32 SK नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भानमानत्वं कथं, तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह-अपरोक्षत्वाच्चेति / चशब्दः शङ्कानिरासार्थः / स्वप्रकाशत्वादित्यर्थः / स्वप्रकाशत्वं साधयति-प्रत्यगिति / आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिध्देः स्वप्रकाशत्वमित्यर्थः / अतः स्वप्रकाशत्वेन भासमानत्वादात्मनो ऽध्यासाधिष्ठानत्वं संभवतीति भावः / यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह-न चायमिति / तत्र हेतुमाह-अप्रत्यक्षे ऽपीति / इन्द्रियग्राह्ये ऽपीत्यर्थः / बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पितमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः / एतेनात्मानामानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम्, नीलनभसोस्तदभावे ऽप्यध्यासदर्शनात् / सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभसि इति ज्ञेयम् / संभावनां निगमयति-एवमिति / ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह-तमेतमिति / आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः / विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह-तद्विवेकेनेति / अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः / तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह-तत्रेति / तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः / मूलाविद्ययाः सषुप्तावनर्थत्वादर्शनात् कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः / अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः / एवमध्यासस्य लक्षणसंभावने उक्त्वा प्रमाणमाह-तमेतमिति / तं वर्णितमेवं साक्षिप्रत्यक्षसिध्यं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः / तत्रविधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्यपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः / एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धे ऽपि प्रमाणान्तरं पृच्छति--कथं पुनरिति / अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः / तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात् प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केनप्रमाणेनाविद्यावद्विषयत्वमिति योजना / यद्वाविद्वावतद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः / तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिं, तल्लिङ्गानुमानं चाह-उच्यतेइत्यादिनातस्मातित्यन्तेन / देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः तदन्वयव्यतिरेकानुसारित्वात् यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः / तत्र व्यतिरेकं दर्शयति-देहेति / देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, चाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः / अनेन लिङ्गेन कारणतयाध्यासः सिध्यति व्यवहाररूपकार्यानुपपत्या वेति भावः / ननु मनुष्यत्वादिजातिमति देहे ऽहमित्याभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह-नहीति / इन्द्रियपदं लिङ्गादेरप्युपलक्षणं, प्रत्यक्षादीत्यादिपदप्रयोगात् / तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न संभवतीत्यर्थः / यद्वा तानि ममत्वेनानुपादाययो व्यवहारः स नेति योजना / पूर्वत्रानुपादानासंभवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः / उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात्, तत्साधुत्वमिति भेदः / इन्द्रियादिषु ममेत्यध्यासभावे ऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः / इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह-न चेति / इन्द्रियाणामधिष्ठानं आश्रयः / शरीरमित्यर्थः / नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत्राह-न चानध्यस्तात्मभावेनेति / अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तनेत्यर्थः / ऽअसङ्गो हिऽइति श्रुतेः, आध्यासिक एव देहात्मनोः संबन्धो न संयोगादिरिति भावः / नन्वात्मनो देहादिभिराध्यासिकसंबन्धो ऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः / न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह-न चैतस्मिन्निति / प्रमाश्रयत्वं हि प्रमातृत्वम् / प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च / यदि वृत्तिमात्रं, जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् / अतो वृत्तीद्वो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न संभवतीति भावः / देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः / तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह-न चेति / तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासो ऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति-तस्मादिति / प्रमाणसत्त्वादित्यर्थः / यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति-तस्मादिति / अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात्, अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना / सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः / अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः / ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारो ऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावे ऽपि व्यवहारदृष्टेरित्यत आह-पश्वादिभिश्चेति / चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् / आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इथि समन्वयसूत्रे वक्ष्यते / द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात्, विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारो ऽध्यासकार्य इति युक्तमित्यर्थः / अत्रायं प्रयोगः-विवेकिनो ऽध्यासवन्तः व्यवहारवत्त्वात्, पश्वादिवदिति / तत्र संग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति-यथाहीति / विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वं, तदेवोदाहरति-यथेति / अयं दण्डो मदनिष्टसाधनं, दण्डत्वात्, अनुभूतदण्डवत्, इदं तृणं इष्टसाधनं, अनुभूततृणवदित्यनुमाय व्यवहारन्तीत्यर्थः / अधुना हेतोः पक्षधर्मतामाह-एवमिति / व्युत्पन्नचित्ता अपीत्यन्वयः / विवेकिनो ऽपीत्यर्थः / फलितमाह-अत इति / अनुभवबलादित्यर्तः / समान इति / अध्यासकार्यत्वेनतुल्यैत्यर्थः / नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यत्रं अतः साध्यविकलो दृष्टान्त इति नेत्याह-पश्वादीनां चेति / तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् / अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः / निगमयति-तत्सामान्येति / तैः पश्चादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति संबन्धः / समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् / तत्रोक्तान्वयव्यतिरेकौ स्मारयति-तत्का इति / तस्याध्यासस्य काल एव कालो यस्य स तत्कालः / यद्वा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् / अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानो ऽस्तीत्यनवद्यम् / ननु लौकिकव्यवहारस्याध्यासिकत्वेषऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वं, तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति-शास्त्रीये त्विति / तर्हि कथं वैदिककर्मणो ऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानं, आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह-तथापीति / न द्वितीय इत्याह-न वेदान्तेति / क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानं, अनुपयोगात् प्रवृत्तिबाधाच्चेत्यर्थः / शास्त्रीयकर्मणो ऽध्यासजन्यत्वं निगमयति-प्राक्वेति / अध्यासे आगमं प्रमाणयति-यथा हीति / यथा प्रत्यक्षानुमानार्थापत्तयो ऽध्यासे प्रमाणं तथागमो ऽपीत्यर्थः / ऽब्राह्मणो यजेतऽऽन ह वै स्नात्वा भिक्षेतऽऽअष्टवर्षं ब्राह्यणमुपनयीतऽ ऽकृष्णकेशो ऽग्नीनादधीतऽइत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णद्यभिमानिनमनुवदन् अध्यासं गमयतीति भावः / एवमध्यासे प्रमाणसिद्धे ऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति-अध्यसो नामेति / उदाहरति-तद्यथेति / तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः / स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात् स्वस्मिंस्तत्तुल्यधर्मानध्यस्यतीत्यर्थः / भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात्, अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् / देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह-तथेति / कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् / अज्ञातप्रत्यग्रूपे साक्षीणि मनोधर्माध्यासमाह-तथान्तःकरणेति / धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह-एवमिति / अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीन् अध्यस्यतीति