Commentary and Subcommentary on the Brahma Sūtras Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)
Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)
4.1.1 SK आवृत्तिर् असकृदुपदेशात् | BBस्_४,१.१ |
2 SK तृतीये अध्याये परा अपरासु विद्यासु साधन आश्रयो विचारः प्रायेणात्यगात् / अथ इह चतुर्थे फलाश्रय आगमिष्यति / प्रसङ्गागतं च अन्यदपि किञ्चित् चिन्तयिष्यते / प्रथमं तावत् कतिभिः चिदधिकरणैः साधन आश्रयविचारशेषमेव अनुसरामः / ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. ४.४.२१) ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वीतऽ(बृ. ४.५.६) ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. ८.७.१) इति च एवमादिश्रवणेषु संशयः - किं सकृत् प्रत्ययः कर्तव्य आहोस्वित् आवृत्त्य इति / किं तावत् प्राप्तं सकृत् प्रत्ययः स्यात् प्रयाजादिवत् / तावता शास्त्रस्य कृतार्थत्वात् / अश्रूयमाणायां क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् /
3 SK ननु असकृत् उपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति एवमादयः / एवम् अपि यावत् शब्दम् आवर्तयेत् सकृत् श्रवणं सकृत् मननं सकृत् निदिध्यासनं च इति न अतिरिक्तम् / सकृत् उपदेशेषु तु वेद उपासीत इति एवमादिषु अनावृत्तिः इति /
4 SK एवं प्राप्ते ब्रूमः - प्रत्ययावृत्तिः कर्तव्या / कुतः - असकृत् उपदेशात् / ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ इति एवञ्जातीयको हि असकृत् उपदेशः प्रत्ययावृत्तिं सूचयति /
5 SK ननु उक्तं यावत् शब्दमेव आवर्तयेत् न अधिकम् इति /
6 SK न / दर्शनपर्यवसितत्वात् अदोषम् / दर्शनपर्यवसानानि हि श्रवणादीनि आवर्त्यमानानि दृष्टार्थानि भवन्ति / यथा अवघातादीनि तण्डुलादि निष्पत्तिपर्यसानानि तद्वत् //
1 SK अपि च उपासनं निदिध्यासनं च इति अत्यन्तर्णीतावृत्तिगुण एव क्रियाभिधीयते / तथा हि - लोके गुरुम् उपास्ते राजानम् उपास्त इति च यः तात्पर्येण गुर्वादीन् अनुवर्तते स एवम् उच्यते / तथा ध्यायति प्रोषितनाथा पतिम् इति या निरन्तर स्मरणा पतिं प्रति सा उत्कण्ठा सा एवम् अभिधीयते / विद्युपास्त्योः च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते / क्वचित् विदिना उपक्रम्य उपासिन उपसंहरति यथा - ऽयस्तद्वेद यत्स वेद स मयैतदुक्तःऽ (छा. ४.१.४) इति अत्र ऽअनु म एतां भगवो देवतां शाधि यां देवतामुपाःसेऽ (छा. ५.२.२) इति / क्वचित् च उपासिन उपक्रम्य विदिना उपसंहरति यथा - ऽमनो ब्रह्मेत्युपासीतऽ (छा. ३.१८.१) इति अत्र ऽभाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेदऽ (छा. ३.१८.३) इति / तस्मत् सकृत् उपदेशेषु अपि आवृत्तिसिद्धिः / असकृत् उपदेशः तु आवृत्तेः सूचकः
8 SK ॐ / आवृत्तिरसकृदुपदेशात् / साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हतुफलभावं संगतिमाह-तृतीय इति / फलप्रासङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह-प्रसङ्गेति / पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितं, संप्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक् चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः / आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह-आत्मा वा इति / श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसंगतय उक्ताः / तत्तत्पदार्थसंबन्धात्तत्तत्पादसङ्गतिः / मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसंगत्या पूर्वपक्षमाह-किं तावदिति / अत्र पूर्व पक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलं, सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः / असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते-नन्वसकृदिति / श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह-एवमपीति / सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह-सकृदिति / यद्यप्यसकृदुपदेश आवृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे संभवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह-न दर्शनपर्यवसानत्वादिति / ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह-अपिचेति / अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह-विद्युपास्त्योश्चेति / शब्दयोरेकार्थत्वमुदाहरति-क्वचिदिति /
1 SK स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्यो ऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनं, तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मे ऽनुशाधि मह्यमुपदिशेत्यर्थः / एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः
11 SK START Bस्Cओम्_४,१.१.२
4.1.2 SK लिङ्गाच् च | BBस्_४,१.२ |
13 SK लिङ्गम् अपि प्रत्ययावृत्तिं प्रत्याययति / तथा हि उद्गीथविज्ञानं प्रस्तुत्य ऽआदित्य उद्गीथःऽ (छा. १.५.१) इति एतत् एकपुत्रतादोषेण आपोद्य ऽरशमींस्तवं पर्यावर्तयात्ऽ (छा. १.५.२) इति रश्मिबहुत्व विज्ञानं बहुपुत्रतायै विदधत् सिद्धवत् प्रत्ययावृत्तिं दर्शयति / तस्मात् तत् सामान्यात् सर्वप्रत्ययेषु आवृत्तिसिद्धिः / अत्र आह - भवतु नाम साध्यफलेषु प्रत्ययेषु आवृत्तिः / तेषु आवृत्तिसाद्यस्य अतिशयस्य संभवात् / यः तु परब्रह्मविषयः प्रत्ययो नित्य शुद्ध बुद्ध मुक्त स्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किम् अर्थावृत्तिः इति /
14 SK सकृत् श्रुतौ च ब्रह्म आत्मत्वप्रतीति अनुपपत्तेः आवृत्ति अभ्युपगम इति चेत् /
15 SK न / आवृत्तौ अपि तत् अनुपपत्तेः / यदि हि ऽतत्त्वमसिऽ (छा. ६.८.७) इति एवञ्जातीयकं वाक्यं सकृत् श्रूयमाणं ब्रह्मात्मत्व प्रतीतिं न उत्पादयेत् ततः तदेव आवर्त्यमानम् उत्पादयिष्यति इति का प्रत्याशा स्यात् / अथ उच्येत न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यम् अनुभावयिष्यति ब्रह्मात्मत्वम् इति / तथा अपि आवृत्ति आनर्थक्यमेव / सा अपि हि युक्तिः सकृत् प्रवृत्तैव स्वम् अर्थम् अनुभावयिष्यति / अथापि स्यात् उक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् / यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्र कम्पादि लिङ्गात् च शूलसद्भाव सामान्यमेव परः प्रतिपद्यते न विशेषम् अनुभवति यथा स एव शूली /
16 SK विशेष अनुभवः च अविद्याया निवर्तकः ततः तदर्थ आवृत्तिः इति चेत् /
17 SK न / असकृत् अपि तावत् मात्रे क्रियमाणे विशेषविज्ञान उत्पत्ति असंभवात् / न हि सकृत् प्रयुक्ताभ्यां शास्त्रयुक्तिभ्याम् अनवगतो विशेषः शतकृत्वः अपि प्रयुज्यमानाभ्याम् अवगन्तुं शक्यते / तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्यते यदि वा सामान्यमेव उभयथा अपि सकृत् प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्ति अनुपयोगः / न च सकृत् प्रयुक्ते शास्त्रयुक्ती कस्यचित् अपि अनुभवं न उत्पादयत इति शक्यते नियन्तुं विचित्रप्रज्ञत्वात् प्रतिपत्तृणाम् / अपि च अनेक अंशोपेते लौकिके पदार्थे सामान्य विशेषवत् एकेन अवधानेन एकम् अंशम् अवधारयति अपरेण अपरम् इति स्यात् अपि अभ्यास उपयोगो यथा दीर्घप्रपाठकग्रहणादिषु / न तु निर्विशेषे ब्रह्मणि सामान्य विशेषरहिते चैतन्यमात्रात्मके प्रमा उत्पत्तौ अभ्यासापेक्षा युक्त इति /
18 SK अत्र उच्यते - भवेत् आवृत्ति आनर्थक्यं तं प्रति यः तत्त्वमसि इति सकृत् उक्तमेव ब्रह्मात्मत्वम् अनुभवितुं शक्नुयात् / यस्तु न शक्नोति तं प्रत्युपयुज्यत एव आवृत्तिः / तथा हि छान्दोग्ये ऽतत्त्वमसि श्वेतकेतोऽ (छा. ६.८.७) इति उदिश्य ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. ६.८.७) इति पुनः परिचोद्यमानः तत् तत्
19 SK आदाशङ्का कारणं निराकृत्य तत्त्वमसि इति एव असकृत् उपदिशते / तथा च ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. ४.५.६) इत्यादि दर्शितम् /
20 SK ननु उक्तं सकृत् श्रुतं चेत् तत्त्वमसि वाक्यं स्वम् अर्थम् अनुभावयितुं न शक्नोति तत आवर्त्यमानम् अपि न एव शक्ष्यति इति /
21 SK न एष दोषः / नहि दृष्टे अनुपपन्नं नाम / दृश्यन्ते हि सकृत् श्रुतात् वाक्यात् मन्दप्रतीतं वाक्यार्थम् आवर्तयन्तः तत् तत् आभासव्युदासेन सम्यक् प्रतिपद्यमानाः / अपि च तत्त्वमसि इति एतत् वाक्यं त्वं पदार्थस्य तत् पदार्थभावम् आचष्टे / तत् पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणम् अभिधीयते ऽसत्यं ज्ञानमनन्त ब्रह्मऽ (तै. २.१.१) ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. ३.८.११) ऽअदृष्टं द्रष्टृऽ (बृ. ३.८.११) ऽअविज्ञातं विज्ञातृऽ (बृ. ३.८.११) ऽअजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम्ऽ (बृ. ३.८.८) इत्यादि शास्त्र प्रसिद्धम् / तत्र अजादिशब्दैः जन्मादयो भावविकारा निवर्तिताः / अस्थूलादिशब्दैः च स्थौल्यादयो द्रव्यधर्माः / विज्ञानादिशब्दैः च चैतन्यप्रकाशात्मकत्वम् उक्तम् / एष व्यावृत्तसर्वसंसारधर्मकः / अनुभावात्मको ब्रह्मसंज्ञकः तत् पदार्थो वेदान्त अभियुक्तानां प्रसिद्धः / तथा त्वंपदार्थः अपि प्रत्यगात्मा श्रोता देहात् आरभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेन अवधारितः / तत्र येषाम् एतौ पदार्थौ अज्ञान संशय विपर्यय प्रतिबद्धौ तेषां तत्वमसि इत्येतत् वाक्यं स्वार्थे प्रमां न उत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वात् वाक्यार्थस्य इति अतस्तात् प्रत्येष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः / यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथा अपि अध्यारोपितं तस्मिन् बहु अशत्वं देह इन्द्रिय मनो बुद्धि विषय वेदनादि लक्षणं तत्र एकेन अवधानेन एकम् अंशम् अपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः / तत् तु पूर्वरूपमेव आत्मप्रतिपत्तेः / येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धः अस्ति ते शक्नुवन्ति सकृत् उक्तमेव तत्त्वमसि वाक्यार्थम् अनुभवितुम् इति तान् प्रत्यावृत्ति आनर्थक्यम् इष्टमेव / सकृत् उत्पन्न एव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयति इति न अत्र कश्चित् अपि क्रमः अभ्युपगम्यते / सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिः भवेत् / बलवती हि आत्मनो दुःखत्वादि प्रतिपत्तिः /
22 SK अतो न दुःखित्वादि अभावं कश्चित् प्रतिपद्यत इति चेत् /
2 SK न / देहादि अभिमानवत् दुःखित्वादि अभिमानस्य मिथ्या अभिमानत्व उपपत्तेः / प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्य इति च मिथ्या अभिमानो दृष्टः / तथा बाह्यतरेषु अपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्य इत्यदि आरोपो दृष्टः / तथा दुःखित्वादि अभिमानः अपि स्यात् / देहादिवत् एव चैतन्यात् बहिः उपलभमानत्वात् दुःखित्वादीनां सुषुप्तादिषु च अननुवृत्तेः / चैतन्यस्य तु सुषुप्ते अपि अनुवृत्तिम् आमनन्ति ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यतिऽ (बृ. ४.३.२३) इत्यादिना / तस्मात् सर्वदुःखविनिर्मुक्त एकचैतन्यात्मकः अहम् इत्येष आत्मानुभवः / न च एवम् आत्मानम् अनुभवतः किञ्चित् अन्यत् कृत्यम् अवशिष्यते / तथा च श्रुतिः - ऽकिं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. ४.४.२२) इति आत्मविदः कर्तव्य अभावं दर्शयति / स्मृतिः अपि - ऽयस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः / आत्मन्येव च संतुष्टस्य कार्यं न विद्यतेऽ (गी. ३.१७) इति / यस्य तु न एषः अनुभवो द्रागिव जायते तं प्रत्यनुभवार्थ एव आवृत्ति अभ्युपगमः / तत्र अपि न तत्त्वमसि वाक्यार्थात् प्रच्याव्यावृत्तौ प्रवर्तयेत् / न हि वरघाताय कन्याम् उद्वाहयन्ति / नियुक्तस्य च अस्मिन् अधिकृतः अहं कर्ता मया इदं मन्दम् अप्रतिभानात् तं ब्रह्मप्रत्ययात् विपरीतप्रत्यय उत्पद्यते / यः तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन् एव वाक्यार्थे स्थिरीकार आवृत्त्यादि वाचो युक्त्या अभ्युपेयते / तस्मात् परब्रह्मविषये अपि प्रत्यये तत् उपाय उपदेशेषु आवृत्तिसिद्धिः
24 SK आदित्यस्यैकस्यैवोद्गीथे संपाद्योपासनान्मम त्वमेक एव पुत्रो ऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्यावर्तयतात् पृथगावर्तयस्वेत्यर्थः / तलोपश्छान्दसः / अत्र पर्यावृत्तिशब्दात्सिद्धवदुद्गीथध्यानस्यावृत्तिरुक्ता ततो ध्यानत्वसामान्यात्फलपर्यन्तत्वसामान्याद्वा लिङ्गात्सर्वत्र श्रवणमननध्यानेष्वावृत्तिसिद्धिरित्याह-लिङ्गाच्चेति / एवं तावत्सगुणनिर्गुणसाक्षात्कारसाधनेष्वावृत्तिरुक्ता तत्र सगुणध्यानादेरावृत्तिमङ्गीकृत्य निर्गुणश्रवणादिष्वावृत्तिमाक्षिपति-अत्राहेत्यादिना / वाक्यं निर्गुणसाक्षात्कारजनने शक्तं न वा, आद्ये सकृच्छ्रुतवाक्यात्साक्षात्कारसिद्धेरावृत्तिर्वृथेत्युक्त्वा द्वितीयं शङ्कते-सकृदिति / अशक्तस्यावृत्तावपि फलानुपपत्तिरित्याह-नेति / तथापीति स्वतो ऽशक्तस्य युक्तिसाहित्याच्छक्तावपीत्यर्थः / वाक्ययुक्तिभ्यां परोक्षज्ञाने जाते ऽप्यपरोक्षज्ञानार्थमावृत्तिरिति शङ्कते-अथापि स्यादिति / तयोः परोक्षज्ञानहेतुत्वस्वाभाव्यादावृत्तावपि न साक्षात्कारः स्यादिति परिहरति-नासकृदपीति / यदि तयोः साक्षात्कारसामर्थ्यं यदि वा परोक्षज्ञानसामर्थ्यमुभयथाप्यावृत्त्यनपेक्षेत्याह-तस्मादिति / प्रमातृवैचित्र्यादप्यावृत्त्यनियम इत्याह-नचेति / प्रमेयस्यानंशत्वाच्च तथेत्याह-अपिचेति / द्विविधो ह्यधिकारी स्यात्कश्चिज्जन्मान्तराभ्यासान्निरस्तसमस्तासंभावनादिप्रतिबन्धः कश्चित्तु प्रतिबन्धवानिति / तत्राद्यं प्रत्यावृत्तेरानर्थक्यमिष्टं, द्वितीयस्य तु प्रतिबन्धनिरासाय तदपेक्षेति समाधत्ते-अत्रोच्यत इति / आवृत्तेः प्रतिबन्धानिरासार्थत्वे लिङ्गमाह-तथाहीति / यथा षड्जादिस्वरभेदसाक्षात्कारशक्तमपि श्रोत्रमभ्यासमपेक्षते तथा ब्रह्मात्मसाक्षात्कारशक्तं वाक्यं तदपेक्षमित्यनुभवमाश्रित्याह-नहि दृष्टे ऽनुपपन्नं नामेति / तत्त्वंपदलक्ष्यार्थस्य दुर्बोधत्वादज्ञानप्रयुक्तसंशयादिप्रतिबन्धसंभवात्तद्ध्वंसायावृत्त् इरेष्टव्येति वाच्यलक्ष्यविवेकपूर्वकमाह-अपिचेत्यादिना / यदुक्तमनंशत्वात्प्रमेयस्यावृत्त्यानर्थक्यमिति, तत्राह-यद्यपीति / आरोपितांशनिरासाय न मे देहो नेन्द्रियमित्यभ्यासो युक्त इत्यर्थः / वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमाणज्ञानस्याभ्यासायोगाज्ज्ञानिनः श्रवणादिनियमायोगाच्चेत्यत आह-तत्त्विति / ज्ञानात्प्रागेव श्रवणादिव्यापारनियमनं क्रियत इत्यर्थः / अधिकं शङ्कितुमुक्तमनुवदति-येषामिति / अधिकं शङ्कते-सत्यमिति / दुःखित्वप्रत्यक्षविरोधाद्वाक्यादैक्यधीर्नोदेतीत्यर्थः / प्रत्यक्षस्य भ्रान्तित्वादविरोध इत्याह-नेत्यादिना / दुःखादयो नात्मधर्माः दृश्यत्वाद्देहादिवत्, नाप्यात्मस्वरूपाः आत्मनि सत्यप्यननुवृत्तित्वाद्व्यतिरेकेण चैतन्यवदित्यर्थः / निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्तित्वाद्वाक्यार्थानुभवो न विरुध्यत इत्याह-तस्मादिति / अनुभवे जाते ऽप्यावृत्त्याद्यनुष्ठानं किं न स्यादित्यत आह-न चैवमिति / रतिः कामः आत्मकामतया तृप्तिर्विषयतृष्णाक्षयः तेन संतोषे आत्मानन्दानुभव इति भेदः / नन्वावृत्तौ नियोगात्प्रवृत्तिर्वाच्या तथा च नियुक्तत्वबुद्धेरकर्त्रात्मधीर्न स्यादित्यत आह-तत्रापीति / आवृत्त्यभ्युपगमे ऽप्यकर्ताहमित्यनुभवात्प्रच्याव्य गुरुरन्यो वा नियोगान्न प्रवर्तयेदुक्तदोषादित्यर्थः / कथं तर्हि प्रवृत्तिरित्यत आह-यस्त्विति /
2 SK अप्रतिभानादसंभावनादिनेत्यर्थः / शिष्यबुद्ध्यनुसारेण त्रोतव्यादिवचोभिः प्रधानसिद्ध्यर्थमावृत्त्यादौ प्रवर्तयेदित्यर्थः
27 SK START Bस्Cओम्_४,१.२.३
28 SK २ आत्मत्व उपासन अधिकरणम् / सू. ३
4.1.3 SK आत्मेति तूपगच्छन्ति ग्राहयन्ति च | BBस्_४,१.३ |
30 SK यः शास्त्रोक्तविशेषण परमात्मा स किम् अहम् इति ग्रहीतव्यः किंवा मत् अन्य इति एतत् विचारयति / कथं पुनः आत्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति / उच्यते - अयम् आत्मशब्दो मुख्यः शक्यते अभ्युपगन्तुं सति जीव ईश्वरयोः अभेदसंभव इतरथा तु गौणः अयम् अभ्युपगन्तव्य इति मन्यते / किं तावत् प्राप्तं न अहम् इति ग्राह्यः / न हि अपहतपाप्मत्वादि गुणो विपरीत गुणत्वेन शक्यते ग्रहीतुं विपरीत गुणो च अपहतपाप्मत्वादि गुणत्वेन / अपहतपाप्मत्वादि गुणः च परमेश्वरः तद्विपरीतगुणः तु शारीरः / ईश्वरस्य च संसारि आत्मत्व ईश्वर अभावप्रसङ्गः / ततः शास्त्र आनर्थक्यम् / संसारिणः अपि ईश्वर आत्मत्वे अधिकारि अभावात् शास्त्र आनर्थक्यमेव, प्रत्यक्षादि विरोधः च / अन्यत्वे अपि तादात्म्य दर्शनं शास्त्रात् कर्तव्यं प्रतिमादिषु इव विष्णु आदिदर्शनम् इति चेत् काममेवं भवतु / न तु संसारिणो मुख्य आत्म ईश्वर इत्येतत् नः प्रापयितव्यम् / एवं प्राप्ते ब्रूमः - आत्म इत्येव परमेश्वरः प्रतिपत्तव्यः / तथा हि परमेश्वर प्रक्रियायां जाबाला आत्मत्वेन एव एतम् उपगच्छन्ति - ऽत्वं वा अहमस्मि भगवो देवतो ऽहं वै त्वमसि भगवो देवेतिऽ इति / तथा अन्ये अपि ऽअहं ब्रह्मास्मिऽ इत्येवम् आदय आत्मत्व उपगमा द्रष्टव्याः / ग्राहयन्ति च आत्मत्वेन एव ईश्वरं वेदान्तवाक्यानि ऽएष त आत्मा सर्वान्तरःऽ (बृ. ३.४.१) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ. ३.७.३) ऽतत्सत्यं स आत्मा तत्त्वमसिऽ (छा. ६.८.७) इति एवमादीनि / यत् उक्तं प्रतीक दर्शनम् इदं विष्णुप्रतिमा न्यायेन भविष्यति इति तत् अयुक्तं गौणत्व प्रसङ्गात् / वाक्य वैरूप्यात् च / यत्र हि प्रतीकदृष्टिः अभिप्रेयते सकृदेव तत्र वचनं भवति यथा - ऽमनो ब्रह्मऽ (छा. ३.१८.१) ऽआदित्यो ब्रह्मऽ (छा. ३.१९.१) इत्यादि / इह पुनः त्वम् अहम् अस्मि अहं च त्वम् असि इति आह, अतः प्रतीक श्रुति वैरूप्यात् अभेदप्रतिपत्तिः / भेददृष्टि अपवादात् च / तथा हि - ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमीति न स वेदऽ (बृ. १.४.१०) ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. ४.५.७) इति एवमाद्या भूयसी श्रुतिः भेददर्शनम् अपवदति /
31 SK यत् तु उक्तं न विरुद्धगुणयोः अन्योन्य आत्मसंभव इति /
32 SK न अयं दोषः / विरुद्धगुणताया मिथ्यात्व उपपत्तेः / यत्पुनः उक्तम् ईश्वर अभावप्रसङ्ग इति / तत् असत् /
33 SK शास्त्रप्रामाण्यात् अनभ्युपगमात् च / न हि ईश्वरस्य संसारि आत्मत्वं प्रतिपाद्यत इति अभ्युपगच्छामः किं तर्हि संसारिणः संसारित्व अपोहेन ईश्वरात्मत्वं प्रतिपिपायिषितम् इति / एवं च सति अद्वैत ईश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्या इति व्यवतिष्ठते / यत् अपि उक्तम् अधिकारि अभावः प्रत्यक्षादिविरोधः च इति / तत् अपि असत् / प्राक्प्रबोधात् संसारित्व अभ्युपगमात् / तद्विषयत्वात् च प्रत्यक्षादि व्यवहारस्य / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. २.४.१४) इत्यादिना हि प्रबोधे प्रत्यक्षादि अभावं दर्शयति /
34 SK प्रत्यक्षादि अभावे श्रुतेः अपि अभावप्रसङ्ग इति चेत् /
35 SK न / इष्टत्वात् / ऽअत्र पितापिता भवतिऽ (बृ. ४.३.२२) इति उपक्रम्य ऽवेदा अवेदाःऽ (बृ. ४.३.२२) इति वचनात् इष्यत एव अस्माभिः श्रुतेः अपि अभावः प्रबोधे /
36 SK कस्य पुनः अयम् अप्रबोध इति चेत् /
37 SK य- त्वं पृच्छसि तस्य त इति वदामः /
3 SK ननु अहम् ईश्वर एव उक्तः श्रुत्या, यदि एवं प्रतिबुद्धः असि न अस्ति कस्यचित् अप्रबोधः / यः अपि दोषः चोद्यते कैश्चित् अविद्या किल आत्मनः सद्वितीयत्वात् अद्वैत अनुपपत्तिः इति सः अपि एतेन प्रत्युक्तः / तस्मात् आत्म इति एव ईश्वरे मनो दधीत
3 SK आत्मेति तूपगच्छन्ति ग्राह्यन्ति च / पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह-य इति / शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति-कथमिति / भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह-उच्यत इति / अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलं, यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसंगतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह संगतिः / विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह-नाहमिति / किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति-ईश्वरस्य चेत्यादिना / एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते-अन्यत्वे ऽपीति / एकत्वध्यानमस्मदिष्टमेव / एकत्वं तु नास्तीत्याह-काममिति / अभेदश्रुतीनां फलवदपूर्वार्थतात्पर्येण गौणत्वायोगाद्भेदश्रुतीनां कल्पितभेदानुवादित्वात्प्रत्यक्षादेरपि तद्विषयत्वाद्विम्बप्रतिबिम्बयोरिव विरुद्धधर्माणां मिथ्यात्वान्मुख्यमैक्यमिति सिद्धान्ययति-एवमित्यादिना / ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीवस्येश्वरत्वम् / न चैवमधिकार्यभावः / एकत्वप्रबोधात्प्रागधिकारिभेदाङ्गीकारादित्याह-यत्पुनरुक्तमित्यादिना / वेद्ःअसत्यत्वश्रद्धालुः शङ्कते-प्रत्यक्षाद्यभाव इति / वर्णेषु क्रमस्वरयोरभावादुपलब्धध्वनिस्थयोरारोपो वाच्यस्तथा चारोपितक्रमस्वरविशिष्टवर्णात्मकवेदस्य मिथ्यात्वं दुर्वारं, वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह-नेति / अविद्यामाक्षिपति-कस्येति / प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धेस्त्वदाक्षेपानुपपत्तिरित्याह-यस्त्वमिति / अज्ञानमूलत्वात्प्रश्नादेरिति भावः / सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते-नन्विति / अभेदज्ञानात्प्राक् चिन्मात्रस्य तवैवाज्ञानाश्रयत्वमनुभवसिद्धाज्ञानस्यापलापायोगात् / ज्ञाने त्वनिर्वाच्यस्य तस्य बाधान्नाश्रयापेक्षेत्याह-यद्येवमिति / अनिर्षाच्यत्वेन दोषान्तरमपि निरस्तमित्याह-यो ऽपीति
41 SK START Bस्Cओम्_४,१.३.४
42 SK ३ प्रतीक अधिकरणम् / सू. ४
4.1.4 SK न प्रतीके न हि सः | BBस्_४,१.४ |
4 SK ऽमनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेतिऽ (छा. ३.१८.१) ऽतथा आदित्यो ब्रह्मेत्यादेशःऽ (छा. ३.१९.१) ऽस यो नाम ब्रह्मेत्युपास्तेऽ (छा. ७.१.५) इति एवमादिषु प्रतीक उपासनेषु संशयः - किं तेषु अपि आत्मग्रहः कर्तव्यो न वा इति / किं तावत् प्राप्तम् / तेषु अपि आत्मग्रह एव युक्तः / कस्मात् / ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् प्रतीकानाम् अपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्याम् आत्मत्व उपपत्तेः इति / एवं प्राप्ते ब्रूमः - न प्रतीकेषु आत्म मतिं बध्नीयात् / न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेनाकलयेत् / यत् पुनः ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततः च आत्मत्वम् इति / तत् असत् / प्रतीक अभावप्रसङ्गात् / विकारस्वरूप उपमर्देन हि नामादि जातस्य ब्रह्मत्वमेव आश्रिते भवति / स्वरूप उपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा / न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्टि उपदेशेषु आत्मदृष्टिः कल्प्या / कर्तृत्वादि अनिराकरणात् / कर्तृत्वादि संवर्ग संसार धर्मनिराकरणे हि ब्रह्मण आत्मत्व उपदेशः / तत् अनिराकरणेन च उपासनविधानम् / अतः च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो न उपपद्यते / न हि रूचक स्वस्तिकयोः इतरेतर आत्मत्वम् अस्ति / सुवर्ण आत्मत्वेन इव तु ब्रह्म आत्मत्वेन एकत्वे प्रतीक अभावप्रसङ्गम् अवोचाम / अतो न प्रतीकेषु आत्मदृष्टिः क्रियते
45 SK न प्रतीके नहि सः / उभयथा ध्यानसंभवात्संशयः / यथा ब्रह्मण्यभेदसत्तवादहङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः / अत्र प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः / सिद्धान्ते तु विशेषसिद्धिरिति फलम् / एतदारभ्याधिकरणत्रयस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मैक्यध्यानप्रसङ्गागतत्वादिति विवेकः / किं प्रतीकेष्वात्मत्वानुभवबलादहङ्ग्रह उत वस्तुतो जीवाभेदसत्त्वात् / नाद्य इत्याह-नहि स इति / नानुभवतीत्यर्थः / द्वितीयमप्यसिद्ध्या दूषयति-यत्पुनरिति / विकारस्य ब्रह्मणा स्वरूपैक्यायोगाद्बाधेनैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः / किञ्च कर्तृत्वाद्यबाधेनोपास्तिविधिप्रवृत्तिर्वाच्या बाधे तदयोगात् / तथाच बाधमूलब्रह्मैक्यज्ञानं द्वारीकृत्य प्रतीकेष्वहङ्ग्रहोपास्तिकल्पना न युक्ता, बाधविरोधादित्याह-नच ब्रह्मण इति / अतो जीवप्रतीकयोः स्वरूपभेदादहङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह-अतश्चेति /
4 SK यथा रुचकस्वस्तिकयोः सुवर्णात्मनैक्ये ऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मात्मनैक्ये ऽपि भेदः समः / यदिच धर्मिव्यतिरेकेण तयोरभावनिश्चयाद्वस्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः
48 SK START Bस्Cओम्_४,१.४.५
49 SK ४ ब्रह्म दृष्टि अधिकरणम् / सू. ५
4.1.5 SK ब्रह्मदृष्टिर् उत्कर्षात् | BBस्_४,१.५ |
51 SK तेषु एव उदाहरणेषु अन्यः संशयः - किम् आदित्यादि दृष्टयो ब्रह्मणि अध्यसितव्याः किंवा ब्रह्मदृष्टिः आदित्यादिषु इति / कुतः संशयः -सामानाधिकरम्ये कारण अनवधारणात् / अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यम् उपलभ्यते / आदित्यो ब्रह्म प्राणो ब्रह्म विद्युत् ब्रह्म इत्यादि समान विभक्ति निर्देशात् / न च अत्र आञ्जसं सामानाधिकरण्यम् अवकल्पते / अर्थान्तरवचनत्वात् ब्रह्म आदित्यादिशब्दानाम् / न हि भवति गौः अश्व इति सामानाधिकरण्यम् /
52 SK ननु प्रकृतिविकारभावात् ब्रह्म आदित्यानां मृत् शरावादिवत् सामानाधिकरण्यं स्यात् /
53 SK न इति उच्यते / विकारप्रविलयो हि एवं प्रकृतिसामानाधिकरण्यात् स्यात् / ततः च प्रतीक अभावप्रसङ्गम् अवोचाम / परमात्म वाक्यं च इदं तदानीं स्यात् ततः च उपासन अधिकारो बाध्येत / परिमितविकार उपादानं च व्यर्थम् / तस्मात् ब्राह्मणः अग्निः वैश्वानर इत्यादिवत् अन्यत्र अन्यदृष्टि अध्यासे सति क्व किन्दृष्टिः अध्यस्यताम् इति संशयः / तत्र अनियमो नियमकारिणः शास्त्रस्य अभावात् इत्येवं प्राप्तम् / अथवा आदित्यादि दृष्टय एव ब्रह्मणि कर्तव्या इति एवं प्राप्तम् / एवं हि आदित्यादि दृष्टिभिः ब्रह्म उपासितं भवति ब्रह्म उपासनं च फलवत् इति शास्त्रमर्यादा / तस्मात् न ब्रह्मदृष्टिः आदित्यादिषु इति / एवं प्राप्ते ब्रूमः - ब्रह्मदृष्टिः एव आदित्यादिषु स्यात् इति / कस्मात् / उत्कर्षात् / एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति / उत्कृष्टदृष्टेः तेषु अध्यासात् / तथा च लौकिको न्यायो अनुगतो भवति / उत्कृष्टदृष्टिः हि निकृष्टे अध्यसितव्य इति लौकिको न्यायः / यथा राजदृष्टिः क्षत्तरि / स च अनुसर्तव्यः / विपर्यये प्रत्यवाय प्रसङ्गात् / न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् /
54 SK ननु शास्त्रप्रामाण्यात् अनाशङ्कनीयः अत्र प्रत्यवाय प्रसङ्गो न च लोकिकेन न्यायेन शास्त्रीया दृष्टिः नियन्तुं युक्त इति /
5 SK अत्र उच्यते - निर्धारिते शास्त्रार्थ एतत् एवं स्यात् / संदिग्धे तु तस्मिन् निर्णयं प्रति लोकिकः अपि न्याय आश्रीयनाणो न विरुध्यते / तेन च उत्कृष्टदृष्टि अध्यासे शास्त्रार्थे अवधार्यमाणे निकृष्टदृष्टिम् अध्यस्यन् प्रत्यवेयात् इति श्लिष्यते / प्राथम्यात् च आदित्यादि शब्दानां मुख्यार्थत्वम् अविरोधात् गृहीतव्यम् / तैः स्वार्थवृत्तिभिः अवरुद्धायां बुद्धौ पश्चात् अवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्य असंभवात् ब्रह्मदृष्टिविधानार्थत एव अवतिष्ठते / इतिपरत्वात् अपि ब्रह्मशब्दस्य एष एव अर्थो न्याय्यः / तथा हि ऽब्रह्मेत्यादेशःऽ ऽब्रह्मेत्युपासीतऽ ऽब्रहमेत्युपास्तेऽ इति च सर्वत्र इतिपरं ब्रह्मशब्दम् उच्चारयति शुद्धान् तु आदित्यादि शब्दान् / तत- च यथा शुक्तिकां रजतम् इति प्रत्येति इत्यत्र शुक्तिवचन एव शुक्तिका शब्दो रजतशब्दः तु रजतप्रतीति लक्षणार्थः / प्रत्येत्येव हि केवलं रजतम् इति न तु तत्र रजतम् अस्ति / एवम् अत्र अपि आदित्यादीन् ब्रह्म इति प्रतीयात् इति गम्यते / वाक्यशेषः अपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान् दर्शयति - ऽस य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽ (छा. ३.१९.४), ऽयो वाचं ब्रह्मेत्युपास्तेऽ (छा. ७.२.२), ऽयः संकल्पः ब्रह्मेत्युपास्तेऽ (छा. ७.४.३) इति च / यत् तु उक्तं ब्रह्म उपासनाम् एव अत्र आदरणीयं फलत्वाय इति / तत् अयुक्तम् / उक्तेन न्यायेन आदित्यादीनाम् एव उपास्यत्व अवगमात् / फलं तु अतिथ्यादि उपासन इव आदित्यादि उपासने ऽपि ब्रह्म एव दास्यति सर्व अध्यक्षत्वात् / वर्णितं च एतत् ऽफलमत उपपत्तेःऽ (ब्र.सू. ३.२.३८) इति अत्र / ईदृशं च अत्र ब्रह्मण उपास्यत्वं यत् प्रतीकेषु तत् दृष्टि अध्यारोपणं प्रतिमादिषु इव विष्णु आदीनाम्
5 SK ब्रह्मदृष्टिरुत्कर्षात् / एकविषयत्वं संगतिः / प्रश्नपूर्वकं संशयबीजमाह-कुत इत्यादिना / सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यं, ब्रह्मविकारयोर्गवाश्वयोरिवाभेदायोगात् / नापि प्रकृतिविकारभावनिबन्धनं, वाक्यस्य विकारबाधेन ब्रह्मपरत्वापातात् / न चेष्टापत्तिः / नाम ब्रह्मेत्युपासीतेति विधिश्रुतिविरोधात्, परिमितनामग्रहणानर्थक्यापाताच्च / ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् / अतः परिशेषादध्यास एव सामानाधिकरण्यकारणम् अध्यासे च नियामकाभावात्संशय इत्यर्थः / उत्कृष्टनिकृष्टयोर्निकृष्टमप्युपास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह-अथवेति / अत्र विकारदृष्टिभिर्ब्रह्मोपास्तिसिद्धिः फलं, सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फलवत्त्वासिद्धेर्विकारा एवोत्कृष्टब्रह्मदृष्ट्योपास्या इति फलम् / किञ्च लौकिकन्यायाविरुद्धार्थसंभवे विरुद्धार्थो न ग्राह्यः प्रत्यवायप्रसङ्गात् / किञ्च प्रथमश्रुतानामादित्यादिपदानामसंजातविरोधितया मुख्यार्थत्वग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टिलक्षणाग्रहः, तथा चादित्यादयो ब्रह्मदृष्ट्योपास्या इत्येव वाक्यार्थ इत्याह-प्राथम्याच्चेति / ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह-इतिपरत्वादिति / इतिशब्दशिरस्कः शब्दः समभिव्याहृतक्रियालक्षक इति लोके प्रसिद्धमित्यर्थः / द्वितीयाश्रुतेश्चादित्यादीनामेवोपास्तिकर्मत्वमित्याह-वाक्यशेषो ऽपीति / उत्कृष्टमेवोपास्यमिति न्यायमुक्तमनुवदति-यत्तूक्तमिति / द्वितीयेतिश्रुतिभ्यां लौकिकन्यायाच्चोक्तन्यायबाध इत्याह-तदिति / ब्रह्मणो ऽनुपास्यत्वे कथं फलदातृत्वं, तत्राह-फलं त्विति / किञ्च यद्दृष्ट्या विकारस्योत्कर्षः तस्य ब्रह्मणो विशेषणत्वे ऽप्युपास्यत्वं चातीत्याह-ईदृशं चेति
58 SK START Bस्Cओम्_४,१.५.६
59 SK आदित्यादिमति अधिकरणम् / सू. ६
4.1.6 SK आदित्यादिमतयश् चाङ्ग उपपत्तेः | BBस्_४,१.६ |
61 SK ऽय एवासौ तपति तमुद्गीथमुपासीतऽ (छा. १.३.१), ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.२.१), ऽवाचि सप्तविधं सामोपासीतऽ (छा. २.८.१), ऽइयमेवर्गग्निः सामऽ (छा. १.६.१) इति एवमादिषु अङ्गावबद्धेषु उपासनेषु संशयः किम् आदित्यादिषु उद्गीथादि दृष्टयो विधीयन्ते किं वा उद्गीथादिषु एव आदित्यादि दृष्टय इति / तत्र अनियमो नियमकारण अभावात् इति प्राप्तम् / न हि अत्र ब्रह्मण इव कस्यचित् उत्कर्षविशेषः अवधार्यते ऽब्रह्म हि समस्त जगत् कारणत्वात् अपहतपाप्मत्वादि गुणयोगात् च आदित्यादिभ्य उत्कृष्टम् इति शक्यम् अवधारयितुं न तु आदित्य उद्गीथादीनां विकारत्व अविशेषात् कञ्चित् उत्कर्षविशेष अवधारणे कारणम् अस्ति / अथवा नियमेन उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् / कस्मात् / कर्मात्मकत्वात् उद्गीथादीनां कर्मणः च फलप्राप्तिप्रसिद्धेः / उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति / तथा च ऽइयमेवर्गग्निः सामऽ(छा. १.६.१) इति अत्र ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा. १.६.१) इति ऋक्शब्देन पृथिवीं निर्दिशति सामशब्देन अग्निं तत् च पृथिवि अग्न्योः रृक् सामदृष्टिचीकीर्षायाम् अवकल्पते न ऋक् सामयोः पृथिवि अग्निदृष्टि चिकीर्षायाम् / क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते न राजनि क्षत्तृशब्दः / अपि च ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.२.१) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यम् इति प्रतीयते / ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा. २.११.१) इति च एतदेवं दर्शयति / प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्म अध्यस्तम् ऽआदित्यो ब्रह्मेत्यादेशःऽ (छा. ३.१९.१) इत्यादिषु / प्रथमनिर्दिष्टाः च पृथिव्यादयः चरमनर्दिष्टा हिङ्कारादयः ऽपृथिवी हिङ्कारःऽ (छा. २.२.१) इत्यादि श्रुतिषु / अतः
62 SK अनङ्गेषु आदित्यादिषु अङ्गम् अतिनिक्षेप इति / एवं प्राप्ते ब्रूमः - आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् / कुतः - उपपत्तेः / उपपद्यते हि एवम् अपूर्वसंनिकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः / ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. १.१.१०) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति / भवतु कर्मसमृद्धिफलेषु एवं, स्वतन्त्रफलेषु तु कथम् ऽय एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्तेऽ (छा. २.२.३) इत्यादिषु / तेषु अपि अधिकृत अधिकारात् प्रकृत अपूर्वसंनिकर्षेण एव फलकल्पना युक्ता गोदोहनादीनियमवत् / फलात्मकत्वात् च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्य उत्कर्ष उपपत्तिः आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु / अपि च ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. १.१.१) ऽखल्वेतस्यैवाक्षरस्योपव्याख्यातं भवतिऽ (छा. १.१.१०)
6 SK इति च उद्गीथमेव उपास्यत्वेन उपक्रम्य आदित्यादिमतीः विदधाति / यत् तु उक्तम् उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्ति इति / तत् अयुक्तम् / स्वयमेव उपासनस्य कर्मत्वात् फलवत्त्व उपपत्तेः / आदित्यादिभावेन अपि च दृश्यमानानाम् उद्गीथादीनां कर्मात्मकत्वान् अपायात् / ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा. १.६.१) इति तु लाक्षणिक एव पृथिवी अग्न्योः ऋक् सामशब्दप्रयोगः / लक्षणा च यथासंभवं संनिकृष्टेन विप्रकृष्टेन वा स्वार्थसंबन्धेन प्रवर्तते / तत्र यदि अपि ऋक् सामयोः पृथिवी अग्न्योः च संनिधानयोरेव एष ऋक् सामशब्दप्रयोग ऋक् सामसंबन्धात् इति निश्चीयते / क्षत्तृशब्दःअपि हि कुतश्चित् कारणात् राजानम् उपसर्पन् न निवारयितुं पार्यते / ऽइयमेवर्कऽ(छा. १.६.१) इति च यथा अक्षरन्यासम् ऋच एव पृथिवीत्वम् अवधारयति / पृथिव्या हि अक्त्वे अवधार्यमाण इयम् ऋक् एव इत्यक्षरन्यासः स्यात् / ऽय एवं विद्वान्साम गायतिऽ (छा. १.७.७) इति च अङ्गाश्रयमेव विज्ञानम् उपसंहरति न पृथिव्यादि आश्रयम् / तथा ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.२.१) इति यदि अपि सप्तमीनिर्दिष्टा लोकाः तथापि साम्न्येव ते अध्यस्येरन् द्वितीयानिर्देशेन साम्न उपास्यत्व अवगमात् / सामनि हि लोकेषु अध्यस्यमानेषु साम लोकात्मन उपासितं भवति / अन्यथा पुनः लोकाः सामा आत्मन उपासिताः स्युः / एतेन ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा. २.११.१) इत्यादि व्याख्यातम् / यत्र अपि तुल्यो द्वितीयनिर्देशः - ऽअथ खल्वमुमादित्यं सप्तविधं सामोपासीतऽ (छा. २.९.१) इति, तत्र अपि ऽसमस्तस्य खलु साम्न उपासनं साधुऽ (छा. २.८.१) ऽइति च पञ्चविधस्यऽ (छा. २.७.२ ) ऽअथ सप्तविधस्यऽ (छा. २.८.१) इति च साम्न एव उपास्यत्व उपक्रमात् तस्मिन् एव आदित्यादि अध्यासः / एतस्मात् एव च साम्न उपास्यत्व अवगमात् ऽपृथिवी हिङ्कारःऽ (छा. २.२.१) इत्यादिनिर्देशविपर्यये अपि हिङ्कारादिषु एव पृथिव्यादि दृष्टिः / तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषु उद्गीथादिषु क्षिप्येरन् इति सिद्धम्
64 SK आदित्यादि / पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशं, साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांश सामेति भेदः / अत विशेषाज्ञानात्संशयः / पूर्ववदुत्कर्षनवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह-तत्रेति / सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह-अथवेति / तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् / किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह-तथाचेयमेवेति / तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः / ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितं, तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह-क्षत्तरीति / अतः प्रयोगान्यथानुपपत्त्य पृथिव्यग्न्योरृसामदृष्टिरित्यर्थः / विषयसप्तम्या चैवमेवेत्याह-अपिचेति / गायत्रसंज्ञं साम / किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह-प्रथमेति / अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति-एवमिति / उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः / ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसंनिकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तये ऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते-भवत्विति / यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतो ऽङ्गानामेवोपास्यत्वमिति समाधत्ते-तेष्वपीति / उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति-फलात्मेति / उपक्रमबलाच्चाङ्गमुपास्यमित्याह-अपिचेति / रसतमत्वाद्ःइगुणाद्युपसंख्यानमित्यर्थः / द्वितीयं पूर्वपक्षं दूषयति-यत्तूक्तमित्यादिना / कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः / सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह-आदित्यादिभावेनेति / माणवके ऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः / प्रयोगानुपपत्तिमुक्तां निरस्यति-तदेतदिति / लक्षणाबीजं संबन्धमाह-लक्षणा चेति / गङ्गायां घोष इत्यत्र संनिकृष्टसंयोगसंबन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासंबन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षे ऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासंबन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः / ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते-तत्र यद्यपीति / तथापि ऋक्सामसंबन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसंनिधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तभेददार्ढ्यायेत्यर्थः / तर्हि क्षत्तृशब्दो ऽपि राजनि स्यादित्यत आह-क्षत्रिति / स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः / क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः / ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह-इयमिति / सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति-तथा लोकेष्विति / सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः / एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः / ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह-यत्रापीति / ऽसाम्न उपासनं साधुऽइत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा ऽइति तु पञ्चविधस्योपासनम्ऽइत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः / यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह-एतस्मादेवेति /
6 SK यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः
67 SK START Bस्Cओम्_४,१.६.७
68 SK ६ आसीन अधिकरणम् / सू. ७-१०
4.1.7 SK आसीनः संभवात् | BBस्_४,१.७ |
7 SK कर्माङ्गसंबद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता न अपि सम्यक् दर्शने वस्तुतन्त्रत्वात् विज्ञानस्य / इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एव इति चिन्तयति / तत्र मानसत्वात् उपासनस्य अनियमः शरीरस्थितेः इति / एवं प्राप्ते ब्रवीति - आसीन एव उपासीत इति / कुतः - संभवात् / उपासनं नाम समानप्रत्ययप्रवाहकरणं न च तत् गच्छतो धावतो वा संभवति गत्यादीनां चित्तविक्षेपकत्वात् / तिष्ठतः अपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति / शयानस्य अपि अकस्मात् एव निद्रया अभिभूयेत / आसीनस्य तु एवञ्जातीयको भूयान् दोषः सुपरिहर इति संभवति तस्य उपासनम्
71 SK आसीनः संभवात् / कर्मण उत्थितेनोपविष्टेन वानेकधानुष्ठानदर्शनात्संशयः कर्माङ्गाश्रितोपासनानामासननियमानपेक्षाणामनुष्ठानप्रकार उक्तस्तद्वदङ्गानाश्रितोपासनेष्वप्यनियम इति पूर्वपक्षयति-तत्रेति /
7 SK अत्रासनाभ्यासासिद्धिः, सिद्धान्ते तु मनोदेहयोर्भिन्नत्वे ऽपि देहचाञ्चल्ये मनसो ऽनवस्थानस्य अनुभवसिद्धत्वान्मनोव्यापारेषूपासनेषु देहस्थैर्यार्थमासननियमापेक्षेति फलभेदः / तिष्ठत उत्थितस्य
74 SK START Bस्Cओम्_४,१.६.८
4.1.8 SK ध्यानाच् च | BBस्_४,१.८ |
8 SK अपि च ध्यायति अर्थं एष यत् समानप्रत्ययप्रवाहकरणम् / ध्यायतिः च प्रशिथिल अङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषय आक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते ध्यायति बको ध्यायति प्रोषितबन्धुः इति / आसीनः च अनायासो भवति / तस्मात् अपि आसीनकर्म उपासनम्
8 SK किञ्च ध्यातार आसीन एव स्युः ध्यायतिशब्दार्हत्वाद्बकादिवदित्याह-ध्यानाच्चेति
79 SK START Bस्Cओम्_४,१.६.९
4.1.9 SK अचलत्वं चापेक्ष्य | BBस्_४,१.९ |
9 SK अपि च ऽध्यायतीव पृथिवीऽ (छा. ७.६.१) इति अत्र पृथिव्यादिषु अचलत्वमेव अपेक्ष्य ध्यायतिवादो भवति तत् च लिङ्गम् उपासनस्य आसीनकर्मत्वे
9 SK अत्रैव श्रौतं दृष्टान्तमाह-अचलत्वं चेति
84 SK START Bस्Cओम्_४,१.६.१०
4.1.10 SK स्मरन्ति च | BBस्_४,१.१० |
10 SK स्मरन्ति अपि च शिष्टा उपासन अङ्गत्वेन आसनम् - ऽशुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनःऽ (गी. ६.११) इत्यादिना / अत एव पद्मकादीनाम् आसनविशेषाणाम् उपदेशो योगशास्त्रे
10 SK ब्रह्मस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह-स्मरन्ति चेति
89 SK START Bस्Cओम्_४,१.७.११
90 SK ७ एकाग्रता अधिकरणम् / सू. ११
4.1.11 SK यत्रैकाग्रता तत्राविशेषात् | BBस्_४,१.११ |
92 SK दिक् देशकालेषु संशयः - किम् अस्ति कश्चित् नियमो न अस्ति वा इति / प्रायेण वैदिकेषु आरम्भेषु दिगादिनियमदर्शनात् स्यात् इह अपि कश्चित् नियम इति यस्य मतिः तं प्रति आह दिक् देशकालेषु अर्थलक्षण एव नियमः / यत्र एव अस्य दिशि देशे काले वा मनसः सोकर्येण एकाग्रता भवति तत्र एव उपासीत प्राचीदिक् पूर्वाह्न प्राचीन प्रवणादिवत् विशेष अश्रावणात् / एकाग्रतया इष्टायाः सर्वत्र अविशेषात् /
11 SK ननु विशेषम् अपि केचित् आमनन्ति - ऽसमे शुचौ खर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः / मनोनुकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्ऽ (श्वे. २.१०) इति यथा इति / उच्यते - सत्यम् अस्ति एवञ्जातीयको नियमः / सति तु एतस्मिन् तद्गतेषु विशेषनियम इति सुहृत् भूत्वा आचार्य आचष्टे / ऽमनोनुकूलेऽ इति च एषा श्रुतिः यत्र एकाग्रता तत्र एव इति एतत् एव दर्शयति
11 SK यत्रैकाग्रता तत्राविशेषात् / तेष्वेवाङ्गानाश्रितोपासनेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमो ऽस्ति न वेत्युभयथासंभवात्संशयः / एकविषयत्वं संगतिरूपास्तीनां विहितत्वाद्यागादिवदस्ति दिगादिनियम इति पूर्वपक्षः / अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः / ध्येये चित्तैकाग्र्यस्य प्राधान्यात्प्रधानाक्षिप्तदेशादिग्रहणस्योचितत्वादिविवेकः / अर्थलक्षण एवेति / ऐकाग्र्यफललिङ्गक एवेत्यर्थः / प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतो ऽनुमानमप्रयोजकमिति भावः / विशेषाश्रवणमसिद्धमिति शङ्कते-ननु विशेषमपीति / शर्कराः सूक्ष्मपाषाणाः / जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् / चक्षुःपीडनो मशकः / वाचनिकं समदेशादिनियममङ्गीकृत्य चित्तैकाग्र्यविरुद्धेषु देशादिगतेषु प्राचीनप्रवणत्वादिष्वनादर इति सुहृद्भावेन सूत्रकृदुपदिशति / देशाद्याग्रहे चित्तविक्षेपात्समाधिभङ्गः स्यात्स माभूदिति
96 SK START Bस्Cओम्_४,१.८.१२
97 SK ८ आप्रायण अधिकरणम् / सू. १२
4.1.12 SK आ प्रयाणात् तत्रापि हि दृष्टम् | BBस्_४,१.१२ |
12 SK आवृत्तिः सर्व उपासनेषु आदर्तव्य इति स्थितम् आद्ये अधिकरणे / तत्र यानि तावत् सम्यक् दर्शनार्थानि उपासनानि तानि अवघातादिवत् कार्यपर्यवसानानि इति ज्ञातमेव एषाम् आवृत्तिपरिमाणम् / न हि सम्यक् दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चित् शासितुं शक्यम् / अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्य अविषयत्वात् / यानि पुनः अभ्युदयफलानि तेषु एषा चिन्ता किं कियन्तञ्चित् कालं प्रत्ययम् आवर्त्य उपरमेत् उत यावज्जीवम् आवर्तयेत् इति / किं तावत् प्राप्तम् / कियन्तञ्चित् कालं प्रत्ययम् अभ्यस्य उत्सृजेत् आवृत्तिविशिष्टस्य उपासनशब्दार्थस्य कृतत्वात् इति / एवं प्राप्ते ब्रूमः - आप्रायणात् एव आवर्तयेत् प्रत्ययम् / अन्त्यप्रत्ययवशात् अदृष्टफलप्राप्तेः / कर्माणि अपि हि जन्मान्तर उपभोग्यं फलम् आरभमाणानि तत् अनुरूपं भावनाविज्ञानं प्रायणकाल आक्षिपन्ति, ऽसविज्ञानो भवति सविज्ञानमेवान्ववक्रामतिऽ ऽयच्चित्तस्तेनैष प्राणमायाति, प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयतिऽ इति च एवमादिश्रुतिभ्यः / तृणजलूकानिदर्शनात् च / प्रत्ययाः तु एते स्वरूप अनुवृत्तिं मुक्त्वा किम् अन्यत् प्रायणकालभावि भावनाविज्ञानम् अपेक्षेरन् / तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययः तेषु अप्रायणात् आवृत्तिः / तथा च श्रुतिः -ऽस यावत्क्रतुरयमस्माल्लोकात्प्रैतिऽ इति प्रायणकाले अपि प्रत्यय अनुवृत्तिं दर्शयति / स्मृतिः अपि - ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय सदा तद्भावभावितःऽ (गी. ८.६) इति ऽप्रयाणकाले मनसाचलेनऽ (गी. ८.१०) इति च / ऽसो ऽन्तवेलायामेतत्त्रयं प्रतिपद्येतऽ इति च मरणवेलायाम् अपि कर्तव्यशेषं श्रावयति
100 SK आप्रायणात् / व्यवहितेनास्य संबन्धमाह-आवृत्तिरिति / अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः / अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह-यानि पुनरिति / यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम्ःअ इति पूर्वपक्षः / मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति-एवमिति / उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह-सविज्ञान इति / भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः / यस्मिंल्लोके चित्तं संकल्पो ऽस्येति यच्चित्तस्तेन संकल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् / तेज उदानः / आत्मा जीवः / जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः / अस्त्विदमन्त्यफलं विज्ञानं कर्मणमिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह-प्रत्ययास्त्विति /
12 SK उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानं, नत्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरपेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः / क्रतुर्ध्यानम् / उपासक एतन्त्रयम् ऽअक्षितमसिऽ, ऽअच्युतमसिऽ, ऽप्राणसंशितमसिऽइति मन्त्रत्रयं मरणकाले ऽपि स्मरेदित्यर्थः
102 SK END Bस्Cओम्_४,१.८.१२
103 SK START Bस्Cओम्_४,१.९.१३
104 SK ९ तत् अधिगम अधिकरणम् / सू. १३
4.1.13 SK तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् | BBस्_४,१.१३ |
106 SK गतः तृतीयशेषः / अथ इदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते / ब्रह्म अधिगमे सति तत् विपरीतफलं दुरितं क्षीयते न क्षीयते वा इति संशयः / किं तावत् प्राप्तम् / फलार्थत्वात् कर्मणः फलम् अदत्वा न संभाव्यते क्षयः / फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता / यदि तदन्तरेण एव फल उपभोगम् अपवृज्येत श्रुतिः कदर्थिता स्यात् / स्मरन्ति च ऽनहि कर्म क्षीयतेऽ इति /
107 SK ननु एवं सति प्रायश्चित्त उपदेशःअनर्थकः प्राप्नोति /
108 SK न एष दोषः / प्रायश्चित्तानां नैमित्तिकत्व उपपत्तेः गृहदाह इष्ट्यादिवत् / अपि च प्रायश्चित्तानां दोषसंयोगेन विदानात् भवेत् अपि दोषक्षपणार्थता न तु एवं ब्रह्मविद्यायां विधानम् अस्ति /
109 SK ननु अनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्य अवश्यं भोक्तव्यतावात् अनिर्मोक्षः स्यात् /
110 SK न इति उच्यते / देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति / तस्मात् न ब्रह्म अधिगमे दुरितनिवृत्तिः इति / एवं प्राप्ते ब्रूमः- तत् अधिगमे ब्रह्म अधिगमे सति उत्तरपूर्वयोः अघयोः अश्लेषविनाशौ भवतः उत्तरस्य अश्लेषः पूर्वस्य विनाशः / कस्मात् / तत् व्यपदेशात् / तथा हि ब्रह्मविद्या प्रक्रियायां संभाव्यमानसंबन्धस्य आगामिनो दुरितस्य अनभिसंबन्धं विदुषो व्यपदिशति - ऽयथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽ (छा.४.१४.३) इति / तथा विनाशम् अपि पूर्व उचितस्य दुरितस्य व्यपदिशति - ऽतद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ (छा. ५.२४.३) इति / अयम् अपरः कर्मक्षयव्यपदेशो भवति - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु. २.२.८) इति / यत् उक्तम् अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यात् इति /
13 SK न एष दोषः / न हि वयं कर्मणः फलदायिनीं शक्तिम् अवजानीमहे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः / शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्ध अप्रतिबन्धयोः अपि / न हि कर्म क्षीयत इति एतत् अपि स्मरणम् औत्सर्गिकं न भोगात् ऋते कर्म क्षीयत तदर्थत्वात् इति / इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः ऽसर्वं पाप्मानं तरतिऽ ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनमेव वदऽ इत्यादि श्रुतिस्मृतिभ्यः / यत् तु उक्तं नैमित्तिकानि प्रायश्चित्तानि भविष्यन्ति इति / तत् असत् / दोषसंयोगेन चोद्यमानानाम् एषां दोषनिर्घातफलसंभवे फलान्तरकल्पना अनुपपत्तेः / यत्पुनः एतत् उक्तं न प्रायश्चित्तवत् दोषक्षय उद्देशेन विद्याविदानम् अस्ति इति / अत्र ब्रूमः - सगुणासु तावत् विद्यासु विद्यत एव विधानम् / तासु च वाक्यशेष ऐश्वर्यप्राप्तिः पापनिवृत्तिः च विद्यावत उच्यते / तयोः च अविवक्षाकारणं न अस्ति इति अतः पाप्मप्रहाणपूर्वक ऐश्वर्यप्राप्तिः तासां फलम् इति निश्चीयते / निर्गुणायां तु विद्यायां यदि अपि विधानं न अस्ति तथा अपि अकर्तृ आत्मत्वबोधात् कर्मप्रदाहसिद्धिः / अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मवित् इति दर्शयति / अतिक्रान्तेषु तु यदि अपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इव तथा अपि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्तेः तानि अपि प्रविलीयन्त इति आह विनाश इति / पूर्वसिद्धकर्तृत्व भोक्तृत्व विपरीतं हि त्रिषु अपि कालेषु अकर्तृत्व अभोक्तृत्वस्वरूपं ब्रह्म अहम् अस्मि न इतः पूर्वम् अपि कर्ता भोक्ता वा अहम् आसं न इदानीं न अपि भविष्यत्काल इति ब्रह्मवित् अवगच्छति / एवम् एव च मोक्ष उपपद्यते / अन्यथा हि अनादिकालप्रवृत्तानां कर्माणां क्षयाभावे मोक्ष अभावः स्यात् / न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुम् अर्हति / अनित्यत्व प्रसङ्गात् / परोक्षत्व अनुपपत्तेः च ज्ञानफलम् / तस्मात् ब्रह्म अधिगमे दुरितक्षय इति स्थिरम्
12 SK यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह-तदधिगम इति / ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्याये ऽपि साधनविचारः कृतः, संप्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह-गत इति / कर्मणां फलान्तत्वशास्त्राज्ज्ञाननाश्यत्वशास्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनो ऽपि संचितपापभोगानन्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पापनाशाज्जीवन्मुक्तिरिति फलम् / न हिंस्यादित्यादिनिषेधश्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता / ऽनाभुक्तं क्षीयते कर्मऽइति च स्मरन्ति / अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः / ननु तर्हि तन्नाशार्थं प्रायश्चित्तविधिर्न स्यादिति चेत् / न / यथा आहिताग्नेर्गृहदाहे निमित्ते सति ऽअग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्ऽइति इष्टिविधिस्तद्वद्दोषे निमित्तमात्रे सति प्रायश्चित्तविधेर्देषनाशार्थत्वासिद्धेः / ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्धत्वादयोग्यत्वाच्चाफलतया निमित्तमात्रत्वं दोषवान्प्रायश्चित्तं कुर्यादित्यत्र तु मलिनः स्नायादितिवद्दोषपदस्य निवृत्तिद्वारा फलपरत्वसंभवात् ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजतेऽइति प्रायश्चित्तात्पापनिवृत्तिश्रुतेश्चायुक्तं प्रायश्चित्तस्य नैमित्तिकत्वमित्यत आह-अपिचेति / ज्ञानस्य दोषनाशार्थतया विधानं नास्ति ऽक्षीयन्ते चास्य कर्माणिऽइत्यादेर्ज्ञानस्तावकमात्रत्वादित्यर्थः / कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्रप्रामाण्यादित्याह-नेत्युच्यत इति / ज्ञानात्कर्मक्षयस्यापूर्वत्वान्मानान्तरविरुद्धत्वाच्च तत्परानेकवाक्यानां स्तावकत्वायोगात्तस्यास्तित्वमिति सिद्धान्तयति-एवमित्यादिना / पापक्रियातो ऽपूर्वानुत्पत्तिरश्लेषः / सगुणब्रह्मविद्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह-अयमपर इति / परोक्तं दूषयति-यदुक्तमित्यादिना / विधिनिषेधशास्त्रं ऽनाभुक्तं क्षीयतेऽइत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुतश्चिन्नाशाङ्गीकारेण शास्त्रविरोध इत्यर्थः / तत्त्वज्ञानमात्मन्यशेषदुरितनाशकं तन्मूलध्यासबाधकत्वात्स्वप्नदुरितमूलकर्तृत्वाध्यासबाधकजाग्रद्बोध्ःअवदित्याह-तथाप्यकर्त्रात्मबोधादिति / श्रुतार्थमेव युक्त्या द्रढयति-अश्लेष इति चेति / मूलाध्यासानुत्पत्तेः पापस्याश्लेषः, तन्नाशात्तद्विनाश इत्यर्थः / अध्यासाभावे विद्वदनुभवमाह-पूर्वेति / मोक्षशास्त्रबलाच्च ज्ञानात्कर्मक्षयसिद्धिरित्याह-एवमेवेति / ज्ञानात्कर्मक्षये सत्येवेत्यर्थः / मोक्षस्य कर्मफलसाम्यमुक्तं निरस्यति-नचेति
113 SK END Bस्Cओम्_४,१.९.१३
114 SK START Bस्Cओम्_४,१.१०.१४
115 SK १० इतर असंश्लेष अधिकरणम् / सू. १४
4.1.14 SK इतरस्याप्य् एवम् असंश्लेषः पाते तु | BBस्_४,१.१४ |
14 SK पूर्वस्मिन् अधिकरणे बन्धहेतोः अघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशात् निरूपितौ / धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इति आशङ्क्य तत् निराकरणाय पूर्व अधिकरणन्याय अतिदेशः क्रियते / इतरस्य अपि पुण्यस्य कर्मण एवम् अघवत् असंश्लेषो विनाशः च ज्ञानवतो भवतः / कुतः - तस्य अपि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् / ऽउभे उ हैवैष एते तरतिऽ (बृ. ४.४.२२) इत्यादिश्रुतिषु च दुष्कृतवत् सुकृतस्य अपि प्रणाशव्यपदेशात् / अकर्तृ आत्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोः तुल्यत्वात् ऽक्षीयन्ते चास्य कर्माणिऽ (मु. २.२.८) इति च अविशेषश्रुतेः / यत्र अपि केवल एव पाप्मशब्दो दृश्यते तत्र अपि तेन एव पुण्यम् अपि अकलितम् इति द्रष्टव्यम् / ज्ञानफल अपेक्षया निकृष्टफलत्वात् / अस्ति च श्रुतौ पुण्ये अपि पाप्मशब्दः ऽनैनं सेतुमहोरात्रे तरतःऽ (छा. ८.४.१) इति अत्र सह दुष्कृतेन सकृतमपि अनुक्रम्य सर्वे पाप्मानः अतो निवर्तन्त इति अविशेषेण एव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् / पाते तु इति तु शब्दः अवधारणार्थः / एवं धर्म अधर्मयोः बन्धहेत्वोः विद्यासामर्थ्यात् अश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिः इति अवधारयति
14 SK इतरस्यापि-तु / अतिदेशत्वान्न संगत्याद्यपेक्षा / ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्संदेहे ज्ञानं तु न पुण्यनाशकं शास्त्रीयत्वात्पुण्यवदित्यधिकाशङ्कामुक्त्वातिदेशं व्याचष्टे-धर्मस्येत्यादिना / ज्ञानं पुण्यनाशकं समूलविद्याघातित्वादिति न्यायोपेतागमबाधितमनुमानमिति भावः / ननु क्षीयन्ते चेत्यविशेषश्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशेषश्रुतेरित्यत आह-यत्रापि केवल इति / पापपुण्यक्षयपराधिकरणद्वयस्य फलमाह-पाते त्विति
119 SK END Bस्Cओम्_४,१.१०.१४
120 SK START Bस्Cओम्_४,१.११.१५
121 SK ११ अनारब्ध अधिकरणम् / सू. १५
4.1.15 SK अनारब्धकार्ये एव तु पूर्वे तदवधेः | BBस्_४,१.१५ |
123 SK पूर्वयोः अधिकरणयोः ज्ञाननिमित्तः सुकृतदुष्कृतयोः विनाशः अवधारितः स किम् अविशेषेण आरब्धकार्ययोः अनारब्धकार्ययोः च भवति उत विशेषेण अनारब्धकार्ययोः एव इति विचार्यते / ऽतत्र उभे उ हैवैष एते तरतिऽ (बृ. ४.४.२२) इति एवमादिश्रुतिषु अविशेषश्रवणात् अविशेषेण एव क्षय इति / एवं प्राप्ते प्रत्याह - अनारब्धकार्ये एव तु इति / अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन् अपि च जन्मनि प्राक् ज्ञान उत्पत्तेः संचिते सुकृतदुष्कृते ज्ञान अधिगमात् क्षीयेते न तु आरब्धकार्ये सामिभुक्तफले याभ्याम् एतत् ब्रह्मज्ञान आयतनं जन्म निर्मितम् / कुत एतत् - ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा. ६.१४.२) इति शरीरपातौ अधिकरणात् क्षेमप्राप्तेः / इतरथा हि ज्ञानात् अशेषकर्मक्षये सति स्थितिहेतु अभावात् ज्ञानप्राप्ति अनन्तरमेव क्षेमम्श्नु अवीत, तत्र शरीरपातप्रतीक्षां न आचक्षीत /
124 SK ननु वस्तुबलेन एव अयम् अकर्तृ आत्मावबोधः कर्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचित् च उपेक्षेत / न हि समाने अग्निबीजसंपर्के केषाञ्चित् बीजशक्तिः क्षीयते केषाञ्चित् न क्षीयत इति शक्यम् अङ्गीकर्तुम् इति /
15 SK उच्यते - न तावत् अनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञान उत्पत्तिः उपपद्यते / आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्य अन्तराले प्रतिबन्ध असंभवात् भवति वेगक्षयप्रतिपालनम् / अकर्तृ आत्मबोधः अपि हि मिथ्याज्ञानबाधनेन कर्माणि उच्छिनत्ति / बाधितम् अपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित्कालम् अनुवर्तत एव / अपि च न एव अत्र विवदितव्यं ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति / कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत / श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते / तस्मात् अनारब्धकार्ययोः एव सुकृतदुष्कृतयोः विद्यासामर्थ्यात् क्षय इति निर्णयः
15 SK अनारब्धकार्ये एव तु / उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह-पूर्वयोरिति / जीवन्मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् / पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रारब्धान्यकर्मविषयेत्यपवादं सिद्धान्यति-एवमिति / सामिशब्दोर्ऽधवाचकः / प्रारब्धाद्यावन्न विमुच्यते तावानेव विलम्बस्तन्मोक्षे ब्रह्म संपद्यत इति श्रुत्यर्थः / देहपातावधिलिङ्गात्तत्त्वविदां याज्ञवल्क्यादीनां देहधारणश्रुतिस्मृतिलिङ्गाच्च प्रारब्धकर्मणस्तत्त्वज्ञानं प्रति हेतुत्वेनोपजीव्यत्वाच्च प्राबल्यसिद्धेस्तत्प्रतिबद्धं तत्त्वज्ञानं तत्सिद्ध्यर्थमविद्यांशं विक्षेपशक्त्याख्यं विहायावरकाविद्यांशं नाशयतीत्याह-उच्यते-न-तावदिति / विक्षेपकाविद्यालेश एव तत्संस्कारः / शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह-अपिच नैवेति
127 SK END Bस्Cओम्_४,१.११.१५
128 SK START Bस्Cओम्_४,१.१२.१६
129 SK १२ अग्निहोत्रादि अधिकरणम् / सू. १६-१७
4.1.16 SK अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् | BBस्_४,१.१६ |
131 SK पुण्यस्य अपि अश्लेषविनाशयोः अघन्यायः अतिदिष्टः सः अतिदेशः सर्वपुण्यविषय इति आशङ्क्य प्रतिवक्ति - अग्निहोत्रादि तु इति / तु शब्द आशङ्काम् उपनुदति / यत् नित्यं कर्म वैदिकम् अग्निहोत्रादि तत् तत् कार्याय एव भवति, ज्ञानस्य यत्कार्यं तदेव अस्य अपि कार्यम् इत्यर्थः / कुतः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेनऽ (बृ. ४.४.२२) इत्यादिदर्शनात् /
132 SK ननु ज्ञानकर्मणोः विलक्षणकार्यत्वात् कार्य एकत्व अनुपपत्तिः /
133 SK न एष दोषः / ज्वरमरणकार्ययोः अपि दधिविषयोः गुडमन्त्रसंयुक्तयोः तृप्तिपुष्टिकार्यदर्शनात् / तद्वत् कर्मणः अपि ज्ञानसंयुक्तस्य मोक्षकार्य उपपत्तेः /
134 SK ननु अनारभ्यो मोक्षः कथम् अस्य कर्मकार्यत्वम् उच्यते /
16 SK न एष दोषः / आरात् उपकारकत्वात् कर्मणः / ज्ञानस्य एव हि प्रापकं सत्कर्म प्राणाड्या मोक्षकारणम् इति उपचर्यते / अत एव च अतिक्रान्तविषयम् एतत् कार्य एकत्व अभिधानम् / न हि ब्रह्मविद आगामि अग्निहोत्रादि संभवति / अनियोज्यब्रह्मात्मत्व प्रतिपत्तेः शास्त्रस्य अविषयत्वात् / सगुणासु तु विद्यासु कर्तृत्व अनतिवृत्तेः संभवति आगामि अपि अग्निहोत्रादि / तस्य अपि निरभिसंधिनः कार्यान्तर अभावात् विद्यासंगति उपपत्तिः
16 SK अग्निहोत्रादि तु / नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति संदेहे उभे पुण्यपापे तरतीत्यविशेषश्रुतेर्नश्यतीत्याशङ्क्योत्तरस्यापीत्युक्तातिदेशस्य नित्याद्यतिरिक्तकाम्यपुण्यविषयत्वेनात्रापवादं सिद्धान्तयति-पुण्यस्येत्यादिना / अत्र पूर्वपक्षे ज्ञानार्थं नित्याद्यनुष्ठानासिद्धिः पङ्कक्षालनन्यायात्, सिद्धान्ते तु ज्ञानेत्पत्त्यर्थत्वात्तत्सिद्धिरिति विवेकः / अत्र भाष्ये ज्ञानकर्मणोः साक्षादेककार्यत्वं परमतेनोक्त्वा साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् / अत एवेति ज्ञानादूर्ध्वं कर्माभावात्पूर्वकर्मविषयमित्यर्थः / निर्गुणविद्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितं, संप्रति सगुणविद्यापरत्वेन सूत्रस्याञ्जस्यमाह-सगुणास्विति
137 SK END Bस्Cओम्_४,१.१२.१६
138 SK START Bस्Cओम्_४,१.१२.१७
139 SK किंविषयं पुनः इदम् अश्लेषविनाश वचनं किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति / अत उत्तरं पठति -
4.1.17 SK अतो ऽन्यापि ह्य् एकेषाम् उभयोः | BBस्_४,१.१७ |
17 SK अतः अग्निहोत्रादेः नित्यात्कर्मणः अन्यापि हि अस्ति साधुकृत्या या फलम् अभिसंधाय क्रियते तस्या एष विनियोग उक्त एकेषां शाखिनाम् ऽसुहृदः साधुकृत्यामुपयन्तिऽ इति / तस्या एव च इदम् अघवत् अश्लेषविनाशनिरूपणम् इतरस्य अपि एवम् अश्लेष इति / तथा जातीयकस्य काम्यस्य कर्मणो विद्यां प्रति अनुपकारकत्वे संप्रतिपत्तिः उभयोः अपि जैमिनिबादरायणयोः आचार्ययोः
142 SK उत्तरसूत्रार्थं गृह्णाति-किमित्यादिना /
17 SK यत्प्रारब्धादन्यत्काम्यं पुण्यं पापं च तदेव विद्वत्सुहृद्द्विषतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञानान्नश्यतीति भावः
144 SK END Bस्Cओम्_४,१.१२.१७
145 SK START Bस्Cओम्_४,१.१३.१८
146 SK १३ विद्याज्ञानसाधन अधिकरणम् / सू. १८
4.1.18 SK यद् एव विद्ययेति हि | BBस्_४,१.१८ |
148 SK समधिगतम् एतत् अनन्तर अधिकरणे नित्यम् अग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजन उद्देशेन कृतम् उपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्म अधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवति इति / तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं च अस्ति / ऽय एवं विद्वानयजतिऽ ऽय एवं विद्वाञ्जुहोतिऽ ऽय एवं विद्वाञ्छंसतिऽ ऽय एवं विद्वान्गायतिऽ ऽतस्मादेवंविदमेव ब्रह्माणं कुर्विति नानेवं विदंऽ (छा. ४.१७.१०) ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा. १.१.१०) इत्यादिवचनेभ्यो विद्यासंयुक्तम् अस्ति केवलम् अपि अस्ति / तत्र इदं विचार्यते - किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोः विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम् उत विद्यासंयुक्तं केवलं च अविशेषेण इति / कुतः संशयः - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति यज्ञादीनाम्वि अशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् / विद्यासंयुक्तस्य च अग्निहोत्रादीनाम् अविशेषत्व अवगमात् / किं तावत् प्राप्तं विद्यासंयुक्तम् एव कर्माग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते न विद्याहीनम् / विद्या उपेतस्य विशिष्टत्व अवगमात् विद्याविहीनात् / ऽयदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवंविद्वान्ऽ इत्यादिश्रुतिभ्यः / ऽबुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसिऽ (गी. २.३९) ऽदूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जयऽ (गी. २.४९)
149 SK इत्यादिस्मृतिभ्य- च इति / एवं प्राप्ते प्रतिपद्यते - यदेव विद्यया इति हि / सत्यम् एतत् / विद्यासंयुक्तं कर्माग्निहोत्रादिकं विद्याविहीनात् कर्मणः अग्निहोत्रात् विशिष्टं विद्वानिव ब्राह्मणो विद्याविहीनात् ब्राह्मणात् / तथा अपि न अत्यन्तम् अनपेक्षं विद्याविहीनं कर्माग्निहोत्रादिकम् / कस्मात् - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति अविशेषेण अग्निहोत्रादेः विद्याहेतुत्वेन श्रुतत्वात् /
150 SK ननु विद्यासंयुक्तस्य अग्निहोत्रादेः विद्याविहीनात् विशिष्टत्व अवगमात् विद्याविहीनम् अग्निहोत्रादि आत्मविद्याहेतुत्वेन अनपेक्षमेव इति युक्तम् /
18 SK न एतत् एवम् / विद्यासहायस्य अग्निहोत्रादेः विद्यानिमित्तेन सामर्थ्य अतिशयेन योगात् आत्मज्ञानं प्रति कश्चित् कारण अतिशयो भविष्यति न तथा विद्याविहीनस्य इति युक्तं कल्पयितुम् / नतु ऽयज्ञेन विविदिषन्तिऽ इति अत्र अविशेषेण आत्मज्ञानाङ्गत्वेन श्रुतस्य अग्निहोत्रादेः अनङ्गत्वं शक्यम् अभ्युपगन्तुम् / तथा हि श्रुतिः - ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. १.१.१०) इति विद्यासंयुक्तस्य कर्मणः अग्निहोत्रादेः वीर्यवत्तरत्व अभिधानेन स्वकार्यं प्रति कञ्चित् अतिशयं ब्रुवाणा विद्याविहीनस्य तस्य एव तत् प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति / कर्मण- च वीर्यवत्त्वं तत् यत् स्वप्रयोजनसाधनप्रसहत्वम् / तस्मात् विद्यासंयुक्तं नित्यम् अग्निहोत्रादि विद्याविहीनं च उभयम् अपि मुमुक्षुणा मोक्षप्रयोजन उद्देशेन इह जन्मनि जन्मान्तरे च प्राक् ज्ञान उत्पत्तेः कृतं यत् तत् यथासामर्थ्यं ब्रह्म अधिगमप्रतिबन्धकारण उपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्म अधिगमकारणत्वं प्रतिपद्यमानं श्रवण मनन श्रद्धा तात्पर्यादि अन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवति इति स्थितम्
18 SK यदेव विद्ययेति हि / उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह-विद्यासंयुक्तमेवेति / अत्र पूर्वपक्षे कर्माङ्गोपास्तिहीनकर्मणो ज्ञानार्थत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः / भवतु विद्याविशिष्टस्य कर्मणो ज्ञानं प्रति शीघ्रकारित्वाख्यः कश्चिदतिशयो विद्यासामर्थ्यात् / नैतावता केवलस्य वैयर्थ्यं विविदिषाश्रुतिविरोधात् / नच तत्र श्रुतौ यज्ञादिशब्दानां विद्योपेतकर्मपरतया संकोचो युक्तः / हि यतः / ऽयदेव विद्ययाऽइति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धान्तग्रन्थार्थः
153 SK END Bस्Cओम्_४,१.१३.१८
154 SK START Bस्Cओम्_४,१.१४.१९
155 SK १४ इतरक्षपण अधिकरणम् / सू. १९
4.1.19 SK भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते | BBस्_४,१.१९ |
157 SK अनारब्धकार्ययोः पुण्यपापयोः विद्यासामर्थ्यात् क्षय उक्तः इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म संपद्यते ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो. ६.१४.२) इति ऽब्रह्मैव सन्ब्रह्माप्येतिऽ इति च एवमादिश्रुतिभ्यः /
158 SK ननु सति अपि सम्यक् दर्शने यथा प्राक् देहपातात् भेददर्शनं द्विचन्द्रदर्शनन्यायेन अनुवृत्तमेवं पश्चात् अपि अनुवर्तेत /
159 SK न / निमित्त अभावात् / उपभोगशेषक्षपणं हि तत्र अनुवृत्तिनिमित्तं न च तादृशमात्र किञ्चित् अस्ति /
160 SK ननु अपरः कर्माशयोः अभिनवम् उपभोग्म् आरप्स्यते /
19 SK न / तस्य दग्धबीजत्वात् / मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत् च मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत्च मिथ्याज्ञानं सम्यक् ज्ञानेन दग्धम् इत्यतः साधु एतत् आरब्धकार्यक्षये विदुषः कैवल्यम् अवश्यं भवति इति
19 SK भोगेन त्वितरे क्षपयित्वा संपद्यते / तत्त्वविदत्र विषयः, स किं प्रारब्धक्षयानन्तरं संसरत्युत नेति निमित्तभावाभावाभ्यां संशये सिद्धान्तमुपक्रमते-अनारब्धेति / अनारब्धकर्मणः क्षयोक्तावारब्धस्य कथं क्षय इत्याकाङ्क्षायामस्योत्थानात्सङ्गतिः / पूर्वपक्षे विदेहकैवल्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः / देहपातोत्तरमपि तत्त्ववित्संसरति संसारयोग्यत्वाद्यथा देहपातात्पूर्वमित्यनारब्धाधिकरणदृष्टान्तेन पूर्वपक्षमाह-नन्विति / भोगनिमित्तकर्माभावाद्धेत्वसिद्धिः / यत्तु संचितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् / अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् / तदुक्तं योगशास्त्रे ऽक्लेशमूलः कर्माशयः सति मूले ताद्विपाकःऽइति / तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसारस्तस्माद्देहपाते कैवल्यमिति सिद्धम्
163 SK END Bस्Cओम्_४,१.१४.१९
1 SK इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य प्रथमः पादः
1 SK इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ भाष्यरत्नप्रभायां चतुर्थस्याध्यायस्य प्रथमः पादः
166 SK // इति चतुर्थस्याध्याय जीवन्मुक्ति निरूपणाख्यः प्रथमः पादः //
167 SK चतुर्थाध्याये द्वितीयः पादः /
168 SK START Bस्Cओम्_४,२.१.१
169 SK चतुर्थाध्याये द्वितीयः पादः /
170 SK अत्र पादे उत्क्रान्तिगतिनिरूपणम्
171 SK १ वागाधिकरणम् / सू. १-२
4.2.1 SK वाङ्मनसि दर्शनाच् छब्दाच् च | BBस्_४,२.१ |
173 SK अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानम् अवतारयिष्यन् प्रथमं तावत् यथाशास्त्रम् उत्क्रान्तिक्रमम् अन्वाचष्टे / समाना हि विद्वत् अविदुषोः उत्क्रान्तिः इति वक्ष्यति / अस्ति प्रायणविषया श्रुतिः ऽअस्य सोम्य पुरुषस्य प्रयतो वाक् मनसि संपद्यते मनः प्राणे प्राण- तेजसि तेजः परस्यां देवतायाम्ऽ (छा. ६.८.६) इति / किम् इह वाच एव वृत्तिमत्त्या मनसि संपत्तिः उच्यत उत वाग्वृत्तेःइति विशयः / तत्र वाक् एव तावत् मनसि संपद्यत इति प्राप्तम् / तथा हि श्रुतिः अनुगृहीता भवति / इतरथा लक्षणा स्यात् / श्रुतिलक्षण अविशये च श्रुतिः न्याय्या न लक्षणा / तस्मात् वाच एव अयं मनसि प्रलय इति / एवं प्राप्ते ब्रूमः - वाक् वृत्तिः इति व्याख्याते यावता वाक् मेनसि इति एव आचार्यः पठति / सत्यम् एतत् / पठिष्यति तु पुरस्तात् ऽअविभागो वचनात्ऽ (ब्र. सू. ४.२.१६) इति / तस्मात् अत्र वृत्ति उपशममात्रं विवक्षितम् इति गम्यते / तत्त्वप्रलयविवक्षायां तु सर्वत्र एव अविभागसाम्यात् किं परत्र एव विशिष्यात् अविभाग इति / तस्मात् अत्र वृत्ति उपसंहारविवक्षा / वाक् वृत्तिः पूर्वम् उपसंह्रियते मनोवृत्तौ अवस्थितायाम् इति अर्थः / कस्मात् / दर्शनात् / दृश्यते हि वाक् वृत्तेः पूर्व उपसंहारो मनोवृत्तौ विद्यमानायाम् /
174 SK ननु श्रुतिसामर्थ्यात् वाच एव अयं मनसि अप्ययो युक्त इति उक्तम् /
1 SK न इति आह / अतत्प्रकृतित्वात् / यस्य हि यत उत्पत्तिः तस्य तत्र प्रलयो न्याय्यो मृदीव शरावस्य / न च मनसो वाक् उत्पद्यत इति किञ्चन प्रमाणम् अस्ति / वृत्त्युत्ति उद्भव अभिभवौ तु अप्रकृतिसमाश्रयौ अपि दृश्येते / पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्य अग्नेः वृत्तिः उद्भवति अप्सु च उपशाम्यति / कथं तर्हि अस्मिन् पक्षे शब्दो वाक् मनसि संपद्यत इति / अत आह शब्दात् च इति / शब्दः अपि अस्मिन् पक्षे अवकल्पते वृत्तिवृत्तिमतोः अभेद उपचारात् इति अर्थः
176 SK FN: प्रयतो म्रियमाणस्य /
177 SK वाङ्मनसि दर्शनाच्छब्धाच्च / ज्ञानफलोक्त्यनन्तरमुपासनफलं ब्रह्मलोकस्थं वक्तव्यं तच्चार्चिरादिमार्गप्राप्यं, मार्गप्राप्तिश्चोत्क्रान्तिसाध्या तस्मादुपास्तिफलक्षिप्तोत्क्रान्तिपादस्यास्त्याध्यायसंगतिः / युक्तं चास्य पूर्वपादानन्तर्यं ज्ञानफलोक्त्यनन्तरं वक्तव्योपास्तिफलेनाक्षिप्तत्वादित्याह-अथेति / ज्ञानिन इवोपासकस्याप्युत्क्रान्तिर्नेत्यत आह-समानेति / विद्वानुपासकः, तस्यानुपासकवदुत्क्रान्तिरस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः / प्रयतो म्रियमाणस्येत्यर्थः / वाक्पदस्य करणभावव्युत्पत्तिभ्यां करणतद्वृत्त्योर्लयभानात्संशयः / पूर्वपक्षे करणानां स्वरूपलयान्मृतमात्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः / अनुपादाने मनसि वाचस्तत्त्वलयायोगेन व्यापारमात्रोपशमादिति विवेकः / सूत्रे वृत्तिपदाध्याहारः कथमिति शङ्कते-कथमिति / उत्तरत्र हि सूत्रकृत्तत्त्वविद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्बलादिहाध्याहार उचितः / अज्ञस्यापि इन्द्रियलयसाम्ये वक्ष्यमाणविशेषोक्त्ययोगादिति समाध्यर्थः / प्रकृतावेव विकारलय इति न्यायविरुद्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति-अतत्प्रकृतित्वादिति /
1 SK न्यायस्य निरवकाशत्वाद्बलीयस्त्वं शब्दस्य तूक्तिर्वागितिव्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दाच्चेत्युक्तम्
180 SK START Bस्Cओम्_४,२.१.२
4.2.2 SK अत एव च सर्वाण्यनु | BBस्_४,२.२ |
2 SK ऽतस्मादुपशान्ततेजाः / पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैःऽ (प्रश्न. ३.९) इति अत्र अविशेषेण सर्वेषाम् एव इन्द्रियाणां मनसि संपत्तिः श्रूयते / तत्र अपि अत एव वाच इव चक्षुरादीनाम् अपि सवृत्तिके मनसि अवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलय असंभवात् शब्द उपपत्तेः च वृत्तिद्वारेण एव सर्वाणि इन्द्रियाणि मनः अनुवर्तन्ते / सर्वेषां करणानां मनसि उपसंहार अविशेषे सति वाचः पृथक् ग्रहणं वाक् मनसि संपद्यत इति उदाहरण अनुरोधेन
2 SK वाच्युक्तं न्यायं चक्षुरादिष्वतिदिशति-एत एवेति / उपशान्तदेहौष्ण्यस्तस्मादुत्क्रमणादूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः / इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्तिपरतयोपपत्तेः / सर्वेन्द्रियवृत्तिलयश्चेदिष्टस्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह-सर्वेषां करणानामिति
185 SK START Bस्Cओम्_४,२.२.३
4.2.3 SK तन्मनः प्राण उत्तरात् | BBस्_४,२.३ |
188 SK समधिगतमेतत् ऽवाङ्मनसि संपद्यतेऽ (छा. ६.८.६) इति अत्र वृत्तिसंपत्तिविवक्ष इति / अथ यत् उत्तरवाक्यम् ऽमनः प्राणेऽ (छा. ६.८.६) इति किम् अत्र अपि वृत्तिसंपत्तिः एव विवक्ष्यत उत वृत्तिमत् संपत्तिः इति विचिकित्सायां वृत्तिमत् संपत्तिः एव अत्र इति प्राप्तम् / श्रुति अनुग्रहात् तत् प्रकृतिकत्व उपपत्तेः च / तथा हि - ऽअन्नमयं हि सोम्य मन आपोमयःप्राणःऽ (छा. ६.५.४) इति अन्नयोनि मन आत्मनन्ति अप् योनिं च प्राणम् / ऽआपश्चान्नमसृजन्तऽ इति श्रुतिः / अत- च यत् मनः प्राणे प्रकृतिविकार अभेदात् इति / एवं प्राप्ते ब्रूमः - तत् अपि अगृहीत बाह्य इन्द्रियवृत्ति मनो वृत्तिद्वारेण एव प्राणे प्रलीयते इति उत्तरात् वाक्यात् अवगन्तव्यम् / तथा हि सुषुप्सो- मुमूर्षोः च प्राणवृत्तौ परिस्पन्द आत्मिकायाम् अवस्थितायां मनोवृत्तीनाम् उपशमो दृश्यते / न च मनसः स्वरूप अप्ययः प्राणे संभवति / अतत् प्रकृतित्वात् /
189 SK ननु दर्शितं मनसः प्राणप्रकृतित्वम् /
3 SK न एतत् सारम् / न हि ईदृशेन प्राणाडिकेन तत् प्रकृतित्वेन मनः प्राणे संपत्तुम् अर्हति / एवम् अपि हि अन्ने मनः संपद्येत अप्सु च अन्नम् अप्सु एव च प्राणः / न हि एतस्मिन् अपि पक्षे प्राणभावपरिणताभ्यः अद्भ्यो मनो जायत इति किञ्चन प्रमाणम् अस्ति तस्मात् न मनसः प्राणे स्वरूप अप्ययः / वृत्ति अप्यये अपि तु शब्दः अवकल्पते वृत्तिवत्तिमतोः अभेद उपचारात् इति दर्शितम्
3 SK तन्मनः प्राण उत्तरात् / वाक्यक्रमादर्थक्रमाच्चाधिकरणक्रमः / श्रुतिन्यायाभ्यां संशयः पूर्वं प्रबलन्यायविरोधाद्वागिति श्रुतेर्बाधः / कृतः इह त्वबात्मकप्राणस्य अन्नात्मकमनःप्रकृतित्वेन प्रकृतौ विकारलय इति न्यायानुग्रहान्न मनःश्रुतिर्बाध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धान्तस्त्वबन्नयोः प्रकृतिविकृतिभावे ऽपि न तद्विकारयोः प्राणमनसोस्तद्भावो हिमघटयोरपि तद्भावप्रसङ्गादतो न्यायविरोधात्पूर्ववच्छ्रुतिर्बाध्येति विवेकः / आगृहीता बाह्येन्द्रियवृत्तयो येन तत्तथा लीनेन्द्रियवृत्तिकं मनो ऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः / एवमपीति / प्राणस्याब्विकारत्वपक्षे ऽपीत्यर्थः / तस्मादिति प्राणस्य साक्षान्मनःप्रकृतिभावान्मनःशब्दो वृत्तिं लक्षयतीत्यर्थः
193 SK START Bस्Cओम्_४,२.३.४
194 SK ३ अध्यक्ष अधिकरणम् / सू. ४-६
4.2.4 SK सो ऽध्यक्षे तदुपगमादिभ्यः | BBस्_४,२.४ |
196 SK स्थितम् एतत् यस्य यतो न उत्पत्तिः तस्य तस्मिन् वृत्तिप्रलयो न स्वरूपप्रलय इति / इदम् इदानीं प्राणः तेजसि इति अत्र चिन्त्यते -
197 SK किं यथाश्रुति प्राणस्य तेजसि एव वृत्ति उपसंहारः किंवा देह इन्द्रियपञ्जर अध्यक्षे जीव इति / तत्र श्रुतेः अनतिशङ्क्यत्वात् प्राणस्य तेजसि एव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इति / एवं प्राप्ते प्रतिपद्यते सः अध्यक्ष इति / स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञ उपाधिके विज्ञान आत्मनि अवतिष्ठते / तत् प्रधाना प्राणवृत्तिः भवति इति अर्थः / कुतः - तत् उपगमादिभ्यः / एवम् एव इमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसामयन्ति यत्र एतत् ऊर्ध्व उच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्ष उपगामिनः सर्वान् प्राणान् अविशेषेण दर्शयति / विशेषेण च ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामतिऽ (बृ. ४.४.२) इति पञ्चवृत्तेः प्राणस्य अध्यक्ष अनुगामितां दर्शयति तत् अनुवृत्तितां च इतरेषाम् / ऽप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामतिऽ (बृ. ४.४.२) इति / ऽसविज्ञानो भवतिऽ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्व प्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति /
198 SK ननु प्राणः तेजसि इति श्रूयते कथं प्राणः अध्यक्ष इति अधिकावापः क्रियते /
4 SK न एष दोषः / अध्यक्षप्रधानत्वात् उत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्य अपि च विशेषस्य अपेक्षणीयत्वात्
200 SK सो ऽध्यक्षे तदुपगमादिभ्यः / उक्तन्यायसिद्धं प्राणस्यापि वृत्तिलयमुपजीव्य ऽप्राणस्तेजसिऽइति श्रुतेरूपगमादिश्रुतेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसंभव इति पूर्वपक्षयति-स्थितमित्यादिना / अत्र तेजःशब्दस्य मुख्यत्वं, सिद्धान्ते तु भूतोपहित जीवलक्षकत्वमिति मत्वा सूत्रं योजयति-स प्रकृत इत्यादिना / अज्ञानकर्मवासनोपाधिक इत्यर्थः / तं जीवं प्रति प्राणानामुपगमानुगमनावस्थानश्रुतिभ्य इति हेत्वर्थः / यथा यात्रेच्छावन्तं राजानं भृत्या उपगच्छन्त्येवमेव परलोकं जिगमिषुं जीवं सर्वे प्राणा अभिमुख्येनायान्तीत्युपगमः श्रुतः / तमुत्क्रामन्तमित्यनुगमनं श्रुतम् / जीवे प्राणावस्थानश्रुतिमाह-सविज्ञान इति /
4 SK जीवस्य प्राप्तव्यफलावगमाय हि विज्ञानसाहित्यश्रुत्याः मुख्यप्राणसहितकरणानां जीवे स्थितिर्भातीत्यर्थः
203 SK START Bस्Cओम्_४,२.३.५
204 SK कथं तर्हि प्राणः तेजसि इति श्रुतिः इति अत आह -
4.2.5 SK भूतेषु तच्छ्रुतेः | BBस्_४,२.५ |
206 SK स प्राणसंपृक्तः अध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इति अवगन्तव्यम् / प्राणः तेजसि इति श्रुतेः /
207 SK ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्य अध्यक्षस्य /
5 SK न एष दोषः / सः अध्यक्ष इति अध्यक्षस्य अपि अन्तराले अपि उपसंख्यातत्वात् / यः अपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सः अपि स्रुघ्नात्पाटलिपुत्रं याति इति शक्यते वदितुम् / तस्मात् प्राणः तेजसि इति प्राणसंपृक्तस्य अध्यक्षस्य एव एतत् तेजः सहचरितेषु भूतेषु अवस्थानम्
209 SK यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुतस्तथाप्युभयश्रुत्यनुग्रहाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेजआदिभूतेष्विति श्रुत्यर्थस्फुटीकरणार्थं सूत्रं गृह्णाति-कथं तर्हीति / नच लयं विनापि जीवं प्रत्यिपगमादिसंभवात्तेजः श्रुतिर्मुख्यास्त्विति वाच्यं, जीवं प्रत्यागत्य प्राणस्य निर्व्यापारत्वेन स्थितेरेवात्र लयत्वादिति भावः / भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य ऽसो ऽध्यक्षेऽइति सूत्रोदाहृतश्रुतिबलादित्याह-नन्वित्यादिना / प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह-यो ऽपि हीति //
211 SK START Bस्Cओम्_४,२.३.६
212 SK कथं तेजःसहचरितेषु भूतेषु इति उच्यते यावत् एकमेव श्रूयते प्राणः तेजसि इति / अत आह -
4.2.6 SK नैकस्मिन् दर्शयतो हि | BBस्_४,२.६ |
214 SK न एकस्मिन् एव तेजसि शरीरान्तरप्रेप्सावेलायां जीवः अवतिष्ठते कार्यस्य शरीरस्य अनेकात्मकत्वदर्शनात् / दर्शयतः च एतम् अर्थं प्रश्नप्रतिवचने ऽआपः पुरुषवचसःऽ (छा. ५.३.३) इति / तत् व्याख्यातम् ऽत्र्यात्मकत्वात्तु भूयस्त्वात्ऽ (ब्र.सू. ३.१.२) इति अत्र / श्रुतिस्मृती च एतमर्थं दर्शयतः / श्रुतिः ऽपृथ्वीमय आपोमयो वायुमय आकाशमयस्तोजोमयःऽ इत्याद्या / स्मृतिः अपि ऽअण्व्यो मात्राविनाशिन्यो दशार्धानां तु याःस्मृताः / ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशःऽ इत्याद्या /
215 SK ननु च उपसंहृतेषु वाक् आदिषु करणेषु शरीरान्तरप्रेप्सावेलायां ऽक्वायं तदा पुरुषो भवतिऽ (बृ. ३.२.१३) इति उपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति - ऽतौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुःऽ (बृ. ३.२.१३) इति /
6 SK अत्र उच्यते - तत्र कर्मप्रयुक्तस्य ग्रह अतिग्रहसंज्ञकस्थ इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिः इति कर्माश्रयता उक्ता / इह पुनः भूत उपादानात् देहान्तर उत्पत्तिः इति भूताश्रयत्वम् उक्तम् / प्रशंसाशब्दात् अपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितं न तु आश्रयान्तरं निवारितम् / तस्मात् अविरोधः
217 SK FN: दशार्धानां पञ्चभूतानां , अण्व्यः सूक्ष्माः , मीयन्त इति मात्राः /
218 SK स्थूलदेहारम्भाय पञ्चीकृतभूतान्यावश्यकानीति रंहत्यधिकरणे व्याख्यातम् / अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः, प्राङ्मोक्षादविनाशिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् / जीवस्य भूताश्रयत्वं कर्माश्रयत्वश्रुतिविरुद्धमित्याशङ्क्य कर्म निमित्तत्वेनाश्रयः, भूतानि तु देहोपादानत्वेनेत्युभयमविरुद्धमित्याह-ननु चेत्यादिना /
6 SK तौ याज्ञवल्क्यार्तभागौ यज्जीवाधारमूचतुस्तत्कर्मेति श्रुतेर्वचनम्
221 SK START Bस्Cओम्_४,२.४.७
222 SK ४ आसृत्युपक्रम अधिकरणम् / सू. ७
4.2.7 SK समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य | BBस्_४,२.७ |
224 SK सा इयम् उत्क्रान्तिः किं विद्वत् अविदुषोः समाना किंवा विशेषवति इति विशयानानां विशेषवति इति तावत् प्राप्तम् / भूताश्रयविशिष्टा हि एषा / पुनः भवाय च भूतानि आश्रीयन्ते / न च विदुषः पुनर्भवः संभवति / ऽअमृतत्वं हि विद्वानश्नुतेऽ इति स्थितिः / तस्मत् अविदुष एव एष उत्क्रान्तिः /
225 SK ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् /
226 SK न / स्वापादिवत् यथाप्राप्त अनुकीर्तनात् / तथा हि ऽयत्रैतत्पुरुषः स्वपिति नामऽ ऽअशिशिषति नामऽ ऽपिपासति नामऽ (छा. ६.८.३,५) इति च सर्वप्राणिसाधारणा एव स्वापादयः अनुकीर्त्यन्ते विद्याप्रकरणे अपि प्रतिपादयिषितवस्तुप्रतिपादन अनुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते / एवम् इयम् अपि उत्क्रान्तिः महाजनगत एव अनुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः संपद्यते स आत्मा तत्त्वमसि इति एतत् प्रतिपादयितुम् / प्रतिषिद्धा च एषा विदुषः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. ४.४.६) इति / तस्मात् अविदुष एव एष इति / एवं प्राप्ते ब्रूमः - समाना च एष उत्क्रान्तिः वाक् मनसि इत्याद्या विद्वत् अविदुषोः आसृति उपक्रमात् भवितुम् अर्हति / अविशेषश्रवणात् / अविरुद्धान् देहबीजभूतानि भूतसूक्ष्माणि आश्रित्य कर्मप्रयुक्तो देहग्रहणम् अनुभवितुं संसरति / विद्वान् तु ज्ञानप्रकाशितं मोक्षनाडीद्वारम् आश्रयते / तत् एतत् आसृति उपक्रमात् इति उक्तम् /
227 SK ननु अमृतत्वं हि विदुषा प्राप्तव्यं न च तत् देशान्तर आयत्तं तत्र कृतो भूत आश्रयत्वं सृति उपक्रमो वा इति /
7 SK अत्र उच्यते - अनुपोष्य च इदम्, अदग्ध्वा अत्यन्तम् अविद्यादीन् क्लेशान् अपरविद्यासामर्थ्यात् आपेक्षिकम् अमृतत्वं प्रेप्सते संभवति तत्र सृति उपक्रमो भूत आश्रयत्वं च / ने हि निराश्रयाणां प्राणानां गतिः उपपद्यते / तस्मात् अदोषः
229 SK एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता / साच सर्वप्राणिषु तुल्येत्याह-समाना चानुपोष्य / ऽपुरुषस्य प्रयतो वाङ्मनसिऽइत्यविशेषश्रुतेः ऽविद्ययामृतमश्नुतेऽइति श्रुतेश्च संशयमाह-सेयमिति / विशयानानां संदिहानानामित्यर्थः / पूर्वपक्षे सगुणब्रह्मविदसंबन्धित्वमुत्क्रान्तेर्विशेषः साध्यते / ततो ऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलं, सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः / पूर्वपक्षमाक्षिप्य समाधत्ते-ननु विद्येत्यादिना /
230 SK विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा / न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधो ऽपि तद्विषयः / अतः सगुणविदो ऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति-एवमिति / सृतिर्मार्गस्तस्योपक्रमो ऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः / यत्तु दहरोपासकस्यामृतत्वं श्रुतं ऽतयोर्ध्वमायन्नमृतत्वमेतिऽइति तदापेक्षिकमेव न मुख्यं ऽयं कामं कामयते सो ऽस्य संकल्पादेव समुत्तिष्ठतिऽइति भोगश्रवणादित्याह-अनुपोष्य चेदमिति /
7 SK उष दाह इति धातोरिदं रूपम्
233 SK START Bस्Cओम्_४,२.५.८
234 SK ५ संसारव्यपदेश अधिकरणम् // सू. ८-११
4.2.8 SK तदापीतेः संसारव्यपदेशात् | BBस्_४,२.८ |
236 SK ऽतेजः परस्यां देवतायाम्ऽ (छा. ६.८.६) इति अत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां संपद्यत इति एतत् उक्तं भवति / कीदृशी पुनः इयं संपत्तिः स्यात् इति चिन्त्यते / तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् / तत् प्रकृतित्व उपपत्तेः / सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवता इति प्रतिष्ठापितम् / तस्मात् आत्यन्तिकीयम् अविभागापत्तिः इति / एवं प्राप्ते ब्रूमः - तत् तेज आदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमापीतेरा संसारमोक्षात् सम्यक् ज्ञाननिमित्तात् अवतिष्ठते / ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः / स्थाणुमन्ये ऽनुसंयन्ति यथाकर्मयथाश्रुतम्ऽ (क. ५.७) इत्यादि संसारव्यपदेशात् /
8 SK अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयात् अत्यन्तं ब्रह्म संपद्येत / तत्र विधिशास्त्रम् अनर्थकं स्यात् विद्याशास्त्रं च / मिथ्याज्ञाननिमित्तः च बन्धो न सम्यक् ज्ञानात् ऋते विस्रंसितुम् अर्हति / तस्मात् तत् प्रकृतित्वे अपि सुषुप्तप्रलयवत् बीजभाव अवशेष एव एषा संत्सपत्तिः इति
238 SK तदापीतेः / पूर्वोदाहृतोत्क्रान्तिवाक्यशेषं व्याख्याय लिङ्गाश्रयपञ्चभूतानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लयस्योभयथादर्शनात्संशयमाह-कीदृशी पुनरियमिति /
8 SK पूर्वत्रापेक्षिकममृतत्वमित्युक्तं तदयुक्तमित्याक्षेपात्संगतिः पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्मविद्याशास्त्रबलात्सावशेषलयसिद्धिरिति विवेकः
241 SK START Bस्Cओम्_४,२.५.९
4.2.9 SK सूक्ष्मं प्रमाणतश् च तथोपलब्धेः | BBस्_४,२.९ |
9 SK तत् च इतरभूतसहितं तेजो जीवस्य अस्मात् शरीरात् प्रवसत आश्रयभूतं स्वरूपतः प्रमाणतः च सूक्ष्मं भवितुम् अर्हति / तथा हि - नाडीनिष्क्रमणश्रवणादिभ्यः अस्य सौक्ष्म्यम् उपलभ्यते / तत्र तनुत्वात् संचार उपपत्तिः / स्वच्छत्वात् च अप्रतीघात उपपत्तिः / अत एव च देहात् निर्गच्छन् पार्श्वस्थैः न उपलभ्यते
9 SK ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्मतमनाडीद्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह-सूक्ष्ममिति
246 SK START Bस्Cओम्_४,२.५.१०
4.2.10 SK नोपमर्देनातः | BBस्_४,२.१० |
10 SK अत एव सूक्ष्मत्वात् न अस्य स्थूलस्य शरीरस्य उपमर्देन दाहादिनिमित्तेन इतरत् सूक्ष्मं शरीरम् उपपद्यते
10 SK प्रमाणसौक्ष्म्याद्गतिरनुद्भूतस्पर्शरूपवत्त्वाख्यस्वच्छत्वादप्रतिघातानुपलब्धी इत्यर्थः
250 SK END Bस्Cओम्_४,२.५.१०
251 SK START Bस्Cओम्_४,२.६.११
4.2.11 SK अस्यैव चोपपत्तेर् ऊष्मा | BBस्_४,२.११ |
11 SK अस्य एव च सूक्ष्मस्या शरीरस्य एष ऊष्मा यम् एतस्मिन् शरीरे संस्पर्शेन ऊष्माणं विजानन्ति / तथा हि मृतावस्थायाम् अवस्थिते अपि देहे विद्यमानेषु अपि च रूपादिषु देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्म इति / तथा च श्रुतिः - ऽउष्ण एव जीविष्यञ्शितो मरिष्यन् इतिऽ
11 SK लिङ्गसद्भावे चौष्ण्यलिङ्गकानुमानमाह-अस्यैव चेति
255 SK END Bस्Cओम्_४,२.६.११
256 SK START Bस्Cओम्_४,२.६.१२
257 SK ६ प्रतिषेध अधिकरणम् / सू. १२-१४
4.2.12 SK प्रतिषेधाद् इति चेन् न शारीरात् | BBस्_४,२.१२ |
259 SK ऽअमृतत्वं चानुपोष्यऽ इति अतो विशेषणात् आत्यन्तिके अमृतत्वे गति उत्क्रान्त्योः अभावो अभ्युपगतः / तत्र अपि केनचित् कारणेन उत्क्रान्तिम् आशङ्क्य प्रतिषेधति - ऽअथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इति अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानाम् उत्क्रान्तिः अस्ति इति चेत् /
12 SK न इति उच्यते / यतः शारीरात् आत्मन एष उत्क्रान्तिप्रतिषेधः प्राणानां न शरीरात् / कथम् अवगम्यते ऽन तस्मात्प्राणा उत्क्रामन्तिऽ इति शाखान्तरे पञ्चमी प्रयोगात् / संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते / तस्मात् इति च प्राधान्यात् अभ्युदयनिःश्रेयस अधिकृतो देही संबध्यते न देहः / न / तस्मात् उच्चिक्रमिषोः जीवात् प्राणा अपक्रामन्ति सह एव तेन भवन्ति इति अर्थः
12 SK प्रतिषेधादिति चेन्न शारीरात् / पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः / सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य संगतिरित्याह-अमृतत्वं चेति / सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थो ऽथशब्दः आत्मकामत्वात् पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो यो ऽकामयमानस्तस्येत्यन्वयः / ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां संदेहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति-नेत्यादिना
262 SK END Bस्Cओम्_४,२.६.१२
263 SK START Bस्Cओम्_४,२.६.१३-१४
264 SK सप्राणस्य च प्रवसतो भवति उत्क्रान्तिः देहात् इति एवं प्राप्ते प्रति उच्यते -
4.2.13 SK स्पष्टो ह्येकेषाम् | BBस्_४,२.१३ |
266 SK न तत् अस्ति यत् उक्तं परब्रह्मविदः अपि देहात् अस्ति उत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह उपादानत्वात् इति / यतो देह उपादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातृणां स्पष्ट उपलभ्यते / तथा हि - आर्तभागप्रश्ने ऽयत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेतिऽ (बृ. ३.२.११) इति अत्र ऽनेति होवाच याज्ञवल्क्यःऽ (बृ. ३.२११) इति अनुत्क्रान्तिपक्षं परिगृह्य न तर्हि अयम् अनुत्क्रान्तेषु प्राणेषु म्रियत इति अस्याम् आशङ्कायाम् ऽअत्रैव समवनीयन्तऽ इति प्रविलयं प्राणानां प्रतिज्ञाय तत् सिद्धये ऽस उच्छ्वयत्याध्यात्मायत्याध्मातो मृतः शेतेऽ (बृ. ३.२.११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्ति अवधेः उच्छ्वयनादीनि समामनन्ति / देहस्य च एतानि स्युः
13 SK न देहिनः / तत् सामान्यात् ऽन तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽ इति अत्र अपि अभेद उपचारेण देहापादानस्य एव उत्क्रमणस्य प्रतिषेधः / यदि अपि प्राधान्यं देहिन इति व्याख्येयं येषां पञ्चमी पाठः / येषां तु षष्ठीपाठः तेषां विद्वत् संबन्धिनि उत्क्रान्तिः प्रतिषिध्यत इति प्राप्त उत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य देहपादान एव सा प्रतिषिद्धा भवति, देहात् उत्क्रान्तिः प्राप्ता न देहिनः / अपि च ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२) इति एवम् अविद्वत् विषयं सप्रपञ्चम् उत्क्रमणं संसारगमनं च दर्शयित्वा ऽइति नु कामयमानःऽ (बृ. ४.४.६) इति उपसंहृत्य अविद्वत् कथाम् ऽअथाकामयमानःऽ (बृ. ४.४.६) इति व्यपदिश्य विद्वांसं यदि तत् विषये अपि उत्क्रान्तमेव प्रापदेयसमञ्जस एव व्यपदेशः स्यात् / तस्मात् अविद्विषये प्राप्तयोः गति उत्क्रान्त्योः विद्वत् विषये प्रतिषेध इति एवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय / न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मण उत्क्रान्तिः गतिः वा उपपद्यते निमित्त अभावात् / ऽअत्र ब्रह्म समश्नुतेऽ इति च एवञ्जातीयकाः श्रुतयो गति उत्क्रान्त्योः अभावं सूचयन्ति
4.2.14 SK स्मर्यते च | BBस्_४,२.१४ |
269 SK स्मर्यते अपि च महाभारते गति उत्क्रान्त्योः अभावः - ऽसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः / देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणःऽ इति /
270 SK ननु गतिः इति ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते ऽशुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रावऽ इति /
14 SK न / सशरीरस्य एव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीर उत्सर्ग इति द्रष्टव्यम् / सर्वभूतदृश्यत्वादि उपन्यासात् / न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः / तथा च तत्र एवौपसंहृतम्- ऽशुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः / दर्शयित्वा प्रभावं स्वं सर्वभूतगतो ऽभवत्ऽ इति / तस्मात् अभावः परब्रह्मविदो गति उत्क्रान्त्योः / गतिश्रुतीनां तु विषयम् उपरिष्टात् व्याख्यास्यामः
14 SK काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य संबन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथाच जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनो ऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् / सिद्धान्ते तत्सार्थक्यमाह-स्पष्टो हीति / अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते / सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः / उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः / येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् / तत्सामान्यदुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना / इदानीं काण्वपाठस्यानुगुण्यमाह-येषां तु षष्ठीपाठ इति / संबन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषो ऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः / न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् / अतो विद्वत्संबन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नोवेत्युक्तदेहप्रदेशा एव ग्राह्यः / तथाचायमर्थः-तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति / एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् / अपिचेति स्पष्टार्थम् / सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना / समृत्यन्तरविरोधं शङ्कते-ननु गतिरपीति / सगुणविद्याबलेनैषा गतिरिति परिहरति-सशरीरस्येति / ननु तर्हि ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ, ऽस एवैतान्ब्रह्म गमयतिऽइत्यादिश्रुतीनां का गतिः, तत्राह-गतीति //१३
273 SK END Bस्Cओम्_४,२.६.१३-१४
274 SK START Bस्Cओम्_४,२.७.१५
275 SK ७ वागादिलय अधिकरणम् / सू. १५
4.2.15 SK तानि परे तथा ह्य् आह | BBस्_४,२.१५ |
277 SK तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन् एव परस्मिन् आत्मनि प्रलीयन्ते / कस्मात् / तथा हि आह श्रुतिः - ऽएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति (प्रश्न. ६.५) इति.
278 SK ननु ऽगताः कलाः पञ्चदश प्रतिष्ठाःऽ (मु. ३.२.७) इति विद्वत् विषय एव अपरा श्रुतिः परस्मात् आत्मनः अन्यत्र अपि कलानां प्रलयम् आह स्म /
15 SK न / सा खलु व्यवहारापेक्षा, पार्थिवाद्याः कलाः पृथिव्यादिः एव स्वप्रकृतीः अपीयन्ति इति / इतरा तु विद्वत् प्रतिपत्ति अपेक्षा, कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्म एव संपद्यत इति / तस्मात् अदोषः
15 SK तानि परे तथाह्याह / पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणादीनामत्रैव लय उक्तः / तमुपजीव्य स किं तत्तत्कलाप्रकृतिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुतिद्वयदर्शनात्संशयः कार्यः / तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया ऽगताः कलाःऽइति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह-तानीति / यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्मद्रष्टुरिमाः प्राणश्रद्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः / मनःप्राणयोरेकीकरणेन कलानां पञ्चदशत्वम् / प्रतिष्ठा इति द्वितीयाबहुवचनम् / स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः / वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालये ऽपि लोकदृष्ट्या प्रतिष्ठासु लयोक्तिरविरुद्धा / तथाच कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुतिद्वयतात्पर्यम्
281 SK END Bस्Cओम्_४,२.७.१५
282 SK START Bस्Cओम्_४,२.८.१६
283 SK ८ अविभाग अधिकरणम् / सू. १६
4.2.16 SK अविभागो वचनात् | BBस्_४,२.१६ |
16 SK स पुन- विदुषः कलाप्रलयः किम् इतरेषाम् इव सावशेषो भवति आहोस्वित् निरवशेष इति / तत्र प्रलयसामान्यात् शक्ति अवशेषताप्रसक्तौ ब्रवीति - अविभागापत्तिः एव इति / कुतः - वचनात् / तथा हि कलाप्रलयम् उक्त्वा वक्ति - ऽभिद्यते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषो ऽकलो ऽमृतो भवतिऽ (प्र. ६.५) इति / अविद्या निमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्व उपपत्तिः / तस्मात् अविभाग एव इति
286 SK अविभागो वचनात् / उक्तलयमुपजीव्य लयस्य द्वेधादर्शनात्संशयमाह-स पुनरिति / मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् / अवशेषो मूलकारणे शक्त्यात्मना स्थितिः / पुनर्जन्मयोग्यतेति यावत् / विमतः कलालयः सावशेषः, कलालयत्वात्सुषुप्तिवदिति पूर्वपक्षः / विमतो निरवशेषः, विद्याकृतत्वाद्रज्ज्वा विद्यया सर्पलयवदिति युक्त्युपेतश्रुत्या सिद्धान्तयति-ब्रवीतीति /
16 SK नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः
288 SK END Bस्Cओम्_४,२.८.१६
289 SK START Bस्Cओम्_४,२.९.१७
290 SK ९ तदोकः अधिकरणम् / सू. १७
4.2.17 SK तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया | BBस्_४,२.१७ |
17 SK समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता / संप्रतितु अपरविद्याविषयाम् एव चिन्ताम् अनुवर्तयति / समाना च असृति उपक्रमात् विद्वत् अविदुषोः उत्क्रान्तिःइति उक्तं तम् इदानीं सति उपक्रमं दर्शयति / तस्य उपसंहृतवागादि कलापस्य उच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयम् ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ इति श्रुतेः / तत् अग्रप्रज्वलनपूर्विका चक्षुरादिस्थान अपादाना च उत्क्रान्तिः श्रूयते - ऽतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. ४.४.२) इति / सा किम् अनियमेन एव विद्वत् अविदुषोः भवति अथ अस्ति कश्चित् विदुषो विशेषनियम इति विचिकित्सायां श्रुति अविशेषात् अनियमप्राप्तौ आचष्टे - समा अपि हि विद्वत् अविदुषोः हृदयाग्रप्रद्योतने तत् प्रकाशितद्वारत्वे च मूर्धस्थानात् एव विद्वान् निष्क्रामति स्थानान्तरेभ्यः तु इतरे / कुतः - विद्यासामर्थ्यात् / यदि विद्वान् अपीतरवत् यतः कुतश्चित् देहदेशात् उत्क्रामेत न एव उत्कृष्टं लोकं लभेत / तत्र आनर्थिका एव विद्या स्यात् / तत् शेषगति अनुस्मृतियोगात् च विद्याशेषभूता च मूर्धनि अनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ताम् अभ्यस्यन् तस्य एव प्रतिष्ठित इति युक्तम् / तस्मात् हृदयालयेन ब्रह्मणा सु उपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्यया एव शताधिकया शतात् अतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिः इतरे / तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका / तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्तिऽ (छा. ८.६.६) इति
293 SK तदोकोग्रज्वलनम् / सृतेर्मार्गस्योपक्रमो नाडीप्रवेशनियमस्तं वक्तुं सूत्रभागव्याख्याद्वाराधिकरणविषयमाह-तस्येति / स मुमूर्षुस्तेजोमात्रा इन्द्रियाणि / तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् / चक्षुषो वेत्यनियमश्रुतेस्तयोर्घ्वमायन्निति विशेषश्रुतेश्च संशयः-किमुपासको ऽप्यनुपासकवद्येन केनचिद्द्वारेण निर्गच्छति उत मूर्धन्यनाड्यैवेति / अत्र पूर्वपक्षे विद्याकृतातिशयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः / वचनादविभागवदनियम इति प्राप्ते सिद्धान्तयति-आचष्ट इति /
17 SK येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्मलोकप्राप्तौ विद्यशेषत्वेन मार्गानुस्मृतिविधेः केवलादृष्टार्थत्वं स्यादतो ऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः / हार्दं ब्रह्म / विष्वङ् नानाविधा अन्या नाड्यो ऽन्येषामित्यर्थः / सुषुम्नाख्या नाडी हृदयात् निर्गता दक्षिणाक्षितालुकण्ठान्तस्तननासिकामध्याभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभिरेकीकृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम्
295 SK END Bस्Cओम्_४,२.९.१७
296 SK START Bस्Cओम्_४,२.१०.१८
297 SK रश्मि अधिकरणम् / सू. १८
4.2.18 SK रश्म्यनुसारी | BBस्_४,२.१८ |
18 SK अस्ति हार्दविद्या - ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. ८.१.१) इति उपक्रम्य विहिता / तत् प्रक्रियायाम् ऽअथ या एता हृदयस्य नाड्यःऽ (छा. ८.६.१) इति उपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धम् उक्त्वा उक्तम् ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा. ८.६.५) इति / पुनः च उक्तम् ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६) इति / तस्मात् शताधिकया नाड्या निष्क्रामन् रश्मि अनुसारी निष्क्रामति इति गम्यते / तत् किंम् अविशेषेण एव अहनि रात्रौ वा म्रियमाणस्य रश्मि अनुसारित्वम् आहोस्वित् अहनि एव इति संशये सति अविशेषश्रवणात् अविशेषेण एव तावत् रश्मि अनुसारि इति प्रतिज्ञायते
18 SK रश्म्यनुसारी / प्रकरणशोधनपूर्वकमुपासकस्य रश्म्यनुसारित्वं विषयमाह-अस्तीत्यादिना / अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसंबद्धै रश्मिभिरुत्क्रामतीत्यर्थः / अत्र संबन्धस्य कालविशेषाश्रवणाद्रात्रौ रश्म्यभावाच्च संशयमाह-तत्किमिति / पूर्वोक्तनाडीसंबद्धरश्मीनामत्रोपजीव्यत्वात्संगतिः / पूर्वपक्षे रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते-अविशेषेणेति
301 SK END Bस्Cओम्_४,२.१०.१८
302 SK START Bस्Cओम्_४,२.१०.१९
4.2.19 SK निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च | BBस्_४,२.१९ |
304 SK अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्मि अनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् / नाडीरश्मिसंबन्धविच्छेदात् इति चेत् /
19 SK न / नाडीरश्मिसंबन्धस्य यावत् देहभावित्वात् / यावत् देहभावी हि शिराकिरणसंपर्कः / दर्शयति च एतमर्थं श्रुतिः - ऽअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्नादित्ये सृप्ताःऽ (छा. ८.६.२) इति निदाघसमये च निशासु अपि किरण अनुवृत्तिः उपलभ्यते प्रतापादिकार्यदर्शनात् / स्तोक अनुवृत्तेः तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेषु इव दुर्दिनेषु / ऽअहरेवैतद्रात्रौ दधातिऽ इति च एतदेव दर्शयति / यदि च रात्रौ प्रेतो विना एव रश्मि अनुसारेण ऊर्ध्वम् आक्रमेत रश्मि अनुसार आनर्थक्यं भवेत् / न हि एतत् विशिष्य अधीयते यो दिवा प्रैति स रश्मीन् अपेक्ष्य ऊर्द्वम् आक्रमते यः तु रात्रौ सः अनपेक्ष्य एव इति / अथ तु विद्वान् अपि रात्रिप्रायण अपराधमात्रेण न ऊर्ध्वम् आक्रमेत पाक्षिकफला विद्या इति अप्रवृत्तिः एव तस्यां स्यात् / मृत्युकालानियमात् / अथ अपि रात्रौ उपरतः अहरागमम् उदीक्षेत / अहरागमे अपि अस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् / ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. ८.६.५) इति च श्रुतिः अनुदीक्षां दर्शयति / तस्मात् तत् अविशेषेण एव इदं रात्रिदिवं रश्मि अनुसारित्वम्
306 SK पूर्वपक्षबीजमुपन्यस्य दूषयति-निशीत्यादिना / शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति सृप्ताः संबद्धाः / श्रुतसंबन्धस्य रात्रौ सत्त्वे युक्तिमाह-निदाघेति / तर्हि हेमन्तादिरात्रिष्वौष्ण्योपलब्धिः स्यादित्यत आह-स्तोकेति /
19 SK सविता रात्रावप्यहर्दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमेवेत्यर्थः / किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मिश्रुतेर्दिवामृतविषयतया संकोचः स्यादूर्ध्वगत्यभावे च विद्यायामप्रवृत्तिः स्यात् / नच प्रतीक्षयोर्ध्वगतिरिति वाच्यं, रश्म्युदयात्प्राग्देहदाहे आदित्यप्रतीक्षावैयर्ध्यापातादप्रतीक्षाश्रुतिविरोधाच्च / तस्माद्यदाकदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्मलोकप्राप्तिरिति
308 SK END Bस्Cओम्_४,२.१०.१९
309 SK START Bस्Cओम्_४,२.१०.२०
310 SK ११ दक्षिणायन अधिकरणम् / सू. २०-२१
4.2.20 SK अतश् चायने ऽपि दक्षिणे | BBस्_४,२.२० |
20 SK अत एव च उदीक्षा अनुपपत्तेः अपाक्षिकफलत्वात् च विद्याया अनियतकालत्वात् च मृत्योः दक्षिण अयने अपि म्रियमाणो विद्वान् प्राप्नोति एव विद्याफलम् / उत्तरायण मरण प्राशस्ति अप्रसिद्धेर्भीष्मस्य च प्रतीक्षादर्शनात् ऽआपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्ऽ (छा. ४.१५.५) इति च श्रुतेः अपेक्षितव्यम् उत्तरायणम् इति इमाम् आशङ्काम् अनेन सूत्रेण अपनुदति / प्राशस्त्यप्रसिद्धिः अविद्वत् विषया / भीष्मस्य प्रतिपालनम् आचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च / श्रुतेः तु अर्थं वक्ष्यति ऽआतिवाहिकास्तल्लिङ्गात्ऽ (ब्र. सू. ४.३.४) इति
313 SK एवं दक्षिणायने मृतो विद्वान्विद्याफलमाप्नोति न वेति विद्याया नित्यवत्फलश्रुतेरुत्तरायणप्राशस्त्यशास्त्राच्च संदेहे पूर्वोक्तहेतूनतिदिशति-अतश्चायने ऽपि दक्षिणे / पूर्वपक्षमाशङ्क्यापनुदति-उत्तरायणेत्यादिना /
20 SK अज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवचनरूपाचारपरिपालनार्थं भीष्मस्य प्रतीक्षा / षण्मासानिति श्रुतिस्तूत्तरायणदेवतापरेति वक्ष्यते / तथाच देवतायाः सदा सत्त्वाद्विद्यया दक्षिणायनकाले ऽपि तत्प्राप्तिरविरुद्धेति भावः
315 SK END Bस्Cओम्_४,२.१०.२०
316 SK START Bस्Cओम्_४,२.११.२१
317 SK ननु च - ऽयत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः / प्रयाता यान्ति तं फलं वक्ष्यामि भरतर्षभऽ (गी. ८.२३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतौ अपुनरावृत्तये नियमितः कथं रात्रौ दक्षिणायने वा प्रयातो अनावृत्तिं यायादिति /
4.2.21 SK योगिनः प्रति च स्मर्येते स्मार्ते चैते | BBस्_४,२.२१ |
320 SK योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते / स्मार्ते च एते योगसांख्ये न श्रौते / अतो विषयभेदात् प्रमाणाविशेषात् च न अस्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः /
321 SK ननु - ऽअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्ऽ / ऽधूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्ऽ (गी. ८. २४,२५) इति च श्रौतौ एतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतौ अपि इति /
21 SK उच्यते - ऽतं कालं वक्ष्यामिऽ (गी. ८.२३) इति स्मृतौ कालप्रतिज्ञानात् विरोधम् आशङ्क्य परिहार उक्तः / यदा पुनः स्मृतौ अपि अग्न्याद्या देवता एव अतिवाहिक्यो गृह्यन्ते तदा न कश्चित् विरोध इति
323 SK स्मृतिबलात्कालप्राधान्यं शङ्कते-ननु चेति / श्रौतदहराद्युपासकस्यास्माभिः कालानपेक्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह-योगिन इति / योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह-स्मार्ते चेति / भगवदाराधनबुद्ध्यानुष्ठितं कर्म योगः ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यः / स संन्यासी च योगी चऽइति स्मृतेः / धारणापूर्वको ऽकर्तृत्वानुभवः सांख्यं, ऽइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्ऽइति स्मृतेः / ननु श्रुतिस्मृत्योर्भिन्नार्थत्वमयुक्तं प्रत्यभिज्ञाविरोधादिति शङ्कते-नन्वग्निरिति /
21 SK कालाग्रहिणं प्रति भिन्नार्थत्वमुक्तम् / यदि तु श्रौतार्थप्रत्यभिज्ञया कालशब्दो देवतापरस्तर्ह्यैकार्थ्यमेवेति समाध्यर्थः / तस्माद्विद्यासामर्थ्यात्सर्वदैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम्
325 SK END Bस्Cओम्_४,२.११.२१
2 SK इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः
327 SK // इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः //
328 SK चतुर्थे ऽध्याये तृतीयः पादः /
329 SK START Bस्Cओम्_४,३.१.१
330 SK चतुर्थे ऽध्याये तृतीयः पादः /
331 SK अत्र पादे सगुणविद्यावतो मृतस्य उत्तरमार्ग अभिधानम्
332 SK १ अर्चिरादि अधिकरणम् / सू. १
4.3.1 SK अर्चिरादिना तत्प्रथितेः | BBस्_४,३.१ |
334 SK आसृति उपक्रमात् समान उत्क्रान्तिः इति उक्तम् / सृतिस्तु श्रुत्यन्तरेषु अनेकधा श्रूयते / नाडीरश्मिसंबन्धेन एकधा ऽअथैतैरेव रश्मिभिरूर्ध्व आक्रमतेऽ (छा. ८.६.५) इति / अर्चिरादिक एका ऽते ऽर्चिषमभिसंभवन्त्यर्चिषो ऽहःऽ (बृ. ६.२.१५) इति / ऽस एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छतिऽ (कौ. १.३) इति अन्या / ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छतिऽ (बृ. ५.१०.१) इति अपरा / ऽसूर्यद्वारेण ते विरजाः प्रयान्तिऽ (मुण्ड, १.२.११) इति च अपरा / तत्र संशयः - किं परस्परं भिन्ना एताः सृतय किं व एक एव अनेकविशेषण इति / तत्र प्राप्तं तावत् भिन्नाः एताः सृतय इति / भिन्नप्रकरणत्वात् / भिन्न उपासनाशेषत्वात् च / अपि च ऽअथैतैरेव रश्मिभिःऽ(छा. ८.६.५) इति अवधारणम् अर्चिरादि अपेक्षायाम् उपरुध्येत / त्वरावचनं च पीड्येत ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. ८.६.५) इति / तस्मात् अन्योन्यभिन्ना एव एते पन्थान इति / एवं प्राप्ते अभिदध्महे - अर्चिरादिन इति - सर्वो ब्रह्मप्रेप्सुः अर्चिरादिन एव अध्वना रंहति इति प्रतिजानीमहे / कुतः - तत् प्रथितेः / प्रथितो हि एष मार्गः सर्वेषां विदुषाम् / तथा हि पञ्चाग्निविद्याप्रकरणे ऽये ऽचामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ. ६.२.१५) इति विद्यान्तरशीलिनाम् अपि अर्चिरादिका सृतिः श्राव्यते / स्यात् एतत् / यासु विद्यासु न काचित् गतिः उच्यते तासु इयम् अर्चिरादिक उपतिष्ठतां यासु तु अन्या श्राव्यते तासु किम् इति अर्चिरादि आश्रयणम् इति /
335 SK अत्र उच्यते - भवेत् एतदेवं यदि अत्यन्तभिन्ना एव एताः सृतयः स्युः / एक एव तु एषा सृतिःअनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेन उपलक्षित इति वदामः / सर्वत्र एकदेशप्रत्यभिज्ञानात् इतरेतर विशेषणविशेष्यभाव उपपत्तेः / प्रकरणभेदे अपि हि विद्या एकत्वे भवति इतरेतर विशेषण उपसंहारवत् गतिविशेषणानाम् अपि उपसंहारः / विद्याभेदे अपि तु गति एकदेशप्रत्यभिज्ञानात् गन्तव्य अभेदात् च गति अभेद एव / तथा हि ऽते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ. ६.२.१५) ऽतस्मिन्वसन्ति शाश्वतीः समाःऽ (बृ. ५.१०१) ऽसा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुतेऽ (कौषी. १.४) ऽतद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दतिऽ (छा. ८.४.३) इति च तत्र तत्र तत् एव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते / यत् तु एतैः एव इति अवधारणम् अर्चिरादि आश्रयणे न स्यात् इति /
1 SK न एष दोषः / रश्मिप्राप्तिपरत्वात् अस्य / न हि एक एव शब्दो रश्मीन् च प्रापयितुम् अर्हति अर्चिरादीन् च व्यावर्तयितुम् / तस्मात् रश्मिसंबन्ध एव अयमवधार्यत इति द्रष्टव्यम् / त्वरावचनं तु अर्चिरादि अपेक्षायाम् अपि गन्तव्यान्तरापेक्षा शैघ्र्यार्थत्वात् न उपरुध्यते / यथा निमिषमात्रेण अत्र आगम्यत इति / अपि च ऽअथैतयोः पथोर्नकतरेणाचनऽ (छा. ५.१०८) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानम् आचक्षाणा पितृयाणव्यतिरिक्तम् एकमेव देवयानम् अर्चिरादिपर्वाणं पन्थानं प्रथयति / भूयांसि अर्चिरादिसृतौ मार्गपर्वाणि अल्पीयांसि तु अन्यत्र / भूयसां च अनुगुण्येन अल्पीयसां नयनं न्याय्यम् इति अतः अपि अर्चिरादिना तत् प्रथितेः इति उक्तम्
1 SK एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते-अर्चिरादिना तत्प्रथितेः / वृत्तानुवादपूर्वकमाद्याधिकरणस्य विषयं मार्गमाह-आसृतीति / विरजा विरजसः निष्पापा इत्यर्थ / श्रुतिविप्रतिपत्त्या संशयः / पूर्वं यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः / उपासनाभेदात्तच्छेषत्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च / किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः / उपासनाभेदे ऽप्युपास्यब्रह्मैक्यवन्मार्गैक्यविरुद्धमिति सिद्धान्तयति-एवमिति / तस्य मार्गस्य प्रसिद्धत्वादिति हेत्वर्थः / ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषययेति मार्गभेदं शङ्कते-स्यादेतदिति / एकस्यैव मार्गस्यानेकान्याग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः / प्रत्यभिज्ञानाच्चेति समाध्यर्थः / गन्तव्यैक्यं विवृणोति-तथाहीति / परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः / एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदो ऽप्रयोजक इत्युक्तं संप्रत्येवकारत्वरावचनयोर्गतिमाह-यत्त्वित्यादिना / रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः / यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः / मार्गैक्ये लिङ्गमाह-अपिचेति / शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः / उत्तरमार्गैक्ये ऽप्यर्चिरादिनेति / विशेषणे को हेतुरित्यत आह-भूयांसीति
339 SK START Bस्Cओम्_४,३.२.२
340 SK २ वायु अधिकरणम् / सू. २
4.3.2 SK वायुम् अब्दाद् अविशेषविशेषाभ्याम् | BBस्_४,३.२ |
342 SK केन पुनः संनिवेशविशेषेण गतिविशेषाणानाम् इतरेतर विशेषणविशेष्यभाव इति तत् एतत् सुहृत् भूत्वा आचार्यो ग्रथयति / ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्ऽ(कौ. १.३) इति कौषीतकीनां देवयानः पन्थाः पठ्यते / तत्र अर्चिः अग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वात् इति न अत्र संनिवेशक्रमः क्वचित् अन्वेष्यः / वायुः तु अर्चिरादौ वर्त्मनि न श्रुतः कतम् अस्मिन् स्थाने निवेशयितव्य इति /
343 SK उच्यते - ऽते ऽर्चिषमेवाभिसंभवन्त्यर्चिषो ऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मांसास्तान् मासेभ्यःसंवत्सरं संवत्सरादित्यम्ऽ (छा. ५.१०.१,२) इति अत्र संवत्सरात् पराञ्चम् आदित्यात् अर्वाञ्चं वायुम् अभिसंभवन्ति / कस्मात् / अविशेषविशेषाभ्याम् / तथा हि - ऽस वायुलोकम् ऽ(कौ. १.३) इति अत्राविशेष उपदिष्टस्य वायोः श्रुत्यन्तरे विशेष उपदोशो दृश्यते ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छतिऽ (बृ. ५.१०१) इति / एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्द आदित्ययोः अन्तराले वायुः निवेशयितव्यः / कस्मात् पुनः अग्नेः परत्वदर्शनात् विशेषात् अर्चिषः अनन्तरं वायुः न निवेश्यते / न एषः अस्ति विशेष इति वदामः /
344 SK ननु उदाहृता श्रुतिः - ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम्ऽ (कौषी. १.३) इति /
2 SK उच्यते - केवल- अत्र पाठः पौर्वापर्येणावस्थितो न अत्र क्रमवचनः / कश्चित् शब्दः अस्ति / पदार्थ उपदर्शनमात्रं हि अत्र क्रियते एतम् एतं च आगच्छति इति इतरत्र पुनः वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वम् आक्रम्य आदित्यम् आगच्छति इति अवगम्यते क्रमः / तस्मात् सूक्तम् अविशेषविशेषाभ्याम् इति / वाजसनेयिनः तु ऽमासेभ्यो देवलोकं देवलोकादादित्यम्ऽ (बृ. ६.२.१५) इति समामनन्ति / तत्र आदित्यान् अन्तर्याय देवलोकात् वायुम् अभिसंभवेयुः / वायुम् अब्दात् इति तु छन्दोगश्रुति अपेक्षया उक्तम् / छान्दोग्य वाजसनेयकयोः तु एकत्र देवलोको न विद्यते परत्र संवत्सरः / तत्र श्रुतिद्वयप्रत्ययात् उभौ अपि उभयत्र ग्रथयितव्यौ / तत्र अपि माससंबन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम्
346 SK उक्तं मार्गस्यैक्यमुपजीव्य पर्वक्रममाह-वायुमब्दात् / अर्चिरादिष्वस्मादयमनन्तर इति क्रमेण विशेषणविशेष्यभाव उच्यत इत्यधिकरणस्य तात्पर्यमुक्त्वा विषयमाह-स एतमिति / अत्राग्न्यनन्तरं पठितो वायुर्विषयः / स किं अर्चिरात्मकाग्नेरनन्तरमुत संवत्सरात्पर इति पाठाद्वक्ष्यमाणविशेषश्रुतेश्च संशये सिद्धान्तमेवोपक्रमते-उच्यत इति / पुरुषः उपासको ऽस्माल्लोकाद्देहात्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथचक्रछिद्रतुल्येन द्वारेणोर्ध्वमादित्यं गच्छतीति श्रुत्यर्थः / इदानीं पूर्वपक्षमाह-कस्मात्पुनरिति / पाठबलादर्चिषो ऽनन्तरो वायुरित्यर्थः / कौषीतकिनां पाठमात्रं, न क्रमविशेषवाची कश्चिच्छब्दो ऽस्ति / काण्वानां तु तेनेत्यूर्ध्वमिति च शब्दाभ्यां क्रमनिश्चयात्पाठबाध इति सिद्धान्तार्थः / अस्त्वर्चिरादिमार्गे छान्दोग्यस्थे संवत्सरपाठाद्वायोरब्दात्परत्वं, वाजिश्रुतिस्थे तु संवत्सरस्याश्रुतेः कथमब्दात्परो वायुरित्यत आह-वाजेति / तर्हि देवलोकाद्वायुमिति सूत्रं स्यादित्यत आह-वायुमब्दादिति त्विति /
2 SK संवत्सरस्य मासावयवित्वान्मासानन्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः / तेनेति तृतीयाश्रुत्या वायोरादित्यपूर्वत्वावगमादिति, सूत्रे तु वायुपदं देवलोकपूर्वकवायुपरमिति स्थितम्
349 SK START Bस्Cओम्_४,३.३.३
350 SK ३ तडिदधिकरणम् / सू. ३
4.3.3 SK तटितो ऽधि वरुणः संबन्धात् | BBस्_४,३.३ |
3 SK ऽआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्ऽ (छा. ४.१५.५) इति अस्या विद्युत उपरिष्टात् स वरुणलोकम् इति अयं वरुणः संबध्यते / अस्ति हि संबन्धो विद्युत् वरुणयोः / यदा हि विशाल अविद्युतः तीव्रः तनितनिः घोषा जीमूत उदरेषु प्रनृत्यन्ति आथापः प्रपतन्ति / विद्योतते स्तनयति ऽवर्षिष्यति वाऽ (छा. ७.११.१) इति च ब्राह्मणम् / अपां च अधिपतिः वरुण इति श्रुतिस्मृतिप्रसिद्धिः / वरुणात् अधीन्द्रप्रजापती स्थानान्तर अभावात् पाठसामर्थ्यात् च / आनन्तुकत्वात् अपि वरुणादीनाम् अन्त एव निवेशो वैशेषिकस्थानाभावात् विद्युत् च अन्त्य अर्चिरादौ वर्त्मनि
353 SK एवं कौषीतकिभिरग्न्यनन्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरुणस्यार्चिरादिमार्गे स्थानमाह-तडितो ऽधि वरुणः संबन्धात् / पठितो वरुणादिर्मार्गपर्वत्वेन संबध्यते न वेति संदेहे ऽर्चिषो ऽहरित्यादि पञ्चम्यार्चिरादीनां क्रमेण मार्गपर्वतया बद्धत्वाद्वायोरिव स्थानविशेषश्रुत्यभावादलब्धस्थानो वरुणादिर्न संबध्यत इति प्राप्ते सिद्धान्तमाह-आदित्यादिति / अपां विद्युत्कार्यत्वेन संबन्धे मानमाह-विद्योतत इति /
3 SK वरुणस्याब्द्वारा विद्युसंबन्धात् ऽआगन्तुकानामन्ते निवेशःऽइति न्यायाय्च्च विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रम इत्यर्थः
356 SK START Bस्Cओम्_४,३.४.४
357 SK ४ आतिवाहिक अधिकरणम् / सू. ४-६
4.3.4 SK आतिवाहिकास् तल्लिङ्गात् | BBस्_४,३.४ |
359 SK तेषु एव अर्चिरादिषु संशयः - किम् एतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तृणाम् इति / तत्र मार्गलक्षणभूता अर्चिरादय इति तावत् प्राप्तम् / तत्स्वरूपत्वात् उपदेशस्य / यथा हि लोके कश्चित् ग्रामं नगरं वा प्रतिष्ठासमानः अनुशिष्यते गच्छेतः त्वम् अमुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसि इति एवम् इह अपि अर्चिषो अहरह्न आपूर्यमाणपक्षिम् इत्यादि आह / अथवा भोगभूमय इति प्राप्तम् / तथा हि - ऽलोकशब्देनाग्न्यादीननुबध्नाति अग्निलोकमागच्छतिऽ (कौषी. १.३) इत्यादि / लोकशब्दः च प्राणिनां भोगायतनेषु भाष्यते - ऽमनुष्यलोकः पितृलोको देवलोकःऽ (बृ. १.५.१६) इति च / तथा च ब्राह्मणम् - ऽअहोरात्रेषु ते लोकेषु सज्जन्तेऽ इत्यादि / तस्मात् न अतिवाहिका अर्चिरादयः / अचेतनत्वात् अपि एतेषाम् अतिवाहिकत्व अनुपपत्तिः / चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेषु अतिवाह्यान् अतिवाहयन्ति इति / एवं प्राप्ते ब्रूमः - आतिवाहिका एव एते भवितुम् अर्हन्ति / कुतः - तल्लिङ्गात् / तथा हि ऽचन्द्रमसो विद्युतं तत्पुरुषो ऽमानवः स एतान्ब्रह्म गमयतिऽ (छा. ४.१५.५) इति सिद्धत् गमयितृत्वं दर्शयति /
360 SK तत् वचनं तत् विषयम् एव उपक्षीणम् इति चेत् /
4 SK न / प्राप्तमानवत्व निवृत्तिपरत्वात् विशेषणस्य / यदि अर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः ततो युक्तं तत् निवृत्त्यर्थं पुरुषविशेषणम् अमानव इति
4 SK एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति-आतिवाहिकास्तल्लिङ्गात् / चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः / आद्यपक्षद्वयं पूर्वपक्षः / अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति-एवमित्यादिना / यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते-तद्वचनमिति / पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतो ऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह-नेति / नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः / नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति-नन्विति
364 SK START Bस्Cओम्_४,३.४.५
365 SK ननु तल्लिङ्गमात्रम् अगमकं न्याय अभावात् /
4.3.5 SK उभयव्यामोहात् तत् सिद्धेः | BBस्_४,३.५ |
368 SK ये तावत् अर्चिरादिमार्गाः ते देहवियोगात् संपिण्डितकरणग्रामा इति अस्वतन्त्रा अर्चिरादीनाम् अपि अचेतनत्वात् अस्वातन्त्र्यम् इति अतः अर्चिरादि अभिमानिनः चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते / लोके अपि हि मत्त मूर्च्छितादयः संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति /
5 SK अनवस्थितत्वात् अपि अर्चिरादीनां न मार्गलक्षणत्व उपपत्तिः / न हि रात्रौ प्रेतस्य अहःस्वरूप अभिसंभव उपपद्यते / न च प्रतिपालनमस्ति इति उक्तं पुरस्तात् / ध्रुवत्वात् तु देवता आत्मानां न अयं दोषो भवति / अर्चिरादि शब्दता च एषाम् अर्चिरादि अभिमानात् उपपद्यते ऽअर्चिषो ऽहःऽ(छा. ४.१५.५, ५,१०.१) इत्यादिनिर्देशः तु अतिवाहिकत्वे अपि न विरुध्यते अर्चिषा हेतुना अहः अभिसंभवति / अह्ना हेतुना आपूर्यमाणपक्षम् इति / तथा च लोके प्रसिद्धेषु अपि अतिवाहिकेषु एवञ्जातीयक उपदेशो दृश्यते / गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तम् इति / अपि च उपक्रमे ऽते ऽर्चिरभिसंभवन्तिऽ (बृ. ६.२.१५) इति संबन्धमात्रमुक्तं न संबन्धविशेषः कश्चित् / उपसंहारे तु ऽस एतान्ब्रह्म गमयति (छा. ४.१५.६) इति संबन्धविशेषः अतिवाहि अतिवाहकत्व लक्षण उक्तः तेन स एव उपक्रमे अपि इति निर्धार्यते / संपिण्डितकरणत्वात् एव च गन्तृषु न तत्र उपभोगसंभवः / लोकशब्दः तु अनुपभुञ्जानेषु अपि गन्तृषु गमयितुं शक्यते / अन्येषां तत् लोकवासिनां भोगभूमित्वात् / अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते वायुस्वामिकं प्राप्तो वायुना इति योजयितव्यम्
5 SK यद्यनेतारो ऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेदमिति सूत्रार्थः / पूर्वपक्षद्वयं दूषयति-अनवस्थितत्वादित्यादिना / अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः / यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह-अर्चिषो ऽहरिति / चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह-अपिचेति / यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह-संपिण्डितेति / सूत्रान्तरं गृह्णाति-कथं पुनरिति
372 SK START Bस्Cओम्_४,३.४.६
373 SK कथं पुनः अतिवाहिकत्वपक्षे वरुणादिषु तत्संभवः / विद्युतो हि अधि वरुणादय उपक्षिप्ता विद्युतः तु अनन्तरमा ब्रह्मप्राप्तेः अमानवस्य एव पुरुषस्य गमयितृत्वं श्रुतम् इति / अत उत्तरं पठति -
4.3.6 SK वैद्युतेनैव ततस् तच्छ्रुतेः | BBस्_४,३.६ |
6 SK ततो विद्युत् अभिसंभवनात् ऊर्ध्वं विद्युत् अनन्तरवर्तिन एव अमानवेन पुरुषेण वरुणलोकादिषु अतिवाह्यमाना ब्रह्मलोकं गच्छन्ति इति अवगन्तव्यम् / ऽतान्वैद्युतात्पुरुषो ऽमानवः स एत्य ब्रह्मलोकं गमयतिऽ इति तस्य एव गमयितृत्वश्रुतेः / वरुणादयः तु तस्य एव अप्रतिबन्धकरणेन साहाय्य अनुष्ठानेन वा केनचित् अनुग्राहका इति अवगन्तव्यम् / तस्मात् साधु उक्तम् अतिवाहिका देवतात्मानः अर्चिरादय इति
6 SK आमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः / श्रुतौ वैद्युताल्लोकादित्यर्थः / श्रुत्या वरुणादीनां नेतृत्वाभावे ऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः
378 SK START Bस्Cओम्_४,३.५.७
379 SK ५ कार्य अधिकरणम् / सू. ७-१४
4.3.7 SK कार्यं बादरिरस्य गत्युपपत्तेः | BBस्_४,३.७ |
7 SK ऽस एनान्ब्रह्म गमयति (छा. ४.१५.५) इति अत्र विचिकित्स्यते - किं कार्यम् अपरं ब्रह्म गमयति आहोस्वित् परम् एव अविकृतं मुख्यं ब्रह्म इति / कुतः संशयः / ब्रह्मशब्दप्रयोगात् गतिश्रुतेः च / तत्र कार्यमेव सगुणम् अपरं ब्रह्म एनान् गमयति अमानवः पुरुष इति बादरिः आचार्यो मन्यते / कुतः - अस्य गति उपपत्तेः / अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपत्तेः / अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपद्यते प्रदेशवत्त्वात् / न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिः वा अवकल्पते / सर्वगतत्वात् प्रत्यगात्मत्वात् च गन्तृणाम्
382 SK एवं मार्गं निरूप्य गन्तव्यं चिन्तयति-कार्यं बादरिरस्य गत्युपपत्तेः / परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह-तत्र कार्यमेवेति /
7 SK सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं, दृष्टं, ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः
385 SK START Bस्Cओम्_४,३.५.८
4.3.8 SK विशेषितत्वाच् च | BBस्_४,३.८ |
387 SK ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ. ६.२.१५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषय एव गतिः इति गम्यते / नहि बहुवचनेन विशेषणं परस्मिन् ब्रह्मणि अवकल्पते / कार्ये तु अवस्थाभेद उपपत्तेः संभवति बहुवचनम् / लोकश्रुतिः अपि विकारगोचरायाम एव संनिवेशविशिष्टायां भोगभूमावौ आञ्जसी / गौणी तु अन्यत्र ऽब्रह्मैव लोक एष सम्राट्ऽ इत्यादिषु / अधिकरण अधिकर्तव्यनिर्देशः अपि परस्मिन् ब्रह्मणि अनाञ्जसः स्यात् /
8 SK तस्मात् कार्यविषयमेव इदं नयनम्
389 SK ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह-विशेषितत्वाच्चेति /
8 SK परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः / नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहायः / न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः
392 SK START Bस्Cओम्_४,३.५.९-१२
393 SK ननु कार्यविषये अपि ब्रह्मशब्दो न उपपद्यते समन्वये हि समस्तस्य जगतो जन्मादिकारणं स्थापितम् इति /
4.3.9 SK सामीप्यात् तु तद्व्यपदेशः | BBस्_४,३.९ |
9 SK तु शब्द आशङ्का व्यावृत्त्यर्थः / परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः तस्मिन् अपि ब्रह्मशब्दप्रयोगो न विरुध्यते / परम् एव हि ब्रह्म विशुद्ध उपाधिसंबन्धं क्वचित् कैश्चित् विकारधर्मैः मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरम् इति स्थितिः
397 SK ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते / न हि परस्मात् ब्रह्मणः अन्यत्र क्वचित् नित्यतां संभावयन्ति / दर्शयति च देवयानेन पथा प्रस्थितानाम् अनावृत्तिम् / ऽएतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्तेऽ (छा. ४.१५.६) इति तेषाम् इह न पुनरावृत्तिः अस्ति ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६), क. ६.१६) इति चेत् / अत्र ब्रूमः -
4.3.10 SK कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् | BBस्_४,३.१० |
10 SK कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्र एव उत्पन्नसम्यग्दर्शनाः सन्तः तत् अध्यक्षेण हिरण्यगर्भेण सहातः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्त इति / क्रममुक्तिः अनावृत्त्यादि श्रुति अभिधानेभ्यो अभ्युपगन्तव्या / न हि आञ्जस एव गतिपूर्विका परप्राप्तिः संभवति इति उपपदितम्
4.3.11 SK स्मृतेश् च | BBस्_४,३.११ |
11 SK स्मृतिः अपि एतम् अर्थम् अनुजानाति - ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे / परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽइति / तस्मात् कार्यब्रह्मविषया गतिः श्रूयत इति सिद्धान्तः
402 SK कं पुन- पूर्वपक्षम् आशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ऽकार्यं बादरिःऽ (ब्र.सू. ४.३.७) इत्यादिन इति / स इदानीं सूत्रैः एव उपदर्श्यते -
4.3.12 SK परं जैमिनिर् मुख्यत्वात् | BBस्_४,३.१२ |
12 SK जैमिनिः तु आचार्यः ऽस एनान्ब्रह्म गमयतिऽ(छा. ४.१५.६) इति अत्र परमेव ब्रह्म प्रापयति इति मन्यते / कुतः - मुख्यत्वात् / परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यम् आलम्बनं, गौणम् अपरं, मुख्यगौणयोगः च मुख्ये संप्रत्ययो भवति
12 SK प्रतिसंचरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कुतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना / एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह-कं पुनरित्यादिना //९ // //१० // //११
406 SK END Bस्Cओम्_४,३.५.९-१२
407 SK START Bस्Cओम्_४,३.५.१३
4.3.13 SK दर्शनाच् च | BBस्_४,३.१३ |
13 SK ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६, क. ६.१६) इति च गतिपूर्वकम् अमृतत्वं दर्शयति / अमृतत्वं च परस्मिन् ब्रह्मणि उपपद्यते न कार्ये, विनाशित्वात् कार्यस्य / ऽअथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम्ऽ (छा. ७.२४.१) इति प्रवचनात् / परविषय एव च एषा गतिः कठवल्लीषु पठ्यते / न हि तत्र विद्यान्तरप्रक्रमः अस्ति ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. २.१४) इति परस्य एव ब्रह्मणः प्रक्रान्तत्वात्
13 SK दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता
411 SK END Bस्Cओम्_४,३.५.१३
412 SK START Bस्Cओम्_४,३.५.१४
4.3.14 SK न च कार्ये प्रतिपत्त्यभिसंधिः | BBस्_४,३.१४ |
414 SK अपि च ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा. ८.१४.१) इति न अयं कार्यविषयः प्रतिपत्ति अभिसंधिः ऽनामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. ८.१४.१) इति कार्यविलक्षणस्य परस्य एव ब्रह्मणः प्रकृतत्वात् / ऽयशो ऽहं भवामि ब्राह्मणानाम्ऽ (छा. ८.१४.१) इति च सर्वात्मत्वेन उपक्रमणात् / ऽन तस्य प्रतिमा अस्ति, यस्य नाममहद्यशःऽ (श्वेता. ४.१९) इति च परस्य एव ब्रह्मणो यशोनामत्व प्रसिद्धेः / ऽसा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम्ऽ (छा. ८.५.३) इति अत्र / पदेरपि च गत्यर्थत्वात् मार्ग अपेक्षा अवसीयते / तस्मात् परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् / तौ एतौ द्वौ पक्षौ आचार्येण सूत्रितौ गति उपपत्त्यादिभिः
415 SK एको मुख्यत्वादिभिः अपरः / तत्र गति उपपत्त्यादयः प्रभवन्ति मुख्यत्वादीन आभासयितुं न तु मुख्यत्वादयो गति उपपत्त्यादीन् इत्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयः पूर्वपक्षः / न हि असति अपि संभवे मुख्यस्य एव अर्थस्य ग्रहणम् इति कश्चित् आज्ञापयिता विद्यते / परविद्याप्रकरणे अपि च तत् स्तुत्यर्थं विद्यान्तर आश्रयगति अनुकीर्तनम् उपपद्यते ऽविष्वङ्ङन्या उत्क्रमणे भवन्तिऽ (छा. ८.६.६) इतिवत् / ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा. ८.१४.१) इति तु पूर्ववाक्यविच्छेदेन कार्ये अपि प्रतिपत्ति अभिसंधिः न विरुध्यते / सगुणे अपि च ब्रह्मणि सर्वात्मत्व संकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवत् अवकल्पते / तस्मात् अपरविषया एव गतिश्रुतयः / केचित् पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इति एतां व्यवस्थानम् अनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नं गन्तव्यत्व अनुपपत्तेः ब्रह्मणः / यत् सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ. ३.४.१) ऽय आत्मा सर्वान्तरःऽ (बृ. ३.४.१) ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२) ऽब्रह्मैवेदं विश्वमिदं वरिष्ठम्ऽ (मु. २.२.११) इत्यादि श्रुतिनिर्धारित विशेषं तस्य गन्तव्यता न कदाचित् अपि उपपद्यते / न हि गतमेव गम्यते / अन्यो हि अन्यत् गच्छति इति प्रसिद्धं लोके /
416 SK ननु लोके गतस्य अपि गन्तव्यता देशान्तरविशिष्टा दृष्टा / यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति इति / तथा अनन्यत्वे अपि सर्वशक्ति उपेतत्वात् कथञ्चित् गन्तव्यता स्यात् इति /
417 SK न / प्रतिषिद्धसर्वविशेषत्वात् ब्रह्मणः / ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ(श्वेता. ६.१९) ऽअस्थूलमनण्वह्रस्वमदीर्घम्ऽ(बृ. ३.८.८) ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु. २.१.२) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ(बृ. ४.४.२५) ऽस एष नेति नेत्यात्माऽ(बृ. ३.९.२३) इत्यादि श्रुति स्मृति न्यायेभ्यो न देशकालादि विशेषयोगः परमात्मनि कल्पयितुं शक्यते / येन भूप्रदेश वयोवस्था न्यायेन अस्य गन्तव्यता स्यात् / भूवयसोः तु प्रदेश अवस्थादि विशेषयोगात् उपपद्यते देश काल विशिष्टा गन्तव्यता / जगत् उत्पत्ति स्थिति प्रलयहेतुत्व श्रुतेः अनेकशक्तित्वं ब्रह्मण इति चेत् /
418 SK न / विशेषनिराकरणश्रुतीनाम् अनन्यार्थत्वात् /
419 SK उत्पत्त्यादिश्रुतीनाम् अपि समानम् अनन्यार्थत्वम् इति चेत् /
420 SK न / तासाम् एकत्वप्रतिपादनपरत्वात् / मृदादि दृष्टान्तैः हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च आवृतत्वं प्रतिपादयत् शास्त्रं न उत्पत्त्यादिपरं भवितुम् अर्हति / कस्मात् पुनः उत्पत्त्यादि श्रुतीनां विशेषत्वं न पुनः इतर शेषत्वम् इतरासाम् इति /
421 SK उच्यते - विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् / न हि आत्मन एकत्व नित्यत्व शुद्धत्वादि अवगतौ सत्यां भूयः काचित् आकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्धि उपपत्तेः / ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा. ७) ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. ४.२.४) ऽविद्वान्न बिभेति कुतश्चन / एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्ऽ (तैत्ति. २.९.१) इत्यादिश्रुतिभ्यः / तथा एव च विदुषां तुष्टि अनुभवादि दर्शनात् / विकार अनृत अभिसंधि अपवादात् च ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इति / अतो न विशेषनिराकरण श्रुतीनाम् अन्यशेषत्वम् अवगन्तुं शक्यते / न एवम् उत्पत्त्यादि श्रुतीनां निराकाङ्क्षार्थ प्रतिपादनसामर्थ्यम् अस्ति / प्रत्यक्षं तु तासाम् अन्यार्थत्वं समनुगम्यते / तथा हि ऽतत्रैतच्छ्रुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतिऽ (छा. ६.८.३) इति उपन्यस्य उदर्के सत एव एकस्य जगत् मूलस्य विज्ञेयत्वं दर्शयति / ऽयतो वा इमानि भूतानि जायन्ते / येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति / तद्विजिज्ञासस्व / तद्ब्रह्मेतिऽ (तै. ३.१.१) इति च / एवम् उत्पत्त्यादिश्रुतीनाम् ऐकात्म्य अवगमपरत्वात् न अनेकशक्तियोगो ब्रह्मणः / अतः च गन्तव्यत्व अनुपपत्तिः / ऽन तस्य प्राणा उत्क्रमन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इति च परस्मिन् ब्रह्मणि गतिं निवारयति / तत् व्याख्यातं ऽस्पष्टो ह्येकेषाम्ऽ (ब्र. सू. ४.२.१३) इत्यत्र / गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवो विकारो वा ततः स्यात् / अत्यन्त तादात्म्ये गमन अनुपपत्तेः / यदि एवं ततः किं स्यात् / उच्यते / यदि एकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनः ब्रह्मगमनम् उपपद्यते / एकदेशित्व कल्पना च ब्रह्मणि अनुपपन्ना निरवयवत्व प्रसिद्धेः / विकारपक्षे अपि एतत् अतुल्यं विकारेण अपि विकारिणो नित्यप्राप्तत्वात् / न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः / विकार अवयवपक्षयोः च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनम् अपि अनवकॢप्तम् / अथ अन्य एव जीवो ब्रह्मणः / सः अणुः व्यापी मद्यम परिमाणो वा भवितुम् अर्हति / व्यापित्वे गमन अनुपपत्तिः / मध्यम परिमाणत्वे च अनित्यत्वप्रसङ्गः / अणुत्वे कृत्स्नशरीरवेदना अनुपपत्तिः / प्रतिषिद्धे च अणुत्व मध्यम परिमाणत्वे विस्तरेण पुरस्तात् / परस्मात् च अन्यत्वे जीवस्य ऽतत्त्वमसिऽ (छा. ६.८.७) इत्यादि शास्त्र बाध प्रसङ्गः / विकार अवयवपक्षयोः अपि समानः अयं दोषः /
422 SK विकार अवयवयोः तद्वतोः अनन्यत्वात् अदोष इति चेत् /
423 SK न / मुख्य एकत्व अनुपपत्तेः / सर्वेषु एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः / संसारि आत्मत्व अनिवृत्तेः / निवृत्तौ वा स्वरूपनाशप्रसङ्गः / ब्रह्मात्मत्व अनभ्युपगमात् च / यत् तु कैश्चित् जल्प्यते नित्यानि नैमित्तिकानि कर्माणि अनुष्ठीयन्ते प्रत्यवाय अनुत्पत्तये काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकान् अवाप्तये सांप्रतदेह उपभोग्यानि च कर्माणि उपभोगेन एव क्षप्यन्त इत्यतो वर्तमानदेहपातात् ऊर्ध्वं देहान्तर प्रतिसंधान कारण अभावात् स्वरूप अवस्थानलक्षणं कैवल्यं विना अपि ब्रह्मात्मतय एवंवृत्तस्य सेत्स्यति इति / तत् असत् / प्रमाण अभावात् / न हि एतत् शास्त्रेण केनचित् प्रतिपादितं मोक्षार्थि इत्थं समाचरेत् इति / स्वमनीषया तु एतत् तर्कितं यस्मात् कर्मनिमित्तः संसारः तस्मात् निमित्त अभावात् न भविष्यति इति / न च एतत् तर्कयितुम् अपि शक्यते निमित्त अभावस्य दुर्ज्ञानत्वात् / बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्ट अनिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते / तेषां विरुद्ध फलानां युगपत् उपभोग असंभवात् कानिचित् लब्ध अवसराणि इदं जन्म निर्मिमते कानिचित् तु देशकालनिमित्तप्रतीक्षाणि असत इति अतः तेषाम् अवशिष्टानां सांप्रतेन उपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्य अपि वर्तमानदेहपाते देहान्तरनिमित्त अभावः शक्यते निश्चेतुम् / कर्मशेषसद्बावसिद्धः च ऽतद्य इह रमणीयचरणास्ततः शेषेणऽ इत्यादि श्रुति स्मृतिभ्यः / स्यात् एतत् / नित्य नैमित्तिकानि तेषां क्षेपकाणि भविष्यन्ति इति / तत् न / विरोध अभावात् / सति हि विरोधे क्षेप्यक्षेपकभावो भवति / न च जन्मान्तर संचितानां सुकृतानां नित्य नैमित्तिकैः अस्ति विरोधः / शुद्धरूपत्व अविशेषात् / दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणं न तु तावता देहान्तर निमित्त अभावसिद्धिः / सुकृतनिमित्तत्व उपपत्तेः / दुश्चरितस्य अपि अशेषक्षपण अनवगमात् / न च नित्य नैमित्तिकानुष्ठानात् प्रत्यवाय अनुत्पत्तिमात्रं न पुनः फलान्तर उत्पत्तिः इति प्रमाणम् अस्ति फलान्तरस्य अपि अनुनिष्पादिनः संभवात् / स्मरति हि आपस्तम्बः - ऽतद्यथाम्रे फलार्ते निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणार्था अनूत्पद्यन्तेऽ इति / न च असति सम्यक् दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तरालं केनचित् प्रतिज्ञातुं शक्यम् / सुनिपुणानम् अपि सूक्ष्म अपराधदर्शनात् / संशयितव्यं तु भवति तथा अपि निमित्त अभावस्य दुर्ज्ञानत्वमेव / न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्व भोक्तृत्व स्वभावस्य आत्मनः कैवल्यम् आकाङ्क्षितुं शक्यम् / अग्नि औष्ण्यवत् स्वभावस्य अपरिहार्यत्वात् /
424 SK स्यात् एतत् / कर्तृत्व भोक्तृत्व कार्यम् अनर्थो न तत् शक्तिः तेन शक्ति अवस्थाने ऽपि कार्यपरिहारत् उपपन्नो मोक्ष इति / तत्च न / शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् / अथ अपि स्यात् न केवला शक्तिः कार्यम् आरभते अनपेक्ष्य अन्यानि निमित्तानि / अत एकाकिनी सा स्थितापि न अपराध्यति इति / तत् च न / निमित्तानाम् अपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् / तस्मात् कर्तृत्व भोक्तृत्व स्वभावे सत्याम् अन्यसत्यां विद्यागम्यायां ब्रह्मात्मतायां न कथञ्चन मोक्षं प्रत्याशा अस्ति / श्रुतिः च - ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वेता. ३.८) इति ज्ञानात् अन्यं मोक्षमार्गं वारयति / परस्मात् अनन्यत्वे अपि जीवस्य सर्वव्यवहार लोपप्रसङ्गः /
425 SK प्रत्यक्षादि प्रमाण अप्रवृत्तेः इति चेत् /
426 SK न / प्राक् प्रबोधात् स्वप्नव्यवहारवत् तत् उपपत्तेः / शास्त्रं च ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ. २.४.१४, ४.५.१५) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादि व्यवहारम् उक्त्वा पुनः प्रबुद्धविषये ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. २.४.१४, ४.५.१५) इत्यादिना तत् अभावं दर्शयति / तत् एवं परब्रह्मविदो गन्तव्यादि विज्ञानस्य बाधितत्वात् न कथञ्चन गतिः उपपादयितुं शक्या / किंविषयाः पुनः गतिश्रुतय इति / उच्यते - सगुणविद्याविषया भविष्यन्ति / तथा हि क्वचित् पञ्चाग्निविद्यां प्रकृत्य गतिः उच्यते यथा ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ (छा. ४.१०.५) इति ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. ८.१.१) इति च तत्र अपि वामनीत्वादिभिः सत्यकामादिभिः च गुणैः सगुणस्य एव उपास्यत्वात् संभवति गतिः / न क्वचित् परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. ४.४.६) इति / ऽब्रह्मविदाप्नोति परम्ऽ(तै. २.१.१) इत्यादिषु तु सत्यपि आप्नोतेः गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्ति असंभवात् स्वरूपप्रतिपत्तिः एव इयम् अविद्या अध्यारोपित नाम रूप प्रविलय अपेक्षया अभिधीयते ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.७) इत्यादिवत् इति द्रष्टव्यम् / अपि च परविषया गतिः व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा / तत्र प्ररोचनं तावत्
427 SK ब्रह्मविदो न गति उक्त्या क्रियते / स्वसंवेद्येन एव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत् सिद्धेः / न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गति अनुचिन्तने काचित् अपेक्षा उपपद्यते / तस्मात् अपरब्रह्मणि वर्तमाना गतिः /
428 SK तत्र पर अपरब्रह्मविवेक अनवधारणेन अपरस्मिन् ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन् अध्यारोप्यन्ते / किं द्वे ब्रह्मणी परम् अपरं च इति / बाढं द्वे ऽएतद्वै सत्यकाम परं चापरं ब्रह्मयदोङ्कारःऽ (प्र. ५.२) इत्यादि दर्शनात् / किं पुनः परं ब्रह्म किम् अपरम् इति /
429 SK उच्यते / यत्र अविद्याकृत नाम रूपादि विशेषप्रतिषेधात् अस्थूलादिशब्दैः ब्रह्म उपदिश्यते तत् परम् / तत् एव यत्र नामरूपादिविशेषेण केनचित् विशिष्टम् उपासनाय उपदिश्यते ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. ३.१४.२) इत्यादिशब्दैस्तदपरम् /
430 SK ननु एवम् अद्वितीयश्रुतिः उपरुध्येत /
14 SK न / अविद्याकृत नाम रूप उपाधिकतया परिहृतत्वात् / तस्य च अपरब्रह्म उपासनस्य तत् संनिधौ श्रूयमाणम् ऽस यदि पितृलोककामो भवतिऽ (छा. ८.२.१) इत्यादि जगत् ऐश्वर्यलक्षणं संसारगोचरम् एव फलं भवति / अनिवर्तितत्वात् अविद्यायाः / तस्य च देशविशेष अवबद्धत्वात् तत्प्राप्त्यर्थं गमनम् अविरुद्धम् / सर्वगतत्वे अपि च आत्मन आकाशस्य इव घटादिगमने बुध्यादि उपाधिगमने गमनप्रसिद्धिः इति अवादिष्म ऽतद्गुणसारत्वात्ऽ (ब्र.सू. २.३.२९) इत्यत्र / तस्मात् ऽकार्यं बादरिः (ब्र. सू. ४.३.७) इत्येष एव स्थितः पक्षः / ऽपरं जैमिनिःऽ (ब्र.सू. ४.३.१२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनाय इति द्रष्टव्यम्
432 SK एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तं, संप्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसंकल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति-नच कार्य इति / परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः / यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसंकल्प एवायमित्यर्थः / अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह-सा चेति / तत्तत्र ब्रह्मलोके विद्याविधीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता / तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः / किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह-पदेरपीति / पूर्वपक्षमुपसंहरति-तस्मादिति / आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसंक्रमते-ताविति / ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्व्ःअं स्फुटयति-नहीति / गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः संकल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसंभवान्मुख्यार्थत्याग इत्यर्थः / यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्यःएव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् / यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह-परेति / यथा विद्यासंबद्धसुषुम्नास्तुत्यर्थं तदसंबद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणे ऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः / यदप्युक्तं प्राप्तिसंकल्पो ऽपि प्रकृतपरविषय इति तन्नेत्याह-प्रजापतेरिति / प्रजापतिसभावेश्मश्रुतिभिस्तत्संघातात्मकवाक्येन च प्रकरणं, बाध्यं, यशो ऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थ / स्वपक्षमुक्त्वा परमतं दूषयति-केचिदित्यादिना / सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते-नन्विति / यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् / ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह-सर्वशक्तीति / या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसो ऽपि कालान्तरे ऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः / अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह-नेत्यादिना / ऽअनादिमत्परं ब्रह्मऽइत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः / सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यं, निर्विशेषं तु नास्त्येवेति शङ्कते-जगदुत्पत्तीति / किं निर्विशेषस्यासत्त्वं मानभावात्सविशेषश्रुतिविरोधाद्वा / नाद्य इत्याह-नेति / द्वितीयं शङ्कते-उत्पत्त्यादीति / सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह-नेति / निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह-कस्मादिति / तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्संनिधावफलं तदङ्गमिति न्यायादित्याह-उच्यत इत्यादिना / न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह-प्रत्यक्षं त्विति / तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये / तथा तैत्तिरीयके ऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः / एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह-एवमिति / स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह-न तस्येति / एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति-गतिकल्पनायां चेत्यादिना / भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः / नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह-अत्यन्तेति / कल्पत्रये किं दूषणमिति पृच्छति-यद्येवमिति / कल्पद्वये ऽपि दोषान्तरमाह-विकारावयवपक्षयोश्चेति / विकारावयवरूपजीवविशिष्टस्यः ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् / नह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यथ्रः / अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः / तृतीयकल्पमनूद्य विकल्प्य दूषयति-अथेत्यादिना / अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह-विकारावयवयोरिति / भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति-नेति / किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् / नचास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशे ऽपि न नश्येदित्याह-सर्वेष्विति / ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति-यत्त्वित्यादिना / तदिति / एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः / तर्क एव मानमित्यत आह-न चैतत्तर्कयितुमिति / ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह-कर्मशेषसद्भावसिद्धिश्चेति / सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते-स्यादेतदिति / पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् / पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति संचितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह-तन्नेत्यादिना / क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह-नच नित्येति / प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः / तद्यथेति / निर्मिते आरोपिते सतीत्यर्थः / तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह-संशयितव्यं त्विति / ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः / ब्रह्मभिन्नस्य जीवस्यं कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह-नचेति / कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते-स्यादेतदिति / कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसंबद्धत्वान्मोक्षो न स्यादिति परिहरति-तच्चेत्यादिना /
14 SK मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति-परस्मादित्यादिना / प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति-तदेवमिति / ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह-ब्रह्मविदाप्नोतीति / वैफल्याच्च गतेर्न परविषयत्वमित्याह-अपिचेति / अनुचिन्तनपक्षं प्रत्याह-नच नित्यसिद्धति / कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्तेत्याह-तत्र परापरेति / प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह-किं द्वे इत्यादिना / व्यापिनो जीवस्य कथं गतिस्तत्राह-सर्वगतत्वे ऽपीति
434 SK END Bस्Cओम्_४,३.५.१४
435 SK START Bस्Cओम्_४,३.६.१५
436 SK ६ अप्रतीक आलम्बन अधिकरणम् / सू. १५-१६
4.3.15 SK अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च | BBस्_४,३.१५ |
438 SK स्थितम् एतत् कार्यविषया गतिः न परविषया इति / इदम् इदानीं संदिह्यते किं सर्वान् विकार आलम्बनान् अविशेषेण एव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् उत कांश्चित् एव इति / किं तावत् प्राप्तं सर्वेषाम् एव एषां विदुषाम् अन्यत्र परस्मात् ब्रह्णणो गतिः स्यात् / तथा हि - ऽअनियमः सर्वासाम्ऽ - (ब्र. सू. ३.३.३१) इति अत्राविशेषेण एव एषां विद्यान्तरेषु अवतारित इति / एवं प्राप्ते प्रत्याह - अप्रतीक आलम्बनान् इति / प्रतीक आलम्बनान् वर्जयित्वा सर्वान् अन्यान् विकार आलम्बनान् नयति ब्रह्मलोकम् इति बादरायण आचार्यो मन्यते / न हि एवम् उभयथा
439 SK अभाव अभ्युपगमे कश्चित् दोषः अस्ति / अनियम न्यायस्य प्रतीकव्यतिरिक्तेषु अपि उपासनेषु उपपत्तेः / तत्क्रतुः च अस्य उभयथाभावस्य समर्थको हेतुः द्रष्टव्यः / यो हि ब्रह्मक्रतुः स ब्राह्मम् ऐश्वर्यम् आसीदेदिति श्लिष्यते ऽतं यथा यतोपासते तदेव भवतिऽ इति श्रुतेः / न तु प्रतीकेषु ब्रह्म अक्रतुत्वम् अस्ति प्रतीकप्रधानत्वात् उपासनस्य /
15 SK ननु अब्रह्मक्रतुः अपि ब्रह्मगच्छति इति श्रूयते यथा पञ्चाग्नि विद्यायाम् ऽस एनान्ब्रह्म गमयतिऽ (छा. ४.१५.५) इति भवतु यत्र एवम् आहत्यवाद उपलभ्यते तत् अभावे तु औत्सर्गिकेण तत् क्रतुन्यायेन ब्रह्मक्रतूनाम् एव तत्प्राप्तिः न इतरेषाम् इति गम्यते
15 SK एवं गन्तव्यं निरूप्य गन्तृन्निर्धारयति-अप्रतीकेति / ऽस एवैनान् ब्रह्म गमयतिऽइत्यविशेषश्रुतेः तत्क्रतुन्यायाच्च / संशयमाह-इदमिति / अनियमाधिकरणे तत्त्वविदो ऽन्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदानीमपतीकोपासकानामेव मार्गो न सर्वेषां विकारोपासकानामित्युभयथाभावोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मादुपासकमात्रस्योत्तरमार्गसिद्धिरिति पूर्वपक्षफलं, सिद्धान्ते तूभयथाभावसिद्धिः / अदोषादिति सूत्रे परच्छेदः, अविरोधादित्यर्थः / अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रतीकोपासकान्यपरत्वादिति भावः / यद्यपि प्रतीकध्यायिनां पितृयाणतृतीयस्थानयोरप्रवेशादर्चिरादिमार्गो वाच्यस्तथापि तेषां विद्युत्पर्यन्तमेव गमनमस्तु न ब्रह्मप्राप्तिर्ब्रह्मक्रतुत्वाभावात् / यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः / प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्मध्यायित्वमस्ति / अस्य च न्यायस्य पञ्चाग्निविद्यायामाहत्यवादात्प्रत्यक्षवचनाद्बाध इष्ट इति सूत्रभाष्यार्थः
442 SK END Bस्Cओम्_४,३.६.१५
443 SK START Bस्Cओम्_४,३.६.१६
4.3.16 SK विशेषं च दर्शयति | BBस्_४,३.१६ |
445 SK नामादिषु प्रतीक उपासनेषु पूर्वस्मात् पूर्वस्मात् फलविशेषम् उत्तरस्मिन् उत्तरस्मिन् उपासने दर्शयति - ऽयावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतिऽ (छा. ७.१.५) ऽवाग्वाव नाम्नो भूयसीऽ (छा. ७.२.१) ऽयावद्वाचो गतं तत्रास्य यथाकामचारो भवतिऽ(छा. ७.२.२) ऽमनो वाव वाचो भूयःऽ (छा. ७.३.१)
16 SK इत्यादिना / स च अयं फलविशेषः प्रतीक तन्त्रत्वात् उपासनानाम् उपपद्यते / ब्रह्म तन्त्रत्वे तु ब्रह्मणः अविशिष्टत्वात् कथं फलविशेषः स्यात् / तस्मात् न प्रतीक आलम्बनानाम् इतरैः तुल्यफलत्वम् इति
447 SK किञ्च प्रतीकतारतम्येन फलतारतम्यश्रुतेर्न प्रतीकध्यायिनां ब्रह्मप्राप्तिरित्याह-विशेषं चेति /
16 SK तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम्
449 SK END Bस्Cओम्_४,३.६.१६
3 SK इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीशङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य तृतीयः पादः
3 SK इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ भाष्यरत्नप्रभायां चतुर्थाध्यायस्य तृतीयः पादः
452 SK // इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गामिधानाख्यस्तृतीयः पादः //
453 SK चतुर्थे ऽध्याये चतुर्थः पादः /
454 SK START Bस्Cओम्_४,४.१.१
455 SK चतुर्थो ऽध्याये चतुर्थः पादः /
456 SK [अत्र पादे ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणम्]
457 SK १ संपद्याविर्भाव अधिकरणम् / सू. १-३
4.4.1 SK संपद्याविर्भावः स्वेन शब्दात् | BBस्_४,४.१ |
459 SK एवम् एव एष संप्रसादः अस्मात् शरीरात् समुत्थाय परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यत इति श्रूयते / तत्र संशयः - किं देवलोकादि उपभोगस्थानेषु इव आगन्तुकेन केनचित् विशेषेण अभिनिष्पद्यत आहोत् आत्ममात्रेण इति / किं तावत् प्राप्तम् / स्थानान्तरेषु इव आगन्तुकेन केनचित् रूपेण अभिनिष्पत्तिः स्यात् / मोक्षस्य अपि फलत्वप्रसिद्धेः / अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् / स्वरूपमात्रेण चेत् अभिनिष्पत्तिः पूर्वासु अपि अवस्थासु स्वरूप अनापायात् विभाव्येत / तस्मात् विशेषेण केनचित् अभिनिष्पद्यत इति / एवं प्राप्ते ब्रूमः - केवलेन एव आत्मन आविर्भवति न धर्मान्तरेण इति / कुतः - स्वेन रूपेण अभिनिष्पद्यत इति स्वशब्दात् / अन्यथा हि स्वशब्देन इति विशेषणम् अनवकॢप्तं स्यात् /
460 SK ननु आत्मीय अभिप्रायः स्वशब्दो भविष्यति /
1 SK न / तस्य अवचनीयत्वात् / येन एव हि केनचित् रूपेण अभिनिष्पद्यते तस्य एव आत्मीयत्व उपपत्तेः स्वेन इति विशेषणम्न अर्थकं स्यात् / आत्मवचनतायां तु अर्थवत् केवलेन एव आत्मरूपेण अभिनिष्पद्यते न आगन्तुकेन अपररूपेणापि इति
462 SK पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, संप्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह-संपद्याविर्भावः स्वेनशब्दात् / निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह-एवमिति / पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलं, तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह-किमित्यादिना / स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्वेवेति मत्वा सिद्धान्तयति-एवमिति /
1 SK मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वे ऽत्वनर्थकानुवादः स्यादित्यर्थः
465 SK START Bस्Cओम्_४,४.१.२
466 SK कः पुनः विशेषः पूर्वासु अवस्थासु इह च स्वरूप अनपायसाम्ये सति इत्यत आह -
4.4.2 SK मुक्तः प्रतिज्ञानात् | BBस्_४,४.२ |
2 SK यः अत्र अभिनिष्पद्यत इति उक्तः स सर्वबन्ध विनिर्मुक्तः शुद्धेन एव आत्मना अवतिष्ठते / पूर्वत्र तु अन्धो भवति अपि रोदिति इव विनाशमेव अपीतो भवति इति च अवस्थात्रय कलुषितेन आत्मन इति अयं विशेषः / कथं पुनः अवगम्यते मुक्तः अयम् इदानीं भवति इति - प्रतिज्ञानात् इत्याह / तथा हि ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. ८.९.३, ८.१०.४, ८.११.३) इति अवस्थात्रय दोषविहीनम् आत्मानं व्याख्येयत्वेन प्रतिज्ञाय ऽअशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छा. ८.१२.१) इति च उपन्यस्य ऽस्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. ८.१२.३) इति च उपसंहरति / तथा आख्यायिक उपक्रमे अपि ऽय आत्मापहतपाप्माऽ (छा. ८.७.१) इत्यादि मुक्त आत्मविषयम् एव प्रतिज्ञानम् / फलत्वप्रसिद्धिः अपि मोक्षस्य बन्धनिवृत्तिमात्र अपेक्षा न अपूर्व उपजनन अपेक्षा / यत् अपि अभिनिष्पद्यत इति उत्पत्तिपर्यायत्वं तत् अपि पूर्व अवस्थापेक्षं यथा रोगनिवृत्तौ अरोगःअभिनिष्पद्यत इति तद्वत् / तस्मात् अदोषः
469 SK सूत्रान्तरं गृह्णाति-कः पुनरिति /
2 SK जागरिते ह्यान्ध्यादिदेहधर्मवान्भवति स्वप्ने तु हत एव केनचित् / अपिच पुत्रादिनाशाद्रोदितीव भवति, सुषुप्तौ तु विशेषाज्ञानाद्विनष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्योतमानपूर्णानन्दात्मनावतिष्ठत इति महान् विशेष इत्यर्थः
472 SK START Bस्Cओम्_४,४.१.३
4.4.3 SK आत्मा प्रकरणात् | BBस्_४,४.३ |
474 SK कथं पुनः मुक्त इति उच्यते - यावता ऽपरं ज्योतिरुपसंपद्यऽ (छा. ८.१२.३) इति कार्यगोचरम् एव एनं श्रावयति / ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् / न च अनतिवृत्तो विकारविषयात् कश्चित् मुक्तो भवितुम् अर्हति / विकारस्य आर्तत्वप्रसिद्धेः इति /
3 SK न एष दोषः / यत ज्योतिः शब्देन आवेद्यते प्रकरणात् ऽय आत्मापहतपाप्मा विजरो विमृत्युःऽ (छा. ८.७.१) इति हि प्रकृते परस्मिन् आत्मनि न अकस्मात् भौतिकं ज्योतिः शक्यं ग्रहीतुम् / प्रकृतहान अप्रकृतप्रक्रिया प्रसङ्गात् / ज्योतिःशब्दः तु आत्मनि अपि दृश्यते ऽतद्देवा ज्योतिषं ज्योतिः (बृ. ४.४.१६) इति / प्रपञ्चितं चैतत्ऽ(ब्र. सू. १.३.४०) इत्यत्र
3 SK कार्यगोचरमिति / कार्यं ज्योतिःप्राप्तमित्यर्थः / कार्यं प्राप्तो ऽपि मुक्तः किं न स्यादित्यत आह-न चानतिवृत्त इति
478 SK START Bस्Cओम्_४,४.२.४
479 SK २ अविभागेन दृष्टत्व अधिकरणम् / सू. ४
4.4.4 SK अविभागेन दृष्टत्वात् | BBस्_४,४.४ |
4 SK परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते यः स किं परस्मात् आत्मनः पृथगेव भवति उत अविभागेन एव अवतिष्ठत वीक्षायाम् स ऽतत्र पर्येतिऽ ( ८.१२.३) इति अधिकरण अधिकर्तव्य निर्देशात् ज्योतिः उपसंपद्य (छा. ८.१२.३) इति च कर्तृकर्मनिर्देशात् भेदेन एव अवस्थानम् इति यस्य मतिः तं व्युत्पादयति अविभक्त एव परेण आत्मना मुक्तः अवतिष्ठते / कुतः - दृष्टत्वात् / तथा हि ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१०) ऽयत्र नान्यत्पश्यतिऽ (छा. ७.२४.१) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. ४.३.२३) इति एवमादीनि वाक्यानि अविभागेन एव परमात्मानं दर्शयन्ति / यथादर्शनम् एव च फलं युक्तं तत्क्रतु न्यायात् / ऽयथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति / एवं मुनेः विजानत आत्मा भवति गौतमऽ (क. ४.१५) इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यानि अविभागमेव दर्शयन्ति / नदी समुद्रादि निदर्शनानि च / भेदनिर्देशः तु अभेदे अपि उपचर्यते / ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. ७.२४.१) इति ऽआत्मरतिरात्मक्रीडःऽ (छा. ७.२५.२) इति च एवमादिदर्शनात्
4 SK अविभागेन दृष्टत्वात् / स्वरूपस्थितमुक्तमुपजीव्य वादिविवादात् ब्रह्मभेदाभेदसंशये सत्यत्यन्तभेदं पूर्वपक्षमुक्त्वा सिद्धान्तमाह-यस्येति
484 SK START Bस्Cओम्_४,४.३.५
485 SK ३ ब्राह्म अधिकरणम् / सू. ५-७
4.4.5 SK ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः | BBस्_४,४.५ |
5 SK स्थितम् एतत् ऽस्वेन रूपेणऽ(छा. ८.३.४) इति अत्र आत्ममात्ररूपेण अभिनिष्पद्यत न आगन्तुकेन अपररूपेण इति / अधुना तु तत् विशेषबुभुत्सायाम् अभिधीयते स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादि सत्यसंकल्पत्व अवसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेण अभिनिष्पद्यत इति जैमिनिः आचार्यो मन्यते / कुतः - उपन्यासादिभ्यः तथात्व अवगमात् / तथा हि - ऽय आत्मापहतपाप्माऽ (छा. ८.७.१) इत्यादिना ऽसत्यकामः सत्यसंकल्पःऽ (छा. ८.७.१) इति एवम् अन्तेन उपन्यासेन एवम् आत्मकताम् आत्मनो बोधयति / तथा ऽस तत्र पर्येति जक्षन्क्रीडन्रममाणःऽ (छा. ८.१२.३) इति ऐश्वर्यरूपम् आवेदयति / ऽतस्य सर्वेषु लोकेषु कामचारो भवतिऽ (छा. ७.२५.२) इति च / ऽसर्वज्ञः सर्वेश्वरःऽ इत्यादि व्यपदेशाः च एवम् उपपन्ना भविष्यन्ति इति
488 SK ब्राह्मेण जैमिनिःउक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रो ऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह-अधुनेत्यादिना / तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् / सो ऽन्वेष्टव्य इतिविध्यर्थ उद्देशो य आत्मेत्यादिरूपन्यासशब्दार्थः / आदिपदाद्विधिव्यपदेशग्रहः / तत्राज्ञातज्ञापको विधिस्तमाह-तथा स तत्रेति /
5 SK सर्वज्ञ इत्यादिस्तु व्यपदेशो ऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः
491 SK START Bस्Cओम्_४,४.३.६
4.4.6 SK चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः | BBस्_४,४.६ |
6 SK यद्यपि अपहपाप्मत्वादयोभेदेन एव धर्मा निर्दिश्यन्ते तथा अपि शब्दविकल्पजा एव एते / पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते / चैतन्यमेव तु अस्य आत्मनः स्वरूपम् इति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिः युक्ता / तथा च श्रुतिः - ऽएवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. ४.५.१३) इति एवञ्जातीयका अनुगृहीता भविष्यति / सत्यकामत्वादयः तु यदि अपि वस्तुस्वरूपेण एव धर्मा उच्यन्ते सत्याः कामा अस्य इति / तथा अपि उपाधिसंबन्ध अधीनत्वात् तेषां न चैतन्यवत् स्वरूपसंभवः / अनेक आकारत्वप्रतिषेदात् / प्रतिषिद्धं हि ब्रह्मणः अनेक आकारत्वम् ऽन स्थानतो ऽपि परस्योभयलिङ्गम्ऽ (ब्र.सू, ३.२.११) इत्यत्र / अत एव च जक्षणादि संकीर्तनम् अपि दुःख अभावमात्र अभिप्रायं स्तुत्यर्थम् आत्मरतिः इत्यादिवत् / न हि मुख्यानि एव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुं द्वितीय विषयत्वात् तेषाम् / तस्मात् निरस्त अशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इति औडुलोमिः आचार्यो मन्यते
494 SK सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह-चितितन्मात्रेणेति / चितिश्चैतन्यं, शब्दज्ञानाद्यो विकल्पो ऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् / अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह-सत्यकामेति / चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह-अत एव चेति /
6 SK सर्वधर्मनिषेधादेवेत्यर्थः
497 SK START Bस्Cओम्_४,४.३.७
4.4.7 SK एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः | BBस्_४,४.७ |
7 SK एवम् अपि पारमार्थिक चैतन्यमात्रस्वरूप अभ्युपगमे अपि व्यवहार अपेक्षया पूर्वस्य अपि उपन्यासादिभ्यः अवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्ययाख्यानात् अविरोधं बादरायण आचार्यो मन्यते
7 SK धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् / अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति-एवमपीति / अत्र केचिन्मुह्यन्ति-अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः / ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति / नच मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यं, न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः / तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् / न / प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसंमत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति संक्षेपः
502 SK START Bस्Cओम्_४,४.४.८
503 SK ४ संकल्प अधिकरणम् / सू. ८-९
4.4.8 SK संकल्पाद् एव तु तच्छ्रुतेः | BBस्_४,४.८ |
505 SK हार्दविद्यायां श्रूयते - ऽस यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. ८.२.१) इत्यादि / तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुः उत निमित्तान्तर सहित इति / तत्र सति अपि संकल्पादेव इति श्रवणे लोकवत् निमित्तान्तर अपेक्षता युक्ता / यथा लोके अस्मदादीनां संकल्पात् गमनादिभ्यः च हेतुभ्यः पित्रादि संपत्तिः भवति एवं मुक्तस्य अपि स्यात् / एवं दृष्टविपरीतं न कल्पितं भविष्यति / संकल्पादेव इति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभाम् अपेक्ष्य उच्यते / न च संकल्पमात्रसम् उत्थानाः पित्रादयो मनोरथाविजृम्भितवत् चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युः इति /
8 SK एवं प्राप्ते ब्रूमः संकल्पादेव तु केवलात् पित्रादिसमुत्थानम् इति / कुतः - तत् श्रुतेः / ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. ८.२.१) इत्यादिका हि श्रुतिः निमित्तान्तर अपेक्षायां पीड्येत / निमित्तान्तरम् अपि तु यदि संकल्प अनुविधायि एव स्यात् भवतु न तु प्रयत्नान्तरसंपाद्यं निमित्तान्तरम् इति इष्यते / प्राक् तत् संपत्तेः वन्ध्यसंकल्पत्व प्रसङ्गात् / न च श्रुति अवगम्ये अर्थे लोकवत् इति सामान्यतो दृष्टं क्रमते / संकल्पबलात् एव च एषां यावत् प्रयोजनं स्थैर्य उपपत्तिः. प्राकृतसंकल्पविलक्षणत्वात् मुक्तसंकल्पस्य
8 SK एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति-संकल्पादेव तु तच्छ्रुतेः / एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य संकल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसंकल्पत्वादस्मदादिसंकल्पवत् / न चैवकारविरोधः संकल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः / अत्र लोकवृत्तानुसरणं फलं, सिद्धान्ते तु विद्याबलेन संकल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति बेदः / किञ्च यदि भोगसंकल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसंकल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसंकल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह-निमित्तान्तरमपि त्विति
509 SK START Bस्Cओम्_४,४.४.९
4.4.9 SK अत एव चानन्याधिपतिः | BBस्_४,४.९ |
511 SK अत एव च अवन्ध्यसंकल्पत्वात् अनन्य अधिपतिः विद्वान् भवति न अस्य अन्यः अधिपतिः भवति इत्यर्थः /
9 SK न हि प्राकृतो अपि संकल्पयन् अन्यस्वामिकत्वम् आत्मनः सत्यां गतौ संकल्पयति / श्रुतिः च एतत् दर्शयति - ऽअथ य इहात्मानमनुविद्य व्रजन्त्येश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. ८.१.६) इति
513 SK नन्वीश्वराधीनस्य विदुषः कथं संकल्पमात्राद्भोगसिद्धिस्तत्राह-अत एवेति /
9 SK ईश्वरधर्म एव विदुष्याविर्भूत इति न संकल्पभङ्ग इति भावः
516 SK START Bस्Cओम्_४,४.५.१०-११
517 SK अभाव अधिकरणम् / सू. १०-१४
4.4.10 SK अभावं बादरिर् आह ह्य् एवम् | BBस्_४,४.१० |
10 SK ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. ८.२.१) इत्यादि श्रुतेः मनः तावत् संकल्पसाधनं सिद्धम् / शरीर इन्द्रियाणि पुनः प्राप्त ऐश्वर्यस्य विदुषः सन्ति न वा सन्ति इति समीक्ष्यते / तत्र बादरिः तावत् आचार्यः शरीरस्य इन्द्रियाणां च अभावं महीयमानस्य विदुषो मन्यते / कस्मात् / एवं हि आह आम्नायः ऽमनसैतान्कामान्पश्यन्रमतेऽ (छा. ८.१२.५) ऽय एते ब्रह्मलोकेऽ (छा. ८.१३.१) इति / यदि मनसा शरीर इन्द्रियाणां मोक्षे
4.4.11 SK भावं जैमिनिर् विकल्पामननात् | BBस्_४,४.११ |
11 SK जैमिनिः तु आचार्यो मनोवत् शरीरस्य अपि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते / यतः ऽस एकधा भवति त्रिधा भवतिऽ(छा. ७.२३.२) इत्यादिना अनेकधा अभावविकल्पम् आमनन्ति / न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् / यदि अपि निर्गुणायां भूमविद्यायाम् अयम् अनेकधा अभावविकल्पः पठ्यते तथा अपि विद्यमानमेव इदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्या स्तुतये संकीर्त्यत इति अतः सगुणविद्याफलभावेन उपतिष्ठत इति
522 SK एवकारवन्मनसेति विशेषणेनान्ययोगव्यवच्छेदाद्देहाद्यभाव इति पूर्वपक्षयति-अभावं बादरिराह ह्येवम् / अत्रापि वादिविवादात्संशयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः /
11 SK कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः / फलं तु तत्तच्छ्रुतेर्मुख्यत्वमिति विवेकः //१०
524 SK END Bस्Cओम्_४,४.५.१०
525 SK END Bस्Cओम्_४,४.५.११
526 SK START Bस्Cओम्_४,४.५.१२-१४
4.4.12 SK द्वादशाहवद् उभयविधं बादरायणो ऽतः | BBस्_४,४.१२ |
12 SK बादरायणः पुनः आचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यते यदा सशरीरतां संकल्पयति तदा सशरीरो भवति यदा तु अशरीरतां तदा अशरीर इति / सत्यसंकल्पत्वात् / संकल्प वैचित्र्यात् च / द्वादश अहवत् / यथा द्वादश अहःसत्रम् अहीनः च भवति / उभयलिङ्ग श्रुतिदर्शनात् एवम् इदम् अपि इति
4.4.13 SK तन्वभावे सन्ध्यवद् उपपत्तेः | BBस्_४,४.१३ |
13 SK यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा यथा संध्ये स्थाने शरीर इन्द्रियविषयेषु अविद्यमानेषु अपि उपलब्धिमात्रा एव पित्रादिकामा भवति एवं मोक्षे अपि स्युः एवं हि एतत् उपपद्यते
4.4.14 SK भावे जाग्रद्वत् | BBस्_४,४.१४ |
14 SK भावे पुनः तनोः यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति एवं मुक्तस्य अपि उपपद्यते
14 SK द्वादशाहवदिति / य एवंविद्वांसः सत्रमुपयन्ति इत्युपायिचोदनागम्यत्वश्रुतेर्द्वादशाहस्य सत्रत्वं, आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः / तथा द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमेन द्विरात्रादिवदहीनत्वं चेत्यर्थः //१२ // //१३
535 SK END Bस्Cओम्_४,४.५.१२-१४
536 SK START Bस्Cओम्_४,४.५.१५
537 SK ६ प्रदीप अधिकरणम् / सू. १५-१६
4.4.15 SK प्रदीपवदावेशस् तथा हि दर्शयति | BBस्_४,४.१५ |
539 SK भावं ऽजैमिनिर्विकल्पामननात्ऽ ( ब्र.सू. ४.४.११) इति अत्र सशरीरत्वं मुक्तस्य उक्तम् / तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्राणि इव सृज्यन्ते किं वा सात्मकानि अस्मदादि शरीरवत् इति भवति वीक्षा / तत्र च आत्म मनसोः भेद अनुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि इति / एवं प्राप्ते प्रतिपद्यते - प्रदीपवत् आवेश इति / यथा प्रदीप एकः अनेकप्रदीपभावम् आपद्यते विकारशक्तियोगात् / एवम् एकः अपि सन् विद्वान ऐश्वर्ययोगात् अनेकभावम् आपद्य सर्वाणि शरीराणि आविशति / कुतः, तथा हि दर्शयति शास्त्रम् एकस्य अनेकभावम् - ऽस एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधाऽ (छा. ७.२६.२) इत्यादि /
540 SK न एतत् दारुयन्त्र उपमा अभ्युपगमे अवकल्पते न अपि जीवान्तरावेशे / न च निरात्मकानां शरीराणां प्रवृत्तिः संभवति / यत् तु आत्म मनसोः भेद अनुपपत्तेः अनेकशरीरयोग असंभव इति /
15 SK न एष दोषः / एकमनोनुवर्तिनि समनस्कानि एव अपराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति / सृष्टेषु च तेषु उपाधिभेदात् आत्मनः अपि भेदेन अधिष्ठातृत्वं योक्ष्यते / एष एव च योगशास्त्रेषु योगिनाम् अनेकशरीरप्रयोगक्रिया
542 SK प्रदीपवदावेशः / संकल्पमात्रान्निर्मितदेहानुपजीव्य तेषूभयथादर्शनात्संशयमाह-भावमिति / अनादिलिङ्गशरीरस्यैकस्मिन्नेव शरीरे भावान्निर्मितानेकदेहेषु भोगासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे-यथेत्यादिना / स एकधा त्रिधा पञ्चधेत्यादिश्रुत्या विदुष एवानेकधाभाव उक्तः / विद्वांस्तु न देहो नापि चिन्मात्रः / किन्तु लिङ्गोपहितात्मा / नच तस्य लिङ्गभेदं विनानेकत्वं संभवति / अतः श्रुतिबलादेकस्यैवानादिलिङ्गस्यानेकदेहेषु प्रवेशेन भेद एष्टव्यः / यद्यपि मूलप्रदीपस्य वर्त्यन्तरेषूत्पन्नदीपानां चात्यन्तभेदो ऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदुपहितजीवभेदादनुसंधानानुपपत्तेः / आगन्तुकानेकलिङ्गसृष्टावसत्कार्यवादापाताच्च / तथापि प्रदीपत्वजात्यैक्येन व्यक्तिष्वैक्यारोपात् दृष्टान्तदार्ष्टान्तिकयोः साम्यं दृष्टव्यम् / तथाच यथा प्रदीपो ऽनैकवर्तिषु प्रविशति एवं विद्यायोगबलाद्विद्वलिङ्गस्य व्यापित्वादनेकदेहेषु युगपदावेश इति सूत्रार्थः / विदुषो ऽनेकधात्वं श्रुतमन्यथा न घटत इत्याह-नैतदिति / इतश्च सात्मकत्वमित्याह-नच निरात्मकानामिति / यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थापि मनांसि भवन्ति तदवस्थानां तन्नियम्यत्वसंभवादिति / अत्र योगशास्त्रसंमतिमाह-एषैवेति /
15 SK निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति हि भगवत्पतञ्जलिना सूत्रितम् / योगिनो ऽभिमानमात्रान्निर्माणचित्तानि निर्माणदेहेषु भवन्ति, तेषां नियामकमनादिचित्तमित्यर्थः
544 SK END Bस्Cओम्_४,४.५.१५
545 SK START Bस्Cओम्_४,४.६.१६
546 SK कथं पुनः मुक्तस्य अनेकशरीर आवेशादिलक्षणम् ऐश्वर्यम् अभ्युपगम्यते यावता ऽतत्केन कं विजानीयात्ऽ (बृ. ४.५.१५) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यद्विजानीयात्ऽ (बृ. ४.३.३०) ऽसलिल एको द्रष्टाद्वैतो भवतिऽ (बृ. ४.३.३२) इति च एवञ्जातीयका श्रुतिः विशेषविज्ञानं वारयति इत्यत उत्तरं पठति -
4.4.16 SK स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि | BBस्_४,४.१६ |
16 SK स्वाप्ययः सुषुप्तम् ऽस्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षतेऽ (छा. ६.८.१) इति श्रुतेः / संपत्तिः कैवल्यम्, ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इति श्रुतेः / तयोः अन्यतराम् अवस्थाम् अपेक्ष्य एतत् विशेषसंज्ञाभाव वचनम् / क्वचित् सुषुप्त अवस्थाम् अपेक्ष्य उच्यते क्वचित् कैवल्य अवस्थाम् / कथम् अवगम्यते यतः तत्र एव एतत् अधिकारवशात् आविष्कृतम् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीतिऽ (बृ. २.४.१४) ऽयत्र त्वस्य सर्वमात्मैवाभूत्ऽ (बृ. २.४.१४) ऽयत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतिऽ (बृ. ४.३.१९, माण्डू. ५) इत्यादि श्रुतिभ्यः / सगुणविद्याविपाक अवस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरं यत्र एतत् ऐश्वर्यम् उपवर्ण्यते / तस्मात् अदोषः
549 SK उत्तरसूत्रव्यावर्त्यशङ्कामाह-कथं पुनरिति / सलिलवत्सलिलः, स्वच्छ इत्यर्थः / न तु तद्द्वितीयमस्तीति क्वचित्सुषुप्तिमधिकृत्योक्तं ऽतत्केन कम्ऽइत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् / एवं विशेषज्ञानाभाववचनं सुषुप्तिमुक्त्यन्यतरापेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्नविषयत्वादित्याह-स्वाप्ययेति /
16 SK तत्रैव श्रुतौ तदधिकारवशात्सुषुप्त्यादिप्रकरणबलात्, उक्तवचनानामन्यतरापेक्षत्वमाविष्कृतं हि यतस्ततो ऽवगम्यत इत्यर्थः / अत्र समुत्थानादिवाक्यं मुक्तिविषयं यत्र सुप्ता इति सुप्तिविषयमिति विभागः
551 SK END Bस्Cओम्_४,४.६.१६
552 SK START Bस्Cओम्_४,४.७.१७
553 SK ७ जगत् व्यापार अधिकरणम् / सू. १७-२२
4.4.17 SK जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च | BBस्_४,४.१७ |
17 SK ये सगुणब्रह्म उपासनात् सह एव मनसा ईश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहम् ऐश्वर्यं भवति आहोस्वित् सावग्रहम् इति संशयः / किं तावत् प्राप्तम् / निरङ् कुशमेव एषाम् ऐश्वर्यं भवितुम् अर्हति ऽआप्नोति स्वाराज्यम्ऽ (तै. १.६.२) ऽसर्वे ऽस्मै देवा बलिमावहन्तिऽ (तै. १.५.३) ऽतेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. ७.२५.२, ८.१.६) इत्यादि श्रुतिभ्य इति / एवं प्राप्ते पठति - जगत् व्यापारवर्जम् इति / जगत् उत्पत्त्यादि व्यापारं वर्जयित्वा अन्यत् अणिमादि आत्मकम् ऐश्वर्यं मुक्तानां भवितुम् अर्हति जगत् व्यापारः तु नित्यसिद्धस्य एव ईश्वरस्य / कुतः - तस्य तत्र प्रकृतत्वात् असंनिहितत्वात् च इतरेषाम् / पर एव हि ईश्वरो जगत् व्यापारे अधिकृतः / तम् एव प्रकृत्य उत्पत्त्यादि उपदेशात् / नित्यशब्दनिबन्धनत्वात् च / तत् अन्वेषणविजिज्ञासनपूर्वकं तु इतरेषाम् अणिमादि ऐश्वर्यं श्रूयते / तेन असंनिहिताः ते जगत् व्यापारे / समनस्कत्वात् एव च एतेषाम् अनैकमत्ये कस्यचित् स्थिति अभिप्रायः कस्यचित् संहार अभिप्राय इति एवं विरोधः अपि कदाचित् स्यात् / अथ कस्यचित् संकल्पम् अन्वयस्य संकल्प इति अविरोधः समर्थ्येत ततः परमेश्वर आकूततन्त्रत्वम् एव इतरेषाम् इति व्यवतिष्ठते
17 SK जगद्व्यापारवर्जम् / संकल्पादेवेत्यादिनोक्तैश्वर्यस्य जगत्सृष्ट्यादिव्यतिरिक्तविषयत्वेनात्रापवादात्संगतिः / उभयथा दर्शनात्संशयः / ईश्वरनानात्वं पूर्वपक्षफलं, सिद्धान्ते तु विद्यायोगिनामीश्वरनियम्यत्वादेकस्य नित्यसिद्धस्येश्वरस्यैव जगत्कर्तृत्वसिद्धिरिति विवेकः / प्रलयात्सर्गसमये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव नियन्तृत्वादिर्जगद्व्यापारः / नद्ध्युपासकानां देहं विनेक्षणं संभवति / किञ्चेश्वरस्य नित्यसिद्धत्वाच्छब्दैकसमधिगम्यत्वाच्च जगत्स्रष्टृत्वं युक्तं, न तु तत्प्रसादलब्धसिद्धीनां जीवानामित्याह-नित्यशब्दनिबन्धनत्वाच्चेति / किञ्च विदुषां समप्राधान्ये मिथो विरोधः / एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह-समनस्कत्वादिति
557 SK END Bस्Cओम्_४,४.७.१७
558 SK START Bस्Cओम्_४,४.७.१८
4.4.18 SK प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः | BBस्_४,४.१८ |
560 SK अथ यत् उक्तम् ऽआप्नोति स्वाराज्यम्ऽ (तै. १.६.२) इत्यादि प्रत्यक्ष उपदेशात् निरवग्रहम् ऐश्वर्यं विदुषां न्याय्यम् इति तत्परिहर्तव्यम् /
18 SK अत्र उच्यते / न अयं दोषः / आधिकारिकमण्डलस्थ उक्तेः / आधिकारिको यः सवितृमण्डलादिषु विशेष आयतनेषु अवस्थितः पर ईश्वरः तदायत्त एव इयं स्वाराज्यप्राप्तिः उच्यते / यत्कारणम् अनन्तरम् ऽआप्नोति मनसस्पतिम्ऽ (तै. १.६.२) इत्याह / यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोति इति एतत् उक्तं भवति / तत् अनुसारेण एव च अनन्तरम् ऽवाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवतिऽ (तै. १.६.२) इत्याह / एवम् अन्यत्र अपि यथासंभवं नित्यसिद्ध ईश्वर आयत्तम् एव इतरेषाम् ऐश्वर्यं योजयितव्यम्
18 SK अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकः, स चासौ मण्डलस्थश्च तस्य प्राप्यत्वोक्तेरित्यर्थः / मनसस्पतिः सूर्यमण्डलान्तःस्थः परमात्मा ऽतत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि / धियो यो नः प्रचोदयात्ऽइति श्रुतेः / तथाच यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् / अतो भोगे स्वाराज्यं न जगज्जन्मादिष्विति भावः / वाक्पतित्वादिकमपीश्वराधीश्वराधीनमित्याह-तदनुसारेणेति / उक्तन्यायं कामचारादिवाक्येष्वतिदिशति-एवमिति
563 SK END Bस्Cओम्_४,४.७.१८
564 SK START Bस्Cओम्_४,४.७.१९
4.4.19 SK विकारावर्ति च तथा हि स्थितिम् आह | BBस्_४,४.१९ |
19 SK विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपं न केवलं विकारमात्रगोचरं सवितृमण्डलादि अधिष्ठानम् / तथा हि अस्य द्विरूपां स्थितिम् आह आम्नायः ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः / पादो ऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इति एवमादिः / न च तत् निर्विकारं रूपम् इतर आलम्बनाः प्राप्नुवन्ति इति शक्यं वक्तुम् अतत्क्रतुत्वात् तेषाम् / अतः च यथा एव द्विरूपे परमेश्वरे निर्गुणं रूपम् अनवाप्य सगुण एव अवतिष्ठन्त एवं सगुणः अपि निरवग्रहम् ऐश्वर्यम् अनवाप्य सावग्रह एव अवतिष्ठन्त इति द्रष्टव्यम्
19 SK जगद्व्यापार उपासकप्राप्यः तदुपास्यनिष्ठत्वात्संकल्पसिद्ध्यादिवदित्याशङ्क्योपास्यस्थनिर्गुणस्वरूपे व्यभिचारमाह-विकारावर्ति चेति
568 SK END Bस्Cओम्_४,४.७.१९
569 SK START Bस्Cओम्_४,४.७.२०
4.4.20 SK दर्शयतश् चैवं प्रत्यक्षानुमाने | BBस्_४,४.२० |
20 SK दर्शयतः च विकार आवर्तित्वं परस्य ज्योतिषः श्रुति स्मृती / ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमग्निःऽ (कठ. ५.१५, श्वेता. ६.१४, मुण्ड. २.२.१०) इति / ऽन तद्भासयते सूर्यो न शशाङ् को न पावकःऽ (गी. १५.६) इति च / तत् एवं विकार आवर्तित्वं परस्य ज्योतिषः प्रसिद्धम् इति अभिप्रायः
572 SK निर्गुणस्वरूपे प्रमाणमाह-दर्शयतश्चेति /
20 SK यथा ज्ञानाभावान्निर्गुणं न प्राप्तं तथा ध्यानाभावाज्जगत्स्रष्टृत्वादि न प्राप्यते / ध्यानाभावश्च विध्यभावादिति भावः
574 SK END Bस्Cओम्_४,४.७.२०
575 SK START Bस्Cओम्_४,४.७.२१
4.4.21 SK भोगमात्रसाम्यलिङ्गाच् च | BBस्_४,४.२१ |
21 SK इतः च न निरङ् कुशं विकार आलम्बनानाम् ऐश्वर्यं यस्मात् भोगमात्रम् एव एषाम् अनादिसिद्धेन ईश्वरेण समानम् इति श्रूयते - ऽतमाहापो वै खलु मीयन्ते लोको ऽसौऽ इति ऽस यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयतिऽ(बृ. १.५.२३) इत्यादिभेदव्यपदेशलिङ्गेभ्यः
578 SK तमुपासकं ब्रह्मलोकगतमाह-हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोको ऽमृतोदकलक्षण इत्यर्थः / श्रुत्यन्तरमाह-स यथेति /
21 SK भोगसाम्ये स दृष्टान्तो यथेत्यर्थः / तेनो इत्युशब्दो ऽप्यर्थः / सलोकतामपीत्यन्वयः / सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा
580 SK END Bस्Cओम्_४,४.७.२१
581 SK START Bस्Cओम्_४,४.७.२२
582 SK ननु एवं सति सातिशयत्वात् अन्तवत्त्वम् ऐश्वर्यस्य स्यात् ततः च एषाम् आवृत्तिः प्रसज्येत इत्यत उत्तरं भगवान् बादरायण आचार्यः पठति -
4.4.22 SK अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् | BBस्_४,४.२२ |
22 SK नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नश्वत्थः सोमसवनो यस्मिन्नपराजिता पूर्ब्रह्मणो यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिवभुक्तभोगा आवर्तन्ते / कुतः / ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६, कठ. ६.१६) ऽतेषां न पुनरावृत्तिःऽ (बृ. ६.२.१५) ऽब्रह्मलोकमभिसंपद्यतेऽ (छा. ८.१५.१) ऽन च पुनरावर्ततेऽ (छा. ८.१५.१) इत्यादि शब्देभ्यः / अन्तवत्त्वे अपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् ऽकार्यात्यये तदध्यक्षेण सहातःपरम्ऽ (ब्र.सू. ४.३.१०) इत्यत्र / सम्यक् दर्शनविध्वस्त तमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्ध एव अनावृत्तिः तदाश्रयणेन एव हि नित्यसिद्धनिर्वाणपरायणानां सिद्धा एव अनावृत्तिः तदाश्रयणेन एव हि सगुणशरणानाम् अपि अनावृत्तिसिद्धिः इति / अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इति सूत्र अभ्यासः शास्त्रपरिसमाप्तिं द्योतयति
585 SK शास्त्रसमाप्तिं सूचयन्त्सूत्रकारं पूजयति-भगवानिति / भगवत्त्वं सर्वज्ञत्वम् / सूत्रद्वारा शिष्याणामाचारे स्थापनादाचार्यत्वम् / बादरायणपदेन बदरिकाश्रमवासोक्त्या नित्यसर्वज्ञस्य परमगुरोर्नारायणस्य प्रसादद्योतनात्तप्रणीतशास्त्रे निरवद्यतां द्योतयति / सगुणविद्यायाः सातिशयफलत्वे ऽपि ततो निर्गुणविद्यानावृत्तिरित्याह-अनावृत्तिः शब्दादनावृत्तिः शब्दात् / ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति संबन्धः / लोकं विशिनष्टि-यस्मिन्निति / इतो ऽस्मात्पृथिवीलोकात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नर इति ण्य इति चार्णकतुल्यौ सुधाहृदावित्यर्थः / ऐरमन्नमयं, मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी / यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुतिष्विहेममिति विशेषणादस्मिन्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथापीश्वरोपास्तिं विना पञ्चागनिविद्याश्वमेधदृढब्रह्मचर्यादिसाधनैर्ये गतास्तेषां तत्त्वज्ञाननियमाभावादावृत्तिः स्यात्, ये तु दहरादीश्वरोपास्त्या गतास्तेषां सगुणविद्याफलक्षये ऽपि निरवग्रहेश्वरानुग्रहलब्धात्मज्ञानान्मुक्तिरिति नियम इत्यभिप्रेत्याह-अन्तवत्त्वे ऽपि त्विति / नन्वत्र सूत्रकृता सगुणविदामेवानावृत्तिक्रम उक्तो न निर्गुणविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह-सम्यगिति / तदाश्रयणेनेति / सगुणविदामावृत्तिप्राप्तौ सम्यग्दर्शनाश्रयणेनैवानावृत्तिः साधिता, अतः स्वत एव सम्यग्दर्शिनामावृत्तिशङ्का नेति किमु वाच्यमित्यर्थः / यत्राध्यायसमाप्तिस्तत्र पदमात्रस्याभ्यासो दर्शितः, इह सूत्रस्यैवाभ्यासाच्छास्त्रसमाप्तिर्द्येत्यत इत्याह-अनावृत्तिः शब्दादिति /
22 SK एवं समन्वयोक्त्या ब्रह्मात्मैक्यस्य वेदान्तप्रमाणकत्वमवधारयितुं वाक्यार्थज्ञाने स्मृतितर्कादिसर्वप्रकारविरोधः परिहृतः, साधनसंपत्तिश्च दर्शिता, तस्माद्विवेकादिसाधनसंपन्नस्य श्रवणाद्यावृत्तिनिरस्तसमस्तप्रतिबन्धस्याखण्डात्मसंबोधात्समूलबन्धध्वंसे सत्याविर्भूतनिष्कलङ्कानन्तरस्वप्रकाशचिदानन्दात्मनावस्थानमिति सिद्धम्
587 SK END Bस्Cओम्_४,४.७.२२
4 SK इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ चतुर्थाध्यायस्य चतुर्थः पादः
589 SK समाप्तमिदं ब्रह्मसूत्रशाङ् करभाष्यम् //
1 SK नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति / शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे
2 SK अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः / अतो ऽत्र दोषो ऽशङ्क्यः स्यादेष ह्येवेतिशासनात्
3 SK वक्षस्यक्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोदण्डदीक्षामभयवरयुतां वीक्ष्य रामाङ्गसङ्गः / स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्यरत्नप्रभाख्या, स्वात्मानन्दैकलुब्धा रघुवरचरणाम्भोजयुग्मं प्रपन्ना
593 SK इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशिष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः //
594 SK // इति चतुर्थस्याध्यायस्य ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणाख्यश्चतुर्थः पादः //
595 SK // इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये फलाख्यश्चतुर्थो ऽध्यायः //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) (sa_bAdarAyaNa-brahmasUtra-comm-subcomm2.htm).
Source