाह्यकुम्भकारादिव्यपाश्रयेणेति किञ्चिन्नियामकमस्ति / नचैवं सति किञ्चिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते चेतनकारणसमर्पणात् / अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमन्तव्यं भवति / अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति / नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः / तन्निमित्तत्वप्रतीतेश्च / शब्दाद्यविशेषे ऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः / तथा परिमितानां भेदानां मूलाङ् कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपीर्वकत्वप्रसङ्गः परिमितत्वविशेषात् / कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम्
SK
FN: अपदेशेन व्याजेन /
SK
ब्रह्मणि सर्वधर्मोपपत्तिवत् प्रधाने ऽपि तदुपपत्तिमाशङ्क्य निराचष्टे-रचनानुपपत्तेश्च नानुमानम् / ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितं, ततः परपक्षनिरासात्मको ऽयं पादो ऽस्मिन् शास्त्रे न संगतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति-यद्यपीति / परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह-तथापीति / तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह-वेदान्तार्थेति / वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् / ननु रागद्वेषकरणत्वात् परमतनिराकरणं न कार्यमिति शङ्कते-नन्विति / तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,
SK
तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादो ऽस्मिन् शास्त्रे संगतः, संगतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसंधायोक्ताङ्गीकारेण समाधत्ते-बाढमित्यादिना / अपदेशेन व्याजेन / मन्दमतीनाम् तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः / स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ / नाप्ययं द्वेषः / परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्तवनिर्णयेच्छया कृत इति मन्तव्यम् / पौनरुक्त्यम् शङ्कते-नन्वीक्षतेरिति / पूर्वं सांख्यादीनां श्रुत्यर्थानुग्राहकर्तकनिरासादश्रौतत्वमुक्तम्, संप्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह-तदुच्यतैति / प्रधानमचेतनं जगदुपादानमिति सांख्यसिद्धान्तो ऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति संदेहे ऽसर्वधर्मोपपत्तेश्चऽइत्युक्तधर्माणां प्रधाने संभवात्तदेवोपादानमित्याक्षेपसंगत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह-तत्र साख्याइति / स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात् पादयोःसंगतिः / परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसंगतिः / पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् / मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसंगतिरिति विवेकः / भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह-यथेति / सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तदन्वितत्वात्, घटादिवदित्यनुमानमाह-तथेति / किमर्थं प्रधानं परिणमते, तत्राह-चेतनस्येति / अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केनचिच्चेतनेन प्रेर्यत इत्यर्थः / तदुक्तम्-ऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽइति / अनुमानान्तराणि तैरुक्तानि स्मारयति-तथेति / उक्तं हि-ऽभेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च / कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य //
SK
ऽइति / अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् / शिष्टानि व्याख्यायन्ते / तथा हि-क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात्, घटवत् / न च दृष्टान्ते साध्यवैकल्यं, घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदो ऽप्यव्यक्तत्वात् / तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् / किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति / एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति / एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः / सिद्धान्तयति-तत्र वदाम इति / किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा / आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् / द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह-यदीति / स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् / ननु दृष्टः क्वचिदित्यन्वयः / स्वतन्त्रपदार्थमाह-चेतनानधिष्टितमिति / परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह-गेहेति / इदं जगद्च्चेतनाधिष्चिताचेतनप्रकृतिकं, कार्यत्वात्, गेहवदिति प्रयोगः / विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह-तथेति / बाह्यं पृथिव्यादि भोग्यम्, आध्यात्मिकं शरीरादि च भोगाधिष्छानमिति विभागः / प्रतिनियतो ऽसाधारणो ऽवयवानां विन्यासो रचना यस्य तदित्यर्थः / इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् / न कथमपीत्यर्थः / यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह-लोष्टेति / चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः / किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात्, मृदादिवदित्याह-मृदिति / ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात्, नतु चेतनाधिष्ठितत्वं व्यापकं, तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात्, तथा च परिणामित्वे ऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्टितत्वेनेत्याशङ्क्य निषेधति-नचेति / महानसदृष्टान्ते ऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः / किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात् प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह-न चैवं सतीति / सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह-अन्वयाद्यनुपपत्तेश्चेति / नानुमानं युक्तमित्यर्थः / आदिशब्दः परिमाणादिग्रहार्थः / श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च / नहि निमित्तनैमित्तिकयोरभेदेन योगो ऽस्ति, दण्डघटयोरदर्शनादित्यर्थः / किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात् तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् / न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह-शब्दादीति / विषयस्यैकत्वे ऽपि पुरुषवासनावैचित्र्यात् कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यते ऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः / एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति-तथेति / बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमामसि सिद्ध्यन्ति, एकस्मिन् संसर्गासंभवान्न ब्रह्मसिद्धिरिति सांख्यस्य भावः / किमिदं परिमितत्वं, न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः / नापि कालतः परिच्छेदः, सांख्यैः कालस्यानङ्गीकारात्,
SK
अविद्यागुणसंसर्गेण सिद्धसाधनाच्च / नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह-सत्त्वेति / यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति / तन्न / ब्रह्मणि मायायां वा समाप्तिसंभवात् / नच यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्टानदर्शनादित्याह-कार्येति / एतेनाविभागो ऽपि व्याख्यातः / यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरं, तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः / एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणानचेतनमेव प्रकृतिरिति निरस्तम् / चेतनाधिष्ठिताचेतनप्रकृतिकत्वे ऽपि सादृश्योपपत्तेः, ऽन विलक्षणत्वात्ऽइत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च / एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसंभवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः
SK
END Bस्Cओम्_२,२.१.१
SK
START Bस्Cओम्_२,२.१.२
SK
प्रवृत्तेश् च | BBस्_२,२.२ |
SK
आस्तां तावदियं रचना / तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात्प्रच्युतिः सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिर्विशिष्टकार्याभिमुखप्रवृत्तिता सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च / नहि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते दृष्टाच्चादृष्टिसिद्धिः / अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति /
SK
ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा /
SK
सत्यमेतत् / तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिदृष्टा / नत्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा / किं पुनरत्र युक्तम् / यस्मिन्प्रवृत्तिर्दृष्टा तस्य सोत यतसंयुक्तस्य दृष्टा तस्य सेति /
SK
ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तमुभयोः प्रत्यक्षत्वात् / नतु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः / प्रवृत्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः केवलाचेतनरथादिवैलक्षण्यं जीवदेहस्य दृष्टमिति / अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लौकायतिकाः प्रतिपन्नाः / तस्मादचेतनस्यैव प्रवृत्तिरिति /
SK
तदभिधीयते- न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति / भवतु तस्यैव सा / सा तु चेतनाद्भवतीति ब्रूमः / तद्भावे भावात्तदभावे चाभावात् / यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशलक्षणा विक्रियानुपलभ्यमानापि च केवले ज्वलने ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत् / लौकायतिकानामपि चेतन एव देहो ऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् /
SK
ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् /
SK
न / अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः / यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितो ऽप्ययसः प्रवर्तको भवति / यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तकाभवन्ति / एवं प्रवृत्तिरहितो ऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम् /
SK
एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् /
SK
न / अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् / तस्मात्संभवति प्रवृत्तिः सर्वज्ञकारणत्वे नत्वचेतनकारणत्वे
SK
FN: उभयोः प्रवृत्तितदाश्रययोः /
SK
स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यं, तस्य सृष्ट्यर्थं-प्रवृत्तेःअनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् / रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह-साम्येति / गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित् कार्यं भवति प्रलयाभावप्रसङ्गात् / किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः / गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदित्याह-सापीति / विपक्षे स्वतन्त्रे प्रवृत्यनुपपत्तिरित्यर्थः / केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते / अस्यापि गुणेषु व्यभिचारः / कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति ऽप्रवृत्तेश्चऽइति सूत्रेण ज्ञापितम् / ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शने ऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह-दृष्टाच्चेति / अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः / ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति सांख्यः शङ्कते-नन्विति / शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति-सत्यमिति / तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् / , तत्राह-तथापीति / केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः संबन्धात्सृष्टिप्रवृत्तिरिति भावः / इमं वेदान्तसिद्धान्तं सांख्यो दूषयति-न त्विति / सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा / न त्वचेतनसंबन्धेनापिचेतनस्य क्वचित्प्रवृत्तिर्दृष्टा / तस्मान्न चेतनात्सृष्टिरित्यर्थः / मतद्वयं श्रुत्वा मध्यस्थः पृच्छति-किं पुनरिति / यस्मिन्नचेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं सांख्यमतं साधु उत येन चेतनेनाश्वादिना प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः / सांख्य आह-नन्विति / उभयोः / प्रवृत्तितदाश्रययोरित्यर्थः / दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः / आत्मनो ऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह-प्रवृत्तीति / जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः / जीवद्देहः सात्मकः प्राणादिमत्वात्, व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः / देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात्,
SK
रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम्,
SK
सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः / अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः / आत्मनो ऽप्रत्यक्षत्वे चार्वाकाणां भ्रमो ऽपि लिङ्गमित्याह-अत एवेति / अप्रत्यक्षत्वादेवेत्यर्थः / देहान्यात्मनः प्रत्यक्षत्वे भ्रमासंभवादिति भावः / दर्शनात् / प्रवृत्तिचैतन्ययोरिति शेषः / प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति-तदभिधीयत इति / रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेको स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि संमतमित्याह-लौकायतिकानामपीति / यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते-नन्विति / मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति-नेति / वस्तुत एकत्वे ऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह-न / अविद्येति / अविद्यकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः संबन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः
SK
END Bस्Cओम्_२,२.१.२
SK
START Bस्Cओम्_२,२.१.३
SK
पयो ऽम्बुवच् चेत् तत्रापि | BBस्_२,२.३ |
SK
स्यादेतत् / यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथाच जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति /
SK
नैतत्साधूच्यते / यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे / उभयवादिप्रसिद्धे रथादवचेतने केवले प्रवृत्त्यदर्शनात् / शास्त्रं च ऽयो ऽप्सु तिष्ठन् यो ऽपो ऽन्तरो यमयतिऽ (बृ. ३.७.४), ऽएतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योन्या नद्यः स्यन्दन्तेऽ (बृ. ३.८.९) इत्येवञ्जातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति / तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः / चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः / वत्सचोषणेन च पयस आकृष्यमाणत्वात् / नचाम्बुनो ऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य / चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् / ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र.सू. २.१.२४) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् / शास्त्रदृष्ट्या तु पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते
SK
FN: साध्यवत्ता पक्षेण तुल्यत्वात् / अनुपन्यासः न विचारभूमिः /
SK
अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदिति स्थितम् / तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे-स्यादेतदित्यादिना / साध्यपक्षेति / साध्यवता पक्षेणतुल्यत्वादित्यर्थः / अनुपन्यासः / न व्यभिचारभूमिरिति यावत् / क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह-चेतनायाश्चेति / उपदर्शितम् / अनुमानागमाभ्यामिति शेषः / सूत्रकारस्य ऽक्षीरवद्धिऽ ऽतत्रापिऽइति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह-उपसंहारेति
SK
END Bस्Cओम्_२,२.१.३
SK
START Bस्Cओम्_२,२.१.४
SK
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् | BBस्_२,२.४ |
SK
सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम् / नतु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्तितमस्ति / पुरुषस्तूदासीनो न प्रवर्तको न निवर्तक इत्यतो ऽनपेक्षं प्रधानं, अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम् / ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते
SK
अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तं, तद्व्याचष्टे-सांख्यानामित्यादिना / प्रधानव्यतिरेकेण कर्मणो ऽनवस्थितेः पुरुषस्योदासीनत्वात् कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः / कर्मणो ऽपि प्रधानात्मकस्याचेतनत्वात् सदासत्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः
SK
END Bस्Cओम्_२,२.१.४
SK
START Bस्Cओम्_२,२.१.५
SK
अन्यत्राभावाच् च न तृणादिवत् | BBस्_२,२.५ |
SK
स्यादेतत् / यथा तृणपल्लवोदादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमत एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति / कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते / निमित्तान्तरानुपलम्भात् / यदि हि किञ्चिन्निमित्तमुपलभेमहि ततो यथाकामं तेन तृणाद्युपादाय क्षीरं संपादयेमहि, नतु संपादयामहे /
SK
तस्मात्स्वाभाविकस्तृणादेः परिणामस्तथा प्रधानस्यापि स्यादिति /
SK
अत्रोच्यते- भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परणामो यदि तृणादेरपि स्वाभाविकः परिणामो ऽभ्युपगम्येत / नत्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः / कथं निमित्तान्तरोपलब्धिः, अन्यत्राभावात् / धेन्वैव ह्युपयुक्तं तृणादि क्षीरो भवति न प्रहीणमनडुदाद्युपयुक्तं वा / यदि हि निर्निमित्तमेतत्स्याद्धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरीभवेत् / नच यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्निमित्तं भवति / भवति हि किञ्चित्कार्यं मानुषसंपाद्यं किञ्चिद्दैवसंपाद्यम् / मनुष्या अपि शक्नुवत्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम् / प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति / ततश्च प्रभूतं क्षीरं लभन्ते / तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः
SK
FN: प्रहीणं नष्टम् /
SK
पुनरपि दृष्टान्तबलात् प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः-अन्यत्रेत्यादिना / पृच्छति-कथमिति / उत्तरम्-निमित्तान्तरेति / धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति-अत्रोच्यत इति / प्रहीणं नष्टम् / यदुक्तं क्षीरस्य स्वेच्छया संपादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह-नच यथाकाममिति
SK
END Bस्Cओम्_२,२.१.५
SK
START Bस्Cओम्_२,२.१.६
SK
अभ्युपगमे ऽप्य् अर्थाभावात् | BBस्_२,२.६ |
SK
स्वाभाविकी प्रधानप्रवृत्तिर्न भवतीति स्थापितम् / अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषो ऽनुषज्येतैव / कुतः / अर्थाभावात् / यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किञ्चिन्नापेक्षत एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यते इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत / स यदि ब्रूयात्सहकार्येव केवलं नापेक्षते न प्रयोजनमपीति / तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यं भोगो वा स्यादपवर्गो वोभयं वेति / भोगश्चेत्कीदृशो ऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् / अनिर्मोक्षप्रसङ्गश्च अपवर्गश्चेत्प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् / शब्दाद्यनुपलब्धिप्रसङ्गश्च / उभयार्थताभ्युपगमे ऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव / नचौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः / नहि प्रधानस्याचेतनस्यौत्सुक्यं संभवति / नच पुरषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् / दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिस्तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव / तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्
SK
FN: अर्थाभावात् पुरुषार्थाभावप्रसङ्गात् / सुखदुःख प्राप्तिपरिहाररूपातिशयशून्यस्य / मीयन्ते भुज्यन्ते इति मात्रा भोगाः /
SK
प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रभृत्यभ्युपगमे पुरुषार्थस्यापेक्षाभावप्रसङ्गादित्येकोर्ऽथः /
SK
तत्रेष्टापत्तिं निरस्यति-इत्यतः प्रधानमिति / उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः / अर्थासंभवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह-स यदीत्यादिना / प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह-तथापीति / कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः / किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात् प्रवृत्तिवैयर्थ्यं, भोगाभावप्रसङ्गश्चेत्यर्थः / तृतीयं दूषयति-उभयार्थतेति / मीयन्ते भुज्यन्त इति मात्रा भोग्याः / औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति-नचेति / औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः / अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात्, अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात्, तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात् प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् / न / शक्त्योर्नित्यत्वात् सृष्टिनित्यत्वापत्तिरित्याह-दृक्शक्तीति
SK
END Bस्Cओम्_२,२.१.६
SK
START Bस्Cओम्_२,२.१.७
SK
पुरुषाश्मवद् इति चेत् तथापि | BBस्_२,२.७ |
SK
स्यादेतत् / यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिशक्तिहीनः पङ्गुरपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिहीनमन्धमधिष्ठाय प्रवर्तयति / यथा वायस्कान्तो ऽश्मा स्वयमप्रवर्तमानो ऽप्ययः प्रवर्तयति / एवं पुरुषः प्रधानं प्रवर्तयिष्यतीति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम् /
SK
अत्रोच्यते- तथापि नैव दोषान्निर्मोक्षो ऽस्ति / अभ्युपेतहानं तावद्दोष आपतति / प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात्, पुरुषस्य न प्रवर्तकत्वानभ्युपगमात् / कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् / पङ्गुरपि ह्यन्धं वागादिभिः पुरुषं प्रवर्तयति / नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारो ऽस्ति, निष्क्रियत्वाच्च / नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत् / संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् / अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः, परिमार्जनाद्यपेक्षा चास्यस्तीत्यनुपन्यासः पुरुषाश्मवदिति / तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संबन्धयितुरभावात्संबन्धानुपपत्तिः / योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः / पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः / परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यं मायाव्यपाश्रयं च प्रवर्तकत्वमित्यस्त्यतिशयः
SK
पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति-पुरुषाश्मवदिति चेत्तथापि / प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं सांख्यंप्रत्याह-कथं चेति / पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् / प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः संनिधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसंनिधिश्चेति व्यापारो ऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः / ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः संबन्ध इत्यत आह-योग्यतेति / चिज्जडत्वरूपाया योग्यताया नित्यत्वात्संबन्धनित्यत्वापत्तिरित्यर्थः / यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगो ऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षो ऽपि फलाभावेन दूषणीय इत्याह-पूर्ववच्चेति / सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह-परमात्मेति / सांख्यमते उभयं विरुद्धं सत्यत्वात् / अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः
SK
END Bस्Cओम्_२,२.१.७
SK
START Bस्Cओम्_२,२.१.८
SK
अङ्गित्वानुपपत्तेश् च | BBस्_२,२.८ |
SK
इतश्च न प्रधानस्य प्रवृत्तिरवल्पते / यद्धि सत्त्वरजस्तमसामान्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानं सा प्रधानावस्था / तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गिभावानुपपत्तेः / बाह्यस्य च कस्यचित्क्षोभयितुरभावाद्गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात्
SK
किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी / आद्ये दोषमाह-तस्यामिति / अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात्, ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः / द्वितीयं दूषयति-बाह्यस्येति / चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः
SK
END Bस्Cओम्_२,२.१.८
SK
START Bस्Cओम्_२,२.१.९
SK
अन्यथानुमितौ च ज्ञशक्तिवियोगात् | BBस्_२,२.९ |
SK
अथापि स्यादन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोषः प्रसज्येत / नह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात् / कार्यवशेन तु गुणानां स्वभावो ऽभ्युपगम्यते /
SK
यथा यथा कार्योत्पाद उपपद्यते तथा तथैषां स्वभावो ऽभ्युपगम्यते / चलं गुणवृत्तमिति चास्त्यभ्युपगमः / तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति / एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव / ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत /
SK
चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् / वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् / भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन्निति प्रसज्यत एवायमनन्तरो ऽपि दोषः
SK
गुणानां मिथो ऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम्, तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति-अन्यथेति / अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते / न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह-चलं गुणवृत्तमिति /
SK
पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति-एवमपीति / कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः / अङ्गीकारं त्यजति-वैषम्येति
SK
END Bस्Cओम्_२,२.१.९
SK
START Bस्Cओम्_२,२.१.१०
SK
विप्रतिषेधाच् चासमञ्जसम् | BBस्_२,२.१० |
SK
परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः / क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश / तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहङ्कीरात् / तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति क्वचिदेकमिति / प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या / तस्मादप्यसमञ्जसं सांख्यानां दर्शनमिति /
SK
अत्राह- नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् / एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यं स्यात् /
SK
यदि चेतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यां तप्यतापकाभ्यां न निर्मुच्यत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् / नह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते / यो ऽपिजलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादन्यो विशेषा आविर्भावतिरोभावरूपेण नित्या एवेति समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः / प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके / तथाहि- अर्थी चार्थश्चान्योन्यभिन्नौ लभ्येते / यद्यर्थिनः स्वतो ऽन्योर्ऽथो न स्यात्, यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात्, यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति / अप्राप्ते ह्यर्थे ऽर्थिनो ऽर्थित्वं स्यादिति / तथार्थास्याप्यर्थत्वं न स्यात् / यदि स्यात्स्वार्थत्वमेव स्यात् / नचैतदस्ति / संबन्धिशब्दो ह्येतावर्थी चार्थश्चेति / द्वयोश्च संबन्धिनोः संबन्धः स्यान्नैकस्यैव / तस्माद्भिन्नावेतावर्थार्थिनौ / तथानर्थानर्थिनावपि / अर्थिनो ऽनुकूलोर्ऽथः प्रतिकूलो ऽनर्थस्ताभ्यामेकपर्यायेणोभाभ्यां संबध्यते / तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थानर्थावनर्थं एवेति तापकः स उच्यते / तप्यस्तु पुरुषो य एकः पर्यायेणोभाभ्यां संबध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः / जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति /
SK
अत्रोच्यते- न / एकत्वादेव तप्यतापकभावानुपपत्तेः / भवेदेष दोषो यद्येकात्मतायां तप्यतापकावान्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् / नत्वेतदस्त्येकत्वादेव / नह्यग्निरेकः सन्स्वमात्मानं दहति प्रकाशयति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च / किं कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः संभवेत् / क्व पुनरयं तप्यतापकभावः स्यादिति /
SK
उच्यते- किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यस्तापकः सवितेति /
SK
ननु तप्तिर्नाम दुःखं सा चेतयितुर्नाचेतनस्य देहस्य / यदि हि देहस्यैव तप्तिः स्यात्सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति /
SK
उच्यते- देहाभावे ऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा / नच त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते / नापि देहचेतनयोः संहतत्वमशुद्ध्यादिदोषप्रसङ्गात् / नच तप्तेरेव तप्तिमभ्युपगच्छति /
SK
कथं तवापि तप्यतापकभावः सत्त्वं तप्यं तापकं रज इति चेत् /
SK
न / ताभ्यां चेतनस्य संहतत्वानुपपत्तेः / सत्त्वानुरोधित्वाच्चेतनो ऽपि तप्यत इवेति चेत्, परमार्थतस्तर्हि नैव तप्यत इत्यापततीवशब्दप्रयोगात् / न चेत्तप्यते नेवशब्दो दोषाय / नहि डुण्डुभः सर्पं इवेत्येतावता सविषो भवति / सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति / अतश्चाविद्याकृतो ऽयं तप्यतापकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति / नैवं सति ममापि किञ्चिद्दुष्यति / अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्षः प्रसज्येत , नित्यत्वाभ्युपगमाच्च तापकस्य / तप्यतापकशक्त्योर्नित्यत्वे ऽपि सनिमित्तसंयोगापेक्षत्वापत्तेः संयोगनिमित्तादर्शननिवृत्तावात्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्न इति चेत् /
SK
न / अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् / गुणानां चोद्भावाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्सांख्यस्यैवानिर्मोक्षो ऽपरिहार्यः स्यात् / औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तेर्विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादनिर्मोक्षशङ्का स्वप्ने ऽपि नोपजायते / व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न चोदयितव्यः परिहर्तव्यो वा भवति
SK
FN: त्वड्यात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, सर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि / ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश / बुद्धिरहङ्कारो मन इति त्राणि / एकमिति बुद्धिरेव /
SK
सूत्रं व्याचष्टे-परस्परेति / त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणं, पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्टमनश्चेत्येकादश / बुद्धिरहङ्कारो मन इति त्रीणि / एकमिति बुद्धिरेव / एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह-प्रसिद्ध इति / तस्माद्भ्रान्तिमूलत्वात्सांख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् / स्वमतासामञ्जस्यमसहमानः सांख्यः प्रत्यवतिष्ठते-अत्राहेति / तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः / विवृणोति-एकं हीति / तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः / ननु तयोरुपादानैक्ये ऽपि मिथो भेदो ऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह-यदि चेत्यादिना / ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह-यो ऽपीति / किञ्च भेदाङ्गीकारे ऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह-प्रसिद्धश्चेति / अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह-यदीति / अर्थिनो ऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनो ऽसत्त्वादर्थत्वाभावःप्रसज्येतेत्याह-तथार्थस्यापीति /
SK
प्रसङ्गस्येष्टत्वं निराकरोति-न चैतदस्तीति / अर्थत्वं हि कामनाविषयत्वं, तच्च काम्यादन्यस्य कामयितुरसत्वान्न स्यात् / न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् / तस्माद्भेदो ऽङ्गीकार्य इत्यर्थः / इतश्च भेद इत्याह-संबन्धीति / तथानर्थानर्थिनावपि भिन्नावित्यन्वयः / अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति-अर्थिनो ऽनुकूल इति / अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह-जात्यन्तरेति / तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः / यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते / तदुक्तम्-ऽसैव च बध्यते मुच्यते चऽइति / सिद्धान्तयति-अत्रेति / किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा / नाद्य इत्याद्याह-न / एकत्वादेवेति / दोषत्वमिति शेषः / तस्या अदोषत्वं विवृणोति-भवेदित्यादिना / एतत्त्वात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः / यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते-किंन पश्यसीति / देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते-नन्विति / अचेतनस्यैव देहस्य तप्तिर्नेति वदता सांख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किंवा देहसंहतस्य, उत तप्तेः, आहोस्वित् सत्त्वस्य / नाद्य इत्याह-उच्यत इति / न द्वितीयतृतीयवित्याह-नापीत्यादिना / चतुर्थं शङ्कते-सत्त्वमिति / सत्तवरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति-न / ताभ्यामिति / असङ्गत्वे ऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते-सत्त्वेति / तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह-परमार्थत इति / इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते-इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत् कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति-न चेदिति / पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः / मिथ्यासादृश्यमेव दोष इति चेत्, नेत्याह-नहीति / सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः / सांख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव संपन्नमित्यर्थः / यदि मिथ्यातप्यत्वाङ्गीकारे ऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् / अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्तयोगादित्याह-अथेत्यादिना / किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह-नित्यत्वेति / अत्र सांख्यः शङ्कते-तप्येति / सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः / मोक्षस्तप्त्यभावः / निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति-नेति / तमसो निवृत्त्यभावे ऽपिविवेकेनोपरमान्मोक्ष इत्यत आह-गुणानां चेति / ऽचलं गुणवृत्तम्ऽइत्यङ्गीकारादिति भावः / परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति-औपनिषदस्य त्विति / वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः / व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः
SK
END Bस्Cओम्_२,२.१.१०
SK
START Bस्Cओम्_२,२.२.११
SK
२ महद्दीर्घाधिकरणम् / सू. ११
SK
प्रधानकारणवादो निराकृतः / परमाणुकारणवाद इदानीं निराकर्तव्यः / तत्रादौ तावद्यो ऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते / तत्रायं वैशेषिकाणामभ्युपगमः - कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्ययादर्शनाच्च / तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वे ऽभ्युपगम्यमाने कार्ये ऽपि जगति चेतन्यं समवेयात् / तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति / इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति-
SK
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् | BBस्_२,२.११ |
SK
एषा तेषां प्रक्रिया- परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमण्डल्यपरिमाणश्च तिष्ठन्ति / ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते / कारणगुणाश्च कार्ये गुणान्तरम् / यदा द्वौ परमाणू द्व्यणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शक्लादीनपरानारभन्ते / परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् / अणुत्वह्रस्वत्वे हि द्व्यमुकवर्तिनी परिमाणे वर्णयन्ति / यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् / अणुत्वह्रस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वादीर्घत्वपरिमाणयोगाभ्युपगमात् /
SK
यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्यमारभते तदापि समानैषा योजना / तदेवं यथा परमाणोः परिमण्डलात्सतो ऽणु ह्रस्वं च द्व्यणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलम्, यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो ह्रस्वम्, एवं चेतनाद्ब्रह्मणो ऽचेतनं जगज्जनिष्यत इत्यब्युपगमे किं तव च्छिन्नम् / अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादीत्यतो नारम्भकाणि कारणगतानि पारिमण्डल्यादीनीत्यभ्युपगच्छामि, नतु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत / नह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणो ऽस्ति, चेतनाप्रतिषेधमात्रत्वात् / तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति /
SK
नैवं मंस्थाः / यथा कारणे विद्यमानानामपि पारिमाण्डल्यादिनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् / नच परिमाणान्तरक्रान्तत्वं पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः / आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् / नच परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् / ऽकारणबहुत्वात्कारणमहत्वात्प्रचयविशेषाच्च महत्ऽ (वै. सू. ७.१.९) ऽतद्विपरीतमणुऽ (७.१.१० ) ऽएतेन दीर्घत्वह्रस्वत्वे व्याख्यातेऽ (७.१.१७) इति हि काणभुजानि सूत्राणि / नच संनिधानविशेषात्कुतश्च्त्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत, द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायविशेषात् / तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं, तथा चेतनाया अपीति द्रष्टव्यम् / संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचारः / द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेत् /
SK
न / दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात् / नच द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति / सूत्रकारो ऽपि भवतां द्रव्यस्य गुणमुदाजहार- ऽप्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यतेऽ (वै. सू. ४.२.२) इति / यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन्संयोगो ऽप्रत्यक्ष एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् / प्रत्यक्षं हि शरीरम् / तस्मान्न पाञ्चभौतिकमिति / एतदुक्तं भवति- गुणश्च संयोगो द्रव्यं शरीरम् / ऽदृश्यते तुऽ (ब्र. सू. २.१.६) इति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता /
SK
नन्वेवं सति तेनैवैतद्गतम् /
SK
नेति ब्रूमः / तत्सांख्यं प्रत्युक्तम्, एतत्तु वैशेषिकं प्रति /
SK
नन्वतिदेशो ऽपि समानन्यायतया कृतः ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽ (ब्र.सू. २.१.१२) इति / सत्यमेतत् / तस्यैव त्वयं वैशेषिकप्रक्रियारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः
SK
FN: परमाणुः परिमण्डलः तद्गतं परिमाणं पारिमाण्डल्यम् / द्वे द्वे इति पठितव्यम् /
SK
वृत्तानुवादेन ऽमहद्दीर्घवत्ऽइति स्वमतस्थापनात्मकाधिकरणस्य संगतिमाह-प्रधानेति / यद्यपि सांख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे संगतत्वात् तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तं, तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणो ऽपि नोपादानत्वमिति दोषो दृष्टान्तसंगतिलाभादत्र समाधीयत इत्यर्थः / चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः / स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति संदेहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे-एषेत्यादिना / यद्यपि ऽन विलक्षणत्वात्ऽइत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता / प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह-यदा द्वाविति / परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः / व्यभिचारस्थलान्तरमाह-यदापि द्वे इति / द्वे द्वे इति शब्दद्वयं पठितव्यम्, एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् / प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः / सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः / यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते-यदापि बहव इति / कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसंख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः / एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह-तदेवमिति / परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् / नियतप्रक्रियामाश्रित्य व्यभिचारमाह-यथा वेति / अणुह्रस्वेभ्यो द्व्यणुकेभ्यो ऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः / सूत्रे वाशब्दश्चार्थो ऽनुक्ताणुसमुच्चयार्थः / तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना / तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः / दृष्चान्तवैषम्यं शङ्कते-अथ मन्यस इति / अचेतनैव विरोधिगुण इत्यत आह-न ह्यचेतनेति / कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह-मैवमिति / अङ्गीकारं त्यजति-नचेति / उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः / ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह-आरब्धमपीति / सहोत्पत्तावपसिद्धान्तः / अतो विरोध्यभावः सिद्ध इति भावः / अणुत्वाद्यारम्भे व्यग्रत्वात् पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति-नचेति / व्यग्रत्वमन्यथासिद्धम् / तत्र हेतुः-परिमाणन्तरस्येति / अन्यहेतुकत्वे सूत्राण्युदाहरति-कारणेति / कारणानां द्व्यणुकानां बहुत्वात् त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वं, द्वितूलपिण्डारब्धे ऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः / महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसंख्यया द्व्यणुके भवतीत्याह-तदिति / यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायि कारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति-एतेनेति / अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वसिद्धमिति भावः / तेषां संनिधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह-नचेति / पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः / तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसंनिधिर्वा न हेतुरित्युक्तिफलमाह-तस्मादिति / यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारे ऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दं, चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषुविजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् / तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् / तत्रोदाहणान्तरमाह-संयोगाच्चेति / ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यं, तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम्, न संयोगस्य गुणस्योदाहरणमिति शङ्कते-द्रव्य इति / गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशे ऽयं दृष्टान्त इति परिहरति-नेति / अनियमः कणादसंमत इत्याह-सूत्रकारो ऽपीति / एतावता कथमनियमः, तत्राह-एतदुक्तमिति / नविलक्षणत्वन्यायेन पुनरुक्त्यभावे ऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते-नन्वतिदेश इति / समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह-सत्यमिति / तस्यैवातिदेशस्येत्यर्थः
SK
END Bस्Cओम्_२,२.२.११
SK
START Bस्Cओम्_२,२.३.१२
SK
३ परमाणुजगदकारणत्वाधिकरणम् / सू. १२-१७
SK
उभयथापि न कर्मातस्तदभावः | BBस्_२,२.१२ |
SK
इदानीं परमाणुकारणवादं निराकरोति / स च वाद इत्थं समुत्तिष्ठत- पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतेरैव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि / तत्सामान्येन यावत्किञ्चित्सावयवं तत्सर्वं स्वानुगतेरैव संयोगसचिवैस्तैर्द्रव्यैरारब्धमिति गम्यते / स चायमवयवावयविविभागो यतो निवर्तते सो ऽपकर्षपर्यन्तगतः परमाणुः / सर्वं चेदं जगद्गिरिसमुद्रादिकं सावयवं, सावयवत्वाच्चाद्यन्तवत् / नचाकारणेन कार्येण भवितव्यमित्यतः परमाणवो जगतः कारणमिति कणभुगभिप्रायः / तानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्वनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति स प्रलयकालः / ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संनियुक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते / एवमग्निरेवमाप एवं पृथिवी / एवमेव शरीरं सेन्द्रियमिति / एवं सर्वमिदं जगदणुभ्यः संभवति / अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि संभवन्ति तन्तुपटन्यायेनेति काणादा मन्यन्ते / तत्रेदमभिधीयते- विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षो ऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात् / कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् / अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्मस्यात् / अभ्युपगमे ऽपि यदि प्रयत्नो ऽभिघातादिर्वा (अथा)यथादृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात् / नहि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति शरीराभावात् / शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सत्यात्मगुणः प्रयत्नो जायते / एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यतव्यम् / सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति / अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा / उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेतादृष्टस्याचेतनत्वात् / नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यप्रक्रियायामभिहितम् / आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् / आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यादसंबन्धात् / अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्, संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गो नियामकान्तराभावात् / तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् / कर्माभावात्तनिबन्धनः संयोगो न स्यात् / संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् / संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यादेकदेशेन वा / सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गो दृष्टविपर्ययप्रसङ्गश्च / प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् / एकदेशेन चेत्सावयवत्वप्रसङ्गः / परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् / कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात् / असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत / यथाचादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवत्येवं महाप्रलये ऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् / नहि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति / अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमित्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म / अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत / तस्मादनुपपन्नो ऽयं परमाणुकारणवादः
SK
FN: स्वानुगतैः स्वसंबद्धैः / संबन्धश्चाधार्याधारभूतः प्रत्ययहेतुः समुदायः /
SK
वैशेषिकमतपरीक्षामारभते-उभयथापि न कर्मातस्तदभावः / नास्य प्रासङ्गिकेन पूर्वाधिकरणेन संगतिरपेक्षितेति मन्वानः प्रधानस्येश्वरानधिष्ठितस्याकारणत्वे ऽपि परमाणूनां तदधिष्ठितानां कारणत्वमस्त्विति प्रत्युदाहरणसंगत्या सांख्याधिकरणानन्तर्यमस्य वदंस्तात्पर्यमाह-इतानीमिति / द्व्यणुकादिक्रमेण परमाणुभिर्जगदारभ्यत इति वैशेषिकराद्धान्तो ऽत्र विषयः / स किं मानमूलो भ्रान्तिमूलो वेति संदेहे पूर्वपक्षयति-स चेति / तैः पटादिभिः सामान्यं क्षित्यादेः कार्यर्द्रव्यत्वं तेनेत्यर्थः / विमतं सावयवं क्षित्यादिकं स्वन्यूनपरिमाणसंयोगसचिवानेकद्रव्यारब्धं, कार्यद्रव्यत्वात्, पटादिवदिति प्रयोगः / स्वेष्टपरमाणुसिद्ध्यर्थानि साध्यविशेषणानि / नन्वेतावता कथं परमाणुसिद्धिः, तत्राह-स चायमिति / विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यूनपरिमाणस्यापकर्षस्य पर्यन्तत्वेनावसानभूमित्वेनावगतः परमाणुरित्यर्थः / यावत्सावयवमनुमानप्रवृत्तेः द्व्यणुकन्यूनद्र्यं निरवयवं सिद्ध्यतीति भावः / जगन्नित्यत्ववादात् कार्यद्रव्यत्वहेत्वसिद्धिरिति वदन्तं प्रत्याह-सर्वं चेति / विमतमाद्यन्तवत्, सावयवत्वात्, पटवदित्यर्थः / हेतोरसिद्धिं निरस्याप्रयोजकत्वं निरस्यति-नचेति / ते कतिविधा इत्याकाङ्क्षायांमाह-तानीति / प्रलये चैषामपि नाशान्न जगत्कारणत्वमित्याशङ्क्याह-तेषां चेति / अवयवानां विभागान्नाशान्नावयविनो नाशः / परमाणूनां निरवयवत्वेनावयवविभागादेर्नाशहेतोरसंभवान्न नाश इत्यर्थः / तेषां नित्यत्वे फलितं सृष्टिक्रममाह-तत इति / एवं काणादमतस्य मानमूलत्वात्तेन वेदान्तसमन्वयस्य विरोधादसिद्धिरिति पूर्वपक्षे फलम् / तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति-तत्रेदमिति / प्रलये विभक्तानां परमाणूनामन्यतरकर्मणो ऽभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टं, यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनं, हस्तनोदनादिष्वादिगमनं, तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा / द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म संभवति / अतः कर्मासंभवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः / स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषो ऽभिघातः स एव चलस्य नोदनमिति भेदः / दृष्टनिमित्ताभावे ऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते-अथादृष्टमिति / विकल्पपुरःसरं दूषयति-तत्पुनरिति / जडात्मवदणोराश्रयत्वं कि न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् / अत्रापि सूत्रं योजयति-उभयथेति / जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह-आत्मनश्चेति / अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः / भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते / अचेतनत्वमदृष्टस्यकर्मनिमित्तत्वाभावे हेतुरुक्तः /
SK
हेत्वन्तरमाह-आत्मसमवायित्वेति / गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते-अदृष्टवदेति / विभुसंयोगस्याणुषु सदा सत्त्वात् क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति-संबन्धेति / कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगे ऽपीश्वरान्नियम इत्यत आह-नियामकान्तरेति / यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वे ऽपि सदा सत्त्वान्न नियामकत्वमिति भावः / सूत्रार्थं निगमयति-तदेवमिति / संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति-संयोगश्चाणोरिति / संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात् सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः / किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह-दृष्टेति / परमाणोः संयोग एकदेशेन चेदिति संबन्धः / दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः / काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासे ऽपि सूत्रं योजयति-था चेति / परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःकशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः संभवति / तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना
SK
END Bस्Cओम्_२,२.३.१२
SK
START Bस्Cओम्_२,२.३.१३
SK
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः | BBस्_२,२.१३ |
SK
समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन संबध्यते / द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता / नचैवमभ्युपगच्छता शक्यते ऽणुकारणता समर्थयितुम् / कुतः / साम्यादनवस्थितेः / यथैव ह्यणुभ्यामत्यन्तभिन्नं सद्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यत एवं समवायो ऽपि समवायिभ्यो ऽत्यन्तभिन्नः सन्समवायलक्षणेनान्येनैव संवन्धेन समवायिभिः संबध्येतात्यन्तभेदसाम्यात् / ततश्च तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत /
SK
नन्विह प्रत्ययग्राह्यः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्यते नासंबद्धः संबन्धान्तरापेक्षो वा / ततश्च न तस्यान्यः संबन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति /
SK
नेत्युच्यते / संयोगो ऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत / अथार्थान्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत, समवोयो ऽपि तर्ह्यर्थान्तरत्वात्संबन्धान्तरमपेक्षेत / नच गुणत्वात्संयोगः संबन्धान्तरमपेक्षते न समवायो ऽगुणत्वादिति युज्यते वक्तुम् / अपेक्षाकारणस्य तुल्यत्वात् / गुणपरिभाषायाश्चातन्त्रत्वात् / तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था / प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुक नैवोत्पद्येत / तस्मादप्यनुपपन्नः परमाणुकारणवादः
SK
समवायाभ्युपगमाच्च तदभावः / अणुवादासंभव इति योग्यतया संबध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः / नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न संबन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसंबद्धत्वादिति शङ्कते-नन्विहेति /
SK
संयोगस्यापि स्वरूपसंबन्धोपपत्तेः समवायो न स्यादिति दूषयति-नेति / संबन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या / गुणपरिभाषायाश्चेति / गुणत्वाभावे ऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् / नापि व्याप्यं, गुणस्यापि समवायवत्स्वरूपसंबन्धसंभवेन व्याप्त्यनुकूलतर्काभावात् / तस्मात् संबन्धिभिन्नत्वमेव संबन्धान्तरापेक्षायां कारणं, तस्य समवाये ऽपि तुल्यत्वादनवस्था दुर्वारा / सा च मूलक्षयकारी / तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः
SK
END Bस्Cओम्_२,२.३.१३
SK
START Bस्Cओम्_२,२.३.१४
SK
नित्यम् एव च भावात् | BBस्_२,२.१४ |
SK
अपिचाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वानुभयस्वभावा वाभ्युपगम्यन्ते गत्यन्तराभावात् / चतुर्धापि नोपपद्यते / प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः / निवृत्तिस्वभावत्वे ऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः / उभयस्वभावत्वं च विरोधादसमञ्जसम् / अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गात् / अतन्त्रत्वे ऽप्यदृष्टादेरनित्याप्रवृत्तिप्रसङ्गात् / तस्मादप्यनुपपन्नः परमाणुकारणवादः
SK
सूत्रं व्याचष्टे-अपिचेति / अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसंनिहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः
SK
END Bस्Cओम्_२,२.३.१४
SK
START Bस्Cओम्_२,२.३.१५
SK
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् | BBस्_२,२.१५ |
SK
सावयवानां द्रव्याणामवयववशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्बन एव / यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत / परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः / कुतः / एवं लोके दृष्टत्वात् / यदि लोके रूपादिमद्वस्तु तत्स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम् / तद्यथा पटस्तन्तूनपेक्ष्य स्थूले ऽनित्यश्च भवति तन्तवश्चंशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति, तथाचामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते, तस्मात्ते ऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति / यच्च नित्यत्वे कारणं तैरुक्तम्- ऽसदकारणवन्नित्यम्ऽ (वै. सू. ४.१.१) इति / तदप्येवं सत्यणुषु न संभवति / उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः / यदपि नित्यत्वे द्वितीयं कारणमुक्तम्- ऽअनित्यमिति च विशेषतः प्रतिषेधाभावःऽ (वै. सू. ४.१.४) इति / तदपि नावश्यं परमाणूनां नित्यत्वं साधयति / असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते / न पुनः परमाणुनित्यत्वमेवापेक्ष्यते /
SK
तच्चास्त्येव नित्यं परमकारणं ब्रह्म / नच शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् / यदपि नित्यत्वे तृतीयं कारणमुक्तम्- ऽअविद्या चऽ (वै. सू. ४.१.५) इति, तद्यद्येवं विव्रीयते सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत / अथाद्रव्यत्वे सतीति विशेष्येत तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमाद्येत / तस्य च प्रागेवोक्तत्वात् ऽअविद्या चऽ इति पुनरुक्तं स्यात् / अथापि कारणविभागात्कारणविनाशाच्चन्यस्य तृतीयस्य विनाशहेतोरसंभवो ऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्याख्यायेत / नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतिति नियमो ऽस्ति / संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भके ऽभ्युपगम्यमान एतदेवं स्यात् / यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते / तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम् / तस्मादप्यनुपपन्नः परमाणुकारणवादः
SK
किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात् स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह-सावयवानामित्यादिना /
SK
नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् / न / वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् / न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् / नच तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावे ऽपि सिद्धसाधनता स्यादिति वाच्यं, यत्र स्पर्शस्तत्कारणं, यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः / परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् / आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति-यच्च नित्यत्व इति / सत्त्वं भावत्वं प्रागभावनिरासार्थम् / नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात्, घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात् कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति-यदपीति / कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता / वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारयोगादित्याह-नच शब्देति / यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः / एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति-यदपीति / सतामणूनां दृश्यमानसथूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् / तन्न द्व्यणुके व्यभिचारादित्यर्थः / यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह-अथेत्यादिना / परमाणवो नित्याः, नाशकानुपलम्भात्, आत्मवदिति सूत्रार्थमाशङ्कते-अथापीति / तन्त्वाद्यवयवानां विभागान्नाशाद्वा पठादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः / परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्संभवतीति परिहरति-नेति / अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारंभ इति यदि मतं स्यात्, तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् / नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् / अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् / तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते / यथाग्निसंपर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् / नच काठिन्यस्य संयोगविशेषणत्वेन गुणत्वाद्रव्यनाशे ऽनुदाहरणत्वमिति शङ्क्यं, गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात्, गुणपरिभाषायाश्चातन्त्रत्वात् / वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् / नच द्रव्यत्वे ऽप्यवयवविभागादेव तस्य नाश इति वाच्यं, घृतस्य परिणामिन एकत्वेन विभागासंभवात्, परमाणुकाठिन्यनाशे तदसंभवाच्चेति भावः / किञ्च प्रलये नासीद्रजो नान्यत् किञ्चनेत्यणूनां नाशसिद्धिः / तस्मान्न तेषां परमकारणत्वमित्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_२,२.३.१५
SK
START Bस्Cओम्_२,२.३.१६
SK
उभयथा च दोषात् | BBस्_२,२.१६ |
SK
गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुरित्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते / तद्वत्परमाणवो ऽप्युपचितापचितगुणाः कल्प्येरन्न वा / उभयथापि च दोषानुषङ्गो ऽपरिहार्य एव स्यात् / कल्प्यमाने तावदुपचितापचितगुणत्व उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः / नचान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्यते, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् / अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्वं एकैकगुणा एव कल्प्येरंस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः, पृथिव्यां च रसरूपस्पर्शानां,
SK
कारणगुणपूर्वकत्वात्कार्यगुणानाम् / अथ सर्वे चतुर्गुणा एव कल्प्येतन्, ततो ऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् / नचैवं दृश्यते / तस्मादप्यनुपपन्नः परमाणुकारणवादः
SK
FN: मूर्त्युपचयात् स्थौल्यादित्यर्थः /
SK
यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति-तद्वदिति / पार्थिवः परमाणूरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा / आद्ये दोषमाह-कल्प्यमान इति / मूर्त्युपचयात् स्थौल्यादित्यर्थः / पार्थिवो ऽणुराप्यात् स्थूलः, अधिकगुणत्वात्, घटवदित्येवं प्रयोक्तव्यः / अप्रयोजकत्वं निरस्यति-न चान्तरेणेति / दृष्टविरोधः स्यादिति भावः / नेति पक्षे सर्वेषामाणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा / उभयथापि दोषमाह-अकल्प्यमाने त्वित्यादिना
SK
END Bस्Cओम्_२,२.३.१६
SK
START Bस्Cओम्_२,२.३.१७
SK
अपरिग्रहाच् चात्यन्तम् अनपेक्षा | BBस्_२,२.१७ |
SK
प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः / अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः / अपिच वैशेषिकास्तन्त्रार्थभूतान्षट्पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान्भिन्नलक्षणानभ्युपगच्छन्ति / यथा मनुष्यो ऽश्वः शश इति / तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणमभ्युपगच्छन्ति / तन्नोपपद्यते / कथम् / यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामत्यन्तभिन्नत्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति / अथ भवति द्रव्याधीनत्वं गुणादीनां ततो द्रव्यभावे भावाद्द्रव्याभावे ऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति / यथा देवदत्त एक एव सन्नवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् / तथा सति सांख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम् /
SK
नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते /
SK
सत्यं दृश्यते / भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते / इह तु शुक्लः कम्बलो रोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति / तस्माद्द्रव्यात्मकता गुणस्य / एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता / गुणा(दी)नां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्येत, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यादपृथक्कालत्वं वापृथक्स्वभावत्वं वा / सर्वथापि नोपपद्यते / अपृथकग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत / कथम् / तन्त्वारब्धो हि पटष्टन्तुदेशो ऽभ्युपगम्यते न पटदेशः / पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः / तथाचाहुः - ऽद्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्ऽ (वै. सू. १.१.१०) इति / तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते / तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्त इति हि ते ऽभ्युपगच्छन्ति / सो ऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वे ऽभ्युपगम्यमाने बाध्येत /
SK
अथापृथक्कालत्वमयुतसिद्दत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत / तथापृथक्स्वभावत्वे त्वयुतसिद्धत्वेन द्रव्यगुणयोरात्मभेदः संभवति, तस्य तादात्म्येनैव प्रतीयमानत्वात् / युतसिद्धयोः संबन्धः संयोगो ऽप्युतसिद्धयोस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषां, प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः /
SK
अथान्यतरापेक्ष एवायमभ्युपगमः स्यादयुतसिद्धस्य कार्यस्य कारणेन संबन्धः समवाय इति, एवमपि प्राग्सिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते द्वयायत्तत्वात्संबन्धस्य / सिद्धं भूत्वा संबध्यत इति चेत्, प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् / यथा चेत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः संबन्धः संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यान्न समवायः / नापि संयोगस्य समवायस्य वा संबन्धव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति / संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् /
SK
न / एकत्वे ऽपि स्वरूपबाह्यरूपापेक्षयानेकशब्दप्रत्ययदर्शनात् / यथैको ऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति, मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्न्यत्वेन निविशमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथासंबन्धिनोरेव संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तवस्त्वस्तित्वेन , इत्युपलब्दिलक्षणप्राप्तस्यानुपलब्धेरभावो वस्त्वन्तरस्य / नापि संबन्दधिविषयत्वे संबन्धशब्दप्रत्यययोः संततभावप्रसङ्गः / स्वरूपाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् / तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् / कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् /
SK
न / अविद्यामानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् / इयानेवाविद्यमानो विरुद्धो ऽविरुद्धो वार्थः कल्पनीयो नातो ऽधिक इति नियमहेत्वभावात् / कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभवाच्च / नच वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्यो ऽन्ये ऽधिकाः शतं सहस्रं वार्था न कल्पयितव्या इति निवारको हेतुरस्ति / तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिद्ध्येत् / कश्चित्कृपालुः प्राणिनां दुःखबहुलं संसार एव माभूदिति कल्पयेत् / अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् / कस्तयोर्निवारकः स्यात् / किञ्चान्यत् / द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः / नह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषो ऽस्ति / कार्यकारणद्रव्ययोराश्रिताश्रयभावो ऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् /
SK
न / इतरेतराश्रयत्वात् / कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः कुण्डबदरवदितरेतराश्रयता स्यात् / नहि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् / किञ्चान्यत् / परमाणूनां परिच्छिन्नत्वाद्यावत्यो दिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत /
SK
यांस्त्वं दिग्भेदभेदिनो ऽवयवान्कल्पयसि त एव परमाणव इति चेत् /
SK
न / स्थूलसूक्ष्मतारतम्यक्रमेणापरमकारणाद्विनाशोपपत्तेः / यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजातीयकं विनश्यति, ततो द्व्यणुकं, तथा परमाणवो ऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः /
SK
विनश्यन्तो ऽप्यवयवविभागेनैव विनश्यन्तीति चेत् /
SK
नायं दोषः / यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम / यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगाद्द्रवभावापत्त्या काठन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति / तथा कार्यरम्भो ऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात् / तदेवमसारतरतर्कसंदृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुति प्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षास्मिन्परमाणुकारणवादे कार्या श्रेयोर्थिभिरिति वाक्यशेषः
SK
FN: तथात्वमत्यन्तभिन्नत्वम् /
SK
सांख्यो ऽत्रवेदान्ती ग्राह्यः / यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् /
SK
प्रभूतत्वसंभवान्निरवधित्वसंभवात् /
SK
संश्लेषः संग्रह एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः /
SK
न केवलमणुवादस्यायुक्तत्वादुपेक्षा किन्तु शिष्टबहिष्कृतत्वाद्ग्रन्थतोर्ऽथतश्चाग्राह्यत्वमित्याह-अपरिग्रहाच्चेति / चकारार्थं प्रपञ्चयितुमुपक्रमते-अपि चेति / अत्यन्तभेदज्ञापकमाह-भिन्नलक्षणानिति / द्रव्यगुणकर्मणां द्रव्यगुणत्वकर्मत्वजातयो लक्षणानि, गुणाश्रयत्वाद्युपाधयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम्, संयोगविभागयोर्निरपेक्षकारणं कर्म, नित्यमेकमनेकसमवेतं सामान्यम्, नित्यद्रव्यवृत्तयो विशेषाः, नित्यः संबन्धः समवाय इति भिन्नानि लक्षणानि / तैर्मिथो ऽत्यन्तभेदसिद्धिरित्यर्थः / तथात्वमत्यन्तभिन्नत्वम् / तेन विरुद्धो यो धर्मधर्मिभावः / गुणादयो नद्रव्यधर्माः स्युः, ततो ऽत्यन्तभिन्नत्वात्, शशकुशादिवदित्यर्थः / भेदाबाधकत्वमुपन्यस्याभेदमाह-अथ भवतीति / गुणादिषु तदधीनत्वं तावदन्वयव्यतिरेकसिद्धं, तथा च गुणादयो द्रव्याभिन्नाः, द्रव्याधीनत्वात्, यद्यस्माद्भिन्नं तन्न तदधीनं, यथा शशभिन्नः कुश इत्यर्थः / अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथं, तत्राह-द्रव्यमिति / कल्पितभेदो ऽप्यस्तीत्याशयः / अन्यथात्यन्तभेदवदत्यन्ताभेदे ऽपि धर्मधर्मित्वायोगादिति मन्तव्यम् / अस्तु गुणादीनां द्रव्यतादात्म्यमिति वदन्तं तार्किकमन्यं प्रत्याह-तथा सतीति / सांख्यो ऽत्र वेदान्ती ग्राह्यः / यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् / यद्यपि तदधीनत्वं तद्धर्मत्वं, तच्च धूमे नास्ति, अग्निं विनापि भावात्, तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते-नन्विति / कार्यत्वमन्यत्वं चाङ्गीकरोति-सत्यमिति / तथापि तादात्म्येन प्रतीयमानत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याशयः / अस्य हेतोरन्यथासिद्धिमाशङ्कते-गुणादीनामिति / गुणादीनां द्रव्येणाभेदाभावे ऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः / दूषयितुं विकल्पयति-तत्पुनरिति / शौक्ल्यस्य पटनिष्ठत्वात् पटस्य तन्तुदेशत्वात् पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति-अपृथग्देशत्व इति / काणादसूत्रद्वयं व्याचष्टे-तन्तवो हीति / स्वभावो हि स्वरूपं तस्यापृथक्त्वे ऽस्मदिष्टाभेदसिद्धिरित्याह-अपृथक्त्वभावत्व इति / अभेदे युक्तिमाह-तस्येति-गुणस्येत्यर्थः / एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तो ऽनुभवविरोधेन दूषितः / सिद्धान्तान्तरं दूषयति-युतेति / अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य / नाद्य इत्याह-प्रागिति / द्वितीयमाशङ्क्य दूषयति-अथेत्यादिना / कारणस्य पृथक्सिद्धत्वे ऽकार्यमपृथक्सिद्धमित्युक्तमुपेत्य संबन्धो ऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं द्वितीयं शङ्कते-सिद्धं भूत्वेति / सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः / सद्योजातपटस्य क्रियाभावात् कथं संयोगः, तत्राह-यथेति / किञ्च संबन्धस्यापि संबन्धे ऽनवस्थानादसंबद्धस्यानियामकत्वात् संबन्धो ऽपि दुर्निरूप इत्याह-नापीति / संबन्धः संबन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात्, वस्त्वन्तरवदिति शङ्कते-संबन्धीति / कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते-न / एकत्वे ऽपीति / स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, नच भिद्यत इति व्यभिचार इत्यर्थः / फलितमाह-इत्युपलब्धीति / विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन-लक्षणेन सिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः संबन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः / न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते / समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः / संबन्धस्य संबन्ध्यभेदे संबन्धिनः सदा सत्त्वात्सर्वदा संबन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति-नापीति / परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च संबन्धिधीः न स्वत इत्युक्तमित्यर्थः / पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, संप्रत्यदृष्टवदात्मनाणूनां संयोगो ऽणुषु क्रियाहेतुः आत्ममनोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते-तथाण्वात्मेति / निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति-कल्पिता इति / कल्पनमूहः / ऊहितार्थाः सन्तो ऽसन्तो वा / द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् / आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् / प्रभूतत्वं निरवधित्वं तत्संभवाच्चेत्यर्थः / यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह-न चेत्यादिना / संयोगं दूषयित्वा समवायं दूषयति-किञ्चान्यदिति / तन्मते दूषणान्तरमुच्यत इत्यर्थः / संश्लेषः संग्रहः / यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः / द्व्यणुकं निरवयवासमवेतं, सावयवत्वात्, आकाशासमवेतभूमिवदिति भावः / ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात्, संबन्धं विना तदयोगात् / नच संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते-कार्येति / प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति-नेति / भेदात्तद्भाव इति वदन्तं प्रत्याह-इतरेतराश्रयत्वादिति / कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह-कारणस्यैवेति / परमाणूनां निरवयवत्वमप्ययुक्तमित्याह-किञ्चेति / परमाणवः सावयवाः, अल्पत्वात्, घटवत् / विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः / ननुपरमाण्वपेक्षया यो ऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन ये ऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्ते ऽपि सावयवाश्चेत् तदवयवा एवेति एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कति-यांस्त्वमिति / परिहरति-न / स्थूलेति / अयमर्थः-यत्सवात्मनाविभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात्, तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् / यदि पृथिव्यादिजातीयो ऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वं, विनाशित्वात्, घटवत् / नच हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात्, घटवदिति साधनादिति / संप्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति-विनश्यन्त इत्यादिना / ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् / निमित्तादृष्टादिनाशाद्विनाशः प्रलये संभवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसंभव इति भावः / यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह-तथा कार्यारम्भो ऽपीति / कैवल्यं प्रधान्यम् /
SK
कार्यद्रव्यस्थितावपि हेत्वात्संयोगस्य क्षीरारंभकसंयोगाद्दध्यारम्भकं न संयोगान्तरं, तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः / किञ्च यत्कार्यद्रव्यं तद्द्रव्यारम्भमित्येव व्याप्तिरस्तु लाघवात्, न तु संयोगसचिवस्वन्यूनपरिमाणेनेकद्रव्यारम्भमिति, गौरवात्, दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च / नच रज्जुर्न द्रव्यान्तरमिति वाच्यम्, अवयविमात्रविप्लवापातात् / किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः / यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति / तन्न / त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः / नच त एव त्रुटिनामानो जगद्धतेव इति वाच्यम्, पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् / न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम्, मायायां ब्रह्मणि वावयवत्वविश्रान्तिसंभवात् / अतो न किञ्चिदणुसद्भावे प्रमाणम् / निरवयवानां संयोगसमवाययोरसंभवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव / संप्रति ऽअपरिग्रहाच्चऽइति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति-तदेवमिति / तस्माद्भ्रान्तिमूलेन वैशेषिकमतेनवेदान्ततात्पर्यस्याविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,२.३.१७
SK
START Bस्Cओम्_२,२.४.१८
SK
४ समुदायाधिकरणम् . सू. १८-२७
SK
समुदाय उभयहेतुके ऽपि तदप्राप्तिः | BBस्_२,२.१८ |
SK
वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् / सोर्ऽधवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः / स च बहुप्रकारः प्रतिपत्तिभेदाद्विनेयभेदाद्वा / तत्रैते त्रयो वादिनो भवन्ति- केचित्सर्वास्तित्ववादिनः, केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिन इति / तत्र ते सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्तं च, तांस्तावत्प्रतिब्रूमः / तत्र भूतं पृथिवीधात्वादयः / भौतिकं रूपादयष्चक्षुरादयश्च / चतुष्टये च पृथिव्यादिपरमाणवः स्वरस्नेहोष्णस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते / तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः / ते ऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्त इति मन्यन्ते / तत्रेदमभिधीयते- यो ऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतो ऽणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुके ऽपि समुदाये ऽभिप्रेयमाणे तदप्राप्तिः स्यात्समुदायाप्राप्तिः / समुदायभावानुपपत्तिरित्यर्थः / कुतः / समुदायिनामचेतनत्वात् / चित्ताभिज्ज्वलनस्य च समुदायसिद्ध्यधीनत्वात् / अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् / आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् / क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः / तस्मात्समुदायानुपपत्तिः / समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत
SK
FN: भूते भौतिकं बाह्यम्, चित्तं चैत्तं च कामाद्यन्तरमिति विभागः /
SK
चतुष्टये चतुर्विधाः / स्वराः कठिनाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णस्तैजसाः, ईरणं चलनं स्वभावो वायव्यानामिति /
SK
सविशेषेन्द्रियाणि रूपस्कन्धः, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदान्तस्कन्धः, गौरश्व इत्येवंनामविशिष्टसविकल्पप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माः संस्कारस्कन्धः /
SK
आशेरते ऽस्मिन् रागादय इत्याशयः संतानः /
SK
वैशेषिकं निरस्य वैनाशिकं निरस्यति-समुदाय इति / परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसंगतिमाह-वैशेषिकेति / ऽनाभाव उपलब्धेःऽइति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते-स चेति / ननु सुगतप्रोक्तागमस्यैक्यात् कुतो बहुप्रकारता, तत्राह-प्रतिपत्तीति / एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन वुद्धिभेदात्, मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः /
SK
तानेव प्रकारानाह-तत्रेति / सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः / तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादे ऽप्यस्तित्वसंप्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह-तत्र ये सर्वास्तित्वेति / भूतं भौतिकं बाह्यं, चित्तं चैत्तं च कामाद्यान्तरमिति विभागः / तत्र संदिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति / तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति-तत्र भूतमिति / स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलं, सिद्धान्ते तदविरोध इति ज्ञेयम् / पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते-चतुष्टये चेति / चतुर्विधा इत्यर्थः / खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति / बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह-तथेति / सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वे ऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम्, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः / तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते / अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां संघात आध्यात्मिकः / सकललोकयात्रानिर्वाहक इत्यर्थः / अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत् तत्क्षणिकं, यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलो ऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति-यो ऽयमिति / सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसंघातस्तावन्न संभवति, अचेतनत्वात् / नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, संघाते देहाकारे जाते विज्ञानं विज्ञाने जाते संघात इत्यन्योन्याश्रयात् / नच क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः संघातकर्ता भवेत् / नच कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव संघातार्थं प्रवर्तन्त इति वाच्यम्, अनिर्मोक्षप्रसङ्गात् / नन्वालयविज्ञानसंतानः संहन्तास्त्वित्यत आह-आशयस्येति / आशेरते ऽस्मिन् रागादय इत्याशयः संतानः, स किं संतानिभ्यो ऽन्यो विज्ञानिभ्यो ऽन्यो ऽनन्यो वा / आद्ये ऽपि स्थिरः क्षणिको वा / नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् / द्वितीये दोषमाह-क्षणिकत्वेति / क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना / क्षणिकत्वव्याघात्दित्यर्थः / एतेनानन्यः संतान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः / तस्मात् संहन्तुरसत्त्वात् संघातानुपपत्तिरित्यर्थः
SK
END Bस्Cओम्_२,२.४.१८
SK
START Bस्Cओम्_२,२.४.१९
SK
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात् | BBस्_२,२.१९ |
SK
यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा / तस्यां चोपपद्यमानायां वा किञ्चिदपरमपेक्षितव्यमस्ति / ते चाविद्यादयो ऽविद्या संस्कारो विज्ञानं नाम रूपं षडायतनं स्पर्शा वेदना तृष्णा उपादानं भवो जातिर्जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्तेत्येवञ्जातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः क्वचित्प्रपञ्चिताः / सर्वेषामप्ययमविद्यादिकलापो ऽप्रत्याख्येयः / तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेर्ऽथाक्षिप्त उपपन्नः संघात इति चेत् /
SK
तन्न / कस्मात् / उत्पत्तिमात्रनिमित्तत्वात् / भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येत / न त्ववगम्यते / यत इतरेतरप्रत्ययत्वे ऽप्यविद्यादीनां पूर्वपूर्वमुत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवेद्भवेन्न तु संघातोत्पत्तेः किञ्चिन्निमित्तं संभवति /
SK
नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् /
SK
अत्रोच्यते- यदि तावदयमभिप्रायो ऽविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति, ततस्तस्य संघातस्य निमित्तं वक्तव्यम् / तच्च नित्येष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तेषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम् / किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयिशून्येषु वाभ्युपगम्यमानेषु संभवेत् / अथायमभिप्रायो ऽविद्यादय एव संघातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः / अथ मन्यसे संघाता एवानादौ संसारे संतत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति, तदपि संधातात्संघातान्तरमुत्पद्यमानं, नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत / नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् / अनियमाभ्युपगमे ऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् / उभयमप्यभ्युपगमविरुद्धम् / अपिच यद्भोगार्थः संघातः स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगमः / ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीयः / तथा मोक्षो मोक्षार्थं एवेति मुमुक्षुणा नान्येन भवितव्यम् / अन्येन चेत्प्रार्थ्येतोभयं भोगमोक्षकालावस्थायिना तेन भवितव्यम् / अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः / तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेद्भवतु नाम नतु संघातः सिद्ध्येत् / भोक्त्रभावादित्यभिप्रायः
SK
FN: कार्यं प्रति अयते गच्छतीति प्रत्ययः कारणम् / विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् / तृष्ण्या वाक्कायचेष्टोपादानम् / हा पुत्र, तातेत्यादिप्रलापः परिदेवना / आश्रयेत्यादि भोक्तृविशेषणं अदृष्टाश्रयेष्वित्यर्थः /
SK
संहन्तुरभावे ऽपि संघातोपपत्तिमाशङ्क्य निषेधति-इतरेति / कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् / अविद्यादिभिरेवार्थात् संघातसिद्धौ व्यवहारोपपत्तिरित्यर्थः / अविद्यादीनाह-ते चेति / क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात् पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति / ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते / गर्भस्य कलकलबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः / विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत् षडायतनं, नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानं, तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् / जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखं, तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसंग्रहार्थः / न केवलं सुगतानामेवाविद्यादयः संमताः, किन्तु सर्ववादिनामपीत्याह-सर्वेषामिति / अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्संघातसिद्धिरिति शङ्कामुपसंहरति-तदेवमिति / सिद्धान्तभागं व्याचष्टे-तन्नेति / अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य संघातहेत्वभावात् संघातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति-नन्विति / किमविद्यादयः संघातस्य गमका उतोत्पादका इति विकल्प्याद्ये संघातस्योत्पादकं किञ्चिद्वाच्यं, तन्नास्तीत्याह-अत्रोच्यते, यदीति / आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् / अदृष्टाश्रयेष्वित्यर्थः / यदा स्थिरेष्वणुषु संघातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्संघातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह-किमिति /
SK
आश्रयाश्रयः संघातकर्ता तच्छून्येष्वित्यर्थः / ऽआश्रयाश्रयिशून्येषुऽइति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः / द्वितीयं शङ्कते-अथायमिति / संघातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति-कथमिति / स्वाभाविकः खल्वयं संघातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसंघाताश्रया अविद्यादय उत्तरसंघातप्रवर्तका इति नान्योन्याश्रयदोषो ऽपीत्याशङ्कते-अथ मन्यस इति / स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः / पूर्यते गलति चेति पुद्गलो देहः / किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारो ऽपि दुर्घट इत्याह-अपि चेति / यो यदिच्छति स तत्काले नास्ति चेदिच्छाव्यर्था, अस्ति चेत् क्षणिकत्वभङ्ग इत्यर्थः / प्रकृतं संघातनिरासमुपसंहरति-तस्मादिति
SK
END Bस्Cओम्_२,२.४.१९
SK
START Bस्Cओम्_२,२.४.२०
SK
उत्तरोत्पादे च पूर्वनिरोधात् | BBस्_२,२.२० |
SK
उक्तमेतदविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघातसिद्धिरस्तीति / तदपि तूत्पत्तिमात्रनिमित्तत्वं न संभवतीतिदमिदानीमुपपाद्यते / क्षणभङ्गवादिनो ऽयमभ्युपगम उत्तरस्मिन्क्षण उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति / नचैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम् / निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः / अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायस्तथापि नोपपद्यते / भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात् / अथ भाव एवास्य व्यापार इत्यभिप्रायस्तथापि नैवोपपद्यते / हेतुस्वभावानुपरक्तस्य फलस्येत्पत्त्यसंभवात् / स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वे सति क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः / विनैव वा स्वभावोपरागेण हेतु फलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः / अपिचोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव वा / सर्वथापि नोपपद्यते / यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः / अस्थास्ति कश्चिद्विशेष इति मन्येतोत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यान्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः / अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्यातामश्वमहिषवत्, ततो वस्तु उत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः / यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम्, एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव / तस्मादप्यसंगतं सौगतं मतम्
SK
FN: निरुध्यमानत्वं विनाशकसांनिध्यम् / निरुद्धत्वमतीतत्वम् /
SK
द्विविधो हि कार्यसमुत्पादः सुगतसंमतो हेत्वधीनः कारणसमुदायाधीनश्चेति / तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः / तत्राद्यमङ्गीकृत्य द्वितीयः संघातकर्त्रभावेन दूषितः / संप्रत्याद्यं दूषयति सूत्रकारः-उत्तरेति / क्षणिकोर्ऽथः क्षणिक इत्युच्यते / निरुध्यमानत्वं विनाशकसांनिध्यं, निरुद्धत्वमतीतत्वम् / ननु कार्यकाले विनाशव्याप्तत्वे ऽपि पूर्वक्षणे सत्त्वात् क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते-अयं भावेति / सद्रूप इत्यर्थः / किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा / नाद्य इत्युक्त्या द्वितीयं शङ्कते-अथेति / भाव उत्पत्तिः / उक्तं हि ऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतऽइति / येषां क्षणिकाभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः / नष्टस्यापि निमित्तत्त्वं स्यान्वोपादानत्वं, तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः / सत्त्वे च क्षणिकत्वहानिरिति परिहरति-तथापीत्यादिना / प्रथमपक्षेक्तदोषं द्रढयति-विनैवेति / वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह-अपि चेति / तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनो ऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् / द्वितीयं शङ्कते-अथास्तीति / विशेषमेवाह-उत्पादेति / दूषयति-एवमपीति / ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् / संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति-अथात्यन्तेति
SK
END Bस्Cओम्_२,२.४.२०
SK
START Bस्Cओम्_२,२.४.२१
SK
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा | BBस्_२,२.२१ |
SK
क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् / अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात्, ततः प्रतिज्ञोपरोधः स्यात् / चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत / निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत / अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात्ततो यौगपद्यं हेतुफलयोः स्यात् / तथापि प्रतिज्ञोपरोध एव स्यात् / क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत
SK
सूत्रं व्याख्यातुं वृत्तं स्मारयति-क्षणभङ्गेति / किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा / आद्ये प्रतिज्ञाहानिरित्याह-अथासत्येवेत्यादिना / विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः / यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः / प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह-निर्हेतुकायां चेति / सहेतुकत्वपक्षे ऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे-अथोत्तरक्षणेत्यादिना / सम्यक् क्रियन्त इति संस्काराः / आद्यन्तवन्तो भावा इत्यर्थः
SK
END Bस्Cओम्_२,२.४.२१
SK
START Bस्Cओम्_२,२.४.२२
SK
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् | BBस्_२,२.२२ |
SK
अपिच वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति / तदपि च क्षयं प्रतिसंख्याप्रतिसंखायानिरोधावकाशं चेत्याचक्षते / त्रयमपि चैतदवस्त्वभावमात्रं निरुपाख्यमिति मन्यन्ते, बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते, तद्विपरीतो ऽप्रतिसंख्यानिरोधः आवरणभावमात्रमाकाशमिति / तेषामाकाशं परस्तात्प्रत्याख्यास्यति / निरोधद्वयमिदानीं प्रत्याचष्टे / प्रतिसंख्याप्रतिसंख्यानिरोधयोरप्राप्तिः / असंभव इत्यर्थः / कस्मात् / अविच्छेदात् / एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ संतानगोचरौ वा स्यातां भावगोचरौ वा / न तावत्संतानगोचरौ संभवतः / सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात् / नापि भावगोचरौ संभवतः / नहि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् / अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् / तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः
SK
FN: निरुपाख्यं निःस्वरूपम् / प्रतीपा प्रतुकूलः संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या तया निरोधः /
SK
एवमाद्यसूत्राभ्यां समुदायो निरस्तः / उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते / संप्रति तदभिमतं द्विविधं विनाशं दूषयति-प्रतिसंख्येति / संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रं, त्रयात्तुच्छरूपादन्यदित्यर्थः / किं तत्रयं, तदाह-तदपीति / निरुपाख्यं निःस्वरूपम् / प्रतीपा प्रतिकूला संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या, तया निरोधः कस्यचिद्भावस्य भवति /
SK
अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह-तद्विपरीत इति / परक्रियामुक्त्वा सूत्रं व्याचष्टे-तेषामिति / भावाः संतानिनः / संतानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् संताने चरमक्षणः क्षणान्तरं करोति वा न वा / आद्ये चरमत्वव्याघातः, संतानाविच्छेदात् / द्वितीये चरमस्यासत्त्वप्रसंगः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात्, चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् / तस्मात् संतानस्य विच्छेदासंभवान्निरोधाप्राप्तिरित्याह-न तावदिति / न द्वितीय इत्याह-नापीति / घटकपालचूर्णाद्यवस्थासुसेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः / बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह-अस्पष्टेति / अङ्कुरादयो ऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात्पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः / यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षण(?)निरोधासंभव इत्युपसंहारः
SK
END Bस्Cओम्_२,२.४.२२
SK
START Bस्Cओम्_२,२.४.२३
SK
उभयथा च दोषात् | BBस्_२,२.२३ |
SK
यो ऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्स्वयमेव वा / पूर्वस्मिन्विकल्पे निहर्तुकविनाशाभ्युपगमहानिप्रसङ्गः / उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः / एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम्
SK
FN: परिकरा यमनियमादयस्तत्सहितात् /
SK
सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः /
SK
अविद्यादीनां प्रतिसंख्यानिरोधं तदभिमतं दूषयति-उभयथेति / यमनियमादयः परिकराः / सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः
SK
END Bस्Cओम्_२,२.४.२३
SK
START Bस्Cओम्_२,२.४.२४
SK
आकाशे चाविशेषात् | BBस्_२,२.२४ |
SK
यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति, तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् / आकाशस्येदानीं निराक्रियते / आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः / प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् / आगमप्रामाण्यात्तावत् ऽआत्मन आकाशः संभूतःऽ (तै. २.१) इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्राप्तिः / विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यं, गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् / अपि चावरणाभावमात्रमाकाशमिच्छतामेकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतो ऽनवकाशत्वप्रसङ्गः /
SK
यत्रावरणाभावस्तत्र पतिष्यतीति चेत् /
SK
येनावरणभावो विशेष्यते तत्तर्हि वस्तुभूतमेवाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत / सौगते हि समये ऽपृथिवी भगवः किंसंनिश्चयाऽ इत्यस्मिन्प्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायुः ऽकिंसंनिश्चयःऽ इत्यस्य प्रश्नस्य प्रतिवचनं भवति ऽवायुराकाशसंनिश्चयःऽ इति / तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् / तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् / अपिच निरोधद्वयमाकाशं च त्रयमप्येतन्निरूपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् / नह्यवस्तुनो नित्यत्वमनित्यत्वं वा संभवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य / धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यान्न निरुपाख्यत्वम्
SK
FN: पतिष्यति संचरिष्यतीत्यर्थः / किं सम्यक् निश्चय आश्रयो ऽस्या इति किं संनिश्चया /
SK
आगमप्रामाण्यादिति / तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः / नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह-विप्रतिपन्नानिति / शब्दो वस्तुनिष्ठः गुणत्वात्, गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति / पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः / आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति-अपि चेति / यथैकघटसत्त्वे ऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वे ऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसंचारो न स्यादित्यर्थः / देशविशेषावच्छेदेनावरणाभावो ऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह-यत्रेत्यादिना / पतिष्यति / पक्षी संचरिष्यतीत्यर्थः / आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह-अपि चेति / किं सम्यक् निश्रय आश्रयो ऽस्या इति किंसंनिश्रया / अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति / व्याघातान्तरमाह-अपिचेति / ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति संभवति / धर्मिणो ऽसत्त्वव्याघातादित्यर्थः
SK
END Bस्Cओम्_२,२.४.२४
SK
START Bस्Cओम्_२,२.४.२५
SK
अनुस्मृतेश् च | BBस्_२,२.२५ |
SK
अपिच वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन्नुपलब्धुरपि क्षणिकतामभ्युपेयात् / नच सा संभवति / अनुस्मृतेः अनुभवमुपलब्धिमनूत्पद्यमानं स्मरणमेवानुस्मृतिः / सा चोपलब्ध्येककर्तृका सती संभवति / पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् / कथं ह्यहमदो ऽद्राक्षमिदं पश्यामीति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् / अपिच दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धो ऽहमदो ऽद्राक्षमिदं पश्यामीति / यदि हि तयोर्भिन्नः कर्ता स्यात्ततो ऽहं स्माराम्यद्राक्षीदन्य इति प्रतीयात् / नत्वेवं प्रत्येति कश्चित् / यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोको ऽवगच्छति, स्मराम्यहमसावदो ऽद्राक्षीदिति / इह त्वहमदो ऽद्राक्षमिति दर्शनस्मरणयोर्विनाशिको ऽप्यात्मानमेवैकं कर्तारमवगच्छति / न नाहमित्यात्मनो दर्शनं निर्वृत्तं निह्नुते यथाग्निरनुष्णो ऽप्रकाश इति वा / तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् / तथानन्तरमनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकामोत्तमादुच्छ्वासादतीताश्च प्रतिपत्तीरा जन्मन आत्मैककर्तृकाः प्रतिसंदधानः कथं क्षणभङ्गवादी वैनाशिको नापपेत स यदि ब्रूयात्सादृश्यादेतत्समपत्स्यत इति / तं प्रतिब्रूयात् / तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात्, सादृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात् / स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथासत्येकस्य क्षणद्वयावस्थ४नात्क्षणिकत्वप्रतिज्ञा पीड्येत / तेनेदं सदृशमिति प्रत्ययान्तरमेवेदं न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमितिचेत् /
SK
न / तेनेदमिति / भिन्नपदार्थोपादानात् / प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्तेनेदं सदृशमिति वाक्यप्रयोगो ऽनर्थकः स्यात् / सादृश्यमित्येव प्रयोगः प्राप्नुयात् / यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते तदा स्वपक्षसिद्धिः परपक्षदोषो वोभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसंतानमारोहति / एवमेवैषोर्ऽथ इति निश्चितं यत्तदेव वक्तव्यम् / ततो ऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् / नचायं सादृश्यात्संव्यवहारो युक्तः / तद्भावावगमात्तत्सदृशभावानवगमाच्च / भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसंभवात्तदेवेदं स्यात्तत्सदृशं वेति संदेहः / उपलब्धरि तु संदेहो ऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदृशो वेति / य एवाहंपूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामीति निश्चिततद्भावोपलम्भात् / तस्मादप्यनुपपन्नो वैनाशिकसमयः
SK
आत्मनः क्षणिकत्वं दूषयति-अनुस्मृतेरिति / अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः / क्षणिकत्वे ज्ञानद्वयानुसंधानं च न स्यादित्याह-कथं ह्यहमिति / पूर्वदर्शनकर्तुरद्राक्षमितिस्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह-अपि चेति / यो ऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः / इदं पश्यामीति ज्ञानान्तरसंबन्धकथनं, यो ऽहमद्राक्षं सो ऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् / विपक्षे बाधकमाह-यदि हीति / द्रष्टृस्मर्त्रोर्भेदे ऽहं स्मरामि अन्यो ऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह-यत्रैवमिति / प्रत्ययमाह-स्मरामीति / स्मराम्यहमन्यो ऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोको ऽवगच्छतीत्यविवादमित्यर्थः / प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह-इह त्वहमद इति / यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात् प्रत्यभिज्ञा प्रमेत्युक्तं भवति / तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह-तत्रैवं सतीति / क्षणद्वयसंबन्धे ऽप्यात्मनस्तृतीयक्षणे भङ्गो ऽस्त्विति वदन्तं प्रत्याह-तथेति / वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्चावर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाःप्रतिसंदधानःसन्निति योजना / दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते-स इति / सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात् स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं संभवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति-तमित्यादिना / स्यादेतत् / न सादृश्यप्रत्ययः पूर्वोत्तरवस्तूदयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते-तेनेदमिति / अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति / नेति वदतः स्वानुभवविरोधः / किञ्चार्थभेदाभावात् पदत्रयप्रयोगो न स्यात् / तस्मात् पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति-न तेनेति / अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् / न / त्रयाणामेकप्रत्ययाभेदे मिथो ऽप्यभेदापत्तेः / इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह-यदा हीति / वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसंभवात् स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदो ऽङ्गीकार्यः / तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः / ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति-एवमेवेति / यत् प्रमाणसिद्धं तदेव वक्तव्यम् / न हि क्षणिकत्वे किञ्चित् प्रमाणमस्ति / न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्वरूपे क्षणिकत्वे मानमिति वाच्यम्, तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः / नच यत्सत् तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् / नच स्थायिनमनुमातारमन्तरेणानुमानं संभवति / तस्मादमानसिद्धार्थवक्ता तथागतो ऽश्रद्धेयवचन इत्यर्थः / किञ्च सादृश्यं प्रत्यभिज्ञायां दोषयता निमित्तं विषयतया वा / आद्ये ऽपि स्वरूपसत् ज्ञातं वा / नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञाने ऽपि रूप्याभेदभ्रमापत्तेः / न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासंभवस्योक्तत्वात् / नापि विषयतया निमित्तमित्याह-नचेति / सो ऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः / सो ऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति-भवेदिति / जडार्थे प्रत्यभिज्ञाते ऽपि बाधसंभावनया संशयः कदाचित् स्यान्नात्मनीत्यर्थः /
SK
असंदिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासंगतमित्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_२,२.४.२५
SK
START Bस्Cओम्_२,२.४.२६
SK
नासतो ऽदृष्टत्वात् | BBस्_२,२.२६ |
SK
इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छतामभावाद्भावोत्पत्तिरित्येतदापद्यते / दर्शयन्ति चाभावाद्भावोत्पत्तिम्- ऽनानुपमृद्य प्रादुर्भावात्ऽ इति / विनष्टाद्धि किल बीजादङ् कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः / कूटस्ताच्चेत्कारणात्कार्यमुत्पद्येताविशेषात्सर्वं सर्वत उत्पद्येत / तस्मादभावग्रस्तेभ्यो बीजादिभ्यो ऽङ् कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिरिति मन्यन्ते /
SK
तत्रेदमुच्यते- ऽनासतो ऽदृष्टत्वात्ऽ इति / नाभावाद्भाव उत्पद्यते / यद्यभावाद्भाव उत्पद्येताभावत्वाविशेषात्कारणविशेषाभ्युपगमो ऽनर्थकः स्यात् / नहि बीजादीनामुपमृदितानां यो ऽभावस्तस्याभावस्य शशविषाणादीनां च निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषो ऽस्ति, येन बीजादेवाङ् कुरो जायते क्षीरादेव दधीत्येवञ्जातीयकः कारणिशेषणादिभ्युपगमोर्ऽथवान्स्यात् / निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्यो ऽप्यङ् कुरादयो जायेरन् / नचैवं दृश्यते / यदि पुनरभावस्यापि विशेषो ऽभ्युपगम्येतोत्पलादीनामिव नीलत्वादिस्ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत / नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात्, अभावत्वादेव, शशविषाणादिवत् / आभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् / नचैवं दृश्यते / सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् / नच मृदान्विताः शरावादयो भावस्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते / मृद्विकारानेव तु मृदान्वितान्भावांल्लोकः प्रत्येति / यत्तूक्तं स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वामुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति / तद्दुरुक्तम् / स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् / येष्वपि बीजादिषु स्वरूपोपमर्दे लक्ष्यते तेष्वरपि नासावुपमृद्यमाना पूर्वावस्थोत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानामेवानुयायिनां बीजाद्यवयवानामङ् कुरादिकारणभावाभ्युपगमात् / तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनादनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः / अपिच चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते
SK
अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति-नासत इति / न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च / द्वौ नञौ प्रकृतार्थं गमयतः / मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह-विनष्टादिति / कारणविनाशात् कार्यजन्मेत्यत्र युक्तिमाह-कूटस्थादिति / विनाशशून्यात् / नित्यादित्यर्थः / नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः / नच सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् / अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् / अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् / तस्मान्न स्थायिभवात् कार्यजन्मेत्यर्थः / क्षणिकभावस्य हेतुत्वम् ऽउत्तरोत्पादे चऽइत्यत्र निरस्तम् / अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे-तत्रेदमिति / यदि बीजाभावस्याभावान्तराद्विशेषः स्यात्, तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोर्ऽथवान्स्यात्, न सो ऽस्तीत्याह-येनेति / सूत्रं योजयति-निर्विशेषस्येति / शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः / अस्त्वभावस्यापि विशेष इत्यत आह-यदीति / अभावस्य हेतुत्वे ऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह-नापीति / अभावो न हेतुः, असत्त्वात् / संमतवदित्यर्थः / अभावो न प्रकृतिः, कार्यानन्वितत्वात्, यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह-अभावाच्चेति / अतो ऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह-मृदिति / स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति-यत्तूक्तमित्यादिना / अनुभवबलात्स्थिरस्वभावानामेव सहकारिसंनिधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् / नच शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यं, यतो ऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् / ततः स्वर्णादौ स्वतो ऽतिशयशून्ये ऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः / न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यं, पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या / यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति / तन्न / अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः / न ह्यर्थक्रियाकारित्वमेव सत्त्वम्, असतस्तदयोगेन सत्त्वस्य ततो भेदात् / सते ह्यर्थक्रियाकारित्वं नासतः / अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव / तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः / पूर्वापरविरोधमप्याह-अपिचेति
SK
END Bस्Cओम्_२,२.४.२६
SK
START Bस्Cओम्_२,२.४.२७
SK
उदासीनानाम् अपि चैवं सिद्धिः | BBस्_२,२.२७ |
SK
यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवंसत्युदासीनानामनीहमानानांपि जनानामभिमतसिद्धिः स्यात् / अभावस्य सुलभत्वात् / कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् / कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्याप्यमत्रोत्पत्तिः / तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः / स्वर्गापवर्गयोश्च न कश्चित्कथञ्चित्समीहेत / नचैतद्युज्यते ऽभ्युपगम्यते वा केनचित् / तस्मादप्यनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः
SK
FN: अनीहमानानां प्रयत्नशून्यानाम् /
SK
अमत्रं घटादिपात्रम् /
SK
अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् / अतिप्रसङ्गान्तरमाह-उदासीनानामिति / अनीहमानानां प्रयत्नशून्यानाम् / अमत्रं घटादिपात्रम् / तन्वानस्यव्यापारयतः / तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम्
SK
END Bस्Cओम्_२,२.४.२७
SK
START Bस्Cओम्_२,२.५.२८
SK
५ अभावाधिकरणम् / सू. २८-३२
SK
नाभाव उपलब्धेः | BBस्_२,२.२८ |
SK
एवं बाह्यार्तवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठिते / केषाञ्चित्किल बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरोचिता / नासौ सुगताभिप्रायः / तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः / तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयव्यवहारः सर्व उपपद्यते / सत्यपि बाह्येर्थे बुद्ध्यारोहमन्तरेण प्रमाणप्रमेयफलव्यवहारानवतारात् / कथं पुनरवगम्यते ऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिक्तो बाह्योर्ऽथो ऽस्तीति / तदसंभवादित्याह / स हि बाह्योर्थो ऽभ्युपगम्यमानः परमाणवो वा स्युस्तत्समूहा वा स्तम्भादयः स्युः / तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति (परमाण्वाभासज्ञानानुत्पत्तेः) / नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्यो ऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् / एवं जात्यादीनपि प्रत्यक्षीत / अपिचानुभावमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य यो ऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् / अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना / अपिच सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति / नह्यनयोरेकस्यानुपलम्भे ऽन्यस्योपलम्भो ऽस्ति / नचैतत्स्वभावविवेके युक्तं, प्रतिबन्धकारणाभावात् / तस्मादप्यर्थाभावः / स्वप्नादिवच्चेदं द्रष्टव्यम् / यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति, एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते / प्रत्ययत्वाविशेषात् / कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते / वासनावैचित्र्यादित्याह / अनादौ हि संसारे बीजाङ् कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते / अपिचान्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते / स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्योभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् / अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मयानभ्युपगम्यमानत्वात् / तस्मादप्यभावो बाह्यार्थस्येति /
SK
एवं प्राप्ते ब्रूमः - ऽनाभाव उपलब्धेःऽ इति / न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते / कस्मात् / उपलब्धेः / उपलभ्यते हि प्रतिप्रत्ययं बाह्योर्ऽथः स्तम्भः कुड्यं घटः पट इति / नचोपलभ्यमानस्यैवाभावो भवितुमर्हति / यथा हि कश्चिद्भुञ्जानो भुजितसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान्नाहं भुञ्जे न वा तृप्यामीति, तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्यमर्थं नाहमुपलभे नच सो ऽस्तीति ब्रुवन्कथमुपादेयवचनः स्यात् /
SK
ननु नाहमहं ब्रवीमि न कञ्चिदर्थमुपलभ इति किं तूपलब्धिव्यतिरिक्तं नोपलभ इति ब्रवीमि / बाढमेवं ब्रवीषि निरङ् कुशत्वात्ते तुण्डस्य / नतु यक्त्युपेतं ब्रवीषि / यत उपलब्धिव्यतिरेको ऽपि बलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव / नहि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते / उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते यत्प्रत्याचक्षाणा अपि बाह्यार्थमेव व्याचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासत इति / ते ऽपि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाश्च बाह्यमर्थं बहिर्वदति वत्कारं कुर्वन्ति / इतरथा हि कस्माद्बहिर्वदति ब्रूयुः / नहि विष्णुमित्रो वन्ध्यापुत्रवदवभासत इति कश्चिदाचक्षीत / तस्माद्यथानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासत इति युक्तमभ्युपगन्तुं नतु बहिर्वदवभासत इति /
SK
ननु बाह्यार्थस्यासंभवाद्बहिर्वदवभासत इत्यध्यवसितम् / नायं साधुरध्यवसायो यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संबवासंभवाववधार्येते न पुनः संभवासंभवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती / यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति / यत्तु न केनचिदपि प्रमाणेनोपलभ्यते तन्न संभवति / इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योर्ऽथ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्येतोपलब्धेरेव / नच ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य / अत एव सहोपलम्भनियमो ऽपि प्रत्ययविषययोरुपायोपेयभावहेतुको नाभेदहेतुक इत्यब्युपगन्तव्यम् / अपिच घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदो न विशेष्यस्य ज्ञानस्य / द्वाभ्यां च भेद एतस्य सिद्धो भवत्येकस्माच्च द्वयोः / तस्मादर्थज्ञानयोर्भेदः / तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् / अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदो न विशेषणस् घटस्य / यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदो न विशेषणस्य क्षीरस्य तद्वत् / अपिच द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैवोपक्षीणयोरितरेतरग्राह्यग्राहकत्वानुपपत्तिः / ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगतास्ता हीयेरन् / किञ्चान्यत् / विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योर्थः स्तम्भः कुड्यमित्येवञ्जातीयकः तस्मान्नाभ्युपगम्यत एवेति युक्तमभ्युपगन्तुम् / अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते न तथा बाह्यो ऽप्यर्थ इति चेत् /
SK
अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छस्यग्निरात्मानं दहतीतिवत्, अविरुद्धं तु लोकप्रसिद्धं स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योर्ऽथोनुभूयत इति नेच्छास्यहो पाण्डित्यं महद्दर्शितम् /
SK
नचार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव /
SK
ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे तदप्यनेन ग्राह्यं तदप्यन्येनेत्यनवस्था प्राप्नोति / अपिच प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति / तदुभयमप्यसत् / विज्ञानग्तहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादानवस्ताशङ्कानुपपत्तेः / साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः / स्वयंसिद्धस्य च साक्षिणो ऽप्रत्याख्येयत्वात् / किञ्चान्यत् / प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् / शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् /
SK
बाढमेवम्, अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वयानुज्ञायत इति चेत् /
SK
न / अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् / अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते / साक्षिणो ऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानमित्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् / न / विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् / अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम्
SK
FN: पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः / अविद्योपप्लवो ऽविद्यासंसर्गः /
SK
नाभाव उपलब्धेः / अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततो ऽन्योर्ऽथो ऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह-एवमित्यादिना / पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् / नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह-केषाञ्चिदिति / उक्तं च धर्मकीर्तिना-ऽदेशना लोकनाथानां सत्त्वाशयवशानुगाःऽइति / सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः / नन्वसति बाह्यार्थे मानमेयव्यवहारः कथं, तत्राह-तस्मिन्निति / विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम्, अवभासात्मना मानफलं, शक्त्यात्मना मानं, शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः / मुख्य एव भेदः किं न स्यादत आह-सत्यपीति / नहि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारो ऽस्ति / अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः / बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति-कथमित्यादिना / ज्ञेयं ज्ञानातिरेकेणासत्, तदतिरेकेणासंभवात्, नरशृङ्गवदित्याह-तदसंभवादिति / असंभवं विवृणोति-स हीति / परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् / समूहस्त्वसन्नित्यर्थः / अवयव्यभावे ऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह-एवमिति / जातिगुणकर्मणां धर्मिणः सकाशादभेदे ऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः / भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः / किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसंबन्धाभावे सर्वविषयत्वापत्तेर्विशेषो ऽङ्गीकार्यः, तथाच ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह-अपिचेति / पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः / किञ्च ज्ञेयं ज्ञानाभिन्नं, ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात्, ज्ञानवदित्याह-अपिचेति / ज्ञानार्थयोवास्तवभेदे ऽपि सहोपलम्भनं स्यात्, ग्रैह्यग्राहकभावादित्यत आह-न चैतदिति / क्षणिकज्ञानस्यार्थेन संबन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः / किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनं, विज्ञानत्वात्, स्वप्नादिज्ञानवदित्याह-स्वप्नेति / विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते-कथमिति / अन्यथोपपत्त्या परिहरति-वासनेति / अनादिसंतानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधाने ऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः / उभयवादिसंमतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह-अपिचेति / क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-नाभाव इत्यादिना / किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः / नाद्य इत्युक्तमुपलब्धेरिति / द्वितीयं शङ्कते-ननु नाहमिति / ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह-बाढमित्यादिना / त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह-अतश्चेति / बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात्, दृष्टान्तत्वात्संभवाच्च बहिर्वच्छब्दो न स्यादित्याह-इतरथेति / अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह-तस्मादिति / ज्ञेयार्थो ज्ञानातिरेकेणासन्नसंभवादित्युक्तबाधाद्वत्करणमिति शङ्कते-नन्विति / को ऽसावसंभवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसंभवस्याभावो वा / नाद्यः, साध्याभेदात् / न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासंभवासिद्धरित्याह-नायं साधुरिति / संभवः सत्तानिश्चयः प्रमाणाधीनः / असंभवो ऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति-यद्धीति / उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः संभवं वदन्नेव तृतीयं दूषयति-इहेति / प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षे ऽप्ययुक्तत्वस्य तुल्यत्वात् / न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकप्रसङ्गात् / न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः / तस्मादयुक्तत्वे ऽपि यथानुभवं व्यवहारयोग्योर्ऽथः स्वीकार्यः / न चतुर्थः, निश्चिते तादृशसंभवस्यानुपयोगात् / तस्य क्वचित् प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः / यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह-नचेति / यत्तु गौरवमुक्तं, तन्न दूषणं, प्रामाणिकत्वादित्याह-वहिरिति / यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमो ऽपि नाभेदसाधक इत्याह-अत एवेति / यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वे ऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदे ऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः / नच ज्ञानस्य क्षणिकत्वात् स्वभिन्नग्राह्यसंबन्धायोगः, स्थायित्वादिति भावः / विज्ञानमनेकार्थेभ्यो भिन्नम्, एकत्वात्, गोत्ववदिति सत्प्रतिपक्षमाह-अपि चेति / नच हेत्वसिद्धः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् / नच सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह-नविशेष्यस्येति / घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह-तथेति / घटो द्वाभ्यां भिन्नः एकत्वात्, क्षीरवदित्यर्थः / ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह-अपि चेति / क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च / तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् / तथाच तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः / एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता / सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम्, अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेणवा दुर्ज्ञानत्वात् उत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् / किचाविद्योपप्लवो ऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् / अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या / आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशो ऽनेकज्ञानसाध्यो गृहीतः / तस्मात् प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदो ऽङ्गीकार्य इत्यर्थः / ज्ञानार्थयोभेदे युक्तयन्तरमस्तीत्याह-किञ्चान्यदिति / ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः / स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते-अथ विज्ञानमिति / विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह-अत्यन्तेति / ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितं, वस्तुतः स्ववेद्यत्वमयुक्तमित्याह-नचेति / कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः / नच स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम्, अभेदे विषयविषयित्वस्याप्यसंभवादिति भावः / ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते-नन्विति / अनवस्था च साम्यं चेति दोषद्वयं परिहरति-तदुभयमपीति / अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था / नापि साम्यम् / चिज्जडत्ववैषम्यादित्यर्थः / साक्षी क्वेत्यत आह-स्वयंसिद्धस्येति / निरपेक्षस्य साक्षिणो ऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सो ऽङ्गीकार्य इत्यर्थः / अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह-किञ्चेति / विज्ञानं ज्ञानान्तरापेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात्, स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्ता स्यात्, तथाच ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् / अतस्तत्साक्ष्येष्टव्य इत्यर्थः / विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यं, स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते-बाढमिति / अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति-नेति / विमतं विज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात्, देहवदित्यर्थः / अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा / आद्ये ऽनवस्था / द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते-साक्षिण इति / त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते / अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितं, कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति-न / विज्ञानस्येति
SK
END Bस्Cओम्_२,२.५.२८
SK
START Bस्Cओम्_२,२.५.२९
SK
वैधर्म्याच् च न स्वप्नादिवत् | BBस्_२,२.२९ |
SK
यदुक्तं बाह्यार्थपलायिना स्वप्नादिप्रत्ययवजिजागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति / तत्प्रतिवक्तव्यम् /
SK
अत्रोच्यते- न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति / कस्मात् / वैधर्म्यात् / वैधर्म्यं हि भवति स्वप्नजागरितयोः / किं पुनर्वैधर्म्यम् / बाधाबाधाविति ब्रूमः / बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्या मयोपलब्धो महाजनसमागम इति, नह्यस्ति मम महाजनसमागमो निद्रालग्नं तु मे मनो बभूव तेनैषा भ्रान्तिरुद्बभूवेति / एवं मायादिष्वपि भवति यताविधं बाधः / नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते / अपिच समृतिरेषा यत्स्वप्नदर्शनम् / उपलब्धिस्तु जागरितदर्शनम् / स्मृत्युपलब्धयोश्च प्रत्यक्षमन्तरं स्वयमनुभूयतेर्ऽथविप्रयोगसंयोगात्मकमिष्टं पुत्रं स्मरामि नोपलभ उपलब्धुमिच्छामीति / तत्रैवंसति न शक्यते वक्तुं मिथ्या जागरितोपलब्धिरूपलब्धित्वात्स्वप्नोपलब्धिवदित्युभयोरन्तरं स्वयमनुभवता / नच स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् / अपिचानुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते / नच यो यस्य स्वतो धर्मो न संभवति सो ऽन्यस्य साधर्म्यात्तस्य संभविष्यति / नह्यग्निरुष्णो ऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति / दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः
SK
FN: निद्रालग्निमिति करणदोषाभिधानम् / संस्कारमात्रजं हि विज्ञानं समृतिः / प्रमाणजो ऽनुभव उपलब्धिः /
SK
एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् / संप्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति-वैधर्म्याच्चेति / किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम्, अथवा व्यावहारिकविषयशून्यत्वम् / नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् / न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः / तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह-बाध्यते हीत्यादिना / निद्राग्लानमिति / करणदोषोक्तिः / साधनव्यापकत्वनिरासायाह-नचैवमिति / किञ्च प्रमाणजानुभव उपलब्धिः पक्षो ऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् / परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह-अपि चेति / स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह-अर्थविप्रयोरेति / असंबन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत्, न संप्रयुक्तवर्यमानार्तमात्रग्राहिण्या उपलब्धेरिति भावः / पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह-तत्रैवंसतीति / वैधर्म्ये सतीत्यर्थः / अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः / वैधर्म्यासिद्धिं निरस्यति-नचेति / बाधमप्याह-अपिचेति / वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो दि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतो ऽपि वक्तुं शक्यत्वात् / नहि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् / यदि न वस्तुतो धर्मो ऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् / अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः / उक्तोपाधिरपि न विस्मर्तव्य इत्याह-दर्शितं त्विति
SK
END Bस्Cओम्_२,२.५.२९
SK
START Bस्Cओम्_२,२.५.३०
SK
न भावो ऽनुपलब्धेः | BBस्_२,२.३० |
SK
यदप्युक्तं विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्प्यत इति / तत्प्रतिवक्तव्यम् / अत्रोच्यते- नभावो वासनानामुपपद्येत त्वत्पक्षे ऽनुपलब्धेर्बाह्यानामर्थानाम् / अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति /
SK
अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः / अनादित्वे ऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलोपिनी स्यान्नाभिप्रायसिद्धिः / यावप्यन्यव्यतिरेकावर्थापलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति, तावप्येवंसति प्रत्युक्तौ द्रष्टव्यौ / विनार्ऽथोपलब्ध्या वासनानुपपत्तेः / अपिच विनापि वासनाभिरर्थोपलब्ध्युपगमाद्विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमादर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः / अपिच वासना नाम संस्कारविशेषाः / संस्काराश्च नाश्रयमन्तरेणावकल्प्यन्ते / एवं लोके दृष्टत्वात् / नच तव वासनाश्रयः कश्चिदस्ति प्रमाणतो ऽनुपलब्धेः
SK
FN: भाव उत्पत्तिः सत्ता वा /
SK
सूत्रव्यावर्त्यं स्मारयित्वा दूषयति-यदप्युक्तमित्यादिना / भाव उत्पत्तिः सत्ता वा / ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह-अनादित्वे ऽपीति / बीजादङ्कुरो दृष्ट इत्यदृष्टे ऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः / ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह-याविति / वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः / कार्यत्वग्राहकं व्यतिरेकमाह-विनेति / अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् / अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह-अपिचेति / यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह-अपिचेति
SK
END Bस्Cओम्_२,२.५.३०
SK
START Bस्Cओम्_२,२.५.३१
SK
क्षणिकत्वाच् च | BBस्_२,२.३१ |
SK
यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितं तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति / नहि कालत्रयसंबन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि / देशकालनिमित्तापेक्षवासनाधानस्मृतिप्रतिसंधानादिव्यवहारः संभवति / स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिः / अपिच विज्ञानवादे ऽपि क्षणिकत्वाभ्युपगमस्य समानत्वाद्यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि ऽउत्तरोत्पादे च पूर्वनिरोधात्ऽ इत्येवमादीनि तानीहाप्यनुसंधातव्यानि /
SK
एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ बाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्च / शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते / नह्ययं सर्वप्रमाणप्रसिद्धो लोकव्यवहारो ऽन्यत्तत्त्वमनधिगम्य शक्यते ऽपह्नोतुमपवादाभाव उत्सर्गप्रसिद्धेः
SK
FN: नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योजयन्ते /
SK
अस्त्वालयविज्ञानमाश्रय इत्यत आह-क्षणिकत्वाच्चेति / सूत्रं व्याचष्टे-यदपीति / सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात्, पौर्वापर्ये चाधेयक्षणे ऽसत आधारत्वायोगात्, सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः / अस्तु तर्ह्यालयविज्ञानसंतानाश्रया वासनेत्यत आह-नहीति / सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा संतानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न संभवतीत्यर्थः / यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह-स्थिरेति / सूत्रमतिदेशार्थत्वेनापि व्याचष्टे-अपिचेति / मतद्वयनिरासमुपसंहरति-एवमिति / ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्कय सूत्रकारः किमिति न निराचकारेत्यत आह-शून्येति / आदरः पृथक्सूत्रारम्भो न क्रियते / एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः / तथाहि-ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः / ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात्, सुषुप्तिवदित्यत आह-ऽवैधर्म्याच्च न स्वप्नादिवत्ऽ / स्वप्न आदिर्यस्याः सुषुप्तेस्तदन्नेतरावस्थयोः शून्यत्वम्, उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् / सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः / किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यं, तस्य त्वन्ते न भावः / मानतो ऽनुपलब्धेरित्याह-ऽन भावो ऽनुपलब्धेःऽ / तदर्थमाह-न ह्ययमिति / यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् / बाधाभावादित्यर्थः / नच सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् / मिथ्यात्वसंभवादिति भावः / ऽक्षणिकत्वाच्चऽइति सूत्रं ऽक्षणिकत्वोपदेशाच्चऽइति पठनीयम् / शून्यत्वविरुद्धक्षणिकत्वोपदेशादसंगतप्रलापी सुगत इत्यर्थः
SK
END Bस्Cओम्_२,२.५.३१
SK
START Bस्Cओम्_२,२.५.३२
SK
सर्वथानुपपत्तेश् च | BBस्_२,२.३२ |
SK
किं बहुना / सर्वप्रकारेण यथायथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथातथा सिकताकूपवद्विदीर्यत एव / न काञ्चिदप्यत्रोपपत्तिं पश्यामः / अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः / अपिच बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनो ऽसंबद्धप्रलापित्वं, प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति / सर्वथाप्यनादरणीयो ऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः
SK
FN: वेदबाह्या अत्र प्रजा ग्राह्याः /
SK
सुगतमतासांगत्यमुपसंहरति-सर्वथेति / सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह-प्रद्वेषो वेति / वेदबाह्या अत्र प्रजा ग्राह्याः / अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम्
SK
END Bस्Cओम्_२,२.५.३२
SK
START Bस्Cओम्_२,२.६.३३
SK
६ एकस्मिन्नसंभवाधिकरणम् / सू. ३३-३६
SK
नैकस्मिन्न् असंभवात् | BBस्_२,२.३३ |
SK
निरस्तः सुगतसमयः / विवसनसमय इदानीं निरस्यते / सप्त चैषां पदार्थाः संमता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम / संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ / यथायोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते / तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम- जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकाय आकाशास्तिकायश्चेति / सर्वेषामप्येषामवान्तरप्रभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति / सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति / स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति / एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति / अत्राचक्ष्महे- नायमभ्युपगमो युक्त इति कुतः / एकस्मिन्नसंभवात् / नह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् / य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युर्नैव वा तथा स्युः / इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् /
SK
नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति /
SK
नेति ब्रूमः / निरङ् कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वविशेषात्स्यादिति स्यानव्नास्तीत्यादिविकल्पोपनिपातादिनिर्धारणात्मकतैव स्यात् / एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षे ऽस्तिता स्याच्च पक्षे नास्तीति / एवंसति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितष्वनिर्धारितासूपदेष्टुं शक्नुयात् / कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेर्ऽथे ऽनिर्धारितरूपे प्रवर्तेरन् / ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोको ऽनाकुलः प्रवर्तते नान्यथा / अतश्चानिर्धार्तार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् / तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यादित्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् / नचैषां पदार्थानामवक्तव्यत्वं संभवति /
SK
अवक्तव्याश्चेन्नोच्येरन् / उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् / उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च / तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा, एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्यायितव्यपक्षस्य / स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः / अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः / एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात्सत्त्वे चैकस्मिन्धर्मे ऽसत्त्वस्य धर्मान्तरस्यासंभवादसत्त्वे चैवं सत्त्वस्यासंभवादसंगतमिदमार्हतं मतम् / एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः / यत्तु पुद्गलसंज्ञकेभ्यो ऽणुभ्यः संगाताः संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते
SK
FN: जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेनिद्रियाणां प्रवृत्तिरास्रवः, तां संवृणोतीति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् /
SK
अस्तिकायशब्दः सांकेतिकः पदार्थवाची / जीवश्चासावस्तिकायश्चेति विग्रहः /
SK
पूर्यन्ते गन्तीति पुद्गलाः परमाणुसंघाः कायाः /
SK
सप्तानांस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी तस्या नयो न्यायः /
SK
नैकस्मिन्नसंभवात् / मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह-निरस्त इति / एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधो ऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां संदेहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसंधायतन्मतमुपन्यस्यति-सप्त चेति / जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् / नन्वास्त्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह-संक्षेपतस्त्विति / संक्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह-तयोरिति / अस्तिकायशब्दः सांकेतिकः पदार्थवाची / जीवश्चासावस्तिकायश्चेत्येवं विग्रहः / पूर्यन्ते ग्लन्तीति पुद्गलाः परमाणुसंघाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः / पञ्चपदार्थानामवान्तरभेदमाह-सर्वेषामिति / अयमर्थः-जीवास्तिकायस्त्रिविधः-कश्चिज्जीवो नित्यसिद्धोर्ऽहन्मुख्यः, केचित्सांप्रतिकमुक्ताः, केचिद्बद्धा इति / पुद्गलास्तिकायः षोढा-पृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति / प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ / आकाशास्तिकायो द्विविधः-लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति / बन्धाख्यं कर्माष्टविधम्-चत्वारि घातिकर्माणि चत्वार्यघातीनि / तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि / तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानम् द्वितीयं, बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं, मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम्, इमानि चत्वारि श्रेयोहन्तृत्वाघातिकर्माणि / अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति / मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम्, एतन्नामाहमस्मीत्यभिमानो नामिकम्, अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टो ऽस्मीत्यभिमानो गोत्रिकम्, शरीरस्थित्यर्थं कर्म आयुष्कम् / अथवा शुक्रशोणितमिश्रितमायुष्कं, तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकं, शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकं, सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयं, तत्त्ववेदनानुकूलत्वात् / तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वाघातीनि / तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति / इयं प्रक्रिया मान्यशून्येति द्योतयति-स्वसमयपरिकल्पितानिति / स्वीयतन्त्रसंकेतमात्रकल्पितानित्यर्थः पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह-सर्वत्रेति / अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति / सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः / घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् / अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः / के ते सप्तभङ्गाः, तानाह-स्यादस्तीति / स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् / स्यादस्ति / कथञ्चिदस्तीत्यर्थः / एवमग्ने ऽपि / तत्र वस्तुनो ऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते / नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः / क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः / युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात् स्यादवक्तव्य इति चतुर्थो भङ्गः / आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः / द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः / तृतीयचतुर्थेच्छायां स्यादस्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः / एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादेको ऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेको ऽवक्तव्यः स्यादेको ऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् / एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः संभवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात्, तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति-अत्रेति / यदस्ति तत् सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा / न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम्, अप्राप्तिभ्रान्त्या यत्नसंभवात् / यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि / प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः / तथाहि-किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण / द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव / नहि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामो ऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः / अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् / नाद्य इत्याह-नायमिति / ननु विमतमनैकात्मकं, वस्तुत्वात्, नारसिंहवदिति चेत् / न / घट इदानीमस्त्येवेत्यनुभवबाधात् / किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् / आद्ये व्यभिचार इत्याह-य इति / द्वितीये पदार्थनिश्चयो न स्यादित्याह-इतरथेति / अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते-नन्विति / तस्य निश्चयरूपत्वं नियतमनियतं वा / आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः / द्वितीये तस्य संशयत्वं स्यादित्याह-नेति ब्रूम इति / प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति-एवमिति / निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः / इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह-एवंसतीति / अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह-तथा पञ्चानामिति / यदुक्तमवक्तव्यत्वं तत् किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् / नाद्यः, व्याघातादित्याह-न चैषामिति / उच्यन्ते च / अवक्तव्यादिपदैरिति शेषः / न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात्, शेषस्यापि मुखभेदात् / न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यं, तादृशवाञ्छाया एवानुत्पत्तिरिति / किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह-उच्यमानाश्चेत्यादिना / इति च प्रलपन्नित्यन्वयः / अर्हन्निति शेषः / अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः /
SK
इतश्चासंगतो ऽनैकान्तवाद इत्याह-स्वर्गेति / किञ्चानादिसिद्धोर्ऽहन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमो ऽपि न स्यादित्याह-अनादीति / प्रपञ्चितं सूत्रार्थं निगमयति-एवमिति / एतेनेति / सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः / परमाणुसंघाताः पृथिव्यादय इति / दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह-यत्त्विति
SK
END Bस्Cओम्_२,२.६.३५
SK
START Bस्Cओम्_२,२.६.३४
SK
एवं चात्माकार्त्स्न्यम् | BBस्_२,२.३४ |
SK
यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रसक्त एवमात्मनो ऽपि जीवस्याकार्त्स्न्यमपरो दोषः प्रसज्येत / कथम् / शरीरपरमात्माणो हि जीव इत्यार्हता मन्यन्ते / शरीरपरिमाणतायां च सत्यामकृत्स्नो ऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत / शरीरीणां चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् / पुत्तिकाजन्म च प्राप्मुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयेत / समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थविरेषु दोषः /
SK
स्यादेतत् / अन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे संकुचेयुर्महति च विकुचेयुरिति / तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा नवेति वक्तव्यम् / प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् / अप्रतिघाते ऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात् / अपिच शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम्
SK
FN: कर्मविपाकः कर्मणामभिव्यक्तिः /
SK
जीवस्य देहपरिमाणतां दूषयति-एवं चेति / अकार्त्स्न्यं मध्यमपरिमाणत्वम् / तेनानित्यत्वं स्यादित्यर्थः / अर्थान्तरमाह-शरीराणां चेति / विपाकः कर्मणामभिव्यक्तिः / जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् / शरीरैकदेशो निर्जीवः स्यादित्यर्थः / पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् / देहाद्बहिरपि जीवः स्यादित्यर्थः / किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित् स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह-समान इति / यथा दीपावयवानां घटे संकोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते-स्यादिति / दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्ये ऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति-तेषामित्यादिना / दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् / द्वितीयं दूषयति-अप्रतिघात इति / अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह-अपिचेति
SK
END Bस्Cओम्_२,२.६.३४
SK
START Bस्Cओम्_२,२.६.३५
SK
अथ प्रयायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत तत्राप्युच्यते-
SK
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः | BBस्_२,२.३५ |
SK
नच पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते / कुतः / विकारादिदोषप्रसङ्गात् / अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम्, विक्रियावत्त्वे च चर्मादिवदनित्यं प्रसज्येत / ततश्च बन्धमोक्षाभ्युपगमो बाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति / किञ्चान्यत् / आगच्छतामपगच्छतां चावयवानामागमापायधर्मवत्त्वादेवानामात्वं शरीरादिवत् / ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् / नच स निरूपयितुं शक्यते ऽयमसाविति / किञ्चान्यत् / आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्त्यपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् / नहि भूतेभ्यः प्रादुर्भवेयुर्भूतेषु च निलीयेरन्, अभौतिकत्वाज्जीवस्य / नापि कश्चिदन्यः साधारणो ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् / किञ्चान्यत् / अनवधृतस्वरूपश्चैवंसत्यात्मा स्यात् / आगच्छतामपगच्छतां चावयवानामनियतपरिमाणत्वात् / अत एवमादिदोषप्रसङ्गान्न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्यते / अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः पर्यायेण परिमाणानवस्थाने ऽपि स्रोतःसंताननित्यतान्यायेनात्मनो नित्यता स्यात् / यथा रक्तपटानां विज्ञानानवस्थाने ऽपि तत्संताननित्यता तद्वद्धिसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते / संतानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः / वस्तुत्वे ऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति
SK
FN: देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि स्रोतःप्रवाहः / विगतं सिग् वस्त्रं विसिचो दिगम्बरास्तेषामित्यर्थः /
SK
एवं जीवावयवा नित्या इतिमते देहमानत्वं निरस्तम् / संप्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते-अथेति / बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः / सूत्रेण परिहरति-नचेति / आगमापायौ पर्यायः / किमागमापायिनामवयवानामात्मत्वमस्ति न वा / आद्ये आह-विकारादिदोषेति / को ऽसौ बन्धमोक्षाभ्युपगम इत्यत आह-कर्माष्टकेति / व्याख्यातमेतत् / आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति-किञ्चेति / अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः / यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह-किञ्चेति / सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः / किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तो ऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह-किञ्चेति / अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम्, अवयवसमूहत्वे चासत्त्वं, आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापाये ऽपि सद्यः शरीरस्याचेतनत्वं, गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति-अत इति / सूत्रस्यार्थान्तरमाह-अथवेति / स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्संतानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः / पर्यायेणेत्यस्य व्याख्यास्रोत इति / देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि / स्रोतः प्रवाहः /
SK
तदात्मकस्यात्मव्यक्तिसंतानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह-यथेति / सिग् वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः / पर्यायात् संतानादप्यात्मनित्यत्वस्याविरोध इति न च / कुतः / विकारादिभ्यः / संतानस्यावस्तुनः आत्मत्वे शून्यवादः, संतानस्य वस्तुत्वे संतान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात् संतानात्मपक्षो ऽनुपपन्न इति सूत्रार्थः
SK
END Bस्Cओम्_२,२.६.३५
SK
START Bस्Cओम्_२,२.६.३६
SK
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः | BBस्_२,२.३६ |
SK
अपिचान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः / तद्वत्पूर्वयोरप्यविद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात् / एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्तिः / अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीवः स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्महान्वा जीवो ऽभ्युपगन्तव्यो न शरीरपरिमाणः / अतश्च सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्
SK
पत्यधिकरणम् / सू. ३७-४१
SK
यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति-अन्त्येति / अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना / आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात्, अन्त्यपरिमाणवत् / न चाप्रयोजकता, परिमाणनाशे सत्यात्मनो ऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः / परिमाणत्रयसाम्यापादानफलमाह-एकेति / अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरारप्राप्तावात्मनःस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः / पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् / संप्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् प्रागसतो नित्यत्वायोगात्, तथा चाविशेषः कालत्रये ऽपि जीवपरिमाणाभेद इत्याह-अथवेति / तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम्
SK
END Bस्Cओम्_२,२.६.३६
SK
START Bस्Cओम्_२,२.७.३७
SK
पत्युर् असामञ्जस्यात् | BBस्_२,२.३७ |
SK
इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते / तत्कथमवगम्यते / ऽप्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ ऽअभिध्योपदेशाच्चऽ (ब्र. १.४.२३,२४) इत्यत्र प्रकृतिभावेनाधिष्ठातृभावेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् / यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत / तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते / सा चेयं वेदबाह्येश्वरकल्पनानेकप्रकारा /
SK
केचित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वर इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति / माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति / तथा वैशेषिकादयो ऽपि केचित्कथञ्चित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति / अत उत्तरमुच्यते- ऽपत्युरसामञ्जस्यात्ऽ इति / पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते / कस्मात् / असामञ्स्यात् / किं पुनरसामञ्जस्यम् / हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत / प्राणिकर्मापेक्षितत्वाददोष इति चेत् /
SK
न / कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात् /
SK
नानादित्वादिति चेत् /
SK
न / वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेः / अपिच ऽप्रवर्तनालक्षणा दोषाःऽ (न्यायसू. १.१.१८) इति न्यायवित्समयः / नहि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते / स्वार्थप्रयुक्त एव च सर्वो जनः परार्थे ऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यं, स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात् / पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्
SK
FN: सांख्ययोगव्यपाश्रयाः हिरण्यगर्भपतञ्जलिप्रभृतयः / माहेश्वराश्चत्वारः - शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति / पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः /
SK
पत्युरसामञ्जस्यात् / लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसंगतिमाह-इदानीमिति / सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते-तदिति / स्वोक्तिविरोधान्मैवमित्याह-प्रकृतिश्चेत्यादिना / प्रतिष्ठापितत्वात् केवलनिमित्तेश्वरप्रतिषेधो ऽवगम्यत इत्यन्वयः / व्याहतोविरुद्धो ऽभिव्याहार उक्तिर्यस्य स तथा / अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो नप्रकृतिरिति शैवादिमतेन विरोधो ऽस्ति न वेति संदेहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्तद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्वासत्वयोरेकत्रासंभववत् कर्तृत्वोपादानत्वयोरप्येकत्रासंभवात् कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह-सा चेति / सेश्वरः सांख्याः सांख्यशब्दार्थः / चत्वारो मादेश्वराः-शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति / सर्वो ऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते / कार्यं महदादिकं, कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः / पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः / पाशुपतागमप्रमाण्यात् पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह-तथेति / विमतं सकर्तृकं, कार्यत्वात्, घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति / कर्मफलं सपरिकराभिज्ञदातृकं, कालान्तरभाविफलत्वात्, सेवाफलवदिति गौतमा दिगम्बराश्च / ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात्, परिमाणवदिति सांख्यसौगतपातञ्जला इति मत्वोक्तम्-केचित्कथञ्चिदिति / सिद्धान्तयति-अत इति / आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह-किमिति / न तावत् स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् / नच सर्वज्ञानं मूलं, तत्र मानाभावात् / न चागम एव मानम्, आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् / नच पुरुषवचसां स्वतोमानत्वं युक्तं, मिथो विरोधेन तत्त्वाव्यवस्थानाच्च / नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः संभवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् / तथाच लोके यादृशाः कर्तारो दृष्टान्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः / यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शने ऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यतां, कर्तुरेवोपादानत्वेन लाघवात्, अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् / अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् / अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्देषेश्वरनिर्णयः / निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यं, तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह-हीनेति / यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् / न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्देषत्वादावुदासीनत्वात् / न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात्, दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च / दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः / यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवो ऽपि स्यादिति / न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः / ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते-प्राणीति / जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह-नेति / न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह-कर्मेति / अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते-नानादित्वादिति / अतीतकर्मणो ऽपि जडत्वान्नेश्वरप्रेरकता / नच तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् / ततो ऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयति चेत् / न / मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् / अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः / यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति / तन्न / विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात्, पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् / अस्माकं तु ऽएष ह्येव साध्वसाधु कारयतिऽइति, ऽनिरवद्यम्ऽइति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् / किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह-अपिचेति / प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथाचेश्वरः स्वार्थे रागादिमान्, प्रवर्तकत्वात्, संमतवत् / नच कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः / उदासीनः प्रवर्तक इति च व्याहृतमिति योगान्प्रत्याह-पुरुषेति
SK
END Bस्Cओम्_२,२.७.३७
SK
START Bस्Cओम्_२,२.७.३८
SK
संबन्धानुपपत्तेश् च | BBस्_२,२.३८ |
SK
पुनरप्यस्माञ्जस्यमेव / नहि प्रधानपुरुषव्यतिरिक्त ईश्वरो ऽन्तरेणसंबन्धं प्रधानपुरुषयोरीशिता / न तावत्संयोगलक्षणः संबन्धः संभवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च / नापि समवायलक्षणः संबन्धः, आश्रयाश्रयिभावानिरूपणात् / नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुं, कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात् / ब्रह्मवादिनः कथमिति चेत् /
SK
न / तस्य तादात्म्यलक्षणसंबन्धोपपत्तेः / अपिचागमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमो ऽस्ति / परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः / परस्यापि सर्वज्ञप्रणीतागमसद्भावात्समानमागमबलमिति चेत् /
SK
न / इतरेतराश्रयत्वप्रसङ्गादागमप्रत्ययत्वात्सर्वज्ञत्वसिद्धिः सर्वज्ञप्रत्ययाच्चागमसिद्धिरिति / तस्मादनुपपन्ना सांख्ययोगवादिनामीश्वरकल्पना / एवमन्यास्वपि वेदब्रह्मास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम्
SK
प्रधानवादे दोषान्तरमाह सूत्रकारः-संबन्धेति / ईश्वरेणासंबद्धस्य प्रधानादेः प्रेर्यत्वायोगात्संबन्धो वाच्यः / स च संयेगः समवायो वा नास्तीत्यर्थः / कार्यबलात् प्रेरणयोग्यात्वाख्यः संबन्धः कल्प्यतामित्यत आह-नाप्यन्य इति /
SK
ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत् संबन्धकल्पना स्यात् / तच्चाद्याप्यसिद्धमित्यर्थः / मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसंबन्धः, ऽदेवात्मशक्तिम्ऽइति श्रुतेः / किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसंबन्धो वैदिकेनानुसर्तव्यः / आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह-अपिचेति / सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् / न ह्यमनस्कस्य ज्ञानं संभवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः / प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह-एवमन्यास्वपीति
SK
END Bस्Cओम्_२,२.७.३८
SK
START Bस्Cओम्_२,२.७.३९
SK
अधिष्ठानानुपपत्तेश् च | BBस्_२,२.३९ |
SK
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य / स हि परिकल्प्यमानः कुमभकार इव मृदादीनि प्रधानादीन्यधिष्ठाय प्रवर्तयेत् / नचैवमुपपद्यते / नह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति मृदादिवैलक्षण्यात्
SK
ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः-अधिष्ठानेति / प्रधानादिकं चेतनस्यानधिष्ठेयं, अप्रत्यक्षत्वात्, ईश्वरवत्, व्यतिरेकेण मृगादिवच्चेत्यर्थः
SK
END Bस्Cओम्_२,२.७.३९
SK
START Bस्Cओम्_२,२.७.४०
SK
करणवच् चेन् न भोगादिभ्यः | BBस्_२,२.४० | /
SK
स्यादेतत् / यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषो ऽधितिष्ठत्येवं प्रधानमपीश्वरो ऽधिष्ठास्यतीति / तथापि नोपपद्यते / भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते / नचात्र भोगादयो दृश्यन्ते /
SK
करणग्रामसाम्ये वाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन् / अन्यथा वा सूत्रद्वयं व्याख्यायते- अधिष्ठानानुपपत्तेश्च इतश्चानुपपत्तिस्तार्किकपरिकल्पिस्येश्वरस्य / साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते न निरधिष्ठानः / अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यपि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात् / नच तद्वर्णयितुं शक्यते / सृष्ट्युत्तरकालभावित्वाच्छरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः / निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः / एवं लोके दृष्टत्वात् / ऽकरणवच्चेन्न भोगादिभ्यःऽ / अथ लोकदर्शनानुसारेणेश्वरस्यापि किञ्चित्कारणानामायतनं शरीरं कामेन कल्प्येत / एवमपि नोपपद्यते / सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्वं प्रसज्येत
SK
FN: भोगः सुखदुःखानुभवः / आदिपदाद्विषयानुभवग्रहः / करणान्यत्र सन्तीति करणवच्छरीरम् /
SK
चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति-करणवदिति / रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति-रूपेति / स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह-तथापीति / भोगः सुखदुःखानुभवः / आदिपदाद्विषयानुभवग्रहः / नच यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यं, भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात्, करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् / नच विशेष्यवैयर्थ्यं, परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् / नच प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः / जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः / विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति-करणेति / प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् / अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः / सूत्रद्वयस्यार्थान्तरमाह-अन्यथा वेति / यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह-इतश्चेति / किमतं सेश्वरं, कार्यत्वात्, राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् / तत्रेष्टापत्तिं निरस्यति-नच तद्वर्णयितुमिति / नच नित्यं शरीरं सर्गात्प्रागपि संभवतीति वाच्यं, शरीरस्य भौतिकत्वनियमादित्यर्थः / अस्त्वशरीर एवेश्वर इत्यत आह-निरधिष्ठानत्वे चेति / जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति-करणवदिति / करणान्यत्र सन्तीति करणवच्छरीरम् / इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम्
SK
END Bस्Cओम्_२,२.७.४०
SK
START Bस्Cओम्_२,२.७.४१
SK
अन्तवत्त्वम् असर्वज्ञता वा | BBस्_२,२.४१ |
SK
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य / स हि सर्वज्ञस्तैरभ्युपगम्यते ऽनन्तश्च / अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यते / तत्र सर्वज्ञेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत / उभयथापि दोषो ऽनुषक्त एव / कथम् / पूर्वस्मिंस्तावद्विकल्प इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यं भाव्येवं लोके दृष्टत्वात् / यद्धि लोक इयत्तापरिच्छिन्नं वस्तु पटादि तदन्तवद्दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात् / संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् / स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येतेति / पुरुषगता च महासंख्या / ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारिणः संसारान्मुच्यन्ते तेषां संसारो ऽन्तवान्संसारित्वं च तेषामन्तवत् / एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् / प्रधानं च सविकारं पुरुषार्थमीश्वरस्याधिष्ठेयं संसारित्वेनाभिमतं तच्छून्यतायामीश्वरः किमधितिष्ठेत् / किंविषये वा सर्वज्ञतेश्वरते स्याताम् / प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सत्यादिमत्त्वप्रसङ्गः / आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः / अथ मा भूदेष दोष इत्युत्तरो विकल्पो ऽभ्युपगम्येत न प्रधानस्य पुरुषाणामात्मनश्चेयत्तेश्वरेण परिच्छिद्यत इति, तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येत / तस्मादप्यसंगतस्तार्किकपरिगृहीत ईश्वरकारणवादः
SK
FN: संख्या वा परिमाणं वेयत्ता /
SK
एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयो ऽपि न संभवतीत्याह सूत्रकारः-अन्तवत्वमिति / प्रधानपुरुषेश्वरत्रयमनित्यं, इयत्तापरिच्छिन्नत्वात् घटवदित्याह-पूर्वस्मिन्निति / संख्या वा परिमाणं वेयत्ता / तथाच निश्चितसंख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् / यद्यपि संख्यावत्वमात्रं हेतुः संभवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् / तत्राद्यहेतोरसिद्धिर्नास्तीत्याह-संख्यापरिमाणमिति / संख्यास्वरूपमित्यर्थः / द्वितीयहेतुं साधयति-स्वरूपेति / प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात्, घटवदित्यर्थः / ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञाते ऽपि जीवानामानन्त्यात्कथं संख्यानिश्चयः, तत्राह-पुरुषेति / जीवसंख्यापीश्वरेण निश्चीयते / अनिश्चये सर्वज्ञत्वायोगादित्यर्थः / हेतुसिद्धेः फलमाह-ततश्चेति / माषराशिवत्केषाञ्चिज्जीवानां संघस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः / नित्यस्यानवशेषादिति भावः / ननु ईश्वरः शिष्यतामिति चेत् / न / तस्यापि भिन्नित्वेनान्तवत्त्वात् / किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह-प्रधानमिति / दोषान्तरमाह-प्रधानेति / इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते-अथेति / इयत्ता नास्ति न निश्चीयते चेत्यर्थः / प्रदानादयः संख्यापरिमाणवन्तः, द्रव्यत्वात्, माषादिवदित्यनुमानादादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति-तत इति / तस्मात् केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न तर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,२.७.४१
SK
START Bस्Cओम्_२,२.८.४२
SK
८ उत्पत्त्यसंभवाधिकरणम् / सू. ४२-४५
SK
उत्पत्त्यसंभवात् | BBस्_२,२.४२ |
SK
येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्यातः / येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्याययते /
SK
ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः प्रकृतिश्चाधिष्ठाता चेति / श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः / तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति /
SK
उच्यते- यद्यप्येवजातीयक्ॐऽशः समानत्वान्न विसंवादगोचरो भवत्त्यस्तित्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारमभः / तत्र भागवता मन्यन्ते / भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च / वासुदेवो नाम परमात्मोच्यते / संकर्षणो नाम जीवः / प्रद्युम्नो नाम मनः /
SK
अनिरुद्धो नामाहङ्कारः / तेषां वासुदेवः परा परकृतिरितरे संकर्षणादयः कार्यम् / तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति / तत्र यत्तावदुच्येत यो ऽसौ नारायणः परो ऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा स आत्मानात्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, ऽस एकधा भवति त्रिधा भवतिऽ (छा. ७.२६.२) इत्यादिश्रुतिभ्यः परमात्मनो ऽनेकधाभावस्याधिगतत्वात् / यदपि तस्य भगवतो ऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते,
SK
तदपि न प्रतिषिध्यते / श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् / यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति / अत्र ब्रूमः - न वासुदेवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति / अनित्यत्वादिदोषप्रसङ्गात् / उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् / ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् / कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् / प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिम्- ऽनात्माश्रुतेर्नित्यत्वाच्च ताभ्यःऽ (ब्र.सू. २.३.१७) इति / तस्मादसंगतैषा कल्पना /
SK
FN: व्यूहो मूर्तिः / वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम्, पूजाद्रव्याणामर्जनमुपादानम्, इज्या पूजा, स्वाध्यायो ऽष्टाक्षरादिजपः, योगो ध्यानम् /
SK
पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति-उत्पत्त्यसंभवात् / अधिकरणतात्पर्यमाह-येषामिति / अधिकरणारम्भमाक्षिपति-नन्विति / वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह-उच्यत इति / अत्र भागवतपञ्चरात्रागमो विषयः / स किं जीवोत्पत्त्याद्यंशे मानं नवेति संदेहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति-तत्रेति / पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः / सावयवत्वं निरस्यति-निरञ्जनेति / कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह-स इति / व्यूहो मूर्तिः / सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह-तमित्थंभूतमिति / यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् / वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् / पूजाद्रव्याणामर्जनमुपादानम् / इज्या पूजा / स्वाध्यायो ऽष्टाक्षरादि जपः / योगो ध्यानम् / तत्राविरुद्धांशमुपादत्ते-तत्रेति / ऽसमाहितः श्रद्धावित्तो भूत्वाऽइति, ऽतं यथा यथोपासतेऽइत्याद्या च श्रुतिः / ऽमत्कर्मकृन्मत्परमःऽइत्याद्या स्मृतिः / विरुद्धांशमनूद्य दूषयति-यत्पुनरिति / कृतहान्यादिदोष आदिशब्दार्थः / न्यायोपेतया ऽअज आत्माऽइत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः
SK
END Bस्Cओम्_२,२.८.४२
SK
START Bस्Cओम्_२,२.८.४३
SK
न च कर्तुः करणम् | BBस्_२,२.४३ |
SK
इतश्चासंगतैषा कल्पना / यस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते / वर्णयन्ति च भागवताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते / कर्तृजाच्च तस्मादनिरुद्धसंज्ञको ऽहङ्कार उत्पद्यत इति / नचैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः / नचैवंभूतां श्रुतिमुपलभामहे
SK
जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति-नच कर्तुरिति / यस्मात् कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसंगता कल्पनेत्यन्वयः / सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः / वर्णनं निर्मूलमित्याह-नवेति / ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् / सत्यम् / शिल्प्नो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तं, जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् / विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः
SK
END Bस्Cओम्_२,२.८.४३
SK
START Bस्Cओम्_२,२.८.४४
SK
विज्ञानादिभावे वा तदप्रतिषेधः | BBस्_२,२.४४ |
SK
अथापि स्यान्न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यैर्धर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्देषा निरधिष्ठान निरवद्याश्चेति / तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति /
SK
अत्रोच्यते- एवमपि तदप्रतिषेध उत्पत्त्यसंभवस्याप्रतिषेधः प्राप्नोत्येवामुत्पत्त्यसंभवो दोषः प्रकारान्तरेणेत्यभिप्रायः / कथम् / यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति, ततो ऽनेकेश्वरकल्पनानार्थक्यम्, एकेनैवेश्वरेणेश्वरकार्यसिद्धेः / सिद्धान्तहानिश्च / भगवानेकैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् / अथायमभिप्राय एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसंभवः / नहि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति संकर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात् / भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्घटयोः / नह्यसत्यतिशये कार्यं कारणमित्यवकल्पते / नच पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदो ऽभ्युपगम्यते / वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते / नचैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन्, ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात्
SK
FN: निर्देषा रागादिशून्याः, निरधिष्ठाना प्रकृत्यजन्याः, निरवद्या नाशादिरहिता इत्यर्थः /
SK
संकर्षणादीनामुत्पत्त्यसंभवे ऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते-अथापि स्यादिति / ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यं, बलं शरीरसामर्थ्यं, वीर्यं शौर्यं, तेजः प्रागल्भ्यमेतैरन्विता यस्मात्संकर्षणादयस्तस्मादीश्वरा एवेत्यर्थः / सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह-वासुदेवा एवेति / निर्देषा रागादिशून्याः / निरधिष्ठानाः प्रकृत्यजन्याः / निरवद्या नाशादिरहिता इत्यर्थः / ईश्वरत्वाज्जन्मासंभवो गुण एवेत्याह-तस्मादिति / सूत्रेण सिद्धान्तयति-अत्रेति / एवमपि / चतुर्णामीश्वरत्वेन विज्ञानशक्यादिभावे ऽपीत्यर्थः / प्रकारान्तरं पृच्छति-कथमिति / किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः / आद्यमनूद्य दूषयति-यदीत्यादिना / द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा / आद्यमुत्थाप्य निषेधति-अथेत्यादिना / न्यूनत्वपक्षे ऽपसिद्धान्तमाह-नच पञ्चेति / यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह-नचैत इति
SK
END Bस्Cओम्_२,२.८.४४
SK
START Bस्Cओम्_२,२.८.४५
SK
विप्रतिषेधाच् च | BBस्_२,२.४५ |
SK
विप्रतिषेधश्चास्मिञ्छास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः / ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् / वेदविप्रतिषेधश्च भवति / चतुर्षु वेदेषु परं श्रेयो ऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् / तस्मादसंगतैषा कल्पनेति सिद्धम्
SK
इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः-विप्रतिषेधाच्चेति / स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् / आदिपदात् प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः / पूर्वापरविरोधादसांगत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह-वेदेति / एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्यो ऽधिक इति निन्दादिपदार्थः / तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,२.८.४५
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः
SK
इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयः पादः //
SK
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य द्वितीयः पादः
SK
इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयः पादः
SK
द्वितीयाध्याये तृतीयः पादः /
SK
अत्र पादे पञ्चमहाभूतजीवादिश्रुतीनां विरोधपरिहारः १ वियदधिकरणम् / सू. १-७
SK
द्वितीयाध्याये तृतीयः पादः /
SK
वियदादिविधातारं सीतास्याब्जमधुव्रतम् / नित्यचिद्धिवश्वकर्त्रात्माभिन्नं सर्वेश्वरं भजे
SK
START Bस्Cओम्_२,३.१.१
SK
न वियदश्रुतेः | BBस्_२,३.१ |
SK
वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते / केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न / तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न / एवं जीवस्य प्राणानां च / एवमेव क्रमादिद्वारको ऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते / विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः पप्रञ्च आरभ्यते / तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव / तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति / तत्र तावत्प्रतिपद्यते- ऽन वियदश्रुतेःऽ इति / न खल्वाकाशमुत्पद्यते / कस्मात् / अश्रुतेः / नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति / छान्दोग्ये हि ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इति च पञ्चानां महाभूतानां मध्यमं तेज आदिङ्कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते / श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ / नचात्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी / तस्मान्नास्त्याकाशस्योत्पत्तिरिति
SK
जीवस्यानुत्पत्तिप्रसङ्गेनाकाशस्याप्युत्पत्त्यसंभवमाशङ्क्य परिहरन्नादावेकदेशितमाह-न वियदश्रुतेः / वियत्प्राणापादयोरर्थं संक्षिपन् पूर्वपादेन संगतिमाह-वेदान्तेष्विति / भिन्नोपक्रमत्वमेवाह-केचिदित्यादिना / भूतभोक्तृश्रुतीनां मिथोविरोधशङ्कानिरासो वियत्पादार्थः / लिङ्गशरीरश्रुतीनां तन्निरासः प्राणपदार्थः / यथा मिथोविरोधात् पूर्वापरविरोधाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षो ऽपि उपेक्ष्य इति शङ्कोत्थाने पादद्वयस्यारम्भात् पूर्वपादेन दृष्टान्तसंगतिरिति समुदायार्थः / आकाशवाय्वोरुत्पत्तिमामनन्ति तैत्तिरीयकाः / नामनन्ति छन्दोगाः / जीवस्य प्राणानां चोत्पत्तिं ऽसर्व एत आत्मनो व्युच्चरन्तिऽइति वाजिनः / ऽएतस्माज्जायते प्राणःऽइत्याथर्वणिकाश्चामनन्ति नान्ये / एवमाकाशपूर्विका क्वचिच्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः / आदिपदात् ऽस इमांल्लोकानसृजतऽइत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचिदष्टावित्यादि संख्याद्वारकश्च विरोधो ग्राह्यः / प्रपञ्चः पादद्वयम् / तथाच पादद्वयस्य श्रुतीनां मिथोविरोधनिरासार्थत्वाच्छ्रुतिशास्त्राध्यायसंगतयः सिद्धाः / अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधो ऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां संदेहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिक्षमेकदेशि गृह्णातीत्याह-तत्र तावदिति /
SK
उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसंधिः
SK
END Bस्Cओम्_२,३.१.१
SK
START Bस्Cओम्_२,३.१.२
SK
अस्ति तु | BBस्_२,३.२ |
SK
तुशब्दः पक्षान्तरपरिग्रहे / मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः, श्रुत्यन्तरे त्वस्ति / तैत्तिरीयका हि समामनन्ति- ऽसत्यं ज्ञानमन्तं ब्रह्मऽ इति प्रकृत्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इति / ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति /
SK
नन्वेकवाक्यतानयोः श्रुत्योर्युक्ता /
SK
सत्यम् / सा युक्ता नतु सावगन्तुं शक्यते / कुतः / ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्तेः, ऽतत्तेजो ऽसृजतऽ, ऽतदाकाशमसृजतऽ इति /
SK
ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते,यथा सूपं पक्त्वौदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजो ऽसृजतीति योजयिष्यामि /
SK
नैवं युज्यते / प्रथमजत्वं हि छान्दोग्ये तेजसो ऽवगम्यते तैत्तिरीयके चाकाशस्य / नचोभयोः प्रथमजत्वं संभवति / एतेनेतरश्रुत्यक्षरविरोधो ऽपि व्याख्यातः / ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इत्यत्रापि तस्मादाकाशः संभूतस्तस्मात्तेजः संभूतमिति सकृच्छ्रुतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः / ऽवायोरग्निःऽ (तै. २.१) इति च पृथगाम्नानात्
SK
संप्रति पूर्वपक्षयति सूत्रकारः-अस्ति त्विति / एकवाक्यत्वेन प्रामाण्यसंभवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते-नन्वेकवाक्यतेति / एकवाक्यत्वासंभवादप्रामाण्यं युक्तमित्याह-सत्यमित्यादिना / एकस्य युगपत्कार्यद्वयासंबन्धे ऽपि क्रमेण संबन्धसंभवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते-ननु सकृदिति / अप्रामाण्यवादी दूषयति-नैवमिति / क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः / एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह-नचेति / वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः / छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह-एतेनेति / एतत्पदार्थमाह-तस्मादिति / छान्दोग्ये ऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः / किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह-वायोरिति
SK
END Bस्Cओम्_२,३.१.२
SK
START Bस्Cओम्_२,३.१.३
SK
अस्मिन्विप्रतिषेधे कश्चिदाह-
SK
गौण्यसंभवात् | BBस्_२,३.३ |
SK
नास्ति वियत उत्पत्तिरश्रुतेरेव / या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति / कस्मात् / असंभवात् / नह्याकाशस्योत्पत्तिः संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु / ते हि कारणसामाग्र्यसंभवादकाशस्योत्पत्तिं वारयन्ति / समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते / द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति / नचाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति, यस्मिन्समवायिकारणे सत्यसमवायिकारणे च तत्संयोग आकाश उत्पद्येत / तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति / उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकायोर्विशेषः संभाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च भवतीति / आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते / किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यते ऽध्यवसातुम् / पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्वसिद्धिः / तस्माद्यथा लोक आकाशं कुर्वाकाशो जात इत्येवञ्जातीयको गौणः प्रयोगो भवति, यथाच घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवञ्जातीयको भेदव्यपदेशो गौणो भवति, वेदे ऽपि ऽआरण्यानाकाशेष्वालभेरन्ऽ इति, एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या
SK
एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह-अस्मिन्निति / एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् / तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्ययोगाद्वियदुत्पत्त्यसंभवरूपतक्रानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति-नास्तीत्यादिना / आकाशो नोत्पद्यते सामग्रीशून्यत्वात्, आत्मवत् / न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च / संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः / प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह-उत्पत्तिमतां चेति / प्रकाशश्चाक्षुषानुभवः /
SK
आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् / मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यं, तच्च प्रलये ऽप्यस्ति परमाण्वाश्रयत्वात् / अतो न प्रागभाव इत्यर्थः / प्रागभावसत्त्वं स्फुटयति-किं हीति / स्थूलाश्रयो ऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः / किञ्चात्मवदाकाशो न जायते, विभुत्वात्, अस्पर्शद्रव्यत्वाच्चेत्याह-पृथिव्यादीति / तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः / भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह-वेदे ऽप्यारण्यानिति /
SK
आकाशेष्विति भेदव्यपदेशो गौण इति संबन्धः
SK
END Bस्Cओम्_२,३.१.३
SK
START Bस्Cओम्_२,३.१.४
SK
शब्दाच्च | BBस्_२,३.४ |
SK
शब्दः खल्वाकाशस्याजत्वं ख्यापयति / यत आह- ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽ (बृ. २.३.३) इति / नह्यमृतस्योत्पत्तिरुपपद्यते / आकाशवत्सर्वगतश्च नित्यः इति चाकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमान आकाशस्यापि तौ धर्मौ सूचयति / नच तादृशस्योत्पत्तिरुपपद्यते / ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्मा वेदितव्यःऽ इति चोदाहरणम् / ऽआकाशशरीरं ब्रह्मऽ (तै. १.६.२), ऽआकाश आत्माऽ (तै. १.७.१) इति च / नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषेण संभवति नीलेनेवोत्पलस्य / तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते
SK
न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितो ऽपीत्याह-सूत्रकारः-शब्दाच्चेति /
SK
नित्यभावस्यानादित्वादिति / भावः / आत्मेति च शब्द इहोदाहरणमित्यन्वयः / आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः
SK
END Bस्Cओम्_२,३.१.४
SK
START Bस्Cओम्_२,३.१.५
SK
स्याच् चैकस्य ब्रह्मशब्दवत् | BBस्_२,३.५ |
SK
इदं पदोत्तरं सूत्रम् / स्यादेतत् / कथं पुनरेकस्य संभूतशब्दस्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभवत्याकाशे च गौणत्वमिति /
SK
अत उत्तरमुच्यते- स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यस्य प्रयोगो ब्रह्मशब्दवत् / यथैकस्यापि ब्रह्मशब्दस्य ऽतपसा ब्रह्म विजिज्ञासस्व, तपो ब्रह्मऽ (तै. ३.२) इत्यस्मिन्नधिकारे ऽन्नादिषु गौणः प्रयोग आनन्दे च मुख्यः / यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते ऽञ्जसा तु विज्ञेये ब्रह्मणि तद्वत् / कथं पुनरनुत्पत्तौ नभसः ऽएकमेवाद्वितीयम्ऽ (छा. ६.२.१) इतीयं प्रतिज्ञा समर्थ्यते /
SK
ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति / कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति /
SK
तदुच्यते- एकमेवेति तावत्स्वकार्यापेक्षयोपपद्यते / यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयान्मृदेवैकाकिनी पूर्वेद्युरासीदिति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयान्न दण्डचक्रादि, तद्वदद्वितीयश्रुतिरधिष्ठात्रान्तरं वारयति / यथा मृदो ऽमत्रप्रकृतेः कुम्भकारो ऽधिष्ठाता दृश्यते नैवं ब्रह्मणो जगत्प्रकृतेरन्यो ऽधिकृतास्तीति / नच नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते / लक्षणान्यत्वनिमित्तं हि नानात्वम् / नच प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति क्षीरोदकयोरिव संसृष्ट्योर्व्यापित्वामूर्तत्वदिधर्मसामान्यात् / सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते स्तिमितमितरवत्तिष्टति / तेनान्यत्वमवसीयते / तथाच ऽआकाशशरीरं ब्रह्मऽ (तै. १.६.२) इत्यादिश्रुतिभ्यो ऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः / अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः / अपिच सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीति, अतो ब्रह्मणा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति / यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति, नहि क्षीरप्रहणादब्बिन्दवुग्रहणं परिशिष्यते, एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीतमेव ब्रह्मग्रहणेन नभो भवति / तस्माद्भाक्तं नभसः संभवश्रवणमिति
SK
FN: अभेदोपचारो भक्तिः / कुलं गृहम् / अमत्राणि घटादीनि /
SK
पदोत्तरमिति / शङ्कोत्तरमिति यावत् / तान्येव शङ्कापदानि पठति-स्यादेतदिति / अधिकारे प्रकरणे / यथैकस्मिन्ब्रह्मप्रकरणे ऽअन्नं ब्रह्मऽऽआनन्दो ब्रह्मऽइति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि संभूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह-स्याच्चेति / उदाहरणान्तरमाह-यथा चेति / अभेदोपचारो भक्तिः / मुख्यसिद्धान्त्याक्षिपति-कथं पुनरिति / स एवाक्षेपद्वयं स्पष्टयति-नन्विति / अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः / प्रथमाक्षेपं दृष्टान्तेन परिहरति-एकमेवेति / कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यार्थ इत्यर्थः / कुले गृहे / अमत्राणि घटादीनि पात्राणि / एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह-अद्वितीयश्रुतिरिति / आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसंकोचः कृतः, तदपि नास्तीत्याह-नच नभसापीति / धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह-सर्गकाले त्विति / धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह-तथा चाकशेति / द्वितीयमाक्षेपं परिहरति-अत एवेति / अभेदोपचारादेवेत्यर्थः / नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह-अपिचेति
SK
END Bस्Cओम्_२,३.१.५
SK
START Bस्Cओम्_२,३.१.६
SK
एवं प्राप्त इदमाह -
SK
प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः | BBस्_२,३.६ |
SK
ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. ६.१.१) इति, ऽआत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ (बृ. ४.५.६) इति, ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. १.१.३) इति, ऽन काचन मद्धहिर्धा विद्यास्तिऽ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते / तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात्, यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् / व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा ह्रीयेत / स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत / शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते / तथाहि- ऽयेनाश्रुतं श्रुतं भवतिऽ इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते / तत्साधनायैव चोत्तरे शब्दाः ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१), ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति- ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. ६.८.७)
SK
इत्यारभ्याप्रपाठकपरिसमाप्तेः / तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञात आकाशं विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् / नच प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् / तथाहि- प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ख्यपयन्ति ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६),ऽ ब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड. २.२.११) इत्येवमादयः / तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते / यदुक्तमश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तं, वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इति / सत्यं दर्शितम् / विरुद्धं तु ऽतत्तेजो ऽसृजतऽ इत्यनेन श्रुत्यन्तरेण / न / एकवाक्यत्वात्सर्वश्रुतीनाम् / भवत्येकवाक्यत्वमविरुद्धानाम् / इह तु विरोध उक्तः, सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति /
SK
नैष दोषः / तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः / आकाशाद्वायुः / वायोरग्निःऽ (तै. २.१) इति / अशक्या हीयं श्रुतिरन्यथा परिणेतुम् / शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्ट्वा ऽतत्तेजो ऽसृजतऽ इति / नहीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति / एकस्य वाक्यस्य व्यापारद्वयासंभवात् / स्रष्ट्वा त्वेको ऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् / इत्येकवाक्यत्वकल्पनायां संभवत्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या / नचास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धो ऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् / यथाच ऽसर्वं खल्विदं ब्रह्म तज्जलान्ऽ (छा. ३.१४.१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसो ऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति /
SK
ननु शमविधानार्थमेतद्वाक्यम्, ऽतज्जलानिति शान्त उपासीतऽ इति श्रुतेः, नैतत्सृष्टिवाक्यं, तस्मादेतन्न प्रदेशान्तरसिद्धं क्रममुपरोद्धुमर्हतीति / ऽतत्तेजो ऽसृजतऽ इत्येतत्सृष्टिवाक्यम् / तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति /
SK
नेत्युच्यते / नहि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य / अपिच ऽतत्तेजो ऽसृजतऽ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दो ऽस्ति /
SK
अर्थात्तु क्रमो ऽवगम्यते / स च ऽवायोरग्निःऽ इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते / विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ / तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः / अपिच छान्दोग्ये ऽयेनाश्रुतं श्रुतं भवतिऽ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियदुत्पत्तावुपसंख्यातव्यं, किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते / यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते, नच ऽएकमेवाद्वितीयम्ऽ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति /
SK
अत्रोच्यते / न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् / मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते / क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् / नहि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतमस्ति / नच वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते / सावधारणा चेयम् / ऽएकमेवाद्वितीयम्ऽ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत / नच स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यं, मृदादिष्वपि हि तत्संभवान्न तदपूर्ववदुपन्यसितव्यं भवति ऽश्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽस्युत तमादेशमप्राक्ष्यो ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. ६.१.१) इत्यादिना / तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम्
SK
एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति-प्रतिज्ञेति / अहानिरबाधः / सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः / न काचनेति /
SK
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः / ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात्, किमुत्पत्त्येत्यत आह-शब्देभ्यश्चेति / अव्यतिरेक एव न्यायस्तेनेत्यर्थः / अयं भावः-जीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः / अज्ञानतत्संबन्धयोः कल्पितत्वेनाव्यतिरेकः / स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् / तथाहुर्न्यायविदः-ऽनित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानिऽइति / तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह-तथा हीति / तेन तेन दृष्टान्तेनेति / यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः / यजुषि प्रतिज्ञासाधका ऽइदं सर्वम्ऽइतिशब्दाः, आथर्वणे ऽब्रह्मैवेदम्ऽइति शब्दा इति भावः / एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति-सत्यं दर्शितमिति / मुख्यसिद्धान्त्याह-न / एकेति / ऽतत्तेजो ऽसृजतऽइति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्संबन्धे तित्तिरिक्रमबाधात्, क्रमेणाकाशं सृष्ट्वा तेजो ऽसृजतेति संबन्धे तेजःप्राथम्यभङ्गप्रसङ्गात्, वस्तुनि विकल्पासंभवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात्, नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति-नैष दोष इति / अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनं, तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यं, बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् / छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् / तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः / यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् / किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुच्पत्तिश्चेत्युभयपरा / आद्ये न तद्वारणमित्याह-नहीति / अविरोधादित्यर्थः / न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह-एकस्येति / नन्वेकस्य स्रष्टुरनेकार्थसंबन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आ-स्रष्टा त्विति / एकस्य कर्तुरनेकार्थसंबन्धो दृष्टः / न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् / नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव / आनयनस्य जलक्षीराभ्यां पृथक्संबन्धादित्यर्थः / फलितमाह-इत्येकेति / एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसंबन्धार्थमावृत्तिदोषः स्यादित्यत आह-नचेति / छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकं, तेजोजन्मत्वात्, तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे ऽतदाकाशमसृजतऽइति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः / श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह-यथाचेति / सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते-नन्वित्यादिना / तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम्, आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह-नेत्युच्यत इति / किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह-नहीति / किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् / नाद्य इत्याह-अपिचेति / द्वितीयमनूद्य दूषयति-अर्थात्त्विति / यदुक्तं वस्तुनि विकल्पासंभवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति,
SK
नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह-विकल्पेति / न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह-अपिचेति / वियदुपसंग्राह्यमित्यन्वयः / वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति-यच्चोक्तमित्यादिना / प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः / उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः / मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसंभवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह-नच वेदस्येति / माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् / आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते / प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह-सावधारणेति / सर्वद्वैतनिषेधपरेत्यर्थः / उभयगौणत्वे ऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह-नचेत्यादिना
SK
END Bस्Cओम्_२,३.१.६
SK
START Bस्Cओम्_२,३.१.७
SK
यत्पुनरेतदुक्तमसंभवाद् गौणी गनस्योत्पत्तिश्रुतिरिति / अत्र ब्रूमः -
SK
यावद्विकारं तु विभागो लोकवत् | BBस्_२,३.७ |
SK
तुशब्दो ऽसंभवाशङ्काव्यावृत्त्यर्थः / न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या / यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते / नत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यते / विभागश्चाकाशस्य पृथिव्यादिभ्यो ऽवगम्यते / तस्मात्सो ऽपि विकारो भवितुमर्हति / एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् /
SK
नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति /
SK
न / ऽआत्मन आकाशः संभूतःऽ (तै. २.१) इति श्रुतेः / यदि ह्यात्मापि विकारः स्यात्तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् / तथाच शून्यवादः प्रसज्येत / आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः / नह्यात्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात् / नह्यात्मात्मनः प्रमाणमपेक्ष्य सिध्यति / तस्य हि प्रत्यक्षादीनि प्रमाणान्यप्रसिद्धप्रमेयसिद्धय उपादीयन्ते / नह्याकाशादयः पदार्धाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचिदभ्युपगम्यन्ते / आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति / नचेद्दृशस्य निराकरणं संभवति / आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् / य एव हि निराकर्ता तदेव तस्य स्वरूपम् / नह्यग्नेरौष्ण्यमग्निना निराक्रियते / तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतमतीततरं चाज्ञासिषमहमेवानागतमनागततरं च ज्ञास्यामीत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावो ऽसति, सर्वदा वर्तमानस्वभावत्वात् / तथा भस्मीभवत्यपि देहे चात्मन उच्छेदो वर्तमानस्वभावादन्यथास्वभावत्वं वा न संभावयितुं शक्यम् / एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मनः कार्यत्वं चाकाशस्य / यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते- न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमो ऽस्ति / नहि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात् / नच निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमो ऽस्ति / स्यादेतत् / समवायिकारणविषय एव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति / तदप्यनैकान्तिकम् / सूत्रगोबालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते / तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते / सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यं, सर्वस्य सर्वेण समानजातीयकत्वात् / नाप्यनेकमेवारभते नैकमिति नियमो ऽस्ति / अणुमनसोराद्यकर्मारम्भाभ्युपगमात् / एकैको हि परमाणिर्मनश्चायं कर्मारभते न द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते /
SK
द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् /
SK
न / परिणामाभ्युपगमात् / भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत / तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते / तच्च क्वचिदनेकं परिणमते मृद्बीजाद्यङ् कुरादिभावेन / क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन / नेश्वरशासनमस्त्यनेकमेव कारणं कार्यं जनयतीति / अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते / तथाचोक्तम्- ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र. सू. २.१.१४) इति / यच्चोक्तमाकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यत इति / तदयुक्तम् / येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते / यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्, ऽअस्थूलमनणुऽ (बृ. ३.८.८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते / तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् / यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति / तदप्यसत् / श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्तेः / उत्पत्त्यनुमानस्य च दर्शितत्वात् / अनित्यमाकाशमनित्यगुणाश्रयत्वाद्घटादिवदित्यादिप्रयोगसंभवाच्च / आत्मन्यनैकान्तिकमिति चेत् /
SK
न / तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः / विभुत्वादीनां चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् /
SK
यच्चोक्तमेतच्छब्दाच्चेति, तत्रामृतत्वश्रुतिस्तावद्वियत्यमृता दिवौकस इतिवद्द्रष्टव्या / उत्पत्तिप्रलययोरुपपादितत्वात् / ऽआकाशवत्सर्वगतश्च नित्यःऽ इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमत्वाय / यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् / एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता / ऽज्यायानाकाशात्ऽ इत्यादिश्रुतिभ्यश्च ब्रह्मण आकाशस्योनपरिमाणत्वसिद्धिः / ऽन तस्य प्रतिमास्तिऽ (श्वे. ४.१९)
SK
इति च ब्रह्मणो ऽनुपमानत्वं दर्शयति / ऽअतो ऽन्यदार्तम्ऽ (बृ. ३.४.२) इति च ब्रह्मणो ऽन्येषामाकाशादीनामार्तत्वं दर्शयति / तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम् / तस्माद्ब्रह्मकार्यं वियदिति सिद्धम्
SK
FN: द्रव्यान्तरैः समवायिभिः / शब्दाश्रयत्वं विशेषः /
SK
कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह-यत्पुनरित्यादिना / यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह-न त्वविकृतमिति / दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह-एतेनेति / विभक्तत्वेनेत्यर्थः / आत्मनि व्यभिचारं शङ्कते-नन्विति / धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह-नेति / अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम्, अतो नाज्ञानतत्संबन्धादौ व्यभिचारः / नन्वात्मा कार्यः, विभक्तत्वात्, वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वं, नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह-आत्मन इति / इष्टप्रसङ्ग इति वदन्तं प्रत्याह-आत्मात्वादिति / आत्माभावः केनचिज्ज्ञायते न वा / आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता / द्वितीये ऽपि न शून्यता मानाभावादित्यर्थः / किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम्, आत्मा त्वकार्थो निरपेक्षत्वान्न बाधयोग्य इत्याह-नह्यात्मेत्यादिना / कस्यचित्कारणस्यागन्तुकः कार्यो न हि / सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः / तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति-नहीति / यदुक्तं सुरेश्वराचार्यैः-ऽप्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा / यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते / ऽइति / यथा श्रुतिराह-ऽपुरुषः स्वयं ज्योतिःऽ, ऽतस्य भासा सर्वमिदं विभातिऽइति च / नन्वात्मनः स्वतः सिद्धो प्रमाणवैयर्थ्यं, तत्राह-तस्येति / ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह-नहीति / अतो न प्रमाणवैयर्थ्यमिति भावः / आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह-आत्मा त्विति / अयमर्थः-निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकं, गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् / ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् / नापि ज्ञानान्तरात् अनवस्थानात् / अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः / तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् / अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति / स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह-नचेति / जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपं, तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात्, स्वस्य च स्वनिराकर्तृत्वायोगात् / नहि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः / एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह-तथाहमेवेति / ज्ञानज्ञेययोः सत्ताव्यभिचारे ऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः / मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह-तथेति / उच्छेदो विनाशः / अन्यथास्वभावत्वं मिथ्यात्वं वा संभावयितुमपि न शक्यम्, अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः / एवमात्मनः शून्यत्वविरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तं, ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह-एवमिति / अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यदृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह-कार्यत्वं चेति / आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति-यत्त्वित्यादिना / किं कारणमात्रस्य साजात्यनियम उत समवायिनः / तत्राद्यं निरस्य द्वितीयं शङ्कते-स्यादेतदिति / किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना / नाद्य इत्याह-तदपीति / नच रज्जवादि न द्रव्यान्तरमिति वाच्यं, पटादेरपि तथात्वापातात् / द्वितीयो ऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह-सत्त्वेति / उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति-नापीत्यादिना / किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य / नाद्य इत्याह-अण्विति / द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म / यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह-एकैको हीति / द्रव्यान्तरैः / समवायिभिरित्यर्थः / द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति-द्रव्येत्यादिना / न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः / यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति / तन्न / क्षीरनाशे मानाभावात्, रसवद्दध्नो ऽप्येकद्रव्यारभ्यत्वसंभवाच्च, द्रव्यगुणसंकेतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः / लोके कर्तु- सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह-तथाचोक्तमिति / प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह-यच्चोक्तमित्यादिना / शब्दाश्रयत्वं विशेषः / शब्दादिमानाकाशः प्रलये नास्ति, ऽनासीद्रजो नो व्योमऽइति श्रुतेः / नन्वाकाशाभावे काठिन्यं स्यादिति चेत् / सुशिक्षितो ऽयं नैयायिकतनयः / न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तसंयोगविशेषो वा काठिन्यं, तच्च प्रलये नास्तीति भावः / ऽआकाशशरीरं ब्रह्मऽइति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह-यथाचेति / विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः / विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह-यदपीत्यादिना / धर्मिविकारभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् / गुणाश्रयत्वमेव हेतुः / तच्च स्वसमानसत्ताकगुणवत्त्वम्, अतो निर्गुणात्मनि न व्यभिचारः / भूतत्वमादिशब्दर्थः /
SK
स्वरूपासिद्धिमप्याह-विभुत्वादीनां चेति / सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति / संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च / स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समं, ऽज्यायानाकाशात्ऽइति श्रुतेः / क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसंबन्धेन व्यपदिश्यते / असक्तत्वेन वा / पञ्चीकरणादस्पर्शत्वमसिद्धं, कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धं, द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः / नित्य इत्यंशेन साम्यं न विवक्षितम् / ननु ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्माऽइति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते,
SK
नेत्याह-एतेनेति / आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः / श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः / न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह-ज्यायानिति / मुख्योपमानासत्त्वे श्रुतिः-ऽन तस्यऽइति / तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः / अनित्यत्वेनासत्त्वे श्रुतिमाह-अतो ऽन्यदिति / यत्त्वेकस्यैव संभूतशब्दस्य गौणत्वं मुख्यत्वं चेति / तन्न / आकाशे ऽपि तस्य मुख्यत्वसंभवादित्याह-तपसीति / बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_२,३.१.७
SK
START Bस्Cओम्_२,३.२.८
SK
२ मातरिश्वाधिकणम् / सू. ८
SK
एतेन मातरिश्वा व्याख्यातः | BBस्_२,३.८ |
SK
अतिदेशो ऽयम् / एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातः / तत्राप्येते यथायोगं पक्षा रचयितव्याः / न वायुरुत्पद्यते छान्दोगानामुत्पत्तिप्रकरणे ऽनाम्नानादित्येकः पक्षः / अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरण आम्नानम् ऽआकाशाद्वायुःऽ (तै. २.१) इति पक्षान्तरम् / ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिसंभवादित्यपरो ऽभिप्रायः / असंभवश्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ. १.५.२२) इत्यस्तमयप्रतिषेधात्, अमृतत्वादिश्रवणाच्च / प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः / अस्तमयप्रतिषेधो ऽपरविद्याविषय आपेक्षिकः / अग्न्यादीनामिव वायोरस्तमयाभावात् //
SK
कृतप्रतिविधानं चामृतत्वादिश्रवणम् /
SK
ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति /
SK
उच्यते- सत्यमेवमेतत् / तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थो ऽयमतिदेशः क्रियते / संवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात्, अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति
SK
एतेन मातरिश्वा व्याख्यातः / अतिदेशत्वान्न पृथक्संगत्याद्यपेक्षा / ऽतत्तेजो ऽसृजतऽइति श्रुतेः / ऽआकाशाद्वायुःऽइति श्रुत्या विरोधो ऽस्ति न वेति एकवाक्यत्वभावाभावभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति-तत्रापीत्यादिना / पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितं, तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह-ततश्चेति / अस्तमयप्रतिषेधो मुख्योत्पत्त्यसंभवे लिङ्गम् / ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽइति तस्यैव लिङ्गस्याभ्यासः / ऽवायुरेव व्यष्टिः समष्टिश्चऽइति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः / तथा संवर्गविद्यायां ऽवायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरतिऽइति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् / एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथाचाकाशं वायुं च सृष्ट्वा तेजो ऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः / लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह-प्रतिज्ञेत्यादिना / कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा / अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कमाह-नन्वित्यादिना / ऽवायुर्ह्येवैतान्सवार्न्संवृङ्क्तेऽइत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् / तामेव शङ्कामाह-संवर्गेति /
SK
व्यष्टिसमष्ट्युपास्तिः ऽवायुं दिशां वत्सं वेदऽइत्युपास्तिश्चादिशब्दार्थः
SK
END Bस्Cओम्_२,३.२.८
SK
START Bस्Cओम्_२,३.३.९
SK
३ असंभवाधिकरणम् / सू. ९
SK
असंभवस् तु सतो ऽनुपपत्तेः | BBस्_२,३.९ |
SK
वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रह्मणो ऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः / तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्याकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत / तामाशङ्कामपनेतुमिदं सूत्रम्- ऽअसंभवस्तुऽ इति / न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या / कस्मात् / अनुपपत्तेः / सन्मात्रं हि ब्रह्म / न तस्य सन्मात्रादेवोत्पत्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः / नापि सद्विशेषाद्दृष्टविपर्ययात् / सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयो नतु विशेषेभ्यः सामान्यम् / नाप्यसतो निरात्मकत्वात् / ऽकथमसतः सज्जायेतऽ (छा. ८.७.१) इति चाक्षेपश्रवणात् / ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे. ६.९) इति च ब्रह्मणो जनयितारं वारयति / विवत्वपवनयोः पुनरुत्पत्तिः प्रदर्शिता नतु ब्रह्मणः सास्तीति वैषम्यम् / नच विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणो ऽपि विकारत्वं भवितुमर्हतीति मूलप्रकृत्यनभ्युपगमे ऽनवस्ताप्रसङ्गात् / या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः
SK
असंभवस्तु सतो ऽनुपपत्तेः / ऽअनाद्यनन्तं महतः परं ध्रुवम्ऽ, ऽन चास्य कश्चिज्जनिताऽइत्यादि ब्रह्मानादित्वश्रुतीनां ऽत्वं जातो भवसि विश्वतोमुखःऽइत्युत्पत्तिश्रुत्या विरोधो ऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां संदेहे ऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसंगत्या एकदेशिपक्षं प्रापयति-वियदिति / ब्रह्म कुतश्चिज्जायते, कारणत्वात्, आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह-तथेति / न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः / तथाच दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह-तामिति / ब्रह्म न च जायते, कारणशून्यत्वात्, नरविषाणवत्, व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षेचाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् / न हेत्वसिद्धिः, कारणस्यानिरूपणात् / तथाहि-किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा / न त्रेधापीत्याह-सन्मात्रं हीत्यादिना / दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् / वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभ्यां च वैषम्यम् / कारणत्वलिङ्गस्याप्रामाणिकानवस्था / तर्केणापि बाधमाह-नच विकारेभ्य इत्यादिना /
SK
कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमे ऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः
SK
END Bस्Cओम्_२,३.३.९
SK
START Bस्Cओम्_२,३.४.१०
SK
४ तेजो ऽधिकरणम् / सू. १०
SK
तेजो ऽतस् तथा ह्य् आह | BBस्_२,३.१० |
SK
छान्दोग्ये सन्मूलत्वं तेजसः श्रावितं, तैत्तिरीयके तु वायुमूलत्वं, तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां प्राप्तं तावद्ब्रह्मयोनिकं तेज इति / कुतः / ऽसदेवऽ इत्युपक्रम्य ऽतत्तेजो ऽसृजतऽ इत्युपदेशात् / सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य संभवात् / ऽतज्जलान्ऽ (छा. ८.७.१) इति चाविशेषश्रुतेः ऽएतस्माज्जायते प्राणःऽ (मुण्ड. २.१.३) इति चोपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात् / तैत्तिरीयके च ऽस तपस्तप्त्वा / इदं सर्वमसृजत / यदिदं किञ्चऽ (तै. ३.६.१) इत्यविशेषश्रवणात् / तस्मात् ऽवायोरग्निःऽ इति क्रमोपदेशो द्रष्टव्यो वायोरनन्तरमग्निः संभूत इति / एवं प्राप्त उच्यते- तेजो ऽतो मातरिश्वनो जायत इति / कस्मात् / तथाह्याह- ऽवायोरग्निःऽ इति / अव्यवहिते हि तेजसो ब्रह्मजत्वे सत्यसति वायुजत्वे वायोरग्निरितीयं श्रुतिः कदर्थिता स्यात् /
SK
ननु क्रमार्थैषा भविष्यतीत्युक्तम् /
SK
नेति ब्रूमः - ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१.१) इति पुरस्तात्संभवत्यपादानस्यात्मनः पञ्चमीनिर्देशात्स, तस्यैव च संभवतेरिहाधिकारात्, परस्तादपि च तदधिकारे ऽपृथिव्या ओषधयःऽ (तै. २.१.१) इत्यपादानपञ्चमीदर्शनाद्वायोरग्निरित्यपादानपञ्चम्येवैषेति गम्यते / अपिच वायोरूर्ध्वमग्निः संभूत इति कल्प्य उपपदार्थयोगः कॢप्तस्तु कारकार्थयोगो वायोरग्नि संभूत इति / तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसो ऽवगमयति /
SK
नन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसो ऽवगमयति ऽतत्तेजो ऽसृजतऽ इति /
SK
न / तस्याः पारम्पर्यजत्वे ऽप्यविरोदात् / यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजो ऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते / यथा तस्याः श्रुतं तस्या दधि तस्या आमिक्षेत्यादि / दर्शयति च ब्रह्मणो विकारात्मनावस्तानं ऽतदात्मानं स्वयमकुरुतऽ (तै. २.७.१) इति / तथाचेश्वरस्मरणं भवति- ऽबुद्दिर्ज्ञानमसंमोहःऽ (भ.गी. १०.४) इत्याद्यनुक्रम्य ऽभवति भावा भूतानां मत्त एव पृथग्विधाःऽ (भ.गी. १०.५) इति / यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वेश्वरवंश्यत्वात् / एतेनाक्रमवत्सृष्टिवादिन्यः श्रुतयो व्याख्याताः / तासां सर्वथोपपत्तेः / क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः / प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोधः
SK
FN: कदर्थिता पीडिता बाधितेति यावत् / तदधिकारे संभूत्यधिकारे / तस्या धेनोः श्रुतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः / दधिसंसृष्टं कठिनक्षीरमामिक्षा / प्रणाड्या परम्परया /
SK
तेजो ऽतस्तथाह्याह / ऽतत्तेजो ऽसृजतऽइति ऽवायोरग्निःऽइति च श्रुत्योर्विरोधो ऽस्ति न वेति संदेहे सामान्यात्सामान्योत्पत्त्यसंभवे ऽपि ब्रह्मवाय्वोः सामान्योस्तेजोरूपविशेषोपादानत्वसंभवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः / सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासंभवासंभवौ संशयबीजम् / पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलं, सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् / एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति-प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना / श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् / तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते / सिद्धान्तयति-एवं प्राप्त इति / कदर्थिता / बाधितार्थेति यावत् / वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितं, नच कल्पितस्योपादानत्वासंभवः, अधिष्ठानत्वासंभवे ऽपि मृदादिवत्परिणामित्वसंभवात्, स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् / नच ऽबहु स्याम्ऽइति कार्याभेदे क्षणिलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् / नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः / इहाधिकारादिति / वायोरग्निः संभूत इति वाक्ये संबन्धादित्यर्थः / तदधिकारे संभूत्यधिकारे / निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह-अपिचेति / ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः / प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति / विशेषतो ऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः / पारम्पर्यजत्वमेवाह-यदापीति / तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः / दधिसंसृष्टं कठिनक्षीरमामिक्षा / ब्रह्मणे वायुभावे मानमाह-दर्शयति चेति / पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह-तथाचेति / अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह-यद्यपीत्यादिना / प्रनाड्या परंपरयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः /
SK
एतत्पदार्थमाह-तासामिति /
SK
ऽतज्जलान्ऽइत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः / अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजः-कारणे ब्रह्मणि इति सिद्धम्
SK
END Bस्Cओम्_२,३.४.१०
SK
START Bस्Cओम्_२,३.५.११
SK
५ अबधिकरणम् / सू. ११
SK
आपः | BBस्_२,३.११ |
SK
ऽअतस्तथाह्याहऽ इत्यनुवर्तते / आपो ऽतस्तेजसो जायन्ते / कस्मात् / तथाह्याह- ऽतदपो ऽसृजतऽ इति ऽअग्नेरापःऽ इति च वचने नास्ति संशयः / तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन्नपो ऽन्तरियामित्याप इति सूत्रयांबभूव
SK
आपः / अतिदेशो ऽयम् / तथा ह्याथर्वणे मुण्डकग्रन्थे ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच / खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽइति मन्त्रे ऽपां ब्रह्मजत्वं श्रुतम् / ऽअग्नेरापःऽइति श्रुत्या तस्य विरोधो ऽस्ति न वेति संदेहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासंभवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्क्यामुक्तेजोन्यायमतिदिश्य व्याचष्टे-अत इति / प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह-सति वचन इति / त्रिवृत्कृतयोरप्तेजसोर्विरोधे ऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः / न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूचतोत्पत्तिक्रमनिर्णयार्थं चेत्याह-तेजसस्त्विति /
SK
तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम्
SK
END Bस्Cओम्_२,३.५.११
SK
START Bस्Cओम्_२,३.६.१२
SK
६ पृथिव्यधिकाराधिकरणम् / सू. १२
SK
पृथिव्य् अधिकाररूपशब्दान्तरेभ्यः | BBस्_२,३.१२ |
SK
ऽता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्तऽ (छा. ६.२.४) इति श्रूयते / तत्र संशयः - किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यै चौदनाद्युच्यते किं वा पृथिवीति / तत्र प्राप्तं तावद्व्रीहियवाद्योदनादि वा परिग्रहीतव्यमिति / तत्र ह्यन्नशब्दः प्रसिद्धो लोके वाक्यशेषो ऽप्येतमर्थमुपोद्वलयति / ऽतस्माद्यत्र क्वच वर्षति तदेव भूयिष्टमन्नं भवतीतिऽ / व्रीहियवाद्येव हि सति वर्षणे बहु भवति न पृथिवीति / एवं प्राप्ते ब्रूमः पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति / कस्मात् / अधिकाराद्रूपाच्छब्दान्तराच्च / अधिकारस्तावत्- ऽतत्तेजो ऽसृजतऽ ऽतदपो ऽसृजतऽ इति महाभूतविषयो वर्तते / तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यः / तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते ऽयत्कृष्णं तदन्नस्यऽ इति / नह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमो ऽस्ति / नापि व्रीह्यादीनाम् /
SK
ननु पृथिव्या अपि नैव कृष्णत्वनियमो ऽस्ति पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् /
SK
नायं दोषः / बाहुल्यापेक्षत्वात् / भूयिष्ठं हि पृथिव्याः कृष्णं रूपं न तथा श्वेतरोहिते / पौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति / सा च कृष्णाभासेत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते / श्रुत्यन्तरमपि समानाधिकारमद्भ्यः पृथिवीति भवति / ऽतद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्ऽ (बृ. १.२.२) इति च / पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति- ऽपृथिव्या ओषधय ओषधीभ्यो ऽन्नम्ऽ इति च / एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः / प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते / वाक्यशेषो ऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम् / तस्मात्पृथिवीयमन्नशब्देति
SK
FN: तत्तत्र सृष्टिकाले यदपां शरःमण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् /
SK
पृथिव्यधिकाररूपशब्दान्तरेभ्यः / विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह-ता इति / अभ्यवहार्यं भक्ष्यम् / अत्र श्रुतौ यद्यन्नमोदनादिकं तदा ऽअद्भ्यः पृथिवीऽइति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् / अत्पृथिव्योः कार्यकारणभावादधिकरणसंगतिः / अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः / तदेव तत्रैवेति श्रुत्यर्थः / तथाच क्वचिदन्नं क्वचिदद्भयः पृथिवी ततो ऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति-एवं प्राप्त इति / अधिकारः प्रकरणम् / रूपं लिङ्गम् / पयः क्षीरं तद्वत्पाण्डुरं श्वेतम्, अङ्गारवद्रोहितं रक्तम् / शब्दान्तरशब्दितं स्थानं व्याचष्टे-श्रुत्यन्तरमपीति / अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः / तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्धनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः / व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह-पृथिव्यास्त्विति / पञ्चमीयम् / वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह-वाक्यशेषो ऽपीति / प्रबलदुर्बलप्रमाणसंनिपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते / ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः / अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते / पृथिव्यब्जा, पृथिवीत्वात्, अन्नवदित्यनुमानादित्यक्षरार्थः / एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम्
SK
END Bस्Cओम्_२,३.६.१२
SK
START Bस्Cओम्_२,३.७.१३
SK
७ तदभिध्यानाधिकरणम् / सू. १३
SK
तदभिध्यानाद् एव तु तल्लिङ्गात् सः | BBस्_२,३.१३ |
SK
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्त्याहोस्वत्परमेश्वर एव तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति संदेहे सति प्राप्तं तावत्स्वयमेव सृजन्तीति / कुतः / ऽआकाशाद्वायुर्वायोरग्निःऽ इत्यादिस्वातन्त्र्यश्रवणात् /
SK
नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा /
SK
नैष दोषः / ऽतत्तेज ऐक्षत ता आप ऐक्षन्तऽ (छा. ६.२.४) इति च भूतानामपि चेतनत्वश्रवणादिति / एवं प्राप्ते ऽभिधीयते- स एव परमेश्वरस्तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति / कुतः / तल्लिङ्गात् / तथाहि शास्त्रम्- ऽयः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयतिऽ (बृ. ३.७.३) इत्येवञ्जातीयकं साध्यक्षाणमेव भूतानां प्रवृत्तिं दर्शयति / तथा सो ऽकामयत बहु स्यां प्रजायेय इति प्रस्तुत्य ऽसच्च त्यच्चाभवत् / तदात्मानं स्वयमकुरुतऽ (तै. २.६.१) इति च तस्यैव च सर्वात्मभावं दर्शयति /
SK
यत्त्वीक्षणश्रवणमप्तेजसोस्तत्परमेश्वरावेशवशादेव द्रष्टव्यम् ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ३.७.२३) इतीक्षित्रन्तरप्रतिषेधात्, प्रकृतत्वाच्च सत ईक्षितुः ऽतदैक्षत बहु स्यां प्रजायेयऽ इत्यत्र
SK
FN: परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणं श्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः /
SK
संप्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसंगत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति-तदभिध्यानादेव तु तल्लिङ्गात्सः / उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति-किमिमानीत्यादिना / संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् / नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा / नाद्यः, ऽरचनानुपपत्तेःऽइत्यादिन्यायविरोधादिति शङ्कते-नन्विति / न द्वितीयः, अचेतनत्वादिति भावः / यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा ऽआकाशाद्वायुःऽइत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः / एवं ऽतदात्मानं स्वयमकुरुतऽइति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणो ऽन्यानपेक्षसर्वकर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं श्रुतम् / तथाच मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह-नैष दोष इति / भूतानां तदभिमानिदेवतानामित्यर्थः / यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः / स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः / मुख्यसिद्धान्तमाह-एवं प्राप्त इति / आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात् पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात्, तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् / यद्यपि देवतानां कर्तृत्वं संभवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यं, किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम्-तल्लिङ्गादिति / तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वे ऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः / प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह-तथेति / पूर्वोक्तमनूद्य निरस्यति-यत्त्विति / परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः / अनेन ऽतदभिध्यानात्ऽइति पदं व्याख्यातम् / इत्थं सूत्रयोजना-स ईश्वरस्तत्तदात्मना स्थितो ऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् / जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति / तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह-नान्य इति /
SK
तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम्
SK
END Bस्Cओम्_२,३.७.१३
SK
START Bस्Cओम्_२,३.८.१४
SK
८ विपर्ययाधिकरणम् / सू. १४
SK
विपर्ययेण तु क्रमो ऽत उपपद्यते च | BBस्_२,३.१४ |
SK
भूतानामुत्पत्तिक्रमश्चिन्तितः / अथेदानीमप्ययक्रमश्चिन्त्यते / किमनियतेन क्रमेणाप्यय उत्पत्तिक्रमेणाथवा तद्विपरीतेनेति / त्रयो ऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते- ऽयतो वा इमानि भूतानि जायन्ते / येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तिऽ (तै. ३.१.१) इति / तत्रानियमो ऽविशेषादिति प्राप्तम् / अथवोत्पत्तेः क्रमस्य श्रुतत्वाप्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति / एवं प्राप्तं ततो ब्रूमः विपर्ययेण तु प्रलयक्रमो ऽत उत्पत्तिक्रमाद्भवितुमर्हति / तथाहि लोके दृश्यते येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति / अपिच दृश्यते मृदो जातं घटशरावाद्यप्ययकाले मृद्भावमप्येत्यद्भ्यश्च जातं हिमकरकाद्यब्भावमप्येतीति / अतश्चोपपद्यत एतत् / यद्पृथिव्यद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तावपो ऽपीयादापश्च तेजसो जाताः सत्यस्तेजो ऽपीयुः / एवं क्रमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् / नहि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः / स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः - ऽजगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते / ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयतेऽ इत्येवमादौ / उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति / नचासावयोग्यत्वादप्ययेनाकाङ्क्ष्यते / नहि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः कारणाप्यये कार्यस्यावस्थानानुपपत्तेः / कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्
SK
FN: क्रमेण परम्परया /
SK
विपर्ययेण तु / यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसंगतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसंगती इति मत्वाह-भूतानामिति / अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलेम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलं, पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः / सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह-त्रयो ऽपीति / अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः / सति कारणे कार्यं नश्यतीति लोके दृश्यते / तथाच श्रौतो ऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च / कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् / न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकिकक्रमावरोधेन निराकाङ्क्षात्वादिति सिद्धान्तयति-ततो ब्रूम इत्यादिना / क्रमेण परम्परया सर्वकार्यलयाधारत्वं ब्रह्मणः किमित्याश्रीयते, साक्षादेव तत्किं न स्यादित्यत आह-नहि स्वकारणव्यतिक्रमेणेति /
SK
घटनाशे मृदनुपलब्धिप्रसङ्गादित्यर्थः / ऽवायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयतेऽइति स्मृतिशेष आदिपदार्थः / ऽयोग्यताधीनः संबन्धःऽइति न्यायादयोग्यक्रबाध इति सिद्धम्
SK
END Bस्Cओम्_२,३.८.१४
SK
START Bस्Cओम्_२,३.९.१५
SK
९ अन्तराविज्ञानाधिकरणम् / सू. १५
SK
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् | BBस्_२,३.१५ |
SK
भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् / आत्मादिरुत्पत्तिः प्रलयश्चात्मान्त इत्यप्युक्तम् / सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः / ऽबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च / इन्द्रियाणि हयानाहुःऽ (कठ. ३.३) इत्यादिलिङ्गेभ्यः / तयोरपि कस्मिश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात् / अपिचाथर्वण उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च / खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुणड. २.१.३) इति / तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् /
SK
न / अविशेषात् / यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् / भवति च भौतिकत्वे लिङ्गं करणानाम् / ऽअन्नमयं हि सोम्य मन ओषधयः प्राणस्तेजोमयी वाक्ऽ (छा. ६.५.४) इत्येवजातीयकम् / व्यपदेशो ऽपि क्वचिद्भूतानां करणानां च ब्राह्मणपरिव्राजकन्यायेन नेतव्यः / अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशेष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं वा करणानीति / आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च / न तत्रोत्पत्तिक्रम उच्यते / तथान्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते- ऽप्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनो ऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतऽ इत्यादिना / तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः
SK
FN: अन्यपराः शब्दा लिङ्गानीत्युच्यन्ते /
SK
इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मा आसीत् /
SK
अन्तराविशेषात् / उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां संदेहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह-भूतानामित्यादिना / करणान्येव न सन्तीति वदन्तं प्रत्याह-सेन्द्रियस्येति / ऽमनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सःऽ, ऽश्रोत्रादीनीन्द्रियाण्यन्येऽइति स्मृतिर्द्रष्टव्या / अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते / करणानां क्रमाकाङ्क्षामाह-तयोरिति / आकाङ्क्षायांश्रुतिसिद्धः क्रमो ग्राह्य इत्याह-अपिचेति / विज्ञायते ऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः / आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् ऽएतस्माज्जायते प्राणो मनःऽइत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते / तथाच करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः / नच करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यं, तेषां भौतिकत्वे मानाभावात् / तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् / सिद्धान्तयति-नेति / ऽआत्मन आकाशःऽइत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति / न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः / किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह-यदीति / नच प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यं, करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् / प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशेन वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः / यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः / ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक् तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह-व्यपदेशो ऽपीति / प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह-अथ त्विति / करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः / न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः / तर्हि कथं क्रमनिर्णयः, तत्राह-तथेति / इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मासीत् अत्र सूक्ष्मभूतात्मकप्रजापत्तिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः / एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति-तस्मादिति
SK
END Bस्Cओम्_२,३.९.१५
SK
START Bस्Cओम्_२,३.१०.१६
SK
१० चराचरव्यपाश्रयाधिकरणम् / सू. १६
SK
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् | BBस्_२,३.१६ |
SK
स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्चेति स्यात्कस्यच्द्भ्रान्तिस्तामपनुदामः / न जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसंबन्धोपपत्तेः / शरीरानुविनाशिनि हि जीवे शरीरान्तकगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्तकौ स्याताम् / श्रूयते च- ऽजीवापेतं वाव किलेदं म्रियते न जीवो म्रियतेऽ (छा. ६.११.३) इति /
SK
ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः /
SK
सत्यं दर्शितः / भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः /
SK
किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इति /
SK
उच्यते- चराचरव्यपाश्रयः / स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ / स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्यते, तद्भावभावित्वात् / शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतो नासतोः / नहि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते / ऽस वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाणः (बृ. ४.३.८) इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति / जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् / अभावाज्जीवप्रादुर्भावस्य / जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति / देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्त इत्येतदनेन सूत्रेणावोचत्
SK
FN: जीवापेतं जीवेन त्यक्तमिदं शरीरम् /
SK
चराचरभावित्वात् / एवं तावत्तत्पदवाच्यकारणनिर्णयाय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पादमाप्तेस्त्वंपदार्थशुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते / इह जीवो ऽन जायते म्रियतेऽइत्यादिश्रुतेर्जातेष्टिश्राद्धशास्त्रेण विरोधो ऽस्ति न वेति संदेहे विरोधो ऽस्तीति प्राप्ते लौकिकजन्मादिव्यपदेशसहायाज्जातेष्ट्यादिशास्त्रेण जीवाजत्वादिश्रुतिर्बाध्यत इति पूर्वपक्षयति-स्त इति / तथाच करणोत्पत्तिक्रमेण भूतक्रमस्य बाधाभावे ऽपि जीवोत्पत्तिक्रमेण बाधः स्यादिति प्रत्युदाहरणसंगतिः / पूर्वपक्षे जीवब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः / चेतनजन्माद्युद्देशेन चेतनस्य तस्य जन्मान्तरीयफलसाधनं जातकर्मादिसंस्कारो विधीयते / तथा चोद्देश्यविधेययोर्मिथोविरोधे सति ऽविधेयाविरोधेनोद्देश्यं नेयम्ऽइति न्यायाज्जन्मादिकं देहोपाधिकं न स्वत इति सिद्धान्तयति-तामित्यादिना / जीवापेतं जीवेन त्यक्तमिदं शरीरम् / जन्मादिव्यपदेशश्चराचरदेहविषयो मुख्यः / जीवे तु भाक्तो गौण औपाधिकजन्मादिविषयः स्यादुपाधिजन्मभावे भावादसत्यभावादिति सूत्रार्थः / जीवस्यौपाधिकजन्ममृत्यौ श्रुतिमप्याह-स वा इति / जायमानपदार्थमाह-शरीरमिति / म्रियमाणत्वं व्याचष्टे-उत्क्रामन्निति / ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह-जीवस्येति /
SK
तदेवं जातेष्ट्यादिशास्त्रस्यौपाधिकजन्मादिविषयत्वान्न जीवाद्यजन्यत्वश्रुतिविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,३.१०.१६
SK
START Bस्Cओम्_२,३.११.१७
SK
११ आत्माधिरणम् / सू. १७
SK
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः | BBस्_२,३.१७ |
SK
अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसंबन्धी / स किं व्योमादिवदुत्पद्यते ब्रह्मण आहोस्विद्ब्रह्मवदेव नोत्पद्यत इति श्रुतिविप्रतिपत्तेर्विशयः / कासुचिच्छ्रुतिष्वग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते, कासुचित्त्वविकृतस्य परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते नचोत्पत्तिराम्नायत इति / तत्र प्राप्तं तावदुत्पद्यते जीव इति / कुतः / प्रतिज्ञानुपरोधादेव / एकस्मिन्विदिते सर्वमिदं विदितम् इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत / तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत / नचाविकृतः परमात्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् / अपहृतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः / विभागाच्चास्य विकारत्वसिद्धिः / यावान्ह्याकाशादिः प्रविभक्तः स सर्वो विकारस्तस्य चाकाशादेरुत्पत्तिः समधिगता / जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक्प्रतिशरीरं प्रविभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति / अपिच ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवास्मादात्मनः सर्वे प्राणाःऽ (बृ. २.१.२०) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा ऽसर्व एव आत्मनो व्युच्चरन्तिऽ इति भोक्तृणीमात्मनां पृथक्सृष्टिं शास्ति / ऽयथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः / तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तिऽ (मुण्ड. २.१.१) इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते / सरूपवचनात्,
SK
जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् / नच क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति / श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात् / प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या, ऽतदात्मानं स्वयमकुरुतऽ इत्यादिवत् / तस्मादुत्पद्यते जीव इति / एवं प्राप्ते ब्रूमः - नात्मा जीव उत्पद्यत इति / कस्मात् / अश्रुतेः / नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु /
SK
ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयितीत्युक्तम् /
SK
सत्यमुक्तम् / उत्पत्तिरेव त्वस्य न संभवतीति वदामः / कस्मात् / नित्यत्वाच्च ताभ्यः / चशब्दादजत्वादिभ्यश्च / नित्यत्वं ह्यस्य श्रुतिभ्यो ऽवगम्यते तथाजत्वमविकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति / नचैवंरूपस्योत्पत्तिरुपपद्यते / ताः काः श्रुतयः / ऽन जीवो म्रियतेऽ (छा. ६.११.३), ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४.२२), ऽन जायते म्रियते वा विपश्चित्ऽ (कठं २.१८), ऽअजो नित्यः शाश्वतो ऽयं पुराणःऽ (कठ. २.१८). ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६.१), ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२), ऽस एष इह प्रविष्ट आ नखाग्रेभ्यःऽ (बृ. १.४.७), ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१९), ऽअयमात्मा ब्रह्म सर्वानुभूःऽ (बृ. २.५.१९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिबध्नन्ति /
SK
ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यत इत्युक्तम् /
SK
अत्रोच्यते- नास्य प्रविभागः स्वतो ऽस्ति / ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे. ६.११) इति श्रुतेः / बुद्ध्याद्यपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसंबन्धनिमित्तम् / तथाच शास्त्रम्- ऽस वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ (बृ. ४.४.५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतो ऽप्येकस्यानेकबुद्ध्यादिमयत्वं दर्शयति / तन्मयत्वं चास्य विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवद्द्रष्टव्यम् / यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसंबन्धान्नेतव्यम् / उपाध्युत्पत्त्यास्योत्पत्तिस्तत्प्रलयेन च प्रलय इति / तथाच दर्शयति- ऽप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तिऽ (बृ. ४.५.१३) इति / तथोपाधिप्रलय एवायं नात्मविलय इत्येतदप्यत्रैव ऽमा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्तिऽ इति प्रश्नपूर्वकं प्रतिपादयति- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ (बृ. ४.५.१४) इति / प्रतिज्ञानुपरोधो ऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् / लक्षणभेदो ऽप्यनयोरुपाधिनिमित्त एव / ऽअत ऊर्ध्वं विमोक्षायैव ब्रूहिऽ (बृ. ४.३.१५) इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् / तस्मानैवात्मोत्पद्यते प्रविलीयते चेति
SK
FN: उपरोधो बाधः / सरूपशब्दो जीववाचीति शेषः / जाल्मः कामजडः / स यथा स्त्रीपरतन्त्रः स्त्रीमयो व्पदिश्यते / एतेभ्यो देहात्मना परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति / मोहं मोहकरं वाक्यम् /
SK
नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः / अग्नेर्विस्फुलिङ्गवदेतस्मापरमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ ऽअज आत्माऽइत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसंभवात्, कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्संभवादिति प्रत्युदाहरणेन पूर्वपक्षमाह-तत्र प्राप्तं तावदिति / फलं पूर्ववत् / उपरोधो बाधः / नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह-नचेति / जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः / सरूपेति / दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते / ननु ऽआत्मन आकाशः संभूतःऽइत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह-न चेति / एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः / अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद, घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति-एवमिति / धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा / नाद्यः, असिद्धेरित्याह-अत्रोच्यते नास्येति / द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह-बुद्ध्यादीति / औपाधिकभेदे मानमाह-तथाचेति / मयटो विकारार्थत्वमाशङ्क्याह-तन्मयत्वं चेति / जाल्मः कामजडः स्त्रीपरतन्त्रः / स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः / लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह-यदपीति / जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह-तथेति / एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति / प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः / ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह-तथेति / उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः / अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः / मुनिराह-न वा इति / मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मो ऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः / तर्हि न प्रेत्य संज्ञेति कथमुक्तं, तत्राह-मात्रेति / मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः / बिम्बप्रतिबिम्बयोरिव विरुद्धाधर्मभेदो ऽध्यस्त इत्यत्र हेतुमाह-अत ऊर्ध्वमिति /
SK
जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डनार्थमिति च वक्तव्यं, तथाच फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,३.११.१७
SK
START Bस्Cओम्_२,३.१२.१८
SK
१२ ज्ञाधिकरणम् / सू. १८
SK
ज्ञो ऽत एव | BBस्_२,३.१८ |
SK
स किं कणभुजानामिवागन्तुकचैतन्यः स्वतो ऽचेतन आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एवेति वादिविप्रतिपत्तेः संशयः / किं तावत्प्राप्तम् / आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजमग्निघटसंयोगजरोह् इतादिगुणवदिति प्राप्तम् /
SK
नित्यचैतन्यत्वे हि सुप्तमूर्च्छितग्रहाविष्टानामपि चातन्यं स्यात् / ते पृष्टाः सन्तो न किञ्चिद्वयमचेतयामहीति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्ते / अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति /
SK
एवं प्राप्ते ऽभिधीयते- ज्ञो नित्यचैतन्यो ऽयमात्मात एव, यस्मादेव नोत्पद्यते परमेव ब्रह्माविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते / परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम्- ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. ३.९.२८), ऽसत्यं ज्ञानमन्तं ब्रह्मऽ (तै. २.१.१), ऽअनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. ४.५.१३), इत्यादिषु श्रुतिषु / तदेव चेत्परं ब्रह्म जीवस्तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते / विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति- असुप्तः ऽसुप्तानभिचाकशीतिऽ (बृ. ४.३.११) ऽअत्रायं पुरुषः स्वयञ्ज्योतिर्भवतिऽ (बृ. ४.३.९) इति, ऽनहि विज्ञातुर्निर्विज्ञातेर्विपरिलापो विद्यतेऽ (बृ. ४.३.३०) इत्येवंरूपाः / ऽअथ यो वेदेदं जिघ्राणीति स आत्माऽ (छा. ८.१२.४) इति च सर्वैः करणद्वारैरिदं वेदेदं वेदेति विज्ञानेनानुसंधानात्तद्रूपत्वसिद्धिः /
SK
नित्यस्वरूपचैतन्यत्वे घ्राणाद्यानर्थक्यमिति चेत् /
SK
न / गन्धादिविषयविशेषपरिच्छेदार्थत्वात् / तथाहि दर्शयति- ऽगन्धाय घ्राणम्ऽ इत्यादि / यत्तु सुप्तादयो न चेतयन्त इति तस्य श्रुत्यैव परिहारो ऽभिहितः / सुषुप्तं प्रकृत्य ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति- नहि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते ऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. ४.३.२३) इत्यादिना / एतदुक्तं भवति- विषयाभावादियमचेतयमानता न चैतन्याभावादिति / यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्यभावादनभिव्यक्तिर्न स्वरूपाभावात्तद्वत् / वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति / तस्मान्नित्यचैतन्यस्वरूप एवात्मेति निश्चिनुमः
SK
FN: स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरव्यापारानभिचाकशीति अभिपश्यति / परिच्छेदो वृत्तिः / गन्धाय तद्गोचरान्तःकरणवृत्तये /
SK
ज्ञो ऽत एव / ऽआत्मैवास्य ज्योतिःऽइत्याद्यात्मस्वप्रकाशत्वश्रुतीनां ऽपश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्ऽइत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधो ऽत्र निरस्यते / अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः / प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः संगतिः / अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति / न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् / तथाच पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् / इष्टापत्तिं निराचष्टे-ते पृष्टा इति / साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह-अतः कादाचित्केति / यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् / अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति-एवमिति / चेच्छब्दो निश्चयार्थः / न केवल स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितो ऽपीत्याह-विज्ञानमयेति / यो ऽयं विज्ञानमय इति प्रकरण इत्यर्थः / असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति / सुप्तार्थान्पश्यतीति यावत् / अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः /
SK
घ्राणादिजन्यगन्धादिज्ञानानुसंधानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह-अथेति / आत्मनो नित्यचिद्रूपत्वे ऽपि स्वतो ऽसङ्गतया गन्धाद्यसंबन्धात्तत्संबन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह-न गन्धेति / परिच्छेदो वृत्तिः / गन्धाय तद्गोचरान्तः-करणवृत्तये इत्यर्थः / सुप्ताद्यवस्थात्मसत्त्वे ऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति-यत्विति / तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः-नहीति / नाशायोग्यत्वादित्यर्थः / किमिति न पश्यतीत्यत आह-न त्विति / वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् / साधनवैयर्थ्यतर्को ऽपि निरस्तः / शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् / आत्मा न ज्ञानं, द्रव्यत्वात्, इत्यादितर्काश्चागमबाधिताः / फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् / किञ्च निरवयवात्मनो मनः-संयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च / किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या ऽकामः संकल्पःऽइत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम्
SK
END Bस्Cओम्_२,३.१२.१८
SK
START Bस्Cओम्_२,३.१३.१९
SK
१३ उत्क्रान्तिगत्यधिकरणम् / सू. १९-३२
SK
उत्क्रान्तिगत्यागतीनाम् | BBस्_२,३.१९ |
SK
इदानीं तु किंपरिमाणो जीव इति चिन्त्यते / किमणुपरिमाण उत मध्यमपरिमाण आहोस्विन्महापरिमाण इति /
SK
ननु च नात्मोत्पद्यते नित्यचैतन्यश्यायमित्युक्तम् / अतश्च पर एवात्मा जीव इत्यापतति / परस्या चात्मनो ऽनन्तरत्वमाम्नातं, तत्र कुतो जीवस्य परिमाणचिन्तावतार इति /
SK
उच्यते- सत्यमेतत् / उत्क्रान्तिगत्याहगतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति / स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमाम्नायते / तस्य सर्वस्यानाकुलत्वोपपादानायायमारम्भः / तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नो ऽणुपरिमाणो जीव इति / उत्क्रान्तिस्तावत्- ऽस यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामतिऽ (कौषीत. ३.३) इति / गतिरपि ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषीत. १.२) इति / आगतिरपि ऽतस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणेऽ (बृ. ४.४.६) इति / आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति / नहि विभोश्चलनमवकल्पत इति / सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते
SK
स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा संगत्या विचारयति-उत्क्रान्तिगत्यागतीनाम् / विषयसंशयौ दर्शयति-इदानीमिति / नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह-नन्वित्यादिना / न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनो ऽणुत्वं किन्त्वेषो ऽणुरात्मेति श्रुत्यापीत्याह-स्वशब्देनेति / पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह-तत्र प्राप्तमित्यादिना /
SK
श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् / उत्क्रान्तिः श्रूयत इति शेषः / स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः
SK
END Bस्Cओम्_२,३.१३.१९
SK
START Bस्Cओम्_२,३.१३.२०
SK
स्वात्मना चोत्तरयोः | BBस्_२,३.२० |
SK
उत्क्रान्तिः कदाचिदचलतो ऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत / उत्तरे तु गत्यागती नाचलतः संभवतः / स्वात्मना हि तयोः संबन्धो भवति, गमेः कर्तृस्थक्रियात्वात् / अमध्यमपरिमाणस्य च गत्यागती अणुत्व एव संभवतः / सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते / नह्यनपसृत्य देहाद्गत्यागती स्याताम् / देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् / ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. ४.४.२) इति / ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ (बृ. ४.४.१), ऽशुक्रमादाय पुनरैति स्थानम्ऽ (बृ. ४.३.११) इति चोत्तरे ऽपि शरीरे शरीरस्य गत्यागती भवतः / तस्मादप्यस्याणुत्वसिद्धिः
SK
FN: अपादानत्वमवधित्वम् /
SK
उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात् किन्तु स्वामित्वनिवृत्तिरिति केचित् / तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह-स्वात्मनेति / उत्क्रान्तेरुत्तरयोर्गत्यागत्ययोः स्वात्मना कर्त्रा संबन्धादणुत्वमिति सूत्रयोजना / पाकानाश्रयस्य पक्तृत्ववद्रत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह-गमेरिति / गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्क्रर्त्राश्रितत्वं लोकसिद्धमित्यर्थः / जीवो ऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह-अमध्यमेति / अङ्गीकारं त्यजति-सत्योश्चेति / न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः / देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह-देहप्रदेशानामिति / अपादानत्वमवधित्वम् / अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः / किञ्च देहमध्ये ऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह-स इति /
SK
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः
SK
END Bस्Cओम्_२,३.१३.२०
SK
START Bस्Cओम्_२,३.१३.२१
SK
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् | BBस्_२,३.२१ |
SK
अथापि स्यान्नाणुरयमात्मा / कस्मात् / अतच्छ्रुतेः / अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः / ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु (बृ. ४.४.१२), ऽआकाशवत्सर्वगतश्च नित्यःऽ, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. २.१.१) इत्येवञ्जातीयका हि श्रुतिरात्मनो ऽणुत्वे विप्रतिषिध्येतेति चेत् /
SK
नैष दोषः / कस्मात् / इतराधिकारात् / परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः / परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् / विरजः पर आकाशादित्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् /
SK
ननु ऽयो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. ४.४.२२) इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते / शास्त्रदृष्ट्या त्वेष निर्देशो वामदेववद्द्रष्टव्यः / तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य च जीवस्याणुत्वं विरुध्यते
SK
FN: इतराधिकारात् ब्रह्मप्रकरणात् /
SK
इतराधिकारात् / ब्रह्मप्रकरणात् / ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह-परस्येति / या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह-विरज इति / निर्देष इत्यर्थः / विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते-नन्विति / अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह-शास्त्रेति
SK
END Bस्Cओम्_२,३.१३.२१
SK
START Bस्Cओम्_२,३.१३.२२
SK
स्वशब्दोन्मानाभ्यां च | BBस्_२,३.२२ |
SK
इतश्चाणुरात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते- ऽएषो ऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेशऽ (मुण्ड. ३.१.९) इति / प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति गम्यते / तथोन्मानमपि जीवस्याणिमानं गमयति- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च / भागो जीवः स विज्ञेयःऽ (श्वे. ५.८) इति / ऽआराग्रमात्रो ह्यवरोषपि दृष्टःऽ (श्वे. ५.८) इति चोन्मानान्तरम्
SK
नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते / दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोपलब्धिरिति /
SK
FN: उद्धृत्यमानमुन्मानम् / बालः केशः / तोत्रप्रोतायःशलाकाग्रमराग्रं तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा /
SK
एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितं, तत्र श्रुतिमप्याह-स्वशब्देति /
SK
बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः / बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् / तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा
SK
END Bस्Cओम्_२,३.१३.२२
SK
START Bस्Cओम्_२,३.१३.२३
SK
अत उत्तरं पठति-
SK
अविरोधश् चन्दनवत् | BBस्_२,३.२३ |
SK
यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धो ऽपि सन्सकलदेहव्यपिनमाह्लादं करोत्येवमात्मापि देहैकदेशेभ्यः सकलदेहव्यापिनीमुपलब्धिं करिष्यति / त्वक्संबन्धनाच्चास्य सकलशरीरगता वेदना न विरुध्यते / त्वगात्मनोर्हि संबन्धः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति
SK
आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् / त्वगात्मनोरिति /
SK
संबन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः
SK
END Bस्Cओम्_२,३.१३.२३
SK
START Bस्Cओम्_२,३.१३.२४
SK
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि | BBस्_२,३.२४ |
SK
अत्राह यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तं दृष्टान्तदार्ष्ट्रान्तिकयोरतुल्यत्वात् / सिद्धे ह्यात्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति / प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च / आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् / अनुमेयं तु तदिति यदप्युच्येत / नचात्रानुमानं संभवति / किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः किंवा विभोर्नभस इवाहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्येति संशयानतिवृत्तेरिति /
SK
अत्रोच्यते- नायं दोषः / कस्मात् / अभ्युपगमात् / अभ्युपगम्यते ह्यात्मनो ऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् / कथमित्युच्यते / हृदि ह्येष आत्मा पठ्यते वेदान्तषु / ऽहृदि ह्येष आत्माऽ
SK
(प्रश्न. ३.६), ऽस वा एष आत्मा हृदिऽ (छा. ८.३.३), ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. ४.३.७) इत्याद्युपदेशेभ्यः / तस्माद्दृष्टान्तदार्ष्ट्रान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति
SK
सिद्धे हीति / नतु सिद्धमित्यतुल्यतेत्यर्थः / विशेष एव वैशेष्यम् / चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे संदेहाद्ध्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् / व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः / आत्माल्पः, व्यापिकार्यकारित्वात्, चन्दनबिन्दुवदित्यनुमानमयुक्तं, त्वगादौ व्यभिचारादित्याह-न चात्रानुमानमिति / पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह-अत्रोच्यत इति
SK
END Bस्Cओम्_२,३.१३.२४
SK
START Bस्Cओम्_२,३.१३.२५
SK
गुणाद्वा लोकवत् | BBस्_२,३.२५ |
SK
चैतन्यगुणव्याप्तेर्वाणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते / यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभापवरकव्यापिनी सती कृत्स्ने ऽपवरके कार्यं करोति तद्वत् / स्यात्कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वं व त्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विप्रसर्पेदित्याशङ्क्य गुणाद्वा लोकवदित्युक्तम्
SK
कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत / नहि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते / प्रदीपभावद्भवेदिति चेत् /
SK
न / तस्या अपि द्रव्यत्वाभ्युपगमात् / निबिडावयवं हि तेजोद्रव्यं प्रदीपः / प्रविरलावयवं तु तेजोद्रव्यमेव प्रभेति /
SK
आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह-गुणाद्वेति / वाशब्देन चन्दनदृष्टान्तापरितेषः सूचितस्तमाह-स्यादिति
SK
END Bस्Cओम्_२,३.१३.२५
SK
START Bस्Cओम्_२,३.१३.२६
SK
अत उत्तरं पठति-
SK
व्यतिरेको गन्धवत् | BBस्_२,३.२६ |
SK
यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति / अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः / एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति / अतश्चानैकान्तिकमेतद्गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति / गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् / गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् /
SK
न / यस्मान्मूलद्रव्याद्विश्लेषितस्य क्षयप्रसङ्गात् / अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते / अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत / स्यादेतत् / गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात्सन्नपि विशेषो नोपलक्ष्यते /
SK
सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृप्ता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् /
SK
न / अतीन्द्रियत्वात्परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेसरादिषु / नच लोके प्रतीतिर्गन्धवद्द्रव्यमाघ्रातमिति / गन्ध एवाघ्रात इति तु लौकिकाः प्रतीयन्ति / रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् /
SK
न / प्रत्यक्षत्वादनुमानाप्रवृत्तेः / तस्माद्यद्यथा लोके दृष्टं तत्तथैवानुमन्तव्यं निरूपकैर्नान्यथा / नहि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयो ऽपि गुणा जिह्वायैवोपलभ्येरग्निरिति नियन्तुं शक्यते
SK
FN: गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः /
SK
उत्तरसूत्रव्यावर्त्यं शङ्कते-कथमिति / ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात्, रूपवत्, नच प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह-अत उत्तरमिति / गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः / ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह-अक्षीयामाणमपीति / अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्रव्यमनुमीयत इत्यर्थः / विमतमविश्लिष्टावयवं, पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात्, संमतवदिति भावः / शङ्कते-स्यादेतदिति / विश्लिष्टानामल्पत्वादित्युपलक्षणं, अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् / विशेषो ऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथाच गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः / आगच्छन्तो ऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति-नेति / द्वितीयं प्रत्याह-स्फुटेति /
SK
त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः / अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः / गन्धो न गुणिविश्लिष्टः गुणत्वात्, रूपवदिति शङ्कते-रूपेति / विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह-नेति
SK
END Bस्Cओम्_२,३.१३.२५
SK
START Bस्Cओम्_२,३.१३.२७
SK
तथा च दर्शयति | BBस्_२,३.२७ |
SK
हृदयायतनत्वमणुपरिमाणत्वं चात्मनो ऽभिधाय तस्यैव ऽआ लोमस्य आ नखाग्रेभ्यःऽ (छा. ८.८.१) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति
SK
आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः-तथाच दर्शयतीति / तद्व्याचष्टे-हृदयेति
SK
END Bस्Cओम्_२,३.१३.२७
SK
START Bस्Cओम्_२,३.१३.२८
SK
पृथगुपदेशात् | BBस्_२,३.२८ |
SK
ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी. ३.६) इति चात्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशाच्चैतन्यगुणेनैवास्य शरीरव्यापिता गम्यते / ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. २.१.१७) इति च कर्तुः शारीरत्पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्बलयति / तस्मादणुरात्मेति
SK
FN: विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः /
SK
तत्रैव श्रुत्यन्तरार्थं सूत्रम्-पृथगिति /
SK
विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः / एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम्
SK
END Bस्Cओम्_२,३.१३.२८
SK
START Bस्Cओम्_२,३.१३.२९
SK
एवं प्राप्ते ब्रूमः -
SK
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् | BBस्_२,३.२९ |
SK
तुशब्दः पक्षं व्यवर्तयति / नैतदस्त्यणुरात्मेति / उत्पत्त्यश्रवणाद्धि परस्यैव तु ब्रह्मणः प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् / परमेव चेद्ब्रह्म जीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति / परस्य च ब्रह्मणो विभुत्वमाम्नातम् / तस्माद्विभुर्जीवः / तथाच ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. ४.४.२२) इत्येवञ्जातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति / नचाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते / त्वक्संबन्धात्स्यादिति चेत् /
SK
न / कण्टकतोदने ऽपि सकलशरीरगतैव वेदना प्रसज्येत / त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति / पादतल एव तु कण्टकनुन्नो वेदनां प्रति लभते / नचाणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात् / गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत / प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् / गन्धो ऽपि गुणत्वाभ्युपगमात्साश्रय एव संचरितुमर्हति / अन्यथा गुणत्वहानिप्रसङ्गात् / तथाचोक्तं द्वैपायनेन- ऽउपलभ्याप्सु चेद्गन्दं केचिद्ब्रूयुरनैपुणाः / पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्ऽ इति / यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् / चैतन्यमेव ह्यस्य स्वरूपमग्नेरिवौष्ण्यप्रकाशौ /
SK
नात्र गुणगुणिविभागो विद्यत इति शरीरपरिमाणत्वं च प्रत्याख्यातम् / परिशेषाद्विभुर्जीवः / कथं तर्ह्यणुत्वादिव्यपदेश इत्यत आह- तद् गुणसारत्वात्तु तद्व्यपदेशः इति / तस्या बुद्धेर्गुणास्तद्गुणा इच्छा द्वेषः सुखं दुःखमित्येवमादयस्तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे संभवति स तद्गुणसारस्तस्य भावस्तद्गुणसारत्वम् / नहि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति / बुद्ध्युपाधिर्धर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तृरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः / तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः / तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यदिव्यपदेशो न स्वतः / तथाच- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च / भागो जीवः स विज्ञेयः स चानन्त्याय कल्पतेऽ (श्वे. ५.९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह / तच्चैवमेव समञ्जसं स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् / नह्युभयं मुख्यमवकल्पेत / नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं, सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपादयिषितत्वात् / तथेतरस्मिन्नप्युन्माने ऽबुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरो ऽपि दृष्टःऽ (श्वे. ६.८) इति च बुद्धिगुणसंबन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना / ऽएषो ऽणुरात्मा चेतसा वेदितव्यःऽ (मुण्ड. ३.१.९) इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् / जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः / तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् / तथा ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी. ३.६) इत्येवञ्जातीयकेष्वपि भेदोपदेशेषु बुद्ध्यौवोपाधिभूतया जीवः शरीरं समारुह्येत्येवं योजयितव्यम् / व्यपदेशमात्रं वा, शिलापुत्रकस्य शरीरमित्यवदत् / नह्यत्र गुणगुणिविभागो ऽपि विद्यत इत्युक्तम् / हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् / तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति- ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीतिऽ (प्रश्न. ६.३) ऽस प्राणमसृजतऽ (प्र. ६.४) इति / उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते / नह्यनपसृपस्य देहाद्गत्यागती स्याताम् / एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः प्राज्ञवत् / यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः- ऽअणीयान्व्रीहेर्वा यवाद्वाऽ (छा. ३.१.१४.२) ऽमनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पःऽ (छा. ३.१४.२) इत्येवंप्रकारस्तद्वत् / स्यादेतद्यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति
SK
तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः / तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे-तुशब्द इत्यादिना / तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहिते श्रुतिस्मृति आह-तथाच स वा एष इति / नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः / एतेन जीवस्य ब्रह्मबेदज्ञाने ऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् / प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् / ऽगुणे त्वन्याय्यकल्पनाऽइति न्यायादिति भावः / किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयो ऽध्यस्ताणुत्ववि षयत्वेन कथञ्चिदर्थवादा नेयाः / लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह-न चाणोरिति / शङ्कते-त्वगिति / यद्यण्वात्मसंबन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति-नेति / प्रसङ्गस्येष्ठत्वं निरस्यति-पादतल एवेति / तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात्, तथाचाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः / नच सिद्धान्ते त्वगात्मसंबन्धस्य व्यापित्वात्कण्टकसंबन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् / यावती विषयसंबद्धा त्वक् तावद्व्याप्यात्मसंबन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् / न चैवं विषयत्वक्संबन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् / वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं संभवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः / न चैषां व्यापकत्वमसिद्धं, सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् / यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह-न चाणोरिति / गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात्, रूपवदित्यत्रागममाह-तथा चोक्तमिति / नच प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वे ऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसंभवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः / पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तं, संप्रति तस्य गुणत्वमसिद्धमित्याह-यदि च चैतन्यमिति / उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे-कथमित्यादिना / ऽअन्तरा विज्ञानमनसी हृदि हिऽइति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते / बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह-तथाचेति / अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सो ऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः / उक्तं चैतदङ्गुष्ठाधिकरणे ऽप्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्ऽइति / बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् / तत्राद्यं निरस्य द्वितीयं निरस्यति-तथेतरस्मिन्नपीति / बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणो ऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः / ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा / ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानःऽइत्युक्त्वा ऽएषो ऽणुरात्माऽइत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह-जीवस्यापीति / यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह-तथा प्रज्ञयेति / बुद्धिः प्रज्ञेत्यर्थः / यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह-व्यपदेशमात्रं वेति / ननु चैतन्यं गुण इति भेदो मुख्यो ऽस्तु, नेत्याह-न ह्यत्रेति / निर्गुणत्वश्रुतेरित्यर्थः / अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह-हृदयेत्यादिना / सौत्रं दृष्टान्तं विवृणोति-यथेति /
SK
असत्त्वमित्यापाततः / असंसारित्वमापाद्यम् / शेषं सुबोधम्
SK
END Bस्Cओम्_२,३.१३.२९
SK
START Bस्Cओम्_२,३.१३.३०
SK
अत उत्तरं पठति-
SK
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् | BBस्_२,३.३० |
SK
नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया / कस्मात् / यावदात्मभावित्वाद्बुद्धिसंयोगस्य / यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति / यावदेव चायं बुद्ध्युपाधिसंबन्धस्तावज्जीवस्य जीवत्वं संसारित्वं च /
SK
परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिसंबन्धपरिकल्पितस्वरूपव्यतिरेकेणास्ति / नहि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते / ऽनान्यो ऽतो ऽस्ति द्रष्टा श्रोता मन्ता विज्ञाताऽ (बृ. ३.७.२३), ऽनान्यदतो ऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृऽ (छा. ६.८.७), ऽतत्त्वमसिऽ (छा. ६.१.६), ऽअहं ब्रह्मास्मिऽ (बृ. १.४.७) इत्यादिश्रुतेभ्यः / कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति / तद्दर्शनादित्याह / तथाहि शास्त्रं दर्शयति- ऽयो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीवऽ (बृ. ४.३.४) इत्यादि / तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति / प्रदेशान्तरे ऽविज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ इति विज्ञानमयस्य मनआदिभिः सह पाठात् / बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते / यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानो ऽभिधीयते तद्वत् / ऽस समानः सन्नुभौ लोकावनुसंचरतिऽ इति च लोकान्तरगमने ऽप्यवियोगं बुद्ध्या दर्शयति / केन समानस्तस्यैवबुद्ध्येति गम्यते संनिधानात् / तच्च दर्शयति - ऽध्यायतीव लेलायतीवऽ (बृ. ४.३.७) इति / एतदुक्तं भवति- नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति / अपिच मिथ्याज्ञानपुरःसरो ऽयमात्मनो बुद्ध्युपाधिसंबन्धः / नच मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधस्यावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति / दर्शयति च- ऽवेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः पुरस्तात् / तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे. ३.८) इति
SK
FN: विज्ञानमयो बुद्धिप्रचुरः / आदित्यवर्णं स्वप्रकाशम् / तमसः परस्तादज्ञानास्पृष्टम् / सता परमात्मना /
SK
ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह-यावदेव चायमिति / समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारो ऽणुरित्यर्थः / किं न स्यादित्यत आह-प्रदेशान्तर इति / विज्ञानमयो बुद्धिप्रचुर इत्यर्थः /
SK
केन समान इत्याकाङ्क्षायामिति शेषः / श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तं, सति मूले कार्यस्य वियोगासंभवाच्चेति युक्त्याप्याह-अपिच मिथ्येति / सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह-दर्शयतीति /
SK
मृत्युमत्येतीत्यन्वयः / आदित्यवर्णं स्वप्रकाशम् / तमसः परस्तादज्ञानास्पृष्टमित्यर्थः
SK
END Bस्Cओम्_२,३.१३.३०
SK
START Bस्Cओम्_२,३.१३.३१
SK
ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्धं आत्मनो ऽभ्युपगन्तुम् / ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. ६.८.१) इति वचनात् / कृत्स्नविकारप्रलयाभ्युपगमाच्च / तत्कथं यावदात्मभावित्वं बुद्धिसंबन्धस्येत्यत्रोच्यते-
SK
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् | BBस्_२,३.३१ |
SK
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति, नाविद्यमानान्युत्पद्यन्ते षण्डादीनामपि तदुत्पत्तिप्रसङ्गात्, एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति / एवं ह्येतद्युज्यते / नह्याकस्मिकी कस्यचिदुत्पत्तिः संभवति / अतिप्रसङ्गात् / दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम्- ऽसति संपद्य न विदुः सति संपद्यमाहऽ इति त इह व्याघ्रो वा संहो वाऽ (छा. ६.९.३) इत्यादिना / तस्मात्सिद्धमेतद्यावदात्मभावी बुद्ध्याद्युपाधिसंबन्ध इति
SK
यावदात्मभावित्वस्यासिद्धिं शङ्कते-नन्विति / सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसंपत्तिर्न स्यात् / प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः / स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह-पुंस्त्वेति / पुंस्त्वं रेतः / आदिपदेन श्मश्वादिग्रहः / अस्य बुद्धिसंबन्धस्येत्यर्थः / स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधे ऽभिव्यक्तिरित्यत्र श्रुतिमाह-दर्शयतीति /
SK
न विदुरित्यविद्यात्मकबीजसद्भावोक्तः / ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः
SK
END Bस्Cओम्_२,३.१३.३१
SK
START Bस्Cओम्_२,३.१३.३२
SK
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा | BBस्_२,३.३२ |
SK
तच्चात्मन उपाधिभूतमन्तःकरणं मनो बुद्धिर्विज्ञानं च्तितमिति चानेकधा तत्र तत्राभिलप्यते / क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति / तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् / अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् / आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां संनिधाने सति नित्यमेवोपलब्धिः प्रसज्येत / अथ सत्यपि हेतुसमवधाने फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत / नचैवं दृश्यते / अथवान्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धो ऽभ्युपगन्तव्यः / नचात्मनः शक्तिप्रतिबन्धः संभवति / अविक्रियत्वात् / नापीन्द्रियस्य / नहि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतो ऽकस्माच्छक्तिः प्रतिबध्येत / तस्माद्यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मनः / तथाच श्रुतिः - ऽअन्यत्रात्मना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्ऽ (बृ. १.५.३) इति, ऽमनसा ह्येव पश्यति मनसा शृणोतिऽ (बृ. १.५.३) इति / कामादयश्चास्य वृत्तय इति दर्शयति ऽकामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्हीर्भीरित्येतत्सर्वं मन एवऽ (बृ. १.५.३) इति / तस्माद्युक्तमेतत् / ऽतद्गुणसारत्वात्तद्व्यपदेशःऽ इति
SK
बुद्धिसद्भावे मानमाह सूत्रकारः-नित्येति / ऽमनसा ह्येव पश्यति, ऽबुद्धिश्च न विचेष्टति,ऽ
SK
ऽविज्ञानं यज्ञं तनुते,ऽ ऽचेतसा वेदितव्यः,ऽ ऽचित्तं च चेतयितव्यम्ऽइति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः / कथमेकस्यानेकधोक्तिः, तत्राह-क्वचिच्चेति / गर्ववृत्तिको ऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् / यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति-तच्चेत्यादिना / सूत्रं योजयति-अन्यथेति / पञ्चेन्द्रियाणां पञ्चविषयसंबन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनो ऽतिरिक्तसामग्र्याः सत्त्वात् / यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः / अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः / ननु सत्यपि कारग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे-अथवेति / सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनपिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः / अस्तु प्रतिबन्ध इत्यत आह-नचेति / न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् / प्रतिबन्धकाभावात् / नच दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् / नच व्यासङ्गः, प्रतिबन्धकमनो ऽसत्त्वे तस्यासंभवात् / तथाहि-रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनो ऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः / एतदभिप्रेत्योपसंहरति-तस्मादिति / अवधानं बुभुत्सा / न चानिच्छतो ऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम्, अनेकविषयसंनिधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् / तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् / इच्छादिधर्मिणेवात्मना व्यासङ्गोपपत्तेः / संप्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह-तथाचेति / न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह-कामादयश्चेति / बुद्धेः प्रामाणिक्तवोक्तिफलमाह-तस्मादिति
SK
END Bस्Cओम्_२,३.१३.३२
SK
START Bस्Cओम्_२,३.१४.३३
SK
१४ कर्त्राधिकरणम् / सू. ३३-४०
SK
कर्ता शास्त्रार्थवत्त्वात् | BBस्_२,३.३३ |
SK
तद्गुणसारत्वाधिकारेणैवापरो ऽपि जीवधर्मः प्रपञ्च्यते / कर्ता चायं जीवः स्यात् / कस्मात् / शास्त्रार्थत्वात् / एवञ्च ऽयजेतऽ ऽजुहुयात्ऽ ऽदद्यात्ऽ इत्येवंविधं विदिशास्त्रमर्थवद्भवति / अन्यथा तदनर्थकं स्यात् / तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति / नचासति कर्तृत्वे तदुपपद्येत / तथेदमपि शास्त्रमर्थवद्भवति एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः (प्र. ५.९) इति
SK
एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् / संप्रति ततो बहिष्ठं कर्तृत्वं साधयति-कर्ता शास्त्रार्थवत्त्वात् / स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति सांख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य सांख्यपक्षनिरासार्थमात्मनिकर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह-तद्गुणेति / अधिकारः प्रसङ्गः / वस्तुतो ऽसङ्गत्वम् / अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसंगतिः / श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् / यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलं, सिद्धान्ते कर्तृत्वादिसंबन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः / ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह-तद्धि कर्तुः सत इति /
SK
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः / किं च भोक्तुरात्मन एव कर्तृता वाच्या ऽशास्त्रफलं प्रयोक्तरिऽइति न्यायादिति भावः
SK
END Bस्Cओम्_२,३.१४.३३
SK
START Bस्Cओम्_२,३.१४.३४
SK
विहारोपदेशात् | BBस्_२,३.३४ |
SK
इतश्च जीवस्य कर्तृत्वं, यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति- ऽस ईयते ऽमृतो यत्र कामम्ऽ (बृ. ४.३.१२) इति, ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ. २.१.१८) इति च
SK
FN: संध्ये स्थाने स्वप्नावस्थानम् / ईयते गच्छति /
SK
संध्यं स्थानं स्वप्नः / अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात्, आत्मा कर्ता
SK
END Bस्Cओम्_२,३.१४.३४
SK
START Bस्Cओम्_२,३.१४.३५
SK
उपादानात् | BBस्_२,३.३५ |
SK
इतश्चास्य कर्तृत्वं, यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति- ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. २१.१.१७) इति, ऽप्राणान्गृहीत्वाऽ (बृ. २.१.१८) इति च
SK
FN: प्राणानामिन्द्र्याणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना /
SK
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः
SK
END Bस्Cओम्_२,३.१४.३५
SK
START Bस्Cओम्_२,३.१४.३६
SK
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः | BBस्_२,३.३६ |
SK
इतश्च जीवस्य कर्तृत्वं, यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम्- ऽविज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि चऽ (तै. २.५.१) इति /
SK
ननु विज्ञानच्छब्दो बुद्धौ समधिगतः / कथमनेन जीवस्य कर्तृत्वं सूच्यत इति /
SK
नेत्युच्यते / जीवस्यैवैष निर्देशो न बुद्धेः / न चेज्जीवस्य स्यान्निर्देशविपर्ययः स्यात् / विज्ञानेनेत्येवं निरदेक्ष्यात् / तथा ह्यन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. २.१.१७) इति / इह तु ऽ विज्ञानं यज्ञं तनुतेऽ (तै. २.५.१) इति कर्तृसमानाधिकरणनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः
SK
अत्राह- यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्स स्वतन्त्रः सन्प्रियं हितं चैवात्मनो नियमेन संपादयेन्न विपरीतम् / विपरीतमपि तु संपादयन्नुपलभ्यते / नच स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति /
SK
विज्ञानशब्दो जीवस्य निर्देशो न चेत् तदा प्रथमानिर्देशाद्विपर्ययः / करणद्योतितृतीयया निर्देशः स्यात् / तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः
SK
END Bस्Cओम्_२,३.१४.३६
SK
START Bस्Cओम्_२,३.१४.३७
SK
अत उत्तरं पठति-
SK
उपलब्धिवदनियमः | BBस्_२,३.३७ |
SK
यथायमात्मोपलब्धिं प्रति स्वतन्त्रो ऽप्यनियमेनेष्टमनिष्टं चोपलभत एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति / उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेत् /
SK
न / विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् / उपलब्धौ त्वनन्यापेक्षत्वमात्मनश्चैतन्ययोगात् / अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् / नच सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते / भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् / सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते
SK
सूत्रान्तरमवतारयति-अत्राहेति / जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, ऽस्वतन्त्रः कर्ताऽइति न्यायादित्यर्थः / सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति-यथेति / दृष्टान्तासंप्रतिपत्त्या शङ्कते-उपलब्धावपीति / चक्षुरादीनां चैतन्येन विषयसंबन्धार्थत्वात्स्वसंबन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह-नेति / नन्वात्मा विषयसंबन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह-अपिचेति /
SK
स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम्, ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् / किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रो ऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः
SK
END Bस्Cओम्_२,३.१४.३७
SK
START Bस्Cओम्_२,३.१४.३८
SK
शक्तिविपर्ययात् | BBस्_२,३.३८ |
SK
इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति / यदि पुर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात्ततः शक्तिविपर्ययः स्यात् / करणशक्तिर्बुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत / सत्यां च बुद्धेः कर्तृशक्तौ तस्या एवाहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् / अहङ्कारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् / अहं गच्छाम्यहमागच्छाम्यहं भुञ्जो ऽहं पिबामीति च / तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारी करणमन्यत्कल्पयितव्यम् / शक्तो ऽपि हि सन्कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इति / ततश्च संज्ञामात्रे विवादः स्यान्न वस्तुभेदः कश्चित् / करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात्
SK
जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम्-शक्तीति / बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः / ततः किं, तत्राह-सत्यां च बुद्धेरिति /
SK
यो ऽहन्धीगम्यः / स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीवकर्तृत्वसिद्धिरिति भावः
SK
END Bस्Cओम्_२,३.१४.३८
SK
START Bस्Cओम्_२,३.१४.३९
SK
समाध्यभावाच् च | BBस्_२,३.३९ |
SK
यो ऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु- ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसितव्य सो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (बृ. २.४.५), ऽआत्मेत्येवं ध्यायथ आत्मानम्ऽ (मुण्ड. २.२.६) इत्येवंलक्षणः, सो ऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत / तस्मादप्यस्य कर्तृत्वसिद्धिः
SK
ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह-समाधीति /
SK
मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम्, अन्यथात्मनो ऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः
SK
END Bस्Cओम्_२,३.१४.३९
SK
START Bस्Cओम्_२,३.१५.४०
SK
१५ तक्षाधिकरणम् // सू. ४०
SK
यथा च तक्षोभयथा | BBस्_२,३.४० |
SK
एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितं, तत्पुनः स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते / तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वमपवादहेत्वभावादिति /
SK
एवं प्राप्ते ब्रूमः / न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात् / कर्तृत्वस्वभावे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति, अग्नेरिवौष्ण्यात् / नच कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात् /
SK
ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति / तत्परिहारश्च निमित्तपरिहारात् / यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावात् /
SK
न / निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् /
SK
ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति /
SK
न / साधनायत्तस्यानित्यत्वात् / अपिच नित्यशुद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता / तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वे ऽवकल्पेत / तस्मादुपाधिधर्माध्यासेनैवात्मनः कर्तृत्वं न स्वाभाविकम् / तथाच श्रुतिः - ऽध्यायतीव लेलायतीवऽ (बृ. ४.३.७) इति / ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः(कण्ठ. ३.४) इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तेत्यादिविशेषलाभं दर्शयति / नहि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते / ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ४.३.२३) इत्यादिश्रवणात् / पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत, परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् /
SK
न / अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः / तथाच शास्त्रम्- ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ. २.४.१४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. २.४.१४) इति / तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति- ऽतद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् (बृ. ४.३.२१) इत्यारभ्य एषास्य परमा गतिरेषास्य परमा संपदेषो ऽस्य परमो लोक एषो ऽस्यपरम आनन्दः (बृ. ४.३.३२) इत्युपसंहारात् / तदेतदाहाचार्यः - यथा च तक्षोभयथा इति / त्वर्थे चायं चः पठितः / नैवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तृत्वमग्नेरिवौष्ण्यमिति / यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निवृत्तो निर्व्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो ऽकर्ता सुखी भवति संप्रसादावस्थायाम् / तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निवृत्तः सुखी भवति / तक्षदृष्टान्तश्चैतावतांऽशेन द्रष्टव्यः / तक्षा हि विशिष्ठेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति / स्वशरीरेण त्वकर्तैव / एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैवेति / नत्वात्मनस्थक्ष्ण इवावयवाः सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा / यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति / तन्न / विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मनः प्रतिपादयति / नच स्वाभाविकमस्य कर्तृत्वमिति ब्रह्मात्मत्वोपदेशादित्यवोचाम / तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते /
SK
कर्ता विज्ञानात्मा पुरुष इत्येवञ्जातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्यमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति / एतेन विहारोपादाने परिहृते / तयोरप्यनुवादरूपत्वात् /
SK
ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति / तथोपादाने ऽपि ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति /
SK
अत्रोच्यते- न तावत्संध्ये स्थाने ऽत्यन्तमात्मनः करणविरमणमस्ति / ऽसधीः स्वप्नो भूत्वेमं लोकमतिक्रामतिऽ (बृ.४.३.७) इति तत्रापि धीसंबन्धश्रवणात् / तथाच स्मरन्ति- ऽइन्द्रियाणामुपरमे मनो ऽनुपरतं यदि / सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्ऽ इति / ऽकामादयश्च मनसो वृत्तयःऽ इति श्रुतिः / ताश्च स्वप्ने दृश्यन्ते / तस्मात्समना एव स्वप्ने विहरति / विहारो ऽपि च तत्रत्यो वासनामय एव नतु पारमार्थिको ऽस्ति / तथाच श्रुतिरिवाकारानुबद्धमेव स्वप्नव्यापारं वर्णयति- ऽउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्ऽ (बृ. ४.३.१३) इति / लौकिका अपि तथैव स्वप्नं कथयन्ति- आरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति / तथोपादाने ऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् / केवले कर्तृत्वासंभवस्य दर्शितत्वात् / भवति च लोके ऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति / अपिचास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् / यस्त्वयं व्यपदेशो दर्शितः ऽविज्ञानं यज्ञं तनुतेऽ इति, स बुद्धेरेव कर्तृत्वं प्रापयति / विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् / मनोनन्तरं पाठाच्च / ऽतस्य श्रद्धैव शिरःऽ (तै. २.४) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् / श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः / ऽविज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासतेऽ (तै. २.५.१) इति च वाक्यशेषात् / ज्येष्ठत्वस्य च प्रथमजत्वमस्य बुद्धौ प्रसिद्धत्वात् / ऽस एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःऽ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारमात् / नच बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति / सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् / उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं, सा चात्मनः / नच तस्यामप्यस्य कर्तृत्वमस्ति / नित्योलब्धिस्वरूपत्वात् / अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति / अहङ्कारस्याप्युपलभ्यमानत्वात् / नचैवं सति करणान्तरकल्पनाप्रसङ्गः / बुद्धेः करणत्वाभ्युपगमात् / समाध्यभावस्तु शास्त्रार्थत्त्वेनैव परिहृतः / यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् / तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम्
SK
FN: शोकान्तरं दुःखास्पृष्टम् / गतिः प्राप्यं, लोको भोग्यं सुखम् / अन्यैरप्रेर्यत्वं स्वस्थत्वम्, मानसप्रयत्नराहित्यं निर्वृतत्वम्, कायचेष्टाशून्यत्वं निर्व्यापारत्वम् / संप्रसादः सुषुप्तिः / जक्षत् भुञ्जानैव /
SK
यथा च तक्षोभयथा / उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह-एवं तावदित्यादिना / सांख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात् तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः / न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति-न स्वाभाविकमिति / यदुक्तं बाधकाभावादिति तदसिद्धमित्याह-अनिर्मोक्षेति / ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते-ननु स्थितायामिति / सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह-तत्परिहारश्चेति / मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात्, शक्याभावे शक्त्ययोगात् / अस्ति हि प्रलये ऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यं, तथाच शक्त्या धर्मादिनिमित्तेः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति-न निमित्तानामपीति / सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या संबन्धान्नमित्तानामपि परम्परया शक्तिसंबन्धित्वमुक्तं मन्तव्यम् / संबन्धेन संबन्धिनेत्यर्थः / यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः संबन्धस्तेनेति व्यधिकरणे तृतीये / ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते-नन्विति / ज्ञानादकर्तृत्वाख्यमोक्षत्कर्तृत्वमाविद्यकं स्वाद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् / यदि कर्मणा मोक्षः. तत्राह-नेति / आत्मनः स्वाभाविकं कर्तृत्वमभयुपगम्यानिर्मोक्ष उक्तः / संप्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह-अपिचेति / नचाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तं, न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनो ऽध्यासत्वेनाप्युपपत्तेरित्यर्थः / कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह-तथाचेति / विद्वदनुभवबाधितं च कर्तृत्वमित्याह-नहीति / बुद्ध्यादिसंघाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टं, परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते-पर एवेति / न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिविम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः / कल्पितभेदो ऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति-नाविद्येति / अविद्योपहितो बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह-तथाचेति / कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह-तथा स्वप्नेति / आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामं, आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह-शोकेति / शोकान्तरं दुःखास्पृष्टमित्यर्थः / तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह-एष इति //
SK
गतिः प्राप्यं, संपदैश्वर्यं लोको बोग्यं सुखं, चैतस्मादन्यत्रास्तीत्यर्थः / आत्मा स्वतो ऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः / तत्रार्थे सूत्रं योजयति-तदेतदाहेत्यादिना / संप्रसादः सुषुप्तिः / यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् / नच तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तं, करणत्वात् कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताब्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसंमतिश्चेति भावः / ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह-तक्षदृष्टान्तश्चेति /
SK
शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह-नच स्वाभाविकमिति / उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते-ननु संध्य इति / किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् / न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह-तथेति / स्वप्नविहारे तावदुपाध्यभावो ऽसिद्ध इत्याह-न तावत्संध्य इति / विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह-विहारो ऽपीति / जक्षत् भुञ्जान इव / कणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात्, न करणविभक्तिरित्युक्तं प्रत्याह-भवति च लोक इति / कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् / अस्ति च कर्तृत्वप्रयोगः, ऽविज्ञानं यज्ञं तनुतेऽइत्यादाविति भावः / उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् / इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह-अपिचेति / पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, संप्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते / तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह-यस्त्विति / ऽयो ऽयं विज्ञानमयःऽइत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः / तत्रैव लिङ्गान्तरमाह-विज्ञानं देवा इति / ऽमहद्यक्षं प्रथमजम्ऽइत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः / यक्षं पूज्यम् / किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह-स एष इति / चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः / यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति / तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह-नचेति / तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह-उपलब्धीति / यथा काष्ठानां स्वव्यापारे कर्तृत्वे ऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसंकल्पादिक्रियाकर्तृत्वे ऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः / ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह-सा चेति / तर्हि तस्यामात्मा केवलः कर्ता स्यात्, यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह-नचेति / उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते-अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथाच विषयावच्छिन्नचैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, नच बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः / यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयं, तथाच नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति-अहङ्कारेति / सांख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् / एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः / अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः / एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वे ऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् / तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,३.१५.४०
SK
START Bस्Cओम्_२,३.१६.४१
SK
१६ परायत्ताधिकरणम् / सू. ४१-४२
SK
परात् तु तच्छ्रुतेः | BBस्_२,३.४१ |
SK
यदिदमविद्यावस्थायामुपादिनिबन्धनं कर्तृत्वं जीवस्याभिहितं, तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा / तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति / कस्मात् / अपेक्षाप्रयोजनाभावात् / अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसमपन्नः कर्तृत्वमनुभवितुं शक्नोति / तस्य किमीश्वरः करिष्यति / नच लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिवदीश्वरो ऽपरो ऽपेक्षितव्य इति / क्लेषात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलं चैषां कर्तृत्वं विदधतो वैषम्यम् /
SK
ननु ऽवैषम्यनैर्घृण्ये न सापेक्षत्वात्ऽ (ब्र. १.४.१७) इत्युक्तम् /
SK
सत्यमुक्तम् सति त्वीश्वरस्य सापेक्षत्वसंभवे / सापेक्षत्वं चेश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोस्तयोश्च सद्भावः सति जीवस्य कर्तृत्वे / तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्किंविषयमीश्वरस्य सापेक्षत्वमुच्येत / अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत / तस्मात्स्वत एवास्य कर्तृत्वमिति / एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते- ऽपरात्ऽ इति / अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः, तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति / कुतः / तच्छ्रुतेः / यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते / तथाहि श्रुतिर्भवति- ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीयते / एष ह्येवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौषी. ३.८) इति / ऽय आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयका
SK
परात्तु तच्छ्रुतेः / यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात्, तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् / तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसंपन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह-यदिदमिति / अत्र ऽएष ह्येवऽइत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसंगतिः / कर्ममीमांसकमतेन पूर्वपक्षयति-तत्रेत्यादिना / बुद्ध्यादिकारकसंपत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः / किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह-क्लेशात्मकेन चेति / दत्तोत्तरमिदं चोद्यमिति शङ्कते-नन्विति / पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं संप्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न संभवतीत्युच्यत इत्याह-सत्यमिति / अस्तु कर्मानपेक्षस्य प्रवर्तकत्वं, तत्राह-अकृतेति / अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत्, कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरुति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् / तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यं, तथाच कारयितृत्वश्रुतिविरोधः / ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति-एतामिति /
SK
यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरिके सुखव्यतिरेकग्रहाभावे ऽपि ऽपुण्यो वै पुण्येन कर्मणा भवतिऽइत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः
SK
END Bस्Cओम्_२,३.१६.४१
SK
START Bस्Cओम्_२,३.१६.४२
SK
नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घण्ये स्यातामकृताभ्यागमश्च जीवस्येति / नेत्युच्यते-
SK
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः | BBस्_२,३.४२ |
SK
तुशब्दश्चोदितदोषव्यावर्तनार्थः / कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति / ततश्चैते चोदिता दोषा न प्रसज्यन्ते / जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवदीश्वरो निमित्तत्वमात्रेण / यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां चासाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः / नह्यसति पर्जन्ये रसपष्पपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु, एवं जीवकृतप्रयत्नापेक्ष ईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते /
SK
ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते /
SK
नैष दोषः / परायत्ते ऽपि हि कर्तृत्वे करोत्येव जीवः / कुर्वन्तं हि तमीश्वरः कारयति / अपिच पूर्वप्रयत्नमपेक्ष्येदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात्संसारस्येत्यनवद्यम् / कथं पुनरवगम्यते कृतप्रत्नापेक्ष ईश्वर इति / विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह / एवं हि ऽस्वर्गकामो यजेतऽ ऽब्राह्मणो न हन्तव्यःऽ, इत्येवञ्जातीयकस्य विहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति / अन्यथा तदनर्थकं स्यात् / ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत / अत्यन्तपरतन्त्रत्वाज्जीवस्य / तथा विहितकारिणमप्यनर्थेन संसृजेत्प्रतिषिद्धकारिणमप्यर्थेन / ततश्च प्रामाण्यं वेदस्यास्तमियात् / ईश्वरस्य चात्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषप्रसङ्गश्चेत्येवञ्जातीयकं दोषजातमादिग्रहणेन दर्शयति
SK
धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् / यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह-पर्जन्यवदिति / दृष्टान्तं विवृणोति-यथेति / अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः / किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा / नाद्य इत्याह-नैष दोष इति / अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः / चक्रकं निरस्यति-अपिचेति / अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः / ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति-कथमित्यादिना / एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति-ईश्वर इति / तयोः स्थाने स एव नियुज्येत अभिषिच्येत / तयोः कार्यं स एव कुर्यादिति यावत् / तथाच जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति संबन्धः / पुरुषकारः प्रयत्नः / आदिशब्दार्थमाह-तथेति /
SK
पूर्वोक्तदेषो ऽकृताभ्यागमादिः / तस्मात् कर्मसापेक्षेश्वरस्य कारयितृत्वात् ऽएष ह्येवऽइत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,३.१६.४२
SK
START Bस्Cओम्_२,३.१७.४३
SK
१७ अंशाधिकरणम् / सू. ४३-५३
SK
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके | BBस्_२,३.४३ |
SK
जीवेश्वरयोरुपकार्योपकारभाव उक्तः / स च संबद्धयोरेव लोके दृष्टो यथा स्वामिभृत्ययोर्यथा वाग्निविस्फुलिङ्गयोः / ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात्किं स्वामिभृत्यवत्संबन्ध आहोस्विदग्निविस्फुलिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति / अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति / अतो ब्रवीत्यंश इति / जीव ईश्वस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः / अंश इवांशो नहि निरवयवस्य मुख्य्ॐऽशः संभवति / कस्मात्पुनर्निरवयवत्वात्स एव न भवति / नानाव्यपदेशात् / ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. ८.७.१) ऽएतमेव विदित्वा मुनिर्भवतिऽ ऽ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयको भेदनिर्देशो नासति भेदे युज्यते /
SK
ननु चायं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इत्यत आह- अन्यथा चापीति / नच नानाव्यपदेशादेव केवलादंशत्वप्रतिप्तिः / किं तर्ह्यन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः / तथाहि- एके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते- ऽब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाःऽ इत्यादिना / दाशा य एते कैवर्ताः प्रसिद्धाः, ये चामी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये चान्ये कितवा द्यूतकृतस्ते सर्वे ब्रह्मैवेति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह / तथान्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते- ऽत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी / त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे. ४.३) इति / ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ इति च / ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृच ३.७.२३) इत्यादिश्रुतिभ्यश्चास्यार्थस्य सिद्धिः / चैतन्यं चाविशिष्टं जीवेश्वरयोर्यथाग्निविस्फुलिङ्गयोरौष्ण्यम् / अतो भेदाभेदावगमाभ्यामंशत्वावगमः
SK
अंश-एके / नित्यः स्वप्रकाशो ऽनणुरकर्ता जीवऽइति शोधितत्वंपदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसंगतिः / पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः / पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः संबन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह-ततश्चेति / प्रसिद्धस्वस्वामित्वसंबन्धसंभवाद्यः कश्चित् संबन्ध इत्यनियमो न युक्त इत्यरुचेराह-अथवेति / अनेन ऽय आत्मनि तिष्ठन्ऽइत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता / एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथाच भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति संबन्धानिश्चयात्संबन्धापेक्षस्य पूर्वोक्तोपकार्यापकारकभावस्यासिद्धिरित्याक्षेपात्संगतिः / लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धन्ॐऽशांशिभावः संबन्ध इति सिद्धान्तयति-अत इत्यादिना / अग्नेः सांशत्वे ऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह-अंश इवेति / जीव इत्यनुषङ्गः / भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते-ननु चेति / अभेदस्यापि सत्त्वादंशांशिभाव इत्याह-अत इति / वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः / श्रुतिसिद्धाभेदे युक्तिमाह-चैतन्यं चेति /
SK
जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः
SK
END Bस्Cओम्_२,३.१७.४३
SK
START Bस्Cओम्_२,३.१७.४४
SK
कुतश्चांशत्वावगमः -
SK
मन्त्रवर्णाच् च | BBस्_२,३.४४ |
SK
मन्त्रवर्णश्चैतमर्थमवगमयति ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः / पादो ऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इति / अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति / ऽअहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यःऽ इति प्रयोगात् / अंशः पादो भाग इत्यनर्थान्तरम् / तस्मादप्यंशत्वावगमः
SK
अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात्प्रपञ्चात् ज्यायान्महत्तरः / भूतानि देहिनो जीवा इत्यत्र नियामकमाह-अहिंसन्निति / तीर्थानि शास्त्रोक्तकर्माणि, तेभ्यो ऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः / अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रे ऽपि तथेति भावः / भूतानां पादत्वे ऽप्यंशत्वं कुतः, तत्राह-अंशः पाद इति
SK
END Bस्Cओम्_२,३.१७.४४
SK
START Bस्Cओम्_२,३.१७.४५
SK
कुतश्चांशत्वावगमः -
SK
अपि च स्मर्यते | BBस्_२,३.४५ |
SK
ईश्वरगीतास्वपि चेश्वरंशत्वं जीवस्य स्मर्यते- ऽममैवांशो जीवलोके जीवभूतः सनातनःऽ (१५.७) इति / तस्मादप्यंशत्वावगमः / यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति / यद्यप्येषा लोके प्रसिद्धस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते / निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान्प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते
SK
अत्राह- ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् / यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेनाङ्गिनो देवदत्तस्य दुःखित्वं तद्वत् / ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् / अतो वरं पूर्वावस्थः संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यादिति /
SK
जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः-अपिचेति / अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह-यत्त्वित्यादिना / औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह-निरतिशयेति /
SK
नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः / तदुक्तं सुरेश्वराचार्यैः-ऽईशेशितव्यसंबन्धः प्रत्यगज्ञानहेतुजः / सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः //
SK
ऽइति
SK
END Bस्Cओम्_२,३.१७.४५
SK
START Bस्Cओम्_२,३.१७.४६
SK
अत्रोच्यते-
SK
प्रकाशादिवन् नैवं परः | BBस्_२,३.४६ |
SK
यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरो ऽनुभवतीति प्रतिजानीमहे / जीवो ह्यविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःख्यहमित्यविद्यया कृतं दुःखोपभोगमभिमन्यते / नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वास्ति / जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानो नतु पारमार्थिको ऽस्ति / यथाच स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रो ऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः / ततश्च निश्चितमेतदवगम्यते- मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति / व्यतिरेकदर्शनाच्चैवमवगम्यते / तथाहि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाद्युद्घोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् / अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टं, किमुत विषयशून्यादात्मनो ऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति / तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः / प्रकाशादिवदिति निदर्शनोपन्यासः / यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यवतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानो ऽपि न परमार्थतस्तद्भावं प्रतिपद्यते / यथा चाकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानो ऽपि न परमार्थतो गच्छति, यथा चोदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमाने ऽपि न तद्वान्सूर्यः कम्पते, एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्येंऽशे दुःखायमाने ऽपि न तद्वानीश्वरो दुःखायते / जीवस्यापि तु दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम् / तथाचाविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः ऽतत्त्वमसिऽ इत्येवमादयः, तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः
SK
FN: इतरेष्वभिमानशून्येषु /
SK
उत्तरसूत्रमवतारयति-अत्राहेति / ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात्, देवदत्तवदित्यर्थः / ततः किं, तत्राह-ततश्चेति / ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः / नैवंपर इति प्रतिज्ञानं विभजते-यथा जीव इति / देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः / उक्तं चैतदभेदे ऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः / दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति-जीवस्यापीत्यादिना / भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह-व्यतिरेकेति / इतरेष्वभिमानशून्येष्वित्यर्थः / जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह-अतश्चेति / एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा य्ॐऽशी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति-प्रकाशादिवदिति / वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह-जीवस्येति / कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् / किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह-तथाचेति /
SK
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः
SK
END Bस्Cओम्_२,३.१७.४६
SK
START Bस्Cओम्_२,३.१७.४७
SK
स्मरन्ति च | BBस्_२,३.४७ |
SK
स्मरन्ति च व्यासादयो यथा जैवेन दुःखेन न परमात्मा दुःखायत इति / ऽतत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः / न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा / कर्मात्मा त्वपरो यो ऽसौ मोक्षबन्धनैः स युज्यते / स सप्तदशकेनापि राशिना युज्यते पुनःऽ इति / चशब्दात्समामनन्ति चेति वाक्यशेषः / ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (श्वे. ४.६) इति / ऽएकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यःऽ (कठ. ५.११) इति च
SK
अत्राह- यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात्कथमनुज्ञापरिहारौ स्यातां लोकिकौ वैदिकौ चेति /
SK
ननु चांशो जीव ईश्वरस्येत्युक्तम् / तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति /
SK
उच्यते- नैतदेवम् / अनंशित्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति- ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (ते. २.६.१), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ३.७.२३), ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. ४.४.१९), ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१०) इत्येवञ्जातीयकाः /
SK
ननु भेदाभेदावगमाभ्यामंशत्वं सिद्ध्यतीत्युक्तम् / स्यादेतदेवं यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्, अभेद एव त्वत्र प्रतिपिपादयिषितो ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः / स्वभावप्राप्तस्तु भेदो ऽनूद्यते / नच निरवयवस्य ब्रह्मणो मुख्य्ॐऽशो जीवः संभवतीत्युक्तम् / तस्मात्परः एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्यानुज्ञापरिहारोपपत्तिः
SK
FN: तत्र जीवपरयोर्मध्ये / कर्मात्मा कर्माश्रयो जीवः / सप्तदशकेन दशेन्द्रयाणि पञ्च प्राणः मनो बुद्दिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् / मृत्योः स मृत्यु - इह ब्रह्मणि यो नानेव कल्पितभेदशालि चेतनाचेतनात्मकं विश्वं पश्यति स मृत्योरनन्तरं मृत्युं जन्ममरणादिपरम्परारूपं संसारं प्राप्नोतीत्यर्थः /
SK
स्मृत्याप्यनुमानं बाध्यमित्याह-स्मरन्ति चेति / सूत्रं व्याचष्टे-स्मारन्तीति / तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः / दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् / सूत्रे चशब्दः / श्रुतिसमुच्चयार्थ इत्याह-चशब्दादिति / यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः / यतो बाह्यो ऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति-अत्राहेत्यादिना / कथं तर्हि इत्यन्वयः / तद्भेदादंशभेदात् / निरवयवब्रह्मणो मुख्यांशो न संभवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः / न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः / तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्ति रिति सूत्रेण समाधत्ते-तामित्यादिना
SK
END Bस्Cओम्_२,३.१७.४७
SK
START Bस्Cओम्_२,३.१७.४८
SK
तां ब्रूमः -
SK
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् | BBस्_२,३.४८ |
SK
ऽऋतौ भार्यामुपेयात्ऽ इत्यनुज्ञा / ऽऽगुर्वाङ्गनां नोपगच्छेत्ऽ इति परिहारः / तथा ऽअग्नीषोमीयं पशुं संज्ञपयेत्ऽ इत्यनुज्ञा / ऽन हिंस्यात्सर्वाभूतानिऽ इति परिहारः / एवं लोके ऽपि मित्रमुपसेवितव्यमित्यनुज्ञा / शत्रुः परिहर्तव्य इति परिहारः / एवंप्रकारावनुज्ञापरिहारावेकत्वे ऽप्यात्मनो देहसंबन्धात्स्याताम् / देहैः संबन्धो देहसंबन्धः / कः पुनर्देहसंबन्धः / देहादिरयं संघातो ऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः / दृष्टा च सा सर्वप्राणिनामहं गच्छाम्यहमागच्छाम्यहमन्धो ऽहमनन्धो ऽहं मूढो ऽहममूढ इत्येवमात्मिका / नह्यस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति /
SK
प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु / तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे ऽप्यनुज्ञापरिहाराववकल्प्येते / सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् /
SK
न / तस्यकृतार्थत्वान्नियोज्यत्वानुपपत्तेः / हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् /
SK
आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन्कथं नियुज्येत /
SK
नचात्मात्मन्येव नियोज्यः स्यात् / शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् /
SK
न / तत्संहतत्वाभिमानात् / सत्यं व्यतिरेकदर्शिनो नियोज्यत्वं तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एवात्मनो नियोज्यत्वाभिमानः / नहि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः / किमुतैकात्म्यदर्शिनः / नच नियोगाभावात्सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः / सर्वत्राभिमानस्यैव प्रवर्तकत्वादिभिमानाभावाच्च सम्यग्दर्शिनः / तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ / ज्योतिरादिवत् / यथा ज्योतिष एकत्वे ऽप्यग्निः क्रव्यात्परिह्रियते नेतरः / यथाच प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्रियते नेतरः शुचिभूमिष्ठः / यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते / भौमा अपि सन्तो नरकलेवरादयः परिह्रियन्ते / यथा मूत्रपरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत्
SK
FN: प्रतता संतता / विशेषो भेदः / क्रव्यं मांसमत्तीति क्रव्यात् स्माशानाग्निः /
SK
ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह-न ह्यस्या इत्यादिना / प्रतता संतता, विशेषो भेदः / अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह-न तस्येति / नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः / नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः / तथाच ब्रह्मविन्नियोज्यः, विवेकित्वात्, कर्माधिकारिवदिति शङ्कते-शरीरव्यतिरेकेति / परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मि णो देहाभेदभ्रमो ऽस्ति, तथाच भ्रम उपाधिरिति परिहरति-नेत्यादिना / यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः / ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात्, सुषुप्तवदित्याह-नहीति / देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् / अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः / अनियोज्यत्वे बाधकमाशङ्क्य परिहरति-नचेति / विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः / तदुक्तं भगवता ऽरसो ऽप्यस्य परं दृष्ट्वा निवर्ततेऽइति / एवमनुज्ञादिप्रसङ्गेनानियोज्यं, विदुष उक्त्वा प्रकृतिमुपसंहरति-तस्मादिति / एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह-ज्योतिरिति /
SK
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः
SK
END Bस्Cओम्_२,३.१७.४८
SK
START Bस्Cओम्_२,३.१७.४९
SK
असन्ततेश् चाव्यतिकरः | BBस्_२,३.४९ |
SK
स्यातां नामानुज्ञापरिहरावेकस्याप्यत्मनो देहविशेषयोगात् / यत्स्वयं कर्मफलसंबन्धः स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् /
SK
नैतदेवम् / असंततेः / नहि कर्तृभोक्तृश्चात्मनः संततः सर्वैः शरीरैः संबन्धो ऽस्ति / उपाधितन्त्रो हि जीव इत्युक्तम् /
SK
उपाध्यसंतानाच्च नास्ति जीवसंतानः / ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति
SK
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे-स्यातामित्यादिना / यद्यपि स्थूलदेहसंबन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः सांकर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् / तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः / भवेत्तदा सांकर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् / न त्वेतदस्ति / ऽतद्गुणसारत्वात्ऽइत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात्, तथाच बुद्धेः परदेहासंबन्धात्तदुपहितजीवस्य नास्ति परदेहसंबन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसांकर्यमिति समाधानार्थः
SK
END Bस्Cओम्_२,३.१७.४९
SK
START Bस्Cओम्_२,३.१७.५०
SK
आभास एव च | BBस्_२,३.५० |
SK
आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः / न स एव साक्षात् / नापि वस्त्वन्तरम् / अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः / एवमप्यव्यतिकर एव कर्मफलयोः / आभासस्य चाविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति / तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः / येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति / कथम् / बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः / सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतो ऽचेतना आत्मनस्तदुपकरणानि चाणूनि मनांस्यचेतनानि / तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते / ते चाव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः / तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः / तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति / स्यादेतत् / प्रधानप्रवृत्तेः परुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति / अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् / तथाचानिर्मोक्षः प्रसज्येतेति / नैतत्सारम् / नह्यभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् / उपपत्त्या तु कयाचिद्व्यवस्थोच्येत / असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यं, प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः / काणादानामपि यदैकेनात्मना मनः संयुज्यते तदात्मान्तरैरपि नान्तरीयकः संयोगः स्यात्संनिधानाद्यविशेषात् / ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत
SK
अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेतबुद्ध्योक्तं, संप्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् ऽरूपं रूपं प्रतिरूपो बभूवऽइत्यादिश्रुतिसिद्धंप्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः-आभास एव चेति / परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् / नापि ततो भिन्नः, ऽस एष इह प्रविष्टःऽइत्याद्यभेदश्रुतिस्मृतिविरोधात् / तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः / अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह-अतश्चेत्यादिना / यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः / यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् / अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते / एवं स्वमते स्वरूपैक्ये ऽप्युपहितजीवभेदादसांकर्यमुक्तं, संप्रति सूत्रे चकारसूचितं परेषां, सांकर्यं वक्तुमुपक्रमते-येषमित्यादिना / बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधम्रभावना नवात्मविशेषगुणाः, संनिधानादीत्यादिपदादौदासीन्यमुक्तम् / सांख्यः स्वाभिप्रायं शङ्कते-स्यादेतदिति / सर्वेषां पुंसां प्रकृतिसांनिध्याद्यविशेषे ऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः / जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह-नैतदिति / यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः / तार्किकमते ऽपि भोगादिसांकर्यमित्याह-काणादानामिति / हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते-स्यादेतदिति / सूत्रेण परिहरति-नेत्याहेति
SK
END Bस्Cओम्_२,३.१७.५०
SK
START Bस्Cओम्_२,३.१७.५१
SK
स्यादेतत् / अदृष्टनिमित्तो नियमो भविष्यतीति / नेत्याह-
SK
अदृष्टानियमात् | BBस्_२,३.५१ |
SK
बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्मलक्षणमदृष्टमुपर्ज्यते / सांख्यानां तावत्तदनात्मसमवायि प्रधानवर्ति प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते / काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः
SK
स्यादेतत् / अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयता इत्थं करवाणीत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति / नेत्याह-
SK
पूर्ववत्मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः / रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति-स्यादेतदित्यादिना
SK
END Bस्Cओम्_२,३.१७.५१
SK
START Bस्Cओम्_२,३.१७.५२
SK
अभिसन्ध्यादिष्व् अपि चैवम् | BBस्_२,३.५२ |
SK
अभिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव
SK
अनियम उक्तदोषः / आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः
SK
END Bस्Cओम्_२,३.१७.५२
SK
START Bस्Cओम्_२,३.१७.५३
SK
प्रदेशाद् इति चेन् नान्तर्भावात् | BBस्_२,३.५३ |
SK
अथोच्येत विभुत्वे ऽप्यत्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एवात्मप्रदेशे भविष्यतीति अतः प्रदेशकृता व्यवस्थाभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति / तदपि नोपपद्यते / कस्मात् / अन्तर्भावात् / विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति / तत्र न वैशेषिकैः शरीरावच्छिन्नो ऽप्यात्मानः प्रदेशः कल्पयितुं शक्यः / कल्प्यमानो ऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति / शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् / प्रदेशविशेषाभ्युपगमे ऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् / समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् / तथाहि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समानः सुखदुःखानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमनिष्टं न स्यात् / स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् / ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वार्गाद्युपभोगस्य / सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां, दृष्टान्ताभावात् / वद तावत्त्वं के बहवः समानप्रदेशाश्चेति / रूपादय इति चेत् / न / तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च / नतु बहूनामात्मनां लक्षणभेदो ऽस्ति / अन्त्यविशेषवशाद्भेदोपपत्तिरितिचेत् /
SK
न / भेदकल्पनाय अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् / आकाशादीनामपि विभुत्वं ब्रह्मवादिनो ऽसिद्धं कार्यत्वाभ्युपगमात्, तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्
SK
किं मनसा संयुक्तात्मैवात्मनः प्रदेशः / उत कल्पितः / आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था / द्वितीयं दूषयति-तत्र न वैशेषिकैरिति / सर्वात्मसांनिध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः / नियामकभावादित्यर्थः / प्रदेशकल्पनामङ्गीकृत्याप्याह-कल्प्येति / कार्यमभिसंध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह-शरीरमपीति / प्रदेशपक्षे दोषान्तरमाह-प्रदेशेति / यस्मिन्नात्मप्रदेशे ऽदृष्टोत्पत्तिः स किं चलः स्थितो वा / नाद्यः, अचलेंऽशिन्यंशस्य चलनविभागयोरसंभवादण्वात्मवादापाताच्च / द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः / यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसांकर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च / किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः / यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति / तन्न / भोगशरीरद्दूरस्थादृष्टे मानाभावादिति भावः / यदपि केचिदाहुः-मनस एकत्वे ऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसांकर्यमिति / तन्न / संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः / तथाच सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् / किञ्च बहूनां विभुत्वमङ्गीकृत्य सांकर्यमुक्तं, संप्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह-सर्वगतत्वानुपपत्तिश्चेति / किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यं, तच्चायुक्तमदृष्टत्वादित्याह-वदेति / ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत्, नायमस्मत्संमतो दृष्टान्तः / रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् / किञ्चात्मनां बहुत्वमप्यसिद्धं,
SK
आत्मत्वरूपलक्षणस्याभेदात्, तथाच देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात्, यज्ञदत्तात्मवत् / अत्र वैशेषिकः शङ्कते-अन्त्यविशेषेति / नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते / तथाच विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः / न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः / नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः / नच विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः / यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सो ऽप्यसंमत इत्याह-आकाशादीनामिति / विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः / यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदे ऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति-तस्मादिति /
SK
एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम्
SK
END Bस्Cओम्_२,३.१७.५३
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीयः पादः समाप्तः
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः
SK
इति द्वितीयाध्यायस्य पञ्चमहाभूत-जीवश्रुतीनां विरोधपरिहाराख्यस्तृतीयः पादः //
SK
द्वितीयाध्याये चतुर्थः पादः /
SK
अत्र पादे लिङ्गशरीरश्रुतीनां विरोधपरिहारः
SK
द्वितीयाध्याये चतुर्थः पादः /
SK
START Bस्Cओम्_२,४.१.१
SK
१ प्राणोत्पत्त्यधिकरणम् / सू. १-४
SK
तथा प्राणाः | BBस्_२,४.१ |
SK
वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतः / चतुर्थेनेदानीं प्राणविषयः परिह्रियते / ऽतत्र तावत् तत्तेजो ऽसृजतऽ (छान्दो. ६.२.३) इति, ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तैत्ति. २.१.१) इति चैवमादिषूत्पत्तिप्रकरणेषु प्राणानामुत्पजिर्नाम्नायते क्वचिच्चानुत्पत्तिरेवैषामाम्नायते ऽअसद्वा इदमग्र आसीत्ऽ (तै. २.७) ऽतदाहुः किं तदसदासीदित्यृषयो वाव ते ऽग्रे ऽसदासीत् / तदाहुः के ते ऋषय इति / प्राणा वाव ऋषयःऽ इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् / अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते- ऽयथाग्नेर्ज्वलतः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ इति, ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. २.१.३) इति, ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मु. २.१.८) इति, ऽस प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो ऽन्नम्ऽ (प्र. ६.४) इति चैवमादिप्रदेशेषु / तत्र तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्चाप्रतिपत्तिः प्राप्नोति / अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिरिति प्राप्नोति / अत उत्तरमिदं पठति- ऽतथा प्राणाःऽ इति / कथं पुनरत्र तथेत्यक्षरानुलोम्यं प्रकृतोपमानाभावात् / सर्वगतात्मबहुत्ववादिदूषणमतीतानन्तरपादान्ते प्रकृतं तत्तावन्नोपमानं संभवति सादृश्याभावात् / सादृश्ये हि सत्युपमानं स्यात् / यथा सिंहस्तथा बलवर्मोति / अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत, यथादृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वमेवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति / तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् / नच जीवेन प्राणा उपमीयेरन्सिद्धान्तविरोधात् / जीवस्य ह्यनुत्पत्तिराख्याता / प्राणानां तूत्पत्तिर्व्याचिख्यासिता / तस्मात्तथेत्यसंबद्धमिव प्रतिभाति /
SK
न / उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः / अत्र प्राणोत्पत्तिवादिवाक्यजातमुजदाहरणम्- ऽएतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्तिऽ (बृ. २.१.२०) इत्येवञ्जातीयकम् / तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते तथा प्राणा अपीत्यर्थः / तथा- ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुण्ड. २.१.३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् / अथवा ऽपानव्यापच्च तद्वत्ऽ (जै.अ. ३.४.१५) इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् / यथातीतानन्तरपादाद्युक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगतास्तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् / कः पुनः प्राणानां विकारत्वे हेतुः / श्रुतत्वमेव /
SK
ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तं तदयुक्तम् / प्रदेशान्तरेषु श्रवणात् / नहि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते / तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम्
SK
FN: प्राणविषयः प्राणोत्पत्तिसंख्यातत्त्वादिविषयः / आनुलोम्यमाञ्जस्यम् / यथा तृतीयाध्यये चतुर्थपादेष्वप्रतिग्रहेष्वधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितो ऽपि सोमवमने परामृश्यते तद्वदत्रापि ज्ञेयम् /
SK
पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति-तथा प्राणाः / भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः संगतिमाह-वियदादीति / तमेव विप्रतिषेधमाह-तत्रेत्यादिना / यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् / अत्र प्राणा विषयाः / ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलं, तत्र गौणवादी समाधानमाह-अथवेति / प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः / अप्रमाणपक्षवद्गौणपक्षो ऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् / मुख्यसिद्धान्त्याह-अत इति / तथाशब्दमाक्षिपति-कथमिति / आनुलोम्यमाञ्जस्यमित्यर्थः / साम्यं स्फुटयति-यथादृष्टस्येति / दूषणवत्प्राणा इत्यनन्वितम् / यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् / जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः / समाधत्ते-न / उदाहरणेति / दृष्टान्तो दार्ष्टान्तिकसंनिहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सांनिध्यमुक्तम् / संप्रति नायं नियमः / जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह-अथवेति / अस्ति तृतीयाध्याये ऽश्वप्रतिग्रहेष्ट्यधिकरणं, तस्येदं विषयवाक्यं, ऽयावतो ऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्ऽइत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये ऽप्रतिगृह्णीयात्ऽइति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य ऽप्रजापतिर्वरुणायाश्वमनयत्ऽइत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् / ऽयो ऽश्वदाता स वारुणीमिष्टिं कुर्यात्ऽइति वाक्यार्थे स्थिते चिन्ता-अश्वदाननिमित्तेयमिष्टिः किं लौकिके ऽश्वदाने वैदिके वेति / तत्र ऽन केसरिणो ददातिऽ, इति निषिद्धलौकिकाश्वदाने दोषसंभवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः-ऽअत्र हि वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातिऽइति दातुर्देषं संकीर्त्येष्टिर्विहिता / वरुणशब्दो जलोदराख्यरोगे रूढः / नच लौकिके ऽश्वदाने ऽयं रोगो भवति इति प्रसिद्धम् / नचानेनैव वाक्येन प्रसिद्धिः / दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोर्ऽथभेदे वाक्यभेदात् / नच वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तं, रूढित्यागापातात् / तत्त्यागे च वैदिके ऽपि दाने ऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुं, तस्मात्प्राप्तानुवाद्यर्थवादो ऽयमिति यज्ञसंबन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम्-पानव्यापच्च तद्वदिति / सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा ऽएतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्ऽइति श्रूयते / तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने ऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य ऽइन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमतिऽइत्यनुवादादिति पूर्वपक्षसूत्रार्थः / वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमने ऽपिन दोष इति सिद्धान्तः / लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता / वेदे तु ऽमा मे वाङ्नाभिमतिगाःऽइति साम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता / तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः
SK
END Bस्Cओम्_२,४.१.१
SK
START Bस्Cओम्_२,४.१.२
SK
गौण्यसंभवात् | BBस्_२,४.२ |
SK
यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति / तत्प्रत्याह- गौण्यसंभवादिति / गौण्या असंभवो गौण्यसंभवः / नहि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति / प्रतिज्ञाहानिप्रसङ्गात् / ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. १.१.३) इति ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते- ऽएतस्माज्जायते प्राणःऽ (मुण्ड. २.१.३) इत्यादि / सा च प्रतिज्ञा प्राणादेः समस्तस्य जागतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिद्ध्यति / गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञेयं हीयेत / तथाच प्रतिज्ञातार्थमुपसंहरति- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ (मुण्ड. २.२.११) इति, ऽब्रह्मैवेदं विश्वमिदं वरिष्टम्ऽ (मुण्ड. २.२.११) इति च / तथा ऽआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ इत्येवञ्जातीयकासु श्रुतिष्वेषैव प्रतिज्ञा योजयितव्या / कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् / नैतन्मूलप्रकृतिविषयम् / ऽअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परःऽ (मुण्ड, २.१.२) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् / अवान्तरप्रकृतिविषयं त्वेतत्स्ववविकारापेक्षं प्रगुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् / व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः / वियदधिकरणे हि ऽगौण्यसंभवात्ऽ इति पूर्वपक्षसूत्रत्वाद्गौणी जन्मश्रुतिरसंभवादिति व्याख्यातम् / प्रतिज्ञाहान्या च तत्र सिद्धान्तो ऽभिहितः / इह तु सिद्धान्तसूत्रत्वाद्गोण्या जन्मश्रुतेरसंभवादिति व्याक्यातम् / तदनुरोदेन त्विहापि गौणी जन्मश्रुतिसंभवादिति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात्
SK
ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह-तथाच प्रतिज्ञातार्थमिति / उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः / मुण्डकवच्छ्रुत्यन्तरे ऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह-तथेति / एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः / इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह-कथमित्यादिना / नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः / ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनं, तत्राह-स्वविकारेति / स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः / ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् ऽएतस्माज्जायते प्राणःऽइत्यादि प्रबलजन्मश्रुतिबलादिति वदामः / ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह-व्याकृतेति / ऽहिरण्यगर्भेः समवर्तताग्रेऽइत्यादिश्रुतौ ऽआदिकर्ता स भूतानांऽइत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति / पूर्वापेक्षया / विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः / केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति-वियदिति
SK
END Bस्Cओम्_२,४.१.२
SK
START Bस्Cओम्_२,४.१.३
SK
तत्प्राक्श्रुतेश् च | BBस्_२,४.३ |
SK
इतश्चाकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः / यज्जायत इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सदुत्तरेष्वप्याकाशादिष्वनुवर्तते / ऽएतस्माज्जायते प्राणःऽ (मु. २.१.३) इत्यत्राकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितं तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति / नह्येकस्मिन्प्रकरण एकस्मिंश्च वाक्य एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् / वैरूप्यप्रसङ्गात् / तथा ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्रश्न. ६.४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते / यत्रापि पश्चच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः / यथा ऽसर्वाणि भूतानि व्युच्चरन्तिऽ इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते
SK
तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना-तत्सामान्यादिति / तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः / एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति-यत्रापि पश्चाच्छ्रुत इति
SK
END Bस्Cओम्_२,४.१.३
SK
START Bस्Cओम्_२,४.१.४
SK
तत्पूर्वकत्वाद् वाचः | BBस्_२,४.४ |
SK
यद्यपि ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव च त्रयाणां भूतानामुत्पत्तिश्रवणात् / तथापि ब्रह्मप्रकृतिकतेजोबन्नपीर्वकत्वाभिधानाद्वाक्प्राणमनसां तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति / तथाहि- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते- ऽअन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्ऽ (छा. ६.५.४) इति / तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वं ततो वर्तत एव ब्रह्मप्रभवत्वम् / अथ भाक्तं ततापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. ६.१.३) इति चोपक्रमात् ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. ६.८.७) इति चोपसंहाराच्छ्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते / तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः
SK
यच्चोक्तं छान्दोग्ये ऽपि प्राणानामुत्पत्तिर्न श्रूयत इति, तत्राह-तत्पूर्वकत्वाद्वाच इति / अत्र सूत्रे वाक्पदं प्राणमनसोरुपलक्षणम् / वाक्प्राणमनसां तेजोबत्रपूर्वकत्वोक्तेरश्रवणमसिद्धमिति योजना / तैर्वागादिभिश्चक्षुरादीनां सामान्यं करणत्वं तत्सामान्यादित्यर्थः / अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्मविकारत्वात् / यदि प्राणस्य वायोर्जलविकारत्वायोगात्तदधीनस्थितिकत्वमात्रेण भक्तस्तथापि प्राणानां विकारत्वे भूताधीनस्थितिकत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं ऽस प्राणमसृजतऽइत्यादिश्रुत्यन्तरे स्पष्टं ब्रह्मकार्यत्वोक्तेश्च / तस्मात्प्राणानामुत्पत्तिश्रुतीनां सद्भावश्रुत्यविरोधात्कारणे ब्रह्मणि समन्वय इति सिद्धम् / लिङ्गशरीरविचारात्मकाधिकरणानां लिङ्गात्त्वंपदार्थभेदधीः फलमिति द्रष्टव्यम्
SK
END Bस्Cओम्_२,४.१.४
SK
START Bस्Cओम्_२,४.२.५
SK
२ सप्तगत्यधिकरणम् / सू. ५-६
SK
सप्त गतेर् विशेषितत्वाच् च | BBस्_२,४.५ |
SK
उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः / संख्यविषय इदानीं परिह्रियते / तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति / संप्रति तु कतीतरे प्राणा इति संप्रधारयति / श्रुतिविप्रतिपत्तेश्चात्र विशयः / क्वचित्सप्त प्राणाः संकीर्त्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. २.१.८) इति / क्वचिच्चाष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते- ऽ अष्टौ ग्रहा अष्टावतिग्रहाःऽऽ (बृ. ३.२.१) इति / क्वचिन्नव- ऽसप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौऽ (तै. सं. ५.१.७.१) इति / क्वचिद्दश- ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ इति / क्वचिदेकादश- ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. ३.९.४) इति / क्वचिद्द्वादश- ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ (बृ. २.४.११) इत्यत्र / क्वचित्त्रयोदश ऽचक्षुश्च द्रष्टव्यं चऽ (बृ. ४.८) इत्यत्र / एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः / किं तावत्प्राप्तम् / सप्तैव प्राणा इति / कुतः गतेः / यतस्तावन्तो ऽवगम्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. २.१.८) इत्येवंविधासु श्रुतिषु / विशेषिताश्चैते ऽसप्त वै शीर्षण्याः प्राणाःऽ इत्यत्र /
SK
ननु ऽप्राणा गुहाशया निहिताः सप्त सप्तऽ (मुण्ड. २.१.८) इति वीप्सा श्रूयते, सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयति /
SK
नैष दोषः / पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति, न तत्त्वभेदाभिप्राया सप्त सप्तान्ये ऽन्ये प्राणा इति /
SK
नन्वष्टत्वादिकापि संखाया प्राणेषूदाहृता कथं सप्तैव स्युः /
SK
सत्यमुदाहृता / विरोधात्त्वन्यतमा संक्याध्यवसातव्या / तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् / वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते
SK
FN: विशयः संशयः / ग्रहत्वं बन्धकत्वम् / गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि / अतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः / अवाञ्चौ पायूपस्थौ / गतेः अवगतेः /
SK
एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसंगत्या सांख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति-सप्तगतेर्विशेषितत्वाच्च / विशयः संशयः / इन्द्रियाण्यत्र विषयः / पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ / ग्रहत्वं बन्धकत्वं / गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः / द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता / एत एव हृदयाख्यया बुद्ध्या सहद्वादश / अहङ्कारेण सह त्रयोदश / श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसंख्यया सप्तैव प्राणा इति सूत्रयोजना / सप्तत्वं वीप्साविरुद्धमिति शङ्कते-नन्विति / गुहायां हृदये शेरत इति गुहाशयाः / स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः / चित्तेन चतुर्दशत्वं मन्तव्यम् / पूर्वपक्षी परिहरति-नैष दोष इति
SK
END Bस्Cओम्_२,४.२.५
SK
START Bस्Cओम्_२,४.२.६
SK
अत्रोच्यते-
SK
हस्तादयस् तु स्थिते ऽतो नैवम् | BBस्_२,४.६ |
SK
हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः श्रूयन्ते- ऽहस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोतिऽ (बृ. ३.२.८) इत्येवमाद्यासु श्रुतिषु / स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् / हीनाधिकसंख्याविप्रतिपत्तौ ह्यधिका संख्या संग्राह्या भवति तस्यां हीनान्तर्भवति नतु हीनायामधिका / अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति / उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः / तथा चोदाहृता श्रुतिः - ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. ३.९.४) इति / आत्मशब्देन चात्रान्तःकरणं परिगृह्यते, करणाधिकारात् /
SK
नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते /
SK
सत्यमुदाहृते / नन्वेकादशाभ्यः कार्यजातेभ्यो ऽधिकं कार्यजातमस्ति यदर्थमधिकं करणं कल्प्येत /
SK
शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धीन्द्रियाणि / वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च कर्मेन्द्रियाणि / सर्वार्थविषयं त्रैकाल्यवृत्ति मनत्वेकमनेकवृत्तिकम् / तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते- ऽमनो बुद्धिरङंकारश्चित्तं चऽ इति / तथाच श्रुतिः कामाद्या नानाविधा वृत्तिरनुक्रम्याह- ऽएतत्सर्वं मन एवऽ (बृ. १.५.३) इति / अपिच सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः / स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते ऽद्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्ऽ इति / नच तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं, हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् / तथा ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ
SK
इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण / नाभिद्दशमिति वचनात् / नहि नाभिर्नाम कश्चित्प्राणः प्रसिद्धो ऽस्ति / मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते / क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते क्वचित्प्रदर्शनार्थम् / तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति विवेक्तव्यम् / कार्यजातवशात्त्वेकादशात्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् / इयमपरा सूत्रद्वययोजना / सप्तैव प्राणाः स्युर्यतः सप्तानामेव गतिः श्रूयते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२) इत्यत्र /
SK
ननु सर्वशब्दो ऽप्यत्र पठ्यते, तत्कथं सप्तनामेव गतिः प्रतिज्ञायत इति / विशेषितत्वादित्याह / सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः ऽस यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवतिऽ (बृ. ४.४.१) ऽएकीभवति न पश्यतीत्याहुःऽ (बृ. ४.४.२) इत्येवमादिनानुक्रमणेन / प्रकृतगामी च सर्वशब्दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये / एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति /
SK
नन्वत्र विज्ञानमष्टममनुक्रान्तं, कथं सप्तानामेवानुक्रमणम् /
SK
नैष दोषः / मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदे ऽपि सप्तत्वोपपत्तेः / तस्मात्सप्तैव प्राणा इति / एवंप्राप्ते ब्रूमः - हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः प्रतीयन्ते-ऽ हस्तौ वै ग्रहःऽ (बृ. ३.२.८) इत्यादिश्रुतिषु / ग्रहत्वं च बन्धनभावो गृह्यते,बध्यते क्षेत्रज्ञो ऽनेन ग्रहसंज्ञकेन बन्धनेनेति / स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वि तुल्यत्वाद्बन्धनस्य / तस्माच्छरीरान्तरसंचारीदं ग्रहसंज्ञकं बन्दनमित्यर्थादुक्तं भवति / तथाच स्मृतिः - पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते / तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च / इति प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति / आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुष द्रष्टव्यं च इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति-ऽ हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं चऽ ( प्र. ४.८) इति / तथा ऽदशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तिऽ (बृ. ३.९.४) इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति / सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो दर्शयति / सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात् / सर्वे ब्राह्मणा भोजयितव्या इत्यत्रापि सर्वेषामेवावनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यं, सर्वशब्दसामर्थ्यात् / सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता / इह तु न किञ्चित्सर्वशब्दार्थसंकोचने कारणमस्ति / तस्मात्सर्वशब्देनात्राशेषाणां प्राणानां परिग्रहः / प्रदर्शनार्थे च सप्तानामनुक्रमणमित्यनवद्यम् / तस्मादेकादशैव प्राणाः शब्दतः कार्यतश्चेति सिद्धम्
SK
FN: गुहायां हृदये शेरत इति गुहाशयाः स्वस्तानेषु निहिताः निक्षिप्ताः / कर्मणा हस्तनिर्वर्त्यादानेन गृहीतः संबद्धः / त्रयः कालास्त्रैकाल्यं तद्विषय वृत्तिर्यस्य तन्त्रैकाल्यवृत्ति / चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः / इह उत्क्रान्तिप्रकरणे / प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं अन्तःकरणचतुष्टयं अविद्या कामः कर्म चेति पर्युष्टकम् /
SK
सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मको ऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसंख्यान्तर्भावनीया / ततो वरं प्राथमिकसप्तत्वे ऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति-अत्रेति / आदानेन कर्मणा गृहीत संबद्धः / संबन्धमेवाह-हस्ताभ्यामिति / अतो ऽधिकसंख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः / तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह-उत्तरेति / ऽश्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसीऽइति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसंधायाह-सत्यमिति / एकादशकार्यलिङ्गान्याह-शब्देति / त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति / इन्द्रियान्तराणां वर्तमानमात्रग्राहित्वादतीतादिज्ञानाय मनो ऽङ्गीकार्यमित्यर्थः / विशेषितत्वादित्युक्तं निरस्यति-अपिच सप्तेति / नच तावतामिति / आदानादीनां श्रोत्रादिभ्यो ऽत्यन्तवैजात्यादित्यर्थ / तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः / कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह-मुख्यस्य त्विति / ऽसप्त प्राणाः प्रभवन्तिऽइत्युपासनार्थम् / ऽअष्टौ ग्रहाऽइति श्रुतिस्तूपलक्षणार्था / पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् / नन्विदं सूत्रव्याख्यानमसंगतं पञ्चधीन्द्रियावाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसंख्यादोषाच्चेत्यरुचेराह-इयमपरेति / इन्द्रियाणि कतीति संदेहे पूर्वपक्षसूत्रं योजयति-सप्तेति / तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः / विपन्नावस्थायामेव चाक्षुपश्चक्षुषि स्थितो ऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ् पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्ये प्रतिगच्छति / अथ तदानीमयं मुमूर्षुररूपज्ञो भवति / देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः / आदिपदात् ऽन जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानातिऽइति गृह्यते / सप्तानामेव जीवेन सह गतिरित्यसिद्धं, ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति-एवमित्यादिना / हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह-पुर्यष्टकेनेति / प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति संभवे सर्वश्रुतिसंकोचो न युक्त इत्याह-सर्वशब्दो ऽपीति /
SK
तस्मात्संख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम्
SK
END Bस्Cओम्_२,४.२.६
SK
START Bस्Cओम्_२,४.३.७
SK
प्राणाणुत्वाधिकरणम् / सू. ७
SK
अणवश् च | BBस्_२,४.७ |
SK
अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति / अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः / अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् / सूक्ष्मा एते प्राणाः स्थूलाश्चेत्स्युर्मरणकाले शरीरान्निर्गच्छन्तो बिलादहिरिवोपलभ्येरन्म्रियमाणस्य पार्श्वस्थैः / परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत्स्युरुत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् / तद्गुणसारत्वं च जीवस्य न सिद्ध्येत् / सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् /
SK
न. वृत्तिमात्रस्य करणत्वोपपत्तेः / यदेव ह्युपलब्धिसाधनं वृत्तिरन्यद्वा तस्यैव नः करणत्वं संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका / तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः
SK
FN: अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् / परिच्छेदो ऽल्पत्वम् /
SK
अणवश्च / ऽप्राणाः सर्वे ऽनन्ताःऽइति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति सांख्यानामाक्षेपः, तत्संगत्या प्राणाः किंपरिमाणा इति संदेहे सिद्धान्तयति-अधुनेत्यादिना / उत्पत्तिसंख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः / अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् / परिच्छेदो ऽल्पत्वम् / बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनो ऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह-तद्गुणसारत्वमिति / उक्ताक्षेपमनूद्य निरस्यति-सर्वगतानामिति /
SK
आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम्
SK
END Bस्Cओम्_२,४.३.७
SK
START Bस्Cओम्_२,४.४.८
SK
४ प्राणश्रैष्ठ्याधिकरणम् / सू. ८
SK
श्रेष्ठश् च | BBस्_२,४.८ |
SK
मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति / तच्चाविसेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. २.१.३) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् / ऽस प्राणमसृजतऽ (प्र. ६.४) इत्यादि श्रवणेभ्यश्च / किमर्थः पुनरतिदेशः, अधिकाशङ्कापाकरणार्थः / नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति ऽन मृत्युरासीदमृतं न तर्हि न रात्र्या अह्नु आसीत्प्रकेतः / आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनासऽ (ऋ.सं. ८.७.१७) इति / आनीदिति प्राणकर्मोपादानात्प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति / तस्मादजः प्राण इति जायते कस्यचिन्मतिः / तामतिदेशेनापनुदति / आनीच्छब्दो ऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति / अवातमिति विशेषणात् / ऽअप्राणो ह्यमनाः शुभ्रःऽ इति च मुलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् / तस्मात्कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति / श्रेष्ठ इति च मुख्यं प्राणमभिदधाति- ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. ५.१.१) इति श्रुतिनिर्देशात् / ज्येष्ठश्च प्राणः शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् / न चेतस्य तदानीं वृत्तिलाभः स्याद्योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा / श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् / श्रेष्ठश्च प्राणो गुणाधिक्यात्, ऽन वै शक्ष्यामस्त्वदृते जीवितुम्ऽ (बृ. ६.१.१३) इति श्रुतेः
SK
FN: तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अहः प्रकेतः सूर्यश्च नास्तां, स्वधया पितृदेयाग्नेन सह, आनीत् चेष्टां कृतवत् /
SK
श्रेष्ठश्च / अतिदेशत्वान्न संगत्याद्यपेक्षा / ऽतथा प्राणाःऽइत्युक्तन्यायो ऽत्रातिदिश्यते / ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याक्षिपति-किमर्थ इति / निश्चितमहाप्रलये प्राणसद्भावश्रुत्याधिकां शङ्कामाह-नासदासीये हीति / ऽनासदासीत्ऽइत्यारभ्याधीत इत्यर्थः / तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं च देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्तां, स्वधया सहेत्यन्वयः / पितृभ्यो देयमन्नं स्वधा / यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मानीदासीदिति परमार्थः / अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः / तस्माद्ब्रह्मणः परः परमुत्कृष्टमन्यच्च किमपि न बभूवेत्यर्थः / परिहारः सुबोधः ननु श्रेष्ठशब्दस्य प्राणे प्रसिद्ध्यभावात्कथं सूत्रमिति, तत्राह-श्रेष्ठ इति चेति / श्रुतिं व्याचष्टे-ज्येष्ठश्च प्राण इत्यादिना /
SK
पूयेत पूयं भवेत् / न संभवेत्तद्गर्भो न भवेदित्यर्थः / वागादिजीवनहेतुत्वं प्राणस्य गुणः / एवमानीच्छ्रुत्यविरोधात्प्राणोत्पत्तिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम्
SK
END Bस्Cओम्_२,४.४.८
SK
START Bस्Cओम्_२,४.५.९
SK
५ वायुक्रियाधिकरणम् / सू. ९-१२
SK
न वायुक्रिये पृथगुपदेशात् | BBस्_२,४.९ |
SK
स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते / तत्र प्राप्तं तावच्छ्रुतेर्वायुः प्राण इति / एवं हि श्रूयते- ऽयः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणो ऽपानो व्यान उदानः समानःऽ इति / अथवा तन्त्रान्तरीयाभिप्रायात्समस्तकरणवृत्तिः प्राण इति प्राप्तम् / एवं हि तन्त्रान्तरीया आचक्षते- ऽसामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेऽ ति / अत्रोच्यते- न वायुः प्राणो नापि करणव्यापारः / कुतः - पृथगुपदेशात् / वायोस्तावत्प्राणस्य पृथगुपदेशो भवति- ऽप्राण एव ब्रह्मणश्चश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति चऽ (छान्दो. ३.१८.४) इति / नहि वायुरेव सन् वायोः पृथगुपदिश्येत / तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् / वृत्तिवृत्तिमतोश्चाभेदात् / नहि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत / तथा ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च / खं वायुःऽ (मु. २.१.३) इत्येवमादयो ऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः / नच समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात्समुदायस्य चाकारकत्वात् /
SK
ननु पञ्जरचालनन्यायेनैतद्भविष्यति / यथैतपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादश प्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूयैकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति /
SK
नेत्युच्यते / युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूयैकं पञ्जरं चालयेयुरिति / तथा दृष्टत्वात् / इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राण न संभूय प्राण्युरिति युक्तम्, प्रमाणाभावात् / अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य / तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणं गुणभावोपगमश्च तं प्रति वागादीनां, न करणवृत्तिमात्रे प्राणे ऽवकल्पते / तस्मादन्यो वायुक्रियाभ्यां प्राणः / कथं तर्हीयं श्रुतिः ऽयः प्राणः स वायुःऽ इति /
SK
उच्यते- वायुरेवायमध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रम् / अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते
SK
स्यादेतत् / प्राणो ऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति / श्रेष्ठत्वाद्गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् / तथाह्यनेकविधा विभूतिः प्राणस्य श्राव्यते- ऽसुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एको मृत्युनानाप्तः प्राणः संवर्गो वागादीन्संवृङ् क्ते प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान्ऽ इति / तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्गः /
SK
इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा / संप्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति-न वायुक्रिये पृथगुपदेशात् / मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह-तत्रेति / द्वितीयं सांख्यपूर्वपक्षमाह-अथवेति / सिद्धान्तत्वेन सूत्रमादत्ते-अत्रोच्यत इति / मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तं, तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति / कार्यक्षमो भवतीत्यर्थः / श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्यो ऽपि भिन्नत्वमित्याह-तथेति / प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति-नच समस्तानामिति / या चक्षुः-साध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् / नच समुदायस्य वृत्तिः संभवति तस्यासत्त्वादित्यर्थः / प्राणाभावादिति / श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात्, श्रवणादीनामपरिस्पन्दत्वेन विजातीयानां, परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः / किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यं, नैतदस्तीत्याह-तथा प्राणस्येति / यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात्, तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह-उच्यत इति /
SK
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः
SK
END Bस्Cओम्_२,४.५.९
SK
START Bस्Cओम्_२,४.५.१०
SK
तं परिहरति-
SK
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः | BBस्_२,४.१० |
SK
तुशब्दः प्राणस्य जीववत्स्वातन्त्र्यं व्यवर्तयति / यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि / तथा मुख्यो ऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वार्थकरत्वेनोपकरणभूतो न स्वतन्त्रः / कुतः / तत्सहशिष्ट्यादिभ्यः / तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु / समानधर्माणां च सह शासनं युक्तं बृहद्रथन्तरादिवत् / आदिशब्देन संहतत्वाचेतनत्वादीन्प्राणस्य स्वातन्त्र्यनिराकरणहेतून्दर्शति
SK
प्राणस्य करणवृत्तित्वाभावे जीववद्भोक्तृत्वं स्यादिति शङ्कते-स्यादेतदिति / प्राणो न भोक्ता, भोगोपकरणत्वात्, चक्षुरादिवदिति सूत्रार्थमाह-तुशब्द इत्यादिना /
SK
यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः / किञ्च प्राणो न भोक्ता, सावयवत्वात्, जडत्वाद्भौतिकत्वाच्च, देहवत्
SK
END Bस्Cओम्_२,४.५.१०
SK
START Bस्Cओम्_२,४.५.११
SK
स्यादेतत् / यदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावो ऽभायुपगम्येत,विषयान्तरं रूपादिवत्प्रसज्येत / रूपाद्यालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति / अपिचैकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः नतु द्वादशमपरं कार्यजातमधिगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायेतेति / अत उत्तरं पठति-
SK
अकरणत्वाच् च न दोषस् तथा हि दर्शयति | BBस्_२,४.११ |
SK
न तावद्विषयान्तरप्रसङ्गो दोषः / अकरणत्वात्प्राणस्य / नहि चक्षुरादिवत्प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते / नचास्यैतावता कार्याभाव एव / कस्मात् / तथाहि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु- ऽअथ ह प्राणा अहंश्रेयसि व्यूदिरेऽ इत्युपक्रम्य ऽयस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठःऽ (छा. ५.१.६,७) इति चोपन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति / ऽतावन्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि, इति चैतमेवार्थं श्रुतिराह- ऽप्राणेन रक्षन्नवरं कुलायम्ऽ (बृ.
SK
४.३.१२) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति / ऽयस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदैव तच्छुष्यतिऽ (बृ. १.३.१९) / ऽतेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिऽ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति / ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिऽ इति, ऽस प्राणमसृजतऽ इति च प्राणनिमित्ते जीवस्योत्क्रान्तप्रतिष्ठे दर्शयति
SK
FN: अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तं, व्यूदिरे विवादं चक्रिरे / अपरं नीचं, कुलायं देहाख्यं गृहम् /
SK
ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकं, प्राणस्य तु निर्विषयत्वादसाधारणकार्यभावाच्च नोपकरणत्वमिति शङ्कते-स्यादेतदिति / उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति-न तावदित्यादिना / अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् / व्यूदिरे विवादं चक्रिरे-तद्वृत्तिमात्रहीनमिति / मूकादिभावेन स्थितमित्यर्थः / अवरं नीचं, कुलायं देहाख्यं गृहं, प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः-तदैव तदानीमेव /
SK
तेन प्राणेन यदश्नाति जीवस्त्वेन प्राणकृताशनेनेति यावत् / एवंश्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम्
SK
END Bस्Cओम्_२,४.५.११
SK
START Bस्Cओम्_२,४.५.१२
SK
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते | BBस्_२,४.१२ |
SK
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु ऽप्राणो ऽपानो व्यान उदानः समानःऽ (बृ. १.५.३) इति / वृत्तिभेदश्चायं कार्यभेदापेक्षः / प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा / अपानोर्ऽवाग्वृत्तिर्निश्वासादिकर्मा / व्यानस्तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः / उदान ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः / समानः समं सर्वेष्वङ्गेषु यो ऽन्नरसान्नयतीति / एवं पञ्चवृत्तिः प्राणो मनोवत् / यथा मनसः पञ्च वृत्तय एवं प्राणस्यापीत्यर्थः / श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः, नतु कामः संकल्पः इत्याद्याः परिपठिताः परिगृह्येरन् / पञ्चसंख्यातिरेकात् /
SK
नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषयापरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः / एवं तर्हि ऽपरमतमप्रतिषिद्धमनुमतं भवतिऽ इति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्चवृत्तयः परिगृह्यन्ते ऽप्रमाणविपर्ययविकल्पनिद्रास्मृतयःऽ (पात. योग. सू. १.१.६) नाम / बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् / जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्
SK
FN: प्रमाणं प्रमितिः, विपर्ययो भ्रमः, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः, तामसी वृत्तिर्निद्रा /
SK
तत्रैव हेत्वन्तरार्थे सूत्रं व्याचष्टे-इतश्चेत्यादिना / वृत्तिरवस्था / अग्निमन्थनादिकं वीर्यवत्कर्म / कामादिवृत्तिवज्ज्ञाने ऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति-नन्वत्रापीत्यादिना /
SK
प्रमाणं प्रमितिः विपर्ययो भ्रमः / शशविषाणादिज्ञानं विकल्पः / तामसी वृत्तिर्निद्रा / स्मृतिः प्रसिद्धा / भ्रमन्द्रियोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह-बह्विति / सूत्रस्यार्थान्तरमाह-जीवेति /
SK
तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,४.५.१२
SK
START Bस्Cओम्_२,४.६.१३
SK
६ श्रेष्ठाणुत्वाधिकरणम् / सू. १३
SK
अणुश् च | BBस्_२,४.१३ |
SK
अणुश्चायं मुख्यः प्राणः प्रत्येतव्य इतरप्राणवत् / अणुत्वं चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् / पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् / सूक्ष्मः प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात् / परिच्छिन्नश्चोत्क्रान्तिगत्यागतिश्रुतिभ्यः /
SK
ननु विभुत्वमपि प्राणस्य समाम्नायते- ऽसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन सर्वेण (बृ. १.३.२२) इत्येवमादिप्रदेशेषु /
SK
तदुच्यते- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्णेण प्राणात्मनैवैतद्विभुत्वमाम्नायते नाध्यात्मिकेन / अपिच समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः
SK
FN: प्लुषिर्मशकादपि सूक्ष्मो जन्तुः, नागो हस्ती /
SK
एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसंदेहे ऽणुत्वमुपदिशति-अणुश्चेति / अधिकाशङ्कामाह-ननु विभुत्वमपीति / प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते / नागो हस्ती / प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाती, समो ऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते-तदुच्यत इति / किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् / समो ऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह-अपिचेति /
SK
अणवश्चेत्यत्र सर्वे ऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम्, अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् / अन्ये तु प्रसङ्गात्तत्र सांख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः
SK
END Bस्Cओम्_२,४.६.१३
SK
START Bस्Cओम्_२,४.७.१४
SK
७ ज्योतिराद्यधिकरणम् / सू. १४-१६
SK
ज्योतिराद्यधिष्ठानं तु तदामननात् | BBस्_२,४.१४ |
SK
ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै कार्याय प्रभवन्त्याहोस्विद्देवताधिष्ठिताः प्रभवन्तीति विचार्यते- तत्र प्राप्तं तावद्यथा स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति / अपिच देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गाच्छरीरस्य भोक्तृत्वं प्रलीयेत / अतः स्वमहिम्नैवैषां प्रवृत्तिरिति / एवं प्राप्तं इदमुच्यते- ज्योतिराद्यधिष्ठानं तु इति / तुशब्देन पूर्वपक्षो व्यावर्त्यते / ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादि करणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते / हेतुं व्याचष्टे- तदामननादिति / तथाह्यामनन्ति- ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐत. २.४) इत्यादि / अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाधिष्ठातृत्वमङ्गीकृत्योच्यते / नहि देवतासंबन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते / तथा ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽ (ऐत. २.४) इत्येवमाद्यपि यौजयितव्यम् / तथान्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सो ऽग्निना ज्योतिषा भाति च तपति चऽ (छा. ३.१८.३) इत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्वादिवचनेनैतमेवार्थं द्रढयति / ऽस वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सो ऽग्निरभवत्ऽ (बृ. १.३.१२) इति चैवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थं द्योतयति / सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति / समृतावपि- ऽवागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः / वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवचतम् / ऽ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं दर्शितम् / यदुक्तं स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति / तदयुक्तम् / शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात् / उभयथोपपत्तौ चागमाद्देवताधिष्ठितत्वमेव निश्चीयते
SK
FN: भाति दीप्यते / तपति स्वकार्यं करोति / स प्राणो वाचं प्रथमामुद्गीथकर्माणि प्रधानां अनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवान् /
SK
पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह-ज्योतिराद्यधिष्ठानं तु तदामननात् / ऽवाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यतिऽइति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् ऽअग्निर्वाग्भूत्वाऽइत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा / नच स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यं, जीवस्याधिष्ठातृत्वात् / किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात्, तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः / सिद्धान्तयति-एवं प्राप्त इत्यादिना / अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावो ऽत्राग्र्यादिदेवताधिष्ठेयत्वरूप एव संबन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वात्संभवादित्याह-अग्नेश्चायमिति / वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह-तथेति / भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः /
SK
एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह-स वै वाचमिति / स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः / किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसंबन्धं द्योतयतीत्याह-सर्वत्रेति / ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासंभवे कथं निश्चयः, तत्राह-उभयथोपपत्तौ चेति / उक्तदोषान्तरनिरासाय सूत्रमवतारयति-यदपीति
SK
END Bस्Cओम्_२,४.७.१४
SK
START Bस्Cओम्_२,४.७.१५
SK
यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्येति तत्परिह्रियते-
SK
प्राणवता शब्दात् | BBस्_२,४.१५ |
SK
सतीष्वपि प्राणानामधिष्टात्रीषु देवतासु प्राणवता कार्यकरणसंघातस्वामिना शारीरेणैवैषां प्राणानां संबन्धः श्रुतेरवगम्यते / तथाहि श्रुतिः - ऽअथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय तक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्ऽ (छा. ८.१२४) इत्येवञ्जातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति /
SK
अपिचानेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वमस्मिञ्शरीरे ऽवकल्पते / एको ह्येवमस्मिञ्शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते
SK
FN: अथ देहे प्रागप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः /
SK
शारीरेणैवेति / भोक्त्रेति शेषः / संबन्धो भोक्तृभोग्यभावः / अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः यद्यप्यात्मा करणान्येपक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तये ऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः / किञ्च यो ऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसंधानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह-अपिचेति
SK
END Bस्Cओम्_२,४.७.१५
SK
START Bस्Cओम्_२,४.७.१६
SK
तस्य च नित्यत्वात् | BBस्_२,४.१६ |
SK
तस्य च शारीरस्यास्मिञ्शरीरे भोक्तृत्वेन नित्यत्वेन पुण्यपापोपलेपसंभवात्सुखदुःखोपभोगसंभवाच्च न देवतानाम् / ता हि परस्मिन्नैश्वर्ये पदे ऽवतिष्ठमाना न हिने ऽस्मिञ्शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति / श्रुतिश्च भवति- ऽपुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ (बृ. १.५.३) इति शारीरेणैव च नित्यः प्राणानां संबन्ध उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् / ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२)
SK
इत्यादिश्रुतिभ्यः / तस्मात्सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति /
SK
करणपक्षस्यैव हि देवता न भोक्तृपक्षस्येति
SK
कदाचिद्देवानामत्रभोक्तृत्वं कदाचिज्जीवस्येत्यनियमो ऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह-सूत्रकारः-तस्य चेति / उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह-शारीरेणैव च नित्य इति /
SK
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः / जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वं, देवानां तु करणोपकाराभिज्ञातया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः / देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु ऽन ह वै देवान् पापं गच्छतिऽइत्युक्तश्रुतिबाधितम् / तस्मात् ऽचक्षुषा हि रूपाणि पश्यतिऽइति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम्
SK
END Bस्Cओम्_२,४.७.१६
SK
START Bस्Cओम्_२,४.८.१७
SK
८ इन्द्रियाधिकरणम् / सू. १७-१९
SK
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् | BBस्_२,४.१७ |
SK
मुख्यश्चैक इतरे चैकादश प्राणा अनुक्रान्ताः / तत्रेदमपरं संदिह्यते / किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित्तत्त्वान्तराणीति / किं तावत्प्राप्तं, मुख्यस्यैवेतरे वृत्तिभेदा इति / कुतः - श्रुतेः / तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति- ऽहन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्ऽ (बृ. १.५.२१) इति / प्राणैकशब्दत्वाच्चैकत्वाध्यवसायः / इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत / एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वामापद्येत / तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तय एवं वागाद्या अप्येकादशेति / एवं प्राप्ते ब्रूमः - तत्त्वान्तराण्येव प्राणाद्वागादीनीति / कुतः -
SK
व्यपदेशाभावात् / को ऽयं व्यपदेशभेदः / ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वावशिष्टा एकादशेन्जद्रियाणीत्युच्यन्ते / श्रुतावेवं व्यपदेशदर्शनात् / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मु. २.१.३) इति ह्येवञ्जातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक्त्चेन्द्रियाणि /
SK
ननु मनसो ऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात्, ऽमनः सर्वेन्द्रियाणि चऽ इति पृथग्व्यपदेशदर्शनात् / सत्यमेतत् / स्मृतौ त्वेकादशेन्द्रियाणीति मनो ऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते / प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति / व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते / तत्त्वैकत्वे तु स एवैकः सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चेति विप्रतिषिद्धम् / तस्मात्तत्त्वान्तरभूता मुख्यादितरे
SK
FN: अस्यैव मुख्यप्राणस्य रूपं असाम भवेमेति संकल्प्य, ते वागादयः /
SK
सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह-त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् / प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति-मुख्यश्चेत्यादिना / हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति संकल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः / ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात्, प्राणवदित्याह-प्राणेति / ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे-तत्त्वान्तराण्येवेति / तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति / प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति-क इत्यादिना / सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् / एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् / शब्दभेदाद्वस्तुभेदसाधने ऽतिप्रसङ्गं शङ्कते-नन्विति / प्राणवन्मनसो ऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः / अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः / स च ऽमनः षष्ठानीन्द्रियाणिऽइत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते-सत्यमित्यादिना / मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया / सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् / किञ्च ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽइति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह-व्यपदेशभेदश्चायमिति /
SK
एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः
SK
END Bस्Cओम्_२,४.८.१७
SK
START Bस्Cओम्_२,४.८.१८
SK
कुतश्च तत्तवान्तरभूताः -
SK
भेदश्रुतेः | BBस्_२,४.१८ |
SK
भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- ऽते ह वाचमूचुःऽ (बृ. १.३.२) इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम् ऽअथ हेममासन्यं प्राणमूचुःऽ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमात् / तथा ऽमनो वाचं प्राणं तान्यात्मने ऽकुरुतऽ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः / तस्मादपि तत्त्वान्तरभूता मुख्यादितरे
SK
एवं भेदेनापर्यायसंज्ञाभ्यामुक्तेः पृथग्जनोक्तेश्चेति तद्व्यपदेशादिति हेतुर्व्याख्यातः / भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् / ते ह देवाः शास्त्रीयेन्द्रियमनोवृत्तिरूपा असुराणां पापवृत्तिरूपाणां जयार्थमुद्गीथकर्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गायासुरनाशार्थमिति तथास्त्वित्यङ्गीकृत्योद्गायन्तीं वाचमनृतादिदोषेण विध्वंसितवन्तोसुरा इत्येवं क्रमेण सर्वेष्विन्द्रियेषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणेनोदगात्रा निर्विषयतया सङ्गदोषशून्येनासुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्यप्राणस्योक्तेर्भेदसिद्धिरित्याह-ते हेति /
SK
तानि त्रीण्यन्यान्यात्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः
SK
END Bस्Cओम्_२,४.८.१८
SK
START Bस्Cओम्_२,४.८.१९
SK
कुतश्च तत्त्वान्तरभूताः -
SK
वैलक्षण्याच् च | BBस्_२,४.१९ |
SK
वैलक्षण्यं च भवति मुख्यस्येतरेषां च / सुषुप्तेषु वागादिषु मुख्य एको जागर्ति स एव चैको मृत्युनानाप्त आप्तास्त्वितरे / तस्यैव च स्थित्युक्रान्तिभ्यां देहधारणपतनहेतुत्वं नेन्द्रियाणाम् / विषयालोचनहेतुत्वं चेन्द्रियाणां न प्राणस्येवञ्जातीयको भूयाल्लक्षणभेदः प्राणेन्द्रियाणाम् / तस्मादप्येषां तत्त्वान्तरभावसिद्धिः / यदुक्तम्- ऽत एतस्यैव सर्वे रूपमभवन्ऽ (बृ. १.५.२१) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् / तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः / तथाहि- वदिष्याम्येवाहमिति वाग्दध्रेऽ (बृ. १.५.२१) इति वागादीनीन्द्रियाण्यनुक्रम्य ऽतानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक्ऽ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय ऽअथेममेव नाप्नोद्यो ऽयं मध्यमः प्राणःऽ (बृ. १.५.२१) इति पृथक्प्राणं मृत्युनानभिभूतं तमनुक्रामति / ऽअयं वै नः श्रेष्ठःऽ (बृ. १.५.२१) इति च श्रेष्ठतामस्यावधारयति / तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् / अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः / तथाच श्रुतिः - ऽत एतस्यैव सर्वे रूपमभवन् / तस्मादेत एतेनाख्यायन्ते प्राणाःऽ (बृ. १.५.२१) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति / तस्मात्तत्त्वान्तराणि प्राणादिन्द्रियाणीति
SK
FN: मृत्युरासङ्गदोषः / वाद्गग्ध्रे धारणाभिप्रायं चक्रे /
SK
विरुद्धधर्मवत्त्वाच्च भेद इत्याह-वैलक्षण्याच्चेति /
SK
मृत्युरासङ्गदोषः / वाग्दध्रे व्रतं धृतवतीत्यर्थः / बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् / एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ ऽतस्मादेत एतेनाख्यायन्तऽइति परामृष्टम्, इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम्
SK
END Bस्Cओम्_२,४.८.१९
SK
START Bस्Cओम्_२,४.९.२०
SK
९ संज्ञामूर्तिकॢप्त्यधिकरणम् / सू. २०-२२
SK
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् | BBस्_२,४.२० |
SK
सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति / तासां त्रिवृतं त्रिवृतमेकैकां करवाणीतिऽ (छा. ६.३.२) / तत्र संशयः - किं जीवकर्तृकमिदं नामरूपव्याकरणमाहोस्वित्परमेश्वरकर्तृकमिति / तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति / कुतः - ऽअनेन जीवेनात्मनाऽ इति विशेषणात् / यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानीत्येवञ्जातीयके प्रयोगे चारकर्तृकमेव सत्सैन्यसंकलनं हेतुकर्तृत्वाद्राजात्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण, एवं जीवकर्तृकमेव सन्नामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण / अपिच डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् / तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते ऽभिधत्ते-
SK
ऽसंज्ञामूर्तिकॢप्तस्तुऽ इति / तुशब्देन पक्षं व्यावर्तयति / संज्ञामूर्तिकॢप्तिरिति नामरूपव्याक्रियेत्येतत् / त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् / येयं संज्ञाकॢप्तिमूर्तिकॢप्तिश्चाग्निरादित्यश्चन्द्रमा विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति चानेकप्रकारा / सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति / कुतः - उपदेशात् / तथाहि- ऽसेयं देवतैक्षतऽ इत्युपक्रम्य ऽव्याकरवाणिऽ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते /
SK
ननु जीवेनेति विशेषणाज्जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् /
SK
नैतदेवम् / जीवेनेत्येतदनुप्रविश्येत्यनेन संबध्यत आनन्तर्यात्, न व्याकरवाणीत्यनेन / तेन हि संबन्धे व्याकरवाणीत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत / नच गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति / येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् / नच जीवो नाम परमेश्वरादत्यन्तभिन्नश्चार इव राज्ञः, आत्मनेति विशेषणात् / उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य / तेन, तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति / परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः / ऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽ (छा. ८.१४.१) इत्यादिश्रुतिभ्यः / तस्मात्परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम् / त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् / तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- ऽयदग्रे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ (छा. ६.४.१) इत्यादिना / तत्राग्निरितीदं रूपं व्याक्रियते / सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरितीदं नाम व्याक्रियते / एवमादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् / अनेन चाग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति / उपक्रमोपसंहारयोः साधारणत्वात् / तथाह्यविशेषेणैवोपक्रमः - ऽइमास्तिस्रो देवतास्त्रिवृदेकैका भवतिऽ (छा. ६.३.४) इति / अविशेषेणैव चोपसंहारः - ऽयदु रोहितमिवाभूदिति तेजसस्तद्रूपम्ऽ इत्येवमादिः ऽयदविज्ञातमिवाभूदित्येतासामेव देवतानां समास इतिऽ (छा. ६.४.६.७) एवमन्तः
SK
FN: प्रक्रिया प्रकरणम् / तासां तिसृणामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था /
SK
उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयैन निरस्तः,
SK
संप्रत्युत्पादनश्रुतिविरोधो निरस्यते / तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नं, स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह-संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् / नामरूपभेदात्करणभिन्नः प्राण इत्युक्तं, तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसंगतिः / प्रक्रिया प्रकरणं / ईक्षणमेवाह-हन्तेत्यादिना / हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति संबन्धः / तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था / छान्दोग्ये ऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् / एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् / जीवेनेतिपदस्य व्याकरवाणीत्यनेन संबन्धसंभवासंभवाभ्यां संशयमाह-तत्रेति / पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् / जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन संबन्ध इति पूर्वपक्षमाह-तत्र प्राप्तमिति / परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह-यथा लोक इति / सिद्धान्तयति-तुशब्देनेत्यादिना / प्रत्याकृति / प्रतिजातीत्यर्थः / अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् / तथाच पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः / न तु जीवेन व्याकरवाणीति / ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात् कृत्वाप्रत्ययो न स्यादित्यत आह-नच जीवो नामेति / वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशे ऽपीश्वर एव कर्तेति कृत्वाश्रुतिर्युक्तेति बोध्यम् / नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह-परमेश्वर इति / प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थीलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह-त्रिवृत्करणपूर्वकमिति / ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह-तच्चेति / इदानीं नामरूपव्याकरणे क्रममाह-तत्राग्निरिति / यद्यपि ऽअतः प्रभवात्ऽइत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसंबन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः / नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणद्भूजलयोसत्र्यात्मकत्वं न विवक्षितमित्यत आह-अनेन चेति /
SK
उपक्रमे तासां मध्य इति शेषः / यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः
SK
END Bस्Cओम्_२,४.९.२०
SK
START Bस्Cओम्_२,४.९.२१
SK
तासां तिसृणां देवतानां बहिस्त्रिवृत्कृतानां सतीनामध्यात्ममपरं त्रिवृत्करणमुक्तम्- ऽइमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवतिऽ (छा. ६.४.७) इति / तदिदानीमाचार्यो यथाश्रुत्येवोपदर्शयत्याशङ्कितं कञ्चिद्दोषं परिहरिष्यन्-
SK
मांसादि भौमं यथाशब्दमितरयोश् च | BBस्_२,४.२१ |
SK
भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते / तथाहि श्रुतिः - ऽअन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो ऽणिष्ठस्तन्मनःऽ (छा. ६.५.१) इति /
SK
त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यत इत्यभिप्रायः / तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति / मध्यममध्यात्मं मांसं वर्धयति / अणिष्ठं तु मनः / एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् / एवं मूत्रं लोहितं प्राणश्चापां कार्यम् / अस्थि मज्जा वाक्तेजस इति
SK
बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं तदन्नुत्तरसूत्रमवतारयति-तासामित्यादिना / पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः / उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः / नन्वन्नमयं मांसादि कथं भौममित्यत आह-त्रिवृत्कृता भूमिरेवेति /
SK
प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम्
SK
END Bस्Cओम्_२,४.९.२१
SK
START Bस्Cओम्_२,४.९.२२
SK
अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेः ऽतास त्रिवृतं त्रिवृतमेकैकामकरोत्ऽ इति / किङ्कृतस्तर्ह्ययं विशेषव्यपदेशः ऽइदं तेज इमा आप इदमन्नम्ऽ इति / तथा ऽअध्यात्ममिदमन्नस्याशितस्य कार्यं मांसादि / इदमपां पीतानां कार्यं लोहितादि / इदं तेजसो ऽशितस्य कार्यमस्थ्यादिऽ इति / अत्रोच्यते-
SK
वैशेष्यात् तु तद्वादस् तद्वादः | BBस्_२,४.२२ |
SK
तुशब्देन चोदितं दोषमपनुदति / विशेषस्य भावो वैशेष्यम् / भूयस्त्वमिति यावत् / सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते ऽअग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वम्ऽ इति /
SK
व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् / व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरो लोकस्य प्रसिद्ध्येत् / तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते / तद्वादस्तद्वाद इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति
SK
एवं विषयमुक्त्वा दोषं शङ्कते-अत्राहेति / तदुत्तरत्वेन सूत्रं व्याचष्टे-तुशब्देनेति / स्वभावाधिक्यं वैशेष्यं किमर्थे कृतमित्यत आह-व्यवहारप्रसिद्ध्यर्थमिति /
SK
एवं स्मृतिन्यायमतान्तरश्रुतिभिरविरोधो ब्रह्मणि वेदान्ततात्पर्यस्येति सिद्धम्
SK
END Bस्Cओम्_२,४.९.२२
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः
SK
इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः //
SK
इति लिङ्गशरीरश्रुतीनां विरोधपरिहाराख्यश्चतुर्थः पादः //
SK
इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः //
SK
अथ तृतीयो ऽध्यायः /
SK
तृतीये साधनाख्याध्याये प्रथमपादे गत्यागतिचिन्ता-वैराग्यनिरूपणविचारश्च
SK
१ तदनन्तरप्रतिपत्त्यधिकरणम् / सू. १-७
SK
अथ तृतीयो ऽध्यायः /
SK
यं हि वैराग्यसंपन्नास्तत्त्वमर्थविवेकिनः / लभन्ते साधनैर्दान्तास्तं सीतानायकं भजे
SK
START Bस्Cओम्_३,१.१.१
SK
१ तदनन्तरप्रतिपत्त्यधिकरणम् / सू. १-७

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) (sa_bAdarAyaNa-brahmasUtra-comm-subcomm2.htm).

Source