Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Commentary and Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)

Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)

Adhyāya 1

SK
अथातो ब्रह्मजिज्ञासा | BBस्_१,१.१ |
SK
तत्राथाब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः, ब्रह्मजिज्ञासायाः अनधिकार्यत्वात् / मङ्गलस्य च वाक्यार्थे समन्वयाभावात् / अर्थान्तरप्रयुक्त एव श्रुत्या मङ्गलप्रयोजनो भवति / पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् / सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षत एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् / स्वाध्यायानन्तर्यं तु समानम् /
SK
नन्विह कर्मावबोधनार्थं विशेषः /
SK
न / धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः / यथाच हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वान्न तथेह क्रमो विवक्षितः, शेषशेषित्वे ऽधिकृताधिकारे वा प्रमाणाभावात्, धर्मब्रह्मजिज्ञासयोः फलजिज्ञासस्यभेदाच्च / अभ्युदयफलं धर्मज्ञानं तच्चानुष्ठानापेक्षम् / निःश्रेयसफलं तु ब्रह्मविज्ञानं न चानुष्ठानान्तरापेक्षम् / भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकाले ऽस्ति, पुरुषव्यापारतन्त्रत्वात् / इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् / चोदनाप्रवृत्तिभेदाच्च / या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति / ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं, अवबोधस्य चोदनाजन्यत्वान्न पुरुषो ऽवबोधे नियुज्यते / यथाक्षार्थसंनिकर्षेणार्थावबोधे तद्वत् / तस्मात्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति /
SK
उच्यते- नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च / तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्मजिज्ञासितुं ज्ञातुं च न विपर्यये / तस्मादथाब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते / अतःशब्दो हेत्वर्थः / यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति- ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ (छान्दो.८.१.६) इत्यादिः / तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयति- ऽब्रह्मविदाप्नोति परम्ऽ इत्यादिः (तैत्ति.२.१) तस्माद्यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या / ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा / ब्रह्म च वक्ष्यमाणलक्षणं ऽजन्माद्यस्य यतःऽ इति / अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम् /
SK
ब्रह्मण इति कर्मणिषष्ठी न शेषे, जिज्ञासापेक्ष्यत्वाज्जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च /
SK
ननु शेषषष्ठीपरिग्रहे ऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते, संबन्धसामान्यस्य विशेषनिष्ठत्वात् / एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थ प्रयासः स्यात् /
SK
न व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेन्न, प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात् / ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम् / तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयितव्यानि / यथा राजासौ गच्छतीत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्वत् / श्रुत्यनुगमाच्च / ऽयतो वा इमानि भूतानि जायन्तेऽ (तैत्ति.३.१) इत्याद्याः श्रुतयः, ऽतद्विजिज्ञासस्व तद्ब्रह्मऽ
SK
इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति / तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति / तस्माद्ब्रह्मण इति कर्मणिषष्ठी //
SK
ज्ञातुमिच्छा जिज्ञासा / अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः / कर्मफलविषयत्वादिच्छायाः / ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म / ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् / तस्माद्ब्रह्म विजिज्ञासितव्यम् //
SK
तत्पुनर्ब्रह्म प्रसिद्धमप्रस्द्धं वा स्यात् / यदि प्रसिद्धं न जिज्ञासितव्यम् / अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति /
SK
उच्यते- अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं, सर्वज्ञं, सर्वशक्तिसमन्वितम् / ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोर्ऽथाः प्रतीयन्ते, बृहतेर्धातोरर्थानुगमात् / सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः / सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति / यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् / आत्मा च ब्रह्म /
SK
यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् /
SK
न / तद्विशेषं प्रति विप्रतिपत्तेः / देहमात्रं चैतन्यविशिष्टमात्मेति प्रकृता जना लौकायतिकाश्च प्रतिपन्नाः / इन्द्रियाण्येव चेतनान्यात्मेत्यपरे / मन इत्यन्ये / विज्ञानमात्रं क्षणिकमित्येके / शून्यमित्यपरे / अस्ति देहादिव्यतिरिक्तः संसारी कर्ता, भोक्तेत्यपरे / भोक्तैव केवलं न कर्तेत्येके / अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वाक्तिरिति केचित् / आत्मा स भोक्तुरित्यपरे / एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः / तत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येतानर्थं चेयात् / तस्मात्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते
SK
FN: अधिकरणमिति- विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्त इत्येकैकमधिकरणं पञ्चावयवं ज्ञेयम् / ततश्च ज्ञानजन्यचिकीर्षया यत्नेसति यागादिधर्मो भवति / ब्रह्मणो हि निवृत्तावरणत्वेन फलरूपत्वं तज्ज्ञानोपयोगितया चतुर्थिसमास एषितव्यः ऽचतुर्थी तदर्थेऽ इत्यादिनेति केचित् / यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह / यच्चास्य संततो भावस्तस्मादात्मेति भण्यते / विप्रतिपत्तृपरिगणनम्-शून्यवादो माध्यमिकानां, क्षणिकिज्ञानवादो योगाचाराणां, ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादः सौत्रान्तिकानां, क्षणिकबाह्यार्थवादो वैभाषिकाणां, देहार्थवादश्चार्वाकाणां, देहातिरिक्तदेहपरिणामवादो दिगम्बराणामित्याद्यूह्यम् /
SK
इह खलु ऽस्वाध्यायो ऽध्येतव्यःऽइति नित्याध्ययनविधिनाधीतसाङ्गस्वाध्याये ऽतद्विजिज्ञासस्वऽ,ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ, ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यःऽइतिश्रवणविधिरुपलभ्यते / तस्यार्थः--अमृतत्वकामेनाद्वैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति / तेन काम्येन नियमविधिनार्थाद्भिन्नात्मशास्त्रप्रवर्तिः, वैदिकानां पुराणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः / तत्र कश्चिदिह जन्मनि जन्मान्तरे वानुष्टितयज्ञादिभिर्नितान्तविमलस्वान्तो ऽस्य श्रवणविधेः को विषयः, किं फलं, को ऽधिकारी, कः संबन्ध इति जिज्ञासते / तं जिज्ञासुमुपलभमानो भगवान्बादरायणस्तदनुबन्धचतुष्टयं श्रवणात्मकशास्त्रारम्भप्रयोजकं न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ऽअथातो ब्रह्मजिज्ञासाऽइति //
SK
नन्वनुबन्धजातं विधिसंनिहितार्थवादवाक्यैरेव ज्ञातुं शक्यम् / तथाहि-ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽइति श्रुत्या ऽयत्कृतकं तदनित्यंऽइति न्यायवत्या ऽन जायते मृयते वा विपश्चित्ऽऽयो वै भूमा तदमृतमतो ऽन्यदार्तम्ऽइत्यादि श्रुत्या च भूमात्मा नित्यस्ततो ऽन्यदनित्यमज्ञानस्वरूपमिति विवेको लभ्यते / कर्मणा कृष्यादिना चितः संपादितः सस्यादिलोकः-भोग्य इत्यर्थः / विपश्चिन्नित्यज्ञानस्वरूपः / ऽपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनऽऽआत्मनस्तु कामाय सर्वं प्रियं भवतिऽइत्यादिश्रुत्यानात्ममात्रे देहेन्द्रियादिसकलपदार्थजाते वैराग्यं लभ्यते / परीक्ष्यानित्यत्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नुयादित्यर्थः / ऽशान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्ऽइति श्रुत्या शमादिषट्कं लभ्यते / ऽसमाहितो भूत्वा इति काण्वपाठः / उपरतिः संन्यासः / ऽन स पुनरावर्ततेऽइति स्वयञ्ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते / तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं शक्यम् / यथा ऽय एता रात्रीरुपयन्तिऽइति रात्रिसत्रविधौ ऽप्रतितिष्ठन्तिऽइत्यर्थवादस्थप्रतिष्ठाकामस्तद्वत् / तथा ऽश्रोतव्यःऽइत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम्, ऽआत्मा द्रष्टव्यःऽइत्यद्वैतात्मदर्शनमुद्दिश्य ऽश्रोतव्यःऽइति विचारविधानात् / न हि विचारः साक्षाद्दर्शनहेतुः, अप्रमाणत्वात्, अपि तु प्रमाणविषयत्वेन / प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ऽतं त्वौपनिषतं पुरुषंऽ, ऽवेदान्तविज्ञानसुनिश्चितार्थाःऽइति श्रुतेः / वेदान्तानां च प्रत्यग्ब्रह्मैक्यं विषयः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽइति श्रुतेः / एवं विचारविधेः फलमपि ज्ञानद्वारामुक्तिः, ऽतरति शोकमात्मवित्ऽ,ब्रह्मविद्ब्रह्मैव भवतिऽइत्यादिश्रुतेः / तथा संबन्धो ऽप्यधिकारिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोग्यं सुबोधः / तस्मादिदं सूत्रं व्यर्थमिति चेत् / न / तासामधिकार्यादिश्रुतीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषणवानधिकारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गादिवल्लोकान्तरं, आत्मस्वरूपा वेति संशयनिवृत्तेः / तस्मादागमवाक्यैरापाततः प्रतिपन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम् / तदुक्तं प्रकाशात्मश्रीचरणैः--ऽअधिकार्यादीनामागमिकत्वेपि न्यायेन निर्णयार्थमिदं सूत्रंऽइति / येषां मते श्रवणे विधिर्नास्ति तेषामविहितश्रवणे ऽधिकार्यादिनिर्णयानपेक्षणात्सूत्रं व्यर्थमित्यापततीत्यलं प्रसङ्गेन //
SK
तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभिः स्वार्थनिर्णयायोत्थापितत्वाद्धेतुहेतुमद्भावः श्रुतिसंगतिः, शास्त्रारम्भहेत्वनुबन्धनिर्णायकत्वेनोपोद्धातत्वाच्छास्त्रादौ संगतिः, अधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेः समन्वयाध्यायसंगतिः, ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽइत्यादिश्रुतीनां सर्वात्मत्वादिस्पष्टब्रह्मलिड्गानां विषयादौ समन्वयोक्तेः पादसंगतिः, एवं सर्वसूत्राणां श्रुत्यर्थनिर्णायकत्वाच्छ्रुतिसंगतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन संगतिरूहनीया / प्रमेयं च कृत्स्नशास्त्रस्य ब्रह्म / अध्यायानां तु समन्वयविरोधसाधनफलानि / तत्र प्रथमपादस्य स्पष्टब्रह्मलिड्गानां श्रुतीनां समन्वयः प्रमेयः / द्वितीयतृतीययोरस्पष्टब्रह्मलिड्गानाम् / चतुर्थपादस्य पदमात्रसमन्वय इति भेदः / अस्याधिकरणस्य प्रातम्यान्नाधिकरणसंगतिरपेक्षिता //
SK
अथाधिकरणमारच्यते-ऽश्रोतव्यःऽइति विहितश्रवणात्मकं वेदान्तमीमांसाशास्त्रं विषयः / तत्किमारब्धव्यं न वेति विषयप्रयोजनसंभवासंभवाभ्यां संशयः / तत्र नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्मवत्त्वलिड्गकानुमानेन च विरोधेन ब्रह्मात्मनोरैक्यस्य विषयस्यासंभवात्, सत्यबन्धस्य ज्ञानान्निवृत्तिरूपफलासंभवान्नारम्भणीयमिति प्राप्ते सिद्धान्तः ऽअथातो ब्रह्मजिज्ञासाऽइति / अत्र श्रवणविधिसमानार्थत्वाय ऽकर्तव्याऽइति पदमध्याहर्तव्यम् / अध्याहृतं च भाष्यकृता ऽब्रह्मजिज्ञासा कर्तव्याऽइति / तत्र प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात्प्रकृत्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते / प्रत्ययेनेच्छासाध्यो विचारो जहल्लक्षणया / तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोर्ऽथः संपद्यते / तत्र ज्ञानस्य स्वतः फलत्वायोगात्प्रमातृत्वकर्तृत्वभोक्तृत्वात्मकानर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम् / तत्रानर्थस्य सत्यत्वे ज्ञानमात्रान्निवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्धस्याध्यस्तत्वमर्थात्सूचितम् / तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसिद्धिहेतुः / तथा हि शास्त्रमारब्धव्यं, विषयप्रयोजनवत्त्वात्, भोजनादिवत् / शास्त्रं प्रयोजनवत्, बन्धनिवर्तकज्ञानहेतुत्वात्, रज्जुरियमित्यादिवाक्यवत् / बन्धोज्ञाननिवर्त्यो ऽध्यस्तत्वात्, रज्जुसर्पवत् / इति प्रयोजनसिद्धिः / एवमर्थाब्रह्मज्ञानाज्जीवगतानर्थभ्रमनिवृत्तिं फलं सूत्रयज्जीवब्रह्मणोरैक्यं विषयमप्यर्थात्सूचयति, अन्यज्ञानादन्यत्र भ्रमानिवृत्तेः / जीवो ब्रह्माभिन्नः, तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात् / यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विषयसिद्धिहेतुरध्यासः / इत्येवं विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति / अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम् / सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः / इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचारकर्तव्यतारूपश्रौतार्थान्यथानुपपत्यार्थात्सूत्रितं विषयप्रयोजनवत्वमुपोद्धातत्वात्तत्सिद्धिहेत्वध्यासाक्षेपसमाधानभाष्याभ्यां प्रथमं वर्णयति-युष्मदस्मत्प्रत्ययगोचरयोरिति / एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम्, आर्थिकार्थस्पर्शित्वात् //
SK
यत्तु मड्गलाचरणाभावादव्याख्येयमिदं भाष्यमिति तन्न / ऽसुतरामितरेतरभावानुपपत्तिःऽइत्यन्तभाष्यरचनार्थं तदर्थस्य सर्वोपप्लवरहितस्य विज्ञानघनप्रत्यगर्थस्य तत्त्वस्य स्मृतत्वात् / अतो निर्देषत्वादिदं भाष्यं व्याख्येयम् //
SK
लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रजतमित्यधिष्ठानसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इत्यत्राप्यात्मान्यनात्माहङ्काराध्यासे पूर्वप्रमा वाच्या, सा चात्मनात्मनोर्वास्तवैक्यमपेक्षते, न हि तदस्ति / तथा हि--आत्मानात्मनावैक्यशून्यौ, परस्परैक्यायोग्यत्वात्, तमप्रकाशवत् / इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति-युष्मदस्मत्प्रत्ययगोचरयोरिति /
SK
न च ऽप्रत्ययोत्तरपदयोश्चऽइति सूत्रेण ऽप्रत्ययेचोत्तरपदे च परतो युष्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ स्तःऽइति विधानात्, त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ऽत्वन्मत्प्रत्ययगोचरयोःऽइति स्यादिति वाच्यम् / ऽत्वमावेकवचनेऽइत्येकवचनाधिकारात् / अत्र च युष्मदस्मदोरेकार्थवाचित्वाभावादानात्मनां युष्मदर्थानां बहुत्वादस्मदर्थचैतन्यस्याप्युपाधितो बहुत्वात् //
SK
नन्वेवं सति कथमत्र भाष्ये विग्रहः / न च यूयमिति प्रत्ययो युष्मत्प्रत्ययः, वयमिति प्रत्ययोस्मत्प्रत्यस्तद्गोचरयोरिति विग्रह इति वाच्यम्, शब्दसाधुत्वे ऽप्यर्थासाधुत्वात् / न ह्यहङ्काराद्यनात्मनो यूयमिति प्रत्ययविपयत्वमस्तीति चेत् न / गोचरपदस्य योग्यतापरत्वात् / चिदात्मा तावदस्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वात्, ऽन तावदयमेकान्तेनाविपयः, अस्मत्प्रत्ययविषयत्वात्ऽइति भाष्योक्तेश्च / यद्यप्यहङ्कारादिरपि तद्योग्यस्तथापि चिदात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं युष्मत्प्रत्यययोग्य इत्युच्यते // //
SK
आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहुः-ऽसंबोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनो ऽस्मत्पदवाच्यः, तथा च युष्मजस्मदोः स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो न लाक्षणिकयोः, ऽयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौऽइति सूत्रासांगत्यप्रसड्गात् / अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्षकयोरपि न त्वमादेशो लक्षकत्वाविशेषात् इति / यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्मच्छब्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्मच्छब्दजन्यप्रत्यययोग्यः प्रत्यगात्मा / तथा च लक्ष्यतावच्छेदकतया शब्दो ऽपि बोध्यत इति न त्वमादेशः / न च पराक्त्वप्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वं, न शब्दयोग्यत्वांशस्य, गौरवादिति वाच्यम् / पराक्प्रतीचोर्विरोधस्फुरणार्थं विरुद्धशब्दयोग्यत्वस्यापि वक्तव्यत्वात् / अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये ऽपीदंशब्दो ऽस्मदर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयोगदर्शनान्नास्मच्छब्दविरोधीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः / एतेन चेतनवाचित्वादस्मच्छब्दः पूर्वं प्रयोक्तव्यः ऽअभ्यर्हितं पूर्वऽइति न्यायात्, ऽत्यदादीनि सर्वौर्नित्यम्ऽइति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् / ऽयुष्मदस्मदोःऽइति सूत्र इवात्रापि पूर्वनिपातैकशेषयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्च / वृद्धास्तु ऽयुष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणंऽइत्याहुः / तत्र युष्मदस्मत्पदाभ्यां पराक्प्रत्यक्त्वेनात्मानात्मनोर्वस्तुतो विरोध उक्तः / प्रत्ययपदेन प्रतीतितो विरोध उक्तः / प्रतीयत इति प्रत्ययो ऽहङ्कारादिरनात्मा दृश्यतया भाति / आत्मा तु प्रतीतित्वात्प्रत्ययः स्वप्रकाशतया भाति / गोचरपदेन व्यवहारतो विरोध उक्तः / युष्मदर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादिव्यवहारगोचरः, अस्मदर्थस्त्वनात्मप्रविलापेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः / युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ, तयोस्त्रिधा विरुद्धस्वभावायोरितरेभावो ऽत्यन्ताभेदस्तादात्म्यं वा तदनुपपत्तौ सिद्धायामित्यन्वयः / ऐक्यासंभवे ऽपि शुक्लो घट इतिवत्तादात्मयं किं न स्यादित्यत आह-विषयविषयिणोरिति / चिज्जडयोर्विषयविषयित्वाद्दीपघटयोरिव न तादात्म्यमिति भावः / युष्मदस्मदी पराप्रत्यग्वस्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः / अत्र प्रत्ययगोचरपदाभ्यामात्मनात्मनोः प्रत्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह-विषयविषयिणोरिति / अनात्मनो ग्राह्यत्वादचित्वं, आत्मनस्तु ग्राहकत्वाच्चित्वं वाच्यम् / अचित्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासंभवादप्रत्यक्षत्वापत्तेरित्यर्थः / यथेष्टं वा हेतुहेतुमद्भावः / नन्वेवमात्मानात्मनोः पराक्प्रत्यक्त्वेन, चिदचित्त्वेन ग्राह्यग्राहकत्वेन च विरोधात्तमःप्रकाशवदैक्यस्य तादात्म्यस्य वानुपपत्तौ सत्यां, तत्प्रमित्यभावेनाध्यासाभावे ऽपि तद्धर्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनध्यासो ऽस्त्वित्यत आह--तद्धार्माणामपीति / तयोरात्मानात्मनोर्धर्मास्तद्धर्मास्तेषामपीतरेतरभावानुपपत्तिः / इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संसर्गस्तस्यानुपपत्तिरितित्यर्थः / न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति / स्फटिके लोहित वस्तु सांनिध्याल्लौहित्यधर्मसंसर्गः / असङ्गात्मधर्मिणः केनाप्यसंसर्गाद्धर्मिसंसर्गपूर्वको धर्मसंसर्गः कुतस्त्य इत्यभिप्रेयोक्तम्-सुतरामिति / नन्वात्मानात्मनोस्तादात्म्यस्य तद्धर्मसंसर्गस्य चाभावे ऽप्यध्यासः किं न स्यादित्यत आह--इत्यत इति / इत्युक्तरीत्या तादात्म्याद्यभावेन तत्प्रमाया अभावादतः प्रमाजन्यसंस्कारस्याध्यासहेतोरभावात् ऽअध्यासो मिथ्येति भवितुं युक्तंऽइत्यन्वयः / मिथ्याशब्दो ह्यर्थः अपह्नववचनः, अनिर्वचनीयतावचनश्चेति / अत्र चापह्नवार्थः / ननु कुत्र कस्याध्यासो ऽपह्नूयत इत्याशङ्क्य, आत्मन्यनात्मतद्धर्माणामनात्मन्यात्मतद्धर्माणामध्यासो निरस्यत इत्याह--अस्मत्प्रत्ययगोचर इत्यादिना / अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति--विषयणीति / बुद्ध्यादिसाक्षिणीत्यर्थः / साक्षित्वे हेतुः--चिदात्मक इति / अहमिति भासमाने चिदंशात्मनीत्यर्थः / युष्मत्प्रत्ययगोचरस्येति / त्वङ्कारयोग्यस्य / इदमर्थस्येतियावत् / नन्वहमिति भासमानबुद्ध्यादेः कथमिदमर्थत्वमित्यत आह--विषयस्येति / साक्षिभास्यस्येत्यर्थः / साक्षिभास्यत्वरूपलक्षणयोगाद्बुद्ध्यादेर्घटादिवदिदमर्थत्वं न प्रतिभासत इति भावः / अथवा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यक्त्वं प्रतीतत्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्त्वं तदसिद्धं, अहमिति प्रतीयमानत्वात्, अहङ्कारवदित्याशङ्क्याह--अस्मत्प्रत्ययगोचर इति / अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मिन्नित्यर्थः / अहंवृत्तिव्यङ्यस्फुरणत्वं स्फुरणविषयत्वं वा हेतुः / आद्ये दृष्टान्ते हेत्वसिद्धिः / द्वितीये तु पक्षे तदसिद्धिरित्यात्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः / ननु यदात्मनो विषयत्वं तदसिद्धं, अनुभवामीति शब्दवत्वात्, अहङ्कारवदित्यत आह--विषयणीति / वाच्यत्वं लक्ष्यत्वं वा हेतुः / नाद्यः, पक्षे तदसिद्धेः / नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः / देहं जानामीति देहाहङ्कारयोर्विषयविषयित्वे ऽपि मनुष्यो ऽहमित्यभेदाध्यासवदात्माहङ्कारायोरप्यभेदाध्यासः स्यादित्यत आह--चिदात्मक इति / तयोर्जाड्याल्पत्वाभ्यां सादृश्यादध्यासे ऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाहङ्कारादेर्नाध्यास इति भावः / अहमिति भास्यत्वादात्मवदहङ्कारस्यापि प्रत्यक्त्वादितं मुख्यमेव, ततः पूर्वोक्त्वपराक्त्वाद्यसिद्धिरित्याशङ्क्याह--युष्मदिति / अहंवृत्तिभास्यत्वमहङ्कारे नास्ति कर्तृकर्मत्वविरोधात्, चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः / अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वे ऽपि पराक्त्वादिकं मुख्यमेवेति भावः / युष्मत्पराक्तच्चासौ प्रतियत इति प्रत्ययश्चासौ कर्तृत्वादिव्यवहारगोचरश्च तस्येति विग्रहः / तस्य हेयत्वार्थमाह--विषस्येति / पिञ् बन्धने / विसिनोति बध्नाति इति विषयस्तस्येत्यर्थः / आत्मन्यनात्मतद्धर्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्धर्माध्यासः किं न स्यात्, अहं स्फुरामि सुखीत्याद्यनुभवादित्याशङ्क्याह--तद्विपर्ययेणेति / तस्मादनात्मनो विपर्ययो विरुद्धस्वभावश्चैतन्यम् / इत्थंभावे तृतीया / चैतन्यात्मना विषयिणस्तद्धर्माणां च यो ऽहङ्कारादौ विषये ऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम्, अध्याससामग्र्यभावात् / न ह्यत्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वास्ति / निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य चाज्ञानस्य चायोगात् //
SK
नन्वात्मनोनिर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत्, उच्यते--बुद्धिवृत्त्यभिव्यक्तं चैतन्यं ज्ञानं, विषयाभेदेनाभिव्यक्तं स्फुरणम्, शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्त्युपाधिकृतभेदात् ज्ञानादीनामात्मधर्मत्वव्यपदेशः / तदुक्तं टीकायां-ऽआनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वे ऽपि चैतन्यत्वात् पृथगिवावभासन्तेऽइति / अतो निर्गुणब्रह्मात्मत्वमते, अहं करोमीति प्रतीतेरर्थस्य चाध्यासत्वायोगात्प्रमात्वं सत्यत्वं च अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति मतमास्थेयम् / तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासंभवाद्बद्धमुक्तयोर्जीवब्रह्मणोरैक्यायोगेन विषयासंभवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्यतात्पर्यम् / युक्तग्रहणात् पूर्वपक्षस्य दुर्बलत्वं सूचयति / तथाहि--किमध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वा कारणाभावाद्वा?आद्य इष्ट इत्याह--तथापीति / एतदनुरोधादादौ यद्यपीति पठितव्यम् / अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्कार इति भावः / न द्वितीय इत्याह--अयमिति / अज्ञः कर्ता मनुष्यो ऽहमिति प्रत्यक्षानुभवादध्यासस्याभानमसिद्धमित्यर्थः / न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् / अपौरुषेयतया निर्देषेण, उपक्रमादिलिङ्गावधृततात्पर्येण च तत्वमस्यादिवाक्येनाकर्तृत्वब्रह्मत्वबोधनेनास्य भ्रमत्वनिश्चयात् / न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यैव बाध इति वाच्यं, देहात्मवादप्रसङ्गात्, मनुष्यो ऽहमिति प्रत्यक्षविरोधेन ऽअथायमशरीरःऽइत्यादिश्रुत्या देहादन्यात्मासिद्धेः / तस्मादिदं रजतमितिवत्सामानाधिकरण्यप्रत्यक्षस्य भ्रमत्वशङ्काकलङ्कितस्य नागमात्प्राबल्यमित्यास्थेयम् / किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्युपजीव्यत्वं वा?आद्ये न प्राबल्यम्, ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् / न द्वितीयः आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्धव्यवहारे संगतिग्रहद्वारा, शब्दोपलब्धिद्वारा च प्रत्यक्षादेर्व्यावहारिकप्रामाण्यस्योपजीव्यत्वे ऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वात्, अनपेक्षितांशस्यागमेन बाधासंभवादिति / यत्तु क्षणिकयागस्य श्रुतिबलात्कालान्तरभाविफलहेतुत्ववत् ऽतथा विद्वान्नामरूपाद्विमुक्तःऽइति श्रुतिबलात्सत्यस्यापि ज्ञानान्निवृत्तिसंभवादध्यासवर्णनं व्यर्थमिति, तन्न / ज्ञानमात्रनिवर्त्यस्य क्वापि सत्यत्वादर्शनात्, सत्यस्य चात्मनो निवृत्यदर्शनाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोधकत्वायोगात् / न च सेतुदर्शनात्सत्यस्य पापस्य नाशर्शनान्नायोग्यतानिश्चया इति वाच्यं, तस्य श्रिद्धानियमादिसापेक्षज्ञाननाश्यत्वात् / बन्धस्य च ऽनान्यः पन्थाऽइति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः, अतः श्रुतज्ञाननिवर्त्यत्वनिर्वाहार्थमध्यस्तत्वं वर्णनियम् / किं च ज्ञानैकनिवर्त्यस्य किं नाम सत्यत्वम्, न तावदज्ञानाजन्यत्वम् / ऽमायां तु प्रकृतिम्ऽइति श्रुति विरोधान्मायाविद्ययोरैक्यात् / नापि स्वाधिष्ठाने स्वाभावशून्यत्वं ऽअस्थूलम्ऽइत्यादिनिषेधश्रुतिविरोधात् / नापि ब्रह्मवद्बाधायोग्यत्वं, ज्ञानान्निवृत्तिश्रुतिविरोधात् / अथ व्यवहारकाले बाधशून्यत्वम्, तर्हि व्यवहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम् / तच्च श्रुत्यर्थे योग्यता ज्ञानार्थं वर्णनीयमेव, यागस्यापूर्वद्वारत्ववत् / न च तदन्यत्वाधिकरणे तस्य वर्णनात्पौनरुक्त्यम्, तत्रोक्ताध्यासस्यैव प्रवृत्त्यङ्गविषयादिसिद्ध्यर्थमादौ स्मार्यमाणत्वादिति दिक् //
SK
अध्यासं द्वेधा दर्शयति --लोकव्यवहार इति / लोक्यते मनुष्यो ऽहमित्यभिमन्यत इति लोकोर्ऽथाध्यासः, तद्विषयो व्यवहारो ऽभिमान इति ज्ञानाध्यासो दर्शितः / द्विविधाध्यासस्वरूपलक्षणमाह--अन्योन्यस्मिनित्यादिनाधर्मधर्मिणोः इत्यन्तेन / जाड्यचैतन्यादिधर्माणां धर्मिणावहङ्कारात्मानौ, तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्योन्यस्मिन् अन्योन्यतादात्म्यं अन्योन्यधर्मांश्च व्यत्यासेनाध्यस्य लोकव्यवहार इति योजना / अतः सो ऽयमिति प्रमाया नाध्यासत्वम्, तदिदमर्थयोः कालभेदेन कल्पितभेदे ऽप्यत्यन्तभेदाभावादिति वक्तुमत्यन्तेत्युक्तम् / न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धेः ऽधर्मांश्चऽइति व्यर्थमिति वाच्यम्, अन्धत्वादीनामिन्द्रियधर्माणां धर्म्यध्यासास्फुटत्वे ऽप्यन्धो ऽहमिति स्फुटो ऽध्यास इति ज्ञापनार्थत्वात् / नन्वात्मानात्मनोः परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्क्याह--सत्यानृते मिथुनीकृत्येति /
SK
सत्यमनिदं चैतन्यं तस्यानात्मनि संसर्गमात्राध्यासो न स्वरूपस्य / अनृतंयुष्मदर्थः तस्य स्वरूपतो ऽप्यध्यासात्तयोर्मिथुनीकरणमध्यास इति न शून्यतेत्यर्थः //
SK
नन्वध्यासमिथुनीकरणलोकव्यवहारशब्दानामेकार्थत्वे ऽध्यस्य मिधुनीकृत्येति पूर्वकालत्ववाचिक्त्वाप्रत्ययादेशस्य ल्यपः कथं प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात् / तत्र पूर्वपूर्वाध्यासस्योत्तरोत्तराध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतुत्वद्योतनार्थं ल्यपः प्रयोगः / तदेव स्पष्टयति--नैसर्गिक इति / प्रत्यगात्मनि हेतुहेतुमद्भावेनाध्यासप्रवाहो ऽनादिरित्यर्थः / ननु प्रवाहस्यावस्तुत्वात्, अध्यासव्यक्तीनां सादित्वात्, कथमनादित्वमिति चेत् / उच्यते--अध्यासत्वावच्छिन्नव्यक्तीनां मध्ये ऽन्यतमया व्यक्त्या विनानादिकालस्यावर्तनं कार्यानादित्वमित्यङ्गीकारात् / एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात् / न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम्, लाघवेन पूर्वानुभवजन्यसंस्कारस्य हेतुत्वात् / अतः पूर्वाध्यासजन्यः संस्कारो ऽस्तीति सिद्धम् / अध्यासस्योपादानमाह--मिथ्याज्ञाननिमित्त इति / मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तः / तदुपादानक इत्यर्थः / अज्ञानस्योपादानत्वे ऽपि संस्फुरदात्मतत्वावरकतया दोषत्वेनाहङ्काराध्यासकर्तुरीश्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपरिणामित्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् / स्वप्रकाशात्मन्यसङ्गे कथमविद्यासङ्गः, संस्कारादिसामग्र्यभावात्, इति शङ्कानिरासार्थं मिथ्यापदम् / प्रचण्डमार्तण्डमण्डले पेचकानुभवसिद्धान्धकारवत्, अहमज्ञ इत्यनुभसिद्धमज्ञानं दुरपह्नवम, कल्पितस्याधिष्ठानास्पर्शित्वात्, नित्यस्वरूपज्ञानस्याविरोधित्वाच्चेति / यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् / मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम् / ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् / अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धे ऽतिव्याप्तिनिरासाय साक्षादिति / अनाद्युपादानत्वे सति मिथ्यात्वं वा लक्षणम् / ब्रह्मनिरासार्थं मिथ्यात्वमिति / मृदादिनिरासार्थमनादीति / अविद्यात्मनोः संबन्धनिरासार्थमुपादानत्वे सतीति / संप्रति अध्यासं द्रढयितुमभिलपति--आहमिदं ममेदमिति / आध्यात्मिककार्याध्यासेष्वहमिति प्रथमो ऽध्यासः / न चाधिष्ठानारोप्यांशद्वयानुपलम्भात् नायसध्यास इति वाच्यम्, अयो दहतीतिवदहमुपलभ इति दृग्दृश्यांशयोरुपलम्भात् / इदं पदेन भोग्यः संघात उच्यते / अत्राहमिदमित्यनेन मनुप्यो ऽहमिति तादात्म्याध्यासो दर्शितः / ममेदं शरीरमिति संसर्गाध्यासः //
SK
ननु देहात्मनोस्तादात्म्यमेव संसर्ग इति तयोः को भेद इति चेत् / सत्यम् / सत्तैक्ये सति मिथो भेदस्तादात्म्यम् / तत्र मनुष्यो ऽहमित्यैक्यांशभानं ममेदमिति भेदांशरूपसंसर्गभानमिति भेदः / एवं सामग्रीसत्त्वादनुभवसत्त्वादध्यासो ऽस्तीत्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वात् शास्त्रमारम्भणीयमिति सिद्धान्तभाष्यतात्पर्यम् / एवञ्च सूत्रेणार्थात्सूचिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्षणसंभावनाप्रमाणैः साधयितुं लक्षणं पृच्छति--आहेति / किंलक्षणको ऽध्यास इत्याह / पूर्ववादीत्यर्थः / अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थं आहेति परोक्तिः / ऽआहऽइत्यादि ऽकथं पुनःप्रत्यगात्मनिऽइत्यतः प्रागध्यासलक्षणपरं भाष्यम् / तदारभ्य संभावनापरम् / ऽतमेतमविद्याख्यम्ऽइत्यारभ्य ऽसर्वलोकप्रत्यक्षःऽइत्यन्तं प्रमाणपरमिति विभागः / लक्षणमाह--उच्यते-स्मृतिरूप इति / अध्यास इत्यनुषङ्गः / अत्र परत्रावभास इत्येव लक्षणम्, शिष्टं पदद्वयं तदुपपादनार्थम् / तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्यायोग्यमधिकरणं परत्रपदार्थः / अधिकरणस्यायोग्यत्वं आरोप्यात्यन्ताभावत्वं तद्वत्वं वा / तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वमध्यस्तत्वमित्यर्थः / इदं च साद्यनाद्यध्याससाधारणं लक्षणम् / संयोगे ऽतिव्याप्तिनिरासायैकावच्छेदेनेति / संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वे ऽपि स्वात्यन्ताभावयोर्मूलाग्रावच्छेदकभेदान्नातिव्याप्तिः / पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटे ऽतिव्याप्तिनिरासाय स्वसंसृज्यमान इति पदम्, तेन स्वाभावकाले प्रतियोगिसंसर्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः / भूत्वावच्छेदेनावभास्यगन्धे ऽतिव्याप्तिवारणाय स्वात्यन्ताभाववतीति पदम् / शुक्ताविदन्त्वावच्छेदेन रजतसंसर्गकाले ऽत्यन्ताभावो ऽस्तीति नाव्याप्तिः / नन्वस्य लक्षणस्यासंभवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् / न च स्मर्यमाणसत्यरजतस्यैव परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम्, अन्यथाख्यातिप्रसङ्गादित्यत आह-स्मृतिरूप इति / स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः / स्मर्यमाणसदृश इत्यर्थः / सादृशोक्त्या स्मर्यमाणादारोप्यस्य भेदात्, नान्यथाख्यातिरित्युक्तं भवति / सादृशमुपपादयति-पूर्वदृष्टेति / दृष्टं दर्शनं, संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृषटावभासः / तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् / न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम्, दोषसंप्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् / अत्र संयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसंप्रयोगालाभात् / एवं च दोषसंप्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुतपन्नमस्तीति परत्रावभास्यत्वलक्षममुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादिम् / अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः / अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृस्यं च प्रमामाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् / पूर्वदृष्टपदतज्जातीयपरं, अभिनवरजतादेहे पूर्वदृष्टत्वाभावात् / तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् / परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव / तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः / तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना / ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभास इति वाक्यं योजनीयमिति संक्षेपः / ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादे ऽपि परत्र परावभास इति लक्षणे संवाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह-तं केचिदिति / केचिदन्यथाख्यातिवादिनो ऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थरूप्यादेरध्यास इति वदन्ति / आत्मख्यातिवादिनस्तु बाह्यशुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः / अख्यातिमतमाह-केचिदिति / यत्र यस्याध्यासो लोकसिद्धस्तयोरर्थयोस्तद्धियोश्च भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः / तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात्, परत्र परावभाससंमतिरिति भावः / शून्यमतमाह-अन्ये त्विति / तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः / एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह-सर्वथापि त्विति / अन्यथाख्यातित्वादिप्रकारविवादे ऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः / शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात् शून्यत्वे प्रत्यक्षत्वायोगात्, शुक्तौ सत्ते बाधायोगात् मिथ्यात्वमेवेति भावः / आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह-तथा चेति / बाधानन्तरकालीनो ऽयमनुभवः, तत्पूर्वं /
SK
शुक्तिकात्वज्ञानायोगात्, रजतस्य बाधाप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते / आत्मनि निरूपाधिके ऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवावान्तरभेदस्याविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह-एक इति / द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः / लक्षणप्रकरणोपसंहारार्थ इति शब्दः / भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न संभवतीत्याक्षिपति-कथं पुनरिति / यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा / तत्र व्यापकाभावादात्मनो ऽधिष्ठानत्वं न संभवतीत्यभिप्रेत्याह-प्रत्यगात्मनीति / प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः / उक्तव्याप्तिमाह-सर्वो हीति / पुरोवस्थितत्वमिन्द्रियसंयुक्तत्वम् / नन्यात्मनो ऽप्यधिष्ठानत्वार्थं विषयत्वादिकमस्त्वित्यत आह-युष्मदिति / इदंप्रत्ययानर्हस्य प्रत्यगात्मनो ऽन चक्षुषा गृह्यतेऽइत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि / संप्रत्यासलोभेन विषयत्वाङ्गीकारे श्रुतिसिद्धान्तयोर्बाधः स्यादित्यर्थः / आत्मन्यध्याससंभावनां प्रतिजानीते-उच्यत इति / अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्वमात्रमध्यासव्यापकं, तच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वं, तदेव भानभिन्नत्वघटितं विषयत्वं, तन्न व्यापकं, गौरवादिति मत्वाह-न तावदिति / अयमात्मा नियमेनाविषयो न भवति / तत्र हेतुमाह-अस्मदिति /
SK
अस्मप्रत्ययो ऽहमित्यध्यासस्तत्र भासमानत्वादित्यर्थः / अस्मदर्थचिदात्मा प्रतिबिम्बितत्येन यत्र प्रतीयते सो ऽस्मत्प्रत्ययो ऽहङ्कारस्तत्र भासमानत्वादिति वार्थः / न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम्, अनादित्वात्, पूर्वाभ्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वसंभवात् //
SK
नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भानमानत्वं कथं, तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह-अपरोक्षत्वाच्चेति / चशब्दः शङ्कानिरासार्थः / स्वप्रकाशत्वादित्यर्थः / स्वप्रकाशत्वं साधयति-प्रत्यगिति / आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिध्देः स्वप्रकाशत्वमित्यर्थः / अतः स्वप्रकाशत्वेन भासमानत्वादात्मनो ऽध्यासाधिष्ठानत्वं संभवतीति भावः / यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह-न चायमिति / तत्र हेतुमाह-अप्रत्यक्षे ऽपीति / इन्द्रियग्राह्ये ऽपीत्यर्थः / बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पितमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः / एतेनात्मानामानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम्, नीलनभसोस्तदभावे ऽप्यध्यासदर्शनात् / सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभसि इति ज्ञेयम् / संभावनां निगमयति-एवमिति / ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह-तमेतमिति / आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः / विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह-तद्विवेकेनेति / अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः / तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह-तत्रेति / तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः / मूलाविद्ययाः सषुप्तावनर्थत्वादर्शनात् कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः / अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः / एवमध्यासस्य लक्षणसंभावने उक्त्वा प्रमाणमाह-तमेतमिति / तं वर्णितमेवं साक्षिप्रत्यक्षसिध्यं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः / तत्रविधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्यपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः / एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धे ऽपि प्रमाणान्तरं पृच्छति--कथं पुनरिति / अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः / तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात् प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केनप्रमाणेनाविद्यावद्विषयत्वमिति योजना / यद्वाविद्वावतद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः / तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिं, तल्लिङ्गानुमानं चाह-उच्यतेइत्यादिनातस्मातित्यन्तेन / देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः तदन्वयव्यतिरेकानुसारित्वात् यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः / तत्र व्यतिरेकं दर्शयति-देहेति / देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, चाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः / अनेन लिङ्गेन कारणतयाध्यासः सिध्यति व्यवहाररूपकार्यानुपपत्या वेति भावः / ननु मनुष्यत्वादिजातिमति देहे ऽहमित्याभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह-नहीति / इन्द्रियपदं लिङ्गादेरप्युपलक्षणं, प्रत्यक्षादीत्यादिपदप्रयोगात् / तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न संभवतीत्यर्थः / यद्वा तानि ममत्वेनानुपादाययो व्यवहारः स नेति योजना / पूर्वत्रानुपादानासंभवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः / उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात्, तत्साधुत्वमिति भेदः / इन्द्रियादिषु ममेत्यध्यासभावे ऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः / इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह-न चेति / इन्द्रियाणामधिष्ठानं आश्रयः / शरीरमित्यर्थः / नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत्राह-न चानध्यस्तात्मभावेनेति / अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तनेत्यर्थः / ऽअसङ्गो हिऽइति श्रुतेः, आध्यासिक एव देहात्मनोः संबन्धो न संयोगादिरिति भावः / नन्वात्मनो देहादिभिराध्यासिकसंबन्धो ऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः / न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह-न चैतस्मिन्निति / प्रमाश्रयत्वं हि प्रमातृत्वम् / प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च / यदि वृत्तिमात्रं, जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् / अतो वृत्तीद्वो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न संभवतीति भावः / देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः / तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह-न चेति / तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासो ऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति-तस्मादिति / प्रमाणसत्त्वादित्यर्थः / यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति-तस्मादिति / अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात्, अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना / सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः / अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः / ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारो ऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावे ऽपि व्यवहारदृष्टेरित्यत आह-पश्वादिभिश्चेति / चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् / आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इथि समन्वयसूत्रे वक्ष्यते / द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात्, विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारो ऽध्यासकार्य इति युक्तमित्यर्थः / अत्रायं प्रयोगः-विवेकिनो ऽध्यासवन्तः व्यवहारवत्त्वात्, पश्वादिवदिति / तत्र संग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति-यथाहीति / विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वं, तदेवोदाहरति-यथेति / अयं दण्डो मदनिष्टसाधनं, दण्डत्वात्, अनुभूतदण्डवत्, इदं तृणं इष्टसाधनं, अनुभूततृणवदित्यनुमाय व्यवहारन्तीत्यर्थः / अधुना हेतोः पक्षधर्मतामाह-एवमिति / व्युत्पन्नचित्ता अपीत्यन्वयः / विवेकिनो ऽपीत्यर्थः / फलितमाह-अत इति / अनुभवबलादित्यर्तः / समान इति / अध्यासकार्यत्वेनतुल्यैत्यर्थः / नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यत्रं अतः साध्यविकलो दृष्टान्त इति नेत्याह-पश्वादीनां चेति / तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् / अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः / निगमयति-तत्सामान्येति / तैः पश्चादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति संबन्धः / समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् / तत्रोक्तान्वयव्यतिरेकौ स्मारयति-तत्का इति / तस्याध्यासस्य काल एव कालो यस्य स तत्कालः / यद्वा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् / अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानो ऽस्तीत्यनवद्यम् / ननु लौकिकव्यवहारस्याध्यासिकत्वेषऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वं, तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति-शास्त्रीये त्विति / तर्हि कथं वैदिककर्मणो ऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानं, आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह-तथापीति / न द्वितीय इत्याह-न वेदान्तेति / क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानं, अनुपयोगात् प्रवृत्तिबाधाच्चेत्यर्थः / शास्त्रीयकर्मणो ऽध्यासजन्यत्वं निगमयति-प्राक्वेति / अध्यासे आगमं प्रमाणयति-यथा हीति / यथा प्रत्यक्षानुमानार्थापत्तयो ऽध्यासे प्रमाणं तथागमो ऽपीत्यर्थः / ऽब्राह्मणो यजेतऽऽन ह वै स्नात्वा भिक्षेतऽऽअष्टवर्षं ब्राह्यणमुपनयीतऽ ऽकृष्णकेशो ऽग्नीनादधीतऽइत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णद्यभिमानिनमनुवदन् अध्यासं गमयतीति भावः / एवमध्यासे प्रमाणसिद्धे ऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति-अध्यसो नामेति / उदाहरति-तद्यथेति / तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः / स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात् स्वस्मिंस्तत्तुल्यधर्मानध्यस्यतीत्यर्थः / भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात्, अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् / देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह-तथेति / कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् / अज्ञातप्रत्यग्रूपे साक्षीणि मनोधर्माध्यासमाह-तथान्तःकरणेति / धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह-एवमिति / अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीन् अध्यस्यतीति
SK
मन्तव्यम् / स्वप्रचारा मनोवृत्तयः / प्रति-प्रातिलोम्येनासज्जङदुःखात्माकाहङ्कारादिविलक्षणतया सच्चित्सुखात्मकत्वेनाञ्चति प्रकाशत इति प्रत्यक् / एवमात्मन्यनात्मतद्धर्माध्यासमुदाहृत्यानात्मन्यात्मनो ऽपि संसृष्टत्वेनाध्यासमाह-तञ्चेति / अहमित्यध्यासे चिदात्मनो भानं वाच्यं, अन्यथा जगदान्ध्यापत्तेः / न चानध्यस्तस्याध्यासे भानमस्ति / तस्माद्रजतादाविदम इवात्मनः संसर्गाध्यास एष्टव्यः / तद्विपर्ययेणेपि / तस्याध्यास्तस्य जडस्य विपर्ययोधिष्ठानत्वं, चैतन्यं च तदात्मना स्थितमिति यावत् / तत्राज्ञाने केवलात्मना संसर्गः, मनस्यज्ञानोपहितस्य देहादौ मनौपहितस्येति विशेषः / एवमात्मनि बुद्ध्याद्यध्यासात् कर्तृत्वादिलाभः, बुद्ध्यादौ चात्माध्यसाच्चैतन्यलाभ इति भावः / वर्णिताध्यासमुपसंहरति-एवमयमिति / अनाद्यविद्यात्मकतया कार्याध्यासस्यानादित्वमध्यासात् संस्कारस्ततो ऽध्यास इति / प्रवाहतो नैसर्गिगत्वं / एवमुपादानं निमित्तं चोक्तं भवति / ज्ञानं विना ध्वंसाभावादानन्त्यम् / तदुक्तं भगवद्गीतासु-ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽइति / हेतुमुक्ता स्वरूपमाह-मिथ्येति / मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्रतीतिश्चेत्येवंस्वरूप इत्यर्थः / तस्य कार्यमाह-कर्तृत्वेति / प्रमाणं निगमयति-सर्वेति / साक्षिप्रत्यक्षमेवाध्यासधर्मिग्राहकं मानं, अनुमानादिकं तु संभावानार्थमित्यभिप्रेत्य प्रत्यक्षोपसंहारः कृतः / एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति-अस्येति / कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह-आत्मेति / ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः / विद्यायां कारणमाह-सर्व इति / आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः / विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति / अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने इति ज्ञेयम् / ननु वेदान्तेषु प्राणाद्युपास्तीनां भानादात्मैक्यमेव तेषामर्थ इति कथमित्यत आह-यथा चेति /
SK
शरीरमेव शारीरकं, कुत्सितत्वात्, तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः / उपास्तीनां चितैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते / एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शिम्* // //
SK
इति प्रथमवर्णकम्* ////
SK
विचारस्य साक्षाद्विषया वेदान्ताः;तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसंदेहे कृत्स्नस्य वेदस्य विधिपरत्वात्, विधेश्च ऽअधातो ब्रह्मजिज्ञासाऽइत्यादिना पूर्वतन्त्रेण विचारितत्वात्, अवगतार्था एव वेदान्ता इत्यव्यवहितविषयाभावान्नारम्भ इति प्राप्ते ब्रूते-वेदान्तेति /
SK
वेदान्तविषयकपूजितविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसंदर्भस्येदं प्रथमसूत्रमित्यर्थः / यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात्, ब्रह्मणि मानाभावात् / अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणानवगतब्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकृद्दर्शयति / तच्च ऽव्याचिख्यासितस्यऽइति पदेन भाष्यकारो बभाषे* // //
SK
इति द्वितीयवर्णकम्* // //
SK
एवं वर्णकद्वयेन वेदान्तविचारस्य कर्तव्यतायां विषयप्रयोजनवत्त्वमगतार्थत्वं चेति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्यायाक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभाभ्यां शास्त्रारम्भसंदेहे सति अथशब्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति-तत्राथशब्द इति / सूत्र इत्यर्थः /
SK
ऽमङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथऽइत्यथशब्दस्य यहवोर्थाः सन्ति / तत्र ऽअथ योगानुशासनम्ऽइत्यत्र, सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति
SK
तद्वदत्र किं न स्यादित्यत आह-नाधिकारार्थ इति / अयमाशयः-किं जिज्ञासापदं ज्ञानेच्छापरमुत विचारलक्षकम्?आद्ये ऽथशब्दस्यारम्भार्थत्वे ब्रह्मज्ञानेच्छारभ्यत इति सूत्रार्थः स्यात् स चासंगतः, तस्या अनारभ्यत्वात् / नहि प्रत्यथिकरणं इच्छा क्रियते किन्तु तया विचारः / न द्वितीयः, कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायोगात्, अध्याहृते च तेनैवारम्भोक्तेरथशब्दवैयर्थ्यात् / किन्त्वधिकारिसिद्ध्यर्थमानान्तर्यार्थतैव युक्तेति अधुना संभावितमर्थान्तरं दूषयति-मङ्गलस्येति / वाक्यार्थो विचारकर्तव्यता न हि तत्र मङ्गलस्य कर्तृत्वादिनान्वयो ऽस्तीत्यर्थः / ननु सूत्रकृता शास्त्रादौ मङ्गलं कार्यमित्यथशब्दः प्रत्युक्त इति चेत् सत्यं, न तस्यार्थो मङ्गलं किन्तु च तच्छ्रवणमुच्चारणं च मङ्गलकृत्यं करोति / तदर्थस्त्वानन्तर्यमेवेत्यह-अर्थानतरेति /
SK
अर्थान्तरमानन्तर्यम् / श्रुत्या श्रवणेन शङ्खवीणादिनादश्रवणवदोङ्काराथशब्दयोः श्रवणं मङ्गलफलकम् / ऽओङ्काश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा / कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ //
SK
ऽइति स्मरणादिति भावः / ननु प्रपञ्चो मिथ्येति प्रकृते सति, अथ मतं प्रपञ्चः सत्य इत्यत्र पूर्वप्रकृतार्थादुत्तरार्थस्यार्थास्तरत्वार्थो ऽथशब्दो दृष्टः, तथात्र किं न स्यादित्यत आह-पूर्वेति / फलतः फलस्येत्यर्थः / ब्रह्मजिज्ञासायाः पूर्वं अर्थविशेषः प्रकृतो नास्ति यस्मात्तस्या अर्थान्तरत्वमथशब्देनोच्येत / यतः कुतश्चितदर्धान्तरत्वं सूत्रकृता न वक्तव्यं, फलाभावात् / यदि फलस्य जिज्ञासापदोक्तकर्तव्यविचारस्य हेतुत्वेन यत्पूर्वं प्रकृतं तदपेक्षास्तीत्यपेक्षाबलात्प्रकृतहेतुमाक्षिप्य ततोर्ऽथान्तरत्वमुच्यते, तदार्थान्तरत्वमानन्तर्ये ऽन्तर्भवति हेतुफलभावज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात् / तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतीतेः / तस्मादिदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रतीतिः / न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यं, तयोर्देशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वात् / अतः सामग्रीफलयोरेव मुख्यमानन्तर्यं, अव्यवधानात् / तस्मिन्नुक्ते सत्यर्थान्तरत्वं न वाच्यं ज्ञानत्वाद्वैफल्याच्चेति भावः / फलस्य विचारस्य पूर्वप्रकृतहेत्वपेक्षाया बलाद्यदर्थान्तरत्वं तस्यानन्तार्यभेदात् न पृथगथशब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम् / यद्वा पूर्वप्रकृतेर्ऽथे ऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्द्वारानन्तर्याव्यतिरेकात्तज्ज्ञाने तस्याः ज्ञानतोनतर्भावान्नाथशब्दार्थतेत्यर्थः / नन्वानन्तर्यार्थकत्वे ऽप्यानन्तर्यस्यावधिः क इत्याशङ्क्याह-सति चेति / यन्नियमेन पूर्ववृत्तं पूर्वभावि असाधारणकारणं पुष्कलाकारणमिति यावत्, तदेवावधिरिति वक्तव्यमित्यर्थः / नन्वस्तु धर्मविचार इव ब्रह्मविचारे ऽपि वेदाध्ययनं पुष्कलकारणमित्याह-स्वाध्यायेति / समानं ब्रह्मविचारे साधारणकारणं न पुष्कलकारणमित्यर्थः / ननु संयोगपृथक्त्वन्यायेन ऽयज्ञेन दानेनऽइत्यादिश्रुत्या ऽयज्ञादिकर्माणि ज्ञानाय विधीयन्तेऽइति सर्वापेक्षाधिकरणे वक्ष्यते / तथा च पूर्वतन्त्रेण तदवबोधः पुष्कलकारणमिति शङ्कते-नन्विति / इह ब्रह्मजिज्ञासायां विशेषो ऽसाधारणं कारणम् / [ऽएकस्य तूभयार्थत्वे संयोगपृथक्त्वम्ऽइति जैमिनीसूत्रं, तदर्थस्तु-एकस्य कर्मण उभयार्थत्वे ऽनेकफलसंबन्धे संयोगः उभयसंबन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स हेतुः / ततशचात्रापि ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकालामपि ऽयज्ञेन दानेनऽइत्यादि वचनात् ज्ञानार्थत्वं चेति / टपरिहरति-नेत्यादिना / अयमाशयः--न तावत् पूर्वतन्त्रस्थं न्यायसहस्रं ब्रह्मज्ञाने तद्विचारे वा पुष्कलं कारणं, तस्य धर्मनिर्णमात्रहेतुत्वात् / नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वात् / न हि धूमाग्न्योरिव धर्मब्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानात् ब्रह्मज्ञानं भवेत् / यद्यपि शुक्तिविवेकादिद्वारा कर्माणि हेतवः, तथापि तेषां नाधिकारिविशेषणत्वं, अज्ञातानां तेषां जन्मान्तरकृतानामपि फलहेतुत्वात् / अदिकारिविशेषणं ज्ञायमानं प्रवृत्तिपुष्कलकारणमानन्तर्यावधित्वेन वक्तव्यम् / अतः कर्माणि, तदवबोधः, तन्नायविचारो वा नावधिरिति न ब्रह्मजिज्ञासायाधर्मजिज्ञासानन्तर्यमिति / ननु धर्मब्रह्मजिज्ञासयोः कार्यकारणत्वाभावे ऽप्यानन्तर्योक्तिद्वारा क्रमज्ञानार्थो ऽथशब्दः / ऽहृदयस्याग्रे ऽवद्यत्यथ जिह्वया अथ वक्षसःऽइतियवदानानां क्रमज्ञानार्थाथशब्दवदित्याशङ्क्याह--यथेति / अवदानानामानन्तर्यनियमः क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वात् न तथेह धर्मब्रह्मजिज्ञासयोः क्रमो विवक्षितः, एककर्तृकत्वाभावेन तयोः क्रमानपेक्षणात् / अतो न क्रमार्थो ऽथशब्द इत्यर्थः / ननु तयोरेककर्तृत्वं कुतो नास्तीत्यत आह--शेषेति / येषामेकप्रधानशेषता, यथावदानानां प्रयाजादीनां च / ययोश्च शेषशेषित्वं, यथा प्रयाजदर्शयोः / यस्य चाधिकृताधिकारत्वं, यथा अपां प्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य ऽगोदोहनेन पशुकामस्यऽइति विहितस्य गोदोहनस्य / यथा वा ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइति दर्शात्युत्तरकाले विहितस्य सोमयागस्य दर्शाद्यधिकृताधिकारत्वं तेषामेककर्तृकत्वं भवति /
SK
ततश्चैकप्रयोगवचनगृहीतानां तेषां युगपदनुष्ठानसंभवात् क्रमाकाङ्क्षायां श्रुत्यादिभिर्हि क्रमो बोध्यते, नैवं जिज्ञासयोः शेषशेषित्वे श्रुतिलिङ्घादिकं मानमस्ति / ननु ऽब्रह्मचर्यं समाप्य गही भवेत् गृहाद्वनी भूत्वा प्रव्रजेच्चऽइति श्रुत्या, अधीत्य विधिवद्वेदान् पुत्रानुत्पाद्य धर्मतः / इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षोनिवेशयेत्ऽ / इति स्मृत्या चाथिकृताधिकारत्वं भातीति तन्न / ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ / ऽआसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे / ऽइति श्रुतिस्मृतिभ्यां त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वावगमात् / एतदुक्तं भवति-यदि जन्मान्तरकृतकर्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्यब्रह्म जिज्ञासितव्यं, यदा न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत्, तत्राप्यशुद्धौ वनीभवेत् तत्राप्यशुद्धौ तथैव कालमाकलयेत्, वने शुद्धौप्रव्रजेदिति / तथा च श्रुतिः-ऽयदहरेव विरजेत्तदहरेव प्रव्रजेत्ऽइति / तस्मान्नानयोरधिकृताधिकारत्वे किञ्चिन्मानमिति भावः / ननु मीमांसयोः शेषशेषित्वमथिकृताधिकारत्वं च मास्तु / एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव / वदन्ति हि-ऽज्ञानकर्माभ्यां मुक्तिःऽइति समुच्चयवादिनः / एकमेकवेदार्थजिज्ञास्यकत्वाच्चैककर्तृत्वे / तथा चाग्नेयादिषड्यागानामेकस्वर्गफलकानां, द्वादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थो ऽथशब्द इत्यशङ्क्याह-फलेति / फलभेदाज्जिज्ञास्यभेदाच्च न क्रमो विवक्षित इत्यनुषङ्गः / यथा सौर्यार्यम्णप्राजापत्यचरूणां ब्रह्मवर्चसस्वर्गायुःफलभेदात्, यथा वा कामचिकित्सातन्त्रयोर्जिज्ञास्यभेदान्न क्रमापेक्षा तद्वन्मीमांसयोर्न क्रमापेक्षेति भावः / तत्रफलभेदं विवृणोति-अभ्युदयेति / विषयाभिमुख्येनोदेतीत्यभ्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोर्मीमांसयाः फलमित्यर्थः / न केवलं फलस्य स्वरूपतो भेदः किन्तु हेतुतो ऽपीत्याह-तच्चेति / ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तद्विरुद्धमित्याह-निश्रेयसेति / नित्य निरपेक्षं श्रेयो निश्रेयं मोक्षस्तत्फलमित्यर्थः / ब्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापेक्षत इत्याह-न चेति / स्वरूपतो हेतुतश्च फलभेदान्न समुच्चय इति भावः / जिज्ञास्यभेदं विवृणोति-भव्यश्चेति / भवतीति भव्यः / साध्य इत्यर्थः / साध्यत्वे हेतुमाहःनेति / तर्हि तुच्छत्वं, नेत्याह-पुरुषेति / पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्यतत्त्वादित्यर्थः / कृतिसाध्यत्वात् कृतिजनकज्ञानकाले धर्मस्यासत्वं न तुच्छत्वादित्यर्थः / ब्रह्मणो धर्माद्वैलक्षण्यमाह-इह त्विति / उत्तरमीमांसायामित्यर्थः / भूतमसाध्यम् / तत्र हेतुः-नित्येति / सदा सत्वादित्यर्थः / साध्यासाधयत्वेन धर्मब्रह्मणोः स्वरूपभेदमुक्त्वा हेतुतो ऽप्याह-नेति / धर्मवत् कृत्यधीनं नेत्यर्थः / मानतो ऽपि भेदमाह-चोदनेति / अज्ञातज्ञापकं वाक्यमत्र चोदना / तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्यभेद इत्यर्थः / संग्रहवाक्यं विवृणोति-या हीति / लक्षणं प्रमाणं ऽस्वर्गकामो यजेतऽइत्यादिवाक्यं हि स्वविषये धर्मे यागादिकरणस्वर्गादिफलकभावनारूपे फलहेतुयागादिगोचरनियोगे वा हितसाधने यागादौ वा पुरुषं प्रवर्तयदेवावबोधयति / ऽअयमात्मा ब्रह्मऽइत्यादि त्वमर्थं केवलमप्रपञ्चं ब्रह्म बोधयत्वेव न प्रवर्तयति विषयाभावादित्यर्थः / नन्ववबोध एव विषयस्तत्राह-न पुरुष इति / ब्रह्मचोदनया पुरुषो ऽवबोधे न प्रवर्तत इत्यत्र हेतुं पूर्ववाक्येनाह-अवबोधस्येति / स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्तकमित्यत्र दृष्टान्तमाह-यथेति / मानादेव बोधस्य जातत्वात्, जाते च विध्ययोगात्, न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः / तथा च प्रवर्तकमानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात्, न तन्मीमांसयोः क्रमार्थो ऽथशब्द इति भावः / एवमथशब्दस्यार्थान्तरासंभवात् आनन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्यमित्याह-तस्मादिति / उपदिश्यते / सूत्रकृतेति शेषः / तत्किमित्यत आह-उच्यत इति / विवेकादीनामागमिकत्वेन प्रामाणिकत्वं पुरस्तादेवोक्तम् / लौकिकव्यापारात् मनस उपरमः शमः बाह्यकरणानामुपरमो दमः / ज्ञानार्थं विहितनित्यादिकर्मसन्यास उपरतिः / शीतोष्णादिद्वन्द्वसहनं तितिक्षा / निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् / सर्वत्रास्तिकता श्रद्धा / एतत्षट्कप्राप्तिः शमादिसंपत् / अत्र विवेकादीनामुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं मन्तव्यम् / तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह-तेष्विति / यथाकथञ्चित् कुतूहलितया ब्रह्मविजारप्रवृत्तस्यापि फलपर्यन्तं तज्ज्ञानानुदयाद्व्यतिरेकसिद्धिः / अथशब्दव्याख्यानमुपसंहरति-तस्मादिति / ननूक्तविवेकादिकं न संभवति, ऽअक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्ऽइत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यसिद्धेः / जीवस्य ब्रह्मस्वरूपमोक्षश्चायुक्तः, भेदात् तस्य लोष्टादिवत् पुरुषार्थत्वायोगाच्च / ततो मुमुक्षासंभव इत्याक्षेपपरिहारार्थो ऽतःशब्दः तं व्याचष्टे-अतःशब्द इति / अथशब्देनानन्तर्यवाचिना तदवधित्वेनार्थाद्विवेकादिचतुष्टयस्य ब्रह्मजिज्ञासाहेतुत्वं यदुक्तं तस्यार्थिकहेतुत्वास्याक्षेपनिरासायानुवादको ऽतःशब्द इत्यर्थः / उक्तं विवृणोति-यस्मादिति / तस्मादित्युत्तरेण संबन्धः / ऽयदल्पं तन्मर्त्यम्ऽऽयत्कृतकं तदनित्यम्ऽइति न्यायवती ऽतद्यथेहऽइत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्बाधका / तस्मात् ऽअतो ऽन्यदार्तम्ऽइति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः / मुमुक्षां संभावयति-तथेति / यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानिलमपारं स्वयञ्ज्योतिरानन्दं दर्शयतीत्यर्थः / जीवत्वादेरध्यासोक्त्या ब्रह्मत्वसंभव उक्त एवेति भावः / एवमथातःशब्दाभ्यां पुष्कलकारणवतो ऽधिकारिणः समर्थनात् शास्त्रमारब्धव्यमित्याह-तस्मादिति /
SK
सुत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्वयार्थं ब्रह्मजिज्ञासापदेन विचारं लक्षयितुं तस्य स्वाभिमतसमासकथनेनावयवार्थं दर्शयति-बह्मण इति / ननु धर्माय जिज्ञासा इतिवत् ब्रह्मणे जिज्ञासेति चतुर्थीसमासः किं न स्यादिति चेत् / उच्यते-जिज्ञासा पदस्य हि मुख्यार्थं इच्छा, तस्याः प्रथमं कर्मकारकमपेक्षितं पश्चात् फलं, ततश्चादौ कर्मज्ञानार्थं षष्ठिसमासो युक्तः / कर्मण्युक्ते सत्यर्थात् फलमुक्तं भवति, इच्छायाः कर्मण एवफलत्वात् / यथा स्वर्गस्येच्छा इत्युक्ते स्वर्गस्य फलत्वं लभते तद्वत् / अत एव ऽधर्मजिज्ञासाऽइत्यत्रापि ऽसा हि तस्य ज्ञातुमिच्छाऽइति इच्छां गृहीत्वा षष्ठीसमासो दर्शितः / विचारलक्षणायां तु विचारस्य क्लेशात्मकतया प्रथमं फलाकाङ्क्षत्वात् धर्माय जिज्ञासे चतुर्थसमास उक्तः, तथा वृत्तिकारैर्ब्रह्मणे जिज्ञासा इत्युक्तं चेदस्तु ज्ञानत्वेन ब्रह्मणः फलत्वादिति / अधुना ब्रह्मपदार्थमाह-ब्रह्म चेति / ननु ऽब्रह्मक्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भूर्ब्रह्म प्रजापतिःऽइति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्दः प्रयुज्यत इत्याशङ्काह-अत एवेति / जगत्कारणत्वलक्षणप्रतिपादकसूत्रासांगत्यप्रसङ्गादेवेत्यर्थः / वृत्त्यन्तरे शेषे षष्ठीत्युक्तं दूषयति-ब्रह्मण इतीति / संबन्धसामान्यं शेषः / जिज्ञासेत्यत्र सन्प्रत्यवाच्याया इच्छाया ज्ञानं कर्म, तस्य ज्ञानस्य ब्रह्म कर्म / तत्र सकर्मकक्रियायाः कर्मज्ञानं विना ज्ञातुमशक्यत्वात्, इच्छाया विषयज्ञानजन्यत्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्यं न शेष इत्यर्थः / ननु प्रमाणादिकमन्यदेव तत्कर्मास्तु ब्रह्म तु शेषितया संबध्यतां तत्राह-जिज्ञास्यान्तरेति / श्रुतं कर्म त्यक्त्वान्यदश्रुतं कल्पयन् ऽपिण्डमुत्सृज्य करं लेढिऽइति न्यायमनुसरतीति भावः / गूढाभिसंधिः शङ्क्यते--नन्विति / ऽषष्ठी शेषेऽइति विधानात्, षष्ठ्या संवन्धमात्रं प्रतीतमपि विशेषाकाङ्क्षायां सकर्मकक्रियासंनिधानात् कर्मत्वे पर्यवस्यतीत्यर्थः / अभिसंधिमजानन्निवोत्तरमाह-एवमपीति / कर्मलाभेपि प्रत्यक्षं ऽकर्तृकर्मणोः कृतिऽइति सूत्रेण जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृदन्तस्य योगे विहितं प्रथमापेक्षितं च कर्मत्वं त्यक्त्वा परोक्षमशाब्दं कल्पयत इत्यर्थः / शेषवादी स्वाभिसंधिमुद्धाटयति-न व्यर्थ इति / शेषषष्ठ्यां ब्रह्मसंबन्धिनी जिज्ञासा प्रतिज्ञाता भवति / तत्र यानि ब्रह्माश्रितानि लक्षणप्रमाणयुक्तिज्ञानसाधनफलानि तेषामपि विचारः प्रतिज्ञातो भवति / तज्जिज्ञासाया अपि ब्रह्मज्ञानार्थत्वेन ब्रह्मसंबन्धित्वात् / कर्मणिषष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भवतीत्यभिसंधिना शेषषष्ठीत्युच्यते / अतो मत्प्रयासो न व्यर्थः / ब्रह्मतत्संबन्धिनां सर्वेषां विचारप्रतिज्ञानमर्थः फलं यस्य तत्त्वादित्यर्थः / त्वत्प्रयासस्येदं फलं न युक्तं, सूत्रेण मुखतः प्रधानस्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचारस्यार्थिकप्रतिज्ञाया उदितत्वादित्याह सिद्धान्ती-न प्रधानेति / संगृहीतमर्थं संदृष्टान्तं व्याकरोति--ब्रह्महीत्यादिना / ऽतद्विजिज्ञासस्वऽइति मूलश्रुत्यनुसाराच्च कर्मणि षष्ठीत्याह-श्रुत्यनुगमाच्चेति / श्रुतिसूत्रयोरेकार्थत्वलाभाच्चेत्यर्थः / जिज्ञासापदस्यावयवार्थमाह-ज्ञातुमिति / नन्वनवगते वस्तुनीच्छाया अदर्शनात् तस्या मूलं विषयज्ञानं वक्तव्यम् / ब्रह्मज्ञानं तु जिज्ञासायाः फलं, तदेव मूलं कथमित्याशङ्क्याह-अवगतीति / आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमवगतिः पर्यन्तो ऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् / मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूलज्ञानयोर्भेदान्न जिज्ञासानुपपत्तिरित्यर्थः / ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात् कर्म एव फलमित्युक्तं तत्राह-फलेति / क्रियान्तरे तयोर्भेदे ऽपि इच्छायाः फलविषयत्वात् कर्मैव फलमित्यर्थः /
SK
ननु ज्ञानावगत्योरैक्याद्भेदोक्तिरयुक्तेत्यत आह-ज्ञानेनेति / ज्ञानं वृत्तिः अवगतिस्तत्फलं इति भेद इति भावः / अवगन्तुमभिव्यञ्जयितुम् / अवगतेः फलत्वं स्फुटयति-ब्रह्मेति / हिशब्दोक्तं हेतुमाह-निःशेषेति / बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादित्यर्थः / अवयवार्थमुक्त्वा सूत्रावाक्यार्थमाह-तस्मादिति /
SK
अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति / अथातशब्दाभ्यामधिकारिणः साधितत्त्वात्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः //
SK
इति तृतीयं वर्णकम् //
SK
प्रथमवर्णके बन्धस्याध्यसत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योर्विषयादिसंभवासंभवाभ्यां शास्त्रारम्भसंदेहे पूर्वपक्षमाह-तत्पुनरिति / पुनःशब्दो वर्णकान्तरद्योतनार्थः / यदि वेदान्तविचारात्प्रागेव ब्रह्मज्ञानं तर्ह्यज्ञातत्वरूपविषयत्वं नास्ति, अज्ञानाभावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम् / अथज्ञातं केनापि तर्हि तदुद्देशेन विचारः कर्तुं न शक्यते, अज्ञातस्योद्देशायोगात् / तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तेश्च प्रतिपादनायोगात् / तत्प्रतिपाद्यत्वरूपः संबन्धो नास्तीति ज्ञानानुत्पत्तेः फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः //
SK
आपातप्रसिद्ध्या विषयादिलाभादारम्भणीयमिति सिद्धान्तयति-उच्यतैत्यादिना / प्रसिद्धं तावदित्यर्थः / अस्तित्वस्याप्रकृतत्वेनास्तिपदस्य प्रसिद्धिपरत्वात् / ननु केन मानेन ब्रह्मणः प्रसिद्धिः / न च ऽसत्यं ज्ञानमनन्तं ब्रह्मऽइति श्रुत्या सेति वाच्यम् / ब्रह्मपदस्य लोके संगतिग्रहाभावेन तद्घटितवाक्यस्याबोधकत्वादित्याशङ्क्यब्रह्मपदव्युत्पत्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह-ब्रह्मशब्दस्य हीति / अस्यार्थः-श्रुतौ सूत्रे च ब्रह्मपदस्य प्रयोगान्यथानुपपत्त्या कश्चिदर्थो ऽस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थकशब्दप्रयोगादर्शनात् / स चार्थो महत्वरूप इति व्याकरणान्निश्चीयते, ऽबृहि वृद्धौऽइति स्मरणात् / सा च वृद्धिर्निरवधिकमहत्वमिति संकोचकाभावात्, श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते / निरवधिकमहत्वं चान्तवत्त्वादिदोषवत्वे सर्वज्ञत्वादिगुणहीनत्वे च न संभवति, लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः / अतो बृंहणाद्ब्रह्मेति व्युत्पत्या देशकालवस्तुतः परिच्छेदाभावरूपं नित्यत्वं प्रतीयते / अविद्यादिदोषशून्यत्वं शुद्धत्वम् / जाड्यराहित्यं बुद्धत्वम् / बन्धकाले ऽपि स्वतोबन्धभावो मुक्तत्वं च प्रतीयते / एवं सकल दोषशून्यं निर्गुणं प्रसिद्धम् / तथा सर्वज्ञत्वादिगुमकं च तत्पदवाच्यं प्रसिद्धम् / ज्ञेयस्य कार्यस्य वा परिशेषे ऽल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च लाभादिति / एवं तत्पदात्प्रसिद्धेरप्रमाणत्वेनापातत्वादज्ञानानिवर्तकत्वाज्जिज्ञासोपपत्तिरित्युक्त्वा त्वंपदार्थात्मनापि ब्राह्मणः प्रसिद्ध्या तदुपपत्तिरत्याह-सर्वस्येति / सर्वस्य लोकस्य यो ऽयमात्मातदभेदाद्रह्मणः प्रसिद्धिरित्यर्थः / नन्वात्मनःप्रसिद्धिः केत्यत आह-सर्वो हीति / अहमस्मीति न प्रत्येतीति न किन्तु प्रत्येत्येव / सैव सच्चिदात्मनः प्रसिद्धिरित्यर्थः / आत्मनः कुतः सत्तेति शून्यमतमाशङ्क्याह-यदि हीति / आत्मनः शून्यस्य प्रतीतौ अहं नास्मीति लोको जानीयात् / लोकस्तु अहमस्मीति जानाति तस्मादात्मनो ऽस्तित्वप्रसिद्धिरित्यर्थः / आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह-आत्मा चेति / ऽअयमात्मा ब्रह्मऽइत्यादिश्रुतेरिति भावः / प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति-यदीति / अज्ञातत्वाभावेन विषयाद्यभावादविचार्यत्वं प्राप्तमित्यर्थः / यथा इदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिस्तद्वत् अहमस्मीति सत्त्वचैतन्यरूपत्वसामान्येन वस्तुतो ब्रह्मणः प्रसिद्धिः नेयं पूर्णानन्दब्रह्मत्वरूपविशेषगोचरा वादिनां विवादाभावप्रसङ्गात् / न हि शुक्तित्वविशेषदर्शने सति रजतं रङ्गमन्यद्वेति विप्रतिपत्तिरस्ति / अतो विप्रतिपत्त्यन्यथानुपपत्या सामान्यतः प्रसिद्धावपि विशेषस्याज्ञातत्वाद्विषयादिसिद्धिरिति सिद्धान्तयति न इत्यादिना / सामान्यविशेषभावः स्वत्मनि सच्चित्पूर्णादिपदवाच्यभेदात् कल्पित इति मन्तव्यम् / तत्र स्थूलसूक्ष्मक्रमेण विप्रतिपत्तीरुपन्यस्यति-देहमात्रमित्यादिना / शास्त्रज्ञानशुन्याः प्राकृताः / वेदबाह्यमतान्युक्त्वा तार्किकादिमतमाहः-अस्तीति / सांख्यमतमाह-भोक्तेति / किमात्मा देहादिरूपः उत तद्भिन्न इति विप्रतिपत्तिकोटित्वेन देहेन्द्रियमनोबुद्धिशून्यान्युक्त्व तद्भिन्नो ऽपि कर्तृत्वादिमान्न वेति विप्रतिपत्तिकोटित्वेन तार्किकसांख्यपक्षावुपन्यस्याकर्तापीश्वराद्भिन्नो न वेति विवादकोटित्वेन योगिमतमाह-अस्ति तद्व्यतिरिक्त ईश्वर इति / निरतिशयत्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसंपन्न इति योगिनो वदन्ति / भेदकोटिमुक्त्वा सिद्धान्तकोटिमाह-आत्मा स भोक्तुरिति / भोक्तुर्जीवस्याकर्तुः साक्षिणः स ईश्वर आत्मास्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः / विप्रतिपत्तीरुपसंहरति-एवं बहवः इति / विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शितः सुखबोधायेतीहोपरम्यते / तत्र युक्तिवाक्याश्रयः सिद्धान्तिनः जीवो ब्रह्मैव आत्मत्वात्, ब्रह्मवत् इत्यादि युक्तेः, ऽतत्त्वमसिऽइत्यादिश्रुतेश्चाबाधितायाः सत्त्वात् / अन्ये तु देहादिरात्मा, अहंप्रत्ययगोचरत्वात्, व्यतिरेकेण घटादिवदित्यादियुक्त्याभासं, ऽस वा एष पुरुषोन्नरसमयःऽइन्द्रियसंवादे ऽचक्षुरादयस्ते हवाचमूचुःऽऽमन उवाचऽ, ऽयो ऽयंऽऽविज्ञानमयःऽ, ऽअसदेवेदमग्र आसीत्ऽ,ऽकर्ता बोद्धा अनश्नन्नन्यःऽ, ऽआत्मानमन्तरो यमयतिऽइति वाक्याभासं चाश्रिता इति विभागः / देहादिरनात्मा, भौतिकत्वात्, दृश्यत्वात् इत्यादिन्यायैः, ऽआनन्दमयो ऽभ्यासात्ऽ
SK
इत्यादिसूत्रैश्चाभासत्वं वक्ष्यते / ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्रद्धा तदाश्रयणात्तस्यस्वार्थः सेत्स्यति किं ब्रह्मविचारारम्भेणेत्यत आह-तत्राविचार्येति /
SK
ब्रह्मात्मैक्यविज्ञानादेव मुक्तिरिति वस्तुगतिः / मतान्तराश्रयणे तदभावान्मोक्षसिद्धिः / किञ्चात्मानमन्यथा ज्ञात्वा तत्पापेन संसारान्धकूपे पतेत्,ऽअन्धं तमःप्रविशन्तिऽऽये के चात्महनो जनाःऽइति श्रुतेः, ऽयो ऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते / कि तेन न कृतं पापं चौरेणात्मापहारिणा //
SK
ऽइति वचनाच्चेत्यर्थः / अतः सर्वेषां मुमुक्षूणां निश्रेयसफलाय वेदान्तविचारः कर्तव्य इतिसूत्रार्थमुपसंहरति-तस्मादिति / बन्धस्याध्यस्तत्वेन विषयादिसद्भावादगतार्थत्वात्, अधिकारिलाभादापादप्रसिद्ध्या विषयदिसंभवीच्च वेदान्तविषया मीमांसापूजिता विचारणा, वेदान्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याः सा निश्रेयसायारभ्यत इत्यर्थः / ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथं सूत्रार्थ इत्यत आह-ब्रह्मेति / ब्रह्मज्ञानेच्छोक्तिद्वारा विचारं लक्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः / एवं प्रथमसूत्रस्य चत्वारोर्ऽथा व्याख्यानचतुष्टयेन दर्शिताः / सूत्रस्य चानेकार्थत्वं भूषणम् / नन्विदं सूत्रं शास्त्राद्बहिः स्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा / आद्ये तस्य हेयता, शास्त्रासंबन्धात् / द्वितीये तस्यारम्भकं वाच्यम् / न च स्वयमेवारम्भकं, स्वस्मात् स्वोत्पत्तेरित्यात्मात्माश्रयात् / न चारम्भकान्तरं पश्याम इति / उच्यते-श्रवणविधिना आरब्दमिदं शास्त्रं शास्त्रान्तर्गतमेव शास्त्रारम्भं प्रतिपादयति / यथाध्ययनविधिर्वेदान्तर्गत एव कृत्स्नवेदस्याध्ययने प्रयुङ्क्ते तद्वदित्यनवद्यम्
SK
END Bस्Cओम्_१,१.१.१
SK
START Bस्Cओम्_१,१.२.२
SK
२ जन्माद्याधिकरणम् / सू. २.
SK
ब्रह्मजिज्ञासितव्यमित्युक्तम् / किंलक्षणं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः-
SK
जन्माद्यस्य यतः | BBस्_१,१.२ |
SK
जन्मोत्पत्तिरादिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिः / जन्मस्थितिभङ्गं समासार्थः / जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च / श्रुतिनिर्देशस्तावत् ऽयतो वा इमानि भूतानि जायन्तेऽ (तैत्ति.३.१) इत्यस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् / वस्तुवृत्तमपि, जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रयसंभवात् / अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा निर्देशः / षष्ठी जन्मादिधर्मसंबन्धार्था / यत इति कारणनिर्देशः अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेषः / अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् / यास्कपरिपठितानां तु ऽजायते ऽस्तिऽ इत्यादीनां ग्रहणे तेषां जगतः स्थित्काले संभाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशां जगतो न गृहीताः स्युरित्याशङ्क्येत, तन्मा शङ्कीति योत्पत्तिर्ब्रह्मस्तत्रैव स्थितिः प्रलयश्च त एव गृह्यन्ते //
SK
न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वान्यतः प्रधानादचेतनादणुभ्यो ऽभावात्संसारिणो वा उत्पत्त्यादि संभावयितुं शक्यम् / नच स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् / एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्त ईश्वरकारणिनः /
SK
नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे /
SK
न / वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् / वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते / वाक्यार्थविचारणाध्यवसाननिवृत्ता / सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढायानुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवन्न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्याभ्युपेतत्वात् / तथाहि- ऽश्रोतव्यो मन्तव्यःऽ (बृह. २.४.५) इति श्रुतिः ऽपण्डितो मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेदऽ (छान्दो.६.१४.२) इति च पुरुषबुद्धिसाहाय्यमात्मनोर् दायति / न धर्मजिज्ञासायामिव श्रुत्यादयो ऽनुभवादयश्च यथासंभवमिह प्रमाणं अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य / कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात्पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य / कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म, यथाश्वेन गच्छति, पद्भ्यामन्यथा वा, न वा गच्छतीति / तथा ऽअतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातिऽ, ऽउदिते जुहोति, अनुदिते जुहोतिऽ इति विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः, विकल्पोत्सर्गापवादाश्च / नतु वस्त्वेवं नैवमस्ति नास्तीति वा विकल्प्यते / विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः / न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम् / किं तर्हि वस्तुतन्त्रमेव तत् / नहि स्थाणावेकस्मिस्थाणुर्वा पुरुषो ऽन्यो वेति तत्त्वज्ञानं भवति / तत्र पुरुषो ऽन्यो वेति मिथ्याज्ञानम् / स्थाणुरेवेति तत्त्वज्ञानं,वस्तुतन्त्रत्वात् / एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् / तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तु विषयत्वात् /
SK
ननु भूतवस्तुत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणानर्थिकैव प्राप्ता /
SK
न / इन्द्रियाविषयत्वेन संबन्धाग्रहणात् / स्वभावतो विषयविषयाणीन्द्रियाणि, न ब्रह्मविषयाणि / सति हीन्द्रियविषयत्वे ब्रह्मण-, इदं ब्रह्मणा संबद्धं कार्यमिति गृह्येत / कार्यमात्रमेव तु गृह्यमाणं किं ब्रह्मणा संबद्धं किमन्येन केनचिद्वा संबद्धमिति न शक्यं निश्चेतुम् / तस्माजन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि वेदान्तवाक्यप्रर्दानार्थम् / किं पुनस्तद्वेदान्तवाक्यं यत्सूत्रेणैह लिलक्षयिषितम् / ऽभृगुर्वै वारुणिः / वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मेतिऽ / इत्युपक्रम्य- ऽयतो वा इमानि भूतानि जायन्ते / येन जातानि जीवन्ति / यत्प्रयन्त्यभिसंविशन्ति / तद्विजिज्ञासस्व / तद्ब्रह्मेतिऽ / (तैत्ति. ३.१) / तस्य च निर्णयवाक्यम्- ऽआनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते / आनन्देन जातानि जीवन्ति / आनन्दं प्रयन्त्यभिसंविशन्तिऽ / (तैत्ति. ३.६) अन्यान्याप्येवञ्जातीयकानि वाक्यानि नित्याशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाण्युदाहर्तव्यानि
SK
FN: ऽइदं सर्वमसृजत यदिदं किञ्चऽ इति प्रत्यक्षम् /
SK
प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य शास्त्रमारभमाणः पूर्वोत्तराधिकरणयोः संगतिं वक्तुं वृत्तं कीर्तयति-ब्रह्मेति / मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इत्युक्तम् / ब्रह्मणो विचार्यत्वोक्त्वा अर्थात् प्रमाणादि विचाराणां प्रतिज्ञातत्वे ऽपि ब्रह्मप्रमाणं विना कर्तुमशक्यत्वात्, तत्स्वरूपज्ञानायादौ लक्षणं वक्तव्यं, तन्न संभवतीत्याक्षिप्य सूत्रकृतं पूजयन्नेवलक्षणसूत्रमवधारयति-किंलक्षणकमिति / किमाक्षेपे / नास्त्येव लक्षणमित्यर्थः / आक्षेपेणास्योत्थानादाक्षेपसंगतिः / लक्षणद्योतिवेदान्तानां स्पष्टब्रह्मलिङ्गानां लक्ष्ये ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसंगतयः / तथा हि-ऽयतो वा इमानि भूतानि जायन्तेऽइत्यादि वाक्यं विषयः / तत्किं ब्रह्मणो लक्षणं न वेति संदेहः / तत्र पूर्वपक्षे ब्रह्मस्वरूपसिद्ध्या मुक्त्यसिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति भेदः / यद्यप्याक्षेपसंगतौ पूर्वाधिकरणफलमेव फलमिति कृत्वा पृथङ्न वक्तव्यम् / तदुक्तम्-ऽआक्षेपे चापवादे च प्रास्यां लक्षण कर्मणि / प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्ततेऽइति / तथापि स्पष्टार्थमुक्तमिति मन्तव्यम् / यत्र पूर्वाधिकरणसिद्धान्तेन पर्वपक्षः तत्रापवादिकी संगतिः प्राप्तिस्तदर्था चिन्ता / तत्र नेति प्राप्तं, जन्मादेर्जगद्धर्मत्वेन ब्रह्मलक्षणत्वायोगात् / न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यं, कर्तुरुपादानत्वे दृष्टान्ताभावेनानुमानाप्रवृत्तेः / न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षणसिद्धेः किमनुमानेनेति वाच्यं, अनुमानस्य श्रुत्यनुग्राहकत्वेन तदभावे तद्विरोधे वा श्रुत्यर्थासिद्धेः / न च जगत्कर्तृत्वमुपादानत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यं, कर्तृमात्रस्योपादानाद्भिन्नस्य ब्रह्मत्वायोगात्, वस्तुतः परिच्छेदादिति प्राप्ते पुरुषाभ्यूहमात्रस्यानुमानस्याप्रतिष्ठितस्यातीन्द्रियार्थे स्वातन्त्र्यायोगात् अपौरुषेयतया निर्देषश्रुत्युक्तोभयकारणत्वस्य सुखादिदृष्टान्तेन संभावयितुं शक्यत्वात्, तदेव वक्षणमिति सिद्धान्तयति-जन्माद्यस्य यतः इति /
SK
अत्र अद्यपि जगज्जन्मस्थितिलयकारणत्वं लक्षणं प्रतिपाद्यते तथाप्यग्रे ऽप्रकृतिश्चऽ-इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपत्वमिति वक्ष्यमाणं सिद्धवत्कृत्योभयकारणत्वं लक्षणमित्युच्यत इति न पौनरुक्त्यम् / ननु जिज्ञास्यनिर्गुणब्रह्मणः कारणत्वं कथं लक्षणमिति उच्यते-यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शुक्तिरिति तथा यज्जगत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणमित्यनवद्यम् //
SK
सूत्रं व्याचष्टे--जन्मेत्यादिना / बहुव्रीहौ पदार्थाः सर्वे वाक्यार्थस्यान्यपदार्थस्य विशेषणानि / यथा चित्रगोर्देवदत्तस्य चित्रा गावः तद्वदत्रापि जन्मादीति नपुंसकैकवचनद्योतितस्य समाहारस्य जन्मस्थितिभङ्गस्य जन्म विशेषणं, तथा च जन्मनः समासार्थैकदेशस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान इत्यर्थः / तत्र यज्जन्मकारणं तद्ब्रह्मत्वविधानमयुक्तं, स्थितिलयकारणाद्भिन्नत्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातुमशक्यत्वात् / अतो जन्मस्थितिभङ्गैर्निरूपितानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो द्योतित इति ध्येयम् / नन्वादित्वं जन्मनः कथं ज्ञातव्यं, संसारस्यानादित्वादित्यत आह-जन्मनश्चेति / मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सूत्रकृता जन्मन आदित्यमुक्तमित्यर्थः / इदमः प्रत्यक्षार्थमात्रवाचित्वमाशङ्क्योपस्थितसर्वकार्यवाचित्वमाह-अस्येतीति / वियदादिजगतो नित्यत्वात् न जन्मादिसंबन्ध इत्यत आहः-षष्ठीति / विषयादिमहाभूतानां जन्मादिसंबन्धो वक्ष्यत इति भावः / ननु जगतो जन्मादेर्वा ब्रह्मसंबन्धाभावान्न लक्षणत्वमित्याशङ्क्य तत्कारणत्वं लक्षणमिति पञ्चम्यर्थमाह-यत इतीति / यच्छब्देन सत्यं ज्ञानमनन्तं आनन्दरूपं वस्तूच्यते ऽआनन्दाद्ध्येवऽइति निर्णीतत्वात् / तथा च स्वरूपलक्षणसिद्धिरिति मन्तव्यम् / पदार्थमुक्त्वा पूर्वसूत्रस्थब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च सूत्रावाक्यार्थमाह-अस्येत्यादिना / कारणस्य सर्वज्ञत्वादिसंभावानार्थानि जगतो विशेषाणानि / यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेनाविकल्पितं पृथुबुध्नोदराकारस्वरूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति-बहिः प्रकटयति, तथा परमकारणमपि स्वेत्सितनामरूपात्मना व्याकरोतीत्यनुमीयत इति मत्वाह-नामरूपाभ्यामिति / इत्थंभावे तृतीया / आद्यकार्यं चेतनजन्यं, कार्यत्वात्, कुम्भवदिति प्रधानशून्ययोर्निरासः / हिरण्यगर्भादिजीवजन्यत्वं निरस्यति-अनेकेति / श्राद्धवैश्वानरेष्ट्यादौ पितापुत्रयोः कर्तृभोक्त्रोर्भेदात्पृथगुक्तिः / ऽयो ब्रह्माणं विदधाति पूर्वम्ऽसर्व एत आत्मनो व्युच्चरन्ति᳚इति श्रुत्या स्थूलसूक्ष्मदेहोपाधिद्वारा जीवानां कार्यत्वेन जगन्मध्यपातित्वान्न जगत्कारणत्वमित्यर्थः / कारणस्य सर्वज्ञत्वं संभावयति-प्रतिनियतेति / प्रतिनियतानि व्यवस्थितानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयस्येत्यर्थः / स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः / देहपातादूर्ध्वं काल उत्तरायणमरणादिनिमित्तं च प्रतिनितम् / एवं राजसेवाफले ग्रामादेर्दैशादिव्यस्था ज्ञेया / तथा च यथा सेवाफलं देशाद्यभिज्ञदातृकं तथा कर्मफलं, फलत्वादितिसर्वज्ञत्वसिद्धिरिति भावः / सर्वशक्तित्वं साभावयति--मनसापीति / नन्वन्येपि वृद्धिपरिणामदयो भावविकाराः सन्तीति किमिति जन्मादित्यादितिपदेन न गृह्यन्ते तत्राह-अन्येषामिति / वृद्धिपरिणामयोर्जन्मनि अपक्षयस्य नाशे ऽन्तर्भावः इति भावः / ननु देहो ऽजायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यतिऽइति यास्कमुनिवाक्यं एतत्सूत्रमूलं किं न स्यादत आह-यास्केति / यास्कमुनिः किल महाभूतानामुत्पन्नानां स्थितिकाले भौतिकेषु प्रत्यक्षेण जन्मादिषट्कमुपलभ्य निरुक्तवाक्यं चकार / तन्मूलीकृत्य जन्मादिषट्ककारणत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकृता ब्रह्मलक्षणं न संगृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यात् सा मा भूतिति ये श्रुत्युक्ता जन्मादयस्त एव गृह्यन्त इत्यर्थः / यदि निरुक्तस्यापि श्रुतिर्मूलमिति महाभूतजन्मादिजन्मादिकमर्थस्तर्हि सा श्रुतिरेव सूत्रस्य मूलमस्तु, किमन्तर्गडुना निरुक्तेनेति भावः / यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात् तदा ब्रह्मलक्षणस्य तत्रातिव्याप्त्यादिदोषः स्यात्, अतस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न संभवति, कारणान्तरासंभवादिति युक्तिः सूत्रिता / सा तर्कपादे विस्तरेण वक्ष्यते / अधुना संक्षेपेण तां दर्यति-न यथोक्तेत्यादिना / नामरूपाभ्यां व्याकृतत्येत्यादिनां च चतुर्णां जगद्विशेषणानां व्याख्यानावसरे प्रधानशून्ययोः संसारिणश्च निरासो दर्शितः / परमाणूनामचेतनानां स्वतः प्रवृत्त्ययोगात्, जीवान्यस्य ज्ञानशून्यत्वनियमेनानुमानात् सर्वज्ञेश्वरासिद्धौ तेषां प्रारकाभावात्, जगदारम्भकत्वासंभव इति भावः / स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह-न चेति / जगत उत्पत्त्यादि संभावयितुं न शक्यमित्यन्वयः / किं स्वयमेव स्वस्य हेतुरिति स्वभाव उत कारणानपेक्षत्वम् / नाद्यः, आत्माश्रयात् / न द्वितीय इत्याह-विशिष्टेति / विशिष्टान्यसाधारणानि देशकालनिमित्तानि / तेषां कार्यार्थिभिरुपादीयमानत्वात् कार्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थः / अनेपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादिनिमित्ते च प्रवृत्तिर्न स्यादिति भावः / पूर्वोक्तसर्वज्ञत्वादिविशेषणकमीश्वरं मुक्त्वा जगत उत्पत्यादिकं न संभवतीति भाष्येण कर्तारं विना कार्यं नास्तीति व्यतिरेक उक्तः / तेन यत्कार्यं तत्सकर्तृकमिति व्याप्तिर्ज्ञायते / एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साधयत् सर्वज्ञेश्वरं साधयति किं श्रुत्येति तार्किकाणां भ्रान्तिमुपन्यस्यति-एतदेवेति / एतदेवानुमानमेव साधनं न श्रुतिरिति मन्यन्त इति योजना / अथवा एतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेनास्मत्संमतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः / सर्वज्ञत्वमादिशब्दार्थः / यद्वा व्याप्तिज्ञानसहकृतमेतल्लक्षणमेवानुमानं स्वतन्त्रं मन्यन्त इत्यर्थः / तत्रायं विभागः-व्याप्तिज्ञानात् जगतः कर्तस्तीत्यस्तित्वसिद्धिः / पश्चात् स कर्ता, सर्वज्ञः, जगत्कारणत्वात्,
SK
व्यतिरेकेण कुलालादिवदिति सर्वज्ञत्वसिद्धिर्लक्षणादिति / अत्र मन्यन्त इत्यनुमानस्यभासत्वं सूचितम् / तथाहि-अङ्कुरादौ तावज्जीवः कर्ता न भवति जीवाद्भिन्नस्य घटवदचेतनत्वनियमादन्यः कर्ता नास्त्येवेति व्यतिरेकनिश्चयात्, यत्कार्यं तत्सकर्तृकतमिति व्याप्तिज्ञानासिद्धिः / लक्षणलिङ्कानुमाने तु बाधः अशरीरस्य जन्मज्ञानायोगात्, यज्ञानं तन्मनोजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेर्ज्ञानाचभावनिश्चयात्, तस्मादतीन्द्रियार्थे श्रुतिरेव शरणम् / श्रुत्यर्थसंभावनार्थत्वेनुमानं युक्तिमात्रं न स्वतन्त्रमिति भावः / नन्विदमयुक्तं श्रुतेरनुमानान्तर्भावमभिप्रेत्य भवदीयसूत्रकृतानुमानस्यैवोपन्यस्यत्वादिति वैशेषिकः शङ्कते-नन्विति / अतो मन्यन्ते इत्यनुमानस्याभासोक्तिरयुक्तेति भावः / यदि श्रुतीनां स्वतन्त्रमानत्वं न स्यात्तर्हि ऽतत्तु समन्वयात्ऽइत्यादिना तासां तात्पर्यं सूत्रकृन्न विचारयेत्, तस्मादुत्तरसूत्राणां श्रुतिविचारार्थत्वात् जन्मादिसूत्रे ऽपि श्रुतिरेव स्वातन्त्र्येण विचार्यते नानुमानमिति परिहरति-नेति / किं च मुमुक्षोर्ब्रह्मावगतिरभीषटा यदर्थमस्य शास्त्रस्यारम्भः, सा च नानुमानात्, ऽतं त्वौपनिषदम्ऽइति श्रुतेः / अतो नानुमानं विचार्यमित्याह-वाक्यार्थेति / वाक्यस्य तदर्थस्यच विचाराद्यध्यवसानं तात्पर्यनिश्चयः प्रमेयसंभवनिश्चयश्च तेन जाता ब्रह्मावगतिर्मुक्तये भवतीत्यर्थः / संभवो बाधाभावः / ननु किमनुमानमुपेक्षितमेव नित्याह-सत्सु त्विति / विमतमभिन्ननिमित्तोपादानकं, कार्यत्वादूर्णनाभ्यारब्धतन्त्वादिवत्, विमतं चेतनप्रकृतिकं, कार्यत्वात्, सुखादिवदित्यनुमानं श्रुत्यर्थदार्ढ्यापेक्षितमित्यर्थः / दार्ढ्यं संशयविपर्यासनिवृत्तिः / ऽमन्तव्यःऽइति श्रुतार्थस्तर्केण संभावनीय इत्यर्थः / यथा कश्चित् गन्धारदेशेभ्यश्चोरैरन्यत्रारण्ये बद्धनेत्र एव त्यक्तः केनचिन्मुक्तबन्धस्तदुक्तमार्गग्रहणसमर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदेशानेव प्राप्नुयात् एवमेवेहाविद्याकामादिभिःस्वरूपानन्दात्प्राच्याव्यास्मिन्नरण्ये संसारे क्षिप्तः केनचिद्दयापरवशेनाचार्येण नासि त्वं संसारी किन्तु ऽतत्वमसिऽइत्युपदिष्टस्वरूपः स्वयं तर्ककुशलश्चेत् स्वरूपं जानीयान्नान्यथेति / श्रुतिः स्वस्याः पुरुषमतिरूपतर्कापेक्षां दर्शयतीत्याह-पण्डित इति / आत्मनः श्रुतेरित्यर्थः / ननु ब्रह्मणो मननाद्यपेक्षा न युक्ता, वेदार्थत्वात्, धर्मवत् / किन्तु श्रुतिलिङ्गवाक्यादय एवापेक्षिता इत्यत आह-नेति / जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणीति व्याख्येयम् / अनुभवो ब्रह्मसाक्षात्काराख्यो विद्वदनुभवः / आदिपदान्मनननिदिध्यासनयोर्ग्रहः / तत्र हेतुमाह-अनुभवेति / मुक्त्यर्थं ब्रह्मज्ञानस्य शाब्दस्य साक्षात्कारावसानत्वापेक्षणात् प्रत्यग्भूतसिद्धब्रह्मगोचरत्वेन साक्षात्कारफलकत्वसंभवात्, तदर्थं मननाद्यपेक्षा युक्ता / धर्मे तु नित्यपरोक्षे साध्ये साक्षात्कारस्यानपेक्षितत्वादसंभवाच्च श्रुत्या निर्णयमात्रमनुष्ठानायापेक्षितम् / लिङ्गादयस्तु श्रुत्यन्तरर्भूता एव श्रुतिर्द्वारा निर्णयोपयोगित्वेनापेक्ष्यन्ते न मननादयः अनुपयोगादित्यर्थः / निरपेक्षः शब्दः श्रुतिः / शब्दस्यार्थप्रकाशनासामर्थ्यं लिङ्गम् / पदं योग्येतरपदाकाङ्क्ष वाक्यम् /
SK
अङ्गवाक्यसापेक्षं प्रधानवाक्यं प्रकरणम् / क्रमपठितानामर्थानां क्रमपठितैर्यथाक्रमं संबन्धः स्थानम् / यथा ऐन्द्राग्न्यादय इष्टयो दश क्रमेण पठिताः दशमन्त्राश्च ऽइन्द्राग्नी रोचना दिविऽइत्याद्याः तत्र प्रथमेष्ठौ प्रथममन्त्रस्य विनियोग इत्याद्यूहनीयम् / संज्ञासाम्यं समाख्या / यथाध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञके कर्मणि विनियोग इति विवेकः / एवं तावद्ब्रह्म मननाद्यपेक्षं, वेदार्थत्वात्, धर्मवत् इत्यनुमाने साध्यत्वेन धर्मस्यानुभवायोग्यत्वं, अनपेक्षितानुभवत्वं चोपाधिरित्युक्तम् / उपाधिव्यतिरेकाद्ब्रह्मणि मननाद्यपेक्षत्वं चोक्तम् / तत्र यदि वेदार्थत्वमात्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कृतिसाध्यत्वं विधिनिषेधविकल्पोत्सर्गापवादाश्च ब्रह्मणि धर्मवत् स्युरिति / विपक्षे बाधकमाह-पुरुषेत्यादिना / पुरुषकृत्यधीना आत्मलाभ उत्पत्तिर्यस्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामाण्यमित्यन्वयः / धर्मस्य साध्यत्वं लौकिककर्मदृष्टान्तेन स्फुटयति-कर्तुमिति / लौकिकवदित्यर्थः / दृष्टान्तं स्फुटयति-यथेति / दार्ष्टान्तिकमाह-तथेति / तद्वद्धर्मस्य कर्तुमकर्तुं शक्यत्वमुक्त्वा अन्यथाकर्तुं शक्यत्वमाह-उदित इति / धर्मस्य साध्यत्वमुपपाद्य तत्र विध्यादियोग्यतामाह-विधीति / विधिप्रतिषेधाश्च विकल्पादयश्च धर्मे साध्ये येर्ऽथवन्तः सावकाश भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः / ऽयजेतऽ ऽन सुरां पिबेत्ऽइत्यादयोविधिनिषेधाः / व्रीहिभिर्यवैर्या यजेतेति संभावितो विकल्पः ग्रहणाग्रहणयोरैच्छिकः / उदितानुदितहोमयोर्व्यवस्थितविकल्पः / ऽन हिंस्यात्ऽइत्युपसर्गः, ऽअग्नीषोमीयं पशुमालभेतऽइत्यपवादः / तथा ऽआहवनीये जुहोतिऽइत्युत्सर्गः, ऽअश्वस्य पदे पदे जुहोतिऽइत्यपवाद इति विवेकः / एते ब्रह्मणि स्युरित्यत्रेष्टापत्तिं वारयति-न इत्यादिना / भूतवस्तुविषयत्वात् / इत्यन्तेन / इदं वस्तु, एवं, नैवं, घटःपटो वेति प्रकारविकल्पः / अस्ति नास्ति वेति सत्तास्वरूपविकल्पः / ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्तीत्यादिविकल्पा दृश्यन्ते तत्राह-विकल्पनास्त्विति / अस्तित्वादिकोटिस्मरणं पुरुषबुद्धिस्तन्मूला मनःस्पन्दितमात्राः संशयविपर्ययविकल्पा न प्रमारूपा इत्यक्षरार्थः / अयं भावः-धर्मो हि यथा यथा ज्ञायते तथा तथा कर्तुं शक्यते इति यथाशास्त्रं पुरुषबुद्ध्यपेक्षा विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्येन ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति / तत्राप्येवमिति वदन्तं प्रत्याह-नेति / यदि सिद्धवस्तुज्ञानमपि साध्यज्ञानवत्पुरुषबुद्धिमपेक्ष्य जायेत तदा सिद्धे विकल्पा यथार्थाः स्युः, न सिद्धवस्तुज्ञानं पौरुषं किं तर्हि प्रमाणवस्तुजन्यं, तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः / अत्र दृष्टान्तमाह-नहि स्थाणाविति / स्थाणुरेवेत्यवधारणे सिद्धे सर्वेविकल्पा यथार्था न भवन्तीत्यर्थः / तत्र यद्वस्तुतन्त्रं ज्ञानं तद्यथार्थं, यत्पुरुषतन्त्रं तन्मिथ्येति विभजते-तत्रेति / स्थाणावित्यर्थः / स्थाणावुक्तन्यायं घटादिष्वतीदिशति-एवमिति / प्रकृतमाह-तत्रैवं सतीति / सिद्धेर्ऽथे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्मज्ञानमपि वस्तुजन्यमेव यथार्थं न पुरुषतन्त्रं भूतार्थविषत्वात्, स्थाणुज्ञानवदित्यर्थः / अतः साध्येर्ऽथे सर्वे विकल्पाः पुन्तन्त्रा न सिद्धेर्ऽथे इति वैलक्षण्यात् न धर्मसाम्यं ब्राह्मण इति मननाद्यपेक्षा सिद्धेति भावः / ननु तर्हि ब्रह्म प्रत्यक्षादिगोचरं, धर्मविलक्षणत्वात्, घटादिवत् / तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्यं, सिद्धार्थे तस्य मानत्वात्, न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य निष्फलत्वादिति शङ्कते-नान्विति / प्रमाणान्तरविषयत्वमेव प्राप्तमिति कृत्वा प्रमाणान्तरस्यैव विचारप्राप्ताविति शेषः / अत्र पूर्वपक्षी प्रष्टव्यः, किं यत्कार्यं तद्ब्रह्मजमित्यनुमानं ब्रह्मसाधकं किं वा यत्कार्यं तत्सकारणमिति / नाद्याः, व्याप्त्यसिद्धेरित्याह-नेति / ब्रह्मण इन्द्रियाग्राह्यत्वात् प्रत्यक्षेण व्याप्तिग्राहायोगान्न प्रमाणान्तरविषयत्वमित्यर्थः / इन्द्रियाग्राह्यत्वं कुत इत्यत आह-स्वभावत इति / ऽपराञ्चि खानि व्यतृणत् स्वयंभूःऽइति श्रुतेः, ब्रह्मणो रूपादिहीनत्वाच्चेत्यर्थः / इन्द्रियाग्राह्यत्वे ऽपि व्याप्तिग्रहः किं न स्यादतआह-सति हीति / तन्नास्तीति शेषः / इदं कार्यं ब्रह्मजमिति व्याप्तिप्रत्यक्षं ब्रह्मणो ऽतीन्द्रियत्वान्न संभवतीत्यर्थः / द्वितीये कारणसिद्धावपि कारणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह--कार्यमात्रमिति / संबन्धं कृतं यस्मात् श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्चयालाभस्तस्मात् तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तूपादानत्वादिसामान्यद्वारा मृदादिवत् ब्राह्मणः स्वकार्यात्मकत्वादिश्रौतार्थसंभावनार्थं गुणतया विचार्यमित्युपसंहरति-तस्मादिति / एतत्सूत्रस्य विषयवाक्यं पृच्छति-किं पुनरिति / इह ब्रह्मणि लक्षणार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः / अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्मज्ञातुकामास्य द्वितीयसूत्रे लक्षणमुच्यते / तथैव श्रुतावपि मुमुक्षोर्ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोपक्रमंवाक्यं पठति-भृगुरिति / अधीहि स्मारय उपदिशेत्यर्थः / अत्र येनेत्येकत्वं विवक्षितं, नानात्वे ब्रह्मत्वविधानायोगात् / यज्जगत्कारणं तदेकमित्यवान्तरवाक्यम् / यदेकं कारणं तद्ब्रह्मेति वा यत्कारणं तदेकं बह्मेति वा महावाक्यमिति भेदः / किं तर्हि स्वरूपलक्षणमित्याशङ्क्य वाक्यशेषान्निर्णितो यतःशब्दार्थः सत्यज्ञानानन्द इत्याह--तस्य चेति / ऽयः सर्वज्ञःऽ ऽतस्मादेतद्ब्रह्म नाम रूपमन्नं च जायतेऽ ऽविज्ञानमानन्दं ब्रह्मऽइत्यादि शाखान्तरीयवाक्यान्यप्यस्य विषय इत्याह-अन्यान्यपीति / एवञ्जतीयकत्वमेवाह-नित्येति /
SK
तदेवं सर्वासु शाखासु लक्षणद्वयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि, तद्धिया मुक्तिरिति सिद्धम्
SK
END Bस्Cओम्_१,१.२.२
SK
START Bस्Cओम्_१,१.३.३
SK
३ शास्त्रयोनित्वाधिकरणम् / सू. ३
SK
जगत्कारणत्वप्रर्दानेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तं तदेव द्रढयन्नाह-
SK
शास्त्रयोनित्वात् | BBस्_१,१.३ |
SK
महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणंब्रह्म / नहीदृशस्य शास्त्रस्यर्ग्वेदादिक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवो ऽस्ति / यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति, यथा व्याकरणादि पाणिन्यादेर्ज्ञेयैकदेशार्थमपि स ततो ऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके / किमु वक्तव्यमनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमदिप्रविभागहेतोर् ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्नेनैव लीलान्ययेन पुरुषनिःश्वासवद्यस्मान्महतो भूताद्योनेः संभवः, ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ (बृह. २.४.१०) इत्यादिश्रुतेः / तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति / अथवा यथोक्त ऋग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे / शास्त्रादेव प्रणाणाज्जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः / शास्त्रमुदाहृतं पूर्वसूत्रे- ऽयतो वा इमानि भूतानि जायन्तेऽ इत्यादि /
SK
किमर्थं तर्हीदं सूत्रं, यावता पूर्वसूत्र एवैवञ्जातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् /
SK
उच्यते- तत्र पूर्वसूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादि केवलमनुमानमुपन्यस्तमित्याशङ्क्येत तामाशङ्कां निर्वर्तयितुमिदं सूत्रं प्रववृते शास्त्रयोनित्वादिति
SK
FN: उपबृंहणीयाश्चत्वारो वेदाः तत्र / पुराणानि सृष्ट्यादिप्रतिपादकवाक्यानि परकृतिपुराकल्परूपानर्थवादांश्च प्राधान्येनोपबृंहयन्ति प्रसङ्गादद्वैतभागं कर्मभागं च / न्यायशास्त्रं तु प्रमाणप्रमेयलक्षणानिरूपणेन पदार्थान्विविच्य ज्ञापयदुपबृंहयति / पूर्वोत्तरमीमांसे तु तात्पर्यनिर्णयद्वारोपयुक्ते / धर्मशास्त्रं श्रुतमनुस्मृतिं वा विधिभागमुपबृंहयति / शिक्षा स्थानकरणादिनिरूपणद्वारा स्वाध्यायो ऽध्येतव्य इति विध्यर्थमुपबृंहयति / कल्पास्तु प्रयोगनिरूपणार्थमुपयुक्ताः / व्याकरणं तावदस्मिन्नर्थे इदं पदं साध्विति पदार्थान्व्याकरोति / निरुक्तं तेषु तेषु पदेषु यौगिकमर्थं प्रदर्शयति / छन्दःशास्त्रं वेदगतान्गायत्र्यादिछन्दान् लक्षणमुखेन विशदयति / ज्योतिषं पौर्णमास्यां जयेद्देतामावास्यायाममावास्यया यजेतेत्यादिनोपात्तं कालविशेषं व्यवस्थापयति / तथाच तत्तद्देशव्याख्यानाय बहवो महर्षयः पुराणादिनिबन्धप्रणेतारो यत्र प्रवृत्तास्तस्य महत्त्वं व्यक्तमेव /
SK
विस्तररूपोर्ऽथो धर्मो यस्येति विग्रहः / विस्तृतमित्यर्थः /
SK
यस्य निश्वसितं वेदाः सर्वार्थज्ञानशक्तयः /
SK
श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे
SK
वृत्तानुवादेन संगतिं वदन्नुत्तरसुत्रमवतारयति-जगदिति / चेदनस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात्प्रतिज्ञातं सूत्रकृता, चेतनसृष्टेर्ज्ञानपूर्वकत्वात् / तथा च ब्रह्म सर्वज्ञं, सर्वकारणत्वात्, यो यत्कर्ता स तज्ज्ञः, यथा कुलाल इति स्थितम् / तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः / हेतुद्वयस्यैकार्थसाधनत्वात्, एकविषयत्वमवान्तरसंगतिः / यद्वा वेदस्य नित्यत्वाद्ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसंगत्या वेदहेतुत्वमुच्यते ऽअस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरसःऽ
SK
इति वाक्यं विषयः तत्किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञत्वं साधयति उत न साधयति इति संदेहः / तत्र व्याकरणादिवद्वेदस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्धेतोश्चेतनत्वात्सिद्धिः फलम् / सिद्धान्ते तत्सिद्धिः / अस्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसंगतयः / एवमापादं श्रुत्यादिसंगतय ऊह्याः / वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्विका तद्गता वा, प्रकाशनशक्तित्वात् / कार्यगतशक्तित्वाद्वा, प्रदीपशक्तिवदितिवेदोपादानत्वेन ब्रह्मणः स्वसंबद्धाशेषार्थप्रकाशनसामर्थ्यरूपंसर्वसाक्षित्वं सिध्यति / यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायो ऽनावृतानन्तस्वप्रकाशचिन्मात्रः परमेश्वरः स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता / यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसंबद्धं नान्तरीयकतया जनातीति सर्वज्ञ इति सिद्धान्तयति-शास्त्रेति / शास्त्रं प्रति हेतुत्वात्, ब्रह्म सर्वज्ञं सर्वकारणं च इति संगतिद्वयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे--महत इति / हेतोः सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि / तत्र ग्रन्थतोर्ऽथतश्च महत्त्वं, हितशासनात् शास्त्रत्वम् / शास्त्रशब्दः शब्दमात्रोपलक्षणार्थ इति मत्वाह--अनेकेति / पुराणन्यायमीमांसाधर्मशास्त्राणि शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि इति दश विद्यास्थानानि वेदार्थज्ञानहेतवः / तैरुपकृतस्येत्यर्थः / अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् / अबोधकत्वाभावादपि प्रामाण्यमित्याह--प्रदिपवदिति / सर्वार्थप्रकाशनशक्तिमत्वे ऽप्यचेतनत्वात् सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च / ननु सर्वज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमत्वं वेदस्य तदन्वितत्वे ऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह--न हीति / उपादाने तच्छक्तिं विना कार्ये तदयोगाद्वेदोपादानस्य सर्वज्ञत्वम्, अनुमानं तु पूर्वं दर्शितम् / न चाविद्यायास्तदापत्तिः / शक्तिमत्वे ऽप्यचेतनत्वादिति भावः / वेदः स्वविषयादधिकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात्, व्याकरणरामायणादिवदित्यनुमानान्तरम् / तत्र व्याप्तिमाह--यद्यदिति / विस्तरः शब्दाधिक्यम्, अनेनार्थतो ऽल्पत्वं वदन् कर्तृर्ज्ञानस्यार्थाधिक्यं सूचयति, दृश्यते चार्थवादाधिक्यं वेदे / अत्रैषा योजना--यद्यच्छास्त्रं यस्मादाप्तात्संभवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धं यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोर्ऽथो यस्य तदपि व्याकरणादि पाणिन्यादेरधिकार्थज्ञात्संभवति / यद्यल्पार्थमपि शास्त्रमधिकार्थज्ञात् संभवति तदा ऽअस्य महतःऽइत्यादिश्रुतेर्यस्मान्महतो ऽपरिच्छिन्नाद्भूतात्सत्याद्योनेः सकाशात् अनेकशाखेत्यादिविशिष्टस्य वेदस्य पुरुषनिश्वासवदप्रयत्नेनैव संभवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति / तत्र वेदस्य पौरुषेयत्वशङ्कानिरसार्थं श्रुतिस्थनिःश्वसितपदार्थमाह--अप्रयत्नेनेति /
SK
प्रमाणान्तरेणार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः / अत्रानुमानेन ऽयः सर्वज्ञः ऽइति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्वेदकर्तरि अदिकार्थज्ञानसत्तामात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्वसितश्रुतिविरोधात्, वेदज्ञानमात्रेणाध्येतृवद्वेदकर्तृत्वोपपत्तेश्च / इयान् विशेषः--अध्येता परापेक्षः ईश्वरस्तु स्वकृतवेदानुपूर्वीस्वयमेव स्मृत्या तथैव कल्पादौ ब्रह्मादिप्वाविर्भावयन् अनावृतज्ञानत्वात्तदर्थमत्यवर्जनीयतया जानातीति सर्वज्ञ इत्यनवद्यम् //
SK
अधुना ब्रह्मणो लक्षणानन्तरं प्रमाणजिज्ञासायां वर्णकान्तरमाह--अतवेति / लक्षणप्रमाणयोर्ब्रह्मनिर्णयार्थत्वादेकफलकत्वं संगतिः / ऽतं त्वौपनिषदं पुरुषम्ऽइति श्रुतिर्ब्रह्मणो वेदैकवेद्यत्वं ब्रूते न वेति शंशये, कार्यलिङ्गेनैवलाघवात् कर्तुरेकस्य सर्वज्ञस्य ब्रह्मणः सिद्धेर्न ब्रूते इति प्राप्ते वेदप्रमाणकत्वात् ब्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति--शास्त्रयोनित्वादिति / तद्व्याचष्टे-यथोक्तमिति / सर्वत्र पूर्वोत्तरपक्षयुक्तिद्वयं संशयबीजं द्रष्टव्यम् / अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धिः फलं सिद्धान्ते वेदान्तानामिति भेदः / अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्निरस्ता / किञ्च विचित्रप्रपञ्चस्य प्रासादादिवदेककर्तृकताबाधान्न लाघवावतारः / न च सर्वज्ञत्वात्कर्तुरेकत्वसंभवः / एकत्वज्ञानात् सर्वज्ञत्वज्ञानं ततस्तदित्यन्योन्याश्रयमभिप्रेतेयाह--शास्त्रादेवेति / किं तच्छास्त्रमिति तदाह-शास्त्रमिति / पृथगारम्भमाक्षिपति-किमर्थमिति / येन हेतुना दर्शितं ततः किमर्थमित्यर्थः / जन्मादिलिङ्गकानुमानस्य स्वातन्त्र्येणोपन्यासशङ्कानिरासार्थं पृथक्सूत्रमित्याह--उच्यत इति
SK
END Bस्Cओम्_१,१.३.३
SK
START Bस्Cओम्_१,१.४.४
SK
४ समन्वयाधिकरणम् / सू. ४
SK
कथं पुनर्ब्रह्मणः सास्त्रप्रमाणकत्वमुच्यते, यावता, ऽ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्ऽ / (जै.सू. १.२.१) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितिम् / अतो वेदान्तानामानर्थक्यं, अक्रियार्थत्वात् /
SK
कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वं, उपासनादिक्रियान्तविधानार्थत्वं वा / नहि परिनिष्ठितवस्तुप्रतिपादनं संभवति, प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनः / तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात् / अत एव ऽसो ऽरोदीत्ऽ इत्येवमादिनामानर्थक्यं मा भूदिति ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधिना स्युःऽ / (जै.सू. १.२.७) इति स्तावकत्वेनार्थवत्त्वमुक्तम् / मन्त्राणां च ऽइषे त्वाऽ इत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम् / न Dवचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा / न च परिनिष्ठिते वस्तुस्वरूपे विधिः संभवति, क्रियाविषयत्वाद्विधेः / तस्मात्कर्मापेक्षितकर्तृस्वरूपदेवतादिप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् / अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् / तसामान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते-
SK
FN: आम्नायस्येति पूर्वपक्षम् / अस्यार्थः - आम्नायस्य वेदस्य क्रियाप्रतिपादनपरत्वादतदर्थानामक्रियार्थानां ऽसो ऽरोदीऽ दित्यादिवाक्यानामानर्थकत्वं / तस्मादनित्यमनियतं वेदानां प्रामाण्यमुच्यते / तद्भूतानां क्रियार्थेन समन्वय इति सिद्धान्तः / तत्तेषु वेदवाक्येषु भूतानां सिद्दार्थप्रतिपादकवाक्यानां क्रियार्थेन क्रियाप्रतिपादकवाक्येन ऽबर्हिषि रजतं न देयं, पशुना यजेतेऽ त्यादिना सहान्वयः / तथाच निन्द्यत्वाद्यर्थपूरणेनान्वये कृते क्रियापरत्वसिद्ध्या प्रामाण्यं सिद्धम् / सिद्धवस्तुज्ञानात्फलभावादेवेत्यर्थः /
SK
तत् तु समन्वयात् | BBस्_१,१.४ |
SK
तु शब्दः पूर्वपक्षव्यावृत्त्यर्थः / तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्ति स्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते / कथम्, समन्वयात् / सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि / ऽसदेव सोम्येदमग्र आसीत्ऽ / ऽएकमेवाद्वितायम्ऽ / (छान्दो. ६.२.१) ऽआत्मावा इदमेक एवाग्र आसीत्ऽ / (ऐत. २.१.१.१) ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ /
SK
ऽअयमातमा ब्रह्म सर्वानुभूःऽ / (बृह. २.५.१९) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ / (मुण्ड. २.२.११) इत्यादीनि / नच तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये ऽवगम्यमानेर्ऽथान्तरकल्पना युक्ता, श्रुतिहानन्यश्रुतकल्पनाप्रसङ्गात् / नच तेषां कर्तृस्वरूपप्रतिपादनपरतावसीयते, ऽतत्केन कं पयेत्ऽ (बृह. २.४.१३) इत्यादि क्रियाकारकफलनिरीकरणश्रुतेः / नच परिनिष्ठितवस्तुस्वरूपत्वे ऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, ऽतत्त्वमसिऽ (छान्दो. ६.८.७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् / यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नैष दोषः, हेयोपादेयाशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्राहाणात्पुरुषार्थसिद्धेः / देवतादिप्रतिपादनास्य तु स्ववाक्यगतोपासनार्थत्वे ऽपि न कश्चिद्विरोधः / नतु तथा ब्रह्मण उपासनाविधिशेषित्वं संभवति, एकत्वे हेयोपादेयाशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्देपपत्तेः / नह्येकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः संभवो ऽस्ति, येनोपासनाविधिशेषित्वं ब्रह्मणः प्रतिपद्येत / यद्यप्यन्यत्र वेदवाक्यानां वीधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टं, तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् / न चानुमानगम्यं शास्त्रप्रामाण्यं, येनान्यत्र दृष्टं निदर्शनमपेक्षेत / तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम् / अत्रापरे प्रत्यवतिफष्ठन्ते- यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतैव शास्त्रेण ब्रह्म समर्प्यते / यथा यूपाहवहनीयादीन्यलौकिकान्यपि विधिशषतया शास्त्रेण समर्प्यन्ते तद्वत् / कुत एतत् / प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य / तथाहि शास्त्रतात्पर्यविद आहुः- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति / ऽचोदनेति क्रियायाः प्रवर्तकं वचनम्ऽ / ऽतस्य ज्ञानमुपदेशःऽ- (जै.सू. १.१.५) ऽतद्भूतानां क्रियार्थेन समाम्नायःऽ- (जै.सू. १.१.२५) ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्-ऽ
SK
(जै.सू. १.२.१) इतिच / अतः पुरुषं Dवचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् / तच्छेषतया चान्यदुपयुक्तम् / तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् / सति च विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयत एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् /
SK
नन्विह जिज्ञास्यवैलक्षण्यमुक्तम्- कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति / तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति / नार्हत्येवं भवितुम् / कार्यविधिप्रयुक्त्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् / ऽआत्मा वा अरे द्रष्टव्यःऽ (बृह. २.४.५) इति / ऽय आत्मापहतपाप्मा-सो ऽन्वेव्यः स विजिज्ञासितव्यःऽ (छान्दो. ८.७.१) ऽआत्मेत्योवोपासीतऽ (बृह.१.४.७) ऽआत्मानमेव लोकमुपासतऽ (बृह. १.४.१५) / ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. ३.२.९) इत्यादिविधानेषु सत्सु को ऽसावात्मा किं तद्ब्रह्म इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः- ऽनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्याशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म. इत्येवमादयः / तदुपासनाच्च शास्त्रदृष्टो ऽपि मोक्षः फलं भविष्यतीति / कर्तव्यविध्यननुप्रवेशे वस्तुमात्रकथने हानोपादानसंभवात्, सप्तद्वीपा वसुमती, राजासौ गच्छतीत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् /
SK
ननु वस्तुमात्रकथने ऽपि रजुरियं नायं सर्प इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टं तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् / स्यादेतदेवं, यदि रजुस्वरूपश्रवण इव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत / नतु निवर्तते, श्रुतब्रह्मणो ऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्, ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृह. २.४.५) इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिर्दर्शनात् / तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति /
SK
अत्राभिधीयते- न / कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् / शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यं, यद्विषया जिज्ञासा ऽअथातो धर्मजिज्ञासाऽ (जै.सू. १.१.१) इति सूत्रिता, अधर्मो ऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहाराय / तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे / मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते / ततश्च तद्धेतोर्धर्मस्य तारतम्यं गम्यते / धर्मतारतम्यादधिकारितारतम्यम् / प्रसिद्धं चार्थित्वसार्मथ्यादिकृतमधिकारितारतम्यम् / तथाच यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनं, केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनं, तत्रापि सुखतारतम्यं तत्साधनतारतम्यं च शास्त्रात् ऽयावत्संपातमुषित्वाऽ (छान्दो. ५.१०.५)
SK
इत्यस्माद्गम्यते / तथा मनुष्यादिषु नारकस्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः / तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यर्दानात्तद्धेतोरधर्मस्य प्रतिषेधचोदनाक्षणस्य तदनुष्ठायिनां च तारतम्ये गम्यते / एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यनिमित्तं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् / तथाच स्मृतिः- ऽन ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिऽ इति यथावर्णितं संसाररूपमनुवदति / अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो. ८.१२.१) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते / धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्यते / अशरीरत्वमेव धर्मकार्यमितिचेन्न, तस्य स्वाभाविकत्वात् / ऽअशरीरं शरीरेश्वनवस्थेष्ववस्थितम् / महान्तं विभुमात्मानं मत्वा धीरो न शोचतिऽ (काठ. १.२.२१) ऽअप्राणो ह्यमनाः शुभ्रःऽ (मुण्ड. २.१.२) ऽअसङ्गो ह्ययं पुरुषःऽ (बृह. ४.३.१५) इत्यादिश्रुतिभ्यः / अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् / तत्र किञ्चित्परिणामि नित्यं यस्मिन्विक्रियमाणे ऽपि तदेवेदमिति बुद्धिर्न विहन्यते / यथा पृथिव्यादिजगन्नित्यत्ववादिनाम् / यथा च सांख्यानां गुणाः / इदं तु पारमार्थिकं, कूटस्थनित्यं, व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयञ्ज्योतिःस्वभावम् / यत्र धर्माधर्मी सह कार्येण कालत्रयं च नोपावर्तेते / तदेदारीरत्वं मोक्षाख्यम् / ऽअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् / अन्यत्र भूताच्च भव्याच्चऽ (क. २.१४)
SK
इत्यादिश्रुतिभ्यः / अतस्तद्ब्रह्म यस्येयं जिज्ञासा प्रस्तुता, तद्यदि कर्तव्योषत्वेनोपदियेत, तेन च कर्तव्येन साध्यश्चेन्मोक्षो ऽभ्युपगम्येत, अनित्य एव स्यात् / तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत, नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते, अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः / अपिच ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. ३.२.९) ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परापरेऽ (मुण्ड. २.२.८) / ऽआनन्दं ब्रह्मणो विद्वान् / न बिभेति कुतश्चयनऽ (तैत्ति. २.९) / ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृह. ४.२.४) ऽतदात्मानमेवावेदेहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽ / (वाजसनेयब्राह्मणोप. १.४.१०) ऽतत्र को मोहः कः शोक एकत्वमनुपयतःऽ (ई(?). ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति / तथा ऽतद्वैतत्पशयन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृह. १.४.१०)इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम् / यथा तिष्ठन्गायतीति तिष्ठतिगायत्ययोर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते / ऽत्वं हि नः पिता यो ऽस्माकमविद्यायाः परं पारं तारयसिऽ (प्र. ६.८) ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि त्वं मा भगवच्छोकस्य पारं तारयतुऽ (छान्दो. ७.१.३) ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छान्दो. ७.२६.२) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्ति / तथाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्- ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽ (न्या. सू. १.१.२) इति / मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति / नचेदं ब्रह्मात्मैकत्वविज्ञानं संपद्रूपम् / यथा ऽअनन्तं वै मनो ऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयतिऽ (बृह. ३.१.९) इति / न चाध्यासरूपम् / यथा ऽमनो ब्रह्मेत्युपासीतऽ (छान्दो. ३.१८.१) ऽआदित्यो ब्रह्मेत्यादेःशःऽ (छान्दो. ३.१९.१) इति च मन आदित्यादिषु ब्रह्मदृष्टध्यासः / नापि विशिष्टक्रियायोगनिमित्तं ऽवायुर्वाव संवर्गःऽ ऽप्राणो वाव संवर्गःऽ (छान्दो. ४.३.१) इतिवत् / नाष्वाज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् / संपदादिरूपे हि ब्रह्मात्मैकत्वविज्ञाने ऽभ्युपगम्यमाने ऽतत्वमसिऽ (छान्दो. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृह. १४.१०) ऽअयमात्मा ब्रह्मऽ (बृह. २.५.१९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत / ऽभिद्यते हृदयग्रन्थिशिछद्यन्ते सर्वसंशयाःऽ (मुण्ड. २.२.८) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् / ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. ३.२.९) इति चैवमादीनि तद्भावापत्तिवचनानि संपदादिपक्षे न सामञ्जस्येनोपपद्येरन् / तस्मान्न संपदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् / अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या / किं तर्हि प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रा / एवंभूतस्य ब्रह्मणस्तज् ज्ञानस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् / नच विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः, ऽअन्यदेव तद्विदितादथो अविदितादधिऽ (केन. १.३) इति विदिक्रियाकर्मत्वप्रतिषेधात्, ऽयेनेदं सर्वं विजानाति तं केन विजानीयात्ऽ (बृह. २.४.१३) इति च / तथोपास्तिक्रियाकर्मत्वप्रतिषेधो ऽपि भवति- यद्वाचानभ्युदितं येन वागभ्युद्यते इत्यविषयत्वं ब्रह्मण उपन्यस्य, ऽतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासतेऽ (केन. १.४) इति / अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरितिचेत् / न / अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य / नहि शास्त्रमिदन्तया विषयभूतं ब्रह्म प्रतिपिपादयिषति / किं तर्हि, प्रत्यगात्मत्वेनाविषयतया प्रतिपादयविद्याकल्पितं वेद्य-वेदितृ-वेदनादिभेदमपनयति / तथाच शास्त्रम्- ऽयस्यामतं तस्य मतं, मतं यस्य न वेद सः / अविज्ञातं विजानतां विज्ञातमविजानताम्ऽ (केन. २.३) ऽन दृष्टेर्द्रष्टारं पश्येःऽ, ऽन विज्ञातेर्विज्ञातारं विजानीयाःऽ (बृह. ३.४.२) इति चैवमादि / अतो ऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः / यस्य तूत्पाद्यो मोक्षस्तस्य मानसं, वाचिकं, कायिकं वा कार्यमपेक्षत इति युक्तम् / तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् / नहि दध्यादि विकार्यं, उत्पाद्यं वा धटादि, नित्यं दृष्टं लोके / नचाप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् / स्वरूपव्यतिरिक्तत्वे ऽपि ब्रह्मणो नाप्यत्वं, सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मणः, आकाशस्येव / नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत / संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याद्दोषापनयनेन वा / न तावद्गुणाधानेन संभवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य / नापि दोषापनयनेन, नित्याशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य / स्वात्मधर्म एव संस्थिरोभीतो मोक्षः क्रिययात्मनि संस्क्रियमाणे ऽभिव्यज्यते, यथाऽदर्शे निघर्षणक्रियया संस्क्रयमाणे भास्वरत्वं धर्म इतिचेत् / न /
SK
क्रियाश्रयत्वानुपपत्तेरात्मनः / यदाश्रया क्रिया तमविकुर्वती नैवात्मानं लभते / यद्यात्मा क्रियया विक्रियेतानित्यत्वमात्मनः प्रसज्येत / ऽअविकार्यो ऽयमुच्यतेऽ इति चैवमादीनि वाक्यानि बाध्येरन् / तच्चानिष्टम् / तस्मान्न स्वाश्रया क्रियाऽत्मानः संभवति / अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते /
SK
ननु देहाश्रयया स्नानाचमनयज्ञोपवीतादिकया क्रियया देही संस्क्रियमाणो दृष्टः /
SK
न / देहादिसंहतस्यैवाविद्यागृहीतस्यात्मानः संस्क्रियमाणत्वात् / प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम् / तया देहाश्रयया तत्संहत एव कश्चिदविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् / यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलं, अहमरोग इति यत्र बुद्धिरुत्पद्यते / एवं स्नानाचमनयज्ञोपवीतादिना अहं शुद्धः संस्कृत इति यत्र बुद्धिरुत्पद्यते स संस्क्रियते / स च देहेन संहत एव / तेनैव ह्यहङ्कर्त्राहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते / तत्फलं च स एवाश्नाति, ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनाश्नन्नन्यो अभिचाकाशीतिऽ (मुण्ड. ३.१.१) इति मन्त्रवर्णात् / ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणःऽ (काठ. १.३.४) इति च / तथाच ऽएको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा / कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्चऽ (श्वेता. ६.११) इति / स पर्यगाच्छुक्रमकायमन्त्रणमस्त्राविरंशुद्धमपापविद्धम् / (ई(?). ८) इति च / एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः / ब्रह्मभावश्च मोक्षः / तस्मान्न संस्कार्यो ऽपि मोक्षः / अतो ऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् / तस्मात् ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते /
SK
ननु ज्ञानं नाम मानसी क्रिया /
SK
न / वैलक्षण्यात् / क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना च / यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्व्षट्करिष्यन् इति / ऽसंध्यां मनसा द्यायेत्ऽ (ऐ.ब्रा. ३.८.१) इति चैवमादिषु / ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं, पुरुषतन्त्रत्वात् / ज्ञानं तु प्रमाणजन्यम् / प्रमाणं च यथाभूतवस्तुविषयमतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यं, केवलं वस्तुतन्त्रमेव तत् / न चोदनातन्त्रम् //
SK
नापि पुरुषतन्त्रम् / तस्मान्मानसत्वे ऽपि ज्ञानस्य महद्वैलक्षण्यम् / यथाच ऽपुरुषो वाव गौतमाग्निःऽ, ऽयोषा वाव गौतमाग्निः (छान्दो. ५.७,८.१) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवति / केवचोदनाजन्यत्वात्क्रियैव सा पुरुषतन्त्रा च / या तु प्रसिद्धे ऽग्नावग्निबुद्धिर्न सा चोदनातन्त्रा / नापि पुरुषतन्त्रा / किं तर्हि प्रत्यक्षवस्तुतन्त्रैवेति ज्ञानमेवैतन्न क्रिया / एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् / तत्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् / तद्विषये लिङागादयः श्रूयमाणा अप्यनियोज्यविषयत्वात्कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वात् / किमर्थानि तर्हि ऽआत्मा वारे द्रष्यव्यः श्रोतव्यःऽ इत्यादीनि विधिच्छायानि वचनानि / स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः / यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयाददनिष्टं माभूदिति, नच तत्रात्यन्तिकं पुरुषीर्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविककार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ऽआत्मा वा अरे द्रष्टव्यःऽ
SK
इत्यादीनि / तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यते / ऽइदं सर्वं यदयमात्माऽ (बृह. २.४.६) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् केन कं विजानीयात् वीज्ञातारमरे केन विजानीयात्ऽ (बृह. ४.५.१५) ऽअयमात्मा ब्रह्मऽ (बृह. २.५.१९) इत्यादिभिः / यदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति, तत्तथैवेत्यभ्युपगम्यते / अलङ्कारो ह्ययमस्माकं यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति / तथाच श्रुतिः- ऽआत्मानं चेद्विजानीयादयमस्तीति पूरुषः / किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्ऽ //
SK
(बृह. ४.४.१२) इति / ऽएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारतऽ / (भ.गी. १५.२०) इति स्मृतिः / तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम् / यदपि केचिदाहुः- ऽप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तिऽ इति तन्न, औपनिषदस्य पुरुषस्य पुरुषस्यानन्यशेषत्वात् / यो ऽसावुपनिषत्स्वेवाधिगतः पुरुषो ऽसंसारी ब्रह्म उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थो ऽनन्योशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम्, ऽस एष नेति नेत्यात्माऽ (बृह. ३.९.२६) इत्यामशब्दात्, आत्मनश्च प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात् /
SK
नन्वात्माहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम् /
SK
न / तत्साक्षित्वेन प्रत्युक्तत्वात् / नह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा, अतः स न केनचित्प्रत्याख्यातुं शक्यो विधिशेषत्वं वा नेतुम् / अस्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः / सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति / पुरुषो विनाशहेत्वाभावादविनाशी, विक्रियाहेत्वभावाच्च, कूटस्थनित्यः, अत एव नित्याशुद्धबुद्धमुक्तस्वभावः / तस्मात् ऽपुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिःऽ (काठ. १.३.११) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृह. ३.९.२३) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्व उपपद्यते / अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् / यदपि शास्त्रतात्पर्यविदामनुक्रमणम्- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इत्येवमादि, तद्धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधाशास्त्राभिप्रायं द्रष्टव्यम् / अपिच ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतर्थानाम्ऽ इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानार्थक्यप्रसङ्गः / प्रवृत्ति निवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः / नहि भूतमुपदिश्यमानं क्रिया भवति / अक्रियात्वे ऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थं एव भूतोपदेश इति चेत् / नैष दोषः / क्रियार्थत्वे ऽपि क्रियातिवर्तनशक्तिमद्वस्तूपदिष्टमेव / क्रियार्थत्वं तु प्रयोजनं तस्य / न चैतावता वस्त्वनुपदिष्टं भवति / यदि नामोपदिष्टं किं तव तेन स्यादिति /
SK
उच्यते- अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति / तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यवाशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन / अपिच ऽब्राह्मणो न हन्तव्यःऽ इति चैवमाद्या निवृत्तिरुपदिश्यते / नच सा क्रिया / नापि क्रियासाधनम् / अक्रियार्थानामुपदेशो ऽनर्थकश्चेत् ऽब्राह्मणो न हन्तव्यःऽ इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् / तच्चानिष्टम् / नच स्वाभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं, हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण / नञश्चैष स्वभावो यत्स्वसंबन्धिनो ऽभावं बोधयतीति / अभावबुद्धिश्चौदासीन्यकारणम् / सा च दग्धेन्धनाग्निवत्स्वयमेवोपाशाम्यति / तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ऽब्राह्मणो न हन्तव्यःऽ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतित्रातादिभ्यः / तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् / यदप्युक्तं- कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमानर्थकं स्यात् ऽसप्तद्वीपा वसुमतीऽ त्यादिवदिति, तत्परिहृतम् / रजुरियं नायं सर्प इति वस्तुमात्रकथने ऽपि प्रयोजनस्य दृष्टत्वात् /
SK
ननु श्रुतब्रह्मणो ऽपि यथापूर्वं संसारित्वर्दानान्न रजुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् /
SK
अत्रोच्यते- नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुं व वेदप्रमाणजनितब्रह्मात्मभावविरोधात् / नहि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् / नहि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापह्रनिमित्तं दुःखं भवति / नच कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमाननिमित्तं सुखं भवति / तदुक्तं श्रुत्या- ऽआरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो. ८.१२.१) इति / शरीरे पतिते ऽशरीरत्वं स्यात्, न जीवत इति चेन्न, सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्त्वात् / न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वान्यतः सशरीरत्वं शक्यं कल्पयितुम् / नित्यमशरीरत्वमकर्मनिमित्तत्त्वादित्यवोचाम / तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेन्न, शरीरसंबन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः / शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैषानादित्वकल्पना /
SK
क्रियासमवायाभावाच्चाम्तनः कर्तृत्वानुपपत्तेः / संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तव्यमिति चेन्न, धनदानाद्युपार्जितभृत्यसंबन्धत्वात्तेषां कर्तृत्वोपपत्तेः / न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिसंबन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् / मिथ्याभिमानस्तु प्रत्यक्षः संबन्धहेतुः / एतेन यजमानत्वमात्मनो व्याख्यातम् / अत्राहुः- देहादिव्यतिरिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो न मिथ्येति चेन्न, प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः / यस्य हि प्रसिद्धो वस्तुभेदः, यथा केसरादिमानाकृतिविशेषो ऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्यो ऽन्यः प्रसिद्धः ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः संपन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतो नाप्रसिद्धवस्तुभेदस्य / तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतो न गौणौ / यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथावा शुक्तिकायामकस्माद्रजतमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसंघाते ऽहमिति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् / आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः / तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव न गौणः / तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतो ऽपि विदुषो ऽशरीरत्वम् / तथाच ब्रह्मविद्विषया श्रुतिः- ऽ तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते / अथायमशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एवऽ (बृह. ४.४.७) इति / ऽसचक्षुरचक्षुरिव सकर्णो ऽकर्ण इव सवागवागिव समना अमना इव सप्राणो ऽप्राण इवऽ इति च / स्मृतिरपि च- ऽस्थितप्रज्ञस्यका भाषाऽ (भ.गी. २.५४) इत्याद्या स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसंबन्धं दर्शयति / तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् / यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् / यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्वधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति /
SK
न / अवगत्यर्थत्वान्मनननिदिध्यासनयोः / यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषित्वम् / नतु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् / तस्मान्न प्रतपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः संभवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् / एवञ्च सति ऽअथातो ब्रह्मजिज्ञासाऽ इति तद्विषयः पृथक्शास्त्रमारम्भ उपपद्यते / प्रतिपत्तिविधिपरत्वे हि ऽअथातो धर्मजिज्ञासेऽत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत / आरभ्यमाणं चैवमारभ्येत - ऽअथातः परिशिष्टधर्मजिज्ञासेतिऽ ऽ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासाऽ (जै. ४.१.१) इतिवत् / ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः- ऽअथातो ब्रह्मजिज्ञासाऽ इति /
SK
तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विषयः सर्वाणि चेतराणि प्रमाणानि / नह्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति / अपिचाहुः- ऽगौणमिथ्यात्मनो ऽसत्त्वे पुत्रदेहादिबाधनात् / सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् //
SK
अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः / अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः //
SK
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः / लौकिकं तद्वदेवेदं प्रमाणं त्वाऽत्मनिश्चयात्ऽ
SK
इति
SK
इति चतुःसूत्री समाप्ता /
SK
FN: पूर्वपक्षिणा क्रियाशेषतया ब्रह्म प्रतिपाद्यत इत्युक्तं तद्व्यावृत्त्यर्थमिति भावः /
SK
पूर्णतया जुहूद्वारा क्रतुशेषतावादात्मनो ऽपि ज्ञानद्वारा कर्मशेषत्वात्तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्तीत्याशङ्क्याह तत्केनेति /
SK
प्रतिपत्तिकर्म प्रधानकर्मशेषाङ्गं / यथ प्रधानचरुहोमोत्तरं तेनैव द्रव्येण स्विष्टकृद्बलिदानादि / यथावा श्राद्धे पिण्डप्रदानपूजोत्तरं पिण्डानां गङ्गादिप्रवाहे प्रक्षेपः /
SK
अनुनप्रवेशो ऽसंबन्धः /
SK
प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिप्रत्यवच्छेदकत्वेम विषयतयेत्यर्थः /
SK
अग्न्यादिदेवतोद्देशेन पुरोडाशादिद्रव्योत्सर्गो यागः /
SK
अशरीरं विदेहं, प्रियाप्रिये सुखदुःखे /
SK
कृताकृतादिति / कृतात् कार्यात्, अकृतात् कारणात् / तत् ब्रह्म, अवेत् विदितवत् / वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितः विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै / अध्यासः शास्त्रतो ऽतस्मिंस्तद्धीः / आदेश उपदेशः / प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्गः / तत् विदिताज्ज्ञानविषयादन्यद्भिन्नम् / अथो अपि अविदितादज्ञानविषयादपि अधि अन्यत् / यद्वाचा शब्देनानभ्युदितमप्रकाशितं, येन भ्मणा सा वागभ्यद्यते प्रकाश्यते / ऽनिवृत्तिविषयत्वात्ऽ भा.पा. / स्वात्मनो धर्मानाश्रयत्वे ऽपि नित्यो धर्मो मोक्षाख्यो भविष्यतीत्यभिप्रायेण धर्मशब्दः, स्वरूपपरो वा / अन्यो जीवात्मा / पिप्पलङ्कर्मफलम् / अभिचाकशीति प्रकाशते / कर्माध्यक्षः कर्मफलप्रदाता /
SK
शुक्रमिति बाह्याशुद्धिविरह उक्तः / अव्रणमस्नाविरमित्येव कायनिषेधे सिद्धे पुनस्तन्निषेधो लीलाधृतविषण्वादिविग्रहस्याप्यनृतताप्रतिपादनार्थः / तथाच - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद / सर्वभूतगुणैर्युक्तं मैवं मां द्रष्टुमर्हसीऽ ति / शरीरोपादानभूताविद्याराहित्याय शुद्धमिति / तन्निमित्तराहित्यायापापविद्धमिति /
SK
अत्रानुप्रवेशः संबन्धः /
SK
मयेदं कार्यमित्यवगतिमान् हि नियोज्यो भवति / कृतिसाध्यश्च विधिविषयो भवति / ज्ञानस्य च कृत्यसाध्यत्वान्नोभयमात्मज्ञानं भवतीति भावः / विधिच्छायानि प्रसिद्धयागादिविधितुल्यानि / प्रत्यगात्मनि स्रोतश्चित्तवृत्तिप्रवाहः / ऽकृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यतिऽ पञ्च. / अनुसंज्वरेत् शरीरं परितप्यमानमनुतप्येत / प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः / आ. / ऽयच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह / यच्चास्य संततो भावस्तस्मादात्मेति भण्यतेऽ इति / अहंप्रत्ययविषय औपनिषदः पुरुषः / अहंप्रत्ययविषयो यः कर्ता कार्यकरणसंघातोपहितो जीवात्मा तद्व्यतिरेकेण / ऽइत्येवमाद्याऽ भा.पा. /
SK
बटोर्व्रतमित्युपक्रान्तं ऽनेक्षेतोद्यन्तमादित्यंऽ इत्यादि प्रजापतिव्रतम् / विध्यनुप्रवेशो विधिसंबन्धः / कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः / शब्दः शाब्दवोधश्चेत्यर्थः / निरुपचारेण गुणज्ञानंविना / श्रवणमननकुशलतामात्रेण पण्डितानां अनुत्पन्नसाक्षात्काराणामितियावत् / अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तत एवमित्याद्यूह्यम् / ब्रह्मसाक्षात्कारो ऽवगतिस्तदर्थत्वात् / विधिशेषत्वेन ब्रह्मार्पणे ऽपि / अथात इति तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसंभवात्कोनाम क्रतवे कोवा पुरुषार्तायेति जिज्ञासा प्रवृत्ता चतुर्थादौ /
SK
तस्मात् ज्ञानस्य प्रमेयप्रमातृबाधकत्वाभावात् / गौमेति / पुत्रदारादिष्वात्माभिमानो गौणः तत्र भेदानुभवात् / देहेन्द्रियादिषप त्वभेदानुभवान्न गौणः किन्तु मिथ्या / तदुभयात्मनो ऽसत्वे पुत्रदेहादिबाधनात्- गौणात्मनो ऽसत्वे पुत्रकलत्रादिबाधनं, मिथ्यात्मनो ऽसत्वे देहेन्द्रियादिबाधनं च / तथाच लोकयात्रकार्यं सद्ब्रह्माहमिति बोधकार्यं- अद्वैतसाक्षात्कारश्च कथं भवेत् / अन्वेष्टव्यात्मविज्ञानात्- ऽय आत्मापहतपाप्माऽ, सो ऽन्वेष्टव्यः इति तद्विज्ञानात्पूर्वमात्मनो मातृत्वं प्रमाप्रमेयप्रमाणविभागश्च / तेन तदभावे कार्यं नोत्पद्यत इत्यर्थः / आत्मनिश्चयात् आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः /
SK
वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वितीयवर्णकेनाक्षेपसंगत्या पूर्वपक्षमाह--कथं पुनरित्यादिना / ऽसदेव सोम्यऽइत्यादीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्यादिसंगतयः / पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः / कथमित्याक्षेपे हेतुः-यावतेति / यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतो ऽक्रियार्थत्वाद्वेदान्तनामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः / सूत्रस्यायमर्थः-प्रथमसूत्रे तावद्वेदस्याध्ययनकरणकभावनाविधिभाव्यस्य फलवदर्थपरत्वमुक्तम् / ऽचोदनालक्षणोर्ऽथो धर्मःऽइति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम् / तत्रऽवायुर्वै क्षेपिष्ठाऽइत्याद्यर्थवादानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वात् अर्थवादेषु धर्मस्याप्रतीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् / न चाध्ययनविध्युपात्तानां निष्फले सिद्धेर्ऽथे प्रामाण्यं युक्तं, तस्मादनित्यमेषां प्रामाण्यमुच्यते / व्यापकाभावाद्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् / एवं पूर्वपक्षे ऽपि ऽविधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युःऽइति सूत्रेण सिद्धान्तमाह--क्रियापरत्वमिति / अनित्यमिति प्राप्ते दर्शितमित्यर्थः / वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ऽवायव्यं श्वेतमालभेतऽइत्यादि विधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः / स्तुतिलक्षणया सफलकार्यपरत्वात् प्रमाणमर्थवादा इति यावत् / नन्वध्ययनविधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह-कर्त्रिति / न वयं वेदान्तानामानर्थक्यं साधयामः किन्तु लोके सिद्धस्य मानाभावान्तरवेद्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्षत्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात्, कार्यशेषकर्तृदेवताफलानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः / तत्र त्वन्तत्पदार्थवाक्यानां कर्तृदेवतास्तावकत्वं, विविदिषादिवाक्यानां फलस्तावकत्वम् / ननु कर्मविशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषकत्वं, मानाभावादित्यरुच्या पक्षान्तरमाह--उपासनेति / मोक्षकामो ऽसद्ब्रह्माभेदमारोप्य अहं ब्रह्मास्मीत्युपासीत इत्युपासनाविधिः, आदिशब्दाच्छ्रवणादयः / तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः / ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह--नहीति / परितः समन्तान्निश्चयेन स्थितं परिष्ठितं कृत्यनपेक्षम् / सिद्धमिति यावत् / तस्य प्रतिपादनमज्ञातस्य वेदेन ज्ञापनं, तन्न संभवति, मानन्तरयोग्येर्ऽथे वाक्यस्य संवादे सत्यनुवादकत्वात्, ऽअग्निर्हिमस्य भेषजम्ऽइति वाक्यवत् / विसंवादे तु बोधकत्वात्, ऽआदित्यो यूपःऽइति वाक्यवदित्यर्थः / सिद्धो न वेदार्थः, मानान्तरयोग्यत्वाद्घटवदित्युक्त्वा निष्फलत्वाच्च तथेत्याह-तथेति / सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न संभवतीत्यर्थः / फलं हि सुखव्याप्तिर्दुःखहानिच्च / तच्च प्रवृत्ति निवृत्तिभ्यां साध्यम् / ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेयस्यनिवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः / तर्हि सिद्धबोधिवेदवादानां साफल्यं कथसित्याशङ्य ऽआम्नायस्यऽइत्यादिसंग्रहवाक्यं विवृणोति-अत एवेति / सिद्धवस्तुज्ञानात्फलाभावादेवेत्यर्थः / ऽदेवैर्निरुद्धः सो ऽग्निररोदीत्ऽइति वाक्यस्याश्रुजत्वेन रजतस्य निन्दाद्वारा ऽबर्हिषि न देयंऽइति सभलनिषेधशेषत्ववत् वेदान्तानां विधयादिशेषत्वं वाच्यमित्यर्थः / ननु तेषां मन्त्रवत् स्वातन्त्र्यमस्तु नार्थवादवद्विध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह-मन्त्राणां चेति / प्रथमाध्याये प्रमाणलक्षणेर्ऽथवादचिन्तानन्तरं मन्त्रचिन्ता कृता-ऽइषे त्वाऽइति मन्त्रे ऽछिनद्मिऽइत्यध्याहाराच्छाखाच्छेदनक्रियाप्रतीतेः, ऽअग्निर्मूर्धाऽइत्यादौ च क्रियासाधनदेवतादिप्रतीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्ति उत दृष्टेनैवार्थस्मरणेनेति संदेहे चिन्तादिनाप्यध्ययनकालावगतमन्त्रार्थस्य स्मृतिसंभवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः-ऽअविशिष्टस्तु वाक्यार्थःऽइति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्रवाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन क्रतूपकारकत्वसंभवात्, दृष्टे संभवति अदृष्टकल्पनानुपपत्तेः, फलवदनुष्ठानापेक्षितेन क्रियातत्साधनस्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् / ऽमन्त्रैरेवार्थः स्मर्तव्यःऽइति नियमस्त्वदृष्टार्थ इति / तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्यार्थज्ञानद्वारा तैर्वाक्यैकवाक्यत्वमिति विभागः / नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवाक्यत्वं,
SK
वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह-न क्वचिदिति / वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः, सिद्धार्थावेदकत्वात्, मन्त्रार्थवादादिवदित्यर्थः / अन्यत्रादृष्टापि वेदान्तेषु कल्प्यतामिति तत्राह-उपपन्ना वेति / नेत्यनुषङ्गः / सिद्धे फलाभावास्योक्तत्वादिति भावः / तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कृतं वेदान्तानां विध्यनतरशेषत्वेनेत्यत आह--न चेति / ननु ऽदध्ना जुहोतिऽइति सिद्धे दधनि विधिर्दृष्टस्तत्राह-क्रियेति / दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्यत्वाद्विधेयता, निष्क्रियब्रह्मणः कथमप्यसाध्यत्वान्न विधेयत्वमित्यर्थः / भाट्टमतमुपसंहरति--तस्मादिति / स्वयमेवारुचिं वदन्पक्षान्तरमाह--अथेति / सिद्धान्तसूत्रं व्याचष्टे--तुशब्द इति / तद्ब्रह्म वेदान्तप्रमाणकमिति प्रतिज्ञातेर्ऽथे हेतुं पृच्छति--कथमिति / हेतुमाह--समिति / अन्वयतात्पर्यविषयत्वं तस्मादित्येव हेतुः / तात्पर्यस्य सम्यक्त्वं अखण्डार्थविषयकत्वं सूचयितुं सम्-पदं प्रतिज्ञान्तर्गतमेव / तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः, वेदान्ततात्पर्यविषयत्वात्, यो यद्वाक्यतात्पर्यविषयः स तद्वाक्यप्रमेयः, यथा कर्मवाक्यप्रमेयो धर्म इति प्रयोगः / वाक्यार्थस्याखण्डत्वं-असंसृष्टत्वम् / वाक्यस्य चाखण्डार्थकत्वं-स्वपदोपस्थिता ये पदार्थास्तेषांयः संसर्स्तद्गोचरप्रमाजनकत्वम् / न चेदमप्रसिद्धम् / प्रकृष्टप्रकाशश्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् / सर्वपदलक्षणा चाविरुद्धा सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वङ्गीकारात् / तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः / नापि हेत्वसिद्धिः, उपक्रमादिलिङ्गैर्वेदान्तानामद्वितीयाखण्डब्रह्मणि तात्पर्यनिर्णयात् / छान्दोग्यषष्ठे उपक्रमं दर्शयति--सदेवेति / उद्दालकः पुत्रमुवाच-हे सोम्य प्रियदर्शन, इदं सर्वं जगत्, अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् / एवकारेण जगतः पृथक्सत्ता निषिध्यते / सजातीयविजातीयस्वगतभेदनिरासार्थं ऽएकमेवाद्वितीयंऽइति पदत्रयम् / एवमद्वितीयं ब्रह्मोपक्रम्य ऽऐतदात्म्यमिदं सर्वम्ऽइत्युपसंहरति / इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गं, यथा ऽतत्त्वमसिऽ
SK
इति नवकृत्वो ऽभ्यासः / रूपादिहीनाद्वितीयब्रह्मणो मानान्तरायोग्यत्वदपूर्वत्वमुक्तम्-ऽअत्र वाव किल सत् सोम्य न निभालयसेऽइति / संघाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः / ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्येऽइति ब्रह्मज्ञानात्फलमुक्तं विदुषः / तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः / अथ देहपातानन्तरं विद्वान् ब्रह्म संपत्स्यते / विदेहकैवल्यमनुभछवन्तीत्यर्थः / ऽअनेन जीवेनात्मनानुप्रविश्यऽइत्याद्यद्वितीयज्ञानार्थोर्ऽथवादः / मृदादिदृष्टानतैः प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता / एवं षङ्विधानि तात्पर्यलिङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयोपक्रमवाक्यं पठति-आत्मा वा इति / बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सतात्मनो निर्विशेषत्वार्थमाह--तदेतदिति / मायाभिर्बहुरूपं तद्ब्रह्म / एतदपरोक्षम् / अपूर्वं कारणशून्यम् / अनपरं कार्यरहितम् / अनन्तरं जात्यन्तरमस्य नास्तीत्यनन्तरम् / एकरसमित्यर्थः / अबाह्यम् अद्वितीयम् / तस्यापरोक्षत्वमुपपादयति--अयमिति / सर्वमनुभवतीति सर्वानुभूः / चिन्मात्रमित्यर्थः / ऋग्यजुःसामवाक्यानुक्त्वा आथर्वणवाक्यमाह--ब्रह्मैवेदमिति / यत्पुरस्तात्पूर्वदिग्वस्तुजातमिदमब्रह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः / आदिपदेन ऽसत्यं ज्ञानम्ऽइत्यादिवाक्यानि गृह्यन्ते / नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वं, वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह--न चेति / वेदान्तानां ब्रह्मणि तात्पर्येनिश्चीयमाने कार्यार्थत्वं न युक्तं ऽयत्परः शब्दः स शब्दार्थःऽइति न्यायादित्यर्थः / यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रादिस्तावकत्वमिति तत्राह--न च तेषामिति / तेषां कर्मशेषस्तावकत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्साधननाशकत्वमेव / तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः / अर्थवादानां तु स्वार्थे फलाभावात्स्तुतिलक्षणतेति भावः / यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह--न च परीति / ऽतत्त्वमसिऽइति शास्त्रमन्तरेणेति संबन्धः / धर्मो न वेदार्थः, साध्यत्वेन पाकवन्मानान्तरवेद्यत्वात् / यदि वेदं विना धर्मस्यानिर्णयान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् / यच्चोक्तं निष्फलत्वाद्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति--यत्त्वित्यादिना / रहितत्वाद्भिन्नत्वात् / ब्रह्मण इति शेषः / यदप्युक्तम्--ऽउपासनापरत्वं वेदान्तानाम्ऽइति तत्र किं प्राणपञ्चाग्न्यादिवाक्यानामुत सर्वेषामिति / तत्राद्यमङ्कीकरोति--देवतादीति / ज्येष्ठत्वादि गुणः फलं चादिशब्दार्थः / न द्वितीयः, विधिशून्यानां ऽसत्यं ज्ञानम्ऽइत्यादीनां स्वार्थे फलवतामुपासनापरत्वकल्पनायोगात् / किञ्च तदर्थस्य ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा / आद्ये, अध्यस्तगुणवतस्तस्य तच्छेषत्वे ऽपि न द्वितीय इत्याह--नतु तथेति / प्राणादिदेवतावदित्यर्थः / ऽअहं ब्रह्मास्मिऽ
SK
इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्मनः फलाभावात्, उपास्योपासकद्वैतज्ञानस्य कारणस्य नाशाच्च नोपासनाशेषत्वमित्याह--एकत्व इति / द्वैतज्ञानस्य संस्कारबलात्पुनरुदये विधानमिति नेत्याह--नहीति / दृढस्येति शेषः / भ्रान्तित्वानिश्चयो दार्ढ्यं, संस्कारोत्थं तु भ्रान्तित्वेन निश्चिते न विधिनिमित्तम् / येनेति / उपासनायां कारणस्य सत्वेनेत्यर्थः / वेदप्रामाण्यस्य व्यापकं क्रीयार्थकत्वमनुवदति--यद्यपीति / कर्मकाण्डेर्ऽथवादादीनामित्यर्थः / तथा च व्यापकाभावाद्वेदान्तेषु व्याप्याभावानुमानमिति भावः / वेदान्ता न स्वार्थे मानं, अक्रियार्थत्वात् ऽसो ऽरोदीत्ऽइत्यादिवदित्यनुमाने निष्फलार्थकत्वमुपाधिरित्याह-तथापीति / अर्थवादानां निष्फलस्वार्थामानत्वे ऽपीत्यर्थः / तद्विषयस्य तत्करणस्य / स्वार्थे ब्रह्मात्मनीति शेषः /
SK
सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थकत्वं तद्व्यापकमिति भावः / ननु माभूद्वेदप्रामाण्यस्य व्यापकं क्रियार्थकत्वं, व्याप्यं तु भविष्यति, तदभवाद्वेदान्तानां प्राण्यंम्यं दुर्ज्ञानमिति, नेत्याह--न चेति / येन वेदप्रामाण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद्दृष्टं दृष्टान्तमपेक्षेत तदेव नास्तीत्यर्थः / चक्षुरादिवद्वेदस्य स्वतःप्रामाण्यज्ञानान्न तद्व्याप्तिलिङ्गाद्यपेक्षा / प्रामाण्यसंशये तु फलवदज्ञाताबाधितार्थतात्पर्यात् प्रामाण्यनिश्चयो न क्रियार्थत्वेन / कूपे पतेदिति वाक्ये व्यभिचारादिति भावः / वर्णकार्थमुपसंहरति--तस्मादिति / समन्वयादित्यर्थः / विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् / एवं पदानां सिद्धेर्ऽथे व्युत्पत्तिमिच्छतां ब्रह्मनास्तिकानां मतं, ब्रह्मणोमानान्तरायोग्यत्वात्, सफलत्वाच्च वेदान्तैकमेयत्वमित्युक्त्या निरस्तम् / संप्रति सर्वेषां पदानां कार्यान्वितार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदान्तैर्बोध्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते / तत्र वेदान्ताः किमुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वातन्त्र्येणेति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षमाह--अत्रापर इति / ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्तीत्यर्थः / उपासनातो मुक्तिः पूर्वपक्षे, तत्त्वज्ञानादेवेति सिद्धान्ते फलम् / विधिर्नियोगः तस्य विषयः प्रतिपत्तिरुपासना / अस्याः को विषय इत्याकाङ्क्षायां सत्यादिवाक्यैर्विधिपरैरेव ब्रह्मसमर्प्यत इत्याह--प्रतिपत्तीति / विधिविषयप्रतिपत्तिविषयतयेत्यर्थः / विधिपराद्वाक्यात्तच्छेषलाभे दृष्टान्तमाह--यथेति / ऽयूपे पशुं बध्नातिऽ ऽआहवनीये जुहोतिऽ ऽइन्द्रं यजेतऽइति विधिषु के यूपादय इत्याकाङ्क्षायां ऽयूपं तक्षति, अष्टाश्रीकरोतिऽइति तक्षणादिसंस्कृतं दारु यूपः / ऽअग्नीनादधीतऽइत्याधानसंस्कृतो ऽग्निराहवनीयः / ऽवज्रहस्तः पुरन्दरःऽइतिविधिपरैरेव वाक्यैः समर्प्यन्ते तद्वद्ब्रह्मेत्यर्थः / विधिपरवाक्यस्यापि अन्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः / मानान्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः / प्रधानार्थभेदस्यैव वाक्यभेदकत्वादिति भावः / ननूक्तषड्विधलिङ्गैस्तात्पर्यविषयस्यब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते--कुत इति / वृद्धव्यवहारेण हि शास्त्रतात्पर्यनिश्चयः / वृद्धव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दिश्यापूर्वप्रयोगो दृश्यते / अतः शास्त्रस्यापि ते एव प्रयोजने / ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य / ततः कार्यशेषत्वं ब्रह्मण इत्याह--प्रवृत्तीति / शास्त्रस्य नियोगपरत्वे वृद्धसंमतिमाह--न तथाहीत्यादिना / क्रिया, कार्यं, नियोगो, विधिः धर्मो ऽपूर्वमित्यनर्थान्तरम् / को वेदार्थ इत्याकाङ्क्षायां शाबरभाष्यकृतोक्तम्--दृष्टो हीति / तस्य वेदस्य / कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह--चोदनेति / क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः / शबरस्वामिसंमतिमुक्त्वा जैमिनिसंमतिमाह--तस्य ज्ञानमिति / तस्य धर्मस्य ज्ञापकमपौरुषेयविधिवाक्यमुपदेशः / तस्य धर्मेणाव्यतिरेकादित्यर्थः / पदानां कार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति--तद्भूतानामिति / तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङ्गादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् / पदार्थज्ञानस्य वाक्यार्थरूपकार्यधीनिमित्तत्वादित्यर्थः / कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदार्थस्मृतिद्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः / फलितमाह--अत इति / यतो वृद्धा एवमाहुः, अतो विधिनिषेधवाक्यमेव शास्त्रम् / अर्थवादादिकं तु तच्छेषतयोपक्षीणम् / तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् / तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थोः / ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति / तत्राह--सति चेति / ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्वयेर्ऽथभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः / तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्ष्यण्यं वाच्यम् / तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्तेर्विधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादविशेषे जिज्ञास्यभेदासिद्धेः / अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्तेस्तद्व्यञ्जकज्ञानविधिरयुक्त इत्याशङ्कते--नन्विहेति / मुक्तेः कर्मफलाद्वैलक्षण्यमसिद्धमिति तदर्थं ज्ञानं विधेयम् / न च तर्हि सफलं कार्यमेव वेदानतेष्वपि जिज्ञास्यमिति तद्भेदासिद्धिरिति वाच्यं, इष्टत्वात् / न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकृता ब्रह्मप्रतिपादनादिति परिहरति--नेति / ब्रह्मणो विधिप्रयुक्तत्वं स्फुटयति--आत्मा वा इति / ऽब्रह्म वेदऽइत्यत्र ब्रह्मभावकामो ब्रह्मवेदने कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् / लोकं ज्ञानस्वरूपम् / वेदान्तानेवार्थतो दर्शयति--नित्य इति / ननु किं विधिफलमिति तदाह--तदुपासनादिति / प्रत्यग्ब्रह्मोपासनात् ऽब्रह्मविदाप्नोति परम्ऽइति शास्त्रोक्तो मोक्षः स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः / ब्रह्मणः कार्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह--कर्तव्येति / विध्यसंबद्धसिद्धबोधे प्रवृत्त्यादिफलाभावाद्वेदान्तानां वैफल्यं स्यादित्यर्थः / नन्विति शङ्का स्पष्टार्था / दृष्टान्तवैषम्येण परिहरति--स्यादिति / एतदर्थवत्वमेवञ्चेत् स्यादित्यर्थः / एवं शब्दार्थमाह--यदिति / किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानान्तरं मननादिविधिर्न स्यात्, तद्विधेश्च कार्यसाध्या मुक्तिरित्याह--श्रोतव्य इति / शब्दानां कार्यान्वितशक्तेः, प्रवृत्त्यादिफलस्यैव शास्त्रत्वात्, सिद्धे फलाभावात्, मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति--तस्मादिति / वेदान्ता न विधिपराः स्वार्थे फलवत्वे सतिनियोज्यविधुरत्वात्, न अयं सर्प इति वाक्यवत् / ऽसो ऽरोदीत्ऽ ऽस्वर्गकामो यजेतऽइति वाक्ययोर्निरासाय हेतौ विशेषणद्वयमिति सिद्धान्तयति--अत्रेति / यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह--नेति / मोक्षो न विधिजन्यः, कर्मफलविलक्षणत्वात्, आत्मवदित्यर्थः / उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति--शारीरमित्यादिनावर्णितं संसारमनुवदतिइत्यन्तेन / अथ--वेदाध्ययनानन्तरं, अतो--वेदस्य फलवदर्थपरत्वाते, धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः / न केवलं धर्माख्यं कर्म किन्तु अथर्मो ऽपीत्याह--अधर्मो ऽपीति / निषेधवाक्यप्रमाणादित्यर्थः / कर्मोक्त्वा फलमाह--तयोरिति / मोक्षस्तु अतीन्द्रियोविशोकः शरीराद्यभोग्यो विषयाद्यजन्यो ऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षादीनि विशेषणानि / सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति--मनुष्यत्वादीति / ऽस एको मानुष आनन्दःऽततःशतगुणो गन्धर्वादीनामिति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः / ततश्च / सुखतारतम्यादित्यर्थः / मोक्षस्तु निरतिशयः, तत्साधनं च तत्वज्ञानमेकरूपमिति वैलक्षण्यम् / किं च साधनाचतुष्टयसंपन्न एकरूप एव मोक्षाविद्याधिकारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह--धर्मेति / गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः / अर्थित्वं फलकामित्वम् / सामर्थ्यं लौकिकं पुत्रादि / आदिपदाद्विद्वत्त्वं शास्त्रानिन्दितत्वं च / किं च कर्मफलं मार्गप्राप्यं, मोक्षस्तु नित्याप्त इति भेदमाह--तथेति /
SK
उपासनायां चित्तस्थैर्यप्रकर्षादर्चिरादिमार्गेण ब्रह्मलोकगमनं ऽते ऽर्चिषम्ऽइत्यादिना श्रूयत इत्यर्थः / ऽअग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् / आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते //
SK
वापीकूपतडाकादि देवतायतनानि च / अन्नप्रदानमारामः पूर्तमित्यभिधीयते //
SK
शरणागतसंत्राणं भूतानां चाप्यहिंसनम् / बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते //
SK
ऽतत्रापि / चन्द्रलोके ऽपीत्यर्थः / संपतति गच्छति अस्माल्लोकादमुं लोकमनेनेति संपातः कर्म / यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुनरायान्तीत्यर्थः / मनुष्यत्वादूर्ध्वङ्गतेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषुतदाह--तथेति / इदानीं दुःखतधेतुतदनुष्ठायिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति--तथोर्ध्वमिति / द्विविधं कर्मफलं मोक्षस्य तद्वैवलक्षण्यज्ञानाय प्रपञ्चितमुपसंहरति--एवमिति / अस्मिताकामक्रोधभयान्यादिशब्दार्थः / ऽते तं मुक्त्वा स्वर्गलोकं विशालम्ऽइत्याद्या स्मृतिः / काष्ठोपचयाज्ज्वालोपचयदर्शनात्, फलतारतम्येन साधनतारतम्यानुमानं न्यायः / श्रुतिमाह-तथाचेति / मोक्षो न कर्मफलं, कर्मफलविरुद्धातीन्द्रियत्वविशोकत्वशरीराद्यभोग्यत्वादिधर्मवत्वात्, व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह--अशरीरमिति / वावेत्यवधारणे / तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः / मोक्षश्चेदुपासनारूपधर्मफलं, तदेव प्रियमस्तीति तन्निषेधायोग इत्याह-धर्मकार्यत्वे हीति / ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तुधर्मफलमेव, कर्मणां विचित्रदानसामर्थ्यादिति शङ्कते--अशरीरत्वमेवेति / आत्मनो देहासङ्गित्वमशरीरत्वं, तस्यानादित्वान्न कर्मसाध्यतेत्याह--नेति / अशरीरं स्थूलदेहशून्यं, देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितं, महान्तं व्यापिनम् / आपेक्षिकमहत्त्वं वारयति--विभुमिति / तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः / सूक्ष्मदेहाभावे श्रुतिमाह--अप्राण इति / प्राणमनसोः क्रियाज्ञानशक्त्योर्निषेधात्, तदधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः / देहद्वयाभावे श्रुतिः--ऽअसङ्गो हिऽइति / निर्देहात्मस्वरूपमोक्षस्यानादिभावत्वे सिद्धे फलितमाह--अत एवेति / नित्यत्वे ऽपि परिणामितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्य नित्यं द्वेधा विभजते--तत्र किञ्चिदिति / नित्यवस्तुमध्य इत्यर्थः / परिणामि च तन्नित्यं चेति परिणामिनित्यम् / आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह--इदं त्विति / परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव / कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकम् / कूटस्थत्वसिध्यर्थं परिस्पन्दाभावमाह--व्योमवदिति / परिणामाभावमाह--सर्वविक्रियारहितमिति / फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह--नित्यतृप्तमिति / तृप्तिरनपेक्षत्वं, विशोकं सुखं वा / निरवयवत्वान्न क्रिया / तस्य भानार्थमपि न क्रिया, स्वयञ्ज्योतिष्ट्वात् / अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् / कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह--यत्रेति / कालानवच्छिन्नत्वाच्चेत्याह--कालेति / कालत्रयं च नोपावर्तत इति योग्यतया संबन्धनीयम् / धर्माद्यनवच्छेदे मानमाह--अन्यत्रेति / अन्यदित्यर्थः / कृतात्कार्यात्, अकृताच्च कारणात्, भूताद्भव्याच्च, चकाराद्वर्तमानाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः / ननु उक्ताः श्रुतयो ब्रह्मणः कूटस्थासङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह--अत इति / तत्कैवल्यं ब्रह्मैव / कर्मफलविलक्षणत्वादित्यर्थः / ब्रह्माभेदान्मोक्षस्य कूटस्थात्वं धर्माद्यसङ्गित्वं चेति भावः / यद्वा तज्जिज्ञास्यं तद्ब्रह्म अतः पृथग्जिज्ञास्यत्वाद्धर्माद्यस्पृष्टमित्यर्थः / अतः शब्दाभावपाठे ऽप्ययमेवार्थः / ब्रह्मणो विधिस्पर्शो शास्त्रपृथक्त्वं न स्यात्, कार्यविलक्षणानधिगतविषयलाभात् / नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् / न वा तद्विना विधेरनुपपत्तिः / योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः / अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह--अत इति / यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदान्तैरुपदिश्यते / समन्वयादित्यर्थः / विवक्षे दण्डं पातयति--तद्यदीति / तत्रैवं सतीति / मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः / अत इति / मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभात् / कर्तव्यनियोगाभावादित्यर्थः / प्रदीपात्तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह--अपिचेति / यो ब्रह्माहमिति वेद स ब्रह्मैव भवति / परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टुरनारब्धभलानि कर्माणि नश्यन्ति / ब्रह्मणः स्वरूपमानन्दं विद्वान् निर्भयो भवति, द्वितीयाभावात् / अभयं ब्रह्म प्राप्तो ऽसि, अज्ञानहानात् तज्जीवाख्यं ब्रह्म गुरूपदेशादात्मानमेव अहं ब्रह्मास्मीत्यवेत् विदितवत् / तस्माद्वेदनात्तद्ब्रह्म पूर्णमभवत् / परिच्छेदभ्रान्तिहानादेकत्वम्, अहं ब्रह्म इत्यनुभवतस्तत्रानुभवकाले मोहशोकौ न सति श्रुतीनामर्थः / तासां तात्पर्यमाह--ब्रह्मेति / विद्यातत्फलयोर्मध्य इत्यर्थः / मोक्षस्य विधिफलत्वे स्वर्गादिवत्कालान्तरभावित्वं स्यात्, तथा च श्रुतिबाध इति भावः / इतश्चमोक्षो वैधो नेत्याह--तथेति / तद्ब्रह्मैतत्प्रत्यगस्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् ऽअहं मनुःऽइत्यादीन्ददर्शेत्यर्थः / यद्यपि स्थितिर्गानक्रियाय लक्षणं, ब्रह्मदर्शनं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमस्ति तथापि ऽलक्षणहेत्वोः क्रियायाःऽइति सूत्रेण क्रियां प्रति लक्षणहेत्वोरर्थयोर्वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहितशतृप्रत्ययसामर्थ्यात् तिष्ठन्गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये नभातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह--यथेति / किं च ज्ञानादज्ञाननिवृत्तिः श्रूयते / ज्ञानस्य विधेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तं, अतो बोधका एव वेदान्ता न विधायका इत्याह--त्वं हीति / भारद्वाजादयः षड् ऋषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे--त्वं खल्वस्माकं पिता / यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्म विद्याप्लवेनास्मांस्तारयसि प्रापयसि / ज्ञानेनाज्ञानं नाशयसीति यवत् / प्रश्नवाक्यमुक्त्वा छान्दोग्यमाह--श्रुतमिति / अत्र ऽतारयतुऽइत्यन्तमुपक्रमस्थं, शेषमुपसंहारस्थमिति भेदः / आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टं, सो ऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषायनारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शितवानित्यर्थः / ऽएतद्यो वेद--सो ऽविद्याग्रन्थिं विकिरतिऽइति वाक्यमादिशब्दार्थः / एवं श्रुतेस्तत्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् / तत्राक्षपादगौतममुनिसंमतिमाह--तथा चेति / गौरो ऽहमिति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माधर्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात्पुनर्देहप्राप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्तरस्य कार्यस्य जन्मनो ऽपायादुःखध्वंसरूपो ऽरवर्गो भवतीत्यर्थः / ननु पूर्वसूत्रे ऽतत्वज्ञानान्निःश्रेयसाधिगमःऽइत्युक्ते सतीतरपदार्थभिन्नात्मतत्त्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्क्षायां मिथ्याज्ञाननिवृत्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम् / तथाच्च भिन्नात्मज्ञानान्मुक्तिं वदत्सूत्रं संमतं चेत् परमतानुज्ञा स्यादित्यत आह--मिथ्येति / तत्त्वज्ञानान्मुक्तिरित्यंशे संमतिरुक्ता भेदज्ञानं तु ऽयत्र हि द्वैतमिवभवतिऽइति श्रुत्या भ्रान्तित्वात् ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽइति श्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः / ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, संपदादिरूपत्वेन भ्रान्तित्वादित्यत आह-न चेदमित्यादिना / अल्पालम्बनतिरस्कारेणोत्कृष्टवस्त्वभेदध्यानं संपत्, यथा मनःस्ववृत्त्यानन्त्यादनन्तं,
SK
तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्यात् विश्वेदेवा एव मन इति सम्पत्तयानन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभेदः संपदिति न चेत्यर्थः / आलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यासः / यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा / तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह -न चेति / आदेश उपदेशः / क्रियाविशेषो विशिष्टक्रिया तथा योगो निमित्तं यस्य ध्यानस्य तत्तथा / यथा प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्ग इति ध्यानं छान्दोग्ये विहितं, तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह-नापीति / यथा पत्न्यवेक्षितमाज्यं भवति इति उपांशुयाजाद्यङ्गस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह-नाप्याज्येति / प्रतिज्ञाचतुष्टये हेतुमाह-संपदादीति / उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत / किं च एकत्वज्ञानादाज्ञानिकहृदयस्यान्तःकरणस्य यो रागादिग्रन्थिश्चिन्मयस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफलवाक्यबाधः स्यात्, सम्पदादिज्ञानस्याप्रमत्वेनाज्ञानानिवर्तकत्वात् / किञ्च जीवस्य ब्रह्मत्वसंपदा कथं तद्भावः / पूर्वरूपे स्थिते नष्टे वान्यस्यान्यात्मतायोगात् / तस्मान्न संपदादिरूपमित्यर्थः / संपदादिरूपत्वाभावे फलितमाह-अत इति / प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव / न प्रमाणसाध्येत्यर्थः / उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसाध्यत्वादित्याह-एवंभूतस्येति / ननु ब्रह्म कार्याङ्गं, कारकत्वात् पत्न्यवेक्षणकर्मकारकाज्यवदिति चेत्, किं ज्ञाने ब्रह्मणः कर्मकारकत्वं उतोपासनायाम् / नाद्य इत्याह-न चेति / शाब्दज्ञानं विदिक्रियाशब्दार्थः-विदितं कार्यं अविदितं कारणं तस्मादधि अन्यदित्यर्थः / येनात्मना इदं सर्वं दृश्यं लोको जानाति तं केन करणेन जानीयात् / तस्मादविषय आत्मेत्यर्थः / न द्वितीय इत्याह-तथेति / ऽयन्मनसा न मनुतेऽइति श्रुत्या लोको मनसा यद्ब्रह्म न जानातीत्यविषयत्वमुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि / तत्तूपाधिविशिष्टं देवतादिकमित्युपासते जना नेदं ब्रह्मेत्यर्थः / ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कते-अविषयत्व इति / वेदान्तजन्यवृत्तिकृताविद्यानिवृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वे ऽपि स्वप्रकाशब्रह्मणो वृत्त्यभिव्यक्तस्फुरणाविषयत्वादप्रमेयत्वमिति परिहरति-नेति / परत्वात् फलत्वादित्यर्थः / निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः / उक्तं विवृणोति-नहीति / चिद्विषयत्वमिदन्त्वम् / अविषयता अनिदन्तया / अदृश्यत्वे श्रुतिमाह-तथाचेति / यस्य ब्रह्मामतं चैतन्यविषय इति निश्चयस्तेन सम्यगवगतम् / यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद / उक्तमेव दार्ढ्यार्थमनुवदति-अविज्ञातमिति / अविषयतया ब्रह्म विजानतामविज्ञातमदृश्यमिति पक्षः / अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः / दृष्टेर्द्रष्टारं चाक्षुषमनोवृत्तेः साक्षिणं, अनया दृश्यया दृष्ट्या न पश्येर्विज्ञातेर्बुद्धिवृत्तेर्निश्चयरूपायाः साक्षिणं तथा न विषयीकुर्यादित्याह-नेति / नन्वविद्यादिनिवर्तकत्वेन शास्त्रस्य प्रामाण्ये ऽपि निवृत्तेरागन्तुकत्वान्मोक्षस्यनित्यत्वं स्यादिति नेत्याह-अत इति / तत्त्वज्ञानादित्यर्थः / ध्वंसस्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः / उत्पत्तिविकाराप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपासनासाध्यत्वमित्याह-यस्य तु इत्यादिनातस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन / तथा उत्पाद्यत्ववत् विकार्यत्वे चापेक्षत इति युक्तमित्यन्वयः / दूषयति-तयोरिति / स्थितस्यावस्थान्तरं विकारः / नन्वनित्यत्वनिरासाय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु, नेत्याह-नचेति / ब्रह्म जीवाभिन्नं न वा / उभयथाप्याप्तत्वान्न क्रियापेक्षेत्याह-स्वात्मेत्यादिना / यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह-नापीत्यादिना / गुणाधानं व्रीहीषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः / शङ्कते-स्वात्मधर्म इति / ब्रह्मात्मस्वरूप एव मोक्षो ऽनाद्यविद्यामलाकृत उपासनया मले नष्टे ऽभिव्यज्यत इत्यत्र दृष्टान्तः-यथेति / संस्कारो मलनाशः / कियात्मनि मलः सत्यः कल्पितो वा / द्वितीये ज्ञानादेव तन्नाशो न क्रियया / आद्ये क्रिया किमात्मनिष्टा अन्यनिष्टा वा / नाद्य इत्याह-न, क्रियेति / अनुपपत्तिं स्फुटयति-यदिति / क्रिया हि स्वाश्रये संयोगादिविकारमकुर्वती न जायत इत्यर्थः / तच्च वाक्यबाधनम् / न द्वितीय इत्याह-अन्येति / अविषयत्वात् / क्रियाश्रयद्रव्यासंयोगित्वादिति यावत् / दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात्संस्क्रियत इति भावः / अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते-नन्विति / आत्मनो मूलाविद्याप्रतिबिम्बितत्वेन गृहीतस्य नरो ऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रियाश्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह-नेति / कश्चिदिति / अनिश्चितब्रह्मस्वरूप इत्यर्थः / यत्रात्मनि विषये आरोग्यबुद्धिरुत्पद्यते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः / ननु देहाभिन्नस्य कथं संस्कारः, तस्यामुष्मिकफलभोक्तृत्वायोगादित्यत आह-तेनेति / देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः / मनोविशिष्टस्यामुष्मिकभोक्तुः संस्कारो युक्त इति भावः / विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह-तयोरिति / प्रमातृसाक्षिणोर्मध्ये सत्त्वसंसर्गमात्रेण कल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः / आत्मा देहः / देहादियुक्तं प्रमात्रात्मानमित्यर्थः / एवं सोपाधिकस्य चिद्धातोर्मिथ्यासंस्कार्यत्वमुक्त्वा निरुपाधिकस्यासंस्कार्यत्वे मानमाह-एक इति / सर्वभूतेष्वद्वितीय एको देवः स्वप्रकाशः / तथापि मायावृतत्वान्न प्रकाशत इत्याह-गूढ इति / ननु जीवेनासंबन्धाद्भिन्नत्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह-सर्वव्यापी सर्वभूतान्तरात्मेति / देवस्य विभुत्वात्सर्वप्राणिप्रत्यक्त्वाच्चावरणादेवाभानमित्यर्थः / प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः / क्रियासाक्षीत्यर्थः / तर्हि साक्ष्यमस्तीति द्वैतापत्तिः / न सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति / साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः / साक्षिशब्दार्थमाह-चेता केवल इति / बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् / चकारो दोषा भावसमुच्चयार्थः / निर्गुणत्वान्निर्देषत्वाच्च गुणो दोषनाशो वा संस्कारो नोत्यर्थः / ऽसःऽइत्युपक्रमाच्छ्रुक्रादिशब्दाः पुंस्त्वेन वाच्याः / स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान्, अकायो लिङ्गशून्यः, अव्रणो ऽक्षतः, अस्राविरः शिराविधुरः अनश्वर इति वा / आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् / शुद्धो रागादिमलशून्याः / अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः / अत इति / उत्पत्त्याप्तिविकारसंस्कारेभ्यो ऽन्यत्पञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः / ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा / न / ज्ञानार्थत्वादित्याह-तस्मादिति / द्वाराभावादित्यर्थः / व्याघातं शङ्कते-नन्विति / तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहृतमिति भावः / मानसमपि ज्ञानं-न विधियोग्या क्रिया, वस्तुतन्नत्वात्,
SK
कृत्यसाध्यत्वाच्चेत्याह-नेति / वैलक्षण्यं प्रपञ्चयति-क्रिया हीति / यत्र विषये तदनपेक्षयैव या चोद्यते तत्र सा हि क्रियेति योजना / विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह-यथेति / गृहीतमध्वर्युणेति शेषः / वषट्करिष्यन्होता, सन्ध्यां देवतामिति चैवमाधिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वानपेक्षा, पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः / ध्यानमपि मानसत्वाज्ज्ञानवन्न क्रियेत्यत्र आह-ध्यानमित्यादिना / तथापि क्रियैवेति शेषः / कृत्यसाध्यत्वमुपाधिरिति भावः / ध्यानक्रियमुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति-ज्ञानं त्विति / अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः / पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रं, तस्माद्वस्त्वव्यभिचारादपुन्तन्त्रत्वाच्च ध्यानाज्ज्ञानस्य महान्भेद इत्यर्थः / भेदमेव दृष्टान्तान्तरेणाह-यथा चेति / अभेदसत्त्वे ऽपि विधितो ध्यानं कर्तुं शक्यं, न ज्ञानमित्यर्थः / ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वे ऽपि शाब्दबोधस्य तदभावाद्विधेयक्रियात्वमिति नेत्याह-एवं सर्वेति / शब्दानुमानाद्यर्थेष्वपि ज्ञानमविधेयक्रियात्वेन ज्ञातव्यम् / तत्रापि मानादेव ज्ञानस्य प्राप्तेर्विध्ययोगादित्यर्थः / तत्रैवं सति / लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः / यथाभूतत्वमबाधितत्वम् / ननु ऽआत्मानं पश्येतऽ ऽब्रह्म त्वं विद्धिऽ ऽआत्मा द्रष्टव्यःऽइति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायताः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह-तद्विषय इति / तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रवर्तयितुमशक्ता भवन्ति / अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः / ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः / तर्हि ज्ञेयं ब्रह्म विधीयतां, नेत्याह-अहेयेति / वस्तुस्वरूपो विषयस्तत्त्वात् / ब्रह्मणो निरतिशयस्याध्यत्वान्न विधेयत्वमित्यर्थः / उदासीनवस्तुविषयकत्वाच्च ज्ञानं न विधेयं, प्रवृत्यादिफलाभावादित्यर्थः / विधिपदानां गतिं पृच्छति--किमर्थानीति / विधिच्छायानि प्रसिद्धयागादिविधितुल्यानीत्यर्थः / विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधनमिति स्तूयते / स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिरात्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह--स्वाभाविकेति / विवृणोति--यो हीत्यादिना / तत्रविषयेषु / संघातस्य या प्रवृत्तिः तद्गोचराच्छब्दादेरित्यर्थः / स्रोतश्चित्तवृत्तिप्रवाहः / प्रवृत्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः / श्रवणस्वरूपमाह--तस्येति / अन्वेषणं ज्ञानम् / यदिदं जगत्तत्सर्वमात्मैवेत्यनात्मबोधेनात्मा बोध्यते / अद्वितीयादृश्यात्मबोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्तास्यतीति भावः / आत्मज्ञानिनः कर्तव्याभावे मानमाह--तथा चेति / अयं स्वयं परमानन्दः परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन्, कस्य वा भोक्तुः प्रितये, शरीरं तप्यमानमनुसंज्वरेत् तप्येत / भक्तृभोग्यद्वैताभावात्कृतकृत्य आत्मविदित्यभिप्रायः / ज्ञानदौर्लभ्यार्थश्चेच्छब्दः / एतद्गुह्यतमं तत्त्वम् / वृत्तिकारमतनिरासमुपसंहरति--तस्मादिति / प्राभाकरोक्तमुपन्यस्यत् इ--यदपि केचिदिति / कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः / तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन मनाभवादित्यर्थः / मानाभावे ऽसिद्ध इत्याह--तन्नेति / अज्ञातस्य फलस्वरूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात् कृत्स्नवेदस्य कार्यपरत्वमप्रसिद्धम् / न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तधेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्धस्यापदार्थस्य वाक्यार्थत्वमिति वाच्यम्, पुत्रस्ते जात इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे संगतिग्रहात्, कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गीकारे लाघवात्, सिद्धस्यापि वाक्यार्थत्वादित्यलम् / किञ्च ब्रह्मणो नास्तीत्वादेव कृत्स्नवेदस्य कार्यपरत्वं उत वेदान्तेषु तस्याभानात्, अथ वा कार्यशेषत्वात्, किं वा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् / तत्राद्यं पक्षत्रयं निराचष्टे--यो ऽसाविति / अनन्यशेषत्वार्थं ऽअसंसारीऽइत्यादि विशेषणम् / नास्तीत्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्त्वा हेत्वन्तरमात्मत्वमाह--स एष इति / इतिरिदमर्थे / इदं न इदं न इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः / चतुर्थं शङ्कते--नन्वात्माहमिति / आत्मनो ऽहङ्कारादिसाक्षित्वेनाहन्धीविषयत्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह--नेति / यं तीर्थकारा अपि न जानन्ति तस्यालैकिकत्वं किमु वाच्यमित्याह--नहीति / समस्तारतम्यवर्जितः / तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि / पञ्चमं निरस्यति--अत इति / केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः / अगम्यात्वान्न मानान्तरविरोध इति भावः / साक्षीकर्माङ्गं चोतनत्वात्, कर्तृवदिति, तत्राह--विधीति / अज्ञातसाक्षिणो ऽनुपयोगाज्ज्ञातस्य व्याघातकत्वान्न कर्मशेषत्वमित्यर्थः / साक्षिणः सर्वशेषित्वादहेयानुदेयत्वाच्च न कर्मशेषत्वमित्याह--आत्मत्वादिति / अनित्यत्वेनात्मनो हेयत्वमाशङ्क्याह--सर्वं हीति / परिणामित्वेन हेयतां निराचष्टे--विक्रीयेति / उपादेयत्वं निराचष्टे---अत एवेति / निर्विकारित्वादित्यर्थः / उपादेयत्वं हि साध्यस्य न त्वात्मनः / नित्यसिद्धत्वादित्यर्थः / परप्राप्त्यर्थं आत्मा हेया इत्यत आह-तस्मात्, पुरुषान्न परं किञ्चिदिति / काष्ठा सर्वस्यावधिः / एवमात्मनो ऽनन्यशेषत्वात्, अबाध्यत्वात्, अपूर्वत्वात्, वेदान्तेषु स्फुटभानाच्च / वेदान्तैकवेद्यत्वमुक्तम् / तत्र श्रुतिमाह--तं त्वेति / तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः / अत इति / उक्तलिङ्गैः श्रुत्या च वेदान्तानामात्मवस्तुपरत्वनिश्चयादित्यर्थः / पूर्वोक्तमनुवदति--यदपीति / वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम्--दृष्टो हीति / तत्र ऽफलवदर्थावबोधनम्ऽइति वक्तव्ये धर्मविचारप्रक्रमात् ऽकर्मावबोधनंऽइत्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः / अत एव ऽअनुपलब्धेर्ऽथे तत्प्रमाणम्ऽइति सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां दर्शयति तच्चावशिष्टं ब्रह्मण इति न वृद्धवाक्यैर्विरोध इत्याह-तद्धर्मेति / निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत्सूत्रभाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः / वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यं, लिङर्थश्च, लोके प्रवर्तकज्ञानगोचरत्वेन कॢप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातो ऽतिरिक्तं कार्यं तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविलक्षणे सिद्धे प्रामाण्यं किमुद ज्ञानकाण्डस्येति मन्तव्यम् / किं च वेदान्ताः सिद्धवस्तुपराः,फलवद्भूतशब्दत्वात्, दध्यादि शब्दवदित्याह--अपि चेति / किमक्रीयार्थकशब्दानामानर्थक्यमभिधेयाभावः,
SK
फलाभावो वा / आद्य आह--आम्नायस्येति / इति न्यायेन एतदभिधेयराहित्यं नियमेनाङ्गीकुर्वतां ऽसोमेन यजेतऽ ऽदध्ना जुहोतिऽइत्यादि वाक्येषु दधिसोमादिशब्दानामर्थशून्यत्वं स्यादित्यर्थः / ननु केनोक्तमभिधेयराहित्यमित्याशङ्क्याह--प्रवृत्तीति / कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत्, तर्हि सत्यादिशदब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूटस्थस्याक्रियत्वादुताक्रियाशेषत्वाद्वेति प्रश्नः / ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः, न कूटस्थस्याकार्यत्वादित्याद्यमाशङ्क्य निरस्यति--नहीति / दध्यादेः कार्यत्वे कार्यशेषत्वहानिः / अतो भूतस्य कार्याद्भिन्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः / द्वितीयंशङ्कते--अक्रियात्वे ऽपीति / कार्यशेषपरः कूटस्थस्य त्वकार्यशेषत्वान्नोपदेशव इति भावः / भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह--नैष दोष इति / दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः / अन्वितार्थमात्रे शब्दानां शक्तिरित्यर्थः / द्वितीयमङ्गीकरोति--क्रियार्थत्वं त्विति / तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः / नतु ब्रह्मण इति तुशब्दार्थः / ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह--न चेति / फलार्थं शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गे नास्ति शेषत्वस्य शब्दार्थतायामप्रवेशादित्यर्थः / आनर्थक्यं फलाभाव इति पक्षं शङ्कते--यदिति / यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं तथापि कूटस्थब्रह्मवादिनः क्रियाद्वाराभावात् तेन दृष्टान्तेन कि फलं स्यादित्यर्थः / भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाःज्ञानमात्रेण साफल्यदर्शनादित्याह--उच्यत इति / तथैव / दध्यादिवदेवेत्यर्थः / दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसाम्यमित्यनवद्यम् / इदानिं वेदान्तानां निषेधवाक्यवत्सिद्धार्थपरत्वमित्याह--अपि चेति / नञः प्रकृत्यर्थेन संबन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तदिप्रत्ययार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभावा इति निषेधवाक्यार्थः / हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्तते / नात्र नियोगः कश्चिदिति, तस्य क्रियातत्साधनदध्यादिविषयत्वात् / न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् / नापि क्रियासाधनम् / अभावस्य भावार्थाहेतुत्वाद्भावार्थासत्त्वाच्चेत्यर्थः / अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः / विपक्षे दण्डमाह--अक्रियेति / ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञ्संबन्धेन हेतुना हननविरोधिनी संकल्पक्रीया बोध्यते, सा च नञर्थरूपा तत्रप्राप्तत्वाद्विधीयते, अहननं कुर्यादिति / तथा च कार्यार्थकमिदं वाक्यमित्याशङ्क्य निषेधति-न चेति / औदासीन्यं पुरुषस्य स्वरूपं तच्च हननक्रियानिवृत्त्युपलक्षितं निवृत्त्यौदासीन्यं हननाभाव इति यावत् / तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना / मुख्यार्थस्याभावस्य नञर्थत्वसंभवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्यार्थकत्वे विधिनिषेकभेदविप्लवापत्तेश्चेति भावः / ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात्, अब्राह्मणः अधर्म इति प्रयोगदर्शनादिति चेन्न, अनेकार्थत्वस्यान्याय्यत्वादित्याह-नञश्चेति / गवादिशब्दानां तु अगत्या नानार्थकत्वं, स्वर्गेषुवाग्वज्रादीनां शक्यपशुसंबन्धाभावेन लक्षणानवतारात् / अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तम्, शक्यसंबन्धात् / ब्राह्मणादन्यस्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्रह्मणाद्यभावस्य नञ्शक्यस्य संबन्धात् / प्रकृते च आख्यातयोगान्नञ् प्रसज्यप्रतिषेधक एव न पर्युदासलक्षकः इति मन्तव्यम् / यद्वा नञः प्रकृत्या न संबन्धः प्रकृतेः प्रत्ययार्थो ऽसपर्जनत्वात्, प्रधानसंबन्धाच्चाप्रधानानां किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन संबन्धो नञः, इष्टं च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रं, विषसंयुक्तान्नभोगस्यापि इष्टत्वापत्तेः / तथा च न ऽहन्तव्यःऽहननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः / अत्र च ऽहन्तव्यःऽइति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्वेन विशिष्टाभावाबुद्धेर्विशेषणाभावपर्यवसानात् / विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नञर्थं इति पर्यवसन्नम् / तद्बुद्धिरौदासीन्यपरिपालिकेत्याह-अभावेति /
SK
चो ऽप्यर्थः पक्षान्तरद्योती / प्रकृत्यर्थाभावबुद्धिवत्प्रत्ययार्थाभावबुद्धिरपीत्यर्थः / बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात्प्रच्युतिरूपा हननादौ प्रवृत्तिः स्यादिति, अत्राह-सा चेति / यथाग्निरिन्दनं दग्ध्वा श्याम्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः / रागनाशे कृते प्रच्युतिरिति भावः / यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः / परपक्षे तु हननविरोधिक्रिया कार्येत्युक्ते ऽपि हननस्येष्टसाधनत्वभ्रान्त्यनिरासात् प्रच्युतिर्दुर्वारा / तस्मात्तदभाव एव नञर्थ इत्युपसंहरति--तस्मादिति / भावार्थाभावेन तद्विषयककृत्यभावात् कार्याभावस्तच्छब्दार्थः / यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यस्माद्विशिष्टाभावायत्तमेवेति व्याख्येयम् / स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् / ऽतस्य बटोर्व्रतम्ऽइत्यनुष्ठेयक्रियावाचिव्रतशब्देन कार्यमुपक्रम्य ऽनेक्षेतोद्यन्तमादित्यम्ऽइति प्रजापतिव्रतमुक्तम् / अत उपक्रमबलात्तत्र नञ ईक्षणविरोधिसंकल्पक्रियालक्षणाङ्गीकृता / एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् / एतेभ्यः प्रजापतिव्रतादिभ्यो ऽन्यत्राभावमेव नञर्थं मन्यामह इत्यर्थः / दुःखाभावफलके नञर्थे सिद्धे निषेधशास्त्रमानत्ववद्वेदान्तानां ब्रह्मणि मानत्वमिति भावः / तर्ह्यक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति, तत्राह-तस्मादिति / वेदान्तानां स्वार्थे फलवत्वाद्व्यर्थकथाविषयं तदित्यर्थः / यदपीत्यादि स्पष्टार्थम् / श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नयेति सदृष्टान्तमाह-अत्रोच्यत इत्यादिना / ब्रह्माहमिति साक्षीत्कारविरोधादित्यर्थः / तत्त्वविदो जीवन्मुक्तौ मानमाह-तदुक्तं श्रुत्येति / जीवतो ऽशरीरत्वं विरुद्धमिति शङ्कते-शरीर इति / आत्मनो देहसंबन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह-नेत्यादिना / असङ्गात्मरूपं त्वशरीरत्वं तत्वधिया जीवतो व्यज्यत इत्याह-नित्यमिति / देहात्मनोः संबन्धः सत्य इति शङ्कते-तत्कृतेति / तन्नाशार्थं कार्यापेक्षेति भावः / आत्मनः शरीरसंबन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां संबन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति-नेत्यादिना / नन्वेतद्देहजन्यधर्माधर्मकर्मण एतदेहसंबन्धहेतुत्वे स्यादन्योन्याश्रयः / पूर्वदेहकर्मण एतद्देहसंबन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह-अन्धेति / अप्रामाणिकीत्यर्थः / न हि बीजाङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसंबन्धः पूर्वकर्मकृतः प्रत्यक्षः / नाप्यस्ति कश्चिदागमः / प्रत्युत ऽअसङ्गो हिऽइत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः / तत्र युक्तिमाह-क्रियेति / कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः / स्वतो निष्क्रियस्यापि कारकसंनिधिना कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति-नेति / राजादीनां स्वक्रीतभृत्य कर्तृत्वं युक्तं नात्मन इत्यर्थः / देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना संबन्धो भ्रान्तिकृत एवेत्याह-मिथ्येति / ननु ऽयजेतऽइति विध्यनुपपस्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह-एतेनेति / भ्रान्तिकृतेन देहादिसंबन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः / अत्राहुः / प्राभाकरा इत्यर्थः / भ्रान्त्यभावाद्देहसंबन्दादिकं सत्यमिति भावः / भेदज्ञानाभावान्न गौण इत्याह-नेति / प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्व प्रसिद्धेरित्यर्थः / यस्य तस्य पुंसो गौणौ भवता इत्यन्वयः / शौर्यादिगुणविषयावित्यर्थः / तस्य त्विति / भेदज्ञानशून्यस्य पुंस इत्यर्थः /
SK
शब्दप्रत्ययाविति / शब्दः शाब्दबोधश्चेत्यर्थः / संशयमूलौ तावुदाहरति-यथा मन्देति / यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह-यथा वेति / अकस्मादिति / अतर्कितादृष्टादिनां संस्कारोद्बोधे सतीत्यर्थः / निरुपचारेण गुणज्ञानं विनेत्यर्थः / देहादिव्यतिरिक्तात्मवादिनामिति / देहात्मवादिनां तु प्रमेत्यभिमान इति भावः / जीवन्मुक्तौ प्रमाणमाह-तथा चेति / तत्तत्र जीवन्मुक्तस्य देहे / यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वाल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति / अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थो ऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः / वस्तुतो ऽचक्षुरपि बाधितचक्षुराद्यनिवृत्या सचक्षुरिवेत्यादि योज्यम् / इत्यनवद्यमिति / ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यं, हितशासनाच्छास्त्रत्वं च निर्देषतया स्थितमित्यर्थः / ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनननिदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधिशेषत्वं उद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह-नेति / श्रवणं ज्ञानकरणवेदान्तगोचरत्वात्प्रधानं, मनननिदिध्यासनयोः प्रमेयगोचरत्वात्तदङ्गत्वं, नियमादृष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति मन्तव्यम् / तर्हि ज्ञाने विधिः किमिति त्यक्तः, तत्राह-यदि हीति /
SK
यदि ज्ञाने विधिमङ्गीकृत्य वेदानतैरवगतं ब्रह्म विधेयज्ञाने कर्मकारकत्वेन विनियुज्येत तदा विधिशेषत्वं स्यात् / न त्ववगतस्य विनियुक्तत्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः / तस्मात्--विध्यसंभवात् / अतः-शेषत्वासंभवात् / सत्यादिवाक्यैर्लब्धज्ञानेनाज्ञाननिवृत्तिरूपफललाभे सतीत्यर्थः / सूत्रं योजयति-स्वतन्त्रमिति / एवं च सतीति / चो ऽवधारणे / उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् / वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः / ननु मानसधर्मविचारार्थं पृथगारम्भ इत्याशङ्क्याह-आरभ्यमाणं चेति / अथ बाह्यसाधनधर्मविचारानन्तरम् / अतो बाह्यधर्मस्य शुद्धिद्वारा मानसोपासनाधर्महेतुत्वात्परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति / अत्र दृष्टान्तमाह-अथेति / तृतीयाध्याये श्रुत्यादिभिःशेषशेषित्वनिर्णयानन्तरं शेषिणाशेषस्य प्रयोगसंभवात् कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः / एवमारभ्येत / नत्वारब्धं, तस्मादवान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः / स्वमते सूत्रानुगुण्यमस्तीत्यह-ब्रह्मेति / जैमिनिना ब्रह्म न विचारितमिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यरथः / वेदान्तार्थश्चेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह-तस्मादिति / ज्ञानस्य प्रमेयप्रमातृबाधकत्वादित्यर्थः / ब्रह्म न कार्यशेषः, तद्बोधात्प्रागेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति-अपिचेति / सदबाधितं ब्रह्म पूर्वमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवंबोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् मायामात्रत्वनिश्ययात् पुत्रदारादिभिरहमिति स्वीयदुःखसुखभावत्वगुणयोगाद्गौणात्माभिमानस्य नरो ऽहं कर्ता मूढ इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसत्वे कार्यं विधिनिषेधादिव्यवहारः कथं भवेत् हेत्वभावान्न कथञ्चिद्भवेदित्यर्थः / नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोघादित्याशङ्क्या प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकृतत्वान्न बाध इत्यह-अन्वेष्टव्येति / ऽय आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः सो ऽन्वेष्टव्यऽइति श्रुतेः
SK
ज्ञातव्यपरमात्मविज्ञानात्प्रागेवाज्ञानाच्चिद्धातोरात्मानः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्मरागद्वेषमरणविवर्जितः परमात्मा स्यादित्यर्थः / प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्य कथमित्यत आह-देहेति / देहात्मत्वप्रत्ययः कल्पितो भ्रमो ऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामाण्यमिष्यतां, वेदान्तानां तु कालत्रयाबाध्यबोधित्वात् तत्वावेदकं प्रामाण्यमिति तु शब्दार्थः / आऽत्मनिश्चयात् /
SK
आत्मनिशचयादित्याङ्मर्यादायाम् / प्रमातृत्वस्य कल्पितत्वे ऽपि विषयाबाधात् प्रामाण्यमितिभावः //
SK
रामनाम्निपरे धाम्नि कृत्स्नाम्नायसमन्वयः / कार्यतात्पर्यबाधेन साधितः शुद्धबुद्धये
SK
इति चतुसूत्री समाप्ता //
SK
END Bस्Cओम्_१,१.४.४
SK
START Bस्Cओम्_१,१.५.५
SK
५ ईक्षत्यधिकरणम् / सू. ५ - ११
SK
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं, ब्रह्मणि पर्यवसानमुक्तम् / ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् / सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति / सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् / प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते / काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते अणूंश्च समवायिकारणम् / एवमन्ये ऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्टन्ते / तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वदर्शनाय वाक्याभासयुक्ताभासविप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते / तत्र सांख्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना आहुः- यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्तीत्यवोचस्तानि प्रधानकारणपक्षे ऽपि योजयितुं शक्यन्ते / सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते / एवं सर्वज्ञत्वमप्युपपद्यते / कथम् / यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः , ऽसत्त्वात्संजायते ज्ञानम्ऽ (गी. १४.१७) इति स्मृतेः / तेन च सत्त्वधर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः / सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् / न केवलस्याकार्यकारणस्य पुरुषोपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् / त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते / वेदान्तवाक्येष्ववश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमुपगन्तव्यम् / नहि सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते / तथाहि- ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत / अथानित्यं तदिति ज्ञानक्रियाया उपरमेतापि ब्रह्म, तदा सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमापतति / अपिच प्रागुत्पत्तेः सर्वकारकाशून्यं ब्रह्मेष्यते त्वया / नच ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना / अपिच प्रधानस्यनेकात्मकस्य परिणामासंभवात्कारणत्वोपपत्तिर्मृदादिवत्, नासंहतस्यैकात्मकस्य ब्रह्मण इत्येवं प्राप्तं इदं सूत्रमारभ्यते-
SK
FN: कार्यसंबन्धंविनापि अनुमेया इति / बुद्धौ यः प्रतिबिम्बः स तादृशबिम्बपूर्वकः प्रतिबिम्बत्वात् / दर्पणे मुखाभासादित्यनुमानम् / व्याकरणमीमांसान्यायाः पदवाक्यप्रमाणानि / वाक्याभासेषु युक्त्याभासेषु च विप्रतिपत्तिर्येषां ते / ज्ञानक्रियांप्रति ज्ञाधात्वर्थंप्रति, स्वातन्त्र्यं कर्तृत्वम् / आदिपदेन ज्ञेयज्ञात्रादिसंग्रहः / प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति / ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते /
SK
ईक्षतेर् नाशब्दम् | BBस्_१,१.५ |
SK
न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् / अशब्दं हि तत् / कथमशब्दत्वं, ईक्षतेः- ईक्षितृत्वश्रवणात्कारणस्य / कथम् / एवंहि श्रूयते- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ / (छान्दो. ६.२.१) इत्युपक्रम्य ऽतदैक्षत बहु स्यां प्रजायेयेति तत्तेजो ऽसृजतऽ (छान्दो. ६.२.३) इति / तत्रेदंशब्दवाच्यं नामरूपव्याकृतं जगत्प्रागुत्पत्तेः सदात्मनावधार्य तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति / तथान्यत्र- ऽआत्मा वा इदमेक एवाग्र आसीत् / नान्यत्किञ्चन मिषत् / स ईक्षत लोकान्नु सृजा इति / स इमांलोकानसृजतऽ (ऐत. १.१.१) इतीक्षापूर्विकामेव सृष्टिमाचष्टे / Dवचिच्च षोडषकलं पुरुषं प्रस्तुत्याह- ऽस ईक्षाञ्चक्रे / स प्राणमसृजतऽ (प्रश्न. ६.३) इति / ईक्षतेरिति च धात्वर्थनिर्देशो ऽभिप्रेतः, यजतेरितिवत् / न धातुनिर्देशः / तेन ऽयः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः / तस्मादेतद्ब्रह्म नाम रूपमन्नं न जायतेऽ (मुण्ड. १.१.९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यानुदाहर्तव्यानि / यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते / नहि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति /
SK
ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति / तदपि नोपपद्यते / यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानाक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत / अपिच नासाक्षिका सत्त्ववृत्तिर्जानातिनाभिधीयेते / न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति / तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् / योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् / अथ पुनः साक्षिनिमित्तमीक्षितृत्वं कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् / तथासति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति युक्तम् / यत्पुनरुक्तं ब्रह्मणो ऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियांप्रति स्वातन्त्र्यासंभवादिति /
SK
अत्रोच्यते- इदं तावद्भवान्प्रष्टव्यः, कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति / यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति सो ऽसर्वज्ञ इति विप्रतिषिद्धम् / अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्नजानातीत्यसर्वज्ञत्वमपि स्यात् / नासौ ज्ञाननित्यत्वे दोषो ऽस्ति ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यत इति चेन्न, प्रततौष्ण्यप्रकाशे ऽपि सवितरि दहति प्रकाशयतीति स्वातन्त्र्यव्यपदेशदर्शनात् /
SK
ननु सवितुर्दाह्यप्रकाशसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात्, नतु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगो ऽस्तीति विषमो दृष्टान्तः /
SK
न / असत्यपि कर्मणि सविता प्रकाशत इति कर्तृत्वव्यपदेशदर्शनात् / एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः ऽतदैक्षतऽ इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम् / कर्मापेक्षायां तु ब्रह्मणीक्षितृत्वश्रुतयः सुतरामुपपन्नाः / किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति / तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः / यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति / यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, न तच्चोद्यमवतरति, सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः / अपिचाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यान्न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य / मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः- ऽन तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते / परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चऽ (श्वेता. ६.८) इति / ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः / स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्ऽ (श्वेता. ३.१९) इति च /
SK
ननु नास्ति तावज् ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी, ऽनान्यो ऽस्ती द्रष्टा नान्यो ऽतो ऽस्ती विज्ञाताऽ (बृह. ३.७.२३) इति श्रुतेः / तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति /
SK
अत्रोच्यते - सत्यं, नेश्वरादन्यः संसारी / तथापि देहादिसंघातोपाधिसंबन्ध इत्यत एव, घटकरकगिरिगुहाद्युपाधिसंबन्ध इव व्योम्नः / तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टो घटच्छिद्रं करकादिच्छिद्रमित्यादिराकाशाव्यतिरेके ऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा / तथेहापि देहादिसंघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः / दृश्यते चात्मन एव सतो देहादिसंघाते ऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण / सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः / यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम् / यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानादीनां तथा प्रपञ्चयिष्यति- ऽन विलक्षणत्वादस्यऽ- (ब्र. २.१.४) इत्येवमादिना
SK
वृत्तमनूद्याक्षेपलक्षणामवान्तरसंगतिमाह-सांख्यादयस्त्विति / भवतु सिद्धे वेदान्तानां समन्वयः तथापि मानान्तरायोगे ब्रह्मणि शक्तिग्रहायोगात्, कूटस्थत्वेनाविकारित्वेन कारणत्वायोगाच्च न समन्वयः / किन्तु सर्गाद्यं कार्यं जडप्रकृतिकं, कार्यत्वात्, घटवत् इत्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः / सिद्धं मानान्तरगम्यमेवेत्याग्रहः शक्तिग्रहार्थः / अत एव प्रधानादवनुमानोपस्थिते शक्तिग्रहसंभवात् तत्परतया वाक्यानि योजयन्तीत्युक्तम् / किं च ऽतेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छऽइत्याद्याः श्रुतयः / शुङ्गेन लिङ्गेन कारणस्य स्वतो ऽन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह-सर्वेष्विति / नन्वतीन्द्रियत्वेन प्रथानादेर्व्याप्तिग्रहायोगात्कथमनुमानम्, तत्राह-प्रधानमिति / यत्कार्यं तज्जडप्रकृतिकं यथा घटः / यज्जडं तच्चेतनसंयुक्तं, यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्रधानपुरुष संयोगा इत्यर्थः / अद्वितीयब्रह्मणः कारणत्वविरोधिमतान्तरमाह-काणादास्त्विति / सृष्टिवाक्येभ्य एव परार्थानुमानरूपेभ्यो यत्कार्यं तद्बुद्धिमत्कर्तृकमितीश्वरं कर्तारं, परमाणूंश्च यत्कार्यद्रव्यं तत्स्वन्यूनपरिमाणद्रव्यारब्दमित्यनुमिमत इत्यर्थः / अन्ये ऽपि बौद्धादयः / ऽअसद्वा इदमग्र आसीत् इत्यादि वाक्याभासः / यद्वस्तु तच्छून्यावसानं, यथा दीप इति युक्त्याभासः / एवं वादिविप्रतिपत्तिमुक्त्वा तन्निरासायोत्तरसूत्रसन्दर्भममवतारयति--तत्रेति / वादिविवादे सतीत्यर्थः / व्याकरणमीमांसान्यायनिधित्वात्पदवाक्यप्रमाणज्ञत्वम् / यज्जगत्कारणं तच्चेतनमचेतनं वेति
SK
ईक्षणस्यमुख्यत्वगौणत्वाभ्यां संशये पूर्वपक्षमाह--तत्र सांख्या इति / अपिशब्दावयवकारार्थो / ऽसदेवऽइत्यादि स्पष्टब्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसंगतयः / पूर्वपक्षे जीवस्यप्रधानैक्योपास्तिः, सिद्धान्तेब्रह्मैक्यज्ञानमिति विवेकः / अचेतनसत्वस्यैव सर्वज्ञत्वं, न चेतनस्येत्याह-तेन च सत्वधर्मेणेति / न केवलस्येति / जन्यज्ञानस्य सत्वधर्मत्वान्नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न सर्वज्ञानकर्तृत्वमित्यर्थः / ननु गुणानां साम्यावस्थायां सत्वस्योत्कर्षाभावात्कथं सर्वज्ञतेत्याह-त्रिगुणत्वादिति / त्रयो गुणा एव प्रधानं तस्यसाम्यवस्था तदभेदप्रधानमित्युच्यते / तदवस्थायामपि प्रलये सर्वज्ञानक्तिमत्वरूपं सर्वज्ञत्वमक्षतमित्यर्थः / ननु मया किमिति शक्तिमत्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति, तत्राह-नहीति / अनित्यज्ञानस्य प्रलये नाशाच्छक्तिमत्वं वाच्यं कारकाभावाच्चेत्याह-अपि चेति / मतद्वयसाम्यमुक्त्वा स्वमते विशेषमाह-अपि चेति / ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते / प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति / अधुना तु श्रुत्या निरस्यति-ईक्षतेर्नाशब्दमिति / ईक्षणश्रवणाद्वेदावाच्यमशब्दं प्रधानम् / अशब्दत्वान्न कारणमिति सूत्रयोजना / तत्सच्छब्दवाच्यं कारणमैक्षत / ईक्षणमेवाह--बह्विति / बहु प्रपञ्चरूपेण स्थित्यर्थमहमेवोपादानतया कार्याभेदाज्जनिष्यामीत्याह-प्रजेति / एवं तत्सदीक्षित्वा आकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्याह-तदिति / मिषच्चलत् / सत्वाक्रान्तमिति यावत् स जीवाभिन्नः परमात्मा ऽप्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोकालोकेषु नाम चऽइत्युक्ताः षोडशकलाः / ननु ऽइक्शितपो धातुनिर्देशेऽइति कात्यायनस्मरणादीक्षतेरिति पदेन श्तिबन्तेन धातुरुच्यते / तेन धात्वर्थं ईक्षणं कथं व्याख्यायत इत्यशङ्क्य लक्षणयेत्याह-ईक्षितेरितिचेति / ऽइतिकर्तव्यताविधेर्यजतेः पूर्ववत्वंऽइति जैमिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्विदिहापीत्यर्थः / सौर्यादिविकृतियागस्याङ्गानामविधानात् पूर्वदर्शादिप्रकृतिस्थाङ्गवत्वमिति सूत्रार्थः / धात्वर्थनिर्देशेन लाभमाह-तेनेति / सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः / ज्ञानमीक्षणमेव तपः / तपस्विनः फलमाह-तस्मादिति / एतत्कार्यं सूत्राख्यं ब्रह्म / केवलसत्त्ववृत्तेर्ज्ञानत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम् / संप्रति न केवलजडवृत्तिर्ज्ञानशब्दार्थः किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानम् / तच्चान्धस्य प्रधानस्य नास्तीत्याह-अपिचेति / साक्षित्वमस्ति, येनोक्तज्ञानवत्वं स्यादिति शेषः / ननु सत्त्ववृत्तिमात्रेण योगिनां सर्वज्ञत्वमुक्तमित्यत आह-योगिनांत् त्विति / सेश्वरसांख्यामतमाह-अथेति / सर्वज्ञत्वं नाम सर्वघोचरज्ञानत्वं, न ज्ञानकर्तृत्वं, ज्ञानस्य कृत्यसाध्यत्वादिति हृदिकृत्वा पृच्छति-इदं तावदिति / सर्वं जानातीति शब्दासाधुत्वं शङ्कते-ज्ञाननित्यत्व इति / नित्यस्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपाद्भेदं कल्पयित्वा कार्यत्वोपचाराद्ब्रह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सदृष्टान्तमाह-न प्रततेति / संततेत्यर्थः / असत्यपि अविवक्षिते ऽपि / ननु प्रकाशतेरकर्मकत्वात्सविता प्रकाशत इति प्रयोगे ऽपि जानातेः सकर्मकत्वात्कर्माभावे ऽतदैक्षतऽइत्ययुक्तमिति, तत्राह-कर्मापेक्षायां त्विति / कर्माविवक्षायामपि प्रकाशरूपे सवितरि प्रकाशत इति कथञ्चित्प्रकाशक्रियाश्रयत्वेन कर्तृत्वोपचारवच्चिदात्मन्यपि चिद्रूपेक्षणकर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम् / अधुना तु कुम्भकारस्य स्वोपाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विविधसृष्टिसंस्कारायाः प्रलयावसानेनोद्बुद्धसंस्कारायाः सर्गोन्मुखः कश्चित्परिणामः संभवति, अतः तस्यां सूक्ष्मरूपेण निलीन सर्वकार्यविषयकमीक्षणं, तस्य कार्यत्वात्कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति द्योतयति-सुतरामिति / ननु मायोपाधिकबिम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वं, कृत्यभावादिति चेन्न, कार्यानुकूलज्ञानवत एव कर्तृत्वादीश्वरस्यापि ईक्षणानुकूलनित्यज्ञानवत्त्वात् / न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात्किमीक्षणेनेति वाच्यम्, वाय्वादेरेव शब्दवत्त्वसंभवात्किमाकाशेनेत्यतिप्रसङ्गात् / अतः श्रुतत्वाद्वाय्वादिकारणत्वेनाकाशवदैक्षतेत्यागन्तुकत्वेन श्रुतमीक्षणमाकाशादिहेतुत्वेनाङ्गीकार्यमित्यलम् / अव्याकृते सूक्ष्मात्मना स्थिते व्याकर्तुं स्थूलीकर्तुमिष्टे इत्यर्थः / अव्याकृतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपेक्षत्वे ऽपि वृत्तिरूपेक्षणस्य कारकं वाच्यमित्याशङ्क्याह-अपिचाविद्यादिमत इति / यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मायिनो ऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः / ननु यज्जन्यज्ञानं तच्छरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्क्य श्रुतिबाधमाह-मन्त्रौ चेति / कार्यं शरीरम् / कारणमिन्द्रियम् / अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्द्विविधा / सा त्वैतिह्यमात्रसिद्धा न प्रमाणसिद्धेत्याह-श्रुयत इति / ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी / अनादिमायात्मकत्वादित्यर्थः / ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिबिम्बितत्त्वेन स्फुटत्वं तस्य क्रियानाम बिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीति वार्थः / अपाणिरपि ग्रहीता / अपादोपि जवनः / ईश्वरस्यस्वकार्ये लौकिकहेत्वपेक्षा नास्तीति भावः / अग्र्यमनादिं, पुरुषमनन्तं, महान्तं विभुमित्यर्थः / अपसिद्धान्तं शङ्कते-नन्विति / ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः / औपादिकस्य जीवेश्वरभेदस्यमयोक्तत्वान्नापसिद्धान्त इत्याह-अत्रोच्यत इति / तत्कृत उपाधिसंबन्धकृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः / असंकीर्ण इति शेषः / अव्यतिरेके कथमसंकरस्तत्राह-तत्कृता चेति / उपाधिसंबन्धकृतेत्यर्थः / तथेति / देहादिसंबन्धत्य हेतुरविवेको ऽनाद्यविद्या तया कृत इत्यर्थः / अविद्यायां हि प्रतिबिम्बो जीवः, बिम्बचैतन्यमीश्वर इति भेदो ऽविद्याधीनसत्ताकः, अनादिभेदस्य कार्यत्वायोगात् / कार्यबुद्ध्यादिकृतप्रमात्रादिभेदश्च कार्य एवेति विवेकः / नन्वखण्डस्वप्रकाशात्मनि कथमविवेकः, तत्राह-दृश्यते चेति / वस्तुतो देहादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरो ऽहमिति भ्रमोदृष्टत्वाद्दुरपह्नवः / स च मिथ्याबुद्ध्या मीयत इति मिथ्याबुद्धिमात्रेण भ्रान्तिसिद्धाज्ञानेन कल्पित इति चकारार्थः / यद्वोक्तमिथ्याबुद्धौ लोकानुभवमाह-दृश्यते चेति / इत्थंभावे तृतीया / भ्रान्त्यात्मना दृश्यत इत्यर्थः / पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमेयतयेति वार्थः / कूठस्थस्यापि मायिकं कारणत्वं युक्तमित्याह-यथा त्विति /
SK
यत्त्ववेद्ये शब्दशक्तिग्रहायोग इति, तन्न / सत्यादिपदानामबाधिताद्यर्थेषु लोकावगतशक्तिकानां वाच्चैकदेशत्वेनोपस्थिताखण्डब्रह्मलक्षकत्वादिति स्थितम्
SK
END Bस्Cओम्_१,१.५.५
SK
START Bस्Cओम्_१,१.५.६
SK
अत्राह- यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वादिति तदन्यथाप्युपपद्यते, अचेतने ऽपि चेतनवदुपचारदर्शनात् / यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य कूलं पिपातिषतीत्यचेतने ऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनो ऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ऽतदैक्षतऽ इति / यथा लोके कश्चिच्चेतनः स्नात्वा भुक्त्वा चापराह्ने ग्रामं रथेन गमिष्यामीतीक्षित्वानन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते / तस्माच्चेतनवदुपचर्यते / कस्मात्पुनः कारणाद्विहाय मुख्यमीक्षितृत्वमौपचारिकं कल्प्यते, ऽतत्तेज ऐक्षतऽ, ऽता आप ऐक्षन्तऽ (छान्दो. ६.२.३,४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात् / तस्मात्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, ऽउपचारप्राये वचनात्ऽ इति / एवं प्राप्त इदं सूत्रमारभ्यते-
SK
FN: सामान्यतः सर्वे जानातीति सर्वज्ञः / तत्तद्विशेषधर्मघटादिपुरस्कारेण सर्वे वेत्तीति सर्ववित् / एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् / सांख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति- यत्तूक्तमिति / अचेतनस्याज्ञातृत्वं तच्छब्दार्थः / सेश्वरसांख्यमतमाह- अथेति / प्रततेत्यस्य संततेत्यर्थः / असत्यपि अविवक्षितेपि / प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् / कार्यं शरीरम्, करणमिन्द्रियजातम् / अभिनिवेशो मिथ्याभिमानः /
SK
गौणश्चेन्नात्मशब्दात् | BBस्_१,१.६ |
SK
यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिक ईक्षतिः, अप्तेजसोरिवेति, तदसत् / कस्मात्, आत्मशब्दात् / ऽसदेव सोम्येदमग्र आसीत्ऽ इत्युपक्रम्य ऽतदैक्षत तत्तेजो ऽसृजतऽ (छान्दो. ६.२.१,३) इति च तेजो ऽबन्नानां सृष्टिमुक्त्वा तदेव प्रकृतं सदीक्षितृ, तानि च तेजो ऽबन्नानि, देवताशब्देन परामृश्याह- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रवश्य नामरूपे व्याकरवाणिऽ (छान्दो. ६.३.२) इति / तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत तदेव प्रकृतत्वात्सेयं देवतेति परामृश्येत / न तदा देवता जीवात्मशब्देनाभिदध्यात् / जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च / स कथमचेतनस्य प्रधानस्यात्मा भवेत् / आत्मा हि नाम स्वरूपम् / नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति / अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्यते तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते / तथा ऽस य एषो ऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽ (छान्दो. ६.१४.३) इत्यत्र ऽस आत्माऽ इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य ऽतत्त्वमसि श्वेतकेतोऽ इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति, अप्तेजसोस्तु विषयत्वादचेतनत्वं, नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, नचात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य / तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् / सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम्
SK
संप्रत्युत्तरसूत्रनिरस्याशङ्कामाह-अत्राहेति / अन्यथापि अचेतनत्वे ऽपि / ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह-यथेति / नियतक्रमवत्कार्यकारित्वं साम्यमित्यर्थः / ऽउपचारप्राये वचनात्ऽइति गौणार्थप्रचुरे प्रकरणे समाम्नानादित्यर्थः / अप्तेजसोरिवाचेतने सति गौणी ईक्षतिरिति चेन्न, आत्मशब्दात्सतश्चेतनत्वनिश्चयादिति सूत्रार्थमाह-यदुक्तमित्यादिना / सा प्रकृता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूतसृष्ट्यनन्तरं इमाः सृष्टास्तिस्रस्तेजो ऽबन्नरूपाः / परोक्षत्वाद्देवता इति द्वितीयाबहुवचनम् / अनेन पूर्वकल्पानुभूतेनजीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिष्यामीत्यैक्षतेत्यन्वयः / लौकिकप्रसिद्धेः, ऽजीव प्राणधारणेऽइति धातोर्जीवतिप्रामधारयतीति निर्वचनाच्चेत्यर्थः / अत त्विति / स्वपक्षे तु बिम्बप्रतिबिम्बयोर्लोके भेदस्यकल्पितत्वदर्शनाज्जीवो ब्राह्मणः सत आत्मेति युक्तमित्यर्थः / जीवस्य सच्छब्दार्थं प्रत्यात्मशब्दात् सन्न प्रधानमित्युक्त्वा सतौ जीवं प्रत्यात्मशब्दान्न प्रधानमिति विधान्तरेण हेतुं व्याचष्टे-तथेति / स यःसदाख्य एषोणिमासूक्ष्मः, ऐतदात्मकमिदं सर्वं जगत्, तत्सदेव सत्यं, विकारस्य मिथ्यात्वात् / सः सत्पदार्थः सर्वस्यात्मा / हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव सदभाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः /
SK
इत्यत्रोपदिशति / अतश्चेतनात्माकत्वात् सत्वात् सच्चेतनमेवेति वाक्यशेषः / यदुक्तमप्तेजसोरिव सत ईक्षणं गौणमिति, तत्राह-अत्तेजसोस्त्विति / नामरूपयोर्व्याकरणं सृष्टिः / आजिपदान्नियमनं / आप्तेजसोदृग्विषयत्वात्सृज्यत्वान्नियम्यत्वाच्चाचेतनत्वमीक्षणस्य मुख्यत्वे बाधकमस्ति साधकं च नास्तीति हेतोर्युक्तमीक्षणस्य गौणत्वमिति योजना / चेतनवत्कार्यकारित्वं गुणः ऽतेज ऐक्षतऽचेतनवत्कार्यकारित्यर्थः / यद्वा तेजःपदेन तदधिष्ठानं सल्लक्ष्यते / तथाच मुख्यमीक्षणमित्याह-तयोरिति / स्यादेतद्यदि सत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यत आह-सतस्त्विति /
SK
गौणमुख्ययोरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यनिश्चायकत्वादात्मशब्दाच्च सत ईक्षणं मुख्यमित्यर्थः
SK
END Bस्Cओम्_१,१.५.६
SK
START Bस्Cओम्_१,१.५.७
SK
अथोच्येताचेतने ऽपि प्रधाने भवत्यात्माब्दः, आत्मनः सर्वार्थकारित्वात्, यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दो ममात्मा भद्रसेन इति / प्रधानं हि पुरुषस्यात्मनो भोगापवर्गो कुर्वदुपकरोति, राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः / अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति,
SK
भूतात्मेन्द्रियात्मेति च प्रयोगदर्शनात् / यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः / तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति-
SK
FN: अनेन पूर्वसृष्ट्यनुभूतेन प्राणधृतिहेतुनामात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्करवाणीति परा देवतेक्षितवतीत्यर्थः / कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः /
SK
तन्निष्ठस्य मोक्षोपदेशात् | BBस्_१,१.७ |
SK
न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति, ऽस आत्माऽ इति प्रकृतं सदणिमानमादाय ऽतत्त्वमसि श्वेतकेतोऽ इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठमुपदिश्य ऽआचार्यवान्पुरुषो वेदऽ ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो. ६.१४.२) इति मोक्षोपदेशात् / यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यं तदसीति ग्राहयेन्मुमुक्षुं चेतनं सन्तमचेतनो ऽसीति तदा विपरीतवादी शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् / नतु निर्देषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् / यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रं स श्रद्धधानतयान्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत्, तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत, तथा सति पुरुषार्थाद्विहन्येतानर्थं न ऋच्छेत् / तस्माद्यथा स्वर्गाद्यर्थिनो ऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति तथा मुमुक्षोरपि ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति यथाभूतमेवात्मानमुपदुशतीति युक्तम् / एवञ्च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते / अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे ऽअहमुक्थमस्मीति विद्यात्ऽ (ऐ. आर. २.१.२.६) इतिवत्संपन्मात्रमिदमनित्यफलं स्यात् / तत्र मोक्षोपदेशो नोपपद्येत / तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् / भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दो ममात्मा भद्रसेन इति / अपिच Dवचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेर्ऽथो गौणी कल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात् / यत्तूक्तं चेतनाचेतनयोः साधारण आत्माब्दः क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न, अनेकार्थत्वास्यान्याय्यत्वात् / तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते भूतात्मेन्द्रियात्मेति च / साधारणत्वे ऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते / नचात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति / प्रकृतं तु सदीक्षितृ, संनिहितश्चेतनः श्वेतकेतुः नहि चेतनस्य श्वेतकेतोरचेतन आत्मा संभवतीत्यवोचाम / तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते / ज्योतिःशब्दो ऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढोर्ऽथवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः / अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः ऽतन्निष्ठस्य मोक्षोपदेशात्ऽ इति / तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम्
SK
FN: अत्रोत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसवत् / तदा चेतनं सन्तं मुमुक्षुमचेतनो ऽसीतिब्रुवच्छास्त्रं विपरीतवादिभूत्वा पुंसो ऽनर्थायेतिकृत्वा स्यादप्रमाणमिति योजना / अत्र विहतिर्मुक्तिभाक्त्वाभावः / ऽयथा सत्याभिसंधस्तप्तं परशुं स न दह्यते ऽथ मुच्यतेऽ इति / उक्थं प्राणः / महावाक्योत्थं ज्ञानमिदमुच्यते /
SK
आत्महितकारित्वगुणयोगादात्मशब्दो ऽपि प्रधाने गौण इति शङ्कते-अथेत्यादिना / आत्मशब्दो प्रधाने ऽपि मुख्यो नानार्थकत्वादित्याह-अथवेति / नानार्थत्वे दृष्टान्तः-यथेति / ऽअथैष ज्योतिःऽश्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्वदित्यर्थः / तस्मिन्सत्पदार्थे निष्टा अभेदज्ञानं यस्य स सन्निष्ठस्तस्य मुक्तिश्रवणादिति सूत्रार्थमाह-नेत्यादिना / श्रुतिः समन्वयसूत्रेव्याख्याता / अनर्थायेत्युक्तं प्रपञ्चयति-यदि चाज्ञस्येति / कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरमं जगमिषुं बभाषे, किमात्रायुष्मता दुःखितेन स्थीयत इति / स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं मत्वोवाच, अहो मद्भागधेयं, यदत्र भवान्मां दीनं स्वाभीष्टनगरप्राप्यसमर्थं भाषत इति / स च विप्रलिप्सुर्दुष्टगोयुवानमानीय तदीयलाङ्गूलमन्धं ग्राहयामास / उपदिदेश च एनमन्धं, एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति / स चान्धः श्रद्धालुतया तदत्यजन्स्वाभीष्टमप्राप्यानर्थपरंपरां प्राप्तः / तेन न्यायेनेत्यर्थः / तथा सतीति / आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नुयात् प्रत्युतानर्थं संसारं च प्राप्नुयादित्यर्थः / ननु जीवस्य प्रधानैक्यसंपदुपासनार्थमिदं वाक्यामस्त्विति, तत्राह-एवं च सतीति / अहाधितात्मप्रमायां सत्यामित्यार्थः / कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टः, तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिसंधिमतो मोक्षो यथा ऽसत्याभिसंधस्तप्तं परशुं गृह्णाति स न दह्यते ऽथ मुच्यतेऽइति श्रुत्योपदिष्टः / स उपदेशः संपत्पक्षे न युक्तः इत्याह-अन्यथेति / देहमुत्थापयतीत्युक्थं प्राणः / तस्मान्मोक्षोपदेशान्मुख्ये संभवति गौणत्वस्यान्याय्यत्वाच्चात्मशब्दः सति मुख्य इत्याह-अपि चेति / क्वचिद्भृत्यादौ / सर्वत्राहमात्मेत्यत्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः / चेतनत्वोपचाराद्भूतादिषु / सर्वत्र चैतन्यतादात्म्यादित्यर्थः / आत्मशब्दश्चेतनस्यैवासाधारण इत्युक्तम् / अस्तुवाव्यापिवस्तूनां साधारणस्तथापि तस्यात्र श्रुतौ प्रधानपरत्वे ऽपि निश्चायकाभावान्न प्रधानवृत्तितेत्याह-साधारणत्वे ऽपीति / चेतनवाचित्वे तु प्रकरणं शेतकेतुपदं च निश्चायकमस्तीत्याह-प्रकृतं त्विति / उपपदस्य निश्चायकत्वं स्फुटयति-नहीति / ततः किं, तत्राह-तस्मादिति / आत्मशब्दो ज्योतिःशब्दवन्नानार्थक इत्युक्तं दृष्टान्तं निरस्यति-ज्योतिरिति / कथं तर्हि ऽज्योतिषा यजेतऽइति ज्योतिष्टोमे प्रयोगः, तत्राह-अर्थवादेति / ऽएतानि वाव तानि ज्योतींषि य एतस्य स्तोमाःऽइत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यम् /
SK
त्रिवृत्पञ्चदशस्त्रिवृत्सप्तदशस्त्रिवृदेकविंश इति स्तोमास्तत्तदर्थप्रकाशकत्वेन गुणेन ज्योतिष्पदोक्ता ऋक्संघाः / तथा च ज्योतींषि स्तोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः / नन्वात्मशब्दादिति पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौणत्वसाधारणत्वशङ्कानिरासः कर्तुमुचितः, मुख्यार्थस्य लाघवेनोक्तिसंभवे गौणत्वनानार्थकत्वाशङ्काया दुर्बलत्वेन तन्निरासार्थं पृथक्सूत्रायासानपेक्षणात् / तथा च शङ्कोत्तरत्वेनासूत्राख्यानं नातीव शोभत इत्यरुचेराह-अथवेति / निरस्ता समस्ता गौणत्वनानार्थकत्वशङ्का यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तयेत्यर्थः / तत इति /
SK
सत आत्मशब्दे जीवाभिन्नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनिरासे हेतुरित्यर्थः
SK
END Bस्Cओम्_१,१.५.७
SK
START Bस्Cओम्_१,१.५.८
SK
कुतश्च न प्रधानं सच्छब्दवाच्यम् /
SK
हेयत्वावचनाच्च | BBस्_१,१.८ |
SK
यद्यानात्मैव प्रधानं सच्छब्दवाच्यं ऽस आत्मा तत्त्वमसिऽ इतीहोपदिष्टं स्यात्स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षुस्तस्य हेयत्वं ब्रूयात् / यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतिति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति तद्वन्नायमात्मेति ब्रूयात् / नचैवमवोचत् / सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यते / चशब्दः
SK
[प्रतिज्ञाविरोधात् | BBस्_१,१.८अ |]
SK
प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः / सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत / कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् / ऽउत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ / ऽएवं सोम्य स आदेशो भवतिऽ (छान्दो. ६.१.१,३) इति वाक्योपक्रमे श्रवणात् / नच सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्य / तस्मान्न प्रधानं सच्छब्दवाच्यम्
SK
ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामरुन्धतीत्वेनोपदिशति, तद्वदनात्मन एव प्रधानस्य सत्पदार्थस्यात्मत्वोपदेश इति शङ्कते-कुतश्चेति / प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः / सौत्रश्चकारो ऽनुक्तसमुच्चयार्थ इत्याह-चशब्द इति / विवृणोति-सत्यपीति / अपिशब्दान्नास्त्येवेति सूचयति / वेदानधीत्यागतं स्तब्धं पुत्रं पितोवाच-हे पुत्र उत अपि, आदिश्यत इत्यादेश उपदेशैकलभ्यः स्दात्मा तमप्यप्राक्ष्यः गुरुनिकटेपृष्टवानसि, यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः / नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते-कथमिति / हे भगवः, कथं नु खलु स भवतीत्यर्थः / कार्यस्य कारणान्यत्वं नास्तीत्याह-यथेति / पिण्डः स्वरूपं तेन / विज्ञातेनेति शेषः / तत्र युक्तिमाह-वाचेति / वाचा वागिन्द्रियेणारभ्यत इति विकारो वाचारम्भणम् / ननु वाचा नामैवारभ्यते, न घटादिरित्याशङ्क्य नाममात्रमेव विकार इत्याह-नामधेयमिति /
SK
ऽनामधेयं विकारो ऽयं वाचा केवलमुच्यते / वस्तुतः कारणाद्भिन्नो नास्ति तस्मान्मृषैव सः //
SK
ऽइति भावः / विकारस्य मिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति, नेत्याह-मृत्तिकेति / कारणं कार्याद्भिन्नसत्ताकं न कार्यं कारणाद्भिन्नम्, अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात्कारणज्ञानेन तज्ज्ञानं भवतीति स्थिते दार्ष्टान्तिकमाह-एवमिति / मृद्वद्ब्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किञ्चिन्नावशिष्यत इत्यर्थः / यद्यपि प्रधाने ज्ञाते तादात्म्याद्विकाराणां ज्ञानं भवति तथापि न पुरुषाणां, तेषां प्रधानविकारत्वाभावादित्याह-नचेति /
SK
अस्माकं जीवानां सद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः
SK
END Bस्Cओम्_१,१.५.८
SK
START Bस्Cओम्_१,१.५.९
SK
कुतश्च न प्रधानं सच्छब्दवाच्यम्-
SK
हे श्वेतकेतो, उत अपि आदिस्यत इत्यादेशस्तं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानस्याचार्यम् / वाचारभ्यमाणमुच्चार्यमाणं नामधेयमेव विकारो न तु घटशरावादिनामातिरिक्तो मृदि विकारो वस्तुतो ऽस्ति परमार्थतो मृत्तिकैव तु सत्यं वस्त्वस्तीति /
SK
स्वाप्ययात् | BBस्_१,१.९ |
SK
तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते- ऽयत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवतिऽ (छान्दो. ६.८.१) इति / एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति / स्वशब्देनेहात्मोच्यते / यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः / अपिपूर्वस्यैतेर्लर्यार्थत्वं प्रसिद्धं, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् / मनःप्रचारोपाधिविशेषसंबन्धादिन्द्रियार्थान्गृह्यंस्तद्विशेषापन्नो जीवो जागर्ति / तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति / स उपाधिद्वयोपरमे सुषुप्तावस्थामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति ऽस्वं ह्यपीतो भवतिऽ इत्युच्यते / यथा हृदयशब्दनिर्वचनं श्रुत्वा दर्शितम्- ऽस वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माधृदयमितिऽ (छान्दो. ८.३.३) इति / यथावाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः- ऽआप एव तदशितं नयन्तेऽ ऽतेज एव तत्पीतं नयन्तेऽ (छा. ६. ८. ३,५) इति च / एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवतीतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति / नच चेतन आत्माचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत / यदि पुनः प्रधानमेवात्मीयात्वात्स्वाशब्देनैवोच्येत, एवमपि चेतनो ऽचेतनमप्येतीति विरुद्धमापद्येत / श्रुत्यन्तरं च - ऽप्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ / (बृह. ४.३.२१) इति सुषुप्तावस्थायां चेतने ऽप्ययं दर्शयति / अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं न प्रधानम्
SK
FN: यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता संपन्नस्तेनैकीभूत इति योजना /
SK
कुतश्चेति / पुनरपि कस्माधेतोरित्यर्थः / सुषुप्तौ जीवस्य सदात्मनि स्वस्मिन्नप्ययश्रवणात्सच्चेतनमेवेति सूत्रयोजना / एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता संपन्न एकीभवति / सदैक्ये ऽपि नामप्रवृत्तिः कथं, तत्राह-स्वमिति / तत्र लोकप्रसिद्धिमाह-तस्मादिति / हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः / श्रुतेस्तात्पर्यमाह-एषेत्यादिना / कथमेतावता प्रधाननिरास इत्यत आह-स्वशब्देनेति / एतेर्धातोर्गत्यर्थस्यापिपूर्वस्य लयार्थत्वे ऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह-मन इति / ऐन्द्रियकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना संबन्धादात्मा तानिन्द्रियार्थान्पश्यन्स्थूलविशेषेण देहेनैक्यभ्रान्तिमापन्नो विश्वसंज्ञो जागर्ति / जाग्रद्वासनाश्रयमनोविशिष्टः संस्तैजससंज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान्पश्यन् ऽसोम्य तन्मनःऽइति श्रुतिस्थमनःशब्दवाच्यो भवति / स आत्मा स्थूलसूक्ष्मोपाधिद्वयोपरमे ऽहं नरः कर्तेति विशेषाभिमानाभवाल्लीन इत्युपचर्यत इत्यर्थः / ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आह-यथेति / तस्य हृदयशब्दस्यैतन्निर्वचनम् / तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः / तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् / अत्र दीर्घश्छान्दसः / एवमिदमपि निर्वचनं यथार्थमित्याह-एवमिति / इदं च प्रधानपक्षे न युक्तमित्याह-न चेति / स्वशब्दस्यात्मनीवात्मीये ऽपि शक्तिरस्तीत्याशङ्क्याह-यदीति /
SK
प्राज्ञेन बिम्बचैतन्येनेश्वरेण संपरिष्वङ्गो भेदभ्रमाभावेनाभेद इत्यर्थः
SK
END Bस्Cओम्_१,१.५.९
SK
START Bस्Cओम्_१,१.५.१०
SK
कुतश्च न प्रधानं जगतः कारणम्-
SK
गतिसामान्यात् | BBस्_१,१.१० |
SK
यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत्क्वचिच्चेतनं ब्रह्म जगतः कारणं Dवचिदन्यदेवेति, ततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत् / नत्वेतदस्ति / समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः / ऽयथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःऽ (कौ. ३.३) इति / ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इति / ऽआत्मत एवेदं सर्वम्ऽ (छान्दो. ७.२६.१) इति / ऽआत्मन एष प्राणो जायतेऽ (प्र. ३.३) इति चात्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः /
SK
आत्मशब्दश्च चेतनवचन इत्यवोचाम / महच्च प्रामाण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वं, चक्षुरादीनामिव रूपादिषु / अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम्
SK
FN: गतिरवगतिः / विप्रतिष्ठेरन् नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः / अज्ञातज्ञापकत्वं प्रामाण्यम् /
SK
तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्नाचेतनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह-यदि तार्किकेत्यादिना / अन्यत्परमाण्वादिकम् / न त्वेतदिति / अवगतिवैषम्यमित्यर्थः / विप्रतिष्ठरन्विविधं नानादिशः प्रति गच्छेयुः / प्राणश्चक्षुरादयो यथागोलकं प्रादुर्भवन्ति, प्राणेभ्यो ऽनन्तरं देवाः सूर्यादयस्तदनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः / ननु वेदान्तानां स्वतप्रामाण्यत्वेन प्रत्यकं स्वार्थनिश्चायकत्वसंभवात्किं गतिसामान्येनेत्यत आह-महच्चेति / एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह-चक्षुरिति /
SK
यथा सर्वेषां चक्षुषामेकरूपावगतिहेतुत्वं, श्रवणानां शब्दावगतिहेतुत्वं घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्यदार्ढ्ये हेतुरित्यर्थः
SK
END Bस्Cओम्_१,१.५.१०
SK
START Bस्Cओम्_१,१.५.११
SK
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्-
SK
श्रुतत्वाच् च | BBस्_१,१.११ |
SK
स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे. ६.९) इति / तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं, नाचेतनं प्रधानमन्यद्वेति सिद्धम्
SK
FN: कारणाधिपा जीवस्तेषामधिपः / वस्तुतन्त्रं भवेज्ज्ञानं कर्मतन्त्रमुपासनम् / आविस्तरामतिशयेन प्रकटम् /
SK
एवमीक्षत्यादिलिङ्गैरचेतने वेदान्तानां समन्वयं निरस्य चेतनवाचकशब्देनापि निरस्यति-श्रुतत्वाच्चेति / सूत्रं व्याचष्टे-स्वशब्देनेति / स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः / ऽज्ञः कालकालो गुणी सर्वविद्यःऽइति सर्वज्ञं परमेश्वरं प्रकृत्य ऽस सर्ववित्कारणम्ऽइति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः / करणाधिपा जीवास्तेषामधिपः / अधिकरमार्थमुपसंहरति-तस्मादीति / ईक्षणात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह-अन्यद्वेति
SK
END Bस्Cओम्_१,१.५.११
SK
START Bस्Cओम्_१,१.६.१२
SK
६ आनन्दमयाधिकरणम् / सू. १२-१९
SK
ऽजन्माद्यस्य यतःऽ इत्यारभ्य ऽश्रुतत्वाच्चऽ इत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम् / गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम् / अतः परस्य ग्रन्थस्य किमुत्थानमिति / उच्यते- द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविवर्जितम् / ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृह. ४.५.१५) ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं वो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्ऽ (छान्दो. ७.२४.१) ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै.आ. ३.१२.७) ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् / अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्ऽ (श्वे. ६.१९) ऽनेति नेतिऽ (बृ. २.३.६) इति ऽअस्थूलमनणुऽ (बृ. ३.८.८) ऽन्यूनमन्यत्स्थानं संपूर्णमन्यत्ऽ इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि / तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिक्षणः सर्वो व्यवहारः / तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि / तेषां गुणविशेषोपाधिभेदेन भेदः / एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति तथापि यथागुणोपासनमेव फलानि भिद्यन्ते / ऽतं यथा यथोपासते तदेव भवतिऽ इति श्रुतेः, ऽयथाक्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्य भवतिऽ (छा. ३.१४.१) इति च / स्मृतेश्च- ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय सदा तद्भावभावितः //ऽ (गी. ८.६) इति / यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढस्तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते- ऽतस्य य आत्मानमाविस्तरां वेदऽ (ऐ.आ. २.३.२.१) इत्यत्र / स्मृतावपि- ऽयद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा / तत्तदेवावगच्छ त्वं मम तेज्ॐऽशसंभवम् /ऽ (गी. १०.४१) इति / यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया चोद्यते / एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति / एवं ऽआकाशस्तल्लिङ्गात्ऽ (ब्र. १.१.२२) इत्यादिषु द्रष्टव्यम् / एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसंबन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति / यथेहैव तावत् ऽआनन्दमयो ऽभ्यासात्ऽ इति / एवमेकमपि ब्रह्मापेक्षितोपाधिसंबन्धं निरस्तोपाधिसंबन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते / यच्च ऽगतिसामान्यात्ऽ इत्यचेतनकारणनिराकरणमुक्तं तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते-
SK
आनन्दमयो ऽभ्यासात् | BBस्_१,१.१२ |
SK
तैत्तिरीयके ऽन्नमयं, प्राणमयं, मनोमयं, विज्ञानमयं,चानुक्रम्याम्नायते- ऽतस्माद्वा एतस्माद्विज्ञानमयात् / अन्यो ऽन्तर आत्मानन्दमयःऽ (तै. २.५) इति / तत्र संशयः- किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. २.१) इति, किंवान्नमयादिब्रह्मणोर्ऽथान्तरमिति / किं तावत्प्राप्तं ब्रह्मणोर्ऽथान्तरममुख्य आत्मानन्दमयः स्यात् / कस्मात् / अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् / अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति / न स्यात्प्रियाद्यवयवयोगाच्छरीरत्वश्रवणाच्च / मुख्यश्चेदात्मानन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात् / इह तु ऽतस्य प्रियमेव शिरःऽ इत्यादि श्रूयते / शारीरत्वं च श्रूयते- ऽतस्यैष एव शारीर आत्मा / यः पूर्वस्यऽ इति / तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः / नच सशरीरस्य सतः प्रियाप्रियसंस्पार्शो वारयितुं शक्यः / तस्मात्संसार्येवानन्दमय आत्मेत्यवं प्राप्त इदमुच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ / पर एवात्मानन्दमयो भवितुमर्हति / कुतः / अभ्यासात् / परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वो ऽभ्यस्यते / आनन्दमयं प्रस्तुत्य ऽरसो वै सःऽ इति तस्यैव रसत्वमुक्त्वोच्यते- ऽरसंह्येवायं लब्ध्वाऽनन्दी भवतिऽ इति, ऽको ह्येवान्यात्कः प्राण्यात् / यदेष आकाश आनन्दो न स्यात् / एष ह्येवानन्दयातिऽ / (तै. २.७) ऽसैषानन्दस्य मीमांसा भवतिऽ, ऽ एतमानन्दमयमात्मानमुपसंक्रामतिऽ, ऽआनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनऽ (तै. २.८,९) इति / ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै. ३.६) इति च / श्रुत्यन्तरे च ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. ३.९.२८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः / एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते / यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः / आनन्दमयस्य सर्वान्तरत्वात् / मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत्, अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततो ऽनन्तरं ततो ऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत्, प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् / यथारुन्धतीनिदर्शने बर्ह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु यान्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति, एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् / यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति, आतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः / शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात्, न पुनः साक्षादेव शारीरत्वं संसारिवत्, तस्मादान्दमयः पर एवात्मा
SK
FN: तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः / कोवान्याच्चलेत्, को वा विशिष्य प्राण्याज्जीवेत् / आनन्दयाति आनन्दयतीत्यर्थः / उपसंक्रमणं प्राप्तिः ब्रह्मणः स्वरूपमिति शेषः / लोकबुद्धेः स्थूलग्राहितामनुसरदित्यर्थः / इहापि अमुख्यप्रवाहे पतितस्यापि /
SK
वृत्तानुवादेनोत्तरसूत्रसंदर्भमाक्षिपति-जन्मादिति / प्रथमसूत्रस्य शास्त्रोपोद्घातत्वाज्जन्मादिसूत्रमारभ्येत्युक्तम् / सर्ववेदान्तानां कार्ये प्रधानाद्यचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम् / अतः प्रथमाध्यायार्थस्यसमाप्तत्वादुत्तरग्रन्थारम्भे किं कारणमित्यर्थः / वेदान्तेषु सगुणनिर्गुणब्रह्मवाक्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगुणोपासनाविधिद्वारा निगुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह-उच्यत इति / संक्षिप्य सगुणनिर्गुणवाक्यार्थमाह-द्विरूपं हीति /
SK
नामरूपात्मको विकारः सर्वं जगत्, तद्भेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः / वाक्यानुदाहरति-यत्र हीत्यादिना / यस्यां खल्वज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति / यत्र ज्ञानकाले विदुषः सर्वं जगदात्ममात्रमभूत्तत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तत्त्वं भाति / यत्र भुम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सो ऽद्वितीयो भूमा परमात्मा निर्गुणः / अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते / यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नं, यस्तु भूमा तदमृतं नित्यम् / अथेति / पूर्ववद्व्याख्येयम् / धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति / निर्गताः कला अंशा यस्मात्तन्निष्कलम् / अतो निरंशत्वान्निष्क्रियम् / अतः शान्तमपरिणामि / निरवद्यं रागादिदोषशून्यम् / अञ्जनं मूलतमःसंबन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् / किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थवृत्तिस्थत्वेन परमुत्कृष्टं सेतुं लौकिकसेतुवत्प्रापकम् / यथा दग्धेन्धनो ऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः / नेति नेतीति / व्याख्यातम् / स्थूलादिद्वैतशून्यम् / रूपद्वये श्रुतिमाह-न्यूनमिति / द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत्, तथा संपूर्णं निर्गुणं सगुणादन्यदित्यर्थः / एकस्य द्विरूपत्वं विरुद्धमित्यत आह-विद्येति / विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यं अविद्याविषय उपास्यं सगुणत्वं कल्पितमित्यविरोधः / तत्राविद्याविषयं विवृणोति-तत्रेति / निर्गुणज्ञानार्थमारोपितप्रपञ्चमाश्रित्यबाधात्प्राक्काले गुडजिह्विकान्यायेन तत्तत्फलार्थान्युपासनानि विधीयन्ते, तेषां चित्तैकाग्र्यद्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् / ऽनाम ब्रह्मऽइत्याद्युपास्तीनां कामाचारादिरभ्युदयः फलं, दहराद्युपास्तीनां कामाचारादिरभ्युदयः फलं, दहराद्युपास्तीनां क्रममुक्तिः, उद्भीथादिध्यानस्य कर्मसमृद्धिः फलमिति भेदः / ध्यानानां मानसत्वात्, ज्ञानान्तरङ्गत्वाच्च, ज्ञानकाण्डे विधानमिति भावः / ननूपास्यब्रह्मण एकत्वात्कथमुपासनानां भेदः, तत्राह-तेषामिति / गुणविशेषाः सत्यकामत्वादयः / हृदयादिरुपाधिः / अत्र स्वयमेवाशङ्क्य परिहरति-एक इति / परमात्मस्वरूपाभेदे ऽप्युपाधिभेदेनोपहितोपास्यरूपभेदादुपासननां भेदे सति फलभेद इति भावः / तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्तद्गुणवत्वमेव तेषां फलं भवति / क्रतुः संकल्पो ध्यानम् / इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति / अत्रैव भगवद्वाक्यमाह-स्मृतेश्चेति / ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपासकयोस्तारतम्यश्रुतयः कथमित्याशङ्क्य परिहरति-यद्यप्येक इति / उक्तानामुपाधीनां शुद्धितारतम्यादैश्वर्यज्ञानसुखरूपशक्तीनां तारतम्यरूपा विशेषा भवन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यगर्भान्तेप्वाविर्भावावतारतम्यं श्रूयते / तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सो ऽश्नुते तदिति तरप्प्रत्ययादित्यर्थः / तथाच निकृष्ठोपाधिरात्मैवोपासकः, उत्कृष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः / अत्रार्थे भगवद्गीतामुदाहरति-स्मृताविति / अत्र सूर्यादेरपि न जीवत्वेनोपास्यता किन्त्वीश्वरत्वेनेत्युक्तं भवति / तत्र सूत्रकारसंमतिमाह-एवमिति / उदयः असंबन्धः / एवं यस्मिन्वाक्ये उपाधिर्विवक्षितः तद्वाक्यमुपासनपरमिति वक्तुमुत्तरसूत्रसंदर्भस्यारम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेयब्रह्मपरमिति निर्णयार्थमारम्भ इत्याह-एवं सद्य इति / अन्नमयादिकोशा उपाधिविशेषाः / वाक्यगतिस्तात्पर्यम् / आरम्भसमर्थनमुपसंहरति-एवमेकमपीति / सिद्धवदुक्तगतिसामान्यस्य साधनार्थमप्युत्तरारम्भ इत्याह-यच्चेति / अन्नं प्रसिद्धं, प्राणमनोबुद्ध्यः हिरण्यगर्भरूपाः बिम्बचैतन्यामीश्वर आनन्दः / तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः / पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निशचयो ऽस्तीति प्रत्युदाहरमसंगत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम्-किमिति / आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति-कस्मादिति / विकारप्रायपाठहेतुमाह-अन्नमयादीति / श्रुत्यादिसंगतयः स्फुटा एव / पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलं, सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः / शङ्कते-अथापीति / परिहरति-न स्यादिति / संगृहीतं विवृणोति-मुख्य इति / परमात्मेत्यर्थः / शारीरत्वे ऽपीशरत्वं किं न स्यादित्यत आह-नचेति / जीवत्वं दुर्वारमित्यर्थः / नन्वानन्दपदाभ्यासे ऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योतिष्टोमाधिकारे ज्योतिष्पदस्य ज्योतिष्टोमपरत्ववदानन्दमयप्रकरणस्थानन्दमयपदस्यानन्दमयपरत्वात्तदभ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह-
SK
आनन्दमयं प्रस्तुत्येति / रसः सारः / आनन्द इत्यर्थः / अयं लोकः / यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत्, को वा विशिष्या प्राण्याज्जीवेत्, तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः / ऽयुवा स्यात्साधुयुवाऽइत्यादिना वक्ष्यमाणा मनुष्ययुवाननदमारभ्य ब्रह्मानन्दावसाना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति / उपसंक्रामति विद्वान्प्राप्नोति इत्येकदेशिनामर्थः / मुख्यसिद्धान्ते तूपसंक्रमणं विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् / शिष्टमुक्तार्थम् / आनन्दशब्दाद्ब्रह्मावगतिः सर्वत्र समानेति गतिसामान्यार्थमाह-श्रुत्यन्तरे चेति / लिङ्गादमुख्यात्मसंनिधेर्बाध इति मत्वाह-नासाविति / सर्वान्तरत्वं न श्रुतमित्याशङ्क्य ततो ऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति-मुख्यमिति / लोकबुद्धिमिति / तस्याः स्थूलग्राहितामनुसरदित्यर्थः / ताम्रस्य मूषाकारत्ववत्प्राणस्य देहाकारत्वं देहेन सामान्यं, तथा मनः प्राणाकारं तेन सममित्याह-पूर्वेणेति /
SK
अतीतो यो ऽनन्तर उपाधिर्विज्ञानकोशस्तत्कृता सावयवत्वकल्पना, शरीरेण ज्ञेयत्वाच्छारीरत्वमिति लिङ्गद्वयं दुर्बलम् / अतः सहायाभावादाभ्याससर्वान्तरत्वाभ्यां विकारसंनिधेर्बाध इति भावः
SK
END Bस्Cओम्_१,१.६.१२
SK
START Bस्Cओम्_१,१.६.१३
SK
विकारशब्दान् नेति चेन् न प्राचुर्यात् | BBस्_१,१.१३ |
SK
अत्राह- नानन्दमयः पर आत्मा भवितुमर्हति / कस्मात्, विकारशब्दात् / प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगतः, आनन्दमय इति मयटो विकार्थत्वात् / तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इतिचेत्, न / प्राचुर्यार्थे ऽपि मयटः स्मरणात् / ऽतत्प्रकृतवचने मयट्ऽ (पा. ५.४.२१) इति हि प्रचुरतायामपि मयट् स्मर्यते / यथा ऽअन्नमयो यज्ञःऽ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमय उच्यते / आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् / तस्मात्प्राचुर्यार्थे मयट्
SK
विकारार्थकमयट् श्रुतिसहाय इत्याशङ्क्य मयटः प्राचुर्ये ऽपि विधानान्मैवमित्याह-विकारेत्यादिना / तत्प्रकृतवचने मयडिति /
SK
तदितिप्रथमासमर्थाच्छब्दात्प्राचुर्यविशिष्टस्य प्रस्तुतस्य वचने ऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः / अत्र वचनग्रहणात्प्रकृतस्य प्राचुर्यवैशिष्ट्यसिद्धिः, तादृशस्य लोके मयटो ऽभिधानात्, यथा ऽअन्नमयो यज्ञःऽइति / अत्र ह्यन्नं प्रचुरमस्मिन्नित्यन्नशब्दः प्रथमाविभक्तिशक्तस्तस्मान्मयट् यज्ञस्य प्रकृत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम्
SK
END Bस्Cओम्_१,१.६.१३
SK
START Bस्Cओम्_१,१.६.१४
SK
तद्धेतुव्यपदेशाच् च | BBस्_१,१.१४ |
SK
इतश्च प्राचुर्यार्थे मयट् / यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः- ऽएष ह्येवानन्दयातिऽ इति / आनन्दयतीत्यर्थः / यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति / यथा लोके यो ऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् / तस्मात्प्राचुर्यार्थे ऽपि मयटः संभवादानन्दमयः पर एवात्मा
SK
सूत्रस्थचशब्दो ऽनुक्तसमुच्चयार्थ इति मत्वा व्यचष्टे-इतश्चेति /
SK
तच्चानुक्तं ब्रह्मानन्दस्य निरतिशयत्ववधारणं पूर्वमुक्तम्
SK
END Bस्Cओम्_१,१.६.१४
SK
START Bस्Cओम्_१,१.६.१५
SK
मान्त्रवर्णिकमेव च गीयते | BBस्_१,१.१५ |
SK
इतश्चानन्दमयः पर एवात्मा / यस्मात् ऽब्रह्मविदाप्नोति परम्ऽ इत्युपक्रम्य ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. २.१)
SK
इत्यस्मिन्मन्त्रे यत्प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धरितं, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं, सर्वान्तरं, यस्य विज्ञानाय ऽअन्यो ऽन्तर आत्मान्यो ऽन्तर आत्माऽ इति प्रक्रान्तं तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते ऽअन्यो ऽन्तर आत्मानन्दमयःऽ (तै. २.५) इति / मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तं, अविरोधात् / अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् / न चान्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्माभिधीयते / एतन्निष्ठैव च ऽसैषा भार्गवी वारुणी विद्याऽ (तै. ३.६) तस्मादानन्दमयः पर एवात्मा
SK
FN: यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः / यन्निर्धारितं तदेवेह गीयत इति योजना / एकार्थत्वेसत्युपायोपेयत्वयोगादित्यर्थः /
SK
आनन्दमयतस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह-मान्त्रेति / यस्मादेवं प्रकृतं तस्मात्तन्मान्त्रावर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना / ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धः, तत्राह-मन्त्रेति / ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्-अविरोधादिति / तयोरुपायोपेयभावादित्यर्थः / तर्ह्यन्नमयादीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आह-न चेति / किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिता / तत्र स्थानन्यायेन तदेकार्थब्रह्मवल्ल्या आनन्दमये निष्टेत्याह-एतन्निष्ठैवेति
SK
END Bस्Cओम्_१,१.६.१५
SK
START Bस्Cओम्_१,१.६.१६
SK
नेतरो ऽनुपपत्तेः | BBस्_१,१.१६ |
SK
इतश्चानन्दमयः पर एवात्मा / नेतरः / इतर ईश्वरादन्यः संसारी जीव इत्यर्थः / न जीव आनन्दमयशब्देनाभिधीयते / कस्मात् / अनुपपत्तेः / आनन्दमयं हि प्रकृत्य श्रूयते- ऽसो ऽकामयत / बहु स्यां प्रजायेयेति / स तपो ऽतप्यत / स तपस्तप्त्वा / इदंसर्वमसृजत / यदिदं किञ्चऽ (तै. २.६) इति / तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानं सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः सर्वविकारसृष्टिश्च, न परस्मादात्मनो ऽन्यत्रोपपद्यते
SK
स ईश्वरः तपः सृष्ट्यालोचनमतप्यत कृतवानित्यर्थः / अभिध्यानं कामना / ऽबुहु स्याम्ऽइत्यव्यतिरेकः
SK
END Bस्Cओम्_१,१.६.१६
SK
START Bस्Cओम्_१,१.६.१७
SK
भेदव्यपदेशाच् च | BBस्_१,१.१७ |
SK
इतश्च नानन्दमयः संसारी / यस्मादानन्दमयाधिकारे- ऽरसो वै सः / रसंह्येवायं लब्ध्वानन्दी भवतिऽ (तै. २.७) इति जीवानन्दमयौ भेदेन व्यपदिशति / नहि लब्धैव लब्धव्यो भवति / कथं तर्हि ऽआत्मान्वेष्टव्यःऽ, ऽआत्मलाभान्न परं विद्यतेऽ इति श्रुतिस्मृती, यावता न लब्धैव लब्धव्यो भवतीत्युक्तम् / बाढम् / तथाप्यात्मनो ऽप्रच्युतात्मभास्यैव सतस्तत्वानवबोधनिमित्तो देहादिष्वनात्मस्वात्मत्वनिश्चयो लौकिको दृष्टः / तेन देहादिभूतस्यात्मनो ऽप्यात्मानन्विष्टो ऽन्वेष्टव्यो ऽलब्धो लब्धव्यो ऽश्रुतः श्रोतव्यो ऽमतो मन्तव्यो ऽविज्ञातो विज्ञातव्य इत्यादिभेदव्यपदेश उपपद्यते / प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ३.७.२३) इत्यादिना / परमेश्वरस्त्वविद्याकल्पिताच्छरीरात्कर्तृभोक्तृविज्ञानात्माख्यादन्यः / यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठो ऽन्यः / यथावा धटाकाशादुपाधिपरिच्छिन्नादनुपाधिरपरिच्छिन्न आकाशो ऽन्यः / ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य ऽनेतरो ऽनुपपत्तेःऽ, ऽभेदव्यपदेशाच्चऽ इत्युक्तम्
SK
FN: अधिकारः प्रकरणम् / स आनन्दमयो रसः सारः / अखण्डैकरसस्य / लोकादनपेतो लौकिको ऽप्रामाणिकः /
SK
अधिकारे प्रकरणे / स आननदमयो रसः / ननु लब्धृलब्धव्यभावे ऽप्यभेदः किं न स्यदत आह-नहि लब्धैवेति / ननुलब्धृलब्धव्ययोर्भेदस्यावश्यकत्वे श्रुतिस्मृत्योर्बाधः स्यादित्याशङ्कते-कथमिति / यावता यतस्त्वयेत्युक्तमतः श्रुतिस्मृती कथमित्यन्वयः / उक्तां शङ्कामङ्गीकरोति-बाढमिति / तर्ह्यात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्य कल्पितभेदान्न बाध इत्याह-तथापीति / अभेदे ऽपीत्यर्थः / लौकिकः भ्रमः /
SK
आत्मनः स्वाज्ञानजभ्रमेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेयत्वाद्युक्तिरित्यर्थः / अन्वेष्टव्यो देहादिविविक्ततया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्यन्तरस्यार्थानुवादादपौनरुक्त्यम् / ननु भेदः सत्य एवास्तु, तत्राह-प्रतिषिध्यत इति / अत ईश्वराद्द्रष्टा जीवो ऽन्यो नास्तीति चेज्जीवभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आह-परमेश्वर इति / अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाच्चिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् / कल्पितस्याधिष्ठानाभेदे ऽप्यधिष्ठानस्य ततो भेद इत्यत्र दृष्टान्तमाह-यथेति / सूत्रारूढः स्वतो ऽपि मिथ्या, न जीव इत्यरुच्याभेदमात्रमिध्यात्वे दृष्टान्तान्तरमाह-यथावेति / ननु सूत्रबलाद्भेदः सत्य इत्यत आह-ईदृशं चेति /
SK
कल्पितमेवेत्यर्थः / सूत्रे भेदः सत्य इति पदाभावात्, ऽतदनन्यत्वऽआदिसूत्राणाच्छ्रुत्यनुसाराच्चेति भावः
SK
END Bस्Cओम्_१,१.६.१७
SK
START Bस्Cओम्_१,१.६.१८
SK
कामाच् च नानुमानापेक्षा | BBस्_१,१.१८ |
SK
आनन्दमयाधिकारे च ऽसो ऽकामयत बहुस्यां प्रजायेयऽ (तै. २.६) इति कामयितृत्वनिर्देशान्नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वापेक्षितव्यम् / ऽईक्षतेर्नाशब्दम्ऽ (ब्र. १.१.५) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय
SK
नन्वानन्दात्मकसत्त्वप्रचुरं प्रधानमानन्दमयमस्तु, तत्राह-कामाच्चेति /
SK
अनुमानगम्यमानुमानिकम् / पुनरुक्तिमाशङ्क्याह-ईक्षतेरिति
SK
END Bस्Cओम्_१,१.६.१८
SK
START Bस्Cओम्_१,१.६.१९
SK
अस्मिन्न् अस्य च तद्योगं शास्ति | BBस्_१,१.१९ |
SK
इतश्च न प्रधाने जीवे वानन्दमयशब्दः / यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति / तदात्मना योगस्तद्योगः, तद्भावापत्तिः / मुक्तिरित्यर्थः / तद्योगं शास्ति शास्त्रं- ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते / अथ सो ऽभयं गतो भवति / यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते / अथ तस्य भयं भवतिऽ (तै. २.७) इति / एतदुक्तं भवति-
SK
यदैतस्मिन्नानन्दमये ऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति तदा संसारभयान्न निवर्तते / यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति तदा संसारभयान्निवर्तत इति / तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा / तस्मादानन्दमयः परमात्मेति स्थितम् / इदं त्विह वक्तव्यम्- ऽस वा एष पुरुषो ऽन्नरसमयःऽ / ऽतस्माद्वा एतस्मादन्नरसमयात् / अन्यो ऽन्तर आत्मा प्राणमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा मनोमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा विज्ञानमयःऽ (तै. २.१,२,३,४) इति च विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यर्थात्वं ब्रह्मविषयत्वं चाश्रीयत इति / मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, न / अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः / अत्राह- युक्तमन्नमयादीनामब्रह्मत्वं, तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते, तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति /
SK
अत्रोच्यते- यद्यप्यन्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्मेति न श्रूयते तथापि नानन्दमयस्य ब्रह्मत्वं, यत आनन्दमयं प्रकृत्य श्रूयते- ऽतस्य प्रियमेव शिरः / मोदो दक्षिणः पक्षः / प्रमोद उत्तरः पक्षः / आनन्द आत्मा / ब्रह्म पुच्छं प्रतिष्ठाऽ (तै. २.५) इति / तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम्- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इति, तदिह ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते / तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते / तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः /
SK
नन्वानन्दमयस्यावयवत्वेन ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते, अन्नमयादीनामिव ऽइदं पुच्छं प्रतिष्ठाऽ इत्यादि / तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् /
SK
प्रकृतत्वादिति ब्रूमः /
SK
नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति /
SK
अत्रोच्यते- तथा सति तदेव ब्रह्मानन्दमय आत्मावयवी तदेव च ब्रह्मपुच्छं प्रतिष्ठावयव इत्यसामञ्जस्यं स्यात् / अन्यतरपरिग्रहे तु युक्तं ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं, ब्रह्मशब्दसंयोगात् / नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति / अपिच ब्रह्म पुच्छं प्रतिष्ठा इत्युक्तत्वेदमुच्यते- ऽतदप्येष श्लोको भवति / असन्नेव स भवति / असद्ब्रह्मेति वेद चेत् / अस्ति ब्रह्मेति चेद्वेद / सन्तमेनं ततो विदुरितिऽ (तै. २.६) अस्मिंश्च श्लोके ऽननुकृष्यानन्दमयं, ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति / न चानन्दमयस्यत्मनो भावाभावाशङ्का युक्ता, प्रियमोदादिविशेषस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् / कथं पुनः स्वप्रधानं सद्ब्रह्म, आनन्दमयस्य पुच्छत्वेन निर्दिश्यते- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति /
SK
नैष दोषः / पुच्छवत्पुच्छं , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते, नावयवत्वं, ऽएतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ (बृह. ४.३.३२) इति श्रुत्यन्तरात् / अपिच आनन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् / निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्- ऽ यतो वाचो निवर्तन्ते / अप्राप्य मनसा सह / आनन्दं ब्रह्मणो विद्वान् / न बिभेति कुतश्चनेतिऽ (तै. २.९) / अपिच आनन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् / तथाच सति, ऽयत्र नान्यत्पश्ति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा. ७.२४.१) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरूपरुध्येत / प्रतिशरीरं च प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम् / ब्रह्म तु न प्रतिशरीरं भिद्यते, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तैत्ति. २.१) इत्यानन्तश्रुतेः, ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे. ६.११) इति च श्रुत्यन्तरात् / नचानन्दमयस्याभ्यासः श्रूयते / प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते- ऽरसो वै सः, रसंह्येवायं लब्ध्वानन्दी भवति, को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्ऽ / ऽसैषानन्दस्य मीमांसा भवतिऽ / ऽआनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेतिऽ (तै.२.७.८.९) ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै. ६.६) इति च / यदिच आनन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत्, तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत / न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम / तस्माच्छ्रुत्यन्तरे ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. ३.९.२८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात्, ऽयदेष आकाश आनन्दो न स्यात्ऽ इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् / यत्स्वयं मयडन्तस्यैवानन्दशब्दस्याभ्यासः - ऽएतमानन्दमयात्मानमुपसंक्रामतिऽ (तै. २.८) इति, न तस्य ब्रह्मविषयत्वमस्ति, विकारात्मनामेवान्नमयादीनामनात्मनामुपसंक्रमितव्यानां प्रवाहे पठितत्वात् /
SK
नन्वानन्दमयस्योपसंक्रमितव्यस्यान्नमयादिवद्ब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिफलं निर्दिष्टं भवेत् /
SK
नैष दोषः / आनन्दमयोपसंक्रमणनिर्देशेनैव पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्यनिर्दिष्टत्वात् / ऽतदप्येष श्लोको भवति / यतो वाचो निवर्तन्तेऽ इत्यदिना च प्रपञ्च्यमानत्वात् / या त्वानन्दमयसंनिधाने ऽसो ऽकामयत बहुस्यां प्रजायेयेतिऽ इयं श्रुतिरुदाहृता सा ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति / तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ऽरसो वै सःऽ इत्यादेर्नानन्दमयविषयता /
SK
ननु ऽसो ऽकामयतऽ इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते /
SK
नायं दोषः / ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् / या तु भार्गवी वारुणी विद्या ऽआनन्दो ब्रह्मेति व्यजानात्ऽ इति तस्यां मयडश्रवणात्, प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् / तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते / नचेह सविशेषं ब्रह्म प्रतिपिपादयिषितं, वाङ्मनसगोचरातिक्रमश्रुतेः / तस्मादन्नमयादिष्विवानन्दमये ऽपि विकारार्थ एव मयड्विज्ञेयो न प्राचुर्यार्थः / सूत्राणि त्वेवं व्याख्येयानि- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यत उत स्वप्रधानत्वेनेति / पुच्छशब्दादवयवत्वेनेति प्राप्त उच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ आनन्दमय आत्मेत्यत्र ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यसात् / ऽअसन्नेव स भवतिऽ इत्यस्मिन्निगमनाश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् / विकारशब्दान्नेति चेन्न प्राचुर्यात् / विकारशब्देनावयवशब्दो ऽभिप्रेतः / पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तं, तस्य परिहारो वक्तव्यः /
SK
अत्रोच्यते- नायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः / प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः / अन्नमयादीनां हि शिरआदिषु पुच्छान्तेववयवेःषूक्ते त्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वावयवप्रायापत्त्या ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्याह, नावयवविवक्षया / यत्कारणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थितम् / ऽतद्धेतुव्यपदेशाच्चऽ / सर्वस्य विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते- इदं सर्वमसृजत / यदिदं किञ्च (तै. २.६) इति / नच कारणं सत् ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते / अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि
SK
FN: अनात्म्ये ससंबन्धितयाध्यस्तेन्द्रियजातेनापञ्चाकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, अनिरुक्ते निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनं माया तच्छून्ये /
SK
उदरमिति उत् अपि अरमल्पम् अन्तरं भेदम् / आनन्दमयात्त्विति ब्रह्मण्यान्तरत्वमश्रुतं पुच्छत्वं तु श्रुतमित्यर्थः / पुच्छमित्याधारत्वमात्रं प्रतिष्ठेति / एकनीडमधिष्ठानं सोपादानस्य जगतः / यतो यस्मात् वाचः शक्तिवृत्त्या तमप्रकाश्यैव निवर्तन्ते / प्रतियोगी विरोधी तस्यात्मत्वमपेक्षते / यथा विप्रमयो ग्राम इत्यत्र शूद्रल्पत्वम् / उपक्रमणं बाधः / उपसंक्रतिमितव्यानां विवेकेन त्याज्यानाम् / प्रायापत्तिरवयवक्रमस्य बुद्धौ प्राप्तिः /
SK
अस्मिन्निति विषयसप्तमी आनन्दमयविषयकप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना / जीवस्य प्रधानयोगो ऽप्यस्तीत्यत आह-तदात्मनेति / जीवस्य जीवाभेदो ऽस्तीत्यत आह-मुक्तिरिति / अदृश्ये स्थूलप्रपञ्चशून्ये, आत्मसंबन्धमात्मात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यत्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः / उत् अपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति / वृत्तिकारमतं दूषयति-इदं त्विति / इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्यकस्मात्कारणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वं, अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिव केन दृष्टान्तेनाश्रीयत इतीदं वक्तव्यमित्यन्वयः / प्रश्नं मत्वाशङ्क्यते-मान्त्रेति / स्पुटमुत्तरम् / किमान्तर इति न श्रूयते, किंवा वस्तुतो ऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति-अत्रोच्यते-यद्यपीति / विकारप्रायपाठानुग्रहीतमयट्श्रुतेः सावयवत्वलिङ्गाच्चेत्याह-तथापीति / इष्टार्थस्य दृष्ट्या जातं सुखं प्रियं, स्मृत्या मोदः, स चाभायासात्प्रकृष्टः प्रमोदः, आनन्दस्तु कारणं, बिम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकार्यः ब्रह्मशुद्धमिति श्रुत्यर्थः / द्वितीयं प्रत्याह-तत्र यदिति / यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञायते / तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता / तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् / एवं पुच्छवाक्ये प्रकृतस्वप्रधानब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः / ब्रह्मणः प्रधानत्वं पुच्छश्रुतिविरुद्धमिति शङ्कते-नन्विति / अत्र ब्रह्मशब्दात्प्रकृतस्वप्रधानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तौ, एकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसंजातविरोधिनो बलीयस्तवात्, पुच्छशब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह-प्रकृतत्वादिति / प्रकरमस्यान्यथासिद्धिमाह-नन्विति / एकस्यैवगुमत्वं प्रधानत्वं च विरुद्धमित्याह-अत्रोच्यत इति / तत्र विरोधनिरासायान्यतरस्मन्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह-अन्यतरेति / वाक्यशेषाच्चैवमित्याह-अपिचेति / तत्तत्रब्रह्मणिश्लोको ऽपीत्यर्थः / पुच्छशब्दस्य गतिं पृच्छति-कथं पुनरिति / त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आनन्दमयलाङ्गूलत्वाभावात् / पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता, प्रतिष्ठापदयोगात्, ब्रह्मशब्दस्य मुख्यार्थलाभाच्च / त्वत्पक्षे ब्रह्मपदस्याप्यवयवलक्षकत्वादित्याह-नैष दोष इति / पुच्छमित्याधारत्वमात्रमुक्तम् / प्रतिष्ठत्वेकनीडत्वम् / एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः / ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणिसमन्वितमिष्टं, तत्र किमुदाहरमभेदेनेत्याशङ्क्याह-अपिचेति / यत्र सविशेषत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्विशेषमुच्यत इत्याह-निर्विशेषमिति / निवर्तन्ते अशक्ता इत्यर्थः / सविशेषस्य मृषात्वादभयं चायुक्तम् / अतो निर्विशेषज्ञानार्थं पुच्छवाक्यमेवोदाहरणमिति भावः / प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेषश्रुतिबाध उक्तः / दोषान्तरमाह-अपिचेति / प्रत्ययार्थत्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणं, विशेषस्य यः प्रतियोगी विरोधीति तस्याल्पत्वमपेक्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् / अस्तु को दोषः, तत्राह-तथाचेति / प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तमसो ऽल्पस्याप्याभानात् / परन्त्वानन्दमयपदस्य प्रचुरानन्दलक्षणादोषः स्यादिति मन्तव्यम् / किञ्च भिन्नत्वाद्घटवन्न ब्रह्मतेत्याह-प्रतिशरीरमिति / नन्वभ्यस्यमानानन्दपदं लक्षणयानन्दमयपरमित्यभ्याससिद्धिरित्यत आह-यदि चेति / आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्यससिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः / अयमभ्यासः पुच्छब्रह्मण इत्याह-तस्मादिति / उपसंक्रमणं बाधः / ननु ऽस य एवंवित्ऽइति ब्रह्मविदं प्रक्रम्योपसंक्रमणवाक्येन फलं निर्दिश्यते तत्तस्याब्रह्मत्वे न सिध्यतीति शङ्कते-नन्विति / उपसंक्रमणं प्राप्तिरित्यङ्गीकृत्य विशिष्टप्राप्त्युक्त्या विशेषणप्राप्तिफलमुक्तमित्याह-नैष इति / ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधावधिप्रत्यगानन्दलाभोर्ऽथादुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह-तदपीति / तदपेक्षत्वादिति / कामयितृपुच्छब्रह्मविषयत्वादित्यर्थः / यदुक्तं पञ्चमस्थानस्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह-यत्त्विति / या त्वित्यर्थः / मयट्श्रुत्या सावयवत्वादिलिङ्गेन च स्थानं बाध्यमिति भावः / गोचराति क्रमो गोचरत्वाभावः / वेदसूत्रयोर्विरोधे ऽगुणे त्वन्याय्यकल्पनाऽइति सूत्राण्यन्यथा नेतव्यानीत्याह-सूत्राणीति / पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् / तर्ह्यत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यात्संशयो ऽस्तीत्यवयवप्रायपाठो निश्चायक इति पूर्वाधिकरणसिद्धान्तयुक्त्यभावेन पूर्वपक्षयति-पुच्छशब्दादिति / तथाच प्रत्युदाहरणसंगतिः / पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् / वेदान्तवाक्यसमन्वयोक्तेः श्रुत्यादिसंगतयः स्फुटा एव / सूत्रस्थानन्दमयपदेन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते / विक्रियते ऽनेनेति विकारो ऽवयवः / प्रायापत्तिरिति / अवयवक्रमस्य बुद्धौ प्राप्तिरित्यर्थः / अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति / तत्रानन्दमयस्यापि अवयवान्तरोक्त्यनन्तरं कस्मिंश्चित्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् / तस्यानन्दमयाधारत्वेनावश्यंवक्तव्यत्वादित्यर्थः / तद्धेतुव्यपदेशाच्च
SK
तस्य ब्रह्मणः सर्वकार्यहेतुत्वव्यपदेशात् / प्रियादिविशिष्टत्वाकारेणानन्दमयस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः / मान्त्रवर्णिकमेव च गीयते
SK
ऽब्रह्मविदाप्नोति परम्ऽइति यस्य ज्ञानान्मुक्तिरुक्ता, यत् ऽसत्यम् ज्ञानम्ऽइति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते ब्रह्मपदसंयोगात् / नानन्तमयवाक्य इत्यर्थः / नेतरौ अनुपपत्तेः
SK
इतरा आनन्दमयो जीवो ऽत्र न प्रतिपाद्यः / सर्वस्रष्टृत्वाद्यनुपपत्तेरित्यर्थः / भेदव्यपदेशाच्च
SK
अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्याप्रतिपाद्यतेत्यर्थः / आनन्दमयो ब्रह्म, तैत्तरीयकपञ्चमस्थानस्थत्वात् भृगुवल्लिस्थानन्दवदित्याशङ्क्याह-कामाच्च नानुमानापेक्षा
SK
काम्यत इति कामानन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्मत्वदृष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्य, विकारार्थकमयड्विरोधादित्यर्थः / भेदव्यपदेशाच्चेत्सगुणं ब्रह्मात्र वेद्यं स्यादित्याशङ्क्याह-अस्मिन्नस्य च तद्योगं शास्ति
SK
गुहानिहितत्वेन प्रतीचि ऽस एकःऽइत्युपसंहृते पुच्छावाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य ऽयदा हि ऽइति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गुणब्रह्मौक्यज्ञानार्थं जीवभेदानुवाद इत्यभिप्रेत्याह-अपराण्यपि
SK
END Bस्Cओम्_१,१.६.१९
SK
START Bस्Cओम्_१,१.७.२०
SK
अन्तरधिकरणम् / २०-२१
SK
अन्तस् तद्धर्मोपदेशात् | BBस्_१,१.२० |
SK
इदमाम्नायते- ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्वं एव सुवर्णःऽ ऽतस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदऽ ऽइत्यधिदैवतम्ऽ ( छा. १.६.७.८) / ऽअथाध्यात्मम्ऽ ऽअथ य एषो ऽन्तरपक्षिणि पुरुषो दृश्यतेऽ (छा. १.७.१.५) इत्यादि / तत्र संशयः- किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यात्वेन श्रूयते किंवा नित्यसिद्धः परमेश्वर इति / किं तावत्प्राप्तं, संसारीति / कुतः रूपवत्त्वश्रवणात् / आदित्यपुरुषे तावत् ऽहिरण्यश्मश्रुःऽ इत्यादि रूपमुदाहृतम् / अक्षिपुरुषे ऽपि तदेवातिदेशेन प्राप्यते- ऽतस्यैतस्य तदेव रूपं यदमुष्य रूपम्ऽ इति / नच परमेश्वरस्य रूपवत्त्वं युक्तम्, ऽअशब्दर्मस्पामरूपमव्ययम्ऽ (का. १.३.१५) इति श्रुतेः, आधारश्रवणाच्च- ऽय एषो ऽन्तरादित्येऽ, ऽय एषो ऽन्तरक्षिणिऽ इति / नह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत / ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. ७.२४.१) इति / ऽआकाशवत्सर्वगतश्च नित्यःऽ इति च श्रुती भवतः /
SK
ऐश्वर्यमर्यादाश्रुतेश्च / ऽ स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽ (छां १.६.८) इत्यादित्यपुरुषस्यैश्वर्यमर्यादा / ऽस एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चऽ इत्यक्षिपुरुषस्य / नच परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्, ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ. ४.४.२२) इत्यविशेषश्रुतेः / तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः- ऽअन्तस्तद्धर्मोपदेशात्ऽ इति, ऽय एषो ऽन्तरादित्येऽ ऽय एषो ऽन्तरक्षिणिऽ इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी / कुतः, तद्धर्मोपदेशात् / तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः / तद्यथा- ऽतस्योदिति नामऽ इति श्रावयित्वा अस्यादित्यपुरुषस्य नाम ऽस एष सर्वेभ्यः पाप्मभ्य उदितःऽ इति सर्वपाप्मापगमेन निर्वक्ति / तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति- ऽयन्नाम तन्नामऽ इति / सर्वपाप्मापगमश्च परमात्मन एव श्रूयते- ऽय आत्मापहतपाप्माऽ (छां. ८.७.१) इत्यादौ / तथा चाक्षुषे पुरुषे ऽसैवर्क्तत्समास तदुक्थं तद्यजुस्तद्ब्रह्मऽ इत्यृक्समासाद्यात्मकतां निर्धारयति / सा च परमेश्वरस्योपपद्यते,
SK
सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः / पृथिव्यग्न्याद्यात्मके चाधिदैवतं ऋक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह- ऽतस्यर्क्च साम च गेष्णौऽ इत्यधिदैवतम् / तथाध्यात्ममपि- ऽ यावमुष्य गेष्णौ तौ गेष्णौऽ इति / तच्च सर्वात्मन एवोपपद्यते / तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयःऽ (छा. १.७.६) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति / तच्च परमेश्वरपरिग्रहे धटते, ऽयद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा / तत्तदेवावगच्छ त्वं मम तेज्ॐशसंभवम् / (१०.४१) इति भगवद्गीतादर्शनात् /
SK
लोककामेशितितृत्वमपि निरङ् कुशं श्रूयमाणं परमेश्वरं गमयति / यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः- स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् / ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद / सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसिऽ इति स्मरणात् /
SK
अपिच यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम्- ऽशब्दर्मस्पर्शमरूपमव्ययम्ऽ इत्यादि / सर्वकारणत्त्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते- ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसःऽ (छां ३.१४.२) इत्यादिना / तथा हिरण्यश्मश्रुत्वादिनिर्देशो ऽपि भविष्यति / यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यते- स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति, सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः / ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव / तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते
SK
FN: अन्तरादित्ये आदित्यमण्डलमध्ये / हिरण्मयो ज्योतिर्मयः / अप्राणखान्नखाग्रमभिव्याप्य / कपेर्मर्कटस्यासः पृष्ट(पुच्छ) भागो ऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती, तस्य उदितीति उदित उद्गतः सकार्यसर्वपापास्पृष्ट इत्यर्थः / स एष इत्याधिदैविकपुरुषोक्तिः / अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता ये च देवानां कामा भोगास्तेषां चेत्यर्थः / यौ सर्वात्मकऋक्सामात्मकौ तावमुष्यादित्यरथस्य गेष्णौ पादपर्वणी / सनिर्याञ्चायां /
SK
अन्तस्तद्धर्मोपदेशात् / छान्दोग्यवाक्यमुदाहरति-अथ य इति / अथेत्युपास्तिप्रारम्भार्थः / हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णो ऽपि मूर्तिमानुपासकैर्दृश्यते / मूर्तिमाह-हिरण्येति / प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ्ष नेत्रयोर्विशेषमाह-तस्येति / कपेर्मर्कटस्य आसः पुच्छभागो ऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः / उपासनार्थमादित्यमण्डलं स्थानं, रूपं चोक्त्वा नाम करोति-तस्योदिति / तन्नाम निर्वक्ति-स इति / उदित उद्गतः / सर्वपाप्मास्पृष्ट इत्यर्थः / नामाज्ञान फलमाह-उदेति हेति / देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह-अथेति / पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत्, रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वदृष्टान्तसंगत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति-संसारीति / अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् / अक्षिणीत्याधारश्रवणाच्च संसारीति संवन्धः / श्रुतिमाह-स एष इति / आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः / स एषो ऽक्षिस्थः पुरुष एतस्मादक्ष्णो ऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते / अतः श्रुतेश्च संसारित्यर्थः / ऽएष सर्वेश्वरःऽइत्यविशेषश्रुतेरिति संबन्धः / भूताधिपतिर्यमः भूतपाल इन्द्रादिश्च एष एव / किञ्च जलानामसंकराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव / अतः सर्वेशवर इत्यर्थः / सूत्रं व्याचष्टे-य एष इति / यद्यप्येकस्मिन्वाक्ये प्रथमश्रुतानुसारेण चरमं नेयं, तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलं, ध्यानार्थमीश्वरे नेतुं शक्यं च / सर्वपाप्मासङ्गित्वं सर्वात्मैकत्वं तु सफलं, जीवे नेतुमशक्यञ्चेति प्रबलंम् / नच ऽन ह वै देवान्पापं गच्छतिऽइति श्रुतेरादित्यजीवस्यापि पाप्मास्पर्शित्वमिति वाच्यम् / श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमाणपाप्मासंम्बन्धे तत्फलास्पर्शे वा तातपर्यात्, तेषां संचितपापाभावे ऽक्षीणे पुण्ये मर्त्यलोकं विशन्ति ऽइत्ययोगात्यभिप्रेत्याह--सर्वपाप्मापगमश्च परमात्मन एवेति / सार्वात्म्यमाह-तथेति / अत्र तच्छब्दैश्चाक्षुषः पुरुष उच्यते / ऋगाद्यपेक्षया लिङ्गव्यत्ययः / उक्थं शस्त्रविशेषः, तत्साहचर्यात्साम स्तोत्रम्, उक्थादन्यच्छस्त्रमृगुच्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः / पृथिव्याग्न्याद्यात्मक इति / आधिदैवतमृक् पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा पञ्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णरूपमुक्तं पञ्चविधम् / अध्यात्मं तु ऋक्, वाक्चक्षुःश्रोत्राक्षिस्थशुक्लभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनो ऽक्षिगतातिनीलरूपं चतुर्विधमुक्तम् / एवं क्रमेण ऋक्सामे अनुक्रम्याह श्रुतिः-तस्येति / यौ सर्वात्मकर्क्सामात्मकौ गेष्णावमुष्यादित्यस्थस्यै, तावेवाक्षिस्थस्य गेष्णौ पर्वणीत्यर्थः / तच्चेति / ऋत्क्सामगेष्णत्वमित्यर्थः / सर्वगानगेयत्वं लिङ्गान्तरमाह-तद्य इति / तत्तत्र लोके, धनस्य सनिर्लाभो येषां धनसनयः, विभूतिमन्त इत्यर्थः / ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह-यद्यदिति / पशुवित्तादिर्विभूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलं, तद्युक्तं सत्वं रजादिकं मदंश एवेति तद्गानमीश्वरस्यैवेत्यर्थः / निरङ्गुशमनन्याधीनम् / एषा विचित्ररूपा मूर्तिर्मायाविकृतित्वान्माया मया सृष्टेत्यर्थः /
SK
तदुक्तम्-ऽअशब्दम्ऽइत्यादिवाक्यं तञ्ज्ञेयपरमित्याह-अपिचेति / तर्हि रूपं कुतः, तत्राह-सर्वेति / यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात्प्राप्तरूपवत्वं ऽसर्वकर्माऽइत्यादिश्रुत्या निर्दिश्यत इति योजना / मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं निराकरोति-ऐश्वर्येति /
SK
अध्यात्माधिदैवतध्यानयोर्विभागः पृथक्प्रयोगस्तदपेक्षमेव, नत्वैश्वर्यस्य परिच्छेदार्थमित्यर्थः
SK
END Bस्Cओम्_१,१.७.२०
SK
START Bस्Cओम्_१,१.७.२१
SK
भेदव्यपदेशाच् चान्यः | BBस्_१,१.२१ |
SK
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्यो ऽन्य ईश्वरो ऽन्तर्यामी, ऽय आदित्ये तिष्ठन्नादित्यान्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतःऽ (बृ. ३.७.९) इति श्रुत्यन्तरे भेदव्यपदेशात् / तत्र हि ऽआदित्यादन्तरो यमादित्यो न वेदऽ इति वेदितुरादित्याद्विज्ञानात्मनो ऽन्तर्यामी स्पष्टं निर्दिश्यते / स एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात् / तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् /
SK
ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह-भेदेति / आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह-अस्तीति / आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति-यमिति / अशरीरस्य कथं नियन्तृत्वं, तत्राह-यस्येति / अन्तर्यामिपदार्थमाह-य इति / तस्यानात्मत्वनिरासायाह-एष त इति /
SK
ते तव स्वरूपमित्यर्थः / आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः / तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम्
SK
END Bस्Cओम्_१,१.७.२१
SK
START Bस्Cओम्_१,१.८.२२
SK
८ आकाशाधिकरणम् / सू. २२
SK
आकाशस् तल्लिङ्गात् | BBस्_१,१.२२ |
SK
इदमामनन्ति- ऽअस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्ऽ (छान्दो. १.९.१) इति / तत्र संशयः- किमाकाशशब्देन परं ब्रह्माभिधीयत उत भूताकाशमिति / कुतः संशयः, उभयत्र प्रयोगदर्शनात् / भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः / ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते / यत्र वाक्यशेषवशादसाधारणश्रवणाद्वा निर्धारितं ब्रह्म भवति, यथा- ऽयदेष आकाश आनन्दो न स्यात्ऽ (तै. २.७) इति ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. ८.१४.१) इति चैवमादौ / अतः संशयः / किं पुनरत्र युक्तं, भूताकाशमिति / कुतः, तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति / नचायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुं, अनेकार्थत्वप्रसङ्गात् / तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हति /
SK
विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति / नच मुख्यसंभवे गौणोर्ऽथो ग्रहणमर्हति / संभवति चेह मुख्यस्यैवाकाशस्य ग्रहणम् /
SK
ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ इत्यादिः /
SK
नैष दोषः / भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः / विज्ञायते हि- ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः / आकाशाद्वायुः / वायोरग्निःऽ (तै. २.१) इत्यादि / ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि / तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः- ऽआकाशस्तल्लिङ्गात्ऽ आकाशशब्देन ब्रह्मणो ग्रहणं युक्तम् / कुतः, तल्लिङ्गात् / परस्य हि ब्रह्मण इदं लिङ्गम्- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ इति / परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा /
SK
ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम् /
SK
सत्यं दर्शितम् / तथापि मुलकारणस्य ब्रह्मणो ऽपरिग्रहादाकाशादेवेत्यवधारणं, सर्वाणीति च भूतविशेषणं नानुकूलं स्यात् / तथा ऽआकाशं प्रत्यस्तं यन्तिऽ इति ब्रह्मलिङ्गं ऽआकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्ऽ इति च ज्यायस्त्वपरायणत्वे / ज्यायस्त्वं ह्यानापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम्- ऽज्यायान्पृथिव्या ज्यायमन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छां ३.१४.३) इति / तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येवोपपन्नतरम् / श्रुतिश्च भवति- ऽविज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्ऽ (बृ. ३.९.२८) इति / अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिना आकाशः परिगृहीतः, तं चाकाशमुद्गीथे संपाद्योपसंहरति- ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छां १.९.२) इति / तच्चानन्त्यं ब्रह्मलिङ्गम् / यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमः- प्रथमतरं प्रतीतमपि सत् वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते / दर्शितश्च ब्रह्मण्यप्याकाशशब्दः- ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ इत्यादौ / तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते- ऽऋचो अक्षरे परमे व्योमन्देवा अधि विश्वे निषेदुःऽ (ऋ.सं १.१६४.३९) ऽसैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिताऽ (तै. ३.६) ऽॐ कं ब्रह्म खंब्रह्मऽ (छां ४.१०.५) ऽखं पुराणम्ऽ (बृ. ५.१) इति चैवमादौ / वाक्योपक्रमे ऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा / ऽअग्निरधीते ऽनुवाकम्ऽ इति हि वाक्योपक्रमगतो ऽप्यग्निशब्दो माणवकविषयो दृश्यते / तस्मादाकाशशब्दं ब्रह्मेति सिद्धम्
SK
FN: वेदितुः प्रमातुः, विज्ञानात्मनः अन्तःकरणोपहितात् / अस्येति शालावत्यो ब्राह्मणो जैवराजं पृच्छति / निर्वहिता उत्पत्तिस्थितिहेतुः, ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः तन्नामरूपास्पृष्टं ब्रह्मेति वाक्योषादत्राकाशो ब्रह्मेत्यर्थः / रातेर्धनस्य दातुः यजमानस्य / देशतो ऽनन्तत्वं परत्वं, गुणत उत्कृष्टत्वं वरीयस्त्वं, कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् / परेभ्यः स्वरादिभ्यो ऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् / व्योमन् व्योम्नि, परमे प्रकृष्टे, अश्ररे कूटस्थे ब्रह्मणि, ऋचो ऋगुपक्षिताः सर्वे वेदा ज्ञापकाः सन्ति / यस्मिन्नक्षरे विश्वेदेवा अधिनिषेदुरधिष्ठिताः /
SK
भवतु रूपवत्त्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनम् / इह त्वाकाशपदश्रुतिर्लिङ्गाद्बलीयसीति प्रत्युदाहणेन प्राप्ते प्रत्याह-आकाशस्तल्लिङ्गादिति / छन्दोग्यवाक्यमुदाहरति-इदमिति / शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्विलोकस्यान्यस्य च क आधार इति / राजाब्रूते, ऽआकाश इति हऽइति / ऽयदेष आकाशःऽइत्यानन्दत्वस्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम् / ऽआकाशो वै नामऽइत्यत्र ऽतद्ब्रह्मऽइति वाक्यशेषादिति विभागः / निर्वहिता
SK
उत्पत्तिस्थितिहेतुः / ते नामरूपे, यदन्तरा यस्माद्भिन्ने / यत्र कल्पितत्वेन मध्ये स्त इति वार्थः / अक्ष पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् / उपास्ये स्पष्टब्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादिसंगतयः / स्पष्टमत्र भाष्यम् / तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादेवकारश्रुतिबाधः, सर्वश्रुतेश्चाकाशातिरिक्तविषयत्वेन संकोचः स्यादित्याह-सत्यं दर्शितमिति / ब्रह्मणस्तु सर्वात्मकत्वात् ऽतस्मादेव सर्वम्ऽइति श्रुतिर्युक्तेति भावः / तथा सर्वलयाधारत्वं, निरतिशयमहत्त्वं, स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह-तथा आकाशमित्यादिना / रातेर्धनस्य दातुः / रातिरिति पाटे बन्धुरित्यर्थः / लिङ्गान्तरमाह-अपि चेति / दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्गीथविद्याकुशला विचारयामासुः, किमुद्गीथस्य परायणमिति / तत्र स्वर्गादागताभिरद्भिर्जीवितेन प्राणेन क्रियमाणोद्गीथस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच / तं शालावत्यस्य पक्षं ऽअन्तवद्वै ते किल शालावत्यसामऽइति राजा निन्दित्वानन्तमेवाकाशं वक्ति / भूताकाशोक्तावन्तवत्त्वदोषतादवस्थ्यादित्यर्थः / नन्वाकाशो ऽनन्त इति न श्रुतमित्याशङ्क्याह-तं चेति / उद्गीथ आकाश एवेति संपादनादुद्गीथस्यानन्तत्वादिकं न स्वत इति भावः / स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रसतमद्वादिर्गुणैरुत्कृष्टः, अतो ऽक्षरान्तरेभ्यो वरीयान् / श्रेष्ठ इत्यर्थः / परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् / परश्चासौ वरेभ्यो ऽतिशयेन वरः / परोवरीयानित्यर्थः / प्राधम्यात्, श्रुतत्वाच्चाकाशशब्दो बलीयानित्युक्तं स्मारयति-यत्पुनरिति / एवकारसर्वशब्दानुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय ऽत्यजेदेकं कुलस्यार्थेऽइति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह-अत्र ब्रूम इति / आकाशपदाद्भूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् / तत्र युक्तिमाह-दर्शितश्चेति / आकाशपदाद्गौणार्थस्य ब्रह्मणो ऽपि प्रथमप्रतीतिरस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः / अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति / प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः / ओङ्कारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत / श्रुत्यन्तरप्रयोगमाहःखं पुराणमिति / व्याप्यनादि ब्रह्मेत्यर्थः / ऽकं ब्रह्म खं ब्रह्मऽइति छान्दोग्यम्, ऽॐ खं ब्रह्म खं पुराणम्ऽइति बृहदारण्यकमिति भेदः / किञ्च तत्रैव प्रथमानुसारेणोत्तरं नेयं, यत्र तन्नेतुं शक्यम् / यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमित्याह-वाक्येति / तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_१,१.८.२२
SK
START Bस्Cओम्_१,१.९.२३
SK
९ प्राणाधिकरणम् / सू. २३
SK
अत एव प्राणः | BBस्_१,१.२३ |
SK
उद्गीथे- ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ताऽ इत्युपक्रम्य श्रूयते- कतमा सा देवतेति प्राणा इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ताऽ (छां. १.११.४,५) इति / तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ / ऽप्राणबन्धनं हि सोम्य मनःऽ (छां. ६.८.२) ऽप्राणस्य प्राणम्ऽ (बृ. ४.४.१८)
SK
इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तु प्रसिद्धतरो लोकवेदयोः, अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः / किं पुनरत्र युक्तम् / वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् / तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम /
SK
ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम् / इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते /
SK
न / मुख्यो ऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात् / एवं ह्याम्नायते- ऽयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येते प्राणं चक्षुः प्राणं मनः स यदा प्रबुध्यते प्राणदेवाधि पुनर्जायन्तेऽ (श.ब्रा. १०.३.३.६) इति. प्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते प्रबोधकाले च प्रादुर्भवन्तीति / इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणे ऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः / अपिचादित्यो ऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यन्तरं निर्दिश्येते / नच तयोर्ब्रह्मत्वमस्ति, तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह- ऽअत एव प्राणःऽ इति / ऽतल्लिङ्गात्ऽ इति पूर्वसूत्रे निर्दिष्टम् / अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति / प्राणस्यापि हि ब्रह्मलिङ्गसंबन्धः श्रूयते- ऽसर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहतेऽ (छां १.११५) इति / प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः /
SK
ननूक्तं मुख्यप्राणपरिग्रहे ऽपि संवेशनोद् गमनदर्शनमविरुद्धं, स्वापप्रबोधयोर्दर्शनादिति /
SK
अत्रोच्यते- स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम् / इहतु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानां, ऽसर्वाणि ह वा इमानि भूतानिऽ इति श्रुतेः / यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते तदापि ब्रह्मलिङ्गत्वमविरुद्धम् /
SK
ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणे ऽप्ययं प्राणाच्च प्रभवं शृणुमः- ऽयदा सुप्तःस्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येतिऽ (कौ. ३.३) इति /
SK
तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव / यत्पुनरन्नादित्यसंनिधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम् / वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतां प्रतीयमानायां संनिधानस्याकिञ्चित्करत्वात् / यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वं, तदाकाशशब्दस्येव प्रतिविधेयम् / तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् / अत्र केचिदुदाहरन्ति- ऽप्राणस्य प्राणम्ऽ, ऽप्राणबन्धनं हि सोम्य मनःऽ इति च / तदयुक्तम् / शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः / यथा पितुः पितेति प्रयोगे ऽन्यः पिता षष्टीनिर्दिष्टो ऽन्यः प्रथमानिर्दिष्टः पितुः पितेति गम्यते, तद्वत् ऽप्राणस्य प्राणम्ऽ इति शब्दभेदात्प्रसिद्धात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते / नहि स एव तस्येति भेदनिर्देशार्हे भवति / यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते / यथा ज्योतिष्टोमाधिकारे- ऽवसन्ते वसन्ते ज्योतिषा यजेतऽ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ऽप्राणबन्धनं हि सोम्य मनःऽ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् / अतः संशयविषयत्वान्नैतदुदाहरणं युक्तम् / प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः
SK
FN: चाक्रायणर्षिर्धनार्थी राज्ञो यज्ञं गत्वोवाच- हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमन्वायत्तानुगता / संवेशनोद्गमनं लयोदयौ / तर्हि तस्यामवस्थायां, वाक् अनुक्तकर्मेन्द्रियोपलक्षणम्, चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणां, बुद्धिरपि मनसा लक्ष्यते / भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः / वाक्यात्संनिधानं दुर्लभमित्यर्थः / प्राणः परमात्मा बन्धनमाश्रयः स्वरूपं यस्येति विग्रहः /
SK
आकाशवाक्योक्तन्यायं तदुत्तरवाक्ये ऽतिदिशति-अत एव प्राणः / उद्गीथप्रकरणमिति ज्ञापनार्थमुद्गीथ इति भाष्यपदम् / उद्गीथप्रकरणे श्रूयत इत्यन्वयः / कश्चिदृषिश्चाक्रायणः प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थं, तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति / ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति / उत्तरम्, प्राण इति / प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तमभिलक्ष्योज्जिहते उत्पद्यन्त इत्यर्थः / अतिदेशत्वात्पूर्ववत्संशयादि द्रष्टव्यमित्युक्तं विवृणोति-प्राणेति / मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषुप्तावेकीभवति / प्राणस्य वायोः प्राणंप्रेरकं तस्य सत्तास्फूर्तिप्रदमात्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः / पूर्वेण गतर्थात्वात्पृथक्सूत्रं व्यर्थमिति शङ्कते-ननु पूर्ववदिति / अधिकाशङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह-न / मुख्ये ऽपीति / तर्हि तदा चक्षुरप्येतीत्येवंप्रकारेण सर्वत्र संबन्धः / नन्वत्रेन्द्रियाणां प्राणे लयोदयौ श्रूयेते, तावता महाभूतलयादिप्रतिपादकवाक्यशेषोपपत्तिः कथमित्यत आह-इन्द्रियसारत्वादिति / ऽतस्य ह्येष रसःऽइति श्रुतेः / इन्द्रियाणि लिङ्गात्मरूपाणि अपञ्चीकृतभूतानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्यशेषोपपत्तिरित्यर्थः / अब्रह्मसहपाठाच्च प्राणो न ब्रह्मेत्याह-अपि चेति / उद्गातृप्रतिहर्तृभ्यामुद्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रायणेनादित्यो ऽन्नं च निर्दिश्यते / ऽआदित्य इति होवाचऽ ऽअन्नमिति होवाचऽइति श्रुतावित्यर्थः / सामान्यं सन्निधानम् / संनिध्यनुग्रहीतप्रथमश्रुतप्राणश्रुत्या मुख्यप्राणनिर्णये तद्दृष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्षफलम्, सिद्धान्ते ब्रह्मदृष्टिरूपोपास्तिः / तस्याधिकरणस्यातिदेशत्वमेव पूर्वेण संगतिरिति विभागः / भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रं तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहे ऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह-यदापीति / भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः / तस्य तद्योनित्वं श्रुत्याशङ्कते-नन्विति / अथ यदा सुषुप्तो जीवः प्राणे ब्रहमण्येकीभवति तदा एनं प्राणं सविषयवागदयो ऽपियन्तीत्यर्थः / अत्र जीवाभन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह-तत्रापीति / वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह-तदयुक्तमिति / एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः / प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह-तदाकाशशब्दस्येवेति / वृत्तिकृतामुदाहरणं संशयाभावेनायुक्तमित्याह-अत्रेत्यादिना / शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति-यस्य चेति
SK
END Bस्Cओम्_१,१.९.२३
SK
START Bस्Cओम्_१,१.१०.२४
SK
ज्योतिश्चरणाधिकरणम् / सू. २४-२७
SK
ज्योतिश् चरणाभिधानात् | BBस्_१,१.२४ |
SK
इदमामनन्ति- ऽअथ यदतः परो ज्योतिर्दीप्यते विश्वतःपृष्टेषु सर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिःऽ (छा. ३.१३.७) इति / तत्र संशयः-किमिह ज्योतिःशब्देनादित्यादि ज्योतिरभिधीयते किंवा परमात्मेति / अर्थान्तरविषयस्यापि शब्दस्य तल्लिङ्गादब्रह्मविषयत्वमुक्तम् / इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते / किं तावत्प्राप्तम् / आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति / कुतः, प्रसिद्धेः / तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्वी वीषयौ प्रसिद्धौ / चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते / तस्या एवानुग्राहकमादित्यादिकं ज्योतिः / तथा ऽदीप्यतेऽ इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा / नहि रूपादिहीनं ब्रह्म ऽदीप्यतेऽ इति मुख्यां श्रुतिर्महति / द्युमर्यादत्वश्रुतेश्च / नहि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता / कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् / ऽपरो दिवो ज्योतिःऽ इति च ब्राह्मणम् /
SK
ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम् / अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् /
SK
न / अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति /
SK
इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् /
SK
न / प्रयोजनान्तरप्रयुक्तस्यैवादित्यदेरुपास्यत्वदर्शनात् / ऽतासां त्रिवृतं त्रिवृतमेकैकां करवाणिऽ (छा. ६.३.३) इति चाविशेषश्रुतेः / नचात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् / अस्तु तर्हि त्रिवृत्कृतमेवत् तेजो ज्योतिःशब्दम् /
SK
ननूक्तमर्वागपि दिवो ऽवगम्यते ऽग्न्यादिकं ज्योतिरिति /
SK
नैष दोषः / सर्वत्रापि गम्यमानस्य ज्योतिषः ऽपरो दिवःऽ इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते / नतु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी / ऽसर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेषुऽ इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् / ऽइदं वाव तद्यदिदमस्मिन्नान्तः पुरुषे ज्योतिःऽ (छा. ३.१३.७) इति च कौक्षेये ज्योतिरषि परं ज्योतिरध्यस्यमानं दृश्यते / सारूप्यनिमित्ताश्चाध्यसा भवन्ति / यथा- ऽतस्य भूरिति शिर एकमेतदक्षरम्ऽ (बृ. ५.५.३) इति / कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् / ऽतस्यैषा दृष्टिःऽ (छा. ३.१३.७) ऽतस्यैषा श्रुतिःऽ इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् / ऽतदेतद्दृष्टं च श्रुतं चेप्युपासीतऽ इति च श्रुतेः / ऽचक्षुष्यः श्रुतो भवति य एवं वेदऽ (छा. ३.१३.८) इति चाल्पफलश्रवणादब्रह्मत्वम् / महते हि फलाय ब्रह्मोपासनमिष्यते /
SK
नचान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषो ऽस्ति ब्रह्मलिङ्गम् / नच पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ऽगायत्री वा इदं सर्वं भूतम्ऽ इति छन्दोनिर्देशात् / अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यादेवमपि न तस्येह प्रत्यभिज्ञानमस्ति / तत्र हि ऽत्रिपादस्यामृतं दिविऽ (३.१२.१,६) इति द्यौरधिकरणत्वेन श्रूयते / अत्र पुनः ऽपरो दिवो ज्योतिःऽ इति द्यौर्मर्यादात्वेन / तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः-ज्योतिरिह ब्रह्म ग्राह्यम् / कुतः. चरणाभिधानात् / पादाभिधानादित्यर्थः / पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्- ऽतावानस्य महिमा ततो ज्यायांश्च पूरुषः / पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इत्यनेन मन्त्रेण / तत्र यच्चतुष्पादो ब्रह्मणस्त्रिपादमृतं द्युसंबन्धिरूपं निर्दिष्टं तदेवेह द्युसंबन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते / तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् / न केवलं पूर्ववाक्याज्ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः, परस्यामपि शाण्डिल्यविद्ययामनुवर्तिष्यते ब्रह्म / तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् /
SK
यत्तूक्तम्- ऽज्योतिरदीप्यतेऽ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति /
SK
नायं दोषः / प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् / दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसंभवात् / ऽयेन सूर्यस्तपति तेजसेद्धःऽ (तै.ब्रा. ३.१२.९.७) इति च मन्त्रवर्णात् / यद्वा नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् / ऽवाचैवायं ज्योतिषास्तेऽ (बृ. ४.३.५), ऽमनो ज्योतिर्जुषताम्ऽ (तै.ब्रा. १.६.३.३) इति च, तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्योतिःशब्देनाभिधीयते / तथा सति ब्रह्मणो ऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः / ऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ (कौ. २.५.१५) ऽतद्देवा ज्योतिषां ज्योतिरायुर्हेपासते ऽमृतम्ऽ (बृ. ४.४.१६) इत्यादिश्रुतिभ्यश्च / यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति / अत्रोच्यते- सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते /
SK
ननुक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति /
SK
नायं दोषः / निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसंबन्धात्प्रदेशविशेषकल्पनोपपत्तेः / तथाहि- आदित्यो, चक्षुषि, हृदये, इति प्रदेशविशेषसंबन्धानि ब्रह्मण उपासनानि श्रूयन्ते / एतेन ऽविश्वतःपृष्ठेषुऽ इत्याधारबहुत्वमुपपादितम् / यदप्येतदुक्तं, औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति / तदप्ययुक्तम् / परस्यापि ब्रह्णणो नामादिप्रतीकत्वत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः / ऽदृष्टं च श्रुतं चेत्युपासीतऽ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति / यदप्यल्पफलश्रवणान्न ब्रह्मेति, तदप्यनुपपन्नम् / नहीयते फलाय ब्रह्माश्रयणीयं, इयते नेति नियमहेतुरस्ति / यत्र हि निरस्तसर्वविशेषसंबन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते / यत्र तु गुणविशेषसंबन्धं प्रतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते- ऽअन्नादो वसुदानो विदन्ते वसु य एवं वेदऽ (बृ. ४.४.२४) इत्याद्यासु श्रुतिषु / यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति / तदुक्तं सूत्रकारेण- ऽज्योतिश्चरणाभिधानात्ऽ इति कथं पुनर्वाक्यान्तरगतेन ब्रह्मसंनिधानेन ज्योतिःश्रुतिः स्वविषयाच्छक्या प्रच्यावयितुम् /
SK
नैष दोषः / ऽयदतः परो ज्योतिःऽ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसंब्नन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामार्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः / तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम्
SK
FN: गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थो ऽथशब्दः / अतो द्युलोकात्परःपरस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते / विश्वस्मात्प्राणिवर्गात् सर्वस्माद्भूरादिलोकाच्च पृष्टेषूपरीत्यर्थः / नहीति रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः / यत्तेजोबन्नाभ्यामसंपृक्तं तदत्रिवत्कृतमुच्यते / प्रयोजनान्तरं तमोनाशादिकम् / तासां तेजोबन्नानामेकैकं द्विधा विभज्य पुनश्चेकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य त्रिवृत्करणं संपद्यते / भागिनी युक्ता / एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यं अन्यथाध्यासासिद्धेः / एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति / एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव शृणोतीति शेषः / चक्षुष्यो दर्शनीयः / श्रुतो विश्रुतः / प्राकृतं प्रकृतेर्जातं, कार्यमिति यावत् / ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावो ऽविशेषकत्वं, अविशेषकत्वाद्ब्रह्मव्यावर्तकत्वादित्यर्थः / प्रमित्यर्थत्वेन उपास्त्यर्थत्वेन वा मर्यादावत्त्वम् / दिवः परमपीत्यन्वयः / कौक्षेयकं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः जीवाभावे देहस्य शैथिल्यात् जीवतश्चौष्ण्याज्जायते / तस्मात्प्रतीकोपासनमुपपन्नम् / जीवरूपेणान्नमत्तीत्यन्नादः, अन्नस्यासमन्ताद्दाता वा / वसु हिरण्यं कर्मफलं ददातीति वसुदान इति गुणविशेषसंबन्धः / सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्त्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना /
SK
ज्योतिश्चरणाभिधानात् / छान्दोग्यमेवोदाहरति-इदमिति / गायत्र्युपाधिकब्रह्मोपास्त्यानन्दर्यार्थो ऽथशब्दः / अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तद्यतदिदमिति जाठराग्नावध्यस्यते / कुत्र दीप्यते, तत्राह-विश्वत इति / विश्वस्मात्प्राणिवर्गादुपरि सर्वस्माद्भूरादिलोकादुपरि ये लोकास्तेषूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव, यद्देहस्थमित्यर्थः / अस्य पूर्वेणागतार्थत्वं वदन्प्रत्युदाहरणसंतिमाह-अर्थान्तरेति / अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावे ऽपि ऽपादोस्यऽइति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसंगतिः / पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः / नन्वज्ञानतमोविरोधित्वाद्ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति, नेत्याह-चक्षुरिति / शर्वर्यां रात्रौ भवं शार्वरम् / नीलमिति यावत् / अनेनावरकत्वाद्रूपवत्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति / ज्योतिःश्रुतेरनुग्राहकलिङ्गान्याह-तथेत्यादिना / भास्वररूपात्मिका दीप्तिस्तेजस एव लिङ्गमित्याह-न हीति / मास्तु मर्यादेत्याशङ्क्य श्रुतत्वान्मैवमित्याह-परो दिव इति / मर्यादां ब्रूत इति शेषः / ब्रह्मवत् कार्यस्यापि मर्यादायोगान्निरर्थकं ब्राह्मणमिति कश्चिदाक्षिपति-नन्विति / एकदेशी ब्रूते-अस्त्विति / स्वर्गादौ जातं किञ्चिदतीन्द्रियं तेजो दिवः परस्तादस्ति, श्रुतिप्रामाण्यादित्यर्थः / अध्ययनविध्युपात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते-नेति / ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह-इदमेवेत्यादिना / प्रयोजनान्तरं तमोनाशादिकम् / अत्रिवृत्कृतं तेजो ऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नास्तीत्याह-तासामिति / तेजो ऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य तन्त्रिगुणरज्जुवन्त्रिवृत्तं करवाणीत्यविशेषोक्तेर्नास्त्यत्रिवृत्कृतं किञ्चिदित्यर्थः / किञ्चात्र ऽयदतः परःऽइति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते / न चात्रिवृत्कृतस्य तस्य तत्क्वचित्प्रसिद्धमित्याह-न चेति / एकदेशिमते निरस्ते साक्षात्पूर्वपक्षी ब्रूते-अस्तु तर्हीति / प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्यादितेजोवयवविशेषः, तस्य परिग्रह उपसनार्थो न विरुद्धत इत्यन्वयः / स एव कौक्षेये ज्योतिषि उपास्यते / तस्यापि तेजस्त्वादिति भावः / ब्रह्मणो ऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यतां, नेत्याह-नत्विति / निष्प्रदेशस्य निरवयवस्य विशेषे ऽपि दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पना भागिनी युक्ता न त्वित्यन्वयः / अप्रमाणिकगौरवापातादिति भावः / ततः किं, तत्राह-सारूप्येति / यथा एकत्वसाम्याद्भूरितिव्याहृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः / यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सैषा तस्य जाठराग्नेर्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणं, सैषा तस्य श्रुतिरित्यर्थः / ज्योतिषो जडत्वे लिङ्गान्तरमाह-तदेतदिति / ज्योतिरित्यर्थः / चक्षुष्यश्चक्षुर्हितः सुन्दरः, श्रुतो विख्यातः / न चान्यदपीति / ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीत्यन्वयः / ननु ऽत्रिपादस्यामृतं दिविऽइति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्क्याह-न चेति / ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह-अथापीति / कथञ्चिच्छन्दोद्वारेत्यर्थः / दिवि दिव इति विभक्तिभेदान्न प्रत्यभिज्ञेत्यर्थः / प्रकृतेर्जातं प्राकृतं, कार्यमित्यर्थः / आचारं निरस्यति-पादेति / ऽगायत्री वा इदं सर्वं भूतम्ऽ ऽवाग्वै गायत्रीऽ ऽयेयं पृथिवीऽ ऽयदिदं शरीरम्ऽ ऽयदस्मिन्पुरुषे हृदयम्ऽ ऽइमे प्राणाःऽइति भूतवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्विधा षड्भिरक्षरैश्चतुष्पदा गायत्रीति / यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चो ऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपञ्चाज्ज्यायानधिकः / आधिक्यमेवाह-पाद इति / सर्वं जगदेकः पादो ऽंशः, ऽविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्ऽइति स्मृतेः / अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपामनन्तमस्तीत्यर्थः / यथा लोके पादात्पादत्रयमधिकं तथेदमधिकमिति बोधनार्थं त्रिपादमृतमित्युक्तं, न त्रिपादत्वं विवक्षितमिति मन्तव्यम् / ऽयदतः परःऽइति यच्छब्दस्य प्रसिद्धार्थवाचित्वात्पूर्ववाक्यप्रसिद्धं ब्रह्म ग्राह्ममित्याह-तत्रेति / ननु ऽयदाग्नेयो ऽष्टाकपालःऽइत्यत्र यत्पदस्याप्रकृतार्थकत्वं दृष्टिमित्यत आह-तत्परत्यज्येति / तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदो ऽप्रसिद्धार्थत्वमाश्रितम् / इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो द्युसंबन्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिशचयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः / संदंशन्यायादप्येवमित्याह-न केवलमिति / ऽसर्वं खल्विदं ब्रह्मऽइत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपरमित्यर्थः / प्रकरणादिति / प्रकृतापेक्षयत्पदश्रुत्या द्युसंबन्धभूतपादत्वादिलिङ्गैश्चेत्यर्थः / अतः प्रकरणाज्ज्योतिःश्रुतिबाधो न युक्त इति निरस्तम् / अविशेषकत्वादिति / ब्रह्मव्यावर्तकत्वाभावादित्यर्थः / येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः / ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गीकृत्य कारणब्रह्मलक्षकत्वमुक्त्वा ब्रह्मण्यपि शक्तिमाह-यद्वेति / गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः / आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः / यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह-तस्य भासेति / तत् कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इत्यर्थः / योषितो ऽग्नित्ववत् द्युमर्यादत्वादिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह-अत्रोच्यत इत्यादिना / दिवः परमपीत्यन्वयः / आरोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह-परस्यापीति / भविष्यति ब्रह्मज्योतिष इति शेषः / ऽतं यथा यथोपासते तथा तथा फलं भवतिऽइति श्रुतेरित्याह-न हीयत इति / ज्ञानफलवदुपास्तीफलमेकरूपं किं न स्यादत आह-यत्र हीति / ज्ञेयैकत्वादित्यर्थः / ध्येयं तु नानेत्याह-यत्र त्विति / ईश्वरो जीवरूपेणान्नमत्तीत्यन्नादः अन्नस्यासमन्ताद्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुणविशेषसंबन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति / नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुतिसंग्रहार्थमाद्यपदम् / संनिधेः श्रुतिर्बलीयसीति शङ्कते-कथं पुनरिति / अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह-नैष इति /
SK
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना / अर्थाद्यत्पदसामानाधिकरण्यादित्यर्थः
SK
END Bस्Cओम्_१,१.१०.२४
SK
START Bस्Cओम्_१,१.१०.२५
SK
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् | BBस्_१,१.२५ |
SK
अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्मभिहितमिति, ऽगायत्री वा इदं सर्वं भूतं यदिदं किञ्चऽ (छां. ३.१२.१) इति गायत्र्याख्यस्य छन्दसो ऽभिहितत्वादिति, तत्परिहर्तव्यम् / कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुं, यावता ऽतावानस्य महिमाऽ इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् /
SK
नैतदस्ति / ऽगायत्री वा इदं सर्वम्ऽ इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदयवाक्यप्रमाणभेदैर्व्यख्याय ऽसैषा चतुष्पादा षड्विधा गायत्री तदेतदृचाभ्यनुक्तं तावानस्य महिमाऽ इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात् / यो ऽपि तत्र ऽयद्वै तद्ब्रह्मऽ (छा. ३.१२.५,६) इति ब्रह्मशब्दः सो ऽपि छन्दसः प्रकृतत्वाच्छन्दोविषय एव ऽय एतामेवं ब्रह्मोपनिषदं वेदऽ (छां ३.११.३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते, तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमितिचेत् /
SK
नैष दोषः / ऽतथा चेतोर्पणनिगहात्ऽ तथा गायत्र्याख्यच्छन्दोद्वारेण तदनुगते ब्रह्मणि चेतसोर्ऽपणं चित्तसमाधानमनेन ब्रह्मणवाक्येन निगद्यते- ऽगायत्री वा इदं सर्वम्ऽ इति / नह्यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति / तस्माद्याद्गायत्र्याख्यविकारे ऽनुगतं जगत्कारणं ब्रह्म तदिह सर्वमित्युच्यते / यथा ऽसर्वं खल्विदं ब्रह्मऽ (छा. ३.१४.१) इति / कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः- ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽ (ब्र. २.१.१४) इत्यत्र / तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते- ऽएतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाःऽ (ऐ.आ. ३.२३.१२) इति / तस्मादस्ति छन्दोभिधाने ऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् / तदेव ज्योतिर्वाक्ये ऽपि परामृश्यत उपासनान्तरविधानाय / अपर आह- साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात् / यथा गायत्री चतुष्पदा षडक्षरैः पादैस्तथा ब्रह्म चतुष्पात् / तथान्यत्रापि छन्दोभिधायी शब्दोर्ऽथान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते / तद्यथा- ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ इत्युपक्रम्याह ऽसैषा विराडन्नादिऽ (छा. ४.३.८) इति / अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न छन्दोभिधानम् / सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म
SK
FN: य एतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्योदयास्तमयरहितब्रह्मप्राप्तिर्भवतीत्यर्थः / एतमृग्वेदिनो महत्युक्थे शस्त्रे उपासते, अध्वर्यवो यजुर्वेदिनः क्रतौ छन्दोगाः सामवेदिनो महाव्रते क्रतौ / संवर्गविद्यायां अधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयते / अध्यत्मं वाक् चक्षुःश्रोत्रमनसि प्राणमपियन्ति / ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दश सन्तः कृतमित्युच्यते / कृतं द्यूतम् /
SK
छन्दोभिधानाद्ब्रह्म प्रकृतं नास्तीति शङ्कामेकदेशी दूषयति-कथमिति / शङ्कां साधयति-नैतदित्यादिना / चतुष्पदत्वादिकं पूर्वमेव व्याख्यातम् / य एतामेवमिति / वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्चिद्वेद तस्योदयास्तमयरहितब्रह्मा प्राप्तिर्भवतीत्यर्थः / तथाच वेदत्वाद्गायत्र्यां ब्रह्मशब्दो युक्त इति भावः / गायत्रीशब्देन तदुपादानत्वेनानुगतब्रह्मलक्षणायां बीजमनुपपत्तिमाह-न ह्यक्षरेति / ब्रह्मणो ऽपि कथं सर्वात्मकत्वं, तत्राह-कार्यं चेति / नच गायत्र्या ध्यानार्थं सर्वात्मत्वारोप इति वाच्यं, स्वतः सर्वात्मनो ध्यानसंभवेनासदारोपायोगादीति भावः / ऽतथाहि दर्शनम्ऽइति सूत्रशेषं व्याचष्टे-तथान्यत्रेति / दृश्यत इति दर्शनम् / दृष्टमित्यर्थः / एतं परमात्मानं बह्वृचा ऋग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते / एतमेवाग्निरहस्ये ऽतमेतमग्निरित्यध्वर्यव उपासतेऽइति श्रुतेः यजुर्वेदिनो ऽग्नौ उपासते / एतमेव छन्तोगाः सामवेदिनो महाव्रते क्रतौ उपासत इत्यैतरेयके दृष्टमित्यर्थः / गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्याह-अपर इति / साक्षादेव / वाच्यार्थग्रहणं विनैवेति यावत् / पूर्वं तूपास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्रीब्रह्मणी द्वे अपि लक्षिते / नच गायत्री सर्वमित्यन्वयासंभवः, घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत्, गायत्रीपदार्थैकदेशे गायत्र्यनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसंभवादिति भावः / तथाच सूत्रे सिद्धान्तभागस्यायमर्थः-तथा गायत्रीवच्चतुष्पात्वगुणसामान्यात्, चेतो ब्रह्मणि समर्प्यते येन स चेतोर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदादभिधानात् छन्दोभिधानमसिद्धमिति / अधुना ऽतथाहि दर्शनम्ऽइति शेषं व्याचष्टे-तथेति / संवर्गविद्यायामाधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपियन्तीत्युक्तम् / ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दशसंख्याकाः सन्तः कृतमित्युच्यन्ते / सन्ति हि कृतत्रेताद्वापरकलिसंज्ञकानि चत्वारि द्युतानि क्रमेण चतुरङ्कत्र्यङ्कद्व्यङ्कैकाङ्कानि / तत्र कृतं दशात्मकं भवति, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोर्द्वयोरेकस्य चान्तर्भावात् / तथाच्च दशत्वगुणेन वाय्वादेः कृतशब्देनोच्यनते / एवे कृतत्वं वाय्वादीनामुपक्रम्याह-सैषेति / विधेयापेक्षया स्त्रीलिङ्गनिर्देशः / विराट्पदं छन्तोवाचकं, ऽदशाक्षरा विराट्ऽइति श्रुतेः / दशत्वसाम्येन वाय्वादयो विराडित्युच्यन्ते / एवञ्च दशत्वद्वारा वाय्वादिषु कृतत्वं विराट्त्वं च ध्येयम् / तत्र विराट्त्वध्यानात्सर्वमस्यान्नं भवति, ऽअन्नं विराट्ऽइति श्रुतेः / कृतत्वध्यानादन्नादो भवति, कृततद्यूतस्यान्नादत्वात् / कृतं हि स्वीयचतुरङ्गेषु त्र्यङ्कादिकमन्तर्भावयदन्नमत्तीव लक्ष्यते / अत एव कृतजयादितरद्यूतजयः श्रुत्युक्तः-ऽकृतायविजितायाधरेयाः संयन्तिऽइति / अयो द्यूतं, कृतसंज्ञो ऽयः कृतायः स विजितो येन तस्मै, अधरेयास्त्र्यङ्कादयः अयाः संयन्ति उपनमन्ते / तेन जिता भवन्तीत्यर्थः / एवञ्च सा वाय्वादिदशात्मिका एषा कृतशब्दिता विराडन्नं, कृतत्वादन्नादिनीत्यर्थः / सर्वथापीति / गायत्रीति पदस्य लक्षकत्वे गौणत्वे ऽपि चेत्यर्थः / अत्रापर आहेत्यपरपदेन गौणत्वे स्वमतं नेति द्योतयति / अजहल्लक्षणापक्षे हि ऽवाग्वै गायत्रीऽइति वागात्मत्वं गायति च त्रायते च इति निरुक्तनामकत्वं च गायत्र्या उपाधित्वेनोपास्यत्वादुपपन्नतरम् / गौणपक्षे गायत्रीत्यागात्तदुभयं सर्वात्मकत्वमात्रेणोपपादनीयम् / एवं गायत्रीपदस्य स्वार्थत्यागः, अप्रसिद्धचतुष्पात्त्वगुणद्वारा विप्रकृष्टलक्षणा चेति बह्वसमञ्जसम्
SK
END Bस्Cओम्_१,१.१०.२५
SK
START Bस्Cओम्_१,१.१०.२६
SK
भूतादिपादव्यपदेशोपपत्तेश् चैवम् | BBस्_१,१.२६ |
SK
इतश्चैवमभ्युपगन्तव्यमिति, पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति / यतो भूतादीन्पादान्व्यपदिशति / भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह- ऽसैषा चतुष्पदा षड्विधा गायत्रीऽ इति / नहि ब्रह्मानाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते / अपिच ब्रह्मानाश्रयणे नेयमृक्संबोध्येत- ऽतावानस्यऽ इति / अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, ऽपादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. ३.१२.५) इति सर्वात्मत्वोपपत्तेः / पुरुषसूक्ते ऽपीयमृग्ब्रह्मपरतयैव समाम्नायते / स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति- ऽविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्ऽ (भग. १०.४२) इति / ऽयद्वै तद्ब्रह्मऽ (छा. ३.१२.७) इति च निर्देश एवं सति मुख्यार्थ उपपद्यते / ऽपञ्च ब्रह्मपुरुषाःऽ (छा. ३.१३.६) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति / तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् / तदेव ब्रह्म ज्योतिर्वाक्ये द्युसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम्
SK
FN: भूतपृथिवीशरीरहृदयवाक्प्राण इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते / सुषयश्छिद्राणि /
SK
ननु ऽगायत्री वा इदं सर्वम्ऽइति प्रथम गायत्रीश्रुतेः कथं लक्षणेत्याशङ्क्य वाक्यशेषगतसर्वात्मकत्वाद्यनेकबलवत्प्रमाणसंवादेन ब्रह्ममि तात्पर्यावगमादित्याह-भूतादिपादेति / एवं पदार्थमाह-इतश्चेति / सूत्रस्थादिपदार्थं दर्शयति-भूतपृथिवीति / अत्र सूत्रभाष्यकारयोर्भूतादिभिश्चतुष्पदा गायत्रीति संमतम्, षडक्षरैशचतुष्पात्वं वृत्तिकारोक्तमप्रसिद्धं चकारसूचितम् / युक्त्यन्तरमाह-अपि चेति / ब्रह्मपरसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह-पुरुषेति / ब्रह्मपदस्य छन्दोवाचित्वमुक्तं निरस्यति-यद्वै तद्ब्रह्मेति / पूर्वस्यामृचि ब्रह्मोक्तावित्यर्थः / हृदयस्य चतुर्दिक्षूर्ध्वं च पञ्च सुषयः सन्ति / तेषु ब्रह्मस्थानहृन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् / तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यब्राह्मण उपासनासंबन्धितायां ब्रह्मणो द्वारपालत्वाद्ब्रह्मपुरुषा इति संभवतीत्याह-पञ्च ब्रह्मेति
SK
END Bस्Cओम्_१,१.१०.२६
SK
START Bस्Cओम्_१,१.१०.२७
SK
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् | BBस्_१,१.२७ |
SK
यदप्येतदुक्तं पूर्वत्र- ऽत्रिपादस्यामृतं दिविऽ इति सप्तम्या द्यौराधारत्वेनोपदिष्टा इति, पुनः ऽअथ यदतः परो दिवःऽ इति पञ्चम्या मर्यादात्वेन, तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्ति, तत्परिहर्तव्यम् / अत्रोच्यते- नायं दोषः, उभयस्मिन्नप्यविरोधात् / उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते / यथा लोके वृक्षाग्रसंबद्धो ऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च / एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते / अपर आह- यथा लोके वृक्षाग्रेणासंबद्धो ऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्पुरतः श्येन इति च / एवं च दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते / तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् / अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम्
SK
दिवि दिव इति विभक्तिभेदात्प्रकृतप्रत्यभिज्ञा नास्तीत्युक्तं नोपक्षणीयमित्याह-तत्परिहर्तव्यमिति / परिहारं प्रतीजानीते-अत्रेति / सूत्रे नञर्थं वदन्परिहारमाह-नायमिति / एवं सर्वत्र व्याख्योयम् / प्रधानप्रातिपदिकार्थद्युसंबन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथञ्चिदाधारस्यापि मर्यादात्वसंभवात् / यथा वृक्षाग्रं स्वलग्नभगावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः / यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामीप्यलक्षणयाधारत्वं व्याख्येयमित्याह-अपर इति /
SK
सबद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति / असंबद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः / तस्माज्ज्योतिर्वाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,१.१०.२७
SK
START Bस्Cओम्_१,१.११.२८
SK
प्रतर्दनाधिकरणम् / सू. २८-३१
SK
प्राणस् तथानुगमात् | BBस्_१,१.२८ |
SK
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका- ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण चऽ इत्यारभ्याम्नाता / तस्यां श्रूयते- ऽस होवाच प्रणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इति / तथोत्तरत्रापि ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ (को. १.१,२,३) इति / तथा ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि / अन्ते च ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ (को. ३.८) इत्यादि / तत्र संशयः- किमिह प्राणशब्देन वायुमात्रमभिधीयत उप देवतात्मेति, जीवो ऽथवा परं ब्रह्मेति /
SK
ननु ऽअत एव प्राणःऽ इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् / इहापि च ब्रह्मलिङ्गमस्ति- ऽआनन्दो ऽजरो ऽमृतःऽ इत्यादि / कथमिह पुनः संशयः संभवति / अनेकलिङ्गदर्शनादिति ब्रूमः /
SK
न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते / सन्ति हीतरलिङ्गान्यपि / ऽमामेव विजानीहिऽ (कौ. ३.१) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् / इदं शरीरं परिगृह्योत्थापयतीति प्राणलिङ्गम् / ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि जीवलिङ्गम् / अत उपपन्नः संशयः / तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्त उच्यते-प्राणशब्दं ब्रह्म विज्ञेयम् / कुतः, तथानुगमात् / तथाहि- पौर्वापर्येण पर्यलोच्यमाने वाक्ये पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते / उपक्रमे तावत्, ऽवरं वृणीष्वऽ इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप- ऽत्वमेव मे वृणीश्व यं त्वं मनुष्याय हिततमं मन्यसेऽ इति / तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् / नह्यन्यत्र परमात्मज्ञानाद्धिततमप्राप्तिरस्ति / ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वेता. ३.८) इत्यादिश्रुतिभ्यः / तथा ऽस यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्ययाऽ (कौ. ३.१) इत्यादि च ब्रह्मपरिग्रहे घटते / ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः- ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु. २.२.८) इत्याद्यासु श्रुतिषु / प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते / नह्यचेतनस्य वायोः प्रज्ञात्मत्वं संभवति / तथोपसंहारे ऽपि ऽआनन्दो ऽजरो ऽमृतःऽ इत्यानन्दत्वादीनि न ब्रह्मणो ऽन्यत्र सम्यक् संभवति / ऽस न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकस्य उन्निनीषते / एष उ भवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्यो ऽधो निनीषतेऽ इति, ऽएष लोकाधिपतिरेष लोकेशःऽ (कौ. ३.८) इति च / सर्वमेतत्परस्मनिन्ब्रह्मण्याश्रीयमाणे ऽनुगन्तुं शक्यते न मुख्ये प्राणे / तस्मात्प्राणो ब्रह्म
SK
FN: ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः / स नेत्यादिना धर्माद्यस्पृष्टत्वं तत्कारयितृत्वं तदीशितृत्वं च सर्वमुक्तम् /
SK
प्राणस्तथानुगमात् / दिवोदास्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च करणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम / तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति / स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति / तत इन्द्र इदमाह-ऽप्राणोस्मिऽइत्यादि / मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् / निर्विशेषचिन्मात्रं निरस्यति-तं मामिति / इदं प्राणस्येन्द्रिदेवतात्वे लिङ्गम् / मुख्यप्राणत्वे लिङ्गमाह-अथेति / वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः / प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् / प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह-न वाचमिति / आनन्तत्वादिकं ब्रह्मलिङ्गमाह-अन्ते चेति / अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरममित्यगतार्थमाह-अनेकलिङ्गेति / पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तं, न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसंगत्या पूर्वपक्षयति-तत्रेति / पूर्वं प्रधानप्रातिपदिकार्थबलात् विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसंगतिर्वास्तु / पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः / तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह-तथाहीति / हिततमत्वकर्मक्षयादिपदार्थानां संबन्धो ब्रह्मणि तात्पर्यनिश्चायक उपलभ्यत इत्युक्तं विवृणोति-उपक्रम इत्यादिना / यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः / स यः कश्चिन्मां ब्रह्मरूपं वेदसाक्षादनुभवति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्मतूलराशेर्दग्धत्वादित्याह-स य इति /
SK
साध्वसाधुनी पुण्यपापे / ताभायामस्पृष्टत्वं, तत्कारयितृत्वं, निरङ्कुशैश्वर्यं च सर्वमेतदितित्यर्थः
SK
END Bस्Cओम्_१,१.११.२८
SK
START Bस्Cओम्_१,१.११.२९
SK
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् | BBस्_१,१.२९ |
SK
यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते / न परं ब्रह्म प्राणशब्दम् / कस्मात्, वक्तुरात्मोपदेशात् / वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे- ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्माऽ इत्यहङ्कारवादेन / स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् / नहि ब्रह्मणो वक्तृत्वं संभवति ऽअवागमनाःऽ (बृह / ३.८.८) इत्यादिश्रुतिभ्यः / तथा विग्रहसंबन्धिभिरेव ब्रह्मण्यसंभवद्भिर्धर्मैरात्मानं तुष्टाव- ऽत्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छम्ऽ इत्येवमादिभिः / प्राणत्वं चेन्द्रस्य बलवत्वादुपपद्यते / ऽप्राणो वै बलम्ऽ इति हि विज्ञायते / बलस्य चेन्द्रो देवता प्रसिद्धा / ऽया च काचिद्बलकृतिरिन्द्रकर्मैव तऽ दिति हि वदन्ति / प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः संभवति / अप्रतिहतज्ञाना देवता इति हि वदन्ति / निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासंभवं तद्विषयाण्येव योजयितव्यानि / तस्मादुक्तुरिन्द्रस्यात्मोपदेशान्न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते- ऽअध्यात्मसंभन्धभूमा ह्यस्मिन्ऽ इति / अध्यात्मसंबन्धः प्रत्यगात्मसंबन्धस्य भूमाबाहुल्यस्मिन्नध्याय उपलभ्यते / ऽयावद्ध्यस्मिञ्सरीरे प्राणो वसति तावदायुःऽ इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्यप्रधानोपसंहारयोः स्वातन्त्र्यं दर्शयति न देवताविशेषस्य पराचीनस्य / तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति / तथा ऽप्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ (कौ. ३.३) इति, ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इति चेपक्रम्य ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इति विषयोन्द्रियव्यवहारानभिभूतं प्रत्यगात्मानमेवोपसंहरति / ऽस म आत्मेति विद्यात्ऽ इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुर्न पराचीनपरिग्रहे / ऽअयमात्मा ब्रह्म सर्वानभूःऽ (बृह. २.५.१९) इति च श्रुत्यन्तरम् / तस्मादध्यात्मसंबन्धबाहुल्याद्ब्रह्मोपदेश एवायं न देवतात्मोपदेशः
SK
कथं तर्हि वक्तुरात्मोपदेशः-
SK
FN: त्वष्टृपुत्रं विश्वरूपं ब्राह्मणं अहनं, अरुन्मुखान् रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तन्मुखे येषां ते रुन्मुखास्तेभ्यो ऽन्यान्वेदान्तबहिर्मुखान्यतीन् सालावृकेभ्यो ऽरण्यश्वभ्यो दत्तवानस्मि / यस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौ चक्रपिण्डिकायामरा अर्पिताः एवं भूतानि पृथिव्यादीनि पञ्च मीयन्त इति मात्रा भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः /
SK
अहङ्कारवादेन स्वात्मवाचकशब्दैराचचक्षे, उक्तवानित्यर्थः / वाक्यस्य इन्द्रोपपासनापरत्वे लिङ्गान्तरमाह-तथा विग्रहेति / त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि / रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं, तन्मुखे येषां ते रुन्मुखास्तेभ्यो ऽन्यान्वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः / इन्द्रे प्राणशब्दोपपत्तिमाह-प्राणत्वं चेति / वदन्ति लौकिका अपीत्यर्थः / बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः / इन्द्रो हितप्रदातृत्वाधिततमः, कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह-निश्चिते चेति / किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः / आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् / न द्वितीय इत्याह-अध्यात्मेति / आत्मनि देहे ऽधिगत इत्यध्यात्मं प्रत्यगात्मा / स संबध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसंभावितैर्धर्मैस्ते अध्यात्मसंबन्धास्तेषां भूमेत्यर्थः / आयुरत्र देहे प्राणवायुसंचारः / अस्तित्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह-अस्तित्व इति / ऽअथातो निश्रेयसादानम्ऽइत्याद्या श्रुतिः / इन्द्रियस्थापकत्ववद्देहोत्थापकत्वमाह-तथेति / वक्तृत्वमुक्त्वा सर्वाधिष्ठानत्वं दर्शितमित्याह-इति चोपक्रम्येति / तत्तत्र नानाप्रपञ्चस्यात्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौचक्रपिण्डिकायामरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः / इन्द्रियजाः पञ्च शब्दादिविषयप्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि / नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पितमित्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह-प्राणे ऽर्पिता इति / स प्राणो मम स्वरूपमित्याह-स म इति / तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह-अयमिति
SK
END Bस्Cओम्_१,१.११.२९
SK
START Bस्Cओम्_१,१.११.३०
SK
शास्त्रदृष्ट्या तूपदेशो वामदेववत् | BBस्_१,१.३० |
SK
इन्द्रो नाम देवतात्मानं स्वमात्मानं परमात्मत्वेनाहमेव परं ब्रह्मेत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन्नुपदिशति स्म- ऽमामेव विजानीहिऽ इति / यथा ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ इति तद्वत् / ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्ऽ (बृ. १.४.१०) इति श्रुतेः / यत्पुनरुक्तं ऽमामेव विजानीहिऽ इत्युक्त्वा विग्रहधर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम् /
SK
अत्रोच्यते- न त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासो यस्मादेवङ्कर्माहं तस्मान्मां विजानीहीति / कथं तर्हि / विज्ञानस्तुत्यर्थत्वेन / यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसंदधाति- ऽतस्य मे तत्र लोभ च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयतेऽ इत्यादिना / एतदुक्तं भवति-
SK
यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स यो ऽन्यो ऽपि मां वेद न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति / विज्ञेयं तु ब्रह्मैव ऽप्राणो ऽस्मि प्रज्ञात्माऽ इति वक्ष्यमाणम् / तस्माद्ब्रह्मवाक्यमेतत्
SK
अहङ्कारवादस्य गतिं पृच्छति-कथमिति / सूत्रमुत्तरम् / तद्व्याख्याति-इन्द्र इति / जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् / विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति-कथमिति / ब्रह्मज्ञानस्तुत्यर्थः स इत्याह-विज्ञानेति / नियामकं ब्रूते-यदिति / परेण / ऽतस्य मेऽइत्यादिना वाक्येनेत्यन्वयः / स्तुतिमाह-एतदुक्तमिति / तस्माज्ज्ञानं श्रेष्ठमिति शेषः / स्तुतज्ञानविषय इन्द्र इत्यत आह-विज्ञेयं त्विति
SK
END Bस्Cओम्_१,१.११.३०
SK
START Bस्Cओम्_१,१.११.३१
SK
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् | BBस्_१,१.३१ |
SK
यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति / कुतः, जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च / जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि / अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते /
SK
तथा मुख्यप्राणलिङ्गमपि- ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ इति / शरीरधारणं च मुख्यप्राणस्य धर्मः, प्राणसंवादे वागादीन्प्राणान्प्रकृत्य- ऽतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्प्राणमवष्टभ्य विधारयामिऽ (प्र. २.३) इति श्रवणात् / ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् / प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् / मुख्ये ऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव /
SK
जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदनिर्देश इत्युभयया निर्देश उपपद्यते- ऽयो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति / ब्रह्मपरिग्रहे तु किं कस्मद्भिद्येत / तस्मादिहजीवमुख्यप्राणयोरन्तर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवं, उपासात्रैविद्यात् / एवं सति त्रिविधमुपासनं प्रसज्येत- जीवोपासने मुख्यप्राणोपासनं ब्रह्मोपासनं चेति / नचैतदेकस्मिन्वाक्ये ऽभ्युपगन्तुं युक्तम् / उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते / ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इत्युक्त्वान्ते ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इत्येकरूपावुपक्रमोपसंहारौ दृश्येते / तत्रार्थैकत्वं युक्तमाश्रयितुम् / नच ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् / दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणो ऽन्यत्रार्पणानुपपत्तेः / आश्रिततावाच्चान्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः / इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगाद्ब्रह्मोपदेश एवायमिति गम्यते / यत्तु मुख्यप्राणलिङ्गं दर्शितम्- ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, तदसत् / प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् / ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन / इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (काठ. २.५.५) इति श्रुतेः / यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितं तदपि न ब्रह्मपक्षं निवारयति / नहि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽ इत्यादिश्रुतिभ्यः / बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सञ्जीवः कर्ता भोक्ता चेत्युच्यते / तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुं ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादिना प्रत्यगात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते / ऽयद्वाचानभ्युदितं येन वागभ्युद्यते / तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते //
SK
ऽ (के. १.४) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति / यत्पुनरेतदुक्तम्- ऽसह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति /
SK
नैष दोषः / ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोरभेदनिर्देशोपपत्तेः उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरणमविरुद्धम् / अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योर्ऽथः- न ब्रह्मवाक्यो ऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते / कथम्, उपासात्रैविध्यात् / त्रिविधमिह ब्रह्मोपासने विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च / तत्र ऽआयुरमृतमुपाःस्वायुः प्राणःऽ इति, ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, ऽतस्मादेतदेवोक्थमुपासीतऽ इति च प्राणधर्मः / ऽअथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःऽ इत्युपक्रम्य ऽवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिऽ इत्यादिः प्रज्ञाधर्मः / ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् / यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः / यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः / नह्यन्तरतो रूपं किञ्चन सिद्ध्येत् / नो एतन्नाना / ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्माऽ इत्यादिर्ब्रह्मधर्मः / तस्माद्ब्रह्म एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् /
SK
अन्यत्रापि ऽमनोमयः प्राणशरीरःऽ (छा. ३.१४.२) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् / इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात्प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च / तस्माद्ब्रह्मवाक्यमेतदिति सिद्धम्
SK
इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीशङ्करभगवत्पादकृतौ प्रथमाध्यायस्य प्रथमः पादः
SK
FN: यथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं किञ्चिद्ब्रह्मवाक्यमित्यर्थः / प्राणसंवादे- वागादयः सर्वे प्रत्येकमात्मनः श्रैष्ठ्यं मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः / स तानुवाच यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति / ततः क्रमेण वागादिषूत्क्रान्तेष्वपि शरीरं स्वस्थमस्थत् / मुख्यप्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वे / वरिष्ठः प्राणो ऽब्रवीदहमेव पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्भाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्येति / पञ्च शब्दादयः पञ्च पृथिव्यादय इति दश भूतमात्राः / पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः / अन्यत्र ऽअत एव प्राणऽ इत्यादौ / येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापद्यते तदेव वागादेरगम्यं ब्रह्म / उपासेति स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, नत्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः / तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् / उत्थापयतीत्युक्थमिति प्राणधर्मः / अथेति जीवधर्मः /
SK
देहोत्थापनं जीवलिङ्गं किं न स्यात्, तत्राह-शरीरधारणं चेति / सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः / स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिपूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् / मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतो ऽहमेवैतत्करोमि / किं तत्, पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः / द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह-जीवमुख्येति / अभेदनिर्देशमाह-यो वा इति / भेदमाह-सहेति / यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्तत्वं तर्हि ब्रह्मणो ऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् / न चेष्टापत्तिः. उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह-नैतदेवमित्यादिना / नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यं, जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च / नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यं, न वा तदुचितमित्याह-नच ब्रह्मलिङ्गमिति / सूत्रशेषं व्याचष्टे-आश्रितत्वाच्चेति / अन्यत्र ऽअत एव प्राणःऽइत्यादौ वृत्तेराश्रित्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः / प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह-यत्त्वित्यादिना / यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः / विशेषं परिच्छेदाभिमानमित्यर्थः / ऽवत्कारं विद्यात्ऽइति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात्, किन्तु तस्य ब्रह्मत्वं बोध्यते / तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह-यद्वाचेति / येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः / तत्त्वंपदवाच्ययोः स्वरूपतो भेदस्थाभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह-नैष दोष इति / स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे-अथवेति / उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् / अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः / अतो न वाक्योभेद इति भावः / देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वं, उत्थापयतीत्युक्थत्वमिति प्राणधर्मः / जीवधर्मानाह-अथेति / बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः / अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते / तस्याः संभन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम्-ऽवागेवऽइत्यादि / चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां संक्षिप्तार्थं उच्यते / उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम्, अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् / तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत् पूरयामास / वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः / चतुर्थी षष्ठ्यर्था / तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति / ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः / एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह-प्रज्ञयेति / बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः / तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वान्दत्वादिः ब्रह्मधर्म इत्याह-ता वा इति / दशत्वं व्याख्यातम् / प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति-यदिति / तदेव स्फुटयति-न हीति / ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण / एवं ग्राहकमपि ग्राह्यमनपेक्ष्या न सिध्यति / तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह-
SK
नो इति / तद्यथेत्यादि कृतव्याख्यानम् / सूत्रार्थमुपसंहरति-तस्मादिति / अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह-अन्यत्रापीति / उपाधिर्जीवः / तत् अन्यधर्मेणोपासनम् / इयमसंगता व्याख्या / तथाहि-न तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः संभवति, सिद्धस्य विध्यनर्हत्वात् / नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् / नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यं, तादृशविधिवाक्यस्यात्राश्रवणात् / नच ऽतं मामायुरमृतमित्युपाःस्वऽइत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यं, सर्वेषां धर्माणामश्रवणात्, ब्रह्माश्रुतेश्च / ऽप्राणो वा अमृतम्ऽइति प्राणस्यैवामृतत्वश्रुतेः / अत उपासनाविधिलुब्धेन ऽवक्तारं विद्यात्ऽ ऽएतदेवोक्थमुपासीतऽ ऽस म आत्मेति विद्यात्ऽइति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यं, तच्चायुक्तं, उपक्रमादिनैकवाक्यतानिर्णयादिति / तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति-तस्मादिति
SK
END Bस्Cओम्_१,१.११.३१
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याखायायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः
SK
// इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः //
SK
प्रथमाध्याये द्वितीयः पादः /
SK
[अत्रास्पष्टब्रह्मलिङ्गयुक्तवाक्यानामुपास्यब्रह्मविषयाणां विचारः] /
SK
१ सर्वत्र प्रसिद्ध्यधिकरणम् / सू. १-८
SK
प्रथमे पादे ऽजन्माद्यस्य यतःऽ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् / तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं, नित्यत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वात्मत्वमित्येवञ्जातीयका धर्मा उक्ता एव भवन्ति / अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतीनि / पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते- किं परं ब्रह्म प्रतिपादयन्त्याहोस्विदर्थान्तरं किञ्चिदस्ति / तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते /
SK
प्रथमाध्याये द्वितीयः पादः /
SK
श्रीरामं सिद्धमत्तारं गुहाशायिनमान्तरम् / अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे
SK
START Bस्Cओम्_१,२.१.१
SK
सर्वत्र प्रसिद्धोपदेशात् | BBस्_१,२.१ |
SK
इदमाम्नायते- ऽसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत / अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीतऽ, ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. ३.१४.१,२) इत्यादि / तत्र संशयः- किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यत आहोस्वित्परं ब्रह्मेति / किं तावत्प्राप्तम् / शारीर इति / कुतः, तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धो न परस्य ब्रह्मणः, ऽअप्राणो ह्यमनाः शुभ्रःऽ (मु. २.१.२) इत्यादिश्रुतिभ्यः /
SK
ननु ऽसर्वं खल्विदं ब्रह्मऽ इति स्वशब्देनैव ब्रह्मोपात्तं, कथमिह शारीर आत्मोपास्य आशङ्क्यते /
SK
नैष दोषः / नेदं वाक्यं ब्रह्मोपासनाविधिपरं किं तर्हि शमविधिपरम् / यत्कारणं ऽसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतऽ इत्याह / एतदुक्तं भवति- यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात्तल्लत्वात्तदनत्वाच्च / नच सर्वस्यैकात्मत्वे रागादयः संभवन्ति, तस्माच्छान्त उपासीतेति / नच शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते / उपासनं तु ऽस क्रतुं कुर्वीतऽ इत्यनेन विधीयते / क्रतुः संकल्पो ध्यानमित्यर्थः / तस्य च विषयत्वंन श्रूयते- ऽमनोमयः प्राणशरीरःऽ इति जीवलिङ्गम् / अतो ब्रूमो जीवविषयमेतदुपासनमिति / ऽसर्वकर्मा सर्वकामःऽ इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते / ऽएष म आत्मान्तर्हृदये ऽणीयान्व्रीहेर्वा यवाद्वाऽ इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नापरिच्छिन्नस्य ब्रह्मणः /
SK
ननु ऽज्यायान्पृथिव्याऽ इत्याद्यपि न परिच्छिन्ने ऽवकल्पत इति /
SK
अत्र ब्रूमः- न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यं, विरोधात् / अन्यतराश्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुं, ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति / निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनं ऽएतद्ब्रह्मऽ (छा. ३.१४.४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव / तस्मान्मनोमयत्वादिभिर्धर्मैरुपास्यम् / कुतः, सर्वत्र प्रसिद्धोपदेशात् / यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणंस इह च ऽसर्वं खल्विदं ब्रह्मऽ इति वाक्योपक्रमे श्रुते, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम् / एवञ्च प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः /
SK
ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम् /
SK
अत्रोच्यते- यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टं तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म संनिहितं भवति / जीस्तु न संनिहितो नच स्वशब्देनोपात्त इति वैषम्यम्
SK
FN: तस्मिन् जायत इति तज्जं, तस्मिन् इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं तज्जं चतल्लं च तदनं चेति तज्जलान् / शाकपार्थिवादिन्यायेन मध्यमस्य तच्छब्दस्य लोपः / तज्जलानमिति वक्तव्ये छान्दसो ऽवयवलोपः / विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं भारूपं ध्यायेदित्यर्थः / यत एवमाह तस्माच्छमविधिपरमित्यर्थः / तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः / प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रियाचेत्यर्थः / वैषम्यं जीवब्रह्मणोरिति शेषः /
SK
पूर्वपादेनोत्तरपादयोः संगतिं वक्तुं वृत्तमनुवदति-प्रथम इति / जगत्कारणत्वोक्तया व्यापित्वादिकमर्थात्सिद्वम् / तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः संगतिः / कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह-अर्थान्तरेति / आकाशादिशब्दानां स्पष्टब्रह्मलिङ्गैर्ब्रह्मणि समन्वयो दर्शितः / अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः पादद्वये वक्ष्यते / प्रायेणोपास्यज्ञेयब्रह्मभेदात्पादयोरवान्तरभेद इति भावः / छान्दोग्यवाक्यमुदाहरति-इदमिति / तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं चेति तज्जलान् / कर्मधारये ऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः / तज्जलानमिति वाच्ये छान्दसो ऽवयवलोपः / इतिशब्दो हेतौ / सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः / ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः / सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य ऽउपासीतऽइत्यनुवादात्फलमाह-अथेति / क्रतुमयः संकल्पविकार इत्यर्थः / पुरुषस्य ध्यानविकारत्वं स्फुटयति-यथेति / इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः / क्रतुमयः संकल्पप्रधान इति वार्थः / क्रतोर्विषयमाहमन इति / ब्रह्मोत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसंकल्पमन्तर्ह्रदये ध्येयमित्यर्थः / पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् / तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् / अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति-शारीर इत्यादिना / श्रुतिमाशङ्क्यान्यथासिद्या परिहरति-नैष दोष इति / शमविधिपरत्वे हेतुमाह-यत्कारणमिति / यत एवमाह तस्माच्छमविधिपरमित्यन्वयः / [अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् / अत्र प्रयोजनाभावे ऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणं, यथा ऽआत्मैवेदं सर्वम्ऽ / अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकं, तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् / अत्र तूपासनायां बाधानावश्यकत्वद्विषयाभेदेन ब्रह्मण उपास्यत्वात् / टनच शमेति / शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः / जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसंभवमाह-सर्वकर्मेति / सर्वाणि कर्माणि यस्य / सर्वे कामा भोग्य यस्य / सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः / आराग्रमात्रस्येति / तोत्रप्रोतायः-शलाकाग्रपरिमाणस्येत्यर्थः / सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह-सर्वत्रेति / यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् / तद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म संबध्यते / ऽस्योनं ते सदनं करोमिऽइति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि ऽतस्मिन्सीदऽइति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह-अत्रोच्यत इति / स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः / जीवो ऽपि लिङ्गात्संनिहित इत्यत आह-जीवस्त्विति / इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति,
SK
दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च / अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः / किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह-नचेति /
SK
अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफलिङ्गाद्वलीय इति समुदायार्थः
SK
END Bस्Cओम्_१,२.१.१
SK
START Bस्Cओम्_१,२.१.२
SK
विवक्षितगुणोपपत्तेश् च | BBस्_१,२.२ |
SK
वक्तुमिष्टा विवक्षिताः / यद्यप्यपौरुषेये वेदे वक्तुरभावान्नेच्चार्थः संभवति तथाप्युपादानेन फलेनोपचर्यते / लोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति / तदमवेदे ऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम् / उपादानानुपादाने तु वेदवाक्यतात्पर्याभ्यामवगम्यते / तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृतयस्ते परस्मिन्ब्रह्मण्युपपद्यन्ते / सत्यसंकल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते / परमात्मगुणत्वेन च ऽय आत्मापहृतपाप्माऽ (छा. ८.७.१) इत्यत्र ऽसत्यकामः सत्यसंकल्पऽ इति श्रुतम् / आकाशात्मेत्यादिनाकाशवदात्मास्येत्यर्थः / सर्वगतत्वादिभिर्धर्णैः संभवत्याकाशेन साम्यं ब्रह्मणः / ऽज्यायान्पृथिव्याःऽ इत्यादिना चैतदेव दर्शयति / यदाप्याकाश आत्मा यस्येति व्याख्यायचते, तदपि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्म आकाशात्मत्वम् /
SK
अत एव ऽसर्वकर्माऽ इत्यादि / एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते / यत्तूक्तं ऽमनोमयः प्राणशरीरःऽ इति जीवलिङ्गं न तद्ब्रह्मण्युपपद्यत इति, तदपि ब्रह्मण्युपपद्यत इति ब्रूमः / सर्वात्मत्वाद्धि ब्रह्मणो जीवसंबन्धीनि मनोमयत्वादीनि ब्रह्मसंबन्धीनि भवन्ति / तथाच ब्रह्मविषये श्रुतिस्मृती भवतः- ऽत्वं स्त्री त्वं कुमार उत वा कुमारी / त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे. ४.३) इति, सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् / सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति (गी. १३.१३) इति च / ऽअप्राणो ह्यमनाः शुभ्रःऽ इति श्रुतिः शुद्धब्रह्मविषया, इयं तु ऽमनोमयः प्राणशरीरःऽ इति सगुणब्रह्मविषयेति विशेषः / अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्मेहोपास्यत्वेनोपदिष्टमिति गम्यते
SK
FN: उपादानानुपादाने परिग्रहपरित्यागौ / तात्तर्यं नाम फलवदर्थप्रतीत्यनुकूत्वं शब्दधर्मः / उपक्रमादिना ज्ञानात्तयोरवगम इत्यर्थः / जीर्णः स्थविरो भूत्वा योदण्डेन वञ्चति गच्छति, तथा यो जातः बालः सो ऽपि त्वमेव /
SK
वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह-तथाप्युपादानेनेति / नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षादीना वेदे कुतः स्यादित्यत आह-उपादानानुपादाने त्विति / तात्पर्यं नाम फलवदर्थप्रतित्यनुकूलत्वं शब्दधर्मः / उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः / तदिहेति / तत् तस्मात् / तात्पर्यवत्त्वादित्यर्थः / सर्वात्मत्वे प्रमाणमाह-तथाचेति /
SK
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सो ऽपि त्वमेव / यो जातो बालः स त्वमेव / सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्येति सर्वतः श्रुतिमत् / सर्वजन्तूनां प्रसिद्वाः पाण्यादयस्तस्येति सर्वात्मत्वोक्तिः
SK
END Bस्Cओम्_१,२.१.२
SK
START Bस्Cओम्_१,२.१.३
SK
अनुपपत्तेस् तु न शारीरः | BBस्_१,२.३ |
SK
पूर्वेण सुत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता / अनेन तु शारीरे तेषामनुपपत्तिरुच्यते / तुशब्दो ऽवधारणार्थः / ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणं, नतु शारीरो जीवो मनोमयत्वादिगुणः / यत्कारणं ऽसत्यसंकल्पः, आकाशात्मा, अवाकी, अनादरः, ज्यायान्पृथिव्याऽ इति चैवञ्जातीयका गुणा न शारीर आञ्जस्येनोपपद्यन्ते / शारीर इति शरीरे भव इत्यर्थः /
SK
नन्वीश्वरो ऽपि शरीरे भवति /
SK
सत्यम् / शरीरे भवति नतु शरीर एव भवति, ऽज्यायान्पृथिव्या ज्यायानन्तरिक्षात्ऽ, ऽआकाशवत्सर्वगतश्च नित्यःऽ इति च व्यापितत्वश्रवणात् / जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात्
SK
FN: वागेव वाकः सो ऽस्यास्तीति वाकी न वाकी अवाकी वागादिसर्वेन्द्रियरहितः / आप्तकामत्वान्न कुत्रचितदादरो ऽस्तीत्यनादरः /
SK
ननु जीवधर्मश्चेब्रह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह-अनुपपत्तेरिति / सूत्रं व्याचष्टे-पूर्वेणेति / सर्वात्मत्वादिरूक्तन्यायः / कल्पितस्य धर्मा अधिष्ठाने संबध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः / झ्रधिष्ठानज्ञानकाले कल्पितधर्माभावात् / टवागेव वाकः सो ऽस्यास्तीति वाकी, न वाकी अवाकी / अनिन्द्रिय इत्यर्थः / कुत्राप्यादरः कामो ऽस्य नास्तीत्यनादरः / नित्यतृप्त इत्यर्थः / ज्यायस्त्वाद्यनुपपत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः / स तु जीवस्यैव नोश्वरस्येत्याह-सत्यमित्यादिना
SK
END Bस्Cओम्_१,२.१.३
SK
START Bस्Cओम्_१,२.१.४
SK
कर्मकर्तृव्यपदेशाच् च | BBस्_१,२.४ |
SK
इतश्च न शारीरो मनोमयत्वादिगुणः, यस्मात्कर्मकर्तृव्यपदेशो भवति ऽएतमितः प्रेत्याभिसंभवितास्मिऽ (छा. ३.१४.४) इति / एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति / अभिसंभवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन / अभिसंभवितास्मीति / प्राप्तास्मीत्यर्थः / नच सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः / तथोपास्योपासकभावो ऽपि भेदाधिष्ठान एव / तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः
SK
FN: एतमिति प्रापकत्वेन व्यपदिशतीति संबन्धः /
SK
प्रापकत्वेन व्यपदिशतीति संबन्धः / कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह-तथोपास्येति
SK
END Bस्Cओम्_१,२.१.४
SK
START Bस्Cओम्_१,२.१.५
SK
शब्दविशेषात् | BBस्_१,२.५ |
SK
इतश्च शारीरादन्यो मनोमयत्वादिगुणः, यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरि- ऽयथाव्रीहिर्वा यवो वा श्यमको वा श्यमाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयःऽ (शत. ब्रा. १०.६.३.२) इति / शारीरस्यत्नो यः शब्दो ऽभिधायकः सप्तम्यन्तो ऽन्तरात्मन्निति तस्माद्विशिष्टो ऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनो ऽभिधायकः / तस्मात्तयोर्भेदो ऽधिगम्यते
SK
FN: समानप्रकरणत्वमेकविद्याविषयत्वाम् / अन्तरात्मन्निति छान्दसो विभक्तिलोपः / अन्तरात्मनीत्यर्थः /
SK
एकार्थत्वं प्रकरणस्य समानत्वम् / अन्तरात्मन्निति विभक्तिलोपश्छान्दसः / शब्दयोर्विशेषो विभक्तिभेदः / तस्मात्तदर्थयोर्भेद इति सूत्रार्थः
SK
END Bस्Cओम्_१,२.१.५
SK
START Bस्Cओम्_१,२.१.६
SK
स्मृतेश् च | BBस्_१,२.६ |
SK
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्टति / भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ / (गी. १८.६१) इत्याद्या / अत्राह- कः पुनरयं शारीरो नाम परमात्मनो ऽन्यः, यः प्रतिषिध्यते ऽअनुपपत्तेस्तु न शारीरःऽ इत्यादिना / श्रुतिस्तु- ऽनान्यो ऽतो ऽस्ति द्रष्टा श्रोताऽ (बृह. ३.७.२३) इत्येवञ्जातीयका परमात्मनो ऽन्यमात्मानं वारयति / तथा स्मृतिरपि- ऽक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतऽ (गी. १३.२) इत्येवञ्जातीयकेति / अत्रोच्यते- सत्यमेतत् / पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते / यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत् / तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् ऽतत्त्वमसिऽ इत्यात्मैकत्वोपदेशघणात् / गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात्
SK
FN: तदपेक्षया औपाधिकभेदापेक्षया /
SK
स्मृतौ हृदिस्थस्य जीवाद्भेदोक्तेरन्नापि हृदिस्थो मनोमय ईश्वर इत्याह-स्मृतेश्चेति / भूतानि जीवान् / यन्त्रं शरीरम् / अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्तिनिरासायेक्षत्यधिकरणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति-अत्राहेत्यादिना / त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह-सत्यमिति
SK
END Bस्Cओम्_१,२.१.६
SK
START Bस्Cओम्_१,२.१.७
SK
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च | BBस्_१,२.७ |
SK
अर्भकमल्पमोको नीडं, ऽएष म आत्मान्तर्हृदयेऽ इति परिच्छिन्नायतनत्वात्, स्वशब्देन च ऽअणीयान्व्रीहेर्वा यवाद्वाऽ इत्यणीयस्त्वव्यपदेशात्, शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न कर्वगतः परमात्मेति यदुक्तं तत्परिहर्तव्यम् /
SK
अत्रोच्यते- नायं दोषः / न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते / सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशो ऽपि कयाचिदपेक्षया संभवति / यथा समस्तवसुधाधिपतिरपि हि सन्नयोध्याधिपतिरिति व्यपदिश्यते कया पुनरपेक्षया सर्वगतः सन्नीश्वरोर्ऽभकौका अणीयांश्च व्यपदिश्यत इति / निचाय्यत्वादेवमिति ब्रूमः / एवमणीयस्त्वादिगुणगणोपेत ईश्वरस्तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते /
SK
यथा शालग्रामे हरिः / तत्रास्य बुद्धिविज्ञानं ग्राहकम् / सर्वगतो ऽपीश्वरस्तत्रोपास्यमानः प्रसीदति / व्योमवच्चैतद्द्रष्टव्यम् / यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षायार्भकौको ऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापि / तदेवं निचाय्यत्वापेक्षं ब्रह्मणोर्ऽभकौकस्त्वमणीयस्त्वं च न पारमार्थिकम् / तत्र यदशङ्क्यते, हृदयायतनत्वाद्ब्रह्मणो हृदयायतनानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणो ऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति
SK
FN: अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्ति / कथमपि ब्रह्मभावपेक्षे ऽपि / निचाय्यत्वाद्द्रष्टव्यत्वात् /
SK
अर्भकमोको यस्य सोर्ऽभकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् / अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह-स्वशब्देनेति / नायं दोष इत्युक्तं विवृणोति-न तावदिति / कथमपि / ब्रह्मभावपेक्षयापीत्यर्थः /
SK
परिचेछेदत्यागं विना ब्रह्मत्वासंभवात् तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः / विभोः परिच्छेदोक्तौ दृष्टान्तमाह-यथा समस्येति / सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः / ननु किमिति हृदयभेव प्रायेणोच्यते, तत्राह-तत्रेति / हृदये परमात्मनो बुद्विवृत्तिर्ग्रहिका भवति / अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः / व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह-तत्र यदाशङ्क्यत इत्यादिना /
SK
भिन्नायतनत्वे ऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः
SK
END Bस्Cओम्_१,२.१.७
SK
START Bस्Cओम्_१,२.१.८
SK
संभोगप्राप्तिर् इति चेन् न वैशेष्यात् | BBस्_१,२.८ |
SK
व्येमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसंबन्धात्, चिद्रूपतया च शारीरादविशिष्टत्वात्, सुखदुःखादिसंभोगो ऽप्यविशिष्टः प्रसज्येत / एकत्वाच्च / नहि परस्मादात्मनो ऽन्यः कश्चिदात्मा संसारी विद्यते, ऽनान्यो ऽतो ऽस्ति विज्ञाताऽ (बृ. ३.७.२३) इत्यादिश्रुतिभ्यः / तस्मात्परस्येव संसारसंभोगप्राप्तिरिति चेत्, न वैशेष्यात् / न तावत्सर्वप्राणिहृदयसंबन्धाच्छरीरवद्ब्रह्णः संभोगप्रसङ्गः, वैशेष्यात् / विशेषो हि भवति शारीरपरमेश्वरयोः / एकः कर्ता भोक्ता धर्माधर्मसाधनः सुखदुःखादिमांश्च / एकस्तद्विपरीतो ऽपहतपाप्मत्वादिगुणः / एतस्मादनयोर्विशेषादेकस्य भोगो नेतरस्य / यदि च संनिधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसंबन्धो ऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गः / सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ / यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छरीरस्य भोगेन ब्रह्णो भोगप्रसङ्ग इति / अत्र वदामः- इदं तावद्देवानांप्रियः प्रष्टव्यः / कथमयं त्वयात्मान्तराभावो ऽध्यवसित इति / ऽतत्तवमसिऽ ऽअहं ब्रह्मास्मिऽ ऽनान्यो ऽतो ऽस्ति विज्ञाताऽ इत्यादिशास्त्रेभ्य इति चेत्, यथाशास्त्रं तर्हि शास्त्रीयोर्ऽथः प्रतिपत्तव्यो न तत्रार्धजरतीयं लभ्यम् / शास्त्रं च तत्त्वमसि इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति / कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः / अथागृहीतं शारीरस्य ब्रह्मणैकत्वं तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः, न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः / नहि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलितादिविशिष्टमेव परमार्थतो व्योम भवति / तदाह- न वैशेष्यादिति / नैकत्वे ऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात् / विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञनयोः / मिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् / नच मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते / तस्मान्नोपभोगगन्धो ऽपि शक्य ईश्वरस्य कल्पयितुम्
SK
FN: धर्माधर्मत्त्वमुपाधिरित्यर्थः / अयमेव विशेषो वैशेष्यं / स्वार्थे ष्यञ् प्रत्ययः / विशेषस्यातिशयार्थो वा / धर्मादेः स्वाश्रये फलहेतुत्वमतिशयस्तस्मादिति सुत्रार्थः / विभवो बहवश्चात्मन इति वादिनाम् / अर्धेति / अर्धंमुखमात्रं जरत्या बुद्धायाः कामयते नाङागानीति सो ऽयमर्धजरतीन्यायः / मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वे ऽपि निर्देषत्वात्तस्मिन्नेव शाण्डिल्यविद्याविद्ये सर्वं इत्यादिवाक्यं समन्वितमित्यर्थः /
SK
ब्रह्मणो हार्दत्वे ऽनिष्टसंभोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे-व्योमवदिति / ब्रह्म भोक्तृ स्यात, हार्दत्वे सति चेतनत्वात्, जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति-न / वैशेष्यादिति / धर्माधर्मवत्त्वमुपाधिरित्यर्थः / अयमेव विशेषो वैशेष्यं / स्वार्थे ष्यञ्प्रत्ययः / विशेषस्यातिशयार्थो वा / धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः / किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह-सर्वगतेति / वस्तुतस्तेषामेव भोगसांकर्यमित्यग्रे वक्ष्यते / ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह-यथाशास्त्रमिति / अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सो ऽयमर्धजरतीयन्यायः / स चात्र न युक्तः / न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तं, श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह-शास्त्रं चेति / नन्वेकत्वं मया श्रुत्या न गृहीतं, योनोपजीव्यबाधः स्यात् / किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह-अथागृहीतमित्यादिना / कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थे ऽपि सूत्रं पातयति-तदाहेति /
SK
ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम्
SK
END Bस्Cओम्_१,२.१.८
SK
START Bस्Cओम्_१,२.२.९-१०
SK
२ अन्त्रधिकरणम् / ९-१०
SK
अत्ता चराचरग्रहणात् | BBस्_१,२.९ |
SK
कठवल्लीषु पठ्यते- ऽयस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः / मृत्यूर्यस्योपसेवनं क इत्या वेद यत्र सःऽ (१.२.२४) इति / अत्र कश्चिदोदनोपसेचनसूचितो ऽत्ता प्रतीयते / तत्र किमग्निरत्ता स्यात्, उत जीवः, अथवा परमात्मेति संशयः / विशेषानवधारणात् / त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः / किं तावत्प्राप्तम् / अग्निरत्तेति / कुतः, ऽअग्निरन्नादःऽ (बृ. १.४.६) इति श्रुतिप्रसिद्धिभ्याम् / जीवो वात्ता स्यात्, ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽ इति दर्शनात् / न परमात्मा, ऽअनश्नन्नन्यो ऽअभिचाकशीतिऽ (मुण्ड. ३.१.१) इति दर्शनादित्येवं प्राप्ते ब्रूमः- अत्तात्र परमात्मा भवितुमर्हति / कुतः, चराचरग्रहणात् / चराचरं हि स्थावरजङ्गमं मृत्युपसेचनमिहाद्यात्वेन प्रतीयते, तादृशस्य चाद्यस्य न परमात्मनो ऽन्यः कार्त्स्येनात्ता संभवति / परमात्मा तु विकारजातं संहरन्सर्वमत्तीत्युपपद्यते /
SK
नन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते /
SK
नैष दोषः / मृत्युपसेचनत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात्, ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः / यत्तु परमात्मनो ऽपि नात्तृत्वं संभवति, ऽअनश्नन्नन्यो ऽअभिचाकशीतिऽ इति दर्शनादिति /
SK
अत्रोच्यते- कर्मफलभोगस्यप्रतिषेधकमेतद्दर्शनं, तस्य संनिहितत्वात् / न विकारसंहारस्य प्रतिषेधकं,
SK
सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात् / तस्मात्परमात्मात्मैवेहात्ता भवितुमर्हति
SK
FN: यस्य परमात्मनो ब्रह्म क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृवत्तिष्ठति, यत्र सो ऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ऽनाविरतो दुश्चरितात्ऽ इति मन्त्रोक्तोपायवान्यथा वेद इत्था इत्थमन्यस्तद्रहितो न वेदेत्यर्थः / प्रदर्शनमुपलक्षणम् / नच ब्रह्क्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् / प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः /
SK
प्रकरणाच् च | BBस्_१,२.१० |
SK
इतश्च परमात्मैवेहात्ता भवितुमर्हति, यत्कारणं प्रकरणमिदं परमत्मनः, ऽन जायते म्रियते वा विपश्चित्ऽ (काठ. १.२.१८) इत्यादि प्रकृतग्रहणं च न्याय्यम् / ऽक इत्था वेद यत्र सःऽ इति च दुर्विज्ञानत्वं परमात्मलिङ्गम्
SK
अत्ताचराचरग्रहणात् / ऽयस्य ब्रह्मक्षत्रादिजगदोदनः, मृत्युः सर्वप्राणिमारको ऽपि यस्योपसेचनमोदनसंस्कारकघृतप्रायः, सो ऽत्ता यत्र शुद्धे चिन्मात्रे ऽभेदकल्पनया वर्तते तच्छुद्वं ब्रह्म इत्था इत्थं ईश्वरस्याप्यधिष्ठानभूतं को वेद / चित्तशुद्धाद्युपायं विना को ऽपि न जानातीत्यर्थः / संशयबीजमाह-विशेषेति / ऽस त्वमग्नि प्रब्रूहिऽइत्यग्नेः, ऽयेयं प्रेते विचिकित्साऽइति जीवस्य, ऽअन्यत्र धर्मात्ऽइति ब्रह्मणः प्रश्नः / ऽलोकादिमग्निं तमुवाचऽइत्यग्नेः / ऽहन्त त इदं प्रवक्ष्यामिऽइतीतरयोः प्रतिवचनमुपलभ्यत इत्यर्थः / पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तं, तदुपजीव्य पूर्वपक्षयति-किं तावदिति / अग्निप्रकरणमतीतमित्यरुचेराह-जीवो वेति / पूर्वपक्षे जीवोपास्ति:,सिद्वान्ते निर्विशेषब्रह्मज्ञानमिति फलभेदः / ओदनशब्दो भोग्यवाचीति पूर्वपक्षः / सिद्वान्तस्तु ब्रह्मक्षत्रशबेदैरूपस्थापितकार्यमात्रे गौण ओदनशब्दः / गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनिहितगुणग्राहित्वात् / तथाच सर्वस्य विनाश्यत्वेन भानाल्लिङ्गादीश्वरो ऽत्तेत्याहनैष दोष इति / तस्य संनिहितत्वादिति / ऽपिप्पलं स्वाद्वत्तिऽइति भोगस्य पूर्वोक्तत्वादित्यर्थः //९
SK
END Bस्Cओम्_१,२.२.९-१०
SK
START Bस्Cओम्_१,२.३.११
SK
३ गुहाप्रविष्टाधिकरणम् / सू. ११-१२
SK
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् | BBस्_१,२.११ |
SK
कठवल्लीष्वेव पठ्यते- ऽऋतं पिबन्तौ लोके गुहां प्रविष्टौ परमे परार्धे / छायातपौ ब्रह्मविदो वदन्ति पञ्टग्नयो ये च त्रिणाचिकेताःऽ (काठ. १.३.१) इति / तत्र संशयः, किमिह बुद्धिजीवौ निर्दिष्टावुत जीवपरमात्मानाविति / यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसंघाताद्विलक्षणो जीवः प्रतिपादितो भवति / तदपीह प्रतिपादितव्यं, ऽयेयं प्रेते विचिकित्सा मनुष्ये ऽस्तीत्येके नायमस्तीति चैके / एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयःऽ (काठ. १.१.२०) इति पृष्टत्वात् / अथ जीवपरमात्मानौ ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति / तदपीह प्रतिपादयितव्यं, ऽअन्यत्र धर्मादन्यत्राधर्मदन्यत्रास्मात्कृताकृतात् / अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वदऽ (काठ. १.२.१४) इति पृष्टत्वात् / अत्राहाक्षेप्ता- उभाप्येतौ पक्षौ न संभवतः / कस्मात्, ऋतपानं कर्मफलोपभोगः, सुकृतस्य लोके, इति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः / अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न संभवति / अत एव क्षेत्रज्ञपरमात्मपक्षो ऽपि न संभवति, चेतने ऽपि परमात्मनि ऋतपानासंभवात् / ऽअनश् नन्नन्यो ऽअभिचाकशीतिऽ इति मन्त्रवर्णादिति /
SK
अत्रोच्यते- नैष दोषः / छत्रिणो गच्छन्तीत्येकेनापि छत्रिणा बहूनां छत्रित्वोपचारदर्शनात् / एवमेकेनापि पिबता द्वौ पिबन्तावुच्येते / यद्वा जीवस्तावत्पिबति, ईश्वरस्तु पाययति / पाययन्नपि पिबतीत्युच्यते / पाचयितर्यपि प्रक्तृत्वप्रसिद्धिदर्शनात् / बुद्धिक्षेत्रज्ञपरिग्रहो ऽपि संभवति, करणे कर्तृत्वोपचारात् / एधांसि पचन्तीति प्रयोगदर्शनात् / नचाध्यत्माधिकारे ऽन्यौ कौचिधावृतं पिबन्तौ संभवतः / तस्माद्बुद्धिजीवौ स्यातां, जीवपरमात्मानौ वेति संशयः / किं तावत्प्राप्तं. बुद्धिक्षेत्रज्ञाविति / कुतः, ऽगुहां प्रविष्टौऽ इति विशेषणात् / यदि शरीरं गुहा, यदि वा हृदयं, उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते / नच सति संभवेसर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम् / ऽसुकृतस्य लोकेऽ इति च कर्मगोचरानतिक्रमं दर्शयति / परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, ऽन कर्मणा वर्धते नो कनीयान्ऽ इति श्रुतेः / ऽछायातपौऽ इति च तेतनाचेतनयोर्निर्देश उपपद्यते / छायातपवत्परस्परविलक्षणत्वात् / तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः- विज्ञानात्मपरमात्मानाविहोच्येयाताम् / कस्मात्, आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ / संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते / अस्य गोर्द्वितीयो ऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयो ऽन्विष्यते, नाश्वः पुरुषो वा / तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते /
SK
ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति /
SK
गुहाहितत्वदर्शनादेव परमात्माप्रत्येतव्य इति वदामः / गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते- ऽगुहाहितं गह्वरेष्ठं पुराणम्ऽ (काठ. १.२.१२) ऽयो वेद निहितं गुहायां परमे व्योमन्ऽ (तै. २.१) ऽआत्मानमन्विच्छ गुहां प्रविष्टम्ऽ इत्याद्यासु / सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येदप्युक्तमेव / सुकृतलोकवर्तित्वं तु छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् / छायातपावित्यप्यविरुद्धम् / छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः / अविद्याकृतत्वात्संसारित्वस्य / पारमार्थिकत्वाच्चासंसारित्वस्य / तस्माद्विज्ञानात्मपरमातमानौ गुहां प्रविष्टौ गृह्येते
SK
कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते-
SK
FN: ऋतं सत्यं कर्मफलं पिबन्तौ, भुञ्जानौ सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानो परस्य ब्रह्मणोर्ऽधं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोक्षणा तां प्रविश्य सथितौ छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति / त्रिर्नाचिकेतो ऽग्निश्चितो यैस्ते ऽपि वदन्ति / मनुष्ये प्रेते मृतेसति येयं विचिकित्सा संशयः / परलोकभोक्तास्तीत्येके नास्तीति चान्ये / त्वयोपदिष्टो ऽहमेतत्तत्वं ज्ञातुमिच्छामीत्यर्थः / अन्यत्र धर्माधर्माभ्यामन्यत्र, अस्मात्कृताकृतात् धर्माधर्मास्पृष्टं, कृताकृतात् कार्यकारणाद्भिन्नं यत् तद्ब्रह्म / यद्वेति / स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सो ऽपि कर्ता / अतएवाहुर्यः कारयति सो ऽपि कर्तेति / गुहाहितं बुद्धौ स्थितं गह्वरे ऽनेकानर्थसंकुले देहे स्थितं, पुराणमादिपुरुषम् / परमे व्योमन् श्रेष्ठे हार्दाकाशे तत्र गुहायां बुद्दौ / अन्विच्छ विचारय /
SK
अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह-गुहामिति / ऋतमवश्यंभावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोर्ऽधं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा वुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ ब्रह्मविदः कर्मिणश्च वदन्ति / त्रिर्नाचिकेतो ऽग्निश्चितो यैस्ते त्रिणाचिकेताः ते ऽपि वदन्तीत्यर्थः / नाचिकेतवाक्यानामध्ययनं, तदर्थज्ञानं, तदनुष्ठानं चेति त्रित्वं बोध्यम् / बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह-तत्रेति / पूर्वोत्तरपक्षयोः फलं स्वयमेवाह-यदीत्यादिना / तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः / मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये / अतस्त्वयोपदिष्टो ऽहमेतदात्मतत्त्वं जानीयामित्यर्थः / तदपि परमात्मस्वरूपमपीत्यर्थः / उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति-अत्राहेति / छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह-अत्रोच्यत इति / पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह-यद्वेति / नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् / यः कारयति स करोत्येवेति न्यायादिति भावः / अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा / मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः / प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः / पूर्वपक्षे ऽपिबन्तौऽइति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह-बुद्वीति / एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यं, प्रकृतिस्तु मुख्यैवेति भावः / मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह-न चेति / ब्रह्मक्षत्रपदस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबत्पदस्य संनिहितगुहापदाहुद्विजीवपरतेति दृष्टान्तेन पूर्वपक्षयति-किं तावदिति / गोचरः फलम् / एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यं, व्यक्तिमात्रग्रहे लाघवात् / न विजातीयं, जातिव्यक्त्युभयकल्पनागौरवात् / न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यं, चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् / तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह-संख्याश्रवणे चेति /
SK
गुहायां बुद्वौ स्थितं, गह्वरे ऽनेकानर्थसंकुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति / परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सो ऽश्नुते सर्वान्कामानित्यन्वयः / अन्विच्छ विचारयेत्यर्थः
SK
END Bस्Cओम्_१,२.३.११
SK
START Bस्Cओम्_१,२.३.१२
SK
विशेषणाच् च | BBस्_१,२.१२ |
SK
विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति / ऽआत्मानं रथिनं विद्धि शरीरं रथमेव तुऽ (का. १.३.३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्नां रथिनं संसारमोक्षयोर्गन्तारं कल्पयति / ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ / (का. १.३.९) इति च परमात्मानं गन्तव्यम् / तथा ऽतं दुर्दर्श गूढमनुप्रविष्ठं पुराणम् / अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहातिऽ (का. १.२.१२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ / प्रकरणं चेद परमात्मनः / ब्रह्मविदो वदन्ति इति च वक्तृविशेषोपादनं परमात्मपरिग्रहे घटते / तस्मादिह जीवपरमात्मानावुच्येयाताम् / एष एव न्यायः ऽद्वा सुपर्णा सयुजा सखायाऽ (मुण्ड. ३.१.१) इत्येवमादिष्वपि / तत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते / तयोरन्यः पिप्पलं स्वादित्ति इत्यदनलिङ्गाद्विज्ञानात्मा भवति / अनश् नन्नन्यो ऽभिचाकशीति इत्यनशनचेतनाभ्यां परमात्मा /
SK
अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि- ऽसमाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः / जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकःऽ (मुण्ड. ३.१.२) इति / अपर आह- ऽद्वा सुपर्णाऽ इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् / ऽतयोरन्यः पिप्पलं स्वादित्तीति सत्त्वमनश् नन्नन्यो ऽभिचाकशीतीत्यनश् नन्नन्यो ऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौऽ इति / सत्त्वशब्दोतीत्यनश् नन्नन्यो ऽभिपश्यति यदुच्यते, तन्न, सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशरीरपरतया प्रसिद्धत्वात् / तत्रैव च व्याख्यातत्वात्- ऽतदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ यो ऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौऽ इति / नाप्यस्याधिकरणस्य पूर्वपक्षं भजते / नह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते / कथं तर्हि सर्वसंसारधर्मातीतो ब्रह्मभावश्चैतन्यमात्रस्वरूपः ऽअनश् नन्नन्यो ऽभिचाकशीतिऽ, ऽअनश् नन्नन्यो ऽभिचाकशीति ज्ञःऽ इति वचनात् / ऽतत्त्वमसिऽ ऽक्षेत्रज्ञं चापि मां विद्धिऽ (गी. १३.२) इत्यादिश्रुतिस्मृतिभ्यश्च / तावता च विद्योपसंहारदर्शनमेलमेवावकल्पते, तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रच आध्वंसते इत्यादि / कथं पुनरस्मिन्पक्षे तयोरन्यः पिप्पलं स्वादित्तीति सत्त्वम् इत्यचेतने सत्त्वे भोक्तृत्वावचनम्ति / उच्यते- नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता / किं तर्हि चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्भावतां च वक्ष्यामीति / तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति / इदं हि कर्तृत्वं भोक्तृत्वं त सत्त्वक्षेत्रज्ञयोरितरेतिस्वभावाविवेककृतं कल्प्यते / परमार्थतस्तु नान्यतरस्यापि संभवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य / अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न संभवति / तथाच श्रुतिः- ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. ४.५.१५) इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहराभावम् दर्शयति
SK
FN: स इति जीवः सर्वनामार्थः / अध्वनः संसारमार्गस्य / दुर्दर्शे दुर्ज्ञानं, तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरम् अध्यात्मप्रयोगः प्रत्यगात्मन्येव चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः / सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ / अनीशया स्वस्येश्वरत्वाप्रतीत्या / जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं पस्यति / सत्त्वं बुद्धिः / तावता मन्त्रव्याख्यामात्रेण / रजः अविद्या, आध्वंसते, संश्लिषति / अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात्तत्र अविद्यकबुद्ध्यादिसंबन्धादन्यो भूत्वान्यचक्षुषा पश्येत् / तत्राविद्यायाम् / यत्र तु विद्यावस्थायाम् /
SK
विशेषणं गन्तृगन्तव्यत्वादिकं लिङ्गमाह-विशेषणाच्चेति / स जीवो ऽध्वनः संसारमार्गस्य परमं पारं, किं तत्, विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः / दुर्दर्शं दुर्ज्ञानं, तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठं, एवं बहिरागतमात्मानं,
SK
अध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः / ऋतपानमत्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति-तस्मादिहेति / उक्तन्यायमतिदिशति-एष इति / द्वा द्वौ / छान्दसो द्विवचनस्याकारः /
SK
सुपर्णाविव सहैव युज्येते नियम्यनियामकभावेनेति सयुजौ / सखायौ चेतनत्वेन तुल्यस्वभावौ / समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः / गुहां प्रविष्टाविति यावत् / एतावात्मनौ, तल्लिङ्गदर्शनादित्याह-तयोरन्य इति / विशेषणाच्चेत्याह-अनन्तरे चेति / अनीशया स्वस्येश्वरत्वाप्रतीत्या देहे निमग्नः पुरुषो जीवः शोचति / निमग्नपदार्थमाह-मुह्यमान इति / नरो ऽहमिति भ्रान्त इत्यर्थः / जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव / ततो वीतशोको भवतीत्यर्थः / ऽद्वा सुपर्णाऽइति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् / अधुनाकृत्वाचिन्तामुद्धाटयति-अपर इति / अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः / सत्त्वं बुद्धिरिति शङ्कते-सत्त्वशब्द इति / बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आहनापीति / पूर्वपक्षार्थस्तदा स्यात्, यद्यत्र बुद्धिभिन्नः संसारी प्रतिपद्येत / नह्यत्र संसारी विविक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः / श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः / तावता मत्रव्याख्यामात्रेण / एवमेव जीवस्य ब्रह्मात्वोक्तावेव / नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः / भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः / अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न संपादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः / अविद्या नागच्छतीति वार्थः / जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते-कथमिति / बुद्धोर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह-उच्यत इति / तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः / वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह-इदं हीति / चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते / बुद्ध्यविवेकाचिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः / भोक्तृत्वमाविद्यकं, न वस्तुत इत्यत्र मानमाह-तथाचेति /
SK
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा / द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः / तस्मात् ऽऋतं पिबन्तौऽइति वाक्यमेव गुहाधिकरणविषय इति स्थितम्
SK
END Bस्Cओम्_१,२.३.१२
SK
START Bस्Cओम्_१,२.४.१३
SK
४ अन्तरधिकरणम् / सू. १३-१७
SK
अन्तर उपपत्तेः | BBस्_१,२.१३ |
SK
ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति / एतद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनि एव गच्छतिऽ (छा. ४.१५.१) इत्यादि श्र८यते / तत्र संशयः किमयं प्रतिबिम्बात्मक्ष्यधिकरणो निर्दिश्यते ऽथवा विज्ञानात्मा उत देवतात्मेन्द्रियस्याधिष्ठाताथवेश्वर इति / किं तावत्प्राप्तम्, छायात्मा पुरुषप्रतिरूपा इति / कुतः, तस्य दृश्यमानत्वप्रसिद्धेः / ऽय एषो ऽक्षिणि पुरुषो दृश्यतेऽ इति च प्रसिद्दवदुपदेशात् / विज्ञानात्मनो वायं निर्देश इति युक्तम् / स हि चक्षुषा रूपं पश्यंश्चक्षुषि संनिहितो भवति / आत्मशब्दश्चास्मिन्पक्षे ऽनुकूलो भवति / आदित्यपुरुषो वा चक्षुषो ऽनुग्राहकः प्रतीयते, ऽरश्मिभिरेषो ऽस्मिन्प्रतिष्ठितःऽ (बृ. ५.५.२) इति श्रुतेः / अमृतत्वादीनां च देवतात्न्यपि कथञ्चित्संभवात् / नेश्वरः, स्थानविशेषनिर्देशादित्येवं प्राप्ते ब्रूमः / परमेश्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति / कस्मात्, उपपत्तेः / उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम् / आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वर उपपद्यते / ऽस आत्मा तत्त्वमसिऽ इति श्रुतेः / अमृतत्वाभयत्वे च तस्मिन्नसकृच्छ्रुतौ श्रूयेते / तथा परमेश्वरानुरूपमेतदक्षिस्थानम् / यथाहि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात् / तथाक्षिस्थानं सर्वलेपरहिमुपदिष्टं, ऽतद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनि एव गच्छतिऽ इति श्रुतेः / संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते / ऽएतं संयद्धाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्तिऽ / ऽएष उ एव वामनीरेष हि सर्वाणि वामानि नयतिऽ / ऽ एष उ एव भामानीरेष हि सर्वेषु लोकेषु भातिऽ (छा. ४.१५.२,३,४) इति च / अत उपपत्तेरन्तरः परमेश्वरः
SK
FN: वर्त्मनि पक्ष्मस्थाने / प्रसिद्धवदुपदेशश्चक्षुषत्वोक्तिरेव / इहेत्यक्षिपुरुषोक्तिः / संयद्धामेति / वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्य अभिसंयन्त्युत्पद्यन्ते / वामनीर्वामानि शोभनानि लोकं प्रापयति / भामनीर्भामानि भानानि सर्वत्र नयतीति /
SK
अन्तर उपपत्तेः / उपकोसलविद्यावाक्यमुदाहरति-य इति / तदक्षिस्थानमसङ्गत्वेन ब्रह्मणो ऽनुरूपं यतो ऽस्मिन्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः / दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह-तत्रेति / पूर्वं ऽपिबन्तौऽइति प्रथमश्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षुषत्वानुसारेणमृतत्वादयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति-छायात्मेति / पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्वान्ते ब्रह्मोपास्तिरिति फलम् / प्रसिद्ववदिति / चाक्षुषत्वेनेत्यर्थः / संभावनामात्रेण पक्षन्तरमाह-विज्ञानात्मन इत्यादिना / ऽमनो ब्रह्मऽइतिवत्, ऽएतद्ब्रह्मेतिऽइति वाक्यस्येतिपदशिरस्कत्वान्न स्वार्थपरत्वमिति पूर्वपक्षः / ऽमनो ब्रह्मेत्युपासीतऽइत्यत्र इतिपदस्य प्रत्ययपरत्वात्, इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसंबन्धिनोर्ऽथपरत्वाद्वैषम्यमिति सिद्वान्तयति-परमेश्वर एवेति /
SK
बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह-संयद्वामेति / वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते / सर्वफलोदयहेतुरित्यर्थः / लोकानां फलदाताप्ययमेवेत्याह-वामनीरिति / नयति फलानि लोकान्प्रापयतीत्यर्थः / भामानि भानानि नयत्ययमित्याह-भामनीरिति /
SK
सर्वार्थप्रकाशक इत्यर्थः
SK
END Bस्Cओम्_१,२.४.१३
SK
START Bस्Cओम्_१,२.४.१४
SK
स्थानादिव्यपदेशाच् च | BBस्_१,२.१४ |
SK
कथं पुनराकशवत्सर्वगतस्य ब्रह्मणो ऽक्ष्यल्पस्थानमुपपद्यत इति /
SK
अत्रोच्यते- भवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् / सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि- ऽयः पृथिव्यां तिष्ठन्ऽ (बृ. ३.७.३) इत्यादिना / तेषु हि चक्षुरपि निर्दिष्टम्- ऽयश्चक्षुषि तिष्ठन्ऽ इति / ऽस्थानादिव्यपदेशात्ऽ इत्यादिग्रहणेनैतद्दर्शयति- न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यते, किं तर्हि नामरूपमित्येवञ्जातीयकमप्यनामरूपस्य ब्रह्मणो ऽनुचितं निर्दिश्यमानं दृश्यते- ऽतस्योदिति नामऽ ऽहिरण्यश्मश्रुःऽ (छा. १.६.७,६) इत्यादि / निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव / सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, शालग्राम इव विष्णोरित्येतदप्युक्तमेव
SK
FN: स्थानादन्यादयो येषां ते स्थानादयो नामरूपप्रकारास्तेषां व्यपदेशात्सर्वङ्गतस्यैकस्थाननियमो नावकल्पते /
SK
स्थाननामरूपाणां ध्यानार्थं श्रुत्यन्तरे ऽप्युपदेशादक्षिस्थानत्वोक्तिरत्र न दोष इति सूत्रयोजना / अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत्, यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः / नन्वनुचितबाहुल्योक्तिरसमाधानमित्याशङ्क्य युक्तिमाह-निर्गुणमपीति
SK
END Bस्Cओम्_१,२.४.१४
SK
START Bस्Cओम्_१,२.४.१५
SK
सुखविशिष्टाभिधानाद् एव च | BBस्_१,२.१५ |
SK
अपिच नैवात्र विवदितव्यं, किं ब्रह्मास्मिन्वाक्ये ऽभिधीयते न वेति / सुखविशिष्टाभिधानमेव ब्रह्मत्वं सिद्धम् / सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तं ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ इति तदेवेहाभिहितं, प्रकृतपरिग्रहस्य न्याय्यत्वात् / ऽआचार्यस्तु ते गतिं वक्ताऽ (छा. ४ १४.१) इति च गतिमात्राभिधानप्रतिज्ञानात् /
SK
कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति /
SK
उच्यते- ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच- ऽविजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामिऽ इति / तत्रेदं प्रतिवचनम्- ऽयद्वाव कं तदेव खं यदेव खं तदेव कंऽ (छा. ४.१०.५)
SK
इति / तत्र खंशब्दो भूताकाशे निरूढो लोके / यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत / तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात् / तथा कंशब्दस्य विषयेन्द्रियसंपर्कजनिते सामये सुखे प्रसिद्धत्वात्, यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत, लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात् / इतरेतरविशेषतौ तु कङ्खंशब्दौ सुखात्मकं ब्रह्म गमयतः / तत्र द्वितीये ब्रह्मशब्दे ऽनुपादीयमाने कं खं ब्रह्मेत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वातसुखस्य गुणस्याध्येयत्वं स्यात्, तन्मा भूदित्युभयोः कङ्खंशब्दयोर्ब्रह्मशब्दशिरस्त्वं ऽकं ब्रह्म खं ब्रह्मऽ इति / इष्टं हि सुखस्यापि गुणस्य गुणवद्ध्येयत्वम् / तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् / प्रत्येकं च गार्हपत्यादयो ऽग्नयः स्वं स्वं महिमानमुपदिश्य ऽएषा सोम्य ते ऽस्मद्विद्यात्मविद्या चऽ इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति / ऽआचार्यस्तु ते गतिं वक्ताऽ इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयति / ऽयथा पुष्करपलाशा आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽ (छा. ४.१४.३) इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति / तस्मात्प्रकृतस्यैव ब्रह्मणो ऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वार्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते- ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचऽ (छा. ४.१५.१) इति
SK
FN: प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः / क्षयिता पारतन्त्र्यादिर्वा आमयस्तत्सहित इत्यर्थः / तदर्थयोर्विशेषितत्वात्छब्दावपि विशेषितावुच्येते / विशेषणत्वेन स्वस्य भूतत्वव्यावर्तकत्वेन / ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् /
SK
प्रकरणादपि ब्रह्म ग्राह्यमित्याह-सुखविशिष्टेति / ध्यानार्थं भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्मणः प्रकृतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादिति सूत्रार्थः / ननु प्रकरणात्प्रबलेन दृश्यत्वलिङ्गेनोपस्थापितश्छायात्मा सर्वनामार्थ इत्यत आह-आचार्यस्त्विति / उपकोसलो नाम कश्चिद्ब्रह्मचारि जाबालस्याचार्यस्याग्नीन्द्वादशवत्सरान्परिचचार / तमनुपदिशय देशान्तरगते जाबाले गार्हपत्याद्यग्निभिर्दयया ऽप्राणो ब्रह्मऽइत्यात्मविद्यामुपदिश्योक्तम्-आचार्यस्त्विति / तवात्मविद्याफलावाप्तये मार्गमर्चिरादिकं वदिष्यतीत्यर्थः / पश्चादाचार्येणागत्य ऽय एषो ऽक्षिणिऽइत्युक्तार्चिरादिका गतिरुक्ता / तथा चाग्निभिरुक्तात्मविद्यावाक्यस्य गतिवाक्येनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकृतात्मग्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्लिङ्गद्बलवदिति भावः / श्रुतिं व्यचष्टे-उच्यत इति / प्राणश्च सूत्रात्मा बृहत्त्वाद्ब्रह्मेति यत्तज्जानामि, कं विषयसुखं खं च भूताकाशं ब्रह्मत्वेन ज्ञातुं न शक्नोमीत्यर्थः / खं कथंभूतं, यत्कं तदेव खमिति सुखेन विशेषितस्य खस्य भूतत्वनिरासः / तथा कं कथंभूतं, यत्खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेकमुखेनाह-तत्र खमित्यादिना / ऽआत्मविद्याऽइति श्रुतिविरोधात्प्रतीकध्यानमत्रानिष्टमिति भावः / सामय इति / आमयो दोषः साधनपारतन्त्रयानित्यत्वादिः, तत्सहित इत्यर्थः / प्रत्येकग्रहणे दोषमुक्त्वा द्वयोर्ग्रहणे फलितमाह-इतरेतरेति / विशेषितार्थकावित्यर्थः / नन्वेकं ब्रह्मैवात्र ध्येयं चेद्ब्रह्मपदान्तरं किमर्थमित्यत आह-तत्रेति / विशेषणत्वेन खस्य भूतत्वव्यावर्तकत्वेनेत्यर्थः / ब्रह्मशब्दः शिरो ययोस्तत्त्वमिति विग्रहः / अध्येयत्वे को दोषः, तत्राह-इष्टं हीति / मार्गोक्त्या सुगुणविद्यात्वावगमादिति भावः / आत्मविद्यापदेनोपसंहारादपि प्रकृतं ब्रह्मेत्याह-प्रत्येकं चेति / पृथिव्यग्निरन्नमादित्य इति मम चतस्रस्तनवो विभूतिरिति गार्हपत्य उपदिदेश / आपो दिशो नक्षत्राणि चन्द्रमा इत्यन्वाहार्यपचन उवाच / प्राण आकाशो द्यौर्विद्युदिति स्वमहिमानमाहवनीयो जगादेति विभागः / इयमस्माकमग्नीनां विद्या प्रत्येकमुक्ता / आत्मविद्या तु पूर्वमस्माभिर्मिलित्वा ऽप्राणो ब्रह्मऽइत्युक्तेत्यर्थः / उच्यतामग्निभिर्ब्रह्म, छायात्मा गुरुणोच्यतां वक्तृभेदादिति तत्राह-आचार्यस्त्विति /
SK
एकवाक्यतानिश्चयाद्वक्तृभेदे ऽपि नार्थभेद इत्यर्थः
SK
END Bस्Cओम्_१,२.४.१५
SK
START Bस्Cओम्_१,२.४.१६
SK
श्रुतोपनिषत्कगत्यभिधानाच् च | BBस्_१,२.१६ |
SK
इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ- ऽअथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्तेऽ (प्रश्न. १.१०) इति / स्मृतावपि- ऽअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् / तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःऽ (गी. ८.२४) इति / सैवाहाक्षिपुरुषविदो ऽभिधीयमाना दृश्यते / ऽअथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्तिऽ इत्युपक्रम्य ऽआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो ऽमानवः स एनान्ब्रह्म गमयत्येव देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्ते नावर्तन्तेऽ (छा. ४.१७.५) इति / तदिह ब्रह्मविद्विषया प्रसिद्धया गत्याक्षिस्थानस्य ब्रह्मत्वं निश्चीयते
SK
FN: देहपातानन्तर्यमथशब्दार्थः / एतत् व्यष्टिसमष्टिकारणात्मकं हैरण्यगर्भं पदम् / अस्मिन्नुपासके मृते पुत्रादयः शव्यं शवसंबन्धि संस्कारादिकर्म कुर्वन्ति / मानवं मनोः सर्गे, आवर्ते जन्ममरणाद्यावृत्तियुक्तम् /
SK
श्रुता अनुष्ठिता उपनिषत् रहस्यं सगुणब्रह्मोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्वा तस्या अत्राभिधानाल्लिङ्गदिति सूत्रार्थमाह-इतश्चेति / यस्मादृश्यते तत्तस्मादिहेत्यन्वयः / श्रुतिमाह-अथेति / देहपातानन्तरमित्यर्थः / स्वधर्मस्तपः तपोब्रह्मचर्यश्रद्धाविद्याभिरात्मानं ध्यात्वा तया ध्यानविद्ययोत्तरं देवयानमार्गं प्राप्यते नोत्तरेण पथा / आदित्यद्वारा सगुणब्रह्मस्थानं गच्छन्ति, एतद्वै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामायतनं लिङ्गात्मकं हिरण्यगर्भरूपं, वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं सर्वाधिष्ठानम् / अतः कार्यं ब्रह्म प्राप्य तत्स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त इत्यर्थः / अग्निरेव ज्योतिर्देवता एवमहराद्या देवता एव स्मृतावुक्ताः / अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कुर्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहिम्ना अर्चिरादिदेवान्क्रमेण गच्छन्ति / आर्चिषमग्निं, ततो ऽहः, अह्नः शुक्लपक्षं, तत्र उत्तरायणं, तस्मात्संवत्सरं, ततो देवलोकं, ततो वायुं, वायोरादित्यं, ततश्चन्द्रं, चन्द्राद्विद्युतं गत्वा तत्र विद्युल्लोके स्थितानुपासकानमानवः पुरुषो ब्रह्मलोकादागत्य कार्यं ब्रह्मलोकं प्रापयति / एषो ऽर्चिरादिभिर्देवैर्विशिष्टो देवपथो गन्तव्येन ब्रह्मणा योगाद्ब्रह्मपथश्च / त एतत्कार्यं ब्रह्म प्रतिपद्यमाना उपासका इमं मानवं मनोः सर्गं आवर्तं जन्ममरणावृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः
SK
END Bस्Cओम्_१,२.४.१६
SK
START Bस्Cओम्_१,२.४.१७
SK
अनवस्थितेर् असंभवाच् च नेतरः | BBस्_१,२.१७ |
SK
यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति / अत्रोच्यते- न छायात्मादिरितर इह ग्रहणमर्हति / कस्मात्, अनवस्थितेः / न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं संभवति / यदैव हि कश्चित्पुरुषश्चक्षुरासीदति तदा चक्षुषि पुरुषच्छाया दृश्यते, अपगते तस्मिन्न दृश्यते / ऽय एषो ऽक्षिणि पुरुषःऽ इति च श्रुतिः संनिधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति / नचोपासनाकाले छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे संनिधाप्योपास्त इति युक्तं कल्पयितुम् / ऽअस्यैव शरीरस्य नाशमन्वेष नश्यतिऽ (छा. ८.९.१) इति श्रुतिश्छायात्मनो ऽप्यनवस्थितत्वं दर्शयति / असंभवाच्च तस्मिन्नमृतत्वादीनां गुणानां न छायात्मनि प्रतीतिः / तथा विज्ञानात्मनो ऽपि साधारणे कृत्स्नशरीरेन्द्रियसंबन्धे सति चक्षुष्येवावस्थितत्वं वक्तुं न शक्यम् / ब्रह्मणस्तु व्यापिनो ऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसंबन्धः / समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसंबन्धः / यद्यपि विज्ञानात्मा परमात्मनो ऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यरोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते / संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव / देवतात्मनस्तु ऽरश्मिभिरेषो ऽस्मिन्प्रतिष्ठितःऽ इति श्रुतेर्यद्यपि चक्षुष्यवस्थानं स्यात्तथाप्यात्मत्वं तावन्न संभवति, पराग्रूपत्वात् / अमृतत्वादयो ऽपि न संभवन्ति, उत्पत्तिप्रलयश्रवणात् / अमरत्वमपि देवानां चिरकालावस्थानापेक्षम् / ऐश्वर्यमपि परमेश्वरायत्तं न स्वाभाविकम् / भीषास्माद्वातः पवते भीषोदेति सूर्यः / भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमःऽ (तै. २.८) इति मन्त्रवर्णात् / तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः / अस्मिंश्च पक्षे दृश्यत इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम्
SK
FN: अस्य छायाकरस्य बिम्बस्य / पराक् बाह्यं जगत् / भीषा भयेन, अस्मात् ब्रह्मणः, पवते चलति / उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः /
SK
चक्षुरासीदतीति / उपगच्छतीत्यर्थः / अनवस्थितस्योपास्यत्वं सदा न सिद्यतीति भावः / किञ्चाव्यवधानात्स्वाक्षिस्थ उपास्यः / नच तस्य स्वचक्षुषा दर्शनं संभवतीत्याह-य एष इति / अस्तु तर्हि परेण दृश्यमानस्योपास्तिरित्यत आह-नचेति / कल्पनागौरवादित्यर्थः / युक्तिसिद्धानवस्थितत्वे श्रुतिमाह-अस्येति / छायाकरस्य बिम्बस्य नाशमदर्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः / जीवं निरस्यति-तथेति / जात्यन्धस्याप्यहमित्यविशेषण जीवस्याभिव्यक्तेश्चक्षुरेव स्थानमित्ययुक्तमित्यर्थः / दृष्ट इति / श्रुताविति शेषः / ननु ऽचक्षोः सूर्यो अजायतऽऽसूर्यो ऽस्तमेतिऽइति वाक्यं अमरा देवा इति प्रसिद्धिबाधितमित्याशङ्क्याह-अमरत्वमपीति / भीषा भयेनास्मादीश्वराद्वायुश्चलति / अग्निश्चेन्द्रश्च स्वस्वकार्यं कुरुतः / उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः / ईश्वरपक्षे दृश्यत इत्युक्तं, तत्राह-अस्मिन्निति /
SK
दर्शनमनुभवः / तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यं, संनिधानात् / तथाच शास्त्रकरणको विद्वदनुभव उपासनास्तुत्यर्थ उच्यत इत्यर्थः / तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,२.४.१७
SK
START Bस्Cओम्_१,२.५.१८
SK
५ अन्तर्याम्यधिकरणम् / सू. १८-२०
SK
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् | BBस्_१,२.१८ |
SK
ऽय इमं च लोकं परं च लोकं सर्वाणि च भूतानि यो ऽन्तरो यमयतिऽ इत्युपक्रम्य श्रूयते- ऽयः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतःऽ (बृह. ३.७.१,२) इत्यादि / अत्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तरवस्थितो यमयितान्तर्यामीति श्रूयते / स किमधिदैवाद्यभिमानी देवतात्मा कश्चित्किंवा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी किंवा परमात्मा किंवार्थान्तरं किञ्चिदित्यपूर्वसंज्ञादर्शनात्मसंशयः / किं तावन्नः प्रतिभाति, संज्ञया अप्रसिद्धत्वात्संज्ञिनो ऽप्यसिद्धेनार्थान्तरेण केनचिद्भवितव्यमिति / अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्त्यभ्युपगन्तुम् / अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः / तस्मात्पृथिव्याद्यभिमानी कश्चिद्देवो ऽन्तर्यामी स्यात् / तथाच श्रूयते- ऽपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिःऽ (बृ. ३.९.१०) इत्यादि / स च कार्यकारणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम् / योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात्, नतु परमात्मा प्रतीयेत, अकार्यकरणत्वादित्येवं प्राप्त इदमुच्यते- यो ऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यान्नान्य इति / कुतः, तद्धर्मव्यपदेशात् / तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते / पृथिव्यादि तावदधिदैवतादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्टन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते / सर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः / एष त ऽआत्मान्तर्याम्यमृतःऽ इति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते / ऽयं पृथिवी न वेदऽ इति च पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनो ऽन्यमन्तर्यामिणं दर्शयति / ऽपृथिवी देवता ह्यहमस्मि पृथिवीत्यत्मानं विजानीयात्ऽ / तथा ऽअदृष्टो ऽश्रुतःऽ इत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति / यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति /
SK
नैष दोषः / यान्नियच्छति तत्कार्यकरणैरेव, तस्य कार्यकरणत्त्वोपपत्तेः / तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न संभवति, भेदाभावात् / भेदे हि सत्यनवस्थादोषोपपत्तिः / तस्मात्परमात्मैवान्तर्यामी
SK
FN: आयतनं शरीरं, लोक्यते ऽनेनेति लोकचक्षुः, ज्योतिर्मनः /
SK
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् / बृहदारण्यकवाक्यमुदाहरति-य इति / अन्तर्यामिब्रह्मणे प्रतीयमानार्थमाह-अत्रेति / ऽयः पृथिव्याम्ऽइत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते / तथा ऽयः सर्वेषु लोकेषुऽइत्यधिलोकं, ऽयः सर्वेषु वेदेषुऽइत्यधिवेदं, ऽयः सर्वेषु यज्ञेषुऽइत्यधियज्ञं, ऽयः सर्वेषु भूतेषुऽइत्यधिभूतं, ऽयः प्राणे तिष्ठन्ऽइत्यादि ऽय आत्मानिऽइत्यन्तमध्यात्मं चेति विभागः / अशरीरस्य नियन्तृत्वसंभवासंभवाभ्यां संशयः / पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननिर्देशो दृष्टान्त उक्तः, तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधीयत इत्याक्षेपसंगतिः / अतः पूर्वफलेनास्य पलवत्त्वम् / अवान्तरफलं तु पूर्वपक्षे अनीश्वरोपास्तिः, सिद्वान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यम् /
SK
स्वयमेवारुचिं वदन्पक्षान्तरमाह-अथवेति / अनिश्चितार्थे फलाभावेनाफलस्य वेदार्थत्वायोगादिति भावः / तथाच श्रूयते वेदे / पृथिवी यस्य देवस्यायतनं शरीरं, लोक्यते ऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वार्थप्रकाशकं मन इत्यर्थः / उपक्रमादिनान्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह-योगिनो वेति / आगन्तुकसिद्धस्यान्तर्यामित्वे ऽप्रसिद्धसाधनकल्पनागौरवान्नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति-एवं प्राप्त इति / देवतानिरासे हेत्वन्तरमाह-यं पृथिवीति / ईश्वरो न नियन्ता, अशरीरत्वात्, घटवदियुक्तं निरस्यति-नैष दोष इति / नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुः, शरीरासंबन्धित्वं वा / आध्ये, स्वदेहनियन्तरि जीवे व्यभिचारः /
SK
द्वितीयस्त्वसिद्धः, ईश्वरस्य स्वाविद्योपार्जितसर्वसंबन्धित्वादित्याह-यान्नियच्छतीति / सशरीरो नियन्तेतिलोकदृष्टिमनुसृत्यैतदुक्तम् / वस्तुतस्तु चेतनसांनिध्याज्जडस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वं / तच्चाचिन्त्यमायाशक्तेश्चिदात्मनः शरीरं विनैवोपपन्नं / ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह-तस्यापीति /
SK
निरङ्कुशं सर्वनियन्तृत्वमीश्वरस्य श्रुतं, तस्य नियन्त्रन्तरानुमाने श्रुतिबाध दति नानवस्थेत्यर्थः / यद्वा ईश्वराद्भेदकल्पनया जीवस्य नियन्तृत्वोक्तेः सत्यभेदाभावान्नानवस्थेत्यर्थः
SK
END Bस्Cओम्_१,२.५.१८
SK
START Bस्Cओम्_१,२.५.१९
SK
न च स्मार्तम् अतद्धर्माभिलापात् | BBस्_१,२.१९ |
SK
स्यादेतत् / अदृष्टत्वादयो धर्माः सांख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात् / ऽअप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतःऽ (मनु. १.५) इति हि स्मरन्ति, तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते / तस्मात्प्रधानमन्तर्यामिशब्दं स्यात् / ऽईक्षतेर्नाशब्दम्ऽ (ब्र. १.१.५) इत्यत्र निराकृतमपि सत्प्रधानमिहादृष्टत्वादिव्यपदेशसंभवेन पुनराशङ्क्यते / अत उत्तरमुच्यते- नच स्मार्ते प्रधानमन्तर्यामिशब्दं भवितुमर्हति / कस्मात्,अतद्धर्माभिलापात् / यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्यसंभवति तथापि न द्रष्टृत्वादिव्यपेशः संभवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात् / ऽअदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाताऽ (बृह. ३.७.२३) इति हि वाक्यशेष इह भवति / आत्मत्वमपि न प्रधानस्योपपद्यते / १९ //
SK
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसंभवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतु / शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता च भवति, आत्मा च प्रत्यक्त्वात् / अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेः / अदृष्टत्वादयश्च धर्माः शारीरे परसिद्धाः दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् / ऽन दृष्टेर्द्रष्टारं पश्येःऽ (बृ. ३.४.२) इत्यादिश्रुतिभ्यश्च / तस्य च कार्यकरणसंघातमन्तर्यमयितुं शीलं, भोक्तृत्वात् / तस्माच्छारीरो ऽन्तर्यामीत्यत उत्तरं पठति-
SK
FN: अमृतश्चेति विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः / कर्तरीति क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः /
SK
प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह-अप्रतर्क्यमिति /
SK
रूपादिहीनत्वादविज्ञेयं, सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः / अतत् अप्रधानं चेतनं, तस्य धर्माणामभिधानादिति हेत्वर्थः
SK
END Bस्Cओम्_१,२.५.१९
SK
START Bस्Cओम्_१,२.५.२०
SK
शरीरश् चोभये ऽपि हि भेदेनैनम् अधीयते | BBस्_१,२.२० |
SK
नेति पूर्वसूत्रादनुवर्तते / शारीरश्च नान्तर्यामीष्यते / कस्मात् / यद्यपि द्रष्टृत्वादयो धर्मस्तस्य संभवन्ति तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति / अपिचोभये ऽपि हि शाखिनः काण्वा माध्यन्दिनानाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते- ऽयो विज्ञाने तिष्ठन्ऽ (बृ. ३.७.२२) इति काण्वाः / ऽय आत्मनि तिष्ठन्ऽ इति माध्यन्दिनाः / ऽय आत्मनि तिष्ठन्ऽ इत्यस्मिन्स्तावत्पाठे भवत्यात्मशब्दः शारीरस्य वाचकः / ऽयो विज्ञाने तिष्ठन्ऽ इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते / विज्ञानमयो हि शारीरः / तस्माच्छारीरदन्य ईश्वरो ऽन्तर्यामीति सिद्धम् / कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारवुपपद्येते, यश्चायमीश्वरो ऽन्तर्यामी यश्चायमितरः शारीरः / का पुनरिहानुपपत्तिः / ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ इत्यादि श्रुतिवचनं विरुध्येत / अत्र हि प्रकृतादन्तर्यामिणो ऽन्यं द्रष्टारं, श्रोतारं, मन्तारं, विज्ञातारं चात्मानं प्रतिषेधति / नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमितिचेत्, न, नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च / अत्रोच्यते-
SK
अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तो ऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशो न पारमार्थिकः / एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ संभवतः / एकस्यैव तु भेदव्यवहार उपाधिकृतो यथा घटाकाशो महाकाश इति / ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते / तथाच श्रुतिः ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ इत्वविद्याविषये सर्वे व्यवहारं दर्शयति / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ इति विद्याविषये सर्वे व्यवहारं वारयति
SK
अत्तरसूत्रनिरस्याशङ्कामाह-यदि प्रधानमित्यादिना / अमृतश्चेति / विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः / यथा देवदत्तकर्तृकगमनक्रियाया ग्रामः कर्म न देवदत्तः, तथात्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृविषयत्वायोगादित्याह-कर्तरीति / क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः / दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह-नेति / अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह-अपि चोभये ऽपीति / भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते-कथमिति / नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते-का पुनरिति / तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह-नान्य इति / स एव श्रुत्यर्थमाह-अत्रेति / श्रुतेरर्थान्तरमाशङ्क्य निषेधति-नियन्त्रन्तरेत्यादिना / न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह-अविशेषेति / तस्मात्सूत्रे, ऽय आत्मानि तिष्ठन्ऽइति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, ऽनान्यःऽइति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते-अत्रोच्यत इति / भेदः सत्यः किं न स्यादत आह-एको हीति / गौरवेण द्वयोरहन्धीगोचरत्वासंभावदेक एव तद्गोचरः / तद्गोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः / ततश्चेति /
SK
कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः / तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,२.५.२०
SK
START Bस्Cओम्_१,२.६.२१
SK
अदृश्यत्वाधिकरणम् / सू. २१-२३
SK
अदृश्यत्वादिगुणको धर्मोक्तेः | BBस्_१,२.२१ |
SK
ऽअथ परा यया तदक्षरमधिगम्यतेऽ, ऽयत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराःऽ (मुण्ड. १.१.५,६) इति श्रूयते / तत्र संशयः- किमयमद्रेश्यत्वादिगुणको भूतयोनिः प्रधानं स्यादुत शारीर आहोस्वित्परमेश्वर इति / तत्र प्रधानमचेतनं भूतयोनिरिति युक्तं, अचेतनानामेव तद्दृष्टान्तत्वेनोपादानात् / ऽयथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्यामोषधः संभवन्ति / यथा सतः पुरुषोत्केशलोमानि तथाक्षरात्संभवतीह विश्वम्ऽ (मुण्ड. १.१.७) इति /
SK
ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ /
SK
नेति ब्रूमः / नहि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्ति / चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम् / अपिच पूर्वत्रादृष्टत्वाद्यभिलाषसंभवे ऽपि द्रष्टृत्वाद्यभिलाषासंभवान्न प्रधानमभ्युपगतम् / इह त्वदृश्यत्वादयो धर्माः प्रधाने संभवन्ति / नचात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते /
SK
ननु ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. १.१.९) इत्ययं वाक्यशेषो ऽचेतने प्रधाने न संभवन्ति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति /
SK
अत्रोच्यते- ऽयया तदक्षरमधिगम्यतेऽ ऽयत्तदद्रेश्यम्ऽ इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा पुनरन्ते श्रावयिष्यति- ऽअक्षरात्परतः परःऽ (मुण्ड. २.१.२) इति / तत्र यः परो ऽक्षराच्छ्रुतः स सर्वज्ञः सर्ववित्संभविष्यति / प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः / यदा तु योनिशब्दो निमित्तवाची तदा शारीरो ऽपि भूतयोनिः स्यात्, धर्माधर्माभ्यां भूतजातस्योपार्जनादिति / एवं प्राप्ते ऽभिधीयते- योयमदृश्यत्वादिगुणको भूतयोनिः स परमेश्वर एव स्यान्नान्य इति / कथमेतदवगम्यते / धर्मोक्तेः / परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते- ऽयः सर्वज्ञः सर्ववित्ऽ इति / नहि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा संभवति /
SK
नन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं च न भूतयोनिविषयमित्युक्तम् /
SK
अत्रोच्यते- नैवं संभवति / यत्कारणं ऽअक्षरात्संभवतीह विश्वम्ऽ इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्यानन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति- ऽयः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः / तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायतेऽ इति / तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते / ऽअक्षरात्परतः परःऽ इत्यत्रापि न प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधूयते / कथमेतदवगम्यते / ऽयेनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्ऽ (मुण्ड. १.२.१३) इति प्रकृत्य तस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात् / कथं तर्हि ऽअक्षरात्परतः परःऽ इति व्यपदिश्यत इति, उत्तरसूत्रे तद्वक्ष्यामः / अपिचात्र द्वे विद्ये वेदितव्ये उक्ते- ऽपरा चैवापरा चऽ इति / तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीति- ऽअथ परा यया तदक्षरमधिगम्यते इत्यादि / तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् / यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत नेयं परा विद्या स्यात् / परापरविभागो ह्ययं विद्ययोरभ्युदयनिःश्रेयसफलतया परिकल्प्यते / नच प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यते / तिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षे ऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात् / द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे / ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. १.१.३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणे ऽवकल्प्यते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरि / अपिच ऽस ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहऽ (मुण्ड. १.१.१) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयंस्तया ब्रह्मविद्यात्वं दर्शयति / सा च ब्रह्मविद्यासमाख्या तदधिगम्यस्याक्षरस्याब्रह्मत्वे बाधिता स्यात् / अपरर्ग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रम उपन्यस्यते ब्रह्मविद्याप्रशंसायै / ऽप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म / एतच्छ्रेयो यो ऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्तिऽ (मुण्ड. १.२.७) इत्येवमादिनिन्दावचनात् / निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति- ऽपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन / तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रेत्रियं ब्रह्मनिष्ठम्ऽ (मुण्ड. १.२.१२) इति / यत्तूक्तमचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेन भूतयोनिना भवितव्यमिति / तदयुक्तम् / नहि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमो ऽस्ति / अपिच स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति न स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यते / तस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव
SK
FN: अद्रेश्यमदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः / ऊर्णनाभिर्लूताकीटः / पूर्वत्र पूर्वस्मिन्नधिकरणे / नहीति / ऽअक्ताः शर्करा उपदधातीऽ त्यत्र ऽतेजो वै घृतंऽ इति शेषान्निर्णयवदत्रापि अदृश्यवादेः शेषान्निर्णयः / येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं पुरुषं सत्यं वेद / सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्याम् / प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः / अष्टादशेति षोडशार्त्विजः यजमानः पत्नी चेत्यष्टादश / येषूक्तं अवरमनित्यं कर्म यज्ञः / अपियन्ति प्राप्नुवन्ति / प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यं गच्छेत् / कुतः, कृतेन कर्मणा अकृतो मोक्षो नास्ति /
SK
अदृश्यत्वादिगुणको धर्मोक्तेः / मुण्डकवाक्यमुदाहरति-अथेति / कर्म विद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते / तामैव विषयोक्त्या निर्दिशति-यत्तदिति / अद्रेश्यं अदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्मणत्वादिजातिः, चक्षुःश्रोत्रशून्यमचक्षुःश्रोत्रं, पाणिपादशून्यमपाणिपादं, ज्ञानकर्मेन्द्रियविकलमित्यर्थः / विभुं प्रभुं, सुसूक्ष्मं दुर्ज्ञेयत्वात् / नित्याव्ययपदाभ्यां नाशापक्षययोर्निरासः / भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डितास्तदक्षरं तद्विद्या परेत्यन्वयः / अद्रेश्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात्संशयः / पूर्ववद्रष्टृत्वादीनां चेतनधर्माणामत्राश्रुतेरस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति-तत्रेति / पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् / ऊर्णनाभिर्लूताकीटः तन्तून्स्वदेहात्सृजति, उपसंहरति चेत्यर्थः / सतो जीवतः / ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह-अपिचेति / अत्र प्रधाने विरुध्यमानो ऽसंभावितो वाक्यशेषः श्रुत इति शङ्कते-ननु य इति / पञ्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वरस्य सर्वज्ञत्वादिकमित्याह-अत्रोच्यत इति / ऽसंदिग्धे तु वाक्यशेषात्ऽइति न्यायेन सिद्धान्तयति-एवं प्राप्त इति / चेतनाचेतनत्वेन संदिग्धे भूतयोनौ ऽयः सर्वज्ञःऽइति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तं, वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते-नन्विति / ऽजनिकर्तृः प्रकृतिःऽइति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्संभवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनिर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते-अत्रोच्यत इति / एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपं, स्थूलं ततो ऽन्नं व्रीह्यादीत्यर्थः / यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानदचेतनत्वमिति, तत्राह-अक्षरात्परत इति / नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः ऽअक्षरं पुरुषं वेदाऽइत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह-येनेति / येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य ऽअप्राणो ह्यमनाः शुभ्रःऽ ऽअक्षरात्परतः परःऽइत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः / तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह-कथमिति / परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह-अपिचेति / ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह-परापरविभागो इति / अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः / अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह-नचेति / ननु ऽयः सर्वज्ञःऽइत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह-तिस्रश्चेति / इतश्च भूतयोनेर्ब्रह्मत्वमित्याह-कस्मिन्निति / अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञाने ऽपि तदकार्याणामात्मनां ज्ञानं न भवति / एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः / ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह-अपिचेति / स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच / ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा / नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह-अपरेति / प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसंपादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश / यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः / तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, ऽपत्युर्नो यज्ञसंयोगेऽइति सूत्रेण पतिशब्दस्य नकारो ऽन्तादेशो यज्ञसंबन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः / येष्ववरमनित्यफलकं कर्म श्रुत्युक्तं, एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः / तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः / ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति-श्रोत्रियमिति /
SK
कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः / सर्वसाम्ये तथाप्यनिष्टापत्तेरित्याह-अपिच स्थूला इति
SK
END Bस्Cओम्_१,२.६.२१
SK
START Bस्Cओम्_१,२.६.२२
SK
विशेषणभेदव्यपदेशाभ्यां च नेतरौ | BBस्_१,२.२२ |
SK
इतश्च परमेश्वर एव भूतयोनिर्नेतरौ शारीरः प्रधानं वा / कस्मात् / विशेषणभेदव्यपदेशाभ्याम् / विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेन- ऽ दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः / अप्राणो ह्यमनाः शुभ्रःऽ (मुण्ड. २.१.२) इति / नह्येतद्दिव्यादिविशेषणमविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनस्तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यते / तस्मात्साक्षादौपनिषदः पुरुष इहोच्यते / तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति- ऽअक्षरात्परतः परःऽ इति / अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतं सर्वस्माद्विकारात्परो यो ऽविकारस्तस्मात्परतः पर इति भेदेन व्यपदेशात्परमात्मानमिह विवक्षितं दर्शयति / नात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य तस्माद्भेदव्यपदेश उच्यते / किं तर्हि यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत परिकल्प्यताम् / तस्माद्भेदव्यपदेशात्परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते
SK
कुतश्च परमेश्वरो भूतयोनिः-
SK
FN: अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् / अव्याकृतमव्यक्तम् / नामरूपयोर्बीजमीश्वरस्तस्य शक्तिरूपम् /
SK
विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे-विशिनष्टि हीत्यादिना / दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबाह्याभ्यन्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः / अविद्याकृतं नामरूपात्मकं शरीरं तेन परिच्छेदो ऽल्पत्वम् / तस्य शरीरस्य धर्माज्जाड्यमूर्तत्वादीनित्यर्थः / नन्वक्षरशब्देन प्रधानोक्तावशब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह-अक्षरमव्याकृतमिति / अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् / अव्याकृतमव्यक्तम् / अनादीति यावत् / नामरापयोर्बीजमीश्वरः तस्य शक्तिरूपम् / परतन्त्रत्वादुपादानमपि शक्तिरित्युक्तम् / भूतानां सूक्ष्माः संस्कारा यत्र तद्भूतसूक्ष्मं ईश्वरश्चिन्मात्र आश्रयो यस्य तत्तथा / तस्यैव चिन्मात्रस्य जीवेश्वरभेदोपाधिभूतम् / यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बाष्यबहिर्भूतं, ऽएतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्चऽइत्योतप्रोतभावेनाव्याकृतस्य चिदाश्रयत्वश्रुतेराश्रयपदलक्षणाया निर्मूलत्वात् / नहि मूलप्रकृतेर्भेदे किञ्चिन्मानमस्ति / नच ऽइन्द्रो मायाभिःऽइति श्रुतिर्मानं, ऽअजामेकाम्ऽइत्याद्यनेकश्रुतिबलेन लाघवतर्कसहायेन तस्याः श्रुतेर्बुद्धिभेदेन मायाभेदानुवादित्वात् / तदुक्तं सुरेश्वराचार्यैः-ऽस्वतस्त्वविद्याभेदो ऽत्र मनागपि न विद्यतेऽइति / सांख्ययोगाचार्याः पुराणेतिहासकर्तारश्च मूलप्रकृत्यैक्यं वदन्ति / नन्वविद्यैक्ये बन्धमुक्तिव्यवस्था कथम् / नच व्यवस्था नास्तीति वाच्यं, श्रवणे प्रवृत्त्यादिबाधापतादिति चेत्, उच्यते-ये ह्यविद्यानानात्वमिच्छन्ति तैरपि परिणामित्वेन सांशत्वमविद्याया अङ्गीकार्यं, तथा चानर्थात्मकस्वीयसंघातात्मना परिणताविद्यांशोपहितजीवभेदाद्व्यवस्था सिध्यति / यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः करणपरिणाम्यज्ञानांशनशो मुक्तिरिति / एवं च श्रोतुः स्वरूपानन्दप्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीवन्मुक्तिशास्त्रं चेति सर्वमबाधितं भवति / नचैवं नानाजीवपक्षादविशेषः, मूलप्रकृतिनानात्वाभावादित्यलम् / परत्वेहेतुः-अविकार इति / ननु सूत्रकृता श्रुतौ प्रधानाद्भेदव्यपदेश उक्तस्तत्र कथमज्ञानाद्भेदोक्तिर्व्याख्यायते, तत्राह-नात्रेति /
SK
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव / ततो ऽन्यस्याप्रमाणिकत्वादित्यर्थः / अतो ऽत्राज्ञानमेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते / तन्निरासेनार्थात्सांख्याकल्पितप्रधाननिरास इति मन्तव्यम्
SK
END Bस्Cओम्_१,२.६.२२
SK
START Bस्Cओम्_१,२.६.२३
SK
रूपोपन्यासाच् च | BBस्_१,२.२३ |
SK
अपिच ऽअक्षरात्परतः परःऽ इत्यस्यानन्तरम् ऽएतस्माज्जायते प्राणःऽ इति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्वानां सर्गमुक्त्वा तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामः- ऽअग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः / वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्माऽ (मुण्ड. २.१.४) इति / तच्च परमेश्वरस्यैवोचितं, सर्वविकारकारणत्वात् / न शारीरस्य तनुमहिम्नः / नापि प्रधानस्यायं रूपोपन्यासः संभवति, सर्वभूतान्तरात्मत्वासंभवात् / तस्मात्परमेश्वर एव भूतयोनिर्नेतराविति गम्यते / कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते, प्रकरणात्, ऽएषःऽ इति च प्रकृतानुकर्षणात् / भूतयोनिं हि प्रकृत्य ऽएतस्माज्जायते प्राणःऽ, ऽएष सर्वभूतान्तरात्माऽ इति वचनं भूतयोनिविषयमेव भवति / यथोपाध्यायं प्रकृत्यैतस्मादधीष्वैष वेदवेदाङ्गपारग इति वचनमुपाध्यायविषयं भवति तद्वत् / कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं संभवति / सर्वात्मत्वविवक्षयेदमुच्यते नतु विग्रहवत्त्वविवक्षयेत्यदोषः / ऽअहमन्नमहमन्नादःऽ (तै. ३.१०.६) इत्यादिवत् / अन्ये पुनर्मन्यन्ते- नायं भूतयोने रूपोपन्यासः, जायमानत्वेनोपन्यासात् / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च / खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ इति हि पूर्वत्र प्राणादिपृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत् / उत्तरत्रापि च ऽतस्मादग्निः समिधो यश्च सूर्यःऽ इत्येवमादि, ऽअतश्च सर्वा ओषधयो रसाश्चऽ इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति / इहैव कथमकस्मादन्तराले भूतयोने रूपमुपन्यसेत् / सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यति- ऽपुरुष एवेदं विश्वं कर्मऽ (मुण्ड. २.१.१०) इत्यादिना / श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहे- ऽहिरण्यगर्भः समवर्तताग्ने भूतस्य जातः पतिरेक आसीत् / स दाधार पृथिवी द्यामुतेमां कस्मै देवाय हविषा विधेमऽ (ऋ.स. १०.१२१.१) इति / समवर्ततेत्यजायतेत्यर्थः / तथा ऽस वै पुरुष उच्यते / आदिकर्ता स भूतानां ब्रह्माग्रे समवर्ततऽ इति च / विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं संभवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात् / अस्मिन्पक्षे ऽपुरुष एवेदं विश्वं कर्मऽ इत्यादि सर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम्
SK
FN: अग्निर्द्युलोकः विवृता वेद वाक्, पद्भ्यां पादौ / तनुमहिम्नो ऽल्पशक्तेः / यश्च सूर्यो द्युलोकाग्नेः समिध इव भासकः / हिरण्यगर्भः अग्रे समवर्तत / जातः सन् भूतग्रामस्यैकः पतिर्बभूवेति शेषः / कस्मै प्रजापतये / विधेम परिचरेम /
SK
वृत्तिकृन्मतेनादौ सूत्रं व्याचष्टे-अपिचेत्यादिना / ऽप्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवीऽइति श्रुतिः / अग्निर्धुलोकः, ऽअसौ वाव लोको गौतमाग्निःऽइति श्रुतेः / विवृता वेदाः वागित्यन्वयः / पद्भ्यां पादावित्यर्थः / यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मेत्यर्थ / तनुमहिम्न इति / अल्पशक्तेरित्यर्थः / यथा कश्चिब्रह्मवित्स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादिकमात्मनो विवक्षति, अफलत्वात्, तथेहापीत्याह-अहमन्नमिति / वृत्तिकृद्व्याख्यां दूषयति-अन्ये पुनरिति / एष सर्वभूतान्तरात्मा सूत्रात्मा एतस्माद्भूतयोनेर्जायत इति श्रुत्यन्वयेन हिरण्यगर्भस्यात्र जायमानत्वेनोपन्यासादित्यर्थः / निरदिक्षदवोचदित्यर्थः / अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सो ऽपिद्युलोकाग्निस्तस्मादजायतेत्यर्थः / ऽतस्मादित्य एव समित्ऽइति श्रुत्यन्तरात् / अतो मध्ये ऽपि सृष्टिरेव वाच्या न रूपमिति भावः / यदुक्तम् ऽअग्निर्मूर्धाऽइत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह-सर्वात्मत्वमपीति / ननु हिरण्यगर्भस्य जन्मान्यत्रानुक्तं कथमत्र वक्तव्यं, तत्राह-श्रुतीति / अग्रे समवर्तत जातः सन्भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् / स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् / कशब्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयं, ऽकतम एको देव इति प्राणःऽइति श्रुतेः / यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, ऽएको देवः सर्वभूतेषु गूढःऽइति श्रुत्यन्तरात् / ननु तस्य भूतान्तरात्मत्वं कथं, तत्राह-विकारेति / पूर्वकल्पे प्रकृष्टोपासनाकर्मसमुच्चयानुष्ठानदस्मिन्कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्यन्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकं समष्टिलिङ्गशरीरं जायते तद्रूपस्य सूत्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः / स्वपक्षे सूत्रार्थमाह-अस्मिन्पक्ष इति /
SK
कर्म सफलं सर्वं श्रौतस्मार्तादिकं तपश्च पुरुष एवेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमित्यर्थः
SK
END Bस्Cओम्_१,२.६.२३
SK
START Bस्Cओम्_१,२.७.२४
SK
वैश्वानराधिकरणम् / सू. २४-३२
SK
वैश्वानरः साधारणशब्दविशेषात् | BBस्_१,२.२४ |
SK
ऽको न आत्मा किं ब्रह्मऽ इति, ऽआत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहिऽ (छा. ५.११.१,६) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया च वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायते-
SK
ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपाःसे स सर्वेषु लोकेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यमावहनीयःऽ (छा. ५.१८.२) इत्यादि / तत्र संशयः- किं वैश्वानरशब्देन जाठरो ऽग्निरुपदिश्यत उत भूताग्निरथ तदभिमानिनी देवता अथवा शारीर आहोस्वित्परमेश्वर इति / किं पुनरत्र संशयकारणम् / वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः / तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः / किं तावत्प्राप्तम्, जाठरो ऽग्निरिति / कुतः / तत्र हि विशेषण क्वचित्प्रयोगो दृश्यते- ऽअयमग्निर्वैश्वानरो यो ऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यतेऽ (बृह. ५.९) इत्यादौ / अग्निमात्रं वा स्यात्, सामान्येनापि प्रयोगदर्शनात् ऽविश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्ऽ (ऋ.सं. १०.८८.१२) इत्यादौ / अग्निशरीरा वा देवता स्यात्, तस्यामपि प्रयोगदर्शनात् ऽवैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीःऽ (ऋ.सं. १.१८.१) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां संभवात् / अथात्मशब्दसामानाधिकरण्यादुपक्रमे च ऽको न आत्मा किं ब्रह्मऽ इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन च वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात्, तस्य भौक्तृत्वेन वैश्वानरसंनिकर्षात् / प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने संभवात् / तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते- वैश्वानरः परमात्मा भवितुमर्हतीति / कुतः, साधारणशब्दविशेषात् / साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः / यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ, वैश्वानरशब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते, ऽतस्य ह वा एतस्यामात्मनो वैश्वानरस्य मूर्धैव सुतेजाःऽ इत्यादि / अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टो ऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात् / कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वाद्द्युलोकाद्यवयवत्वमुपपद्यते / ऽस सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिऽ इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे संभवति / ऽएवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ (छा. ५.२४.३) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् / ऽको न आत्मा किं ब्रह्मऽ इति चात्मब्रह्मशब्दाभ्यामुपक्रम इत्येवमेतानि लिङ्गानि परमेश्वरमेवावगमयन्ति / तस्मात्परमेश्वर एव वैश्वानरः
SK
FN: को न इति / प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्येत्थं मीमांसां चक्रुः केकयराजं गत्वा / अध्येषि स्मरसि / आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानस्तम् / संदेहो देहस्य मध्यभागः / रयिर्धनम् / विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यमकृण्वन्देवाः / तदुदये दिनव्यवहारात् / वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम / तस्यास्मद्वषया सुमतिर्भवत्वित्यर्थः / अवस्थान्तरमध्यात्ममधिदैवमित्येवंरूपम् / यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुषः /
SK
वैश्वानरः / छान्दोग्यमुदाहरति-को न इति / प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिला मिलित्वा मीमांसां चक्रुः-ऽको न आत्मा किं ब्रह्मऽइति / आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् / ते पञ्चापि निश्चयार्थमुद्दालकमाजग्मुः / सो ऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः-आत्मानमिति / अध्येषि स्मरसि तमेव नो ब्रूहीति / राजा तु तेषां भ्रान्तिनिरासार्थं तान्प्रत्येकमपृच्छत्-ऽकं त्वमात्मानमुपाःसेऽइति / ते च प्राचीनशालादयः क्रमेण प्रत्येकमूचुः-दिवमेवाहं वैश्वानरं वेद्मि / आदित्यमेवाहं वेद्मि / वायुमेव / आकाशमेव / अप एव / पृथिवीमेवाहं वेद्मीति / ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वप्रतिष्ठात्वगुणान्विधाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वानरस्याङ्गेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुस्तदा क्रमेण मूर्धपातान्धत्वप्रमाणोत्क्रमणदेहविशीर्णत्वबस्तिभेदपादशोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा,
SK
सुतेजस्त्वगुणको द्युलोको ऽस्यात्मनो वैश्वानरस्य मूर्धा, विश्वरूपत्वगुणकः सूर्यो ऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धादिभावमुपदिश्य समस्तवैश्वानरध्यानविधिराम्नायते-यस्त्वेतमिति / आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानः / तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः / लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः / सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः / विश्वानि रूपाण्यस्य सूर्यस्य, ऽएष शुक्ल एष नीलःऽइति श्रुतेः / पृथक् नानाविधं वर्त्म गमनं आत्मा स्वभावो यस्य वायोः स नानागतित्वगुणको ऽस्य प्राणः / बहुलत्वं व्यापित्वं तद्गुण आकाशो ऽस्य संदेहो देहमध्यम् / रयित्वं धनत्वं तद्गुणा आपो यस्य बस्तिर्मूत्रस्थानम् / प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ / तस्य होमाधारत्वं संपादयति-उर एवेत्यादिना / पूर्वमुपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञात्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तं, तद्वदत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति-किन्तावदित्यादिना / पूर्वोत्तरपक्षयोर्जाठरब्रह्मणोर्ध्यानं फलम् / यदद्यते तदन्नं, येन पच्यते सो ऽयं पुरुषशरीरे ऽन्तरस्तीत्यर्थः / पक्षान्तरमाह-अग्निमात्रं वेति / विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः / सूर्योदये दिनव्यवहारादित्यर्थः / स्याद्वैश्वानर इत्यनुषङ्गः / हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वानरो ऽभिमुखा श्रीरस्येत्यभिश्रीरीश्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभमतिर्भवत्वित्यर्थः / पक्षत्रये ऽप्यरुचिं वदन्कल्पान्तरमाह-अथेत्यादिना / ऽआत्मा वैश्वानरःऽइति श्रुतेरित्यर्थः / केवलत्वं वैश्वानरशब्दशून्यत्वम् / अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणाग्निहोत्रहोमाधारत्वलिङ्गत् / तस्य देहव्यापित्वादात्मत्वं श्रुत्या द्युमूर्धत्वादिकल्पनया बृहत्त्वाद्ब्रह्मत्वमिति ध्येयम् / सिद्वान्तयति-तत इदमिति / साधारणश्रुत्योरूपक्रमस्थयोर्विशेषात्प्रथमश्रुतमुख्यत्रैलोक्यशरीरलिङ्गात्सर्वात्मकेश्वरपरत्वं युक्तं, न चरमश्रुतकल्पितहोमाधारत्वलिङ्गेन जाठरत्वमित्यर्थः / ननु निर्विशेषस्य कुतो विशेष इत्यत आह-अत्र हीति / अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः / जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत्, न, असत्कल्पनापत्तेः / ईश्वरस्य तु उपादानत्वाद्विशेषः सन्नेव ध्यानार्थमुच्यतामित्याह-कारणत्वादिति / लिङ्गान्तराण्याह-स सर्वेष्वित्यादिना /
SK
यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुष इत्यर्थः
SK
END Bस्Cओम्_१,२.७.२४
SK
START Bस्Cओम्_१,२.७.२५
SK
स्मर्यमाणम् अनुमानं स्याद् इति | BBस्_१,२.२५ |
SK
इतश्च परमेश्वर एव वैश्वानरः, यस्मात्परमेश्वरस्यैवाग्निरास्यं द्यौर्मूर्धेतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते- ऽयस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः / सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः //
SK
ऽ इति / एतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वौश्वानरशब्दस्य परमेश्वरपरत्वे ऽनुमानं लिङ्गं गमकं स्यादित्यर्थः / इतिश्दो हेत्वर्थः / यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः / यद्यपि स्तुतिरियं ऽतस्मै लोकात्मने नमःऽ इति / स्तुतित्वमपि नासति मूलभूते वेदवाक्ये समायगीदृशेन रूपेण संभवति / ऽद्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे / दिशः श्रोत्रे विद्धि पादौ क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता //
SK
ऽइत्येवञ्जातीयका च स्मृतिरिहोदाहर्तव्या
SK
नन्वसदारोपेणापि स्तुतिसंभवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह-यद्यपि स्तुतिरिति / तथापीतिपदमर्थतः पठति-स्तुतित्वमपीति /
SK
द्युमूर्धत्वादिरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः / सता रूपेण स्तुति संभवान्नासदारोप इति भावः
SK
END Bस्Cओम्_१,२.७.२५
SK
START Bस्Cओम्_१,२.७.२६
SK
शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते | BBस्_१,२.२६ |
SK
अत्राह- न परमेश्वरो वैश्वनरो भवितुमर्हति / कुतः, शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच्च / शब्दस्तावद्वैश्वानरशब्दो न परमेश्वरे संभवति, अर्थान्तरे रूढत्वात् / तथाग्निशब्दः ऽस एषो ऽग्निर्वैश्वानरःऽ इति / आदिशब्दात् ऽहृदयं गार्हपत्यःऽ (छा. ५.१८.२) इत्याद्यग्नित्रेताप्रकल्पनम् / ऽतद्यद्बुक्तं प्रथममागच्छेत्तद्धोमीयम्ऽ (छा. ५.१०.१) इत्यादिना च प्राणाहुत्यधिकरणतासंकीर्तनम् / एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः / तथान्तःप्रतिष्ठानमपि श्रूयते- ऽपुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति / तच्च जाठरे संभवति / यदप्युक्तं- मूर्धैव सुतेजा इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति / अत्र ब्रूमः- कुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति / अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति / तस्यापि हि द्युलोकादिसंबन्धो मन्त्रवर्णादवगम्यते- ऽयो भानुना पृथिवी द्यामुतेमामाततान रोदसी अन्तरिक्षम्ऽ (ऋ.स. १०.८८.३) इत्यादौ / अथवा तच्छरीराया देवताया ऐश्वर्ययोगाद्द्युलोकाद्यवयवत्वं भविष्यति / तस्मान्न परमेश्वरो वैश्वानर इति / अत्रोच्यते- न तथादृष्ट्युपदेशादिति / न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् / कुतः, तथा जाठरापरित्यागेन दृष्ट्युपदेशात् / परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यते, ऽमनो ब्रह्मेत्युपासीतऽ (छा. ३.१८.१) इत्यादिवत् / अथवा जाठरवैश्वानरोपाधिभिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते, ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. ३.१४.२) इत्यादिवत् / यदि चेह परमेश्वरो न विवक्ष्येत केवल एव जाठरो ऽग्निर्विवक्ष्येत ततो मूर्धैव सुतेजा इत्यादिर्विशेषस्यासंभव एव स्यात् / यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते तथोत्तरसूत्रे वक्ष्यामः / यदि च केवल एव जाठरो विवक्ष्येत, पुरुषे ऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यान्न तु पुरुषत्वम् / पुरुषमपि चैनमधीयते वाजसनेयिनः- ऽस एषो ऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ (श.ब्रा. १०.६.१.११) इति / परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषे ऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते / ये तु ऽपुरुषविधमपि चैनमधीयतेऽ इति सूत्रावयवं पठन्ति, तेषामेषोर्ऽथः- केवलजाठरपरिग्रहे पुरुषे ऽन्तःप्रतिष्ठितत्वं केवलं स्यान्न पुरुषविधत्वम् / पुरुषविधमपि चैनमधीयते वाजसनेयिनः- ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति / पुरुषविधत्वं च प्रकरणाद्यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तं, यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तं तत्परिगृह्यते
SK
FN: भक्तमन्नं होमीयं होमसाधनं तेन प्राणाग्निहोत्रं कार्यमित्यर्थः / इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् / अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः / यत् यः / पुरुषः पूर्णः / यो वेद स सर्वत्र भुङ्क्ते /
SK
शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते-शब्दादिभ्य इति / ऽस एषो ऽग्निर्वैश्वानरःऽइत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतो ऽग्निशब्द ईश्वरे न संभवतीत्यन्वयः / सूत्रस्थादिशब्दार्थमाह-आदिशब्दादिति / भक्तमन्नं, होमीयं होमसाधनं, तेन प्राणाग्निहोत्रं कार्यमित्यर्थः / वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा ऽस यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्तिऽइत्युक्तं देहान्तःस्थत्वं जाठरे संभवति, प्रसिद्धेरित्याह-तथेति / अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे संभवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था / शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः / यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न संभवतीति बलवानित्यत आह-अथवेति / एष द्युमूर्धत्वादिनिर्देश इत्यर्थः / इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः / जडमात्रस्य न ध्येयत्वमित्यत आह-अथवेति / सिद्धान्तयति-न तथादृष्ट्युपदेशादितीति / परमेश्वरदृष्ट्योपास्यजाठराग्निप्रतीकवाचकाभ्यामग्निवैश्वानरशब्दाभ्यां द्युमूर्धत्वादिमानीश्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह-अथवा जाठरेति / अस्मिन्पक्षे प्राधान्येनेश्वरोपास्यता पूर्वत्र गुणतयेति भेदः / उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः / लक्षणाबीजमसंभवं व्याचष्टे-यदि चेति / पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे-यदि च केवल इति / ईश्वरप्रतीकत्वोपाधित्वशून्यैत्यर्थो विवक्ष्येत तदेति शेषः / यत् यः, पुरुषः, स एषो ऽग्निर्वैश्वानरशब्दितजाठरोपाधिक इति श्रुत्यर्थः / यो वेद स सर्वत्र भुङ्क्त इत्यर्थः / पुरुषत्वं पूर्णत्वमचेतनस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह-ये त्विति / ननु जाठरस्यापि देहव्यापित्वात्तद्विधत्वं स्यादित्यत आह-पुरुषविधत्वं च प्रकरणादिति /
SK
न देहव्यापित्वं पुरुषविधत्वं किन्तु विराड्देहाकारत्वं, अधिदैवं पुरुषविधत्वमध्यात्मं चोपासकमूर्धादिचुबुकान्तेष्वङ्गेषु संपन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः
SK
END Bस्Cओम्_१,२.७.२६
SK
START Bस्Cओम्_१,२.७.२७
SK
अत एव न देवता भूतं च | BBस्_१,२.२७ |
SK
यत्पुनरुक्तं भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसंबन्धदर्शनान्मूर्धैव सुतेजा इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, यच्छरीराया देवताया वैश्वर्ययोगादिति, तत्परिहर्तव्यम् / अत्रोच्यते- अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः / तथाभूताग्निरपि न वैश्वानरः / नहि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासंभवात् / तथा देवतायाः सत्यप्यैश्वर्ययोगे न द्युमूर्धत्वादिकल्पना संभवति / अकारणत्वात्परमेश्वराधीनैश्वर्यत्वाच्च / आत्मशब्दासंभवश्च सर्वेष्वेषु पक्षेषु स्थित एव
SK
ईश्वरस्याङ्गेषु संपत्तिर्वक्ष्यते / एवं जाठरं निरस्य पक्षद्वयं निरस्यति-अत एवेति / सूत्रं व्याचष्टे-यत्पुनरित्यादिना / द्युमूर्धत्वादिः, सर्वलोकफलभाक्त्वं, सर्वपाप्मप्रदाहः, आत्मब्रह्मशब्दोपक्रम उक्तहेतवः / तानेव स्मारयति-न हि भूताग्नेरित्यादिना /
SK
ऽयो भानुनाऽइति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भावः
SK
END Bस्Cओम्_१,२.७.२७
SK
START Bस्Cओम्_१,२.७.२८
SK
साक्षाद् अप्य् अविरोधं जैमिनिः | BBस्_१,२.२८ |
SK
पूर्वे जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तमन्तःप्रतिष्ठितत्वाद्यनुरोधेन / इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यन्ते /
SK
ननु जाठराग्न्यपरिग्रहे ऽन्तःप्रतिष्ठितत्ववचनं शब्ददीनि च कारणानि विरुध्येरन्निति /
SK
अत्रोच्यते- अन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते / नहीह ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति जाठराग्न्यभिप्रायेणेदमुच्यते / तस्याप्रकृतत्वादसंशब्दितत्वाच्च / कथं तर्हि यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधित्वं कल्पितं तदभिप्रायेणेदमुच्यते- ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति /
SK
यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति तद्वत् / अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं च पुरुषविधित्वोपाधिस्तस्य यत्केवलं साक्षिरूपं तदभिप्रायेणेदमुच्यते- ऽपुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति / निश्चिते च पूर्वापरालोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते / विश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः, परमात्मा, सर्वात्मत्वात् / विश्वानर एव वैश्वानरः / तद्धितो ऽनन्यार्थः, राक्षसवायसादिवत् / अग्निशब्दो ऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति / गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनो ऽपि सर्वात्मत्वादुपपद्यते
SK
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति तां व्याख्यातुमारभते-
SK
FN: अन्तःप्रतिष्ठितत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः / अत्र नरे ऽसंज्ञायाऽ मिति पूर्वपदस्य दीर्घत्वम् / अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् /
SK
पूर्वमग्निवैश्वानरशब्दावीश्वरलक्षकावित्युक्तम् / अधुना प्रतीकोपाधिपरीत्यागेन विराट्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्मं मूर्धादिचुबुकान्तेषु संपाद्योपास्यत्वाङ्गीकारे ऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात्, अन्तःस्थत्वादीनां च तत्र संभवादित्याह-साक्षादपीति / साक्षात्पदस्यार्थमाह-विनैवेति / जाठराग्निसंबन्धं विनेश्वरस्योपास्यत्वे ऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः / इदमन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमुदायात्मकपुरुषशरीरे मूर्धादिचिबुकान्ताङ्गानि वृक्षे शाखावत्प्रतिष्ठितानि, तेषु संपन्नो वैश्वानरः पुरुषे ऽन्तःप्रतिष्ठित इत्युच्यते / अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तःस्थत्वं तथा वैश्वानरस्य पुरुषान्तःस्थत्वमित्याह-न हीह पुरुषविधमित्यादिना /
SK
अग्न्यादिशब्दस्येश्वरवाचित्वाज्जाठराग्नेरसंशब्दितत्वम् / अत्रेश्वरस्य पुरुषावयवेषु संपादनात्पुरुषविधत्वमन्तःस्थत्वं चेत्यर्थः / पक्षान्तरमाह-अथवेति / पुरुषविधत्वं पूर्ववत् / अन्तः स्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः / एवमन्तःस्थत्वमीश्वरे व्याख्याय शब्दादीनि व्याचष्टे-निश्चिते चेति /
SK
विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् / विश्वेषां विकाराणां वा नरः कर्ता / विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः / रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः / ऽनरे संज्ञायांऽइति पूर्वपदस्य दीर्घता / अगिधातोर्गत्यर्थस्य निप्रत्ययान्तस्य रूपमग्निरिति / अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्निरग्रणीरुक्तः / अभितो ऽग इति वा अग्निः / वैश्वानरोपासकस्यातिथिभोजनात्पूर्वं प्राणाग्निहोत्रं विद्याङ्गत्वेन विहितं, तदर्थमग्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह-गार्हपत्येति
SK
END Bस्Cओम्_१,२.७.२८
SK
START Bस्Cओम्_१,२.७.२९
SK
अभिव्यक्तेर् इत्य् आश्मरथ्यः | BBस्_१,२.२९ |
SK
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् / अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते / प्रदेशेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषणाभिव्यज्यते / अतः परमेश्वरे ऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते
SK
FN: अतिक्रान्ता मात्राः परिमाणं यस्य तस्येति यावत् / प्रदेशेषु वा मीयत इति प्रादेशमात्रः /
SK
मात्रां परिमाणमतिक्रान्तो ऽतिमात्रः तस्य विभोरित्यर्थः / उपासकानां कृते ऽनुग्रहाय प्रादेशमात्रो ऽभिव्यज्यते, प्रदेशेषु वा मीयते ऽभिव्यज्यत इति प्रादेशमात्रः
SK
END Bस्Cओम्_१,२.७.२९
SK
START Bस्Cओम्_१,२.७.३०
SK
अनुस्मृतेर् बादरिः | BBस्_१,२.३० |
SK
प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यते तेन प्रादेशमात्र इत्युच्यते / यथा प्रस्थमितायवाः प्रस्था इत्युच्यन्ते तद्वत् / यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसंबन्धाद्व्यज्यते / नचेह परमेश्वरगतं किञ्चित्परिमाणमस्ति यद्धृदयसंबन्धाद्व्यज्यते / तथापि प्रयुक्तायाः प्रदेशमात्रश्रुतेः संभवति यथाकथञ्चिदनुस्मरणमालम्बनमित्युच्यते / प्रादेशमात्रत्वेन वायमप्रादेशमात्रो ऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै / एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते
SK
FN: प्रादेशेन मनसा मीयत इति वा / प्रयुक्तायास्तदर्थे वर्तमानायाः /
SK
मतान्तरमाह-अनुस्मृतेरिति / प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः / यथाकथञ्चिदिति / मनःस्थं प्रादेशमात्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः / सूत्रस्यार्थन्तरमाह-प्रादेशेति
SK
END Bस्Cओम्_१,२.७.३०
SK
START Bस्Cओम्_१,२.७.३१
SK
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति | BBस्_१,२.३१ |
SK
संपत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः / कुतः / तथाहि- समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्तिं परमेश्वरस्य दर्शयति- ऽप्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा नु व एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामीति / स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति / चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति / नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति / मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वनर इति / मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति / चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठाऽ इति / चुबुकमित्यधरं मुखफलकमुच्यते / यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणासमाम्नायत आदित्यश्च सुतेजस्त्वगुणः / छान्दोग्ये पुनर्द्यैः सुतेजस्त्वगुणा समाम्नायत आदित्यश्च विश्वरूपगुणः / तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् / सर्वशाखाप्रत्ययत्वाच्च / संपत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैम्निराचार्यो मन्यते
SK
संप्रति श्रुत्युक्तां प्रादेशमात्रश्रुतेर्गतिमाह-संपत्तेरिति / ब्राह्मणं पठति-प्रादेशमात्रमिवेति / अपरिच्छिन्नमपीश्वरं प्रादेशमात्रत्वेन संपत्त्या कल्पितं सम्यग्विदितवन्तो देवास्तमेवेश्वरमभि प्रत्यक्त्वेन संपन्नाः प्राप्तवन्तः, ह वै पूर्वकाले, ततो वो युष्मभ्यं, तथा द्युप्रभृतीनवयवान्वक्ष्यामि यथा प्रादेशमात्रं प्रादेशपरिमाणमनतिक्रम्य मूर्धाद्यध्यात्माङ्गेषु वैश्वानरं संपादयिष्यामीति प्राचीनशालदीन्प्रति राजा प्रतिज्ञाय स्वकीयमूर्धानमुपदिशन् करेण दर्शयन्नुवाच-एष वै मे मूर्धा भूरादींल्लोकानतीत्य उपरि तिष्ठतीत्यतिष्टासौ द्युलोको वैश्वानरः / तस्य मूर्धेति यावत् / अध्यात्ममूर्धाभेदेनाधिदैवमूर्धा संपाद्य ध्येय इत्यर्थः / एवं चक्षुरादिषूहनीयम् / स्वकीयचक्षुषी दर्शयन् ऽएष वै सुतेजाः सूर्यो वैश्वानरस्य चक्षुरित्युवाचऽ / नासिकापदेन तन्निष्ठः प्राणे लक्ष्यते तस्मिन्नाध्यात्मिकप्राणे ऽधिदैवप्राणस्य वायोर्दृष्टिमाह-नासिक इति / अत्र सर्वत्र वैश्वानरशब्दस्तदङ्गपरः / मुखस्थं मुख्यं तस्मिन्नधिदैवं बहुलाकशदृष्टिः मुखस्थलालारूपास्वप्सु रैशब्दिततदीयबस्तिस्थोदकदृष्टिः चिबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या / ननु गुणावैषम्येण विद्ययोर्भेदादग्निरहस्ये श्रुत्यनुसारेण छान्दोग्यस्थप्रादेशमात्रक्षुतिः कथं व्याख्येयेत्याशङ्क्याह-यद्यपीत्यादिना / एतावताल्पवैषम्येण बहुतरप्रत्यभिज्ञासिद्धं विद्यैक्यं न हीयते / शाखाभेदे ऽपि सर्वशाखासु प्रतीयमानं वैश्वानराद्युपासनमेकमिति न्यायस्य वक्ष्यमाणत्वाच्च / अतिष्ठात्वगुणश्छान्दोग्य उपसंहर्तव्यः / विश्वरूपत्वगुणश्च वाजिभिर्ग्राह्यः / तथाच द्युसूर्ययोः सुतेजस्त्वं सममतिष्ठात्वविश्वरूपत्वयोर्व्यवस्था / यद्वा शाखाभेदेन गुणव्यवस्थास्तु न विद्याभेद इति भावः
SK
END Bस्Cओम्_१,२.७.३१
SK
START Bस्Cओम्_१,२.७.३२
SK
आमनन्ति चैनम् अस्मिन् | BBस्_१,२.३२ |
SK
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः- ऽय एषो ऽन्तो ऽव्यक्त आत्मा सो ऽविमुक्ते प्रतिष्ठित इति / सो ऽविमुक्तः कस्मिन्प्रतिष्ठित इति / वरणायां नास्यां च मध्ये प्रतिष्ठित इति / का वै वरणा का च नासीतिऽ / तत्र चेमामेव नासिकां वरणा नासीति निरुच्य या सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति / पुनरामनन्ति- ऽक तमच्चास्य स्थानं भवतीति / भ्रुवोर्धारणस्य च यः संधिः स एष द्युलोकस्य परस्य च संधिर्भवतीतिऽ (जाबा. १) / तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः / अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया / प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिमानः /
SK
अभिगतो वायं प्रत्यगात्मत्वाद्विमानश्च मानवियोगादित्यभिविमानः / अभिविमिमीयते वा सर्वे जगत्कारणत्वादित्यभिविमानः /
SK
तस्मात्परमेश्वरो वैश्वानर इति सिद्धम्
SK
इति श्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य द्वितीयः पादः
SK
FN: अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मि भेदकल्पनया प्रतिष्ठित उपास्यः / वरणा भ्रूः / विमीयते ज्ञायते / अभिविमीमीते निर्मिमीते /
SK
प्रादेशत्वस्य संपत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति-आमन्तीति / य एषो ऽनन्तो ऽपरिच्छिन्नः अतो ऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरं, स ईश्वरो ऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः / पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति / एवं प्रश्नोत्तरे अग्रे ऽपि ज्ञेये / तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना / सर्वानिन्द्रयकृतान्दोषान्वारयतीति वरणा भ्रूः, सर्वान्दोषान्नाशयतीति नासी नासिकेति निर्वचनं श्रुतम् / नासाभ्रुवोर्जीवद्वारेश्वरस्थानत्वध्यानात्पापवारकत्वमिति मन्तव्यम् / तयोर्मध्ये ऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवोरित्युत्तरम् / प्राणस्येति पाठे ऽपि घ्राणस्येत्यर्थः / स एष संधिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य संधित्वेन ध्येय इत्याह-स एष इति / आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा / अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् / मानमत्र परिमाणम् / अभिविमिमीते निर्मिमीते / तस्माद्वैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,२.७.३२
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य द्वितीयः पादः
SK
इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः //
SK
प्रथमाध्याये तृतीयः पादः /
SK
[अत्रास्पष्टब्रह्मलिङ्गानां प्रायो ज्ञेयब्रह्मविषयाणां विचारः / एवं पादत्रयेणापि वाक्यविचारः]
SK
१ द्युभ्वाद्यधिकरणम् / सू. १-७
SK
प्रथमाध्याये तृतीयः पादः / द्युभ्वाद्यायतनं स्वशब्दात्
SK
द्युभ्वोतभूमपदमक्षरमीक्षणीयं श्रीराममल्पह्रदि भान्तमधीशितारम् /
SK
इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजे ऽहम्
SK
START Bस्Cओम्_१,३.१.१
SK
द्युभ्वाद्यायतनं स्वशब्दात् | BBस्_१,३.१ |
SK
इदं श्रूयते- ऽयस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः / तमेवैकं जानथ आत्मानमन्या वाचो विमुच्यथामृतस्यैष सेतुःऽ (मुण्ड. २.२.५) इति / अत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किञ्चिदवगम्यते, तत्किं परं ब्रह्म स्यादाहोस्विदर्थान्तरमिति संदिह्यते / तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम् / कस्मात्, ऽअमृतस्यैष सेतुःऽ इति श्रवणात् / पारवान्हि लोके सेतुः प्रख्यातः / नच परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुं, ऽअनन्तमपारम्ऽ (बृह. २.४.१२) इति श्रवणात् / अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यं, तस्य कारणत्वादायतनत्वोपपत्तेः / श्रुतिप्रसिद्धो वा वायुः स्यात्, ऽवायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तिऽ (बृह. ३.७.२) इति वायोरपि विधारणत्वश्रवणात् / शारीरो वा स्यात् / तस्यापि भोक्तृत्वाद्भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेरित्येवं प्राप्त इदमाह- द्युभ्वाद्यायतनमिति / द्यौश्च भूश्च द्युभुवौ द्युभुवावादी यस्य तदिदं द्युभ्वादि / यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमस्माकं जगदोतत्वेन निर्दिष्टं तस्यायतनं परं ब्रह्म भवितुमर्हति / कुतः / स्वशब्दात्, आत्मशब्दादित्यर्थः / आत्मशब्दो हीह भवति- ऽतमेवैकं जानथ आत्मानम्ऽ इति / आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते नार्थान्तरपरिग्रहे / क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयते-ऽ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाःऽ (छा. ६.८.४) इति / स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म संकीर्त्यते- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ इति / ऽब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणश्चोत्तरेणऽ (मुण्ड. २.२.११) इति च / तत्र त्वायतनायतनयद्भावश्रवणात् / सर्वं ब्रह्मेति च सामानाधिकरण्यात् / यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेत्येवं नानारसो विचित्र आत्मेत्याशङ्का संभवति, तां निवर्तयितुं सावधारणमाह- ऽतमेवैकं जानथ आत्मानम्ऽ इति / एतदुक्तं भवति- न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः / किन्तर्ह्यविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तस्तमेवैकमायतनभूतमात्मानं जानथैकरसमिति / यथा यस्मान्नास्ते देवदत्तस्तदानयेत्युक्त आसनमेवानयति न देवदत्तम् / तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यते / विकारानृताभिसंधस्य चापवादः श्रूयते- ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (का. २.४.११) इति / सर्वं ब्रह्मेति तु सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थं नानेकरसताप्रतिपादनार्थम् / ऽस यथा सैन्धवघनो ऽनन्तरो ऽबाह्यः कृत्स्नो रसघन एवैवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृह. ४.५.१३) इत्येकरसताश्रवणात् / तस्माद्द्युभ्वाद्यायतनं परं ब्रह्म / यत्तूक्तं, सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेर्ब्रह्मणोर्ऽथान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति / अत्रोच्यते- विधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते न पारवत्त्वादि / नहि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एवसेतुरभ्युपगम्यते / सेतुशब्दार्थो ऽपि विधारणत्वमात्रमेव न पारवत्त्वादि षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः / अपर आह- ऽतमेवैकं जानथ आत्मानम्ऽ इति यदेतत्संकीर्तितमात्मज्ञानं, यच्चैतत् ऽअन्या वाचो विमुञ्चथऽ इति वाग्विमोचनं, तदत्रामृतत्वसाधनत्वात्, ऽअमृतस्यैष सेतुःऽ इति सेतुश्रुत्या संकीर्त्यते न तु द्युभ्वाद्यायतनम् / तत्र यदुक्तं सेतुश्रुतेर्ब्रह्मणोर्ऽथान्तरेण द्युभ्वाद्यायतनेन भाव्यमित्येतदयुक्तम्
SK
FN: अमृतस्येति श्रवणात् सेतुरिति श्रवणादिति योजना / सेतुरिति श्रवणादिति व्याचष्ठे- पारवान्हीति / संदृब्धनि संग्रथितानि / सामानाधिकरण्यात् विचित्र आत्मेति संबन्धः / विकारे ऽनृते कल्पिते अभिसंधो ऽभिमानो यस्य / सिनोति बध्नातीति सेतुः / पदार्थैकदेशो विधारणमित्यर्थः /
SK
एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः / अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते / अतो ऽत्राधिकरणानां श्रुत्यध्यायपादसंगतयः / तत्र पूर्वमुपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तं, तद्वदत्राप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसंगतिः / पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्विशेषब्रह्मधीरिति फलम् / मुण्डकवाक्यमुदाहरति-इदमिति / यस्मिन् लोकत्रयात्मा विराट्, प्राणैः सर्वैः सह मनः सूत्रात्मकं, चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभिन्नं जानथ श्रवणादिना / अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ / एष वाग्विमोकपूर्वकात्मसाक्षात्कारो ऽमृतस्य मोक्षस्यासारापारदुर्वारसंसारवारिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवच्छ्रुतिर्मुमुक्षूनुपदिशति / तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह-तत्किमिति /
SK
अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं द्युभ्वाद्यायतनमब्रह्मैव सेतुरिव सेतुरित्याह-अमृतस्येति / भेदश्रवणात् सेतुरिति श्रवणच्चेत्यर्थः / तत्र भेदश्रवणं व्याख्यातम् / सेतुश्रवणं स्वयं विवृणोति-पारवानिति / अनन्तं कालतः / अपारं देशतः / जलविधारकमुख्यसेतोर्ग्रहणासंभवाद्गौणसेतुग्रहे कर्तव्ये मुख्यसेत्वविनाभूतपारवत्त्वगुणवानेव कश्चिद्ग्राह्यः / नतु मुख्यस्यानियतविधारणगुणवानीश्वर इति भावः / यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि संदृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः / आत्मशब्दात्पक्षद्वयमयप्युक्तमित्यत आह-शारीरो वेति / सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः / नन्वात्मशब्दो जीवे संभवतीत्यत आह-आत्मशब्दश्चेति / उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः / उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः / स्वशब्दादित्यस्यार्थान्तरमाह-क्वचिच्चेति / प्रजानामूत्पत्तौ सदेव मूलं, स्थितावायतनं, लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः / अर्थान्तरमाह-स्वशब्देनैवेति / ऽयस्मिन् द्यौःऽइति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसंकीर्तनान्मध्ये ऽपि ब्रह्म ग्राह्यमित्यर्थः / पुरुष इति पूर्ववाक्यं, ब्रह्मैवेत्युत्तरवाक्यं, सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः / उत्तरेणोत्तरस्यां दिशि / उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे-तत्रेत्यादिना / सामानाधिकरण्याद्विचित्र आत्मेति संबन्धः / यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह-विकारानृतेति / विकारे ऽनृते कल्पिते अभिसंधो ऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः / कथं तर्हि सामानाधिकरण्यं, तत्राह-सर्वं ब्रह्मेति / यश्चोरः स स्थाणुरितिवत् यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थं, न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः / तत्र नियामकमाह-स यथेति / लवणपिण्डो ऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः / यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वे ऽपि सेतुपदार्थैकदेशत्वादुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह-अत्रोच्यत इति / दृष्टत्वात्तद्ग्रहे ऽतिप्रसङ्गमाह-नहीति / अत्र श्रुतौ परेणेति शेषः विधारणस्य शब्दार्थत्वं स्फुटयति-षिञ् इति / सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः / तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म / अस्यैवामृतत्वं नान्यस्येत्यर्थः / यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह-अपर इति / फलितमाह-तत्र यदुक्तमिति /
SK
ज्ञाने सेतौ गृहीते सतीत्यर्थः
SK
END Bस्Cओम्_१,३.१.१
SK
START Bस्Cओम्_१,३.१.२
SK
मुक्तोपसृप्यव्यपदेशाच् च | BBस्_१,३.२ |
SK
इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् / यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते / मुक्तैरुपसृप्यम् मुक्तोपसृप्यम् / देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्तभेदो ऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः / तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति / कथम्, ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड. २.२.८) इत्युक्त्वा ब्रवीति- ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. ३.२.७) इति / ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे- ऽयदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः / अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ (बृह. ४.४.७) इत्येवमादौ / प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यमस्ति प्रसिद्धम् / अपिच ऽतमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैव सेतुःऽ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते / तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्- ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वति ब्राह्मणः / नानुध्यायाद्वहूञ्शब्दान्वाचो विग्लापनं हि तत्ऽ (बृह. ४.४.२१) इति / तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म
SK
FN: प्रज्ञा वाक्यार्थधीः / ब्राह्मणपदमनुक्तद्विजोपलक्षणम् /
SK
मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्यात्रोक्तेरिति सूत्रार्थः / मुक्तिप्रतियोगिनं बन्धं दर्शयति-देहादिष्विति / तद्विपर्ययेणेति / उक्तपञ्चक्लेशात्मकबन्धनिवृत्त्यात्मना स्थितमित्यर्थः / यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परात्कारणादव्यक्तात्परं पूर्णं स्वयञ्ज्योतिरानन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह-तथा विद्वानिति / इदं प्रधानादेः किं न स्यादत आह-ब्रह्मणश्चेति / अस्य मुमुक्षोः, हृदीति पदेनात्मधर्मत्वं कामानां निरस्तम् / यदा कामनिवृत्तिरथ तदामृतो भवति;मरणहेत्वभावात् / न केवलमनर्थनिवृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मानन्दमश्नुत इत्यर्थः / लिङ्गान्तरमाह-अपिचेति / धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् / ज्ञानार्थिनो ज्ञानप्रतिबन्धककर्मकाण्डादेर्वैमुख्यमाह-नेति /
SK
बहूनित्युक्त्या अल्पान्वेदान्तशब्दानङ्गीकरोति / ऽअष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता / जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च //
SK
ऽइत्येतानि वागिन्द्रियस्थानत्वाद्वाक्शब्देनोच्यन्ते / तेषां शोषणमात्रमनात्मशब्दोच्चारणफलं तद्वयानान्मनसो ग्लानिमात्रमित्यर्थः
SK
END Bस्Cओम्_१,३.१.२
SK
START Bस्Cओम्_१,३.१.३
SK
नानुमानम् अतच्छब्दात् | BBस्_१,३.३ |
SK
यथा ब्रह्मणः प्रतिपादकः वैशेषिको हेतुरुक्तो नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादको ऽस्तीत्याह / नानुमानिकं सांख्यस्मृतिपरिकल्पितं प्रधानमिह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम् / कस्मात्, अतच्छब्दात् / तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दस्तच्छब्दः, न तच्छब्दो ऽतच्छब्दः / न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दो ऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येत / तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दो ऽत्रास्ति- ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड.१.१.९) इत्यादिः / अत एव न वायुरपीह द्युभ्वाद्यातनत्वेनाश्रीयते
SK
वैशेषिक इति / असाधारण आत्मशब्दादिरित्यर्थः / अतच्छब्दादित्यस्यार्थान्तरमाह-तद्विपरीतस्येति /
SK
अत एवातच्छब्दादेव
SK
END Bस्Cओम्_१,३.१.३
SK
START Bस्Cओम्_१,३.१.४
SK
प्राणभृच् च | BBस्_१,३.४ |
SK
यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च संभवति तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसंभवे सत्यस्मादेवातच्छब्दात्प्राणभृदपि न द्युभ्वाद्यायतनाश्रयितव्यः / नचोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवति / पृथग्योगकरणमुत्तरार्थम्
SK
प्राणाभृच्चेति / सूत्रे चकारः पूर्वसूत्रस्थनञो ऽनुषङ्गार्थः / सर्वज्ञपदसमानाधिकरणं आत्मशब्दो न जीववाचीत्यतच्छब्दस्तस्मादित्यर्थः / ननु ऽनानुमानप्राणभृतावतच्छब्दात्ऽइत्येकमेव सूत्रं किमर्थं न कृतं उभयनिरासहेतोरेकत्वादित्यत आह-पृथगिति /
SK
योगः सूत्रम् / उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वये ऽपि सुबोधार्थं प्राणभृच्चेति पृथक्सूत्रकरणमित्यर्थः
SK
END Bस्Cओम्_१,३.१.४
SK
START Bस्Cओम्_१,३.१.५-६
SK
कुतश्च न प्राणभृद्द्यभ्वाद्यायतनत्वेनाश्रितव्यः-
SK
भेदव्यपदेशात् | BBस्_१,३.५ |
SK
भेदव्यपदेशश्चेह भवति- ऽतमेवैकं जानथ आत्मानम्ऽ इति ज्ञेयज्ञातृभावेन / तत्र प्राणभृत्तावन्मुमुक्षुत्वाज् ज्ञाता, परिशेषादात्मशब्दवाच्यं ब्रह्म द्युभ्वाद्यायतनमिति गम्यते, न प्राणभृत्
SK
कुतश्च न प्राणभृद्द्युभ्वाद्यायतनत्वेनाश्रयितव्यः-
SK
प्रकरणात् | BBस्_१,३.६ |
SK
प्रकरणं चेदं परमात्मनः / ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मु. १.१.३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात् / परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यान्न केवले प्राणभृति
SK
तानेव हेतूनाकाङ्क्षाद्वारा व्याचष्टे--कुतश्चेत्यादिना / यद्यपि विशुद्धः प्रत्यगात्मैवात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातुर्ज्ञेयाद्भेदान्न ज्ञेयरूपत्वमित्यर्थः / एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्य द्युभ्वादिवाक्यर्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् //५
SK
END Bस्Cओम्_१,३.१.५-६
SK
START Bस्Cओम्_१,३.१.७
SK
कुतश्च न प्राणभृड्युभ्वाद्यायतनत्वेनाश्रयितव्यः-
SK
स्थित्यदनाभ्यां च | BBस्_१,३.७ |
SK
द्युभ्वाद्यायतनं च प्रकृत्य ऽद्वा सुप्रणा सयुजा सखायाऽ (मु. ३.१.१) इत्यत्र स्थित्यदने निर्दिश्येते / ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽ इतिकर्मफलाशनं, ऽअनश्नन्नन्यो ऽभिचाकशीतिऽ इत्यौदासीन्येनावस्थानं च / ताभ्यां च स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते / यदि चेश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पते / अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंबद्धं स्यात् /
SK
ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत /
SK
न / तस्याविवक्षितत्वात् / क्षेत्रज्ञौ हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्याद्युपाधिसंबद्धो लोकत एव प्रसिजद्धो नासौ श्रुत्या तात्पर्येण विवक्ष्यते / ईश्वरस्तु लोकतो ऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम् / ऽगुहां प्रविष्टावात्मानौ हिऽ इत्यत्राप्येतद्दर्शितं ऽद्वा सुपर्णाऽ इत्यस्यामृचीश्वरक्षेत्रज्ञावुच्येते इति / यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते तदापि न विरोधः कश्चित् / कथम् / प्राणभृद्धीह घटादिच्छिद्रवत्सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं न भवतीति निषिध्यते / यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते न भवतीति निषिध्यते / यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते परमात्मैव स भवति / यथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत्प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते / तस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधः /
SK
तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम् / तदेतत् ऽअदृश्यत्वादिगुणको धर्मोक्तेःऽ इत्यनेनैव सिद्धम् / तस्यैव हि भूतयोनिवाक्यस्य मध्य इदं पठितम् ऽयस्मिन्द्यौः पृथिवी चान्तरिक्षम्ऽ इति / प्रपञ्चार्थं तु पुनरुपन्यस्तम्
SK
ननु स्थित्येश्वरस्यादनाजीवस्य ऽद्वा सुपर्णाऽइत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह-यदि चेश्वर इति / अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्वज्ञत्वादिविशिष्टः, तस्यात्राप्रतिपाद्यत्वात् / तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासंभवादाद्यवाक्येन ग्रहणं कार्यमित्यभिसंधिः / तमज्ञात्वा शङ्कते-ननु तवापीति / ब्रह्मस्वरूपप्रतिपादनार्थमकस्मादप्रकृतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसंभव इति परिहरति-नेति / ननु ऽद्वा सुपर्णाऽइत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत इति-गुहामिति / स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं दर्शितमित्यर्थः / नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गिव्याख्याविरोधादतः सूत्रासंगतिरित्यत आह-यदापीति / तदापि सूत्रस्यासंगतिर्नास्तीत्यर्थः / अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्द्युभ्वादिवाक्ये तदेव ग्राह्यं, न बुद्ध्युपहितो जीव इति सूत्रसंगतिमाह-कथमित्यादिना / नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह-यस्त्विति /
SK
पौनरुक्त्यं शङ्कते-तदेतदिति / द्युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः / समाधत्ते-प्रपञ्चार्थमिति /
SK
सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणार्थमित्यर्थः / तस्मान्मुण्डकोपनिषद् ब्रह्मणि समन्वितेति सिद्धम्
SK
END Bस्Cओम्_१,३.१.७
SK
START Bस्Cओम्_१,३.२.८
SK
२ भूमाधिकरणम् / सू. ८-९
SK
भूमा संप्रसादाद् अध्युपदेशात् | BBस्_१,३.८ |
SK
इदं समामनन्ति- ऽभूमा त्वेव विदिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति / यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्ऽ (छा. ७.२३,२४) इत्यादि / तत्र संशयः / भूमेति तावद्बहुत्वमभिधीयते, ऽबहोर्लोपो भू च बहोःऽ (पा. ६.४.१५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मारणात् / किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायां ऽप्राणो वा आशाभूयान्ऽ (छा. ७.१५.१) इति संनिधानात्प्राणो भूमेति प्रतिभाति / तथा ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतुऽ (छां. ७.१.३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति / तत्र कस्योपादनं न्याय्यं कस्य वा हानमिति भवति संशयः / किं तावत्प्राप्तम् / प्राणो भूमेति / कस्मात् /
SK
भूयः प्रश्नप्रतिवचनपरंपरादर्शनात् / यथा हि ऽअस्ति भगवो नाम्नो भूयःऽ इति, ऽवाग्वाव नाम्नो भूयसीऽ इति / तथा ऽअस्ति भगवो नाम्नो भूयःऽ इति, मनो वाव वाचो भूयःऽ इति च नामादिभ्यो ह्या प्राणाद्भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः / नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते ऽस्ति भगवः प्राणाद्भूय इत्यादो वाव प्राणाद्भूय इति / प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयासं ऽप्राणो वा आशाया भूयान्ऽ इत्यादिना सप्रपञ्चमुक्त्वा प्राणदर्शिनश्चातिवादित्वम्- ऽअतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतऽ इत्यभ्यनुज्ञाय ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति प्राणव्रतमतिवादित्वमनुकृष्यापरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्प्राणमेव भूमानं मन्यन्त इति गम्यते / कथं पुनः प्राणे भूमनि व्याख्यायमाने ऽयत्र नान्यत्पश्यतिऽ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति / उच्यते- सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्संभवति प्राणस्यापि ऽयत्र नान्यत्पश्यतिऽ इत्येतल्लक्षणम् / तथाच श्रुतिः ऽन शृणोति न पश्यतिऽ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा ऽप्राणाग्नय एवैतस्मिन्पुरे जाग्रतिऽ (प्र. ४.२.३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति / यच्चैतद्भूम्नः सुखत्वं श्रुतम्- ऽयो वै भूमा तत्सुखम्ऽ (छा. ७.२३) इति, तदप्यविरुद्धम् / ऽअत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवतिऽ (प्र. ४.६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात् / यच्च ऽयो वै भूमा तदमृतम्ऽ (छा. ७.२४.१) इति तदपि प्राणस्याविरुद्धं, ऽप्राणो वा अमृतम्ऽ (कौ. ३.२) इति श्रुतेः / कथं पुनः प्राणं भूमानं मन्यमानस्य तरति शोकमात्मवित् इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते / प्राण एवेहात्मा विवक्षित इति ब्रूमः / तथाहि-ऽ प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणःऽ (छा. ७.१५.१) इति प्राणमेव सर्वात्मानं करोति / ऽयथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्ऽ इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभवति वैपुल्यात्मिका भूमरूपता प्राणस्य / तस्मात्प्राणो भूमेत्येवं प्राप्तम् / तत इदमुच्यते- परमात्मैवेह भूमा भवितुमर्हति न प्राणः / कस्मात् / संप्रसादादध्युपदेशात् / संप्रसाद इति सुषुप्तं स्थानमुच्यते, सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात् / बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात् तस्यां च संप्रसादावस्थायां प्राणो जागर्तीति प्राणो ऽत्र संप्रसादो ऽभिप्रेयते / प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः / प्राण एव चेद्भूमास्यात्स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात् / नहि नामैव नाम्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम् / किं तर्हि नाम्नो ऽन्यदर्थान्तरमुपदिष्टं वागाख्यम्- ऽवाग्वाव नाम्नो भूयसीऽ इति / तथा वागादिभ्यो ऽप्या प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् / तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति /
SK
नन्विह नास्ति प्रश्नो ऽस्ति भगवः प्राणाद्भूय इति, नापि प्रतिवचनमस्ति प्राणाद्वाव भूयो ऽस्तीति, कथं प्राणादधि भूमोपदिश्यते / प्राणविषयमेव चातिवादित्वामुत्तरत्रानुकृष्यमाणं पश्यामः- ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति / तस्मान्नास्ति प्रादध्युपदेश इति /
SK
अत्रोच्यते- न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुं, विशेषवादात् ऽयः सत्येनातिवदतिऽ इति /
SK
ननु विशेषवादो ऽप्ययं प्राणविषय एव भविष्यति / कथम् / यथैषो ऽग्निहोत्री यः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रित्वं, केन तर्हि, अग्निहोत्रेणैव / सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते / तथा ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इत्युक्ते न सत्यवदनेनातिवादित्वम्, केन तर्हि, प्रकृतेन प्राणविज्ञानेनैव / सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति /
SK
नेति ब्रूमः / श्रुत्यर्थपरित्यागप्रसङ्गात् / श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते- ऽयःसत्येनातिवदति सो ऽतिवदतिऽ इति / नात्र प्राणविज्ञानस्य संकीर्तनमस्ति / प्रकरणात्तु प्राणविज्ञानं संबध्येत / तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् / प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न संगच्छते ऽएष तु वा अतिवदतिऽ इति / ऽसत्यं त्वेव विजिज्ञासितव्यम्ऽ (छा. ७.१६) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति / तस्माद्यथैकवेदप्रशंसायां प्रकृतायामेष तु महाब्राह्मणो यश्चतुरो वेदानधीत इत्येकवेदेभ्योर्ऽथान्तरभूतश्चतुर्वेदः प्रशस्यते तादृगेतद्द्रष्टव्यम् / नच प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमो ऽस्ति / प्रकृतसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः / तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णीभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति / यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति / तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात् / ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. २.१) इति च श्रुत्यन्तरात् / तथा व्युत्पादिताय नारदाय ऽसो ऽहं भगवः सत्येनातिवदानिऽ इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशति / तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातं तदेवेह भूमेत्युच्यत इति गम्यते / तस्मादस्ति प्राणादधि भूम्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति / एवञ्चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति / प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते / नहि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति / नचान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वे. ६.१५) इति श्रुत्यन्तरात् / ऽतं मा भगवाञ्शोकस्य पारं तारयतुऽ (छा. ७.१.३) इति चोपक्रम्योपसंहरति- ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छा. ७.२६.२) इति / तम इति शोकादिकारणमविद्योच्यते / प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत / ऽआत्मतः प्राणःऽ (छा. ७.२६.२) इति च ब्राह्मणम् / प्रकरणान्ते परमात्मविवक्षा भविष्यति, ऽभूमा तु प्राण एवेति चेत्ऽ न / ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. ७.२४.१) इत्यादिना भूम्न एवा प्रकरणसमाप्तेरनुकर्षणात् / वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते
SK
FN: व्यवहारातितं पूर्णं वस्तु भूमा / भगवद्दृशेभ्यो युष्मत्सदृशेभ्यः / देवः बुद्ध्याद्युपाधिको जीवः / प्रकरणात्तु संबध्येत अतिवादित्वे हेतुत्वेनेति शेषः / प्रयत्नान्तरं विचारः / विज्ञानमत्र निदिध्यासनादि /
SK
भूमा / छान्दोग्यमुदाहरति-इदमिति / नाल्पे सुखमस्ति भूमैव सुखम्, तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते-भूमानमिति / भूम्नो लक्षणमद्वितीयत्वमाह-यत्रेति / भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति-अथेति / अत्र संशयबीजं प्रश्नपूर्वकमाह-कुत इत्यादिना / बहोर्भाव इति विग्रहे ऽपृथ्वादिभ्या इमनिच्ऽइतीमन्प्रत्यये कृते ऽबहोर्लोपो भू च बहोःऽइति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लेपः स्यात्, बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः / तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् / तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति / वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः / पूर्वमात्मशब्दात् द्युभ्वाद्यायतनं ब्रह्मेत्युक्तं, तदयुक्तं, ऽतरति शोकमात्मवित्ऽइत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसंगत्या पूर्वपक्ष्यति-प्राणो भूमेति / धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् / पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् / अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते / भूमा तु प्राणात्परं भूयःप्रक्षं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह-कस्मादित्यादिना / प्राणाद्भूय इति न दृश्यत इति पूर्वेण संबन्धः / ननु ऽएष तु वा अतिवदतिऽइति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह-प्राणमेवेति / नामाद्यशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद् तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात्, नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् / प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः / तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः / भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयतिकथं पुनरित्यादिना / प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः / ऽगार्हपत्यो ह वा एषो ऽपानो व्यानो ऽन्वाहार्यपचन आहवनीयः प्राणःऽइति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः / देवो जीवः / अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः / आत्मपदेनोपक्रमविरोधं परिहरति-प्राण एवेति / प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह-तथा हीति / सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः अत आत्मत्वं मुख्यार्थं दर्शयति-संप्रसाद इति / स वा एष एतस्मिन्संप्रसादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च / तत्पदं सुषुप्तिवाचकमित्याह-बृहदिति / वाच्यार्थसंबन्धात्प्राणो लक्ष्य इत्याह-तस्यां चेति / अत्र सूत्र इत्यर्थः / भूमा प्राणाद्भिन्नो ऽत्राध्याये, तस्मादूर्ध्वमुपदिष्टत्वात्, नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः / विपक्षहेतूच्छेदं बाधकमाह-प्राण एव चेदिति / स्वस्यैव स्वस्मादूर्ध्वमुपदिष्टत्वमयुक्तं, नामादिष्वदृष्टं चेत्यर्थः / हेत्वसिद्धिं शङ्कते-नन्विहेति / प्रकृतप्राणवित्परामर्शक एषशब्दो न भवति, तस्य यच्छब्दपरतन्त्रत्वेन सत्यवादजिवाचित्वात् / अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसिद्विरित्याह-अत्रोच्यत इति / सत्येनातिवादित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः / य एष प्राणविदतिवदतीत्यनूद्य स सत्यं वदेदिति विधानान्न प्राणप्रकरणविच्छेद इति दृष्टान्तेन शङ्कते-नन्विति / सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् / सत्यवचने त्वबाधितार्थसंबन्धाल्लाक्षणिक इति नात्र लक्ष्यवचनविधिरित्याह-नेति ब्रूम इति / किञ्च सत्येन ब्रह्मणातिवदतीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतं, तस्य प्रकरणाद्बाधो न युक्त इत्याह-श्रुत्या हीत्यादिना / अत्रेति / सत्यवाक्य इत्यर्थः / एवं सत्येनेति श्रुत्या प्रकरणं बाध्यमित्युक्त्वा तुशब्देनापि बाध्यमाह-प्रकृतेति / विजिज्ञास्यत्वलिङ्गाच्च पूर्वोक्ताद्भिन्नमित्याह-सत्यं त्वेवेति / प्रकरणविच्छेदे दृष्टान्तमाह-तस्मादिति / श्रुतिलिङ्गबलादेतत्सत्यं प्रकृतात्प्राणात्प्राधान्येन भिन्नं दृष्टव्यमित्यर्थः / एवमतिवादित्वस्य ब्रह्मसंबन्धोक्त्या प्राणलिङ्गत्वं निरस्तम् / यत्तु प्रश्नं विनोक्तत्वलिङ्गाद्भूमा प्राण इति, तन्न, तस्याप्रयोजकत्वादित्याह-न चेति / प्रश्नभेदादर्थभेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् / प्रश्नं विनोक्तचातुर्वेदस्य प्रकृतैकवेदाद्भिन्नत्वदर्शनाच्चेत्यर्थः / तत्र यथा चतुर्वेदत्वस्य प्रकृतासंबन्धादर्थभेदः, एवमिहापीति स्फुटयति-तत्रेत्यदिना / सत्यपदेन प्राणोक्तिरित्यत आह-तत्र सत्यमिति / विज्ञानं निदिध्यासनम् / आदिपदान्मननश्रद्धाश्रवणमनःशुद्धिनिष्टातद्धेतुकर्माणि गृह्यन्ते / इमान्यति श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि / एवं श्रुतिलिङ्गैः प्राणस्यावान्तरप्रकरणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह-तत्र यदिति / किञ्च ऽसंनिहितादपि व्यवहितं साकाङ्क्षं बलीयःऽइति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह-एवं चेति / किञ्च शोकस्य पारमित्युपक्रम्य तमसः पारमित्युपसंहारात्, शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते / तन्निवर्तकज्ञानगम्यत्वलिङ्गादात्मा ब्रह्मेत्याह-न चान्यत्रेति / ब्राह्मणमात्मायत्तत्वं प्राणस्य वदतीति संबन्धः / नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते-प्रकरणान्त इति / तच्छब्देन भूमानुकर्षान्मैवमित्याह-नेति
SK
END Bस्Cओम्_१,३.२.८
SK
START Bस्Cओम्_१,३.२.९
SK
धर्मोपपत्तेश् च | BBस्_१,३.९ |
SK
अपिच ये भूम्नि श्रूयन्ते धर्मास्ते परमात्मन्युपपद्यन्ते / ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्वजानाति स भूमाऽ इति दर्शनादिव्यवहाराभावं भूमान्यवगमयति / परमात्मनि चायं दर्शनादिव्यवहाराभावो ऽवगतः / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. ४.५.१५) इत्यादिश्रुत्यन्तरात् / यो ऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः सो ऽप्यात्मन एवासङ्गत्वविवक्षयोक्तो न प्राणस्वभावविवक्षया, परमात्मप्रकरणात् / यदपि तस्यामवस्थायां सुखमुक्तं, तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम् / यत आह- ऽएषो ऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ (बृ. ४.३.३२) इति / इहापि ऽयो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्ऽ इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति / ऽयो वै भूमा तदमृतम्ऽ इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति / विकाराणामृतत्वस्यापेक्षिकत्वात्, ऽअतो ऽन्यदार्तम्ऽ (बृ. ३.४.२) इति च श्रुत्यन्तरात् / तथाच सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्त्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते नान्यत्र / तस्माद्भूमेति सिद्धम्
SK
FN: उक्तो न शृणोतीत्यादिना / आमयेन दुःखेन सहितं सामयम् / आर्ते नश्वरम् /
SK
भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह-धर्मेति / सूत्रम् / यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति-यो ऽप्यसावित्यादिना / सति बुद्ध्याद्युपाधावात्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थं प्रश्नोपनिषदि ऽन शृणोति न पश्यतिऽइति परमात्मानं प्रकृत्योक्तम् / तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य / यतः श्रुत्यन्तरमात्मन एव सुखत्वमाह तस्मादित्यर्थः / आमयो नाशादिदोषः तत्सहितं सामयम् / आर्तं नश्वरम् / ऽस एवाधस्तात् स उपरिष्टात्ऽइति सर्वगतत्वं, ऽस एवेदं सर्वम्ऽइति सर्वात्मत्वं च श्रुतं, तस्माद्भूमाध्यायो निर्गुणे समन्वित इति सिद्धम्
SK
END Bस्Cओम्_१,३.२.९
SK
START Bस्Cओम्_१,३.३.१०
SK
३ अक्षराधिकरणम् / सू. १०-१२
SK
अक्षरम् अम्बरान्तधृतेः | BBस्_१,३.१० |
SK
ऽकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति / स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणुऽ (बृ. ३.८.७,८)इत्यादि श्रूयते / तत्र संशयः- किमक्षरशब्देन वर्ण उच्यते किंवा परमेश्वर इति / तत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्ध्यतिक्रमस्य चायुक्तत्वात् ऽओङ्कार एवेदं सर्वम्ऽ (छा. २.२३.३) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात्, वर्ण एवाक्षरशब्द इति, एवं प्राप्त उच्यते- पर एवात्माक्षरशब्दवाच्यः /
SK
कस्मात् / अम्बरान्तधृतेः- पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात् / तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य ऽआकाश एव तदोतं च प्रोतं चऽ इत्याकाशे प्रतिष्ठितत्वमुक्त्वा ऽकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चऽ इत्यनेन प्रश्नेनेदमक्षरमवतारितम् / तथाचोपसंहृतम्- ऽएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चऽ इति / नचेयमम्बरान्तधृतिर्ब्रह्मणो ऽन्यत्र संभवति / यदपि ऽओङ्कार एवेदं सर्वम्ऽ इति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम् / तस्मान्न क्षरत्यश्नुते चेति नित्यत्वाव्यापितत्वाभ्यामक्षरं परमेव ब्रह्म
SK
FN: ऽरूढिर्योगमपहरतिऽ इति न्यायेनाह- प्रसिद्धीति /
SK
अक्षरमम्बरान्तधृतेः / बृहदारण्यकं पठति-कस्मिन्न्विति / यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्ठेन मुनिना याज्ञवल्क्येनाव्याकृताकाशः कार्यमात्राश्रय उक्तः / आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तदव्याकृतस्याधिकरणमेतदक्षरमस्थूलादिरूपमित्यर्थः / उभयत्राक्षरशब्दप्रयोगात्संशयः / यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः / तत्र ओङ्कारोपास्तिः फलं, सिद्धान्ते निर्गुणब्रह्मधीरिति विवेकः / ननु न क्षरतीत्यचलत्वानाशित्वयोगाद्ब्रह्मण्यप्यक्षरशब्दो मुख्य इत्यत आह-प्रसिद्ध्यतिक्रमस्येति / ऽरूढर्योगमपहरतिऽइति न्यायादित्यर्थः / वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह-ओङ्कार इति / प्रश्नप्रतिवचनाभ्यामाकाशान्तजगदाधारत्वे तात्पर्यनिश्चयान्न ध्यानार्थता, अतस्तल्लिङ्गबलाद्रूढिं बाधित्वा योगवृत्तिर्ग्राह्येति सिद्वान्तयति-एवमित्यादिना
SK
END Bस्Cओम्_१,३.३.१०
SK
START Bस्Cओम्_१,३.३.११
SK
ऽस्यादेतत् कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनो ऽपीयमुपपद्यते / कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिःऽ / अत उत्तरं पठति-
SK
सा च प्रशासनात् | BBस्_१,३.११ |
SK
सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म / कस्मात् / प्रशासनात् / प्रशासनं हीह श्रूयते- ऽएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ. ३.८.९) इत्यादि / प्रशासनं च पारमेश्वरं कर्म / नाचेतनस्य प्रधानस्य प्रशासनं भवति / न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति
SK
आकाशं भूतं कृत्वा शङ्कते -स्यादेतदिति / चेतनकर्तृकशिक्षाया अत्र श्रुतेर्मैवमित्याह-सा चेति / सूत्रं व्याचष्टे-सा चेति /
SK
चकार आकाशस्य भूतत्वनिरासार्थः / भूताकाशस्य कार्यन्तःपातिनः श्रुतसर्वकार्याश्रयत्वायोगादव्याकृतमज्ञानमेवाकाशः प्रधानशब्दित इति तदाश्रयत्वाच्चाक्षरं न प्रधानमित्यर्थः / विधृतौ विषयत्वेन धृतौ
SK
END Bस्Cओम्_१,३.३.११
SK
START Bस्Cओम्_१,३.३.१२
SK
अन्यभावव्यावृत्तेश्च | BBस्_१,३.१२ |
SK
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् / तस्यैवाम्बरान्तधृतिः कर्म नान्यस्य कस्य चित् / किमिदमन्यभावव्यावृत्तेरिति / अन्यस्य भावो ऽन्यभावस्यस्माद्व्यावृत्तिरन्यभावव्यावृत्तिरिति / एतदुक्तं भवति-
SK
यदन्यद्ब्रह्मणो ऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावादिदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिः- ऽतद्वा एतदक्षरं गार्ग्यदृष्टं दष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृऽ (बृ. ३.८.११) इति / तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि संभवति / द्रष्टृत्वादिव्यपदेशस्तु न संभवत्यचेनत्वात् / तथा ऽनान्यदतो ऽस्ति द्रष्टृ नान्यदतोस्ति श्रोतृ नान्यदतो ऽस्ति मन्तृ नान्यदतो ऽस्ति विज्ञातृऽ इत्यात्मभेदप्रतिषेधात् न शारीरस्याप्युपाधिमतो ऽक्षरशब्दवाच्यत्वम् / ऽअचक्षुष्कमश्रोत्रमवागमनःऽ (बृ. ३.८.८) इति चोपाधिमत्ताप्रतिषेधात् / नहि निरुपाधिकः शारीरो नाम भवति / तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः
SK
प्रश्नपूर्वकं सूत्रं व्याकरोति-किमिदमिति / घटत्वाद्वयावृत्तिरिति भ्रान्तिं निरस्यति-एतदिति / अम्बरान्तस्याधारमक्षरं श्रुतिरचेतनत्वाद्व्यावर्तयतीत्यर्तः / जीवनिरासपरत्वेनापि सूत्रं योजयति-तथेति / अन्यभावो भेदस्तन्निषेधादिति सूत्रार्थः / तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह-नहीति /
SK
शोधिते जीवत्वं नास्तीत्यर्थः / तस्माद्गार्गिब्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,३.३.१२
SK
START Bस्Cओम्_१,३.४.१३
SK
४ ईक्षतिकर्मव्यपदेशाधिकरणम् / सू. १३
SK
ईक्षतिकर्मव्यपदेशात् सः | BBस्_१,३.१३ |
SK
ऽएतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति इति प्रकृत्य श्रूयते- ऽयः पुनरेतं त्रिमात्रेणोमिथ्येतेनैवाक्षरेण परं पुरुषमभिध्यायीतऽ (प्र. ५.२,५) इति / किमस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुदिश्यत आहोस्विदपरमिति / एतेनैवायतनेन परमपरं चैकतरमन्वेतीति प्रकृतत्वात्संशयः / तत्रापरमिदं ब्रह्मेति प्राप्तम् / कस्मात् / ऽस तेजसि सूर्ये संपन्नःऽऽ ऽस सामभिरुन्नीयते ब्रह्मलोकम्ऽ इति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात् / नहि परब्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तम्, सर्वगतत्वात्परस्य ब्रह्मणः /
SK
नन्वापरब्रह्मपरिग्रहे परं पुरुषमिति विशेषणं नोपपद्यते /
SK
नैष दोषः / पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः / इत्येवं प्राप्ते ऽभिधीयते- परमेव ब्रह्मेहाभिध्यातव्यमुपदिश्यते / कस्मात् / ईक्षतिकर्मव्यपदेशात् / ईक्षतिर्दर्शनम् / दर्शनव्याप्यमीक्षतिकर्मा / ईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति- ऽस एतस्माज्जीवघनात्परात्परं पुरिशयं पुरषमीक्षतेऽ इति / तत्राभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति / मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात् / ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टमित्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यदिष्ट इति गम्यते / स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायते /
SK
नन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परः, कथमितर इतरत्र प्रत्यभिज्ञायत इति /
SK
अत्रोच्यते- परपुरुषशब्दौ तावदुभयत्र साधारणौ / नचात्र जीवनघनशब्देन प्रकृतो ऽभिध्यातव्यः परः पुरुषः परामृश्यते, येन तस्मात्परात्परो ऽयमीक्षितव्यः पुरुषो ऽन्यः स्यात् / कस्तर्हि जीवघन इति / उच्यते- घनो मूर्तिः / जीवलक्षणो घनो जीवघनः / सैन्धवखिल्यवद्यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सो ऽत्र जीवघन इति / अपर आह- ऽस सामभिरुन्नीयते ब्रह्मलोकम्ऽ इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सो ऽत्रजीवघन इत्युच्यते / जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघनः / तस्मात्परो यः परमात्मेक्षणकर्मभूतः स एवाभिध्याने ऽपि कर्मभूत इति गम्यते / परं पुरुषमिति च विशेषणं परमात्मपरिग्रह एवावकल्पते / परो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चिदन्यन्नास्ति, ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ इति च श्रुत्यन्तरात् / ऽपरं चापरं च ब्रह्म यदोङ्कारःऽ इति च विभज्यानन्तरमोङ्कारेण परं पुरुषमभिध्यातव्यं ब्रुवन्परमेव ब्रह्मपरं पुरुषं गमयति / ऽयथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुच्यतेऽ इति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयति / अथ यदुक्तं परमात्माभिध्यायिनो न देशपरिच्छिन्नफलं युज्यत इति / अत्रोच्यते- त्रिमात्रेणोङ्कारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः क्रमेण च सम्यग्दर्शनोत्पत्तिरिति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः
SK
FN: परं निर्विशेषम्, अपरं कार्यं, आयतनेन प्राप्तिसाधनेन, अन्वेति प्राप्नोति / अपरं ब्रह्म हिरण्यगर्भः / पिण्डः स्थूलो विराट् तदपेक्षया सूत्रस्य परत्वम्ति समाध्यर्थः / व्याप्यं विषयः / सैन्धवाखिल्यो लवणपिण्डः, खिल्यभावो ऽल्पत्वम् / पादोदरः सर्पः /
SK
ईक्षतिकर्मव्यपदेशात्सः / प्रश्नोपनिषदमूदाहरति-एतदिति / पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव यो ऽयं ओङ्कारः / स हि प्रतिमेव विष्णोस्तस्य प्रतीकः / तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्कारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एकमात्रद्विमात्रोङ्कारयोर्ध्यानमुक्त्वा ब्रवीति-यः पुनरिति / इत्थंभावे तृतीया, ब्रह्मोङ्कारयोरभेदोपक्रमात् / यो ह्यकारादिमात्रात्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः / एवं मात्राद्वयस्य सम्यग्विभूतिज्ञाने द्विमात्रस्तथा त्रिमात्रः / तमोङ्कारं पुरुषं यो ऽभिध्यायीत स ओङ्कारविभूतित्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः / संशयं तद्बीजं चाह-किमित्यादिना / अस्मिन् त्रिमात्रवाक्य इत्यर्थः / पूर्वत्र पूर्वपक्षत्वेनोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसंगतिः / यद्वा पूर्वत्र वर्णे रूढस्याक्षरशब्दस्य लिङ्गाद्ब्रह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्मलोकप्राप्तिलिङ्गत्परशब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति-तत्रापरमिति / कार्यपरब्रह्मणोरूपास्तिरूभयत्र फलम् / स उपासकः / सूर्ये संपन्नः प्रविष्टः ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह-नहीति / अन्यत्र तथात्वे ऽपि अत्र परवित्परमपरविदपरमन्वेतीत्युपक्रमात्परविदो ऽपरप्राप्तिरयुक्ता, उपक्रमविरोधात् / न चात्र परप्राप्तिरेवोक्तेति वाच्यं, परस्य सर्वगतत्वादत्रैव प्राप्तिसंभवेन सूर्यद्वारा गतिवैयर्थ्यात् / तस्मादुपक्रमानुगृहीतादपरप्राप्तिरूपाल्लिङ्गात्परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः / परश्रुतेर्गतिं पृच्छति-नन्विति / पिण्डः स्थूलो विराट् तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः / सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे-परमेवेति / स उपासक एतस्माद्विरण्यगर्भात्परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः / नन्वीक्षणविषयो ऽप्यपरोस्तु, तत्राह-तत्राभिध्यायतेरिति / नन्वीक्षणं प्रमात्वाद्विषयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः / ध्यातव्यस्त्वसत्यो ऽपरः किं न स्यादित्यत आह-स एवेति / श्रुतिभ्यां प्रत्यभिज्ञानात्स एवायमिति सौत्रः सशब्दो व्याख्यातः अत्रैवं सूत्रयोजना-ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्षणीयत्वोक्तेः / अत्र च श्रुतिप्रत्यभिज्ञानात्स एवायमिति / ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते-नन्विति / परात्पर इति शब्दभेदमङ्गीकृत्य श्रुतिभ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह-अत्रेति / ननु ऽएतस्माज्जीवधनात्परात्ऽइत्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः / परात्मा ध्येयादन्य इत्यत आह-न चात्रेति / ध्यानस्य तत्फलेक्षणस्य च लोके समानविषयत्वाद्ध्येय एवेक्षणीयः / एवं चोपक्रमोपसंहारयोरेकवाक्यता भवतीति भावः / ऽस सामभिरून्नीयते ब्रह्मलोकम्ऽऽस एतस्माज्जीवघनात्ऽइत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे-कस्तर्हीत्यादिना / ऽमूर्तौ घनःऽइति सूत्रादिति भावः / सैन्धवखिल्यो लवणपिण्डः /
SK
खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः / एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह-अपर इति / जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति-जीवानां हीति / व्यष्टिकरणाभिमानिनां जीवानां घनः संघातो यस्मिन्सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिकत्वात्परंपरासंबन्धेन लोको लक्ष्य इत्यर्थः / तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः / परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह-परमिति / यस्मात्परं नापरमस्ति किञ्चित् स एवं मुख्यः परः न तु पिण्डात्परः सूत्रात्मेत्यर्थः / किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह-परं चापरं चेति / पापनिवृत्तिलिङ्गाचेत्याह-यथेति / पादोदरः सर्पः / ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शान्तमभयं परं प्राप्नोतीत्यविरोधमाह-अत्रोच्यत इति /
SK
एवमेकवाक्यतासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्मलोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,३.४.१३
SK
START Bस्Cओम्_१,३.५.१४
SK
५ दहराधिकरणम् / सू. १४-२१
SK
दहर उत्तरेभ्यः | BBस्_१,३.१४ |
SK
ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्भाव विजिज्ञासितव्यम्ऽ / (छा. ८.१.१) इत्यादिवाक्यं समाम्नायते / तत्र यो ऽयं दहरे हृदयपुण्रीके दहर आकाशः श्रुतः स किं भूताकाशो ऽथवा विज्ञानात्माऽथवा परमात्मेति संशय्यते / कुतः संशयः / आकाशब्रह्मपुरशब्दाभ्याम् / आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यते / तत्र किं भूताकाश एव दहरः स्यात्किंवा पर इति संशयः / तथा ब्रह्मपुरमिति किं जीवो ऽत्र ब्रह्मनामा तस्येदं पुरं शरीरं ब्रह्मपुरमथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति / तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः / तत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम् / तस्य च दहरायतनापेक्षया दहरत्वम् / ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हदय आकाशःऽ इति च बाह्यायन्तरभावकृतभेदस्योपमानोपमेयभावः द्यावापृथिव्यादि च तस्मिन्नन्तः समाहितं, अवकाशात्मनाकाशस्यैकत्वात् / अथवा जीवो दहर इति प्राप्तम्, ब्रह्मपुरशब्दात् / जीवस्य हीदं पुरं सच्छरीरं ब्रह्मपुरमित्युच्यते / तस्य स्वकर्मणोपार्जितत्वात् / भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् / नहि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः संबन्धो ऽस्ति / तत्र पुरस्वामिनः पुरैकदेशे ऽवस्थानं दृष्टं यथा राज्ञः / मनौपाधिकश्च जीवः, मनश्च प्रायेण हृदये प्रतिष्ठितमित्यतो जीवस्यैवेदं हृदये ऽन्तरवस्थानं स्यात् / दहरत्वमपि तस्यैव आराग्रोपमितत्वादवकल्पते / आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति / नचात्र दहरस्याकाशस्यान्वेष्यत्वं विजिज्ञासितव्यत्वं च श्रूयते / ऽतस्मिन्यदन्तःऽ इति परविशेषणत्वेनोपादानादिति / अत उत्तरं ब्रूमः- परमेश्वर एवात्र दहराकाशो भवितुमर्हति न भूताकाशो जीवो वा / कस्मात् / उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः / तथाहि- अन्वेष्टव्यतया विहितस्य दहरस्याकाशस्य ऽतं चेद्ब्रूयुःऽ इत्युपक्रम्य ऽकिं तदत्र विद्यते यदन्वेष्टव्यं यद्भाव विजिज्ञासितव्यम्ऽ इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति / ऽस ब्रूयाद्यवान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहितेऽ (छा. ८.१.३) इत्यादि / तत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन्भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते / यद्यप्याकाशशब्दो भूताकाशे रूढस्तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति /
SK
नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः संभवतीत्युक्तम् /
SK
नैवं संभवति / अगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम् / अपिच कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत /
SK
ननु परमेश्वरस्यापि ऽज्यायानाकाशात्ऽ (शत. ब्रा. १०.६.६.२) इति श्रुत्यन्तरान्नैवाकाशपरिमाणत्वमुपपद्यते /
SK
नैष दोषः / पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम् / उभयप्रतिपादने हि वाक्यं भिद्येत / नच कल्पितभेदे पिण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तःसमाधानमुपपद्यते / ऽएष आत्मापहतपाप्मा विजरो विमृत्युर्वीशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पःऽ इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे संभवन्ति / यद्यप्यात्मशब्दो जीवे संभवति तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति / नह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्ठनकृतं दहरत्वं शक्यं निवर्तयितुम् / ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत् / यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादिविवक्ष्यतामिति युक्तम् / यदप्युक्तं ब्रह्मपुरमिति जीवेन परस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्विति / अत्र ब्रूमः- परस्यैवेदं ब्रह्मणः पुरं सच्छरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात् / तस्याप्यस्ति पुरेणानेन संबन्धः, उपलब्ध्यधिष्ठानत्वात् / ऽस एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षतेऽ (प्रं ५.५) ऽस वा अयं पुरुषः सर्वासु पूर्षु पुरिशयःऽ (बृ. २.५.१८) इत्यादिश्रुतिभ्यः / अथवा जीवपुर एवास्मिन्ब्रह्म संनिहितमुपलक्ष्यते / यथा शालग्रामे विष्णः संनिहित इति तद्वत् / ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ (छा. ८.१.६) इति च कर्मणामन्तवत्फलमुक्त्वा ऽअथ य इहात्मानमनुविद्य व्रजत्येतांश्च सत्यान्कामान्स्तेषां सर्वेषु लोकेषु कामचारो भवतिऽ इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन्परमात्मत्वमस्य सूचयति / यदप्येतदुक्तं, न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यं च श्रुतं, परविशेषणत्वेनोपादानादिति अत्र ब्रूमः- यद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात् ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हदय आकाशःऽ इत्याद्याकाशस्वरूपप्रदर्शनं नोपयुज्यते /
SK
नन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते / ऽतं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्भाव विजिज्ञासितव्यम्ऽ इत्याक्षिप्य परिहारावसर आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वदर्शनात् /
SK
नैतदेवम् / एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्त स्यात् / तत्र वाक्यशेषो नोपपद्येत / ऽअस्मिन्कामाः समाहिताःऽ ऽएष आत्मापहतपाप्माऽ इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ऽअथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्ऽ इति समुच्चयार्थेन चशब्देनात्मानं कामाधाराश्रितांश्च कामान्विज्ञेयान्वाक्यशेषो दर्शयति / तस्माद्वाक्योपक्रमे ऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते / स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति
SK
FN: ब्रह्मपुरं शरीरं, दहरं सूक्ष्मं, पुण्डरीकं तदाकारत्वात्प्रकृतं हृदयमेव / तत्र परस्य संनिधेर्वेश्मशब्दः / भक्त्या चैतन्यगुणयोगेन / विगता जिघत्सा जग्धुमिच्छा यस्य / बभुक्षाशून्य इत्यर्थः / दहरत्वं अल्पत्वम् / आदिपदं सर्वाधारत्वादिसंग्रहार्थम् / पूर्षु शरीरेषु, पुरि हृदये वा शेते इति पुरुषः / अनुविद्य ध्यायेनानुभूय / समाहिताः प्रतिष्ठिताः /
SK
दहर उत्तरेभ्यः / छन्दोग्यमुदाहरति-अथेति / भूमविद्यानन्तरं दहरविद्याप्रारम्भार्थो ऽथशब्दः / ब्रह्मणो ऽभिव्यक्तिस्थानत्वाद्ब्रह्मपुरं शरीरम् / अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः / अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः / तत्र यद्याकाशस्तदा संशयद्वयम् / तत्राकाशशब्दादेकं संशयमुक्त्वा ब्रह्मपुरशब्दात्संशयान्तरमाह-तथा ब्रह्मपुरमितीति / अत्र शब्दे / जीवस्य ब्रह्मणो वा पुरमिति संशयः / तत्र तस्मिन्संशये सतीति योजना / परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्म ध्येयमित्युक्तम् / तथेहाप्याकाशपदस्य भूताकाशे रूढत्वाद्भूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति-तत्राकाशेत्यादिना / दहरवाक्यस्यानन्तरप्रजापतिवाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसंगतयः / पूर्वपक्षे भूताकाशाद्युपास्तिः, सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरिति फलभेदः / नच ऽआकाशस्तल्लिङ्गात्ऽइत्यनेनास्य पुनरुक्तता शङ्कनीया / अत्र तस्मिन् ऽयदन्तस्तदन्वेष्टव्यम्ऽइत्याकाशान्तः स्थस्यान्वेष्टव्यत्वादिलिङ्गन्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावात् / ननु भूताकाशस्याल्पत्वं कथं, एकस्योपमानत्वमुपमेयत्वं च कथं, ऽउभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते / उभावग्निश्च वायुश्चऽइत्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्क्य क्रमेण परिहरति-तस्येत्यादिना / हृदयापेक्षया अल्पत्वं, ध्यानार्थं कल्पितभेदात्सादृश्यं, स्वत एकत्वात्सर्वाश्रयत्वमित्यर्थः / ननु ऽएष आत्माऽइत्यात्मशब्दो भूते न युक्त इत्यरूचेराह-अथवेति / भक्त्येति / चैतन्यगुणयोगेनेत्यर्थः / मुख्यं ब्रह्म गृह्यतामित्यत आह-न हीति / अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह-तत्रेति / पुरस्वामिन एव तदन्तःस्थत्वसंभवान्नान्यापेक्षेत्यर्थः / व्यापिनो ऽन्तःस्थत्वं कथमित्यत आह-मन इति / आकाशपदेन दहरमनुकृष्योक्तोपमादिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह-आकाशेति / ननु जीवस्याकाशपदार्थत्वमयुक्तमित्याशङ्क्य तर्हि भूताकाश एव दहरो ऽस्तु तस्मिन्नन्तःस्थं किञ्चिद्ध्येयमिति पक्षान्तरमाह-न चात्रेति / परमान्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छब्देनोपादानादित्यर्थः /
SK
यद्वा अन्वेष्यत्वादिलिङ्गाद्दहरस्य ब्रह्मत्वनिश्चयात् ऽआकाशस्तल्लिङ्गात्ऽइत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया / अन्वेष्यत्वादेः परविशेणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः / अपहतपाप्मत्वादिलिङ्गोपेतात्मकश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्तयति-परमेश्वर इत्यादिना / आकाशस्याक्षेपपूर्वकमिति संबन्धः / तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्रत्याकाशो ऽल्पतरः किं तदत्राल्पे विद्यते यद्विचार्या ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाशस्याल्पतानिवृत्तिमित्यर्थः / वाक्यस्य तात्पर्यमाह-तत्रेति / निवर्तयति / आचार्य इति शेषः / नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्निवृत्तिरित्याशङ्क्याह-यद्यपीति / ननु ऽरामरावणयोर्युद्धं रामरावणयोरिवऽइत्यभेदे ऽप्युपमा दृष्टेतिचेत्, न अभेदे सादृश्यस्यानन्वयेन युद्धस्य निरूपमत्वे तात्पर्यादयमनन्वयालङ्कार इति काव्यविदः / पूर्वोक्तमनूद्य निरस्यति-नन्वित्यादिना / ऽसीताश्लिष्ट इवाभाति कोदण्डप्रभया युतःऽइत्यादौ प्रभायोगसीताश्लेषरूपविशेषणभेदाद्भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसिद्ध्यर्थमगत्य कृतमित्यनुदाहरणं द्रष्टव्यम् / नैवमत्राश्रयणं युक्तम् / वाक्यस्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात् / किञ्च हार्दाकाशस्यान्तरत्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यं न युक्तमित्याह-अपिचेति / आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः / ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह-उभयेति / अतो ऽल्पावनिवृत्तावेव तात्पर्यमिति भावः / एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तम् / सर्वाश्रयत्वादिलिङ्गेभ्यश्च तथेत्याह-नचेत्यादिना / विगता जिघत्सा जग्धुमिच्छा यस्य सो ऽयं विजिघत्सः / बुभुक्षाशून्य इत्यर्थः /
SK
प्रथमश्रुतब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः संबन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः ऽनिरपेक्षेण तत्सापेक्षं बाध्यम्ऽइति न्यायादित्याह-अत्र ब्रूम इति / शरीरस्य ब्रह्मण तदुपलब्धिस्थानत्वरूपे संबन्धे मानमाह-स इति / पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः / ननु ब्रह्मशब्दस्य जीवे ऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह-अथवेति / बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्रसद्भवदित्यर्थः / अनन्तफललिङ्गादपि दहरः परमात्मेत्याह-तद्यथेति / अथ कर्मफलाद्वौराग्यानन्तरमिह जीवदशायामात्मानं दहरं तदाश्रितांश्च सत्यकामादिगुणान् आचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्वलोकेष्वनन्तमैश्वर्यं स्वेच्छया संचलनादिकं भवतीत्यर्थः / दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादियुक्तं स्मारयित्वा दूषयति-यदपीत्यादिना / उत्तरत्राकाशस्वरूपप्रतिपादनान्यथानुपपत्त्या पूर्वं तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्तिं शङ्कते नन्विति / एतत् आकाशस्वरूपम् / आक्षेपबीजमाकाशस्याल्पत्वमुपमया निरस्यान्तःस्थवस्तूक्तेस्तदन्तःस्थमेव ध्येयमित्यर्थः / तर्हि जगदेव ध्येयं स्यादित्याह-नैतदेवमिति / अस्तु को दोषः, तत्राह-तत्रेति / सर्वनामभ्यां दहराकाशमाकृष्यात्मत्वादिगुणानुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः / ऽतस्मिन् यदन्तःऽइति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह-तस्मादिति / यद्वा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति-सहान्तःस्थैरिति
SK
END Bस्Cओम्_१,३.५.१४
SK
START Bस्Cओम्_१,३.५.१५
SK
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च | BBस्_१,३.१५ |
SK
दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् / त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते / इतश्च परमेश्वर एव दहरः, यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः- ऽइमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽ (छा. ८.३.२) इति / तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति / तथा ह्यहरहर्जीवानां सुषुप्तवस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे- ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८.१) इत्येवमादौ / लोके ऽपि किल गाढं सुषुप्तमाचक्षते ब्रह्मीभूतो ब्रह्मतां गत इति / तथा ब्रह्मलोकशब्दो ऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशशङ्कां निवर्तयन्ब्रह्मतामस्य गमयति /
SK
ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत् /
SK
गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत / सामानाधिकरणवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति / एतदेव चाहरर्ब्रह्मलोकगमनं दृष्टं ब्रह्मशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम् / नह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम्
SK
दहराकाशस्य ब्रह्मत्वे हेत्वान्तरमाह-गतीति / प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः / नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वे ऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य ऽतथा हि दृष्टम्ऽइति व्याचष्टे-तथा हीति / लोके ऽपि दृष्टमित्यर्थान्तरमाह-लोके ऽपीति / गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे-तथेति / जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः / ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते-नन्विति / निषादस्थपतिन्यायेन समाधत्ते-गमयेदिति / षष्ठे चिन्तितम्-स्वपतिर्निषादः, शब्दसामर्थ्यात् / रौद्रीमिष्टिं विधाय ऽएतया निषादस्थपतिं याजयेत्ऽइत्याम्नायते / तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् / न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः / निषाद एव स्थपतिः स्यात्, निषादशब्दस्य निषादे शक्तत्वात्,
SK
तस्याश्रुतषष्ठ्यर्थसंबन्धलक्षकत्वल्पनायोगात् श्रुतद्वितीयाविभक्तेः पूर्वपदसंबन्धकल्पनायां लाघवात्, अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति / तद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः / कर्मधारये लिङ्गं चास्तीति व्याचष्टे-एतदेवेति /
SK
सूत्रे चकार उक्तन्यायसमुच्चयार्थः
SK
END Bस्Cओम्_१,३.५.१५
SK
START Bस्Cओम्_१,३.५.१६
SK
धृतेश् च महिम्नो ऽस्यास्मिन्न् उपलब्धेः | BBस्_१,३.१६ |
SK
धृतेश्च हेतोः परमेश्वर एवायं दहरः / कथम् / ऽदहरो ऽस्मिन्नन्तराकाशःऽ इति हि प्रकृत्याकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तां स्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदुश्य तमेवानतिवृत्तप्रकरणं निर्दिशति- ऽअथ य आत्मा स सेतुर्विधृतिरेषलोकानामसंभेदायऽ (छा. ८.४.१) इति / तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते, क्तिचः कर्तरि स्मरणात् / यथोदकसंतानस्य विधारयिता लोके सेतुः क्षेत्रसंपदामसंभेदाय, एवमयमात्मात्मैषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारिता सेतुरसंभेदायासंकरायेति / एवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयति / अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते ऽएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ इत्यादेः / तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते- ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ इति / एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः
SK
FN: सेतुरसंकरहेतुः /
SK
सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह-धृतेरिति / नन्वथशब्दाद्दहरप्रकरणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते-कथमिति / ऽय आत्माऽइति प्रकृताकर्षादथशब्दो दहरस्य धृतिगुणविधिप्रारम्भार्थ इत्याह-दहरो ऽस्मिन्नित्यादिना / श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः / सूत्रे तु महिमशब्दसामानाधिकरण्याद्धृतिशब्दः क्तिन्नन्तो विधारणं ब्रूते, ऽस्त्रियां क्तिन्ऽइति भावे क्तिनो विधानादिति विभागः / सेतुरसंकरहेतुः, विधृतिस्तु स्थितिहेतुरित्यपौनरुक्त्यमाह-यथोदकेति / सूत्रं योजयति-एवमिहेति / धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महिम्नो ऽस्मिन्परमात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः / धृतेश्चेति चकारात्सेतुपदोक्तनियामकत्वलिङ्गं ग्राह्यम् / तत्र नियमने श्रुत्यन्तरोपलब्धिमाह-एतस्येति / धृतौ तमाह-तथेति
SK
END Bस्Cओम्_१,३.५.१६
SK
START Bस्Cओम्_१,३.५.१७
SK
प्रसिद्धेश् च | BBस्_१,३.१७ |
SK
इतश्च परमेश्वर एव ऽदहरो ऽस्मिन्नन्तराकाशःऽ इत्युच्यते / यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः / ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ (छा. ८.१.४), ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ (छा. १.९.१) इत्यादिप्रयोगदर्शनात् / जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते / भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धावुपमानोपमेयभावाद्यसंभवान्न ग्रहीतव्य इत्युक्तम्
SK
FN: आ समान्तात्काशते दीप्यत इत्याकाशः स्वयञ्ज्योतिरीश्वरः /
SK
आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयोगप्राचुर्यम्
SK
END Bस्Cओम्_१,३.५.१७
SK
START Bस्Cओम्_१,३.५.१८
SK
इतरपरामर्शात् स इति चेन् नासंभवात् | BBस्_१,३.१८ |
SK
यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येतास्तीतरस्यापि जीवस्य वाक्यशेषे परामर्शः - ऽअथ य एष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचऽ (छा. ८.३.४) इति / अत्र हि संप्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुं नार्थान्तरम् / तथा शरीरव्यपाश्रयस्येव जीवस्य शरीरात्समुत्थानं संभवति / यथाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानं तद्वत् / यथा चादृष्टो ऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ इत्येवमादौ परमेश्वरविषयो ऽभ्युपगत एवं जीवविषयो ऽपि भविष्यति /
SK
तस्मादितरपरामर्शात् ऽदहरो ऽस्मिन्नन्तराकाशऽ इत्यत्र स एव जीव उच्यते इति चेत् /
SK
नैतदेवं स्यात् / कस्मात्. असंभवात् / नहि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन्नाकाशेनोपमीयेत / नचोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः संभवन्ति / प्रपञ्चितं चैतत्प्रथमसूत्रे / अतिरेकाशङ्कापरिहारायात्र तु पुनरुपन्यस्तम् / पठिष्यति चोपरिष्टात् ऽअन्यार्थश्च परामर्शःऽ (ब्र. १.३.२०) इति
SK
FN: सम्यक्प्रसीदत्यस्मिञ्जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः संप्रसादो जीवस्यावस्थाभेदः / ऽसंप्रसादे रत्वा चरित्वाऽ इति बृहदारण्यकस्थं श्रुत्यन्तरम् / उपाधिधर्माः पाप्मादयः /
SK
यदि ऽएष आत्मापहतपाप्माऽइत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवो ऽपीत्याशङ्क्य निषेधति-इतरेति / जीवस्यापि वाक्यशेषमाह-अथेति / दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते / य एष संप्रसादो जीवो ऽस्मात्कार्यकरणसंघातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसंपद्यते प्राप्नोतीति व्याख्येयम् /
SK
यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् / ज्योतिषो ऽनात्मत्वं निरस्यति-एष इति / ऽसंप्रसादे रत्वाचरित्वाऽइति श्रुत्यन्तरम् / अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह-तथेति / तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः-यथेति / ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह-यथा चेति / नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह-नैतदित्यादिना / दहरे श्रुतधर्माणामसंभवान्न जीवो दहर इत्यर्थः / तर्हि पुनरुक्तिः, तत्राह-अतिरेकेति / उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः / का तर्हि जीवपरामर्शस्य गतिः, तत्राह-पठिष्यतीति /
SK
जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थो ऽयं परामर्श इति वक्ष्यते
SK
END Bस्Cओम्_१,३.५.१८
SK
START Bस्Cओम्_१,३.५.१९
SK
उत्तराच् चेद् आविर्भूतस्वरूपस् तु | BBस्_१,३.१९ |
SK
इतरपरामर्शाद्या जीवाशङ्का जाता सासंभवान्निराकृता / अथेदानीं मृतस्येवामृतसेकात्पुनः समुत्थानं जीवाशङ्कायाः क्रियते उत्तरस्मात्प्रजापत्याद्वाक्यात् / तत्रहि ऽय आत्मापहतपाप्माऽ इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्माऽ
SK
(छा. ८.७.४) इति ब्रुवन्नक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति / ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. ८.९.३) इति च तमेव पुनः पुनः परामृश्य ऽय एष स्वप्ने महीयमानश्चरत्येष आत्माऽ (छा. ८.१०.१) इति ऽतद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्माऽ इति च जीवमेवावस्थान्तरगतं व्याचष्टे / तस्यैव चापहतपाप्मत्वादि दर्शयति- ऽएतदमृतमभयमेतद्ब्रह्मऽ इति /
SK
नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिऽ (छा. ८.११.१,२) इति च सुषुप्तावस्थायां दोषमुपलभ्य ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् इति चोपक्रम्य शरीरसंबन्धनिन्दापूर्वकं ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ इति जीवमेव शरीरात्समुत्थितमुत्तमपुरुषं दर्शयति / तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणाम् / अतः ऽदहरो ऽस्मिन्नन्तराकाशःऽ इति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्, तं प्रति ब्रूयात्- ऽआविर्भूतस्वरूपस्तुऽ इति / तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः / नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का संभवतीत्यर्थः /
SK
कस्मात् / यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते / आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः / भूतपूर्वगत्या जीववचनम् / एतदुक्तं भवति- ऽय एषो ऽक्षिणि इत्यक्षिलक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरीरात्मताया व्युत्थाप्य ऽएतं त्वेव तेऽ इति पुनःपुनस्तमेव व्याख्यायेयत्वेनाकृष्य स्वप्नसुषुप्तोपन्यासक्रमेण ऽपरं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे न जैवेन रूपेण / यत्परं ज्योतिरूपसंपत्तव्यं श्रुतं तत्परं ब्रह्म / तच्चापहतपाप्मत्वादिधर्मकं, तदेव च जीवस्य पारमार्थिकं स्वरूपं ऽतत्त्वमसिऽ इत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम् / यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानमहं ब्रह्मास्मीति न प्रतिपद्यते तावज्जीवस्य जीवत्वम् / यदा तु देहेन्द्रियमनोबुद्धिसंघाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते, नासि त्वं देहेन्द्रियमनोबुद्धिसंघातः, नासि संसारी, किं तर्हि तद्यत्सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीति, तदा कूचस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुदध्यास्माच्छरीराद्यभिमानात्समुत्तिष्ठन्स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति / ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. ३.२.१) इत्यादिश्रुतिभ्यः / तदेव चास्य पारमार्थिकं स्वरूपं येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते / कथं पुनः स्वं च रूपं स्वेनैव निष्पद्यत इति संभवति कूटस्थनित्यस्य सुवर्णादीनां तु द्रव्यान्तरसंपर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् / तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् / नतु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः संभवत्यसंसर्गित्वाद्व्योम्न इव, दृष्टविरोधाच्च / दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम् / तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते / सर्वो हि जीवः पश्यन्शृण्वन्मन्वानो विजानन्व्यवहरत्यन्यथा व्यवहारानुपपत्तेः / तच्चेच्छरीरात्समुत्थितस्य निष्पद्येत प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येत / अतः किमात्मकमिदं शरीरात्समुत्थानं, किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति /
SK
अत्रोच्यते- प्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति / यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति / प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेनरूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् / तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानं विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः / तथा विवेकाविवेकमात्रेणैवात्मनो ऽशरीरत्वं सशरीरत्वं च, मन्त्रवर्णात् ऽअशरीरं शरीरेषुऽ (का. १.२.२२) इति, ऽशरीरस्थो ऽपि कौन्तेय न करोति न लिप्यतेऽ (गी.१३.३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् / तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन्विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते / नत्वान्यादृशावाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव / एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदो न वस्तुकृतः, व्योमवदसङ्गत्वाविशेषात् / कुतश्चिदेवं प्रतिपत्तव्यम् / यतो ऽय एषो ऽक्षिणि पुरुषो दृश्यतेऽ इत्युपदिश्य ऽएतदमृतमभयमेतद्ब्रह्मऽ इत्युपदिशति / यो ऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते सो ऽमृताभयलक्षणाद्ब्रह्मणो ऽन्यश्चेत्स्यात्ततो ऽमृताभयब्रह्मसामानाध् इकरण्यं न स्यात् / नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात् / तथा द्वितीये ऽपि पर्याये ऽय एषः स्वप्ने महीयमानश्चरतिऽ इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ इत्युपक्रमात् / किञ्चाहमद्य स्वप्ने हस्तिनमद्राक्षं नेदानीं तं पश्यामीति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे / द्रष्टारं तु तमेव प्रत्यभिजानाति य एवाहं स्वप्नमद्राक्षं स एवाहं जागरितं पश्यमीति / तथा तृतीये ऽपि पर्याये ऽनहि खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति न विज्ञातारं प्रतिषेधति / यत्तु तत्र ऽविनाशमेवापीतो भवतिऽ इति तदपि विशेषविज्ञानविनाशाभिप्रायमेव न विज्ञातृविनाशाभिप्रायम् / ऽनहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ऽविनाशित्वात्ऽ (बृ. ४.३.३०) इति श्रुत्यन्तरात् / तथा चतुर्थे ऽपि पर्याये ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्ऽ इत्युपक्रम्य ऽमघवन्मर्त्यं वा इदं शरीरम्ऽ इत्यादिना प्रपञ्चेन शरीरादुपाधिसंबन्धप्रत्याख्यानेन संप्रसादशब्दोदितं जीवं ऽस्वेन रूपेणाभिनिष्पद्यतेऽ इति ब्रह्मस्वरूपापन्नं दर्शयन्न परस्माद्ब्रह्मणो ऽमृताभयस्वरूपादन्यं जीवं दर्शयति / केचित्तु परमात्मविवक्षायां ऽएतं त्वेव तेऽ इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयो ऽनुव्याख्यास्यामीति कल्पयन्ति / तेषामेतमिति संनिहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत / भूयःश्रुतिश्चोपरुध्येत, पर्यायान्तराभिहितस्य पर्यायान्तरे ऽनभिधीयमानत्वात् / ऽएतं त्वेव तेऽ इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत / तस्माद्यदविद्याप्रत्युपस्थापितपारमार्थिकं जैवं रूपं कर्तृभोक्तृरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपाद्यते, सर्पादिविलयनेनेव रज्ज्वादीन् / अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्ते ऽस्मदीयाश्च केचित् / तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिबोधायेदं शारीरकमारब्धम् / एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति / यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्ख्य प्रतिषेधति सूत्रकारः - ऽनासंभवात्ऽ (ब्र.१.३.१८) इत्यादिना / तत्रायमभिप्रायः - नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादिपरिकल्पितम् / तदात्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति परमात्मनो जीवादन्यत्वं द्रढयति / जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम् / एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते / प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति- ऽशास्त्रदृष्ट्या तूपदेशो वामदेववत्ऽ (ब्र. १.१.३०) इत्यादिनावर्णिश्चास्माभिर्विद्वद्भेदेन कर्मविधिविरोधपरिहारः
SK
FN: महीयमानो वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः / अहेति निपातः खेदे / एतस्मात्प्रकृतादात्मनो ऽन्यत्र अन्यम् / उदशरावेति उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तः श्रुत्यर्थः / व्युत्थाप्य विचार्य / अभिनिष्पद्यत इत्यत्र एतदुक्तं भवतीति संबन्धः / अभिभावकः सौरालोकास्तद्वियोगे / वेदना हर्षशोकादयः / विवेकविज्ञानं त्वंपदार्थशोधनम् / अन्यादृशौ सत्यौ / अंशादिशून्यत्वमसङ्गत्वम् / अयं सुषुप्तः, संप्रति सुषुप्तौ, अहं आत्मानं अहङ्कारास्पदमात्मानं न जानाति / नहीति आत्मानः स्वभावभूतविज्ञाप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः / विलयनेन शोधनेन / विद्यया महावाक्येन / वाक्यानि तत्त्वमस्यादीनि जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्यायः / नेहनानेनेत्यादयो द्वैतवादनिषेधाः /
SK
असंभावादिति हेतोरसिद्धिमाशङ्क्य परिहरति-उत्तराच्चेदिति / सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते / तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासंभवासिद्धेरित्यर्थः / कथं तत्र जीवोक्तिः, तत्राह-तत्रेत्यादिना / यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः संभवन्तीति समुदायार्थः / इन्द्रं प्रजापतिर्बूते-य एष इति / प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह-द्रष्टारमि ति / महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, यद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः / तत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यक् अस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः संप्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतो ऽज्ञानसत्त्वात् मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः / चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह-नाहेति / अहेति निपातः खेदार्थे / खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं संप्रति सुषुप्त्यवस्थायामयं देवदत्तो ऽहमित्येवमात्मानं जानाति / नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार / तं दोषं श्रुत्वा प्रजापतिराह-एतमिति / एतस्मात्प्रकृतादात्मनो ऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य ऽमघवन्मर्त्यं वा इदं शरीरम्ऽइति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः / तस्मात् प्रजापतिवाक्यात् / अतः संभवासिद्धेः / सिद्धान्तयति-तं प्रतीति / अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्याभिव्यक्तत्वमित्यर्थः / तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथं, ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह-भूतपूर्वेति / ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपो ऽपि जीवनाम्नोच्यत इत्यर्थः / विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह-एतदिति / जन्मानाशवत्त्वात् / प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिनिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह-उदशरावेति /
SK
उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः / व्युत्थाप्य विचार्य / अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति संबन्धः / किमुक्तमित्यत आह-यदस्येति / जीवत्वरूपेण जीवं न व्याचष्टे लोकसिद्धत्वात् किन्तु तमनूद्य परस्परव्यभिचारिणीभ्यो ऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्मभेदेन तद्धर्मोक्तेरित्यर्थः / एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वं, ऽएतदमृतमभयमेतब्रह्मऽइति लिङ्गोपेतश्रुतिविरोधादितिमन्तव्यम् / ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह-तदेवेति / अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह-यावदिति / व्यतिरेकमाह-यदेति / अविद्यायां सत्यां जीवत्वं, वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः / संसारित्वस्य कल्पितत्वे सिद्धं निगमयति-तदेव चास्येति / ऽसमुत्थाय स्वेन रूपेणाभिनिष्पद्यतेऽइति श्रुतिं व्याख्यातुमाक्षिपति-कथं पुनरित्यादिना / कूटस्थनित्यस्य स्वरूपमित्यन्वयः / मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह-सुवर्णेति / द्रव्यान्तरं पार्थिवो मलः / अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति / असाधारणो भास्वरत्वादिः / अभिभावकः सौरालोकः / जीवस्वरूपस्याभिभवे बाधकमाह-दृष्टेति / ऽविज्ञानघन एवऽइति श्रुत्या चिन्मात्रस्तावदात्मा / तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत् व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत / हेत्वभावाद्व्यवहारो न स्यादित्यर्थ / अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यं, व्यवहारदर्शनादित्याह-तच्चेति / अन्यथेत्युक्तं स्फुटयति-तच्चेदिति /
SK
स्वरूपं चेज्ज्ञानिन एव व्यञ्ज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः / अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः / सदा वृत्तिषु व्यक्तस्य वस्तुतो ऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह-अत्रेति / वेदना हर्षशोकादिः / अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् / तत्र कल्पितसङ्गे दृष्टान्तः-यथेति / श्रुतिकृतमिति / त्वंपदार्थश्रुत्या ऽयो ऽयं विज्ञानमयः प्राणेषुऽइत्याद्यया सिद्धमित्यर्थः / प्राणादिभिन्नशुद्धत्वंपदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह-केवलेति / सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह-तथा विवेकेति / उक्तश्रुत्यनुसारेणेत्यर्थः / शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् / अतो विवेक एव समुत्थानमित्यर्थः / ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह-शरीरस्थो ऽपीति / अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः / अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह-तस्मादिति / अन्यादृशौ सत्यावित्यर्थः / ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदो ऽप्यंशांशित्वकृतो निरस्त इत्याह-एवमिति / अंशादिशून्यत्वमसङ्गत्वम् / आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात्, व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः / प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह--कुतश्चेत्यादिना / एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह-नापीति / यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादि स्यादित्यर्थः / प्रथमवत् द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु उनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह-तथेति / अवस्थाभेदे ऽपयनुस्यूतौ युक्तिमाह-किञ्चेति / सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह-तथा तृतीय इति / सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह-नहीति / बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः / एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीये ऽपि ब्रह्मत्वेनोक्त इत्याह-तथेति / श्रुतेरेकदेशिव्याख्यां दूषयति-केचित्त्विति / जीवपरयोर्भदादिति भावः / श्रुतिबाधान्मैवमित्याह-तेषामिति / संनिहितो जीव एव सर्वनामार्थ इत्यर्थः / उक्तस्य पुनरुक्तौ भूय इति युज्यते / तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाद इत्याह-भूय इति / लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति-तस्मादिति / व्याख्यानान्तरसंभवादित्यर्थः / विलयनं शोधनम् / विद्यया महावाक्येनेति यावत् / ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह-अपरे त्वित्यादिना / शारीरकस्यार्थं संक्षेपणोपदिशति-एक एवेति / अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यं, आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात् सहप्रयोगः / ब्रह्मैवाविद्यया संसरति न ततो ऽन्यो जीव इति शारीरकार्थ इत्यर्थः / तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह-यस्त्त्विति / परमात्मनो ऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति / तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः / अधिष्ठानस्य कल्पिताद्भेदे ऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह-जीवस्य त्विति / कल्पितभेदानुवादस्य फलमाह-एवं हीति / सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति-प्रतिपाद्यमिति / आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः / नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह-वर्णितश्चेति /
SK
अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः
SK
END Bस्Cओम्_१,३.५.१९
SK
START Bस्Cओम्_१,३.५.२०
SK
अन्यार्थश् च परामर्शः | BBस्_१,३.२० |
SK
अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शितः - ऽअथ य एष संप्रसादःऽ (छा. ८.३.४) इत्यादि, स दहरे परमेश्वरे व्याख्यायमाने न जीवोपासनोपदेशो न प्रकृतविशेषोपदेश इत्यर्थकत्वं प्राप्नोतीति / अत आह- अन्यार्थो ऽयं जीवपरामर्शौ न जीवस्वरूपपर्यवसायी किं तर्हि परमेश्वरस्वरूपपर्यवसायी / कथम् / संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरो ऽनुभूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपद्य विशेषविज्ञानवत्त्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते / यदस्योपसंपत्तव्यं परं ज्योतिर्येन स्वेन रूपेणायमभिनिष्पद्यते स एष आत्मापहतपाप्मत्वादिगुण उपास्य इत्येवमर्थो ऽयं जीवपरामर्शः परमेश्वरवादिनो ऽप्युपपद्यते
SK
एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाद्युक्तेर्जीवे तदसंभवान्न जीवो दहर इत्युक्तम् / तर्हि जीवपरामर्शस्य का गतिरित्यत आह-अन्यार्थश्चेति / सूत्रं व्याचष्टे-अथेत्यादिना / प्रकृते दहरे विशेषो गुणस्तदुपदेशो ऽपि नेत्यर्थः / तत्र दहरवाक्यशेषरूपं संप्रसादवाक्यमाशङ्कापूर्वकं दहरब्रह्मपरत्वेन व्याचष्टे-कथमित्यादिना
SK
END Bस्Cओम्_१,३.५.२०
SK
START Bस्Cओम्_१,३.५.२१
SK
अल्पश्रुतेर् इति चेत् तद् उक्तम् | BBस्_१,३.२१ |
SK
यदप्युक्तम्, ऽदहरो ऽस्मिन्नन्तराकाशःऽ इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य त्वाराग्रोपनिमितस्याल्पत्वमवकल्पत इति तस्य परिहारो वक्तव्यः / उक्तो ह्यस्य परिहारः परमेश्वरस्यापेक्षिकमल्पत्वमवकल्पत इति ऽअर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्चऽ (ब्र. १.२.७) इत्यत्र / स एवेह परिहारो ऽनुसंधातव्य इति सूचयति / श्रुत्यैव चेदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाशःऽ इति
SK
उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्थान्तरमाह-श्रुत्यैव चेदमिति /
SK
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,३.५.२१
SK
START Bस्Cओम्_१,३.६.२२
SK
६ अनुकृत्यधिकरणम्. सू. २२-२३
SK
अनुकृतेस् तस्य च | BBस्_१,३.२२ |
SK
ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमाग्निः / तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ (मु. २.२१०) इति समामनन्ति / यत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति स किं तेजोधातुः कश्चिदुत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् / कुतः, तेजोधातूनामेव सुर्यादीनां भानप्रतिषेधात् / तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सुर्यो भासमाने ऽहनि न भासत इति प्रसिद्धम् / तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते सो ऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते / अनुभानमपि तेजःस्वभावक एवो ऽपपद्यते, समानस्वभावकेष्वनुकारदर्शनात् / गच्छन्तमनुगच्छतीतिवत् / तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः - प्राज्ञ एवात्मा भवितुमर्हति / कस्मात् / अनुकृतेः / अनुकरणमनुकृतिः / यदेतत् ऽतमेव भान्तमनुभाति सर्वम्ऽ इत्यनुभानं, तत्प्राज्ञपरिग्रहे ऽवकल्पते / ऽभारूपः सत्यसंकल्पःऽ (छा.
SK
३.१४.२) इति हि प्राज्ञमात्मानमामनन्ति / न तु तेजोधातुं कञ्चित्सूर्यादयो ऽनुभान्तीति प्रसिद्धम् / समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति यं भान्तमनुभायुः / नहि प्रदीपः प्रदीपान्तरमनुभाति / यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति / नायमेकान्तो नियमः / भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते / यथा सुतप्तो ऽयःपिण्डो ऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहन्तीति / अनुकृतेरित्यनुभानमसूसुचत् / तस्य चेति चतुर्थं पादमस्य श्लोकस्य सूचयति / ऽतस्य भासा सर्वमिदं विभातिऽ इति तधेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति / ऽतद्देवा ज्योतिषां ज्योतिरायुर्हेपासते ऽमृतम्ऽ (बृ. ४.४.१६) इति हि प्राज्ञमात्मानमामनन्ति / तेजोन्तरेण सुर्यादितेजो विभातीत्यप्रसिद्धं विरुद्धं च, तेजोन्तरेण तेजोन्तरस्य प्रतिधातात् / अथवा न सूर्यादीनमेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते / किं तर्हि ऽसर्वमिदम्ऽ इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य याभिव्यक्तिः सा ब्रह्मज्योतिःसत्तानिमित्ता / यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिस्तद्वत् / ऽन तत्र सूर्यो भातिऽ इति च तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयति / प्रकृतं च ब्रह्म ऽयस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्ऽ (मु. २.२.५) इत्यादिना / अनन्तरं च ऽहिरण्मये परे कोशे विरजं ब्रह्म निष्फलम् / तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुःऽ इति / कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम्-ऽन तत्र सूर्यो भातिऽ इति / यदप्युक्तं सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवन्यस्मिन्नवकल्पते सूर्य इवेतरेषामिति / तत्र तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम् / ब्रह्मण्यपि चैषां भानप्रतिषेधो ऽवकल्पते / यतो यदुपलभन्ते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते, ब्रह्म तु नान्येन ज्योतिषोपलभ्यते स्वयं ज्योतिःस्वरूपत्वात्, येन सूर्यादयस्तस्मिन्भायुः / ब्रह्म ह्यान्यद्व्यनक्ति नतु ब्रह्मान्येन व्यज्यते / ऽआत्मनैवायं ज्योतिषास्तेऽ (बृ. ४.३.६), ऽआगृह्यो नहि गृह्यतेऽ (बृ. ४.२.४) इत्यादिश्रुतिभ्यः
SK
FN: तत्र तारकान्तराणि चन्द्रादि च न भाति तं न भासयतीति यावत् / प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् / अनुकारः अनुभानम् / विरजं आगन्तुकमलशून्यम् / शुभ्रं नैसर्गिकमलशून्यम् /
SK
अनुकृतेस्तस्य च / मुण्डकवाक्यमुदाहरति-न तत्रेति / तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् / यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह-कुत इति / किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह-तमेवेति / अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति-तस्येति / तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह-तत्रेति / पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता / तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया / अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति-तेजोधातुरिति / तेजोधानं, निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् / तेजोधातुत्वे लिङ्गमाह-तेजोधातूनामिति / यत्तेजसो ऽभिभावकं तत्तेज इति व्याप्तिमाह-तेजःस्वभावकमिति / यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह-अनुभानमिति / ततो निकृष्टभानं विवक्षितमिति भावः / मुख्यसंभवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशको ऽत्र ग्राह्य इति सिद्धान्तमाह-प्राज्ञ इति / प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् / तत्र श्रुतिमाह-भारूप इति / मानाभावाच्च तेजोधातुर्ना ग्राह्य इत्याह-न त्विति / किञ्च सूर्यादयस्तेजोन्तरभानमनु न भान्ति, तेजस्त्वात्, प्रदीपवदित्याह-समत्वाच्चेति / यो ऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह-नायमेकान्त इति / पौनरुक्त्यमाशङ्क्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे-अनुकृतेरिति / ऽतमेव भान्तम्ऽइत्येवकारोक्तं तद्भानं विना सर्वस्य पृथग्भानाभावरूपमनुभानमनुकृतेरित्यनेनोक्तम्-तस्य चेति / सर्वभासकत्वमुक्तमित्यपौनरुक्त्यमित्यर्थः / आत्मनः सूर्यादिभासकत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह-तद्देवा इति / सर्वशब्दः प्रकृतसूर्यादिवाचकत्वेन व्याख्यातः / संप्रति तस्यासंकुचद्वृत्तितां मत्वार्थान्तरमाह-अथवेति / तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह-न तत्र सूर्य इति / किञ्च स्पष्टब्रह्मपरपूर्वमन्त्राकाङ्क्षापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह-अनन्तरं चेति / हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विरजं आगन्तुकमलशून्यं, निष्कलं निरवयवं, शुभ्रं नैसर्गिकमलशून्यं, सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः / सतिसप्तमीपक्षमनुवदति-यदपीति / सूर्याद्यभिभावकतेजोधातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात्, न तत्र प्रमाणमस्तीत्याह-तत्रेति / सिद्धान्ते तत्रेति वाक्यार्थः कथमित्याशङ्क्याह-ब्रह्मण्यपीति / सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्यन्तीत्यश्रुतभविष्यत्त्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय / विषयसप्तमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवं, अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभास्यत्वमुच्यत इत्यर्थः / येनान्याभास्यत्वेन हेतुना सूर्यादयस्तस्मिन्ब्रह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाशत्वादिति योजना / उक्तमेव श्रुत्यन्तरेण द्रढयति-ब्रह्मेति /
SK
स्वप्रकाशत्वे ऽन्याभास्यत्वे च श्रुतिद्वयम् / ग्रहणायोग्यत्वादग्राह्य इत्यर्थः
SK
END Bस्Cओम्_१,३.६.२२
SK
START Bस्Cओम्_१,३.६.२३
SK
अपि च स्मर्यते | BBस्_१,३.२३ |
SK
अपिचेदृग्रूपत्वं प्राज्ञस्यैवैत्मनः स्मर्यते भगवद्गीतासु- ऽन तद्भासयते सूर्यो न शशाङ् को न पावकः / यद्गत्वा न निवर्तन्ते तद्धाम परमं ममऽ (१५.६) इति, ऽयदादित्यगतं तेजो जगद्भासयते ऽखिलम् / यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्ऽ (१५.१२) इति च
SK
णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह-अपिचेति / सूत्रं व्याचष्टे-अपिचेति /
SK
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् / तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम्
SK
END Bस्Cओम्_१,३.६.२३
SK
START Bस्Cओम्_१,३.७.२४
SK
७ प्रमिताधिकरणम् / सू. २४-२५
SK
शब्दाद् एव प्रमितः | BBस्_१,३.२४ |
SK
ऽअङ्गुष्टमात्रः पुरुषः मध्य आत्मनि तिष्ठतिऽ इति श्रूयते / तथा अङ्गुष्टमात्रः पुरुषो ज्योतिरिवाधूमकः / ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत्ऽ (का. २.४.१३) इति च / तत्र यो ऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते स किं विज्ञानात्मा किंवा परमात्मेति संशयः / तत्र परिमाणोपदेशात्तावद्विज्ञानात्मेति प्राप्तम् / नह्यनन्तायामविस्तारस्य परमात्मनो ऽङ्गुष्ठपरिमाणमुपपद्यते / विज्ञानात्मननस्तूपाधिमत्त्वात्संभवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम् / स्मृतेश्च- ऽअथ सत्यवतः कायात्पाशबद्धं वशं गतम् / अङ्गुष्ठमात्रं पुरुषं निश्चकर्षं यमो बलात्ऽ //
SK
(म.भा. ३.२९७.१७)
SK
इति / नहि परमेश्वरो बलाद्यमेन निष्क्रष्टुं शक्यस्तेन तत्र संसार्यङ्गुष्ठमात्रो निश्चितः स एवेहापीत्येवं प्राप्ते ब्रूमः - परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति / कस्मात्, शब्दात्, ऽईशानो भूतभव्यस्यऽ इति / नह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ् कुशमीशिता /
SK
ऽएतद्वै तत्ऽ इति च प्रकृतं पृष्टमिहानुसंदधाति / एतद्वै तद्यत्पृष्टं ब्रह्मेत्यर्थः / पृष्टं चेह ब्रह्म ऽअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् / अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वदऽ (का. १.२.१४) इति शब्दादेवेत्यभिधानश्रुतेरेवेशान इति परमेश्वरो ऽयं गम्यत इत्यर्थः
SK
कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः -
SK
FN: आत्मनि देहे मध्ये हृदयसप्रनीत्यर्थः / भूतभव्यग्रहणं भवतो ऽपि प्रदर्शनार्थम् कालत्रयनियन्तेत्यर्थः / कयाचिदिति हृदयकमलकोशस्य जीवोपलब्धिस्थानस्याङ्गुष्ठमात्रतयेत्यर्थः /
SK
शब्दादेव प्रमितः / काठकवाक्यं पठति-अङ्गुष्ठेति / पुरुषः पूर्णो ऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इत्युच्यते, तस्यैव परमात्मत्ववादिवाक्यान्तरमाह-तथेति / अधूमकमिति पठनीयम् / यो ऽङ्गुष्ठमात्रो जीवः स वस्तुतो निर्धूमज्योतिर्वन्निर्मलप्रकाशरूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह-ईशान इति / तस्याद्वितीयत्वमाह-स एवेति / कालत्रये ऽपि स एवास्ति नान्यत्किञ्चित् / यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः / परिमाणेशानशब्दाभ्यां संशयमाह-तत्रेति / यथानुभानादिलिङ्गात् णिजध्याहरेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गाज्जीवप्रतीतावीशानो ऽस्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति-तत्र परिमाणेति / पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्यग्ब्रह्मैक्यज्ञानं फलमिति मन्तव्यम् / आयामो दैध्यं, विस्तारो महत्त्वमिति भेदः / कयाचिदिति / अङ्गुष्ठमात्रहृदयस्य विज्ञानशब्दितबुद्यभेदाध्यासकल्पनयेत्यर्थः / स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीवैत्याह-स्मृतेश्चेति / अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्तमित्यर्थः / तत्रापीश्वरः किं न स्यादित्यत आह--नहीति / ऽप्रभवति संयमने ममापि विष्णुःऽइति यमस्येश्वरनियम्यत्वस्मरणादिति भावः / भूतभव्यस्वेत्युपपदाद्बाधकाभावाच्च ईशान इतीशत्वशब्दान्निरङ्कुशमीशिता भातीति श्रुत्या लिङ्गं बाध्यामिति सिद्धान्तयति-परमात्मैवेति / प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह-एतदिति / शब्दो वाक्यं लिङ्गाद्दुर्बलमित्याशङ्क्याह-शब्दादिति
SK
END Bस्Cओम्_१,३.७.२४
SK
START Bस्Cओम्_१,३.७.२५
SK
हृद्यपेक्षया तु मनुष्याधिकारत्वात् | BBस्_१,३.२५ |
SK
सर्वगतस्यापि परमात्मनो हृदये ऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते / आकाशस्येव वंशपर्वापेक्षमरत्रिमात्रत्वम् / नह्यञ्जसातिमात्रस्य परमात्मनो ऽङ्गुष्ठमात्रत्वमुपपद्यते / न चान्यः परमात्मन इह ग्रहणमर्हतीशानशब्दादिभ्य इत्युक्तम् /
SK
ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वादपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते- मनुष्याधिकारत्वादिति / शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति,
SK
शक्तत्वादर्थित्वादपर्युदस्तत्वादुपनयनादिशास्त्राच्चेति वर्णितमेतदधिकारलक्षणे (जै. ६.१) / मनुष्याणां च नियतपरिमाणः कायः / औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम् / अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः / यदप्युक्तं परिमाणोपदेशात्स्मृतेश्च संसार्येवायमङ्गुष्टमात्रः प्रत्येतव्य इति, तत्प्रत्युच्यते- ऽस आत्मा तत्त्वमसिऽ इत्यादिवत्संसारिण एव सतो ऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति / द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः, क्वचित्परमात्मस्वरूपनिरूपणपरा क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा / तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते नाङ्गुष्ठमात्रत्वं कस्यचित् / एतमेवार्थं परेण स्फुटीकरिष्यति- ऽअङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः / तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषिकां धैर्येण / तं विद्याच्छुक्रममृतम्ऽ (का. २.६.१७) इति
SK
FN: सकनिष्ठः करो ऽरत्निः / अत्र मनुष्यशब्दस्त्रैवर्णिकपरः / ऽशूद्रो यज्ञे ऽनवकॢप्तःऽ इति पर्युदासात्, उपनीयत, तमध्यापयीत, इति शूद्राधिकारवारणम् / शरीरात्स्थूलात्सूक्ष्माच्च तं जीवं प्रवृहेत्पृथक्कर्यात् / धैर्येण शमादिनेति यावत् /
SK
करः सकनिष्ठो ऽरत्रिः / मुख्याङ्गुष्ठमात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह-न चान्य इति / सति संभवे मुख्यग्रहो न्याय्यः / अत्र तु श्रुतिविरोधादसंभव इति गौणग्रह इत्यर्थ / मनुष्यानेवेति / त्रैवर्णिकानेवेत्यर्थः / शक्तत्वादित्यनेन पश्चादीनां देवानामृषीणां चाधिकारो वारितः /
SK
तत्र पश्वादीनां शास्त्रार्थज्ञानादिसामग्र्यभावात्कर्मण्यशक्तिः / इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्रव्यत्यागायोगादशक्तिः /
SK
ऋषीणामार्षेयवरणे ऋष्यन्तराभावादशक्तिः / अर्थित्वादित्यनेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वारितः / तत्र मुमुक्षूणां शुद्यर्थित्वे नित्यादिष्वधिकारो न काम्येषु / शुद्धचित्तानां मोक्षार्थित्वे श्रवणादिषु व्यञ्जकेष्वधिकारो न कर्मस्विति मन्तव्यम् / शूद्रस्याधिकारं निरस्यति-अपर्युदस्तत्वादिति / शूद्रो ऽयज्ञे ऽवनकॢप्तःऽइति पर्युदासात्, उपनयीत तमध्यापयीत इति शास्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः / तस्यैकजातित्वस्मृतेरूपनयनप्रयुक्तद्विजातित्वाभावेन वेदाध्ययनाभावात् / अत्रापेक्षितो न्यायः षष्ठाध्याये वर्णित इत्याह-वर्णितमिति / ऽस्वर्गकामो यजेतऽइत्यादिशास्त्रस्याविशेषण सर्वान्फलार्थिनः प्रति प्रवृत्तत्वात्, प्राणिमात्रस्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्वादीनामप्यधिकार इत्याशङ्क्योक्तरित्यातेषां शक्तत्वाद्यभावात्स्वर्गकामपदं मनुष्यपरतया संकोच्य मनुष्याधिकारत्वे स्थापिते चतुर्वर्ण्याधिकारित्वमाशङ्क्य ऽवसन्ते ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यःऽइति त्रयाणामेवाग्निसंबन्धश्चवणात्तेषामेवाधिकार इति वर्णितमित्यर्थः / अस्तु, प्रस्तुते किमायातं, तत्राह-मनुष्याणां चेति / प्रायेण सप्तवितस्तिपरिमितो मनुष्यदेहैत्यर्थः / एवमङ्गुष्ठशब्दो हृत्परिमाणवाचकस्तत्रस्थं ब्रह्म लक्षयतीत्युक्तम् / संप्रति तच्छब्देनाङ्गुष्ठमात्रं जीवमनूद्यायमीशान इति ब्रह्माभेदो बोध्य इति वक्तुमनुवदति-यदपीति / प्रतिपाद्याभेदविरोधादनुवाद्याङ्गुष्ठमात्रत्वं बाध्यं, तात्पर्यार्थस्य बलवत्त्वादित्याह-तदीति / क्वचित्ऽअस्थूलम्ऽइत्यादौ / क्वचित्ऽतत्त्वमसिऽइत्यादौ / [ननु परमात्मनो ऽङ्गुष्ठपरिमाणत्वं न संभवतीति सूत्रकारेण हृदयापेक्षमङ्गुष्ठमात्रत्वमुक्तं,
SK
द्विविधेत्यादिभाष्यात्तु जीवमुद्दिश्य ब्रह्मत्वबोधनमिति प्रतीयत इति सूत्रार्थास्पर्शित्वाद्भाष्यमनुपपन्नमिति चेत्, न, भाष्यतात्पर्यानभिज्ञानात् / कठवल्लीवाक्यस्यावान्तरतात्पर्यमेकं महातात्पर्यं चैकम् / तत्रावान्तरतात्पर्यमुपास्ये ब्रह्मणि, महातात्पर्यं च ज्ञेये ब्रह्मणि / अत एव भाष्यकारैर्वाक्यद्वयोपन्यासःकृतः / अत एवोपासनाफलं कठवल्ल्यामेव-ऽशतं चैका च हृदयस्य नाड्यःऽइत्यादिना बोधितम् / अत एव चतुर्थाध्याये द्वितीयचरणे ऽतदोकःऽइति सूत्रे हार्दविद्यां प्रकृत्य समामनन्ति इति भाष्यकारैः प्रथमवाक्यस्य उपास्ये ब्रह्मणि तात्पर्यमिति प्रकटीकृतम् / इत्थं चात्रत्यभाष्यं महातात्पर्याभिप्रायकमिति द्रष्टव्यम् / रामानुजभाष्यकृता तु पूर्वपक्षो ऽस्मद्भाष्यतात्पर्याज्ञानेनैव कृत इत्यवधेयम् / एकत्वार्थे वाक्यशेषमनुकूलयति-एतमिति /
SK
श्रुतिर्यमो वा द्रष्टव्यः / तं जीवं प्रवृहेत्पृथक्कुर्यात्, धैर्येण बलवदिन्द्रियनिग्रहादिना, तं विविक्तमात्मानं शुक्लं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः / तस्मात्कठवाक्यं प्रत्यग्ब्रह्मणि ज्ञेये समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,३.७.२५
SK
START Bस्Cओम्_१,३.८.२६
SK
८ देवताधिकरणम् / सू. २६-३३
SK
तदुपर्य् अपि बादरायणः संभवात् | BBस्_१,३.२६ |
SK
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तं, तत्प्रसङ्गेनेदमुच्यते / बाढं मनुष्याधिकारेति शास्त्रम् / नतु मनुष्यानेवेतीह ब्रह्मज्ञाने नियमो ऽस्ति / तेषां मनुष्याणामुपरिष्टाद्ये देवादयस्तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यन्ते / कस्मात् / संभवात् / संभवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् / तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम् / तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् / नच तेषां कश्चित्प्रतिषेधो ऽस्ति / नचोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् / तेषां च स्वयंप्रतिभातवेदत्वात् / अपिचैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति- ऽएकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवासऽ (छा. ८.११.३), ऽभृगुर्वै वारुणिः / वरुणं पितरमुपससार / अधीहि भगवो ब्रह्मऽ (तै. ३.१) इत्यादि / यदपि कर्मस्वनधिकारकारणमुक्तम्- ऽन देवानां देवतान्तराभावात्ऽ इति, ऽन ऋषीणामार्षेयान्तराभावात्ऽ (जै.६.१.६,७) इति / न तद्विद्यास्वस्ति / नहीन्द्रादीनां विद्यास्वधक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति / नच भृग्वादीनां भृग्वादिसगोत्रतया / तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते / देवाद्यधिकारे ऽप्यङ्गुष्टमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुध्यते
SK
FN: देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः / ऋषीणामपि न, ऋष्यान्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः / तत् असामर्थ्यरूपं कारणम् /
SK
शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायमाप्यनधिकारः स्यादित्याशङ्क्याह-तदुपर्यपि बादरायणः संभवात् / ननु समन्वयाध्याये ऽधिकारचिन्ता न संगतेत्यत आह-उङ्गुष्ठेति / स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः / अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादिनां वेदान्तश्रवणादावधिकारो ऽस्ति न वेति संदेहे भोगासक्तानां वैराग्याद्यसंभवान्नेति प्राप्ते सिद्धान्तमाह-बाढमिति / एवमधिकारविचारात्मकाधिकरणद्वयस्य प्रसङ्गिकी संगतिः / अत्र पूर्वपक्षे देवादिनां ज्ञानानधिकाराद्देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रममुक्त्यर्थिनां मनुष्याणामप्रवृत्तिः फलं, सिद्धान्ते तु प्रवृत्तिः / उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसंभवादिति सफलो ऽयं विचारः ननु भोगासक्तानां तेषां मोक्षार्थित्वाभावान्नाधिकार इत्यत आह-अर्थित्वं तावदिति / विकारत्वेनानृतविषयसुखस्य क्षयासूयादिदोषद्दष्ट्या निरतिशयसुखमोक्षार्थित्वं सत्त्वप्रकृतीनां देवानां संभवतीत्यर्थः / नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दातिरिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासामर्थ्यान्नाधिकार इत्यत आह--तथेति / अर्थित्ववदित्यर्थः / अपर्युदस्तत्वमाह-नचतेषामिति / ऽशूद्रो यज्ञे ऽनवल्कृप्तःऽइतिवद्देवादीनां विद्याधिकारनिषेधो नास्तीत्यर्थः / ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्यप्युपनयनाभावाच्छास्त्रीयं सामर्थ्यं नास्तीत्यत आह-न चेति / जन्मान्तराध्ययनबलात्स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भावादित्यर्थः / बालादिषु प्रविष्टपिशाचादीनां वेदोद्घोषदर्शनाद्देवयोनीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इत्यर्थः / देवानामृषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्त्वा श्रौतं गुरुकुलवासादिलिङ्गमाह-अपिचेति / ननु ब्रह्मविद्या देवादीन्नाधिकरोति, वेदार्थत्वात्, अग्निहोत्रवदित्यत आह-यदपीति / देवानां कर्मसु नाधिकारः,
SK
देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः / ऋषीणामनधिकारः, ऋष्यन्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः / असामर्थ्यमुपाधिरिति परिहरति-न तदिति / असामर्थ्यरूपं कारणमित्यर्थः / न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः / ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्ऽइतिवाक्यबाधो ऽप्यनुमानस्य द्रष्टव्यः / ननु देवादीन्प्रत्यङ्कुष्ठमात्रश्रुतिः कथं,
SK
तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात् / अतः श्रुतिषु तेषां नाधिकार इत्यत आह-देवाद्यधिकारे ऽपीति
SK
END Bस्Cओम्_१,३.८.२६
SK
START Bस्Cओम्_१,३.८.२७
SK
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् | BBस्_१,३.२७ |
SK
स्यादेतत्, यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत विग्रहवत्त्वादृत्विगादिन्द्रादीनामपि स्वरूपसंनिधानेन कर्माङ्गभावो ऽभ्युपगम्येत / तदा च विरोधः कर्मणि स्यात् / नहीन्द्रादीनां स्वरूपसंनिधानेन यागे ऽङ्गभावो दृश्यते / नच संभवति / बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसंनिधानतानुपपत्तेरिति चेत् / नायमस्ति विरोधः / कस्मात् / अनेकप्रतिपत्तेः / एकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः संभवति / कथमेतदवगम्यते / दर्शनात् / तथाहि-ऽकति देवाःऽ इत्युपक्रम्य ऽत्रयश्च त्री च शता त्रयश्च त्री च सहस्राऽ इति निरुच्य ऽकतम तेऽ इत्यस्यां पृच्छायाम् ऽमहिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाःऽ (बृ. ३.९.१,२) इति निर्ब्रुवती श्रुतिरेकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति / तथा त्रयस्त्रिंशतो ऽपि षडाद्यन्तर्भावक्रमेण ऽकतम एको देव इति प्राणःऽ इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैकस्य प्राणस्य युगपदनेकरूपतां दर्शयति / तथा स्मृतिरपि- ऽआत्मनो वै शरीराणि बहूनि भरतर्षभ //
SK
योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् //
SK
प्राप्नुयाद्विषयान्कैश्चिदुग्रं तपश्चरेत् //
SK
संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिवऽ //
SK
इत्येवञ्जातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति / किमु वक्तव्यमाजानसिद्धानां देवानाम् / अनेकरूपप्रतिपत्तिसंभवाच्चैकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छतीति / परैश्च न दृश्यते ऽन्तर्धानादिक्रियायोगादित्युपपद्यते //
SK
अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या- विग्रहवतामपि कर्माङ्गभावचोदनास्वनेका प्रतिपत्तिर्दृश्यते / क्वचिदेको ऽपि विग्रहवाननेकत्र युगपदङ्गभावं न गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यते / क्वचिच्चैको ऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते / तद्वदिहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वे ऽपि देवतानां न किञ्चित्कर्मणि विरुध्यते
SK
FN: दर्शनात् श्रुतिप्रामाण्यात् / वैश्वदेवशास्त्रस्य हि निविदि कति देवा इत्युपक्रम्य शाकल्याय याज्ञवल्क्येन त्रयश्चेत्त्युत्तरम् / निविन्नाम शस्यमानदेवतासंख्यावाचकानि मन्त्रपदानि / बलं योगसिद्धिम् / ऽअणिमा महिमा चैव गरिमा प्राप्तिरीशिता / प्राकम्यं च वशित्वं च तत्र कामावसायिताऽ इत्यणिमाद्याः / आजानसिद्धानां जन्मनैव प्राप्तिशयानाम् /
SK
ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति-विरोधःकर्मणीत्यादिना / वर्ण्येत, तर्हीति शेषः / स्वरूपं विग्रहः / अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्संप्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह-तदा चेति / विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न संभवतीत्याह-न चेति / तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः / परिहरति-नायमिति / एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्संभवति / अतो न कर्मणि विरोध इति व्याचष्टे-कस्मादित्यादिना / वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा ऽत्रयश्चऽइत्यादिरूपयोत्तरं ददौ / निविन्नाम शस्यमानदेवसंख्यावाचकः शब्दः / षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति संख्योक्तौ संख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतो ऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्ते ऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्ते ऽपि षट्सु देवेष्वन्तर्भवन्ति / षट् देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भे ऽन्तर्भवत इति दर्शितमित्यर्थः / त्रयस्त्रिंशतो ऽपि देवानामिति संबन्धः / दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे-तथा स्मृतिरिति /
SK
बलं योगसिद्धिम् / ऽअणिमा महिमा चैव लघिमा प्राप्तिरीशिता / प्राकाम्यं च वशित्वं च यत्रकामावसायिता //
SK
ऽइत्यष्टैश्वर्याणि / क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी / अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः / ईशिता सृष्टिशक्तिः / प्राकाम्यं इच्छानाभिघातः / वशित्वं नियमनशक्तिः / संकल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः / अजानसिद्धानां जन्मना सिद्धानामित्यर्थः / फलितमाह-अनेकेति / अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः / तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह-क्वचिदेक इति / प्रकृतोपयुक्तमन्वयदृष्टान्तमाह-क्वचिच्चेति
SK
END Bस्Cओम्_१,३.८.२७
SK
START Bस्Cओम्_१,३.८.२८
SK
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् | BBस्_१,३.२८ |
SK
मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि / शब्दे तु विरोधः प्रसज्येत / कथम् / औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य ऽअनपेक्षत्वात्ऽ इति वेदस्य प्रामाण्यं स्थापितम् / इदानीं तु विग्रहवती देवताभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसंबन्धीनि हवींषि भुञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धेप्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितं तस्य विरोधः स्यादिति चेत् / नायमप्यस्ति विरोधः / कस्मात् / अतः प्रभवात् / अत एव हि वैदिकाच्छब्दादेवादिकं जगत्प्रभवति /
SK
ननु जन्माद्यस्य यतः (ब्र. १.१.२) इत्यत्र ब्रह्मप्रभवत्वं जगतो ऽवधारितं, कथमिह शब्दप्रभवत्वमुच्यते / अपिच यदि नाम वैदिकाच्छब्दादस्य प्रभवो ऽभ्युपगतः, कथमेतावता विरोधः शब्दे परिहृतः यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेर्ऽथा अनित्या एवोत्पत्तिमत्त्वात् / तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते / प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति / तस्माद्विरोध एव शब्द इति चेत् /
SK
न / गवादिशब्दार्थसंबन्धनित्यत्वदर्शनात् / नहि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनीमप्युत्पत्तिमत्त्वं स्यात् / द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते नाकृतयः / आकृतिभिश्च शब्दानां संबन्धो न व्यक्तिभिः / व्यक्तीनामानन्त्यात्संबन्धग्रहणानुपपत्तेः / व्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वाच्च गवादिशब्देषु कश्चिद्विरोधो दृश्यते / तथा देवादिव्यक्तिप्रभवाभ्युपगमे ऽप्याकृतिनित्यत्वान्न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम् / आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यः / स्थानविशेषसंबन्धनिमित्ताश्चेन्द्रादिशब्दाः सेनापत्यादिशब्दवत् / ततश्च यो यस्तत्तत्स्थानमधिरोहति स स इन्द्रादिशब्दैरभिधीयत इति न दोषो भवति / नचेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणाभिप्रायेणोच्यते / कथं तर्हि स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसंबन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिरतः प्रभव इत्युच्यते कथं पुनरवगम्यते शब्दात्प्रभवति जगदिति / प्रत्यक्षानुमानाभ्याम् / प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात् / अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात् / ते हि शब्दपूर्वो सृष्टिं दर्शयतः / ऽएते इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितृंस्तिरः पवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाःऽ इति श्रुतिः / तथान्यत्रापि ऽस मनसा वाचं मिथुनं समभवत्ऽ (बृ. १.२.४) इत्यादिना तत्रतत्र शब्दपूर्विका सृष्टिः श्राव्यते / स्मृतिरपि- ऽअनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा / आदौ वेदमयी दिव्या यतः सर्वा प्रवृत्तयःऽ //
SK
इति / उत्सर्गो ऽप्ययं वाचः संप्रदायप्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासंभवात् / तथा ऽनाम रूपं च भूतानां कर्मणां च प्रवर्तनम् / वेदशब्देभ्य एवादौ निर्ममे स महेश्वरःऽ //
SK
(मनु. १.२१) इति / ऽ सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् / वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममेऽ //
SK
इति च / अपिच चिकीर्षितमर्थमनुतिष्ठंस्तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुष्ठतीति सर्वेषां नः प्रत्यक्षमेतत् / तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते / तथाच श्रुतिः - ऽस भूरिति व्याहारत्स भूमिमसृजतऽ (तै.ब्रा. २.२.४.२) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति / किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते / स्फोटमित्याह / वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात् / उत्पन्नध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा च प्रतीयमानत्वात् / तथाहि- अदृश्यमानो ऽपि पुरुषविशेषो ऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते देवदत्तो ऽयमधीते यज्ञदत्तो ऽयमधीते इति / नचायं वर्णविषयो ऽन्यथात्वप्रत्ययो मिथ्याज्ञानं, बाधकप्रत्ययाभावात् / नच वर्णेभ्योर्ऽथावगतिर्युक्ता / न ह्येकैको वर्णोर्ऽथं प्रत्याययेत्, व्यभिचारात् / नच वर्णसमुदायप्रत्ययो ऽस्ति, क्रमवत्त्वाद्वर्णानाम् /
SK
पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णोर्ऽथं प्रत्याययिष्यतीति यद्युच्येत / तन्न / संबन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोर्ऽथं प्रत्याययेद्धूमादिवत् / नच पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम् / कार्यप्रत्यायितैः संस्कारैः सहितो ऽन्त्यो वर्णोर्थं प्रत्याययिष्यतीति चेत् /
SK
न / संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात् / तस्मात्स्फोट एव शब्दः / स चैचैकवर्णप्रत्ययाहितसंस्कारबीजे ऽन्त्यवर्णप्रत्ययजनितपरि पाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते / नचायमेकप्रत्ययो वर्णविषया स्मृतिः / वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेः / तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् / भेदप्रत्ययस्य वर्णविषयत्वात् / तस्मान्नित्याच्छब्दस्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति / वर्णा एव तु न शब्दः इति भगवानुपवर्षः.
SK
ननूत्पन्नप्रध्वंसित्वं वर्णान्मुक्तं, तन्न / त एवेति प्रत्यभिज्ञानात् / सादृश्यात्प्रत्भिज्ञानं केशादिष्विवेति चेत् /
SK
न / प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेः /
SK
प्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत् /
SK
न / व्यक्तिप्रत्यभिज्ञानात् / यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरंस्तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् / नत्वेतदस्ति / वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते / द्विर्गोशब्द उच्चारित इति हि प्रतिपत्तिर्न तु द्वौ गोशब्दाविति /
SK
ननु वर्णा अप्युच्चारणभेदेन भिन्नः प्रतीयन्ते देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम् /
SK
अत्राभिधीयते- सति वर्णविषये निश्चिते प्रत्यभिज्ञाने संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानामभिव्यञ्जकवैचित्र्यनिमित्तो ऽयं वर्णविषयो विचित्रः प्रत्ययो न स्वरूपनिमित्तः / अपिच वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः / तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम् / तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः स्वरूपनिमित्तं च प्रत्यभिज्ञानमिति कल्पनालाघवम् / एष एव च वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययो यत्प्रत्यभिज्ञानम् / कथं ह्येकस्मिन्कालं बहूनामुच्चारयतामेक एव सन्गकारो युगपदनेकरूपः स्यात् / उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेति / अथवा ध्वनिकृतो ऽयं प्रत्ययभेदो न वर्णकृत इत्यदोषः / कः पुनरयं ध्वनिर्नाम / यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति / प्रत्यासीदतश्च पटुमटुत्वादिभेदं वर्णेष्वासञ्जयति /
SK
तन्निबन्धनाश्चोदात्तादयो विशेषा न वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चाराणं प्रत्यभिज्ञायमानत्वात् / एवञ्च सति सालम्बना उदात्तादिप्रत्यया भविष्यन्ति / इतरधा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्पेरन् / संयोगविभागानां चाप्रत्यक्षत्वाच्च तदाश्रया विशेषा वर्णेष्वध्यवसितुं शक्यन्त इत्यतो निरालम्बना एवैत उदात्तादिप्रत्ययाः स्युः / अपिच नैवैतदभिनिवेष्टव्यमुदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति / नह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति / नहि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते / वर्णेभ्यश्चार्थप्रतीतेः संभवात्स्फोटकल्पनानर्थिका / न कल्पयाम्यहं स्फोटं प्रत्यक्षमेव त्वेनमवगच्छामि, एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यव ऊभासनादिति चेत् /
SK
न / अस्या अपि बुद्धेर्वर्णविषयत्वात् / एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया नार्थान्तरविषया / कथमेतदवगम्यते / यतो ऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते नतु दकारादयः / यदि ह्यस्या बुद्धेर्गकारादिभ्योर्ऽथान्तरं स्फोटो विषयः स्यात्ततो दकारादय इव गकारादयो ऽप्यस्या बुद्धेर्व्यावर्तेरन् / नतु तथास्ति / तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः /
SK
नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तं, तत्प्रतिब्रूमः - संभवत्यनेकस्याप्येकबुद्धिविषयत्वं, पङ् क्तिर्वनं सेना दश शतं सहस्रमित्यादिदर्शनात् / या तु गौरित्येको ऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धनौपचारिकी वनसेनादिबुद्धिवदेव /
SK
अत्राह- यदि वर्णा एव सामस्त्येनैकबुद्धिविषयतामापद्यमानाः पदं स्युस्ततो जारा राजा कपिः पिकः इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात् / त एव हि वर्णा इतरत्र चेतरत्र च प्रत्यवभासन्त इति / अत्र वदामः - सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ् क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधन एव वर्णाः पदबुद्धिमारोक्ष्यन्ति / तत्र वर्णानामविशेषे ऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते / वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसंबन्धाः सन्तः स्वव्यवहारो ऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना / स्फोटवादिनस्तु दृष्टहानिरदृष्टकल्पना च / वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोर्ऽथं व्यनक्तीति गरीयसी कल्पना स्यात्, अथापि नाम प्रत्युच्चारणमन्ये ऽन्ये वर्णाः स्युः, तथापि प्रत्यभिज्ञालम्बनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्यत्वाद्या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु संचारयितव्या / ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम्
SK
FN: औत्पत्तिकं स्वाभाविकं / वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां चिकीर्षितां व्यक्ति बुद्धावालिख्य तस्याः प्रभवनं, तदिदं तत्प्रभवत्वम् / आकृतीनां जातीनाम् / ऽएते असृग्रमिन्दवस्तिरः पवित्रमाशवः / विश्वान्यभिसौभगाऽ इति / एतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत / तत्र संनिहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन संनिहितानां स्मारकः / असृक् रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामग्रशब्दस्मारकः / चन्द्रस्थानां पितृणामिन्दुशब्दः स्मारकः / पवित्रं सोमं स्वान्तविस्तरस्कुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः / ऋ.(?).उचोश्नुवतां स्तोत्राणामाशुशब्दः स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः / संप्रदायो गुरुशिष्यपरंपराध्ययनम् / संस्था अवस्थाः / वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः / स्फुटते वर्णैर्व्यज्यत इति स्फोटो वर्णाभिव्यङ्ग्योर्ऽथस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः / व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् वर्णान्तरवैयर्थ्यप्रतीत्यदर्शनाच्चेत्यर्थः / एकैकेति यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकाराद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाको ऽन्त्यः संस्कारो यस्मिन्प्रत्ययिनि चित्ते एकं गौरिति पदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः / वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम्, भेदधीविरोधात् / ताल्वादिदेशैःकोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः / यो ऽवतरति स ध्वनिरिति शेषः / वर्णातिरिक्तः शब्दः ध्वनिरित्यर्थः / प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेदः / अप्रत्यक्षत्वं अश्रावणत्वम् / यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः / उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना / अर्थावच्छेदोर्ऽथं निश्चयः / प्रत्यवमर्शः स्मृतिः / व्युत्पत्तिदशा वृद्धव्यवहारः / क्रमादित्यादिशब्देन संख्या गृह्यते / स्वस्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था / तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् / दृष्टं वर्णानामर्थबोधकत्वं, अदृष्टः स्फोटः /
SK
कर्मण्यविरोधमङ्गीकृत्य शब्दप्रामाण्यविरोधमाशङ्क्य परिहरति / शब्द इति चेदिति / मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः / औत्पत्तिकसूत्रे शब्दार्थयोरनाद्योः संबन्धस्यानादित्वाद्वेदस्य स्वार्थे मानान्तरानपेक्षत्वेन प्रामाण्यमुक्तम् / इदानीमनित्यविग्रहव्यक्त्यभ्युपगमे तत्संबन्धस्याप्यनित्यत्वान्मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य संकेतः पुंसा कर्तव्य इति मानान्तरापेक्षत्वात्प्रामाण्यस्य विरोधः स्यादित्याह-कथमित्यादिना / किं शब्दानामनित्यतया संबन्धस्य कार्यत्वमापद्यते, उतार्थानामनित्यतया / नाद्य इत्याह-नायमपीति / कर्मण्यविरोधवदित्यपेरर्थः / देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सत्त्वान्नानित्यत्वमिति भावः / अत्र पूर्वापरविरोधं शङ्कते-नन्विति / शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति-अपिचेति / अनित्यत्वं सादित्वम् / व्यक्तिरूपार्थानामनित्यतया शब्दानां संबन्धस्यानित्यत्वं दुर्वारं, तस्मात्पौरुषेयसंबन्धसापेक्षत्वात्प्रामाण्यविरोध इत्यर्थः / नच व्यक्तिनामनित्यत्वे ऽपि घटत्वादिजातिसमवायवच्छब्दसंबन्धो ऽपि नित्यः स्यादिति वाच्यं, उभयाश्रितसंबन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्तासिद्वेरिति भावः / यथा गोत्वादयो गवादिशब्दवाच्यास्तथा वसुत्वाद्याकृतयो वस्वादिशब्दार्था न व्यक्त्य इति परिहरति-नेत्यादिना / शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्संबन्धो ऽपि नित्य इति प्रतिपादयति-नहीत्यादिना / व्यक्तिनामानन्त्यादिति / नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यं,
SK
सामान्यस्याप्रत्यासत्तित्वेन सर्वव्यक्त्युपस्थित्यभावात्, गोत्वं शक्यतावच्छेदकमिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात्, निरूढाजहल्लक्षणया व्यक्तेर्लाभेनान्यलभ्यत्वाभावाच्चेति भावः / यद्वा केवल व्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं, विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानविषयत्वेनोभयशक्तेरावश्यकत्वात् / तथाच नित्यजातितादात्म्येन व्यक्तेरनादित्वात्तत्संबन्धो ऽप्यनादिः, सत्कार्यवादात् / अत एव वाक्यवृत्तौ तत्त्वमस्यादिवाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्यत्वे ऽखण्डार्थस्य वाच्यैकदेशत्वाभावात् / ऽअतःप्रभवात्ऽइति सूत्रस्वारस्याच्च केवलव्यक्तिशक्तिनिरास इति गम्यते / केवलव्यक्तिवचनाः खलु डित्थादिशब्दा अर्थानन्तरभाविनः सांकेतिकाः गवादिशब्दास्तु व्यक्तिप्रभवहेतुत्वेन प्रागेवसन्धीति न व्यक्तिमात्रवचनाः सांकेतिकाः किन्तु स्थूलसूक्ष्मभावेनानुस्यूतव्यक्त्यविनाभूतसामान्यवचना इति मन्तव्यम् / न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवदिन्द्रचन्द्रादिशब्दः केवलव्यक्तिवचना इति सांप्रतम् /
SK
अतीतानागतव्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपञ्चेन / दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमाह-व्यक्तिष्वित्यादिनाआकृतिर्जातिः / ननु का सा व्यक्तिः, यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह-आकृतिविशेषस्त्विति / ऽवज्रहस्तःपुरन्दरःऽइत्यादिभ्य इत्यर्थः / इन्द्रादिशब्दानां जातिरिन्द्रादिषु प्रवृत्तिनिमित्तमित्युक्त्वा उपाधिनिमित्तमाह-स्थानेति / व्यक्तिप्रलये ऽपि स्थानस्य स्थायित्वाच्छब्दार्थसंबन्धनित्यतेत्यत आह-ततश्चेति / उक्तं पूर्वापरविरोधं परिहरति-नचेति / शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेषमवतारयति-कथं पुनरिति / स्मृत्या स्वप्रामाण्यार्थं मूलश्रुतिरनुमीयत इत्यनुमानं स्मृतिः / ऽएते असृग्रमिन्दवस्तिरः पवित्रमाशवः / विश्वान्यस्याभिसौभगा / ऽइत्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् / तत्रैत इति पदं सर्वनामत्वाद्देवानां स्मारकम् / असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः / चन्द्रस्थानां पितृणां इन्दुशब्दः स्मारकः / पवित्रं सोमं स्वान्तस्तिरस्कुर्वतां ग्रहाणां तिरः पवित्रशब्दः / ऋचो ऽश्रुवतां स्तोत्राणां गीतिरूपाणामाशुशब्दः / ऽऋच्यध्यूढं सामऽइति श्रुतेः / स्तोत्रानन्तरं प्रयोगं विशतां शास्त्राणां विश्वशब्दः / सर्वत्र सौभाग्ययुक्तानामभिसौभगशब्दःस्मारक इति छन्दोगब्राह्मणवाक्यार्थः / स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं समभवत् मनोवाग्रूपं मिथुनं संभावितवान् / मनसा त्रयीप्रकाशितां सृष्टिमालोचितवानित्यर्थः / ऽरश्मिरित्येवादित्यमसृजतऽइत्यादिश्रुतिरादिशब्दार्थः / संप्रदायो गुरुशिष्यपरम्पराध्ययनम् / संस्था अवस्थाः / या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात्, प्रत्यक्षघटादिवदिति प्रत्यक्षानुमानाभ्यामित्यस्यार्तान्तरमाह-अपिचेति / अतः प्रभवत्वप्रसङ्गाच्छब्दस्वरूपं वक्तुमुक्तमाक्षिपति-किमात्मकमिति / वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः / तत्र वर्णानामनित्यत्वात्स्फोटस्य चासत्त्वान्न जगद्धेतुत्वमित्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति-स्फोटमिति / स्फुट्यते वर्णैर्व्यज्यत इति स्फोटोवर्णाभिव्यङ्ग्योर्ऽथस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः / स एवाद्यपक्षं दूषयति-वर्णेति / सो ऽयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसिद्धेर्नानुपपत्तिरित्यत आह-उत्पन्नेति / तारत्वमन्द्रत्वादिविरुद्धधर्मवत्त्वेन तारो गकारो मन्द्रो गकार इति प्रतीयमानगकारस्य भेदानुमानात्प्रत्यभिज्ञागत्वजातिविषयेत्यर्थः / ननु विरुद्धधर्मज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह-नचेति / तथाच वर्णानामनित्यत्वान्न जगद्धेतुत्वमिति भावः किञ्च तेषामर्थबोधकत्वायोगात्स्फोटो ऽङ्गीकार्य इत्याह-नच वर्णेभ्य इत्यादिना / व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात्, वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः / तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह-नचेति / वर्णानां स्वतः साहित्याभावे ऽपि संस्कारलक्षणापूर्वद्वारा साहित्यमाग्नेयादियागानामिवेति शङ्कते-पूर्वेति / किमयं संस्कारो वर्णैर्जनितो ऽपूर्वाख्यः कश्चित्, उत वर्णानुभवजनितो भावनाख्यः / नाद्यः, मानाभावात् / किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः / नाद्य इत्याह-तन्नेति / संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, संबन्धग्रहणमपेक्ष्य बोधकत्वात्, धूमादिवदित्यर्थः / द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन / नाद्य इत्याह-नचेति / द्वितीयं शङ्कते-कार्येति / कार्यमर्थधीस्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति-नेति / पदार्थस्मरणस्यापि पदज्ञानान्तरभावित्वात्तेन संस्कारसहितान्त्यवर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः / अपिशब्दः परस्पराश्रयद्योतनार्थः / एतेन भावानासंस्कारपक्षो ऽपि निरस्तः / तस्य वर्णस्मृतिमात्रहेतुत्वेनार्थधीहेतुत्वायोगात् / न चान्त्यवर्णसाहित्यादर्थधीहेतुत्वं, केवलसंस्कारस्य तु वर्णस्मृतिहेतुत्वमिति वाच्यं, अर्थधीपूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् / नच वर्णस्मरणेनानुमिता सा अन्त्यवर्णसहितार्थधीहेतुरिति वाच्यं, तत्कार्यस्य क्रमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनानुमितभावनानामन्त्यवर्णसाहित्याभावादिति भावः / वर्णानामर्थबोधकत्वसंभवे फलमाह-तस्मादिति / स्फोटे ऽपि किं मानमित्याशङ्क्यैकं पदमिति प्रत्यक्षप्रमाणमित्याह-स चेति / यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकारद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाको ऽन्त्यः संस्कारोयस्मिंस्तस्मिन्प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः / अनेन वर्णान्वयव्यतिरेकयोः स्फोटज्ञाने ऽन्यथासिद्धिः / नचैकस्माद्वर्णात्सम्यक् स्फोटाभिव्यक्तिः, येन वर्णान्तरवैयर्थ्यं किन्तु रत्नवद्बहुप्रत्ययसंस्कृते चित्ते सम्यक्स्फोटाभिव्यक्तिरित्युक्तं भवति / नन्वेकपदमेकं वाक्यमिति प्रत्ययः पदवाक्यस्फोटयोर्न प्रमाणं, तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्क्य निषेधति-न चेति / स्फोटस्य जगद्धेतुत्वार्थं नित्यत्वमाह-तस्य चेति / ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदात्तादिभेदप्रत्ययादित्यत आह-भेदेति / आचार्यसंप्रदायोक्तिपूर्वकं सिद्धान्तयति-वर्णा एवेति / वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः / सादृश्यदोषादियं भ्रान्तिरिति शङ्कते-सादृश्यादिति / वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तं, भेदधीविरोधात् / स एवायं वर्ण इति धीस्तु प्रमैव, बाधकाभावादित्याह-नेति / गोत्वादिप्रत्यभिज्ञावद्वर्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते-प्रत्यभिज्ञानमिति / व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात्,
SK
यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ / न तथेह व्यक्तिभेदः सिद्ध इति परिहरति-न / व्यक्तीति / न त्वेतदिति / व्यक्त्यन्यत्वज्ञानमित्यर्थः / उदात्तत्वादिविरुद्धधर्मत्वाद्व्यक्तिभेदो ऽनुमानसिद्ध इत्यनुवदति-नन्विति / भेदप्रत्ययस्य कुम्भकूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेरनन्यथासिद्धव्यक्त्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमाह-अत्रेति / ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः / कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह-अपिचेति / अनन्ता गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थं गत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमिति कल्पनाद्वरं वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यानन्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थः / ननु भेदस्य बाधकाभावान्नौपाधिकत्वमित्यत आह-एष इति / अस्तु तर्हि प्रत्ययद्वयप्रामाण्याय भेदाभेदयोः सत्यत्वं, तत्राह-कथं हीति / उभयोरेकत्वविरोधाद्भेद औपाधिक एवेत्यर्थः / ननु वायुसंयोगादेरतीन्द्रियत्वान्न तद्गतवैचित्र्यस्योदात्तत्वादेर्वर्णेषु प्रत्यक्षारोपः संभवतीत्यरुचिं वदिष्यन्स्वमतमाह-अथवेति / ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासाद्वर्णेषु भान्तीत्यर्थः / प्रश्नपूर्वकं ध्वनिस्वरूपमाह-क इति / अवतरति स ध्वनिरिति शेषः / वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः / समीपं गतस्य पुंसस्तारत्वमन्दत्वादिधर्मान्स्वगतान्वर्णेषु स एवारोपयतीत्याह-प्रत्यासीदतश्चेति / आदिपदं विवृणोति-तदिति / नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह-वर्णानामिति / प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेद इत्यर्थः / अन्यथा वाचिके जपे वर्णेष्वव्यक्तेषु ध्वनिबुद्धिः स्यात्,
SK
दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् / एवं ध्वन्युपाधिकत्वे स्वमते गुणं वदन्वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति-एवञ्चेत्यादिना / अस्तु को दोषः, तत्राह-संयोगेति / वायुसंयोगादेरश्रावणत्वादित्यर्थः / तस्मात् श्रावणध्वनिरेवोदात्तत्वाद्यारोपोपाधिरिति भावः / एवं विरुद्धधर्मकध्वनीनां भेदे ऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् / तदेव दृष्टान्तेन द्रढयति-अपिचेति / यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः / उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना / प्रत्यभिज्ञाविरोधादित्यक्षरार्थः / यद्वा उदात्तत्वादिभेदविशिष्टतया प्रत्यभिज्ञायमानत्वाद्वर्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति-अपिचेति / वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति-वर्णेभ्यश्चेति / कल्पनामसहमान आशङ्कते-नेति / चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह-झटितीति / यस्यां संविदि योर्ऽथो भासते सा तत्र प्रमाणम् / एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह--न / अस्या अपीत्यादिना / ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्जकत्वादनुवृत्तिरित्यत आह--यदि हीति /
SK
व्यङ्ग्यवह्निबुद्धौ व्यञ्जकधूमानुवृत्तेरदर्शनादित्यर्थः / वर्णसमूहालम्बनत्वोपपत्तैर्न स्फोटः कल्पनीयः, पदार्थान्तरकल्पनागौरवादित्याह-तस्मादिति / अनेकस्याप्यौपाधिकमेकत्वं युक्तमित्याह-संभवतीति / ननु तत्रैकदेशादिरूपाधिरस्ति, प्रकृते क उपाधिरित्यत आह--या त्विति / एकार्थे शक्तमेकं पदं, प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसंबन्धादेकत्वोपचार इत्यर्थः / न चैकपदत्वे ज्ञाते एकार्थज्ञानं, अस्मिञ्ज्ञाते तदित्यन्योन्याश्रय इति वाच्यम्, उत्तमवृद्धोक्तानाम् वर्णानां क्रमेणान्त्यवर्णश्रवणानन्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्धस्य प्रवृत्त्यादिलिङ्गानुमितैकार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्चयात् / वर्णसाम्ये ऽपि पदभेददृष्टेर्वर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते-अत्राहेति / कर्मभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति-अत्रेति / ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पदत्वज्ञानेनार्थधीहेतुत्वं, तत्राह-वृद्धेति / व्युत्पत्तिदशायामुच्चारणक्रमेणोपलब्धिक्रममुपलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्संख्यावन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः / स्थायिवर्णवादमुपसंहरति-वर्णेति / दृष्टं वर्णानामर्थबोधकत्वम्, अदृष्टः स्फोटः / संप्रति वर्णानामस्थिरत्वमङ्गीकृत्य प्रौढिवादेन स्फोटं विघटयति-अथापीति / स्थिराणि गत्यादिसामान्यानि क्रमविशेषवन्ति गृहीतसंगतिकान्यर्थबोधकानीति कॢप्तेषु सामान्येषु प्रक्रिया संचारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः / वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह-ततश्चेति
SK
END Bस्Cओम्_१,३.८.२८
SK
START Bस्Cओम्_१,३.८.२९
SK
अत एव च नित्यत्वम् | BBस्_१,३.२९ |
SK
स्वतन्त्रस्य कर्तुरस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्य ऽअतः प्रभवात्ऽ इति परिहृत्येदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति- अत एव च नित्यत्वमिति / अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वाद्वेदशब्दे नित्यत्वमपि प्रत्येतव्यम् / तथाच मन्त्रवर्णः - ऽयज्ञेन वाचः पदवीयमायान्तामन्वविन्दन्नृषिषु प्रविष्टाम् (ऋ.स. १०.७१.३) इति स्थितामेव वाचमनुविन्नां दर्शयति / वेदव्यासश्चैवमेव स्मरति- ऽयुगान्ते ऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः / लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवाऽ इति
SK
FN: यज्ञेन पूर्वसुकृतेन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रहणयोग्यतां आयन्नाप्तवन्तः, ततःस्तां वाचमृषिषु प्रविष्टां विद्यमानां अन्वविन्दन्ननुलब्धवन्तो याज्ञिका इतियावत् / अनुविनान्नामुपलब्धाम् / पूर्वमवान्तरकल्पादौ /
SK
पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे-कर्तुरित्यादिना /
SK
पूर्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्वाचकशब्दस्यापि सृष्टेरसिद्धमित्याशङ्क्य नित्याकृतिवाचकाच्छब्दाद्व्यक्तिजन्मोक्त्या सांकेतिकत्वं निरस्य वेदो ऽवान्तरप्रलयावस्थायी जागद्धेतुत्वादीश्वरवादित्यनुमानेन द्रढयतीत्यर्थः / यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः / अनुविन्नामुपलब्धाम् / पूर्वमवान्तरकल्पादौ
SK
END Bस्Cओम्_१,३.८.२९
SK
START Bस्Cओम्_१,३.८.३०
SK
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च | BBस्_१,३.३० |
SK
अथापि स्यात् / यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयो ऽपि संतत्यैवोत्पद्येरन्निरुध्येरंश्च ततो ऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्संबन्धनित्यत्वेन विरोधः शब्दे परिह्रियेत / यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति तदा कथमविरोध इति / तत्रेदमभिधीयते- समाननामरूपत्वादिति तदापि संसारस्यानादित्वं तावदभ्युपगन्तव्यम् / प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वं - ऽउपपद्यते चाप्युपलभ्यतेऽ च (ब्र. २.१.३६) इति / अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणे ऽपि पूर्वप्रबोधवदुक्तप्रबोधे ऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पान्तरप्रभवप्रलययोरिति द्रष्टव्यम् /
SK
स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते- ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदेनं वाक्सर्वैर्नाभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाफयेति स यदा प्रतिबुध्यते यथाग्नेर्ज्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथातनं विप्रतिष्टन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः (कौ. ३.३) इति / स्यादेतत् / स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं च सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसंधानसंभवादविरुद्धम् / महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसंधातुमशक्यत्वाद्वैषम्यमिति /
SK
नैष दोषः / सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसंधानोपपत्तेः / यद्यपि प्राकृताः प्राणिनो न जन्मान्तरव्यवहारमनुसमदधाना दृश्यन्त इति, तथापि न प्राकृतवदीश्वराणां भवितव्यम् / तथाहि प्राणित्वाविशेषे ऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान्भवन्दृश्यते, तथा मनुष्यादिस्तम्बपर्यन्तेषु हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादेष्वसकृदनुश्रूयमाणं न शक्यं वदितुम् / ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्रानुगृहीतानां सुप्तप्रतिबुद्धत्वकल्पान्तरव्यवहारानुसंधानोपपत्तिः / तथाच श्रुतिः - ऽयो ब्रह्मणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै / तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्येऽ (श्वे, ६.१८) इति / स्मरन्ति च शौनकादयः ऽमधुच्छन्दःप्रभृतिभिरृषिभिर्दर्शितय्यो दृष्टाःऽ इति / प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते /
SK
श्रुतिरप्यृषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति- ऽयो हवा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजयति वाध्यापयति वा स्थाणुं वच्र्छति गर्तं वा प्रतिपद्यतेऽऽ (सर्वानु. परि.) इत्युपक्रम्य तस्मादेतानि मन्त्रे मन्त्रे विद्यात्ऽ इति / प्राणिनां च सुखप्राप्तये धर्मो विधीयते / दुःखपरिहाराय चाधर्मः प्रतिषिध्यते / दृष्टानुश्रविकसुखदुःखविषयौ च रागद्वेषौ भवतो न विलक्षणविषयावित्यतो धर्माधर्मफलभूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते / स्मृतिश्च भवति- ऽतेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे / तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः //
SK
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते / तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचतेऽ //
SK
इति / प्रलीयमानमपि चेदं जगच्छक्त्यशेषमेव प्रलीयते / शक्तिमूलमेव च प्रभवति / इतरथाकस्मिकत्वप्रसंङात् / नचानेकाकाराः शक्तयः शक्याः कल्पयितुम् / ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोकप्रवाहाणां, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणां, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रियविषयसंबन्धनियतत्ववत्प्रत्येतव्यम् / नहीन्द्रियविषयसंबन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम् / अतश्च सर्वकल्पानां तुल्यव्यवहारत्वात्कल्पान्तव्यवहारानुसंधानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्ति / समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयक्षणायां जगतो ऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः / समाननामरूपतां च श्रुतिस्मृती दर्शयतः - ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् / दिवं च पृथिवी चान्तरिक्षमथो स्वःऽ (ऋ.सं. १०. १९०.३) इति / यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत्कॢप्तं तथास्मिन्नपि कल्पे परमेश्वरो ऽकल्पयदित्यर्थः / तथा ऽअग्निर्वा अकामयत अन्नादो देवानांस्यामिति / स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्ऽ (तै.ब्रा. ३.१.४.१) इति नक्षत्रेष्टिविधौ यो ऽग्निर्निरवपद्यस्मै वाग्नये निरवपत्तयोः समाननामरूपतां दर्शयतीत्येवञ्जातीयका श्रुतिरिहोदाहर्तव्या / स्मृतिरपि- ऽऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः / शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः //
SK
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये / दृश्यन्ते तानि तान्येव तथा भावा युगादिषु //
SK
यथाभिमानिनो ऽतीतास्तुल्यस्ते सांप्रतैरिह / देवा देवैरतातैर्हि रूपैर्नामभिरेव च //
SK
ऽ इत्येवजातीयका द्रष्टव्या
SK
FN: अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ / तदापि महाप्रलयमहासर्गाङ्गीकारे ऽपीति यावत् / यदेप्युपक्रमादथशब्दः तदेत्यर्थः / प्राणः परमात्मा तत्र जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः / तस्मात् प्राणात्मनः, आयतनं गोलकम् / इतिशब्दो यद्यपीत्यनेन संबध्यते / ऽहिरण्यगर्भः समवर्ततेऽत्यादयः श्रुतिवादाः, ऽज्ञानमप्रतिमं यस्येऽत्यादयः स्मृतिवादाः / प्रहिणोति गमयति तस्य बुद्धौ वेदनाविर्भावयति / ऋग्वेदो दशमण्डलात्मकः मण्डलानां दशतयमात्रास्तीति तत्र भवा ऋचो दाशतय्यः / अर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतग्न्यादि, ब्राह्मणं विनियोगः एतान्यविदितानि यस्मिन्मन्त्रे, स्थाणुं स्थावरं, गर्तं नरकम् / तेषां प्राणिनां मध्ये / तान्येव तज्जातीयान्येव / षष्ठेन्द्रियं मनः ऽमनःषष्ठानीन्द्रियाणीऽति स्मृतेः / नक्षत्रबहुत्वाद्बहुवचनम् कृत्तिकादेवायाग्नये, अष्टसु कपालेषु पचनीयं हविर्निरुप्तवान् / देवेष्विति विषयसप्तमी / शर्वर्यन्ते प्रलयान्ते / ऋतुर्लिङ्गानि नवपल्लवादीनि / पर्यये घटीयन्त्रवदावृत्तौ / भावाः पदार्थाः /
SK
ननु महाप्रलये जातेरप्यसत्त्वाच्छब्दार्थसंबन्धानित्यत्वमित्याशङ्क्याह-समानेति / सूत्रनिरस्यां शङ्कामाह-अथापीति / व्यक्तिसंतत्या जातीनामवान्तरप्रलये सत्त्वात्संबन्धस्तिष्ठति, व्यवहाराविच्छेदाज्ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् / निर्लेपलये तु संबन्धनाशात् पुनः सृष्टौ केनचित्पुंसा संकेतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यं, अध्यापकस्याश्रयस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्तमित्यर्थः / महाप्रलये ऽपि निर्लेपलयो ऽसिद्धः, सत्कार्यवादात् / तथाच संस्कारात्मना शब्दार्थतत्संबन्धानां सतामेव पुनः सृष्टावभिव्यक्तेर्नानित्यत्वम् / अभिव्यक्तानां पूर्वकल्पीयनामरूपसमानत्वान्न संकेतः केनचित्कार्यः / विषमसृष्टौ हि संकेतापेक्षा न तुल्यसृष्टाविति परिहरति-तत्रेदमित्यादिना / नन्वाद्यसृष्टौ संकेतः केनचित्कार्य इत्यत आह-तदापीति / महासर्गप्रलयप्रवृत्तावपीत्यर्थः / नन्वस्त्वनादिसंसारे संबन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थव्यवहारः, तत्राह-अनादौ चेति / न कश्चिद्विरोधः, शब्दार्थसंबन्धस्मरणादेरिति शेषः / स्वापप्रबोधयोर्लयसर्गासिद्धिमाशङ्क्य श्रुतिमाह-स्वापेति / अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः / एतस्मात्प्रात्मनः / आयतनं गोलकम् / आनन्तर्ये पञ्चमी इत्याद्या द्रष्टव्या /
SK
स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः / दृष्टान्तवैषम्यमाशङ्क्य परिहरति-स्यादित्यादिना / अविरुद्धमनुसन्धानादिकमिति शेषः / हिरण्यगर्भादयः पूर्वकल्पानुसंधानशून्यः / संसारित्वात्, अस्मादादिवादित्याशङ्क्याह-यद्यपीति / इति यद्यपि तथापि न प्राकृतवदिति योजना / ज्ञानादेर्निकर्षवदुत्कर्षो ऽप्यङ्गीकार्यः, बाधाभावादिति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह-यथा हीत्यादिना / ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन्कल्पे को ऽनुसंधातेत्यत आह-ततश्चेति / ज्ञानाद्युत्कर्षादित्यर्थः / मुक्तेभ्यो ऽन्ये ऽनुसंधातार इति भावः / परमेश्वरानुगृहीतानां ज्ञानातिशये पूर्वोक्तश्रुतिस्मृतिवादानाह-तथा चेति / पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थबुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः / न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टृणामिति विश्वासार्थमाह-स्मरन्तीति / ऋग्वेदो दशमण्डलावयवास्तत्र भवा ऋचो दाशतम्यः / वेदान्तरे ऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह-प्रतीति / किञ्च मन्त्राणामृष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदृगृषीणां ज्ञानातिशयं दर्शयतीत्याह-श्रुतिरपीति / आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः / स्थाणुं स्थावरं, गर्तं नरकम् / तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रवर्तितत्वाद्वेदस्यानादित्वमनपेक्षत्वं चाविरूद्धमिति भावः / अधुना समाननामरूपत्वं प्रपञ्चयति-प्राणिनां चेति / ततः किं, तत्राह-दृष्टेति / ऐहिकामुष्मिकविषयसुखरागकृतर्मस्य फलं पश्वादिकं दृष्टपश्वादिसदृश्यमिति युक्तं, विसदृशे कामाभावेन हेत्वभावात् / तथा दृष्टदुःखद्वेषकृताधर्मफलं दृष्टसदृशदुःखमेव न सुखं, कृतहान्यादिदोषापत्तेरित्यर्थः / तर्कितेर्ऽथे मानमाह-स्मृतिश्चेति / उत्तरसृष्टिः पूर्वसृष्टिसजातीया, कर्मफलत्वात्, पूर्वसृष्टिवदित्यनुमानं चशब्दार्थः / तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव / तानि दर्शयन् तत्प्राप्तौ हेतुमाह-हिंस्रेति / कर्मणि विहितनिषिद्धत्वाकारेणापूर्वं, क्रियात्वेन संस्कारं च जनयन्ति / तत्रापूर्वात्फलं भुङ्क्ते, संस्कारभावितत्वात्पुनस्तज्जातीयानि करोतीत्यर्थः / संस्कारे लिङ्गमाह-तस्मादिति / संस्कारवशादेव पुण्यं पापं वा रोचते / अतो ऽभिरुचिलिङ्गात्पुण्यापुण्यसंस्कारो ऽनुमेयः / स एव स्वभावः प्रकृतिर्वासनेति च गीयते / एवं कर्मणां सृष्टिसादृश्यमुक्त्वा स्वोपादाने लीनकार्यसंस्काररूपशक्तिबलादपि सादृश्यमाह-प्रलीयमानमिति / इतरथा निःसंस्कारप्रलये जगद्वैचित्र्यस्याकस्मिकत्वं स्यादित्यर्थः / ननु जगद्वैचित्र्यकारिण्यो ऽन्याः शक्तयः कल्प्यन्तां, तत्राह-नचेति / अविद्यायां लीनकार्यात्मकसंस्कारादन्याः शक्तयो न कल्प्याः मनाभावाद्रौरवाच्च / स्वोपादाने लीनकार्यरूपा शक्तिस्तु ऽमहान् न्यग्रोधस्तिष्ठतिऽ ऽश्रद्धत्स्व सोम्यऽइतिश्रुतिसिद्धा, अतो ऽविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः / निमित्तेष्वप्युपादनस्थं कार्यमेवाविद्याघटनया शक्तिरन्या वेत्यनाग्रहः / उपादाने कार्यसंस्कारसिद्धेः फलमाह ततश्चेति / यथा सुप्तोत्थितस्य पूर्वचक्षुर्जातीयमेव चक्षुर्जायते तच्च पूर्वरूपजातीयमेव रूपं गृह्णाति न रसादिकं, एवं भोग्य लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्कारबलात्पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः / निकायाः समूहाः / दृष्टान्तासिद्धिमाशङ्क्यमाह-न हीति / यथा षष्ठेन्द्रियस्य मनसो ऽसाधारणविषयो नास्ति, सुकादेः साक्षिवेद्यत्वात्, तथा व्यवहारान्यथात्वमसदित्यर्थः / षष्ठमिन्द्रियं तद्विषयश्चासन्निति वार्थः / उक्तार्थं संक्षिपति-अतश्चेति / व्यवहारसाम्यात्संभवाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः / सूत्रे योजयति-समानेत्यादिना / भाविदृष्ट्या यजमानो ऽग्निः अन्नादो ऽरग्निरहं स्यामिति कामयित्वा कृत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपालेषु पचनीयं हविर्निरुप्तवानित्यर्थः / नक्षत्रव्यक्तिवहुत्वाद्बहुवचनम् / झ्र्ननु यजमानो ऽग्निर्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति / एवं ऽरुद्रो वा अकामयतऽऽविष्णुर्वा अकामयतऽइत्यत्रापि तथा वक्तव्यं, तदयुक्तम् / न ह्यग्नेरिव विष्णुरुद्रयोरधिकारिपुरुषत्वं, तयोर्जगत्कारणत्वश्रवणात् / ऽएक एव रुद्रो नऽइति / ऽएको विष्णुःऽइत्यादि श्रुतिस्मृतिविरोधादितिटस्मृतौ वेदेष्विति विषयसप्तमी / शर्वर्यन्ते प्रलयान्ते / ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि / पर्यये घटीयन्त्रवदावृत्तौ / भावाः पदार्थाः तुल्या इति शेषः / तस्माज्जन्मनाशवद्विग्रहाङ्गीकारे ऽपि कर्मणि शब्दे च विरोधाभावाद्देवानामस्ति विद्याधिकार इति स्थितम्
SK
END Bस्Cओम्_१,३.८.३०
SK
START Bस्Cओम्_१,३.८.३१
SK
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः | BBस्_१,३.३१ |
SK
इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते / देवादीनामनधिकारं जैमिनिराचार्यो मन्यन्ते / कस्मात् / मध्वादिष्वसंभवात् / ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषान्मध्वादिविद्यास्वप्यधिकारो ऽभ्युपगम्येत / नचैवं संभवति / कथम् / ऽअसौ वा आदित्यो देवमधुऽ (छा. ३.१.१) इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपसीरन् / देवादिषु ह्युपासकेष्यभ्युपगम्यमानेष्वादित्यः कमन्यमादित्यमुपासीत / पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्युपक्रम्य वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्ततमृतमुपजीवन्तीत्युपदिश्य ऽस य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यतिऽ इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति / वस्वादयस्तु कानन्यान्वस्वादीनमृतोपजीविनो विजानीयुः / कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः / ऽतथा अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादःऽ (छा. ३.१८.२), ऽवायुर्वाव संवर्गःऽऽ (छा. ४.३.१) ऽआदित्यो ब्रह्मेत्यादेशःऽ (छा. ३.११.१) इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मानमधिकारः संभवति / तथा ऽइमावेव गोतमभरद्वाजा वयमेव गोतमो ऽयं भरद्वाजःऽ (बृ. २.२.४) इत्यादिष्विप्यृषिसंबन्धेषूपासनेषु न तेषामेवर्षीणामधिकारः संभवति
SK
FN: पञ्चेति चतुर्वेदोकर्माणि प्रणवश्चति पञ्च कुसुमानि तेभ्यः सोमाज्यादिद्रव्याणि हुतानि रोहितादीनि लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहितादीन्यमृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तपञ्चदिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वषूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेजैन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरुपजीव्यानीति ध्यायन्तो वस्वादिप्राप्तिरुक्तेत्यर्थः /
SK
आक्षिपति-मध्वादिष्विति / ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात्, मध्वादिविद्यावदित्यर्थः //
SK
दृष्टान्तं विवृणोति-कथमित्यादिना / द्युलोकाख्यवंशदण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् / तत्रादित्यस्याधिकारो न युक्तः, ध्यातृध्येयभेदाभावादित्याह-देवादिष्विति / अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येयत्वात्प्राप्यत्वाच्च न ध्यातृत्वमित्याह-पुनश्चेति /
SK
चतुर्वेदोक्तकर्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमाज्यादिद्रव्याणि हुतानि लोहितशुक्लकृष्णपरः कृष्णगोप्याख्यानि पञ्चामृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तरपञ्चादिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वपूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेजैन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरूपजीव्यानीति ध्यायतो वस्वादिप्राप्तिरुक्तेत्यर्थः / सूत्रस्थादिपदार्थमाह-तथाग्निरिति / आकाशब्रह्मणश्चत्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्तस्विन्द्रियेषु शिरश्चमसतीरस्थेषु सप्तर्षिध्यानं कार्यमित्याह-तथेमावेवेति /
SK
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ, वामे जमदग्निकश्यपौ, वागत्रिरित्यर्थः / अत्र ऋषीणां ध्येयत्वान्नाधिकारः
SK
END Bस्Cओम्_१,३.८.३१
SK
START Bस्Cओम्_१,३.८.३२
SK
कुतश्च देवादीनामधिकारः -
SK
ज्योतिषि भावाच् च | BBस्_१,३.३२ |
SK
यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगदवभासयति तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते / लोकप्रसिद्धर्वाक्यशेषप्रसिद्धेश्च / नच ज्योतिर्मण्डलस्य हृदयादिना विग्रहेषु चेतनयार्थित्वादिना वा योगो ऽवगन्तुं शक्यते मृतादिवदचेतनत्वावगमात् / एतेनाग्न्यादयो व्याख्याताः / स्यादेतत् / मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादानां विग्रहवत्त्वाद्यवगमादयमदोष इति /
SK
नेत्युच्यते / नहि तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्ति / प्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्ध्यनर्थो लोकात्प्रसिध्यतीत्युच्यते / नचात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति / इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमूलमाकाङ्क्षति / अर्थवादा अपि विधिनैकवाक्यत्वात्स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते / मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनो ऽभिधानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते / तस्मादभावो देवादीनामधिकारस्य
SK
FN: ऽवज्रहस्तः पुरन्दरःऽ इत्यादयो मन्त्राः ऽसो ऽरोदीत्ऽ इत्यादयोर्ऽथवादाः, ऽइष्टान्भोगान्हि वो देवाऽ इत्यादीतिहासपुराणानि, लोके ऽपि यमं दण्डहस्तं, इन्द्रं वज्रहस्तं, लिखन्तीति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः / ऽविग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता / फलप्रदानमित्येतत्पञ्चकम् विग्रहादिकम्ऽ इति /
SK
किञ्च विग्रहाभावाद्देवादीनां न क्वाप्यधिकार इत्याह-ज्योतिषि भावाच्चेति / आदित्यः सूर्यश्चन्द्रः शुक्रो ऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावात्सत्त्वान्न विग्रहवान्देवः कश्चिदस्तीत्यर्थः / ऽआदित्यः पुरस्तादुदेता पश्चादस्तमेताऽइति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दः प्रसिद्धः / तर्हि ज्योतिःपिण्डानामेवाधिकारो ऽस्तु, तत्राह-न चेति / अग्न्यादीनामधिकारमाशङ्क्याह-एतेनेति / अग्निर्वायुर्भूमिरित्यादिशब्दानामचेतनवाचित्वेनेत्यर्थः / सिद्धान्ती शङ्कते-स्यादेतदित्यादिना / ऽवज्रहस्तः पुरन्दरःऽइत्यादयो मन्त्राः / ऽसो ऽरोदीत्ऽइत्यादयोर्ऽथवादाः / ऽइष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः / ऽ ऽते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः / ऽइत्यादीतिहासपुराणानि / लोके ऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावाधनधिकारदोषो नास्तीत्यर्थः / विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता / फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् //
SK
ऽमानाभावादेतन्नास्तीति दूषयति-नेत्यादिना / न चात्रेति / विग्रहादावित्यर्थः / आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह-अर्थवादा इत्यादिना /
SK
व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसंबन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः / तस्मात् विग्रहाभावादित्यर्थः
SK
END Bस्Cओम्_१,३.८.३२
SK
START Bस्Cओम्_१,३.८.३३
SK
भावं तु बादरायणो ऽस्ति हि | BBस्_१,३.३३ |
SK
तुशब्दः पूर्वपक्षं व्यवर्तयति / बादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यन्ते / यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वासंभवो ऽधिकारस्य तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां संभवः / अर्थित्वसामर्थ्यप्रतिषेधाद्यपेक्षत्वादधिकारस्य / नच क्वचिदसंभव इत्येतावता यत्र संभवस्तत्राप्यधिकारो ऽपोद्येत / मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः संभवति / तत्र यो न्यायः सो ऽत्रापि भविष्यति / ब्रह्मविद्यां च प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्- ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्ऽ (बृ. १.४.१०) इति / ऽते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्ऽ इति / ऽइन्द्रो ह वै देवानामभिप्रव्राज विरोचनऽसुराणाम्ऽ (छा. ८.७.२) इत्यादि च / समार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि / यदप्युक्तं ज्योतिषि भावाच्चेति / अत्र ब्रूमः ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात् / अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् / तथाहि श्रूयते सुब्रह्मण्यार्थवादे- मेधातिथेर्मेषेति / ऽमेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहारऽ (षड्विंश. ब्रा. १.१) इति / स्मर्यते च- ऽआदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम हऽ इति / मृदादिष्वपि चेतना अधिष्ठितारो ऽभ्युपगम्यन्ते- मृदब्रवीदापोब्रुवन्नित्यादिदर्शनात् / ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते / चेतनास्त्वधिष्ठितारो देवतात्मनो मन्त्रार्थवादादिव्यवहारादित्युक्तम् / यदप्युक्तं मन्त्रार्थवादयोरन्यायार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति / अत्र ब्रूमः - प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणं, नान्यर्थत्वमनन्यार्थत्वं वा / तथाह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यते / अत्राह- विषम उपन्यासः / तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रतिपद्यते / अत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेर्ऽथवादेन पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् / नहि ऽन सुरां पिबेत्ऽ इति नञ्वति वाक्ये पदत्रयसंबन्धात्सुरापानप्रतिषेध एवैकोर्ऽथो ऽवगम्यते / न पुनः सुरां पिबेदिति पदद्वयसंबन्धात्सुरापानविधिरपीति / अत्रोच्यते- विषम उपन्यासः / युक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम् / विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयवृत्तान्तविषयं प्रतिपद्यानन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते / यथाहि- ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना संबन्धः, नैवं ऽवायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतिऽ इत्येषामर्थवादगतानां पदानाम् / नहि भवति वायुर्वा आलभेतेति क्षेपिष्ठा देवता वा आलभेतेत्यादि / वायुस्वभावसंकीर्तनेन त्ववान्तरमन्वयं प्रतिपद्यैवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति / तद्यत्र सो ऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति तत्र तदनुवादेनर्थवादः प्रवर्तते / यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन / यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यादाहोस्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इति प्रतीतिशरणैर्विद्यमानवाद आश्रयणीयो न गुणवादः / एतेन मन्त्रो व्याख्यातः / अपिच विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् / नहि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते / नच चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते / श्रावयति च- ऽयस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्ऽ (ऐ.ब्रा. ३.८.१) इति / नच शब्दमात्रमर्थस्वरूपं संभवति, शब्दार्थयोर्भेदात् / तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यतुं युक्तम् / इतिहासपुराणमपि व्याख्यातेन मार्गेण संभवन्मन्त्रार्थवादमूलत्वात्प्रभवति देवताविग्रहादि साधयितिम् / प्रत्यक्षादिमूलमपि संभवति / भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् / तथाच व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते / यस्तु ब्रूयादिदानीन्तनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति स जगद्वैचित्र्यं प्रतिषेधेत् / इदानीमिव च नान्यदपि सार्वभौमः क्षत्रियो ऽस्तीति ब्रूयात् / ततश्च राजसूयादिचोदनोपरुन्ध्यात् / इदानीमिव च कालान्तरे ऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत / ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं स्यात् / तस्माद्धर्मोत्कर्षवशाच्चिरन्तना देवादिभिः प्रत्यक्षं व्यवजह्नुरिति श्लिष्यते / अपिच स्मरन्ति- ऽस्वाध्यायादिष्टदेवतासंप्रयोगःऽ (यो.सू. २.४४) इत्यादि / योगो ऽप्यणिमाद्यैश्वर्यर्प्राप्तिफलः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम् / श्रुतिश्च योगमाहात्म्यं प्रख्यापयति- ऽपृथिव्यप्तेजो ऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते / न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्ऽऽ (श्वं. २.१२) इति / ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम् / तस्मात्समूलमितिहासपुराणम् / लोकप्रसिद्धिरपि न सति संभवे निरालम्बनाध्यवसातुं युक्ता / तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः / ततश्चार्थित्वादिसंभवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः / क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते
SK
FN: यतः सर्वेषां सर्वत्राधिकारो न संभवति ततो न चापोद्येतेत्यन्वयः / तद्ब्रह्म यो देवानां मध्ये प्रत्यक्त्वेनाबुध्यत / आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते / विध्युद्देशो विधिवाक्यं तदेकवाक्यतया / वृत्तान्तो भूतार्थः / श्लिष्यते युज्यते / मन्त्रजपाद्देवतासांनिध्यं तत्संभाषणं चेति सूत्रार्थः /
SK
सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति-तुशब्द इत्यादिना / ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात्, मध्वादिविद्यावदिति उक्तहेतुरप्रयोजक इत्याह-यद्यपीति / दर्शादिकं, न ब्राह्मणमधिकरोति, कर्मत्वात्, राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह-नचेति / यत्र यस्याधिकारः संभवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः / यतः सर्वेषां सर्वत्राधिकारो न संभवति ततो न चापोद्येतत्यन्वयः / तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्यक्त्वेनाबुध्यत स तद्ब्रह्माभवदित्यर्थः / ते ह देवा ऊचुरन्योन्यं, तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः / किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह-स्मार्तमिति / यथा बालानां गोलकेषु चक्षुरादिपदप्रयोगे ऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्यादिशब्दप्रयोगे ऽपि विग्रहवद्देवता स्वीकार्या इत्याह-ज्योतिरादीति / तथा चेतनत्वेन व्यवहारादित्यर्थः / एकस्य जडचेतनोभयरूपत्वं कथं, तत्राह-अस्तिहीति / तथाहि विग्रहवत्तया देवव्यवहारःश्रूयते / सुब्रह्मण्य उद्गातृगणस्थ ऋत्विक् तत्संबन्धी योर्ऽथवादः ऽइन्द्र, अगच्छऽइत्यादिः / तत्र मेधातिथेर्मेष, इतीन्द्रसंबोधनं श्रुतं, तद्व्याचष्टे-मेवेति / मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इतीन्द्रसंबोधनमित्यर्थः / यदुक्तमादित्यादयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जडजडांशद्वयसत्त्वादित्याह-मृदिति / आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह-ज्योतिरादेस्त्विति / मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणं, अन्यपरत्वात्, विषं भुङ्क्ष्वेति वाक्यवदित्याह-यदपीति / अन्यपरादपि वाक्याद्बाधाभावे स्वार्थो ग्राह्य इत्याह-अत्र ब्रूम इति / तात्पर्यशून्ये ऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति-तथाहीति / तृणादौ प्रत्ययो ऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते-अत्राहेति /
SK
विध्युद्देशो विधिवाक्यं, तदेकवाक्यतया प्रशस्तो विधिरित्येवार्थवादेषु प्रत्ययः / वृत्तान्तो भूतार्थः / विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः / नन्ववान्तरवाक्येन विग्रहादिप्रत्ययो ऽस्त्वित्यत आह-नहीति / सुरापानप्रत्ययो ऽपि स्यादिति भावः / पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह-अत्रोच्यत इति / नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदैकवाक्यमेकमेवार्थानुभवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषेधानुपपत्तेर्वाक्यार्थानुभवं प्रत्यद्वारत्वात् / अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः / नन्वर्थवादस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयो ऽस्तु तत्राह-यथा हीति / साक्षादन्वयायोगं दर्शयति-न हीति /
SK
अर्थवादात्सर्वत्र स्वार्थग्रहणमाशङ्क्यार्थवादान्विभजते-तद्यत्रेति / तत्तत्रार्थवादेषु यत्र ऽअग्निर्हिमस्य भेषजम्ऽइत्यादावित्यर्थः / ऽआदित्यो यूपःऽइत्यभेदो बाधित इति तेजस्वित्वादिगुणवादः / यत्र ऽवज्रहस्तः पुरन्दरःऽइत्यादौ मानान्तरसंवादविसंवादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः / इति विमृश्येत्यध्याहारः / विग्रहार्तवादः स्वार्थे ऽपि तात्पर्यवान्ऽअन्यपरत्वे सत्यज्ञाताबाधितार्थकशब्दत्वात्, प्रयाजादिवाक्यवदिति न्यायं मन्त्रेष्वतिदिशति-एतेनेति / वेदान्तानुवादगुणवादानां निरासाय हेतौ पदानि / न चोभ्यपरत्वे वाक्यभेदः, अवान्तरार्थस्य महावाक्यार्थत्वादिति भावः / विध्यनुपपत्त्यापि स्वर्गवद्देवताविग्रहो ऽङ्गीकार्य इत्याह-अपिचेति / ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु ऽयन्न दुःखेन संभिन्नम्ऽइत्यर्थवादसिद्धः स्वर्गो विधिप्रमाणकः / विग्रहं विना विधेः कानुपपत्तिः, तामाह-न हीति / उद्दिश्य त्यागानुपपत्त्या चेतस्यारोहो ऽङ्गीकार्य इत्यत्र श्रुतिमप्याह-यस्या इति / अतश्चेतस्यारोहार्थं विग्रह एष्टव्यः / किञ्च कर्मप्रकरणपाठाद्विग्रहप्रमितिः प्रयाजवत्कर्माङ्गत्वेनाङ्गीकार्या, तां विना कर्मापूर्वासिद्धेः / किञ्च सुप्रसन्नविग्रहवद्देवतां त्यक्त्वा शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह-नच शब्देति / न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यं, निर्व्यक्त्याकृत्ययोगात् / अतः शब्दस्यार्थाकाङ्क्षायां मन्त्रादिप्रमितविग्रहो ऽङ्गीकार्य इत्याह-तत्रेति / एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मानमित्याह-इतिहासेति / प्रमाणत्वेन संभवदित्यर्थः / व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह-प्रत्यक्षेति / व्यासादयो देवादिप्रत्यक्षशून्याः, प्राणित्वात्, अस्मद्वदित्यनुमानमतिप्रसङ्गेन दूषयति-यस्त्वित्यादिना / सर्वं घटाभिन्नं, वस्तुत्वात्, घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् /
SK
तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णाश्रमाद्यव्यवस्थां च ब्रूयात्, निरङ्कुशबुद्धित्वात् / तथाच राजसूयादिशास्त्रस्य कृतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः / योगसूत्रार्थादपि देवादिप्रत्यक्षसिद्धिरित्याह-अपिचेति / मन्त्रजपाद्देवतासांनिध्यं तत्संभाषणं चेति सूत्रार्थः / योगमहात्म्यस्य श्रुतिस्मृतिसिद्धत्वाद्योगिनामस्ति देवादिप्रत्यक्षमित्याह-योग इति / पादतलादाजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चब्रह्मरन्ध्रं पृथिव्यादिपञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः / चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह-लोकेति / अधिकरणार्थमुपसंहरति-तस्मादिति / चिन्तायाः फलमाह-क्रमेति /
SK
एकमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्यप्राप्तिद्वारा क्रममुक्तिफलान्युपासनानि युज्यन्ते / देवानामनधिकारे ज्ञानाभावात्क्रममुक्त्यर्थिनामुपासनेषु प्रवृत्तिर्न स्यात्, अतो ऽधिकारनिर्णयात्प्रवृत्तिसिद्धिरिति भावः
SK
END Bस्Cओम्_१,३.८.३३
SK
START Bस्Cओम्_१,३.९.३४
SK
अपशूद्राधिकरणम् / सू. ३४-३८
SK
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि | BBस्_१,३.३४ |
SK
यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तस्तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यते / तत्र शूद्रस्याप्यधिकारः स्यादस्ति तावत्प्राप्तम् / अर्थित्वसामर्थ्ययोः संभवात् / ऽतस्माच्छूद्रोयज्ञे ऽनवकॢप्तःऽ (तै.सं. ८.१.१.६) इतिवत् ऽशूद्रो विद्यायामनवकॢप्तःऽ इति च निषेधाश्रवणात् / यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वं न तद्विद्यास्वविकारस्यापवादकं लिङ्गम् / नह्याहवनीयादिरहितेन विद्या वेदितुं न शक्यते / भवति च लिङ्गं शूद्राधिकारस्योपोद्धलकम् / संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशति- ऽअह हारेत्वा शूद्र तवैव सह गोभिरस्तुऽ (छां ४.२.३) इति / विदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसंपन्नाः स्मर्यन्ते / तस्मादधिक्रियते शूद्रो विद्यास्विति /
SK
एवं प्राप्ते ब्रूमः - न शूद्रस्याधिकारः, वेदाध्ययनाभावात् / अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते / नच शूद्रस्य वेदाध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्य / उपनयनस्य च वर्णत्रयविषयत्वात् / यत्त्वर्थित्वं न तदसति सामर्थ्ये ऽधिकारकारणं भवति / सामर्थ्यमपि न लोकिकं केवलमधिकारकारणं भवति / शास्त्रीयेर्ऽथे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात् / शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात् / यच्चेदं ऽशूद्रो यज्ञे ऽनवकॢप्तःऽ इति तन्न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति, न्यायस्य साधारणत्वात् / यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, न तल्लिङ्गं न्यायाभावात् / न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति / नचात्र न्यायो ऽस्ति / कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात्, तद्विषयत्वात्, न सर्वासु विद्यासु / अर्थवादस्थात्तु न क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहते / शक्यते चायं शूद्रशब्दो ऽधिकृतवषयो योजयितुम् / कथमित्युच्यते- ऽकम्बर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थऽऽ (छा. ४.१.३) इत्यस्माद्धंसवाक्यादात्मनो ऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे, तामृषीरैक्वः शूद्रशब्देनानेन सूचयंबभूवात्मनः परोक्षज्ञताख्यापनायेति गम्यते / जातिशूद्रस्यानधिकारात् /
SK
कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति /
SK
उच्यते- तदाद्रवणात् / शुचमभिदुद्राव, शुचा वाभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावेति शूद्रः / अवयवार्थसंभवाद्रूढार्थस्य चासंभवात् / दृश्यते चायमर्थो ऽस्यामाख्यायिकायाम्
SK
FN: अनवकॢप्तो ऽसमर्थः तस्मादनग्नित्वात् / अहेति निपातः खेदार्थः / हारेण निष्केण इत्वागन्ता रथो हारेत्वा सच गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्ह्यस्थ्यानुपयोगिनेति भावः / यज्ञेत्युपलक्षणं विद्यायामनवकॢप्त इत्यस्य / ऽनिषादस्थपतिं याजयेत्ऽ इति निषादस्थपतिश्चोद्यते, शूद्रः संवर्गविद्यायाम् / कं उ अरे इति पदच्छेदः / उ शब्दोप्यर्थः / युग्वा गन्त्री शकटी तथा सह स्थितं रैक्वमिवैतद्वचनमात्थ /
SK
शुगस्य-सूच्यते हि / पूर्वेणास्य दृष्टान्तसंगतिमाह-यथेति /
SK
पूर्वत्र देवादीनामधिकारसिध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः / अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्यधिकरणद्वयस्य प्रासङ्गिकस्यास्मिन्समन्वयाध्याये ऽन्तर्भाव इति मन्तव्यम् / पूर्वपक्षे शूद्रस्यापि द्विजवद्वेदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् //
SK
अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकीरोति न वेति संभवासंभवाभ्यां संदेहे पूर्वपक्षमाह-तत्र शूद्रस्यापीत्यादिना / तस्मादनग्नित्वादनवल्कृप्तो ऽसमर्थः / विद्यार्थिनि शूद्रशब्दप्रयोगाल्लिङ्गादपि शूद्रस्याधिकार इत्याह-भवतिचेति / जानश्रुतिः किल षट् शतानि गवां रथं च रैकाय गुरवे निवेद्य मां शिक्षयेत्युवाच / ततो रैको विधुरः कन्यार्थी सन्निदमुवाच / अहेति निपातः खेदार्थः / हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः / अर्थित्वादिसंभवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्यायोपेताल्लिङ्गादित्याह-तस्मादिति / सूत्राद्बहिरेव सिद्धान्तयति-न शूद्रस्याधिकार इत्यादिना / आपाततो विदितो वेदार्थो येन तस्येत्यर्थः / अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यं तदभावाच्छूद्रस्यार्थित्वादिसंभवन्यायासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः / यद्वाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदार्थानुष्ठानाधिकारे ऽध्ययनविधिवैयर्थ्यापातात् / अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः / अधीतवेदार्थज्ञानवत्त्वरूपस्याध्ययनविधिलभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात्, यज्ञपदं वेदार्थापलक्षणार्थमित्याह-न्यायस्य साधारणत्वादिति / तस्माच्छूद्र इति तच्छब्दपरामृष्टन्यायस्य यज्ञब्रह्मविद्ययोस्तुल्यत्वादित्यर्थः / पूर्वोक्तं लिङ्गं दूषयति-यदिति / असामर्थ्यन्यायेनार्थित्वादिसंभवन्यायस्य निरस्तत्वादित्यर्थः / ननु ऽनिषादस्थपतिं याजयेत्ऽइत्यत्राध्ययनाभावो ऽपि निषादशब्दान्निषादस्येष्टाविव शूद्रशब्दाच्छूद्रस्य विद्यायामधिकारो ऽस्त्वित्याशङ्क्य संवर्गविद्यायामधिकारमङ्गीकरोति-काममिति / तद्विषयत्वात्तत्र श्रुतत्वादित्यर्थः / वस्तुतस्तु विधिवाक्यस्थत्वान्निषादशब्दो ऽप्यधिकारिसमर्पकः, शूद्रशब्दस्तु विद्याविधिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेनान्यपरशब्दस्य स्वार्थबोधित्वासंभवादिति मत्वाङ्गीकारं त्यजति-अर्थवादेति / तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोर्ऽथ इत्याशङ्क्य सूत्रेणार्थमाह-शक्यते चेत्यादिना / जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्नदानादिगुणगणतोषिता ऋषयो ऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्योपर्याजग्मुः, तेषु पाश्चात्यो हंसो ऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितं, तत्त्वां धक्ष्यति न गच्छेति / तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम्, अरे, सयुग्वानं युग्व गन्त्री शकटी तया सह स्थितं रैक्वमिवैतद्वचनमात्थ / रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः / अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैकं ज्ञात्वा विद्यावान्भविष्यतीति हंसानामभिप्रायः / कं उ अरे इति पदच्छेदः / उशब्दो ऽप्यर्थः / तेषां हंसानामनादरवाक्यश्रवणादस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः / श्रुतयौगिकार्थलाभे सति अनन्वितरूढ्यर्थस्त्याज्य इति न्यायद्योतनार्थो हिशब्दः / तदाद्रवणात् तया शुचा आद्रवणात् / शूद्रः शोकं प्राप्तवान् / शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः / शुचा वा करणेन रैक्वं गतवानित्यर्थः
SK
END Bस्Cओम्_१,३.९.३४
SK
START Bस्Cओम्_१,३.९.३५
SK
क्षत्रियत्वगतेश् चोत्तरत्र चैत्ररथेन लिङ्गात् | BBस्_१,३.३५ |
SK
इतश्च न जातिशूद्रो जानश्रुतिः / यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराद्गम्यते / उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः संकीर्त्यते- ऽ अथ ह शौनकं च कपोयमभिप्रतारणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी विभिक्षेऽ (छा. ४.३.५) इति / चैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम् / कापेययोगो हि चित्ररथस्यावगतः ऽएतेन वै चित्ररथं कापेया अयाजयन्ऽ (ताण्ड.ब्रा. २०.१२.५) इति / समानान्वयानां च प्रायेण समानान्वया याजका भवन्ति / ऽतस्माच्चैत्ररथिर्नामकः क्षत्रपतिरजायतऽ इति च क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम् / तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्ययायां संकीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति / समानानामेव हि प्रायेण समभिव्याहारा भवन्ति / क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः / अतो न शूद्रस्याधिकारः
SK
FN: संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थो ऽथाब्दः / ह शब्दो वृत्तान्तावद्योती / शुनकपुत्रं कपिगोत्रं पुरोहितमभिप्रतारिनामकम् /
SK
क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणम् /
SK
शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह-क्षत्रियत्वेति / संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते /
SK
शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः / नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह-चैत्ररथित्वं चेति / एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः / अभिप्रतारिणो ऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते / राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः / नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वं, तावता कथं क्षत्रियत्वं, तत्राह-तस्मादिति /
SK
चित्ररथादित्यर्थः / क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणं अन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम्
SK
END Bस्Cओम्_१,३.९.३५
SK
START Bस्Cओम्_१,३.९.३६
SK
संस्कारपरामर्शात् तदभावाभिलापाच् च | BBस्_१,३.३६ |
SK
इतश्च न शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते- ऽतं होपनिन्येऽ (श.ब्रा. ११.५.३.१३) / ऽ अधीहि भगव इति होपससादऽ (छा. ७.१.१) ऽ ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाःऽ (प्र. १.१) इति च / ऽ तान्हानुपनीयैवऽ (छा. ५.११.७) इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवति / शूद्रस्य संस्काराभावो ऽभिलप्यते, ऽशूद्रश्चतुर्थो वर्ण एकजातिःऽ (मनु. १०.४)
SK
इत्येकजातित्वस्मरणात् / ऽन शूद्रो पातकं किञ्चिन्न च संस्कारमर्हतिऽ (मनु. १०.१२.६) इत्यादिभिश्च
SK
FN: अधीहि उपदिशेति यावत् /
SK
ब्रह्मपरा वेदपारगाः / परं निर्गुणं ब्रह्म / उपासन्ना उपागताः / अनुपनीयैवेति हीनवर्णेनोत्तमवर्णा अनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः / एकजातिरनुपनीतः /
SK
अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् / तत्र लिङ्गान्तरमाह-संस्कारेति / उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् / इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परामर्शाच्छूद्रस्य तदभावान्न विद्याधिकारः इत्युच्यते / भाष्ये आदिपदेनाध्ययनगुरुशुश्रूषादयो गृह्यन्ते / तं शिष्यमाचार्य उपनीतवानित्यर्थः / नारदो ऽपि विद्यार्थी मन्त्रमुच्चारयन्सनत्कुमारमुपगत इत्याह-अधीति / उपदिशेति यावत् / ब्रह्मपरा वेदपारगाः सगुणब्रह्मनिष्ठाः परं निर्गुणं ब्रह्मान्वेषमाणा एष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षड् ऋषयस्तमुपगता इत्यर्थः / ननु वैश्वानरविद्यायामृषीन्राजानुपनीयैव विद्यामुवाचेति श्रुतेरनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह-तान्हेति /
SK
ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते / हीनवर्णेनोत्तमवर्णानुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः / एकजातिरनुपनीतः / पातकमभक्ष्यभक्षणकृतम्
SK
END Bस्Cओम्_१,३.९.३६
SK
START Bस्Cओम्_१,३.९.३७
SK
तदभावनिर्धारणे च प्रवृत्तेः | BBस्_१,३.३७ |
SK
इतश्च न शूद्रस्याधिकारः / यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते ऽनैतद्ब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाःऽ (छा. ४.४.५) इति श्रुतिलिङ्गात्
SK
FN: नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु तथोक्तम् उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालो ऽस्मीति ब्रूहीत्यनेन सत्यवचनेन /
SK
सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत्, किङ्गोत्रो ऽहमिति / तं मातोवाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति / ततः स जाबालो गौतममागत्य तेन किङ्गोत्रो ऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितं, उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालो ऽस्मीति ब्रूहीति / अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः / अब्राह्मण एतत्सत्यं विविच्य वक्तुं, नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अतस्त्वामुपनेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह-तदभावेति
SK
END Bस्Cओम्_१,३.९.३७
SK
START Bस्Cओम्_१,३.९.३८
SK
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश् च | BBस्_१,३.३८ |
SK
इतश्च न शूद्रस्याधिकारः / यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवति / वेदश्रवणप्रतिषेधो वेदाध्ययनप्रतिषेधस्तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते / श्रवणप्रतिषेधस्तावत् ऽअथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्ऽ इति / ऽपद्यु ह वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्ऽ इति च / अत एवाध्ययनप्रतिषेधः / यस्य हि समीपे ऽपि नाध्येतव्यं भवति स कथमश्रुतमधीयीत / भवति च वेदोच्चारणे जिह्वाच्छेदो धारणे शरीरभेद इति / अत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति ऽन शूद्रस्य मतिं दद्यात्ऽ इति, ऽद्विजातीनामध्ययनमिज्या दानम्ऽ इति च / येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिस्तेषां न शक्यते फलप्राप्तिः प्रतिषेद्धुं, ज्ञानस्यैकान्तिकफलत्वात् / ऽश्रावयेच्चतुरो वर्णान्ऽ इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात् / वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम्
SK
FN: त्रपुजतुभ्यां संतापद्रुताभ्यां सीसलाक्षाभ्याम् / पद्यु पादयुक्तं / संचारसमर्थमिति यावत् / मतिर्वेदार्थज्ञानम् /
SK
स्मृत्या श्रवणादिनिषेधाच्च नाधिकार इत्याह-श्रवणेति / अस्य शूद्रस्य द्विजैः पठ्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्रद्वयपूरणं प्रायश्चित्तं कार्यमित्यर्थः / पद्यु पादयुक्तं संचरिष्णुरूपमिति यावत् / भवति च / स्मृतिरिति शेषः / मतिर्वेदार्थज्ञानम् / दानं नित्यं निषिध्यते शूद्रस्य / नैमित्तिकं तु दानमस्त्येव / यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति, तत्राह-येषामिति /
SK
सिद्धानां सिद्धेर्दुरपह्नवत्वे ऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह-श्रावयेदिति
SK
END Bस्Cओम्_१,३.९.३८
SK
START Bस्Cओम्_१,३.१०.३९
SK
१० कम्पनाधिकरणम् / सू. ३९
SK
कम्पनात् | BBस्_१,३.३९ |
SK
अवसितः प्रासङ्गिको ऽधिकारविचारः / प्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामः / ऽयदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् / महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्तिऽ (का. २.६.२) इति / एतद्वाक्यं ऽएजृ कम्पनेऽ इति धात्वर्थानुगमाल्लक्षितम् / अस्मिन्वाक्ये सर्वमिदं जगत्प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्रशब्दितमुद्यतं, तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयते / तत्र को ऽसौ प्राणः किं तद्भयानकं वज्रमित्यप्रतिपत्तेर्विचारे क्रियमाणे प्राप्तं तावत्प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इति / प्रसिद्धेरेव चाशनिर्वज्रं स्यात् / वायोश्चेदं माहात्म्यं संकीर्त्यते / कथम् / सर्वमिदं जगत्पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठायैजति / वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते / वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्रुवृष्ट्यशनयो विवर्तन्त इत्याचक्षते / वायुविज्ञानादेव चेदममृतत्वम् / तथाहि श्रुत्यन्तरम्- ऽवायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेदऽ इति /
SK
तस्माद्वायुरयमिह प्रतिपत्तव्य इति / एवं प्राप्ते ब्रूमः- ब्रह्मैवेदमिह प्रतिपत्तव्यम् / कुतः / पूर्वोत्तरालोचनात् / पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैवनिर्दिश्यमानमुपलभामहे / इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि / पूर्वत्र तावत् ऽतदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते / तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनऽ (का. २.६.१) इति ब्रह्म निर्दिष्टं, तदेवेहापि संनिधानात् जगत्सर्वं प्राण एजतीति च लोकाश्रयवत्त्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते / प्राणशब्दो ऽप्ययं प्रयुक्तः, ऽप्राणस्य प्राणम्ऽ (बृ. ४.४.१८) इति दर्शनात् / एजयितृत्वमपीदं परमात्मन एवोपपद्यते न वायुमात्रस्य / तथाचोक्तम्- ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन / इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (का. २.५.५) इति / उत्तरत्रापि ऽभयादस्याग्निस्तपति भयात्तपति सूर्यः / भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमःऽ (का. २.६.३) इति ब्रह्मैव निर्देक्ष्यते न वायुः / सवायुकस्य जगतो भयहेतुत्वाभिधानात् / तदेवेहापि संनिधानान्महद्भयं, वज्रमुद्यतमिति च भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते / वज्रशब्दो ऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः / यथाहि वज्रमुद्यतं ममैव शिरसि निपतेद्यद्यहमस्य शासनं न कुर्यामित्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तत एवमिदमग्निवायुसूर्यादिकं जगदस्मादेव ब्रह्मणो बिभ्यन्नियमेन स्वव्यापारे प्रवर्तत इति भयानकं वज्रोपमितं ब्रह्म / तथाच ब्रह्मविषयं श्रुत्यन्तरम्- ऽभीषास्माद्वातः पवते / भीषोदेति सूर्यः / भीषास्मादग्निश्चेन्द्रश्च / मृत्युर्धावति पञ्चमःऽ (तै. ८.१) इति / अमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते / ब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः / ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे. ६.१५) इति मन्त्रवर्णात् /
SK
यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितं तदापेक्षिकम् / तत्रैव प्रकणान्तरकरणेन परमात्मानमभिधाय ऽअन्तो ऽन्यदार्तम्ऽ (बृ. ३.४) इति वाय्वादेरार्तत्वाभिधानात् / प्रकरणादप्यत्र परमात्मनिश्चयः / अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मत्कृताकृतात् / अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद (का. १.२.१४) इति परमात्मनः पृष्टत्वात्
SK
FN: भीषा भीत्या / अस्माद्ब्रह्मणो निमित्तादिति यावत् / पञ्चानां ग्रहणं ब्रह्मादिस्तम्बान्तचराचरोपलक्षणार्थम् / ऽअपपुनर्मृत्युं जयतिऽ इति श्रुत्या ह्यपमृत्योर्विजय उक्तो न तु परममृत्युविजय इत्यापेक्षिकत्वम् /
SK
कम्पनात् / अस्यापि प्रासङ्गिकत्वमाशङ्क्यमाह-अवसित इति / समाप्त इत्यर्थः / काठकं पठति-यदिदमिति / सर्वं जगत्प्राणान्निःसृतं उत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म विभेत्यस्मादिति भयम् / तस्मिन् भयहेतुत्वे दृष्टान्तमाह-वज्रमिति / यथोद्यतं वज्रं भयं तथेत्यर्थः / य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह-य इति / नन्वस्मिन्सूत्रे कथमिदं वाक्यमुदाहृतमित्यत आह-एतदिति / एजत्यर्थस्य कम्पनस्य सूत्रितत्वादेजतिपदयुक्तं वाक्यमुदाहृतमित्यर्थः / प्रासङ्गिकाधिकारचिन्तयास्य संगतिर्नापेक्षितेति ऽशब्दादेव प्रमितःऽइत्यनेनोच्यते / तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानार्थ इत्युक्तं, न तथेह प्राणानुवाद ऐक्यज्ञानार्थः संभवति, प्राणस्य स्वरूपेण कल्पितस्यैक्यायोगात् / अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति-प्रसिद्धेः पञ्चवृत्तिरिति / ननु ऽअत एव प्राणःऽइत्यादौ ब्रह्मणि लिङ्गात्प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह-वायोश्चेति / प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् / अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः / वज्रलिङ्गच्च वायुरित्याह-वाय्विति / व्यष्टिर्विशेषः / समष्टिः सामान्यम् / सूद्बद्वहिरेव सिद्धान्तं प्रतिजानीते-ब्रह्मैवेति / पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङ्गं वाक्यभेदकप्राणश्रुतेर्बाधकमित्याह-पूर्वत्रेत्यादिना /
SK
शुक्रं स्वप्रकाशम् / तदु नात्येति ब्रह्मानाश्रितः को ऽपि लोको नास्त्येवेत्युकारार्थः / सौत्रं लिङ्गं व्याचष्टे-एजयितृत्वमिति / सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः परमात्मैवेत्यर्थः / ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह-वज्रशब्द इति / बृहदारण्यके ऽवायुरेव व्यष्टिःऽइत्यत्र ऽअपपुनर्मृत्युम्ऽइत्यपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वम्, तत्रैव वायूपास्तिप्रकरणं समाप्य ऽअथ हैनमुषस्तः पप्रच्छऽइति ज्ञेयात्मानमुक्त्वा वाय्वादेर्नाशित्वोक्तेरित्याह-यत्तु वाय्वित्यादिना /
SK
तस्मात्काठकवाक्यं ज्ञेये समन्वितविति सिद्धम्
SK
END Bस्Cओम्_१,३.१०.३९
SK
START Bस्Cओम्_१,३.११.४०
SK
११ ज्योतिरधिकरणम् / सू. ४०
SK
ज्योतिर् दर्शनात् | BBस्_१,३.४० |
SK
ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ (छा. ८.१२.३) इति श्रूयते / तत्र संशय्यते, किं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः किंवा परं ब्रह्मेति / किं तावत्प्राप्तम् / प्रसिद्धमेव तेजो ज्योतिःशब्दमिति / कुतः / तत्र ज्योतिःशब्दस्य रूढत्वात् / ऽज्योतिःश्चरणाभिधानात्ऽ (ब्र.सू / १.१.२४) इत्यत्र हि प्रकरणाज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते / नचेह तद्वत्किञ्चित्स्वार्थपरित्यागे कारणं दृश्यते / तथाच नाडीखण्डे- ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा. ८.६.५) इति मुमुक्षोरादित्यप्राप्तिरभिहिता / तस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति / एवं प्राप्ते ब्रूमः - परमेव ब्रह्म ज्योतिःशब्दम् / कस्मात् / दर्शनात् / तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते, ऽ य आत्मापहतपाप्माऽ (छा. ८.७.१) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात् / ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. ८.९.३) इति चानुसंधानात् / ऽअशरीरं वावसन्तं न प्रियाप्रिये स्पृशतःऽ(छा. ८.१२.१) इति चाशरीरतायै ज्योतिःसंपत्तेरस्याभिधानात् / ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः ऽपरं ज्योतिःऽ ऽस उत्तमः पुरुषःऽ (छा. ८.१२.३) इति च विशेषणात् / यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति / नासावात्यन्तिको मोक्षो गत्युत्क्रान्तिसंबन्धात् / नह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः
SK
FN: ऽअथ या एता हृदयस्य नाड्यःऽ इत्यादि नाडीखण्डः / तत्रादित्यग्रहानुरोधेन मुमुक्षोस्तत्प्राप्तिरभिहितेति संबन्धः /
SK
ज्योतिर्दर्शनात् / छान्दोग्ये प्रजापतिविद्यावाक्यमाह-एष इति / परञ्ज्योतिः श्रुतिभ्यां संशयमाह-तत्रेति / घटादिविषयावरकतमोनाशकं सौरमित्यर्थः पूर्वत्र ब्रह्मप्रकरणस्यानुग्राहकः सर्वशब्दसंकोचाद्ययोगो ऽस्तीति प्राणश्रुतिर्ब्रह्मणि नीता / न तथात्र ऽय आत्मापहतपाप्माऽइति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पूर्वपक्षमाह-प्रसिद्धमेवेत्यादिना / पूर्वपक्षे सूर्योपास्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलम् / ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्रह्मणि वृत्तेरुक्तत्वात्कथं पूर्वपक्ष इत्यत आह-ज्योतिरिति / तत्र गायत्रीवाक्ये प्रकृतब्रह्मपरामर्शकयच्छब्दसामानाधिकरण्याज्ज्योतिःशब्दस्य स्वार्थत्यागः कृतः, तथात्र स्वार्थत्यागे हेत्वदर्शनात्पूर्वपक्ष इत्यर्थः / ज्योतिःश्रुतेरनुग्राहकत्वेनार्चिरादिमार्गस्थत्वं लिङ्गमाह-तथाचेति / ऽता वा एता हृदयस्य नाड्यःऽइति कण्डिकया नाडीनां रश्मीनां च मिथः संश्लेषमुक्त्वा अथ संज्ञालोपानन्तरं यत्र काले एतन्मरणं यथा स्यात्तथोत्क्रामति अथ तदा एतैर्नाडीसंश्लिष्टरश्मिभिरूर्ध्वः सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्वारभूतं गचछतीत्यभिहितं, तथैवात्रापि शरीरात्समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसंपद्य तद्द्वारा ब्रह्मलोकं गत्वा स्वस्वरूपेणाभिनिष्पद्यत इति वक्तव्यम् / समुत्थायोपसंपद्येति क्त्वाश्रुतिभ्यां ज्योतिषो ऽर्चिरादिमार्गस्थत्वभानादित्यर्थः / अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति-एवमिति / व्याख्येयत्वेनोपक्रान्त आत्मैवात्र ज्योतिःशब्देन व्याख्येन इति ज्योतिर्वाक्येनैकवाक्यताप्रयोजकप्रकरणानुगृहीतोत्तमरपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः / अशरीरत्वफललिङ्गाच्च ब्रह्मैव ज्योतिर्न सूर्य इत्याह-अशरीरमिति / नच सूर्यप्राप्त्या क्रमेणाशरीरत्वं स्यादिति वाच्यं, परत्वेन विशेषितस्य ज्योतिष एव स उत्तम इति परामर्शेनाशरीरत्वनिश्चयादित्याह-परमिति / पूर्वोक्तलिङ्गं दूषयति-यत्त्विति /
SK
नाडीखण्डे दहरोपासकस्य या सूर्यप्राप्तिरुक्ता स न मोक्ष इति युक्ता सूर्योक्तिः, अत्र तु प्रजापतिवाक्ये निर्गुणविद्यायामर्चिरादिगतिस्थसूर्यस्यानन्वयादनर्थकत्वात् श्रुतिव्यत्यासेन स्वरूपं साक्षात्कृत्य परं ज्योतिस्तदेवोपसंपद्यत इति व्याख्येयमिति भावः
SK
END Bस्Cओम्_१,३.११.४०
SK
START Bस्Cओम्_१,३.१२.४१
SK
१२ अर्थान्तरत्वव्यपदेशाधिकरणम् / सू. ४१
SK
आकाशो ऽर्थान्तरत्वादिव्यपदेशात् | BBस्_१,३.४१ |
SK
ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्माऽ (छा. ८.१४.१) इति श्रूयते / तत्किमाकाशसब्दं परं ब्रह्म किंवा प्रसिद्धमेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः / आकाशशब्दस्य तस्मिन्रूढत्वात्, नामरूपनिर्वहणस्य चावकाशादानद्वारेण तस्मिन्योजयितुं शक्यत्वात्, स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादिति / एवं प्राप्त इदमुच्यते- परमेव ब्रह्मेहाकाशशब्दं भवितुमर्हति / कस्मात् / अर्थान्तरत्वादिव्यपदेशात् / ऽते यदन्तरा तद्ब्रह्मऽ इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति / नच ब्रह्मणो ऽन्यन्नामरूपाभ्यामर्थान्तरं संभवतिऽ सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् / नामरूपयोरपि निर्वहणं निरङ् कुशं न ब्रह्मणो ऽन्यत्र संभवति / ऽअनेन जीवेनात्मनानुप्रविश्यनामरूपे व्याकरवाणिऽ (छा. ६.३.२) इत्यादिब्रह्मकर्तृत्वश्रवणात् /
SK
ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढुत्वमस्ति /
SK
बाढमस्ति / अभेदस्त्विह विवक्षितः / नामरूपनिर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति / ऽतद्ब्रह्म तदमृतं स आत्माऽ (छा. ८.१४) इति च ब्रह्मवादस्य लिङ्गानि / ऽआकाशस्तल्लिङ्गात्ऽ (ब्र. १.१.२२) इत्यस्यैवायं प्रपञ्चः
SK
FN: नामरूपे शब्दाथा तदन्तःपातिनस्तद्भिन्नत्वं तत्कर्तृत्वं चायुक्तमित्यर्थः /
SK
आकाशो व्यपदेशात् / छान्दोग्यमुदाहरतिआकाश इति / यथोपक्रमबलाज्ज्योतिःश्रुतिबाधस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दबाध इति दृष्टान्तेन पूर्वपक्षयति-भूतेति / श्रुतैर्गुणैराकाशोपास्तिर्निर्गुणब्रह्मज्ञानं चेत्युभयत्र फलम् / ऽआकाशस्तल्लिङ्गात्ऽ
SK
इत्यनेन पौनरुक्त्यमाशङ्क्य तद्वदत्र स्पष्टलिङ्गाश्रवणादिति परिहरति-स्रष्टृत्वादेश्चेति / वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्च वाक्यशेषगताभ्यां ब्रह्मात्मश्रुतिभ्यामनेकलिङ्गोपेताभ्यां बाधो युक्तः / यत्र बहुप्रमाणसंवादस्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति-परमेवेत्यादिना / नामरूपे शब्दर्थौ तदन्तःपातिनस्तद्भिन्नत्वे तत्कर्तृत्वं चायुक्तमित्यर्थः / नामादिकर्तृत्वं न ब्रह्मलिङ्गं, जीवस्थत्वादिति शङ्कते-नन्विति / ऽअनेन जीवेनऽइत्यत्र जीवस्य ब्रह्मभेदेन तत्कर्तृत्वमुच्यते साक्षादयोगादिति परिहरति-बाढमिति / यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह-नामेति / तर्हि पुनरुक्तिः, तत्राह-आकाशेति /
SK
तस्यैव साधको ऽयं विचारः / अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः
SK
END Bस्Cओम्_१,३.१२.४१
SK
START Bस्Cओम्_१,३.१३.४२
SK
१३ सुषुप्त्युत्क्रान्त्यधिकरणम् / सू. ४२-४३
SK
सुषुप्त्युत्क्रान्त्योर् भेदेन | BBस्_१,३.४२ |
SK
व्यपदेशादित्यनुवर्तते / बृहदारण्यके षष्टे प्रपाठके ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. ४.३.७) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः / तत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यमुतासंसारिस्वरूपप्रतिपादनपरमिति संशयः / किं तावत्प्राप्तम् / संसारिस्वरूपमात्रविषयमेवेति / कुतः / उपक्रमोपसंहाराभ्याम् / उपक्रमे ऽयो ऽयं विज्ञानमयः प्राणेषुऽ इति शारीरलिङ्गात् / उपसंहारे च स वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. ४.४.२२) इति तदपरित्यागात्, मध्ये ऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादिति / एवं प्राप्ते ब्रूमः - परमेश्वरोपदेशपरमेवेदं वाक्यं न शारीरमात्रान्वाख्यानपरम् / कस्मात् / सुषुप्तावुत्क्रान्तौ च शरीराद्भेदेन परमेश्वरस्य व्यपदेशात् / सुषुप्तौ तावत् ऽअयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ (बृ. ४.३.२१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति / तत्र पुरुषः शारीरः स्यात्तस्य वेदितृत्वात् / बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसंभवात् / प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् / तथोत्क्रान्तावपि ऽअयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्यातिऽ (बृ. ४.३.३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति / तत्रापि शारीरो जीवः स्याच्छरीरस्वामित्वात् / प्राज्ञस्तु स एव परमेश्वरः / तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षत इति गम्यते / यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात्तत्परत्वमस्य वाक्यस्येति / अत्र ब्रूमः - उपक्रमेतावत् ऽयो ऽयं विज्ञानमयः प्राणेषु इति न संसारिस्वरूपं विवक्षितं किं तर्ह्यनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति / यतो ऽध्यायतीव लेलायतीवऽ इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते / तथोपसंहारे ऽपि यथोपक्रममेवोपसंहरति- ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ इति / यो ऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः / यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यन्ते, न प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत / यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षति, किं तर्ह्यवस्थारहितत्वसंसारित्वं च / कथमेतदवगम्यते / यत् ऽअत ऊर्ध्वे विमोक्षायैव ब्रूहिऽ इति पदे पदे पृच्छति / यच्च ऽअनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषःऽ (बृ. ४.३.१४,१५) इति पदे पदे प्रतिवक्ति / ऽअनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवतिऽ (बृ. ४३.२२) इति च / तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्
SK
FN: विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः / प्राणेष्विति सप्तमी व्यतिरेकार्था / प्राणबुद्धिभ्यां भिन्न इत्यर्थः / बुद्धान्तो जाग्रदवस्था / अन्वारूढो ऽधिष्ठितः / उत्सर्जन्घोराञ्शब्दन्मुञ्चन् / बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव, चलन्त्यां चलतीव / भवतीति यस्मात्प्रतिवक्ति तस्मादवगम्यत इति योजना / तेनावस्थाधर्मेणानन्वागतो ऽस्पृष्टो भवति असत्त्वात् / अत उर्ध्वं कामादिविवेकानन्तरम् /
SK
सुषुप्त्युत्क्रान्त्योर्भेदेन / अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह-यो ऽयमिति / विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः / सप्तमी व्यतिरेकार्था / प्राणबुद्धिभ्यां भिन्न इत्यर्थः / वृत्तेरज्ञानाच्च भेदमाह-अन्तर्ज्योतिरिति / पुरुषः पूर्ण इत्यर्थः / उभयलिङ्गानां दर्शनात्संशयमाह-तत्किमिति / पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तं, तदयुक्तं, ऽप्राज्ञेनात्मना संपरिष्वक्तःऽइत्यभिन्ने ऽपि जीवात्मनि भेदोक्तिवदौपचारिकभेदोक्तिसंभवादित्याक्षेपसंगतिः / पूर्वपक्षे कर्मकर्तृजीवस्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभिन्नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलम् / बुद्धान्तो जाग्रदवस्था / आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति-परमेश्वरेत्यादिना / वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसंगता स्यात्,
SK
अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयं, ऽअपूर्वे वाक्यतात्पर्यम्ऽइति न्यायादिति सिद्धान्ततात्पर्यम् / पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति-तत्र पुरुष इत्यादिना / देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः / अन्वारूढो ऽधिष्ठितः / उत्सर्जन् घोराञ्शब्दान्मुञ्चन् / बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव / वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह-यत इति / उपक्रमवदुपसंहारवाक्ये ऽप्यैक्यं विविक्षितमित्याह-तथेति / व्याचष्टे-यो ऽयमिति / अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह-यतो न बुद्धान्तेति / प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह-यदत ऊर्ध्वमिति / कामादिविवेकानन्तरमित्यर्थः / भवतीति चेति /
SK
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना / तेनावस्थाधर्मेणानन्वागतो ऽस्पृष्टो भवति, असङ्गत्वात् / सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति / हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः
SK
END Bस्Cओम्_१,३.१३.४२
SK
START Bस्Cओम्_१,३.१३.४३
SK
पत्यादिशब्देभ्यः | BBस्_१,३.४३ |
SK
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् / यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति / ऽसर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःऽ इत्येवञ्जातीयका असंसारिस्वभावप्रतिपादनपराः / ऽस न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्ऽ इत्येवञ्जातीयकाः संसारिस्वभावप्रतिषेधनाः / तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते
SK
इति श्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य तृतीयः पादः
SK
FN: वशी स्वतन्त्रः / ईशानो नियमनशक्तिमान् /
SK
वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह-पत्यादीति / सूत्रं व्याचष्टे-इतश्चेति / वशी स्वतन्त्रः / अपराधीन इति यावत् / ईशानो नियमनशक्तिमान् / शक्तेः कार्यमाधिपत्यमिति भेदः / तस्माच्छोधितत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम्
SK
END Bस्Cओम्_१,३.१३.४३
SK
इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्याये तृतीयः पादः
SK
// इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः //
SK
प्रथमाध्याये चतुर्थः पादः /
SK
अव्यक्तेशमजं पञ्चजनाधारं च कारणम् / वेदितन्यं प्रियं वन्दे प्रकृतिं पुरुषं परम्
SK
START Bस्Cओम्_१,४.१.१
SK
प्रथमाध्याये चतुर्थः पादः /
SK
[अत्र प्रधानविषयत्वेन संदुह्यमानानामव्यक्ताजादिपदानां चिन्तनम्]
SK
१ आनुमानिकाधिकरणम् / सू. १-७
SK
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च | BBस्_१,४.१ |
SK
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्- ऽजन्माद्यस्य यतःऽ (ब्र. १.१.२) इति / तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्- ऽईक्षतेर्नाशब्दम्ऽ (ब्र. १.१.५) इति / गतिस्मान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन / इदं त्विदानीमवशिष्टमाशङ्क्ष्यते- यदुक्तं प्रधानस्याशब्दत्वं तदसिद्धं, कासुचिच्छास्वासु प्रधानसमर्पणाभासानां शब्दनां श्रूयमाणत्वात् / अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते / तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् / अतस्तेषामन्यपरत्वं दर्शयितुं परः संदर्भः प्रवर्तते / आनुमानिकमप्यनुमाननिरूपितमपि प्रधानमेकेषां शाखिनां शब्दवदुपलभ्यते / काठके हि पठ्यते- ऽमहतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ (१.३.११) इति / तत्र य एव यन्नामानो यत्क्रमाच्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते / तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसंभवात्, स्मृतिप्रसिद्धं प्रधानमभिधीयते / तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् / तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् /
SK
नैतदेवम् / नह्येतत्काटकं वाक्यं स्मृतिन्यायप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् / नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानं तादृशं प्रत्यभिज्ञायते / शब्दमात्रं ह्यत्राव्यक्तमितिप्रत्यभिज्ञायते / स च शब्दो न व्यक्तमव्यक्तमिति यौगिकत्वादन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते / नचायं कस्मिंश्चिद्रूढः / या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते / नच क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवत्यसति तद्रूपप्रत्यभिज्ञाने / नह्यश्वस्थाने गां पश्यन्नश्वो ऽयमित्यमूढो ऽध्यवस्यति / प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते / शरीररूपकविन्यस्गृहीतेः / शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते / कुतः / प्रकरणात्परिशेषाच्च / तथाह्यनन्तरातीतो ग्रन्थ आत्मशरीरवादिनां रथिरथादिरूपककॢप्तिं दर्शयति- ऽआत्मानं रथिनं विद्धि शरीरं रथमेव तु / बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च //
SK
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् / आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः //
SK
ऽ (का. १.३.३,४) इति / तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति / संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायां, तेभ्य एव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति- ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः / मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः / महतः परमव्यक्तमव्यक्तात्पुरुषः परः / पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (का. १.३.१०,११) इति / तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृतास्त एवेह परिगृह्यन्ते प्रकृतहानाप्रकृतप्रक्रियापरिहाराय / तत्रेन्द्रियमनोबुद्धयस्तावत्पूर्वत्रेह च समानशब्दा एव / अर्था ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टास्तेषां चेन्द्रियेभ्यः परत्वम् / ऽइन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम्ऽ (बृ. ३.२) इति श्रुतिप्रसिद्धेः / विषयेभ्यश्च मनसः परत्वं, मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य / मनसस्तु परा बुद्धिः / बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति / बुद्धेरात्मा महान्परः, यः स ऽआत्मानं रथिनं विद्धिऽ इति रथित्वेनोपक्षिप्तः / कुतः / आत्मशब्दात् / भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः / महत्त्वं चास्य स्वामित्वादुपपन्नम् / अथवा ऽमनो महान्तमतिर्ब्रह्मा पूर्बुद्धिः ख्यतिरीश्वरः / प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते //
SK
ऽ इति स्मृतेः, ऽयो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मैऽ (श्वे. / ६.१८) इति च श्रुतेर्या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्धीनां परा प्रतिष्ठा / सेह महानात्मेत्युच्यते / सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगीहोपदिश्यते / तस्या अप्यस्मादीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः / एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम् / परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात् / तदेवं शरीरमेवैकं परिशिष्यते / इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते /
SK
शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता / तथाच ऽएष सर्वेषु भूतेषु गूढात्मा न प्रकाशते / दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ //
SK
(का. १.३.१२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति- ऽयच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि / ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनिऽ //
SK
(का. १.३.१३) इति / एतदुक्तं भवति- वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत / मनो ऽपि विषयविकल्पाभिमिखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् / तामपि बुद्धिं महत्यात्मनि भोक्तर्यग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् / महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च / तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः
SK
FN: प्रधानस्य वैदिकशब्दशून्यत्वेन / अवशिष्टमनाशङ्कितमनिराकृतं च / प्रतीत्या प्रधानार्पकत्वे ऽपि वस्तुतो नेति वक्तुमाभासपदम् / अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् / स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः / अजामेकां इत्याद्या श्रुतिः / ऽहेतुः प्रकृतिरुच्यतेऽ इत्याद्या स्मृतिः / ऽयदल्पं तज्जडप्रकृतिकंऽ इति न्यायः / ततो ब्रह्मैव जगत्कारणमिति मतक्षतिरिति भावः / रूपककॢप्तिः सादृश्यकल्पना / प्रग्रहो ऽश्वरशना / तेषु हयेषु / गोचरान् मार्गान् / आत्मा देहः / गृह्णन्ति पुरुषपशुं बध्नातीति ग्रहा इन्द्रियाणि / तेभ्यः श्रेष्ठा अतिग्रहा विषयाः / परत्वं श्रैष्ठ्याभिप्रायं नत्वान्तरत्वेनेति भावः / बुद्धेः परः प्रत्यभिज्ञायत इति शेषः / हिरुक् पृथक् / वेदना सुखाद्यनुभवः / वागित्यत्र द्वितीयालोपश्छान्दसः मनसी इति दीर्घश्च / अग्र्या समाधिपरिपाकजा /
SK
अस्मिन्पादे ऽधिकरणत्रयस्येक्षत्यधिकरणेन संगतिं वक्तुं वृत्तमनुवदति-ब्रह्मेति / तदशब्दत्वेन / प्रधानस्य वैदिकशब्दशून्यत्वेनेत्यर्थः / ईक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञातम्, तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपञ्चितं, अधुना प्रधानस्याशब्दत्वमसिद्धमित्याशङ्क्य निरूप्यत इत्याक्षेपसंगतिः / तेनाशब्दत्वनिरूपणेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकृतो भवतीत्यध्यायसंगतिरप्यधिकरणत्रयस्य ज्ञेया / अत्राव्यक्तपदं विषयः / तत्किं प्रधानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्धब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्वदव्यक्तपदमप्रिद्धप्रधानपरमिति पूर्वपक्षयति-आनुमानिकमिति / अपिशब्दाद्ब्रह्माङ्गीकारेणायमशब्दत्वाक्षेप इति सूचयति / तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलं, सिद्धान्ते नियमसिद्धिरिति विवेकः / पदविचारत्वादधिकरणानामेतत्पादसंगतिर्बोध्या / स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः शब्दस्पर्शादिशून्यत्वेन योगसंभवाच्चेत्याह-शब्दादीति / प्रधानस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह-तदेवेति / ऽअजामेकाम्ऽइत्याद्या श्रुतिः / ऽहेतुः प्रकृतिरुच्यतेऽइत्याद्या स्मृतिः / ऽयदल्पं तज्जडप्रकृतिकम्ऽइति न्यायः / ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः / सूत्रे नञर्थं वदन्सिद्धान्तयति-नैतदिति / प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह-नहीति / ननु प्रधानस्यात्र प्रत्यभिज्ञानाद्वैदिकत्वमित्यत आह-न ह्यत्रेति / ननु शब्दप्रत्यभिज्ञायामर्थो ऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगिकाच्छब्दासति नियामके नार्थविशेषधीरित्याह-स चेति / रूढ्या तद्धीरित्याशङ्क्य रूढिः किं लौकिकी स्मार्ता वा / नाद्य इत्याह-न चेति / द्वितीयंप्रत्याह-या त्विति / पुरुषसंकेतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्रत्वादित्यर्थः / यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह-नच क्रमेति / स्थानात्तद्रूपप्रत्यभिज्ञानाशङ्क्यामसतीत्यन्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्धस्य प्रत्यभिज्ञाने सतीत्यर्थः / पूर्वज्ञातरूपार्थस्य स्थाने तद्विरुद्धार्थज्ञाने सति तस्य धीर्नास्तीत्यत्र दृष्टान्तमाह-न हीति / प्रकृते नास्ति विरुद्धज्ञानमित्याशङ्क्य प्रकरणाच्छरीरज्ञानमस्तीत्याह-प्रकरणेति / शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तं, तस्य पूर्ववाक्ये आत्मबुद्ध्योर्मध्यस्थानपठितस्यात्रापि मध्यस्थेनाव्यक्तशब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः / स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रकरणाद्यनुग्रहेण बलवत्त्वादित्याह-कुत इत्यादिना / तदुभयं विवृणोति-तथा हीति / रूपककॢप्तिः सादृश्यकल्पना / प्रग्रहो ऽश्वरशना / यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रियहयान्विषमविषयमार्गादाकर्षति / यद्यविवेकी तदा मनोरशनाबद्धांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् / तेषु हयेषु / गोचरान् मार्गान् / ननु स्वतश्चिदात्मनो भोगसंभवात् किं रथादिनेत्यत आह-आत्मेति / आत्मा देहः, देहादिसङ्ककल्पनया भोक्तृत्वं न स्वतो ऽसङ्गत्वादित्यर्थः / अधुना रथादिभिर्गन्तव्यं वदन्नाकाङ्क्षापूर्वकमुत्तरवाक्यमाह-तैश्चेत्यादिना / शरीरस्य प्रकृतत्वे ऽप्यव्यक्तपदेन प्रधानं गृह्यतामित्यत आह-तत्र य एवेति / एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति-तत्रेन्द्रियेत्यादिना / अर्थानां पूर्वमनुक्तिशङ्कां वारयन् परत्वमुपपादयति-अर्था इति / गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि / तेषां ग्रहत्वं विषयाधीनम् / असति विषये तेषामकिञ्चित्करत्वात् / ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् / परत्वं श्रैष्ठ्याभिप्रायं, न त्वान्तरत्वेनेति भावः / सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात् स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः / हिरण्यगर्भाभेदेन ब्रह्मादिपदवेद्या समष्टिबुद्धिर्महानित्याह-अथवेति / मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्यवर्गाश्रयः, तात्कालिकनिश्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संविदभिव्यञ्जिका चिदध्यस्तातीतसर्वार्थग्रहिणी समष्टिबुद्धिरित्यर्थः / हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुतिमाह-य इति / नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह-सा चेति / हिरुक्पृथक् / पूर्वं व्यष्टिबुद्ध्यभेदेनोक्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः / तर्हि रथरथिनौ द्वौ परिशिष्टौ स्यातां, नेत्याह-एतस्मिंस्त्विति / अतो रथ एव परिशिष्ट इत्याह-तदेवमिति / तेषु पूर्वोक्तेषु षट्पदार्थेष्वित्यर्थः / परिशेषस्य फलमाह-इतराणीति / वेदो यमो वेति शेषः / दर्शयति चेति सूत्रभागो व्याख्यातः / किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह-शरीरेत्यादिना / भोगो वेदना / काठकग्रन्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेतुयोगविधये लिङ्गानि सन्तीत्याह-तथा चैष इत्यादिना /
SK
अग्र्या समाधिपरिपाकजा / वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैघ्यं च
SK
END Bस्Cओम्_१,४.१.१
SK
START Bस्Cओम्_१,४.१.२
SK
सूक्ष्मं तु तदर्हत्वात् | BBस्_१,४.२ |
SK
उक्तमेतत्प्रकरणपरीशेषाभ्यां शरीरमव्यक्तशब्दः न प्रधानमिति / इदमिदानीमाशङ्क्यते- कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पृष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचनस्त्वव्यक्तशब्द इति / अत उत्तरमुच्यते- सूक्ष्मं त्विह कारणात्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् / यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति / प्रकृतिशब्दश्च विकारे दृष्टः / यथा ऽगोभिः श्रीणीत मत्सरम्ऽ (ऋ.स. ९.४६.४) इति श्रुतिश्च- ऽतद्भेदं तर्ह्यव्याकृतमासीत्ऽ (बृ. १.४.७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोगं दर्शयति
SK
FN: प्रकृतेर्विकाराणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकारे उपचर्यते / गोभिर्गोविकारैः पयोभिः मत्सरं सोमं श्रीणीत मिश्रितं कुर्यात् / तत् ह किल तर्हि प्रागवस्थायामिदं जगदव्याकृतं अव्यक्तमासीत् /
SK
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे-उक्तमेतदित्यादिना / कार्यकारणयोरभेदान्मूलप्रकृतिवाचकाव्यक्तशब्देन विकारो लक्ष्यत इत्यर्थः / गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत / मिश्रितं कुर्यादिति यावत् / ऽश्रीञ् पाकेऽइति धातोर्लोटि मध्यमपुरुषबहुवचनमेतत् / अव्यक्तात्मना कार्यस्याव्यक्तशब्दयोग्यत्वे मानमाह-श्रुतिश्चेति /
SK
तर्हि प्रागवस्थायामिदं जगदव्याकृतमासीत् ह किलेत्यर्थः / बीजरूपा शक्तिः संस्कारस्तदवस्थम्
SK
END Bस्Cओम्_१,४.१.२
SK
START Bस्Cओम्_१,४.१.३
SK
तदधीनत्वाद् अर्थवत् | BBस्_१,४.३ |
SK
अत्राह- यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत / अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति /
SK
अत्रोच्यते- यदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्ज्येम तदा प्रधानकारणवादम् /
SK
परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतो ऽभ्युपगम्यते न स्वतन्त्रा / सा चावश्याभ्युपगन्तव्या / अरथवती हि सा / नहि तया विना परमेश्वरस्य स्रष्टृत्वं सिद्धयति / शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः /
SK
मुक्तानां च पुनरनुत्पत्तिः / कुतः / विद्यया तस्या बीजशक्तेर्दाहात् / अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः / तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्- ऽएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चऽ (बृ. ३.८.११) इति श्रुतेः / क्वचिदक्षरशब्दोदितम्- ऽअक्षरात्परतः परःऽ (मु. २.१.२) इति श्रुतेः / क्वचिन्मायेति सूचितम्- ऽमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्ऽ (श्वे. ४.१०) इति मन्त्रवर्णात् / अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् / तदिदं ऽमहतः परमव्यक्तम्ऽ इत्युक्तमव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान् / यदा तु जीवो महांस्तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम् / अविद्या ह्यव्यक्तम् / अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः संततो वर्तते / महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते / सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणं, इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात्परिशिष्टत्वाच्च शरीरस्य /
SK
अन्ये तु वर्णयन्ति- द्विविधं हि शरीरं स्थूलं सूक्ष्मं च / स्थूलं यदिदमुपलभ्यते / सूक्ष्मं यदुत्तरत्र वक्ष्यते- ऽतदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्ऽ (बृ. ३.१.१) इति / तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्तितम् / इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते / सूक्ष्मस्याव्यक्तशब्दार्हत्वात् / तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम् / यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति / तैस्त्वेतद्वक्तव्यं, अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात्समानयोः प्रकृतपरिशिष्टत्वयोः कथं सूक्ष्ममेव शरीरमिह गृह्यते न पुनः स्थूलमपीति / आम्नातस्यार्थं प्रतिपत्तुं प्रभवामो नाम्नातं पर्यनुयोक्तुम् / आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति नेतरद्व्यक्तत्वात्तस्येति चेत् /
SK
न / एकवाक्यताधीनत्वादर्थप्रतिपत्तेः / नहीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कञ्चिदर्थं प्रतिपादयतः, परकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् / नचाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्ति / तत्रावशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं संबन्धे ऽनभ्युपगम्यमान एकवाक्यतैव बाधिता भवति कुत आम्नातस्यार्थप्रतिपत्तिः / नचैवं मन्तव्यं दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणं, स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमिति / यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते / नह्यत्र शोधनविधायि किञ्चिदाख्यातमस्ति / अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते / तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा ऽपुरुषान्न परं किञ्चित्ऽ इत्याह / सर्वथापि त्वानुमानिकनिरकरणोपपत्तेस्तथा नामास्तु, न नः किञ्चिच्छिद्यते
SK
FN: तर्हि तदा / मायामयी प्रसिद्धमायोपमिता / बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः / अनवच्छिन्नत्वादाकाशत्वं, तत्त्वज्ञानं विनानिवृत्तेरक्षरत्वं, विचित्रकार्यत्वान्मायात्वमिति भेदः / तत् अव्यक्तम् / गोबलीवर्दपदवदेतद्द्रष्टव्यम् / एकार्थबोधकानां शब्दानां मिथ आकाङ्क्ष्यैकस्यां बुद्धावरूढत्वमेकवाक्यता / ग्राह्यत्वाकाङ्क्षा एकवाक्यता / दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः / सर्वथा स्थूलसूक्ष्मयोरन्यतरग्रहे ऽपीति यावत् /
SK
अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे-अत्राहेत्यादिना / तर्हि तदा / एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति / ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह-अत्रोच्यत इत्यादिना / कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् / बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह-मुक्तानामिति / यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः / तस्याः परपरिकल्पितसत्यस्वततन्त्रप्रधानाद्वैलक्षण्यमाह-अविद्येत्यादि ना / मायामयी प्रसिद्धमायोपमिता / लोके मायाविनो मायावत्परतन्त्रेत्यर्थः / जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह-महासुषुप्तिरिति / बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः / अविद्यायां श्रुतिमप्याह-तदेतदिति / आकाशहेतुत्वादाकाशः /
SK
ज्ञानं विनान्ताभावादक्षरम् / विचित्रकारित्वान्मायेति भेदः / इदानीमविद्याया ब्रह्मभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह-अव्यक्तेति / तस्य महतः परत्वं कथमित्यत आह-तदितमिति / यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः / प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह-यदा त्विति / हेतुं स्फुटयति-अविद्येति / अव्यक्तस्य परत्वे ऽपि शरीरस्य किं जातं, तदाह-तच्चेति / नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह-सत्यपीति / सूत्रद्वयस्य वृत्तिकृद्ध्याख्यानमुत्थापयति-अन्ये त्विति / पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूलदेहारम्भकाः / सूक्ष्मशरीरं प्रतिजीवं लिङ्गस्याश्रयत्वेन नियतमस्तीति वक्ष्यते / देहान्तरप्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः / कथं तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीयसूत्रं व्याचष्टे-तदधीनत्वाच्चेति / अर्थवदिति / सूत्रस्थदृष्टान्तमाह-यथेति / तद्ध्याख्यानं दूषयति-तैरिति / अव्यक्तपदबलात् प्रकृतमपि स्थूलं त्यज्यत इति शङ्कते-आम्नातस्येति / एकार्थबोधकानां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमेकवाक्यता / तव मते तस्या अभावात्कुतोर्ऽथबोध इति समाधत्ते-नेति / तां विनाप्यर्थथीः किं न स्यादित्यत आह-नहीति / शरीरशब्देन रूढ्या स्थूलं प्रकृतं तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादित्यर्थः / अस्त्वेकवाक्यतेत्यत आह-न चेति / ततः किं तत्राह-तत्रेति / आकाङ्क्षया वाक्यैकवाक्यत्वे सति प्रकृतं शरीरद्वयमव्यक्तपदेन ग्राह्यम् / आकाङ्क्षायास्तुल्यत्वादिति भावः / अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्ममेवाकाङ्क्षितं ग्राह्यम्;तस्य सूक्ष्मत्वेनात्माभेदेन गृहीतस्य दुःशोधत्वात् / स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवदनात्मत्वधीवैराग्ययोः सुलभत्वादिति शङ्कते-न चेति / दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः / दूषयति-यत इति / वैराग्यायशुद्धिरत्र न विवक्षिता, विध्यभावात्, किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूलमेवाव्यक्तपदेन ग्राह्यमिति भावः / किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथगव्यक्तशरीरपदाभ्यां ग्रहः / अभ्युपेत्याह-सर्वथेति / स्थूलस्य सूक्ष्मस्य वा ग्रहे ऽपीत्यर्थः / तथा नामेति /
SK
सूक्ष्ममेवाव्यक्तमस्त्वित्यर्थः
SK
END Bस्Cओम्_१,४.१.३
SK
START Bस्Cओम्_१,४.१.४
SK
ज्ञेयत्वावचनाच् च | BBस्_१,४.४ |
SK
ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते गुणपुरुषान्तरज्ञानात्कैवल्यमितिवद्भिः / नहि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति / क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति / नचेदगिहाव्यक्तं ज्ञेयत्वेनोच्यते / पदमात्रं ह्यव्यक्तशब्दः / नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति / नचानुपदिष्टपदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम् / तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते / अस्माकं तु रथरूपककॢप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम्
SK
अत्राव्यक्तं प्रधानं नेत्यत्र हेत्वन्तरार्थं सूत्रम्-ज्ञेयत्वेति / सत्त्वादिगुणरूपात्प्रधानात् पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः / नहि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यत इति संबन्धः / न केवलं भेदप्रतियोगित्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्योपासनयाणिमादिप्राप्तये ऽपीत्याह-क्वचिच्चेति /
SK
ज्ञानविध्यभावे ऽप्यव्यक्तपदजन्यज्ञानगम्यत्वमार्थिकं ज्ञेयत्वमस्तीत्यत आह-न चानुपदिष्टमिति / उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फलस्योपदेशायोगादव्यक्तस्य च ज्ञानानुपदेशात्फलवज्ज्ञानगम्यत्वासिद्धिरित्यर्थः / फलितमाह-तस्मादिति / सांख्येष्टसफलज्ञानगम्यत्वावचनाच्चेत्यर्थः / ननु शरीरस्यापि ज्ञेयत्वानुक्तेः कथमिह ग्रहणं, तत्राह-अस्माकं त्विति /
SK
अस्मन्मते विष्णवाख्यपदस्यैकस्यैव ज्ञेयत्वात्तद्दर्शनार्थमव्यक्तपदेन शरीरोपन्यासो युक्त इत्यर्थः / साधारणशब्दमात्रान्न प्रधानस्य प्रत्यभिज्ञा स्मार्तलिङ्गस्यानुक्त्या नियामकाभावादिति तात्पर्यम्
SK
END Bस्Cओम्_१,४.१.४
SK
START Bस्Cओम्_१,४.१.५
SK
वदतीति चेन् न प्राज्ञो हि प्रकरणात् | BBस्_१,४.५ |
SK
अत्राह सांख्यः - ज्ञेयत्वावचनात् इत्यसिद्धम् / कथम् / श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्- ऽअशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् / अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यतेऽ //
SK
(का. २.३.१५) इति / अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितं तादृशमेव निचाय्यत्वेन निर्दिष्टं, तस्मात्प्रधानमेवेदं, तदेव चाव्यक्तशब्दनिर्दिष्टमिति /
SK
अत्र ब्रूमः - नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् / प्राज्ञो हीह परमात्मा निचाय्यत्वेत निर्दिष्टं इति गम्यते / कुतः / प्रकरणात् / प्राज्ञस्य हि प्रकरणं विततं वर्तते / ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ इत्यादिनिर्देशात्, ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशतेऽ इति च दुर्ज्ञातत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् / ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात् / मृत्युमुखप्रमोक्षणफलत्वाच्च / नहि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सांख्यैरिष्यते / चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यते इति तेषामभ्युपगमः / सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनो ऽशब्दादिधर्मत्वमभिलप्यते / तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा
SK
FN: अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः संबध्यते /
SK
लिङ्गोक्तिमाशङ्क्य निषेधति-वदतीति चेदिति /
SK
अत्र हि तादृशमेव निर्दिष्टमित्यन्वयः / स्पष्टमन्यत्
SK
END Bस्Cओम्_१,४.१.५
SK
START Bस्Cओम्_१,४.१.६
SK
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च | BBस्_१,४.६ |
SK
इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा / यस्मान्त्रयाणामेव पदार्थान्मग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रधानसामर्थ्याद्वक्तव्यतोपन्यासो दृश्यते / तद्विषय एव च प्रश्नः / नातो ऽन्यस्य प्रश्न उपन्यासो वास्ति / तत्र तावत् ऽस त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्ऽ (का. १.१.१३) इत्यग्निविषयः प्रश्नः / ऽयेयं प्रेतेऽ विचिकित्सा मनुष्ये ऽस्तीत्येके नायमस्तीति चैके / एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः //
SK
ऽ (का. १.१.२०) इति जीवविषयः प्रश्नः / ऽअन्यत्र धर्मादन्त्राधर्मान्यत्रास्मत्कृताकृतात् / अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद //
SK
ऽ (का. १.२.१४) इति परमात्मविषयः / प्रतिवचनमपि ऽलोकादिममग्निं तमुवाच तस्मै या इष्टकायावतीर्वा यथा वाऽ (का. १.१.१५) इत्यग्निविषयम् / ऽहन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् / यथा च मरणं प्राप्य आत्मा भवति गौतम / योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः / स्थाणुमन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम्ऽ (का. २.५.६,७) इति / व्यवहितं जीवविषयम् / ऽन जायते म्रियते वा विपश्चित्ऽ (का. १.२.१८) इत्यादिबहुप्रपञ्चं परमात्मविषयम् / नैवं प्रधानविषयः प्रश्नो ऽस्ति / अपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति /
SK
अत्राह- यो ऽयमात्मविषयः प्रश्नो येयं प्रेते विचिकित्सा मनुष्ये ऽस्तीति, किं स एवायम् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ इति पुनरनुकृष्यते, किंवा ततो ऽन्यो ऽयमपूर्वः प्रश्न उत्थाप्यत इति / किचातः / स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति / अथान्यो ऽयमपूर्वः प्रश्नः उत्थाप्यत इत्युच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोष एवं प्रश्न व्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति /
SK
अत्रोच्यते- नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामो वाक्योपक्रमसामर्थ्यात् / वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते / मृत्युः किल नाचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ / नचिकेताः किल तेषां प्रथमेन वरेण सौमनस्यं वव्रे / द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम्, ऽयेयं प्रेतेऽ इति ऽवराणामेव वरस्तृतीयःऽ (का. १.१.२०) इति लिङ्गात् / तत्र यद्यन्यत्र धर्मादित्यन्यो ऽयमपूर्वः प्रश्न उत्थाप्येत ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येथ /
SK
ननु प्रष्ठव्यभेदादपूर्वो ऽयं प्रश्नो भवितुमर्हति / पूर्वो हि प्रश्नो जीवविषयः / योयं प्रेते विचिकित्सा मनुष्ये ऽस्ति नास्तीति विचिकित्साभिधानात् / जीवश्च धर्मादिगोचरत्वान्नान्यत्र धर्मादिति प्रश्नमर्हति / प्राज्ञस्तु धर्माद्यतीतत्वादन्यत्र अन्यत्र धर्मादिति प्रश्नमर्हति / प्रश्नच्छाया च न समाना लक्ष्यते / पूर्वस्यास्तित्वनास्तित्वविषयत्वादुत्तरस्य धर्माद्यतीतवस्तुविषयत्वात् / तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः / न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत् / न / जीवप्राज्ञयोरेकत्वाभ्युपगमात् / भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् / न त्वन्यत्वमस्ति / तत्त्वमसीत्यादिश्रुत्यन्तरेभ्यः / इह चान्यत्र धर्मादित्यस्य प्रश्नस्य प्रतिवचनं ऽन जायते म्रियते वा विपश्चित्ऽ इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति / सति हि प्रसङ्गे प्रतिषेधो भागी भवति / प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति न परमेश्वरस्य / तथा- ऽस्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति / महान्तं विभुमात्मानं मत्वा धीरो न शोचति //
SK
(का. २.४.४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति / प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः / तथाग्रे- ऽयदेवेह तदमुत्र यदमुत्र तदन्विह / मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति / ऽ (का.२.४.१०) इति जीवप्राज्ञभेददृष्टिमपवदति / तथा जीववीषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ऽअन्यं वरं नचिकेतो वृणीष्वऽ इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानो ऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनीःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ऽविद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्तऽ (का.१.२.४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच- ऽतं दुर्दर्शं गूढमनुप्रविष्ठं गुहाहितं गह्वरेष्ठं पुराणम् / अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति //
SK
ऽ (का.१.२.१२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षत इति गम्यते / यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेता यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेदस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् / तस्मात् ऽयेयं प्रेतेऽ इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् ऽअन्यत्र धर्मात्ऽ इति / यत्तु प्रश्नच्छायावैलक्षण्यमुक्तं तददूषणम् / तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात् / पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनो ऽस्तित्वं पृष्टमुत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति यावद्ध्यविद्या न निवर्तते तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते / तन्निवृत्तौ तु प्राज्ञ एव तत्त्वमसीति श्रुत्या प्रत्याय्यते / नचाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषो ऽस्ति / यथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयान्मा भषीर्नायमही रज्जुरेवेति / स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च / नत्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् / तथैवैतदपि द्रष्टव्यम् / ततश्च ऽन जायते म्रियते वाऽ इत्येवमाद्यपि भवत्यस्तित्वप्रश्नस्य प्रतिवचनम् / सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् / एकत्वे ऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सानात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते / उत्तरस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति / ततश्च युक्ताग्निजीवपरमात्मकल्पना / प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम्
SK
FN: मृत्युना नचिकेतसंप्रति त्रीन्वरानवृणीष्वेत्युक्तेस्त्रयाणामेव प्रश्नो नचिकेतसा कृतः / उपन्यासश्च मृत्युना कृतः / हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निमध्येषि स्मरसि / प्रेते मृते / देहादन्यो ऽस्ति नवेति संशयो.ऽस्ति अत एतदात्मतत्त्वमसंदिग्धं जानीयामित्यर्थः / श्रुतमुपन्यासम् / वरप्रधानमुपक्रमो यस्याः सा / प्रहिताय यमलोकं प्रति प्रेषिताय / गोचरत्वादश्रयत्वात् / भागी युक्तः / अन्तो ऽवस्था / येन साक्षिणा प्रमाता पश्यति तमात्मानमिति संबन्धः / इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ / यस्मिन् प्रश्नो यत्प्रश्नस्तं विहायेत्यर्थः / विशेषोक्तिसमाप्तावितिशब्दः /
SK
किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह-त्रयाणामिति / मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः / उपन्यासश्च मृत्युना कृतः / नान्यस्येत्यर्थः / प्रश्नत्रयं क्रमेण पठति-तत्र तावदिति / हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्नि स्मरसि / प्रेते मृते / देहादन्यो ऽस्ति न वेति संशयो ऽस्ति / अत एतदात्मतत्त्वमसंदिग्धं जानीयामित्यर्थः / क्रमेणोत्तरत्रयमाह-प्रतिवचनमपीति / लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्यो ऽग्निस्तं मृत्युरुवाच नचिकेतसे / याः स्वरूपतो यावतीः संख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः / हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितनमपि ऽयथा च मरणं प्राप्यऽइत्यादि वाक्यं जीवविषयमुत्तरं, योग्यत्वादित्यर्थः / वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति / प्रतिज्ञातमाह-योनिमिति / चराचरदेहप्राप्तौ निमित्तमाह-यथेति / श्रुतमुपासनम् / सूत्रे आद्यश्चकारो यत इत्यर्थः / एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना / उक्तार्थे सूत्रमाक्षिपति-अत्राहेति / एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति-किञ्चात इति / सप्तम्यर्थे तसिः / अत्र च पक्षद्वये ऽपि किमित्यर्थः / प्रश्नैक्ये सूत्रासंगतिः भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्ववाद्याह-स एवेत्यादिना / प्रश्नैक्यपक्षमादाय सिद्धान्त्याह-अत्रोच्यत इति / येन प्रधानसिद्धिः स्यादिति शेषः / चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति-वरेत्यादिना / वरप्रदानमुपक्रमो यस्याः सा / प्रहिताय यमलोकं प्रति प्रेषिताय / इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे / ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह-येयमिति / प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः / एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह-तत्रेति / मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात् प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते-नन्वित्यादिना / गोचरत्वादाश्रयत्वात् / न केवलं प्रष्टव्यभेदात् प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह-प्रश्नच्छायेति / प्रष्टव्यभेदो ऽसिद्ध इति परिहरति-नेत्यादिना / किञ्च ब्रह्माप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह-इह चान्यत्रेति / तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह-सतीति / भागी युक्तः / तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः / किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात्, ब्रह्मवदित्याह-तथा स्वप्नेति / अन्तो ऽवस्था / येन साक्षिणा प्रमाता पश्यति तामात्मानमिति संबन्धः / हेतोरप्रयोजकत्वमाशङ्कय ऽतमेव विदित्वाऽइति श्रुतिविरोधमाह-प्राज्ञेति / किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह-तथेति / इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ / एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः / किञ्च जीवप्रश्नानन्तरं ऽतं दुर्दर्शम्ऽइति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति संबन्धः / प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह-अन्यं वरमित्यादिना / पुत्रादिकं वृणीष्वेत्युक्ते ऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल ऽनान्यं तस्मान्नचिकेता वृणीतेऽइति श्रवणात् / तदा संतुष्टो यमः ऽअन्यच्छ्रेयो ऽन्यदुतैव प्रेयःऽइति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय ऽदूरमेते विपरीते विषूची अविद्या या च विद्याऽइति दर्शितवानित्यर्थः / प्रेयः प्रियतमं स्वर्गादिकं, विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः / विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवो ऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि ऽत्वादृङ्गो भूयान्नचिकेतः प्रष्टाऽइति स्तुवन्नित्यक्षरार्थः / इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह-यत्प्रश्नेति / यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत् तर्ह्यनवसरे स्तुतीः कृता स्यादित्यर्थः / तस्मादिति / प्रष्टव्यभेदाभावादित्यर्थः / प्रश्नवाक्यव्यक्त्योः सादृश्याभावात् प्रश्नभेद इत्युक्तं निरस्यति-यत्त्वित्यादिना / धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह-यावदिति / अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह-न चाविद्यावत्त्व इति / जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति-ततश्च न जायत इति / जीवब्रह्मैक्ये ऽत्रयाणाम्-ऽइति सूत्रं कथमित्यत आह-सूत्रं त्विति / कल्पितभेदात्प्रश्नभेदकल्पनेत्याह-ततश्चेति /
SK
परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः
SK
END Bस्Cओम्_१,४.१.६
SK
START Bस्Cओम्_१,४.१.७
SK
महद्वच् च | BBस्_१,४.७ |
SK
यथा महच्छब्दः सांख्यैः सत्तामात्रे ऽपि प्रथमजे प्रयुक्ते न तमेव वैदिके ऽपि प्रयोगे ऽभिधत्ते / ऽबुद्धेरात्मा महान्परःऽ (का. १.३.१०), ऽमहान्तं विभुमात्मानम्ऽ (का. १.२.२२) ऽवेदाहमेतं पुरुषं महान्तम्ऽ (श्वे. ३.८)
SK
इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः / तथाव्यक्तशब्दो ऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति / अतश्च नास्यानुमानिकस्य शब्दवत्त्वम्
SK
श्रौतो ऽव्यक्तशब्दो न सांख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात्, महच्छब्दवदित्याह-महद्वच्चेति / सूत्रं व्याचष्टे-यथेत्यादिना / न चाकाशादिशब्दे व्यभिचारः, आकाशादेर्मतान्तरसाधारणत्वेन सांख्यासाधारणत्वासिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् / सत्तामात्रे / सत्त्वप्रधानप्रकृतेराद्यपरिणामे / निर्विकल्पकबुद्धावित्यर्थः / आत्मा महानित्यात्मशब्दप्रयोगात्, तं मत्वा न शोचति, ऽतमसः परस्तादिऽत्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः सांख्यतत्त्वं नाभिधत्त इति संबन्धः / अधिकरणार्थमुपसंहरति-अतश्चेति
SK
END Bस्Cओम्_१,४.१.७
SK
START Bस्Cओम्_१,४.२.८
SK
२ चमसाधिकरणम् / सू. ८-१०
SK
चमसवदविशेषात् | BBस्_१,४.८ |
SK
पुनरपि प्रधानवाद्यशब्दत्वं प्रधानस्यासिद्धमित्याह / कस्मात् / मन्त्रवर्णात्- ऽअजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः / अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यःऽ (श्वे. ४.५) इति / अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दै रजःसत्त्वतमांस्यभिधीयन्ते / लोहितं रजो रञ्जनात्मकत्वात् / शुक्लं सत्त्वं प्रकाशात्मकत्वात् / कृष्णं तम आवरणात्कत्वात् / तेषां साम्यावस्थावयवधर्मैर्व्यपदिश्यते लोहितशुक्लकृष्णमिति / न जायत इति चाजा स्यात्, ऽमूलप्रकृतिरविकृतिःऽ इत्यभ्युपगमात् /
SK
नन्वजाशब्दश्छागायां रूढः / बाढम् / सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् / सा च वह्नीः प्रजास्त्रैगुण्यान्विता जनयति / तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वानुशेते / तामेवाविद्यायात्मत्वेनोपगम्य सुखी दुःखी मूढो ऽहमित्यविवेकतया संसरति / अन्यः पुनरजः पुरुषे उत्पन्नविवेकज्ञानो विरक्तो जहात्येनां प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति / मुच्यत इत्यर्थः / तस्माच्छ्रुतिमूलैव प्रधानादिकल्पनामिति /
SK
एवं प्राप्ते ब्रूमः - नानेन मन्त्रेण श्रुतिमत्त्व सांख्यवादस्य शक्यमाश्रयितुम् / नह्ययं मन्त्रः स्वातन्त्र्येण कञ्चिदपि वादं समर्थयितुमुत्सहते / सर्वत्रापि यया कयाचित्कल्पनयाजात्वादिसंपादनोपपत्तेः / सांख्यवाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात् / चमसवत् / यथाहि अर्वाग्बलश्चमस ऊर्ध्वबुध्नः (बृ. २.२.३) इत्यस्मिनमन्त्रे स्वातन्त्र्येणायं नामासौ चमसो ऽभिप्रेत इति न शक्यते निरूपयितुम् / सर्वत्रापि यथाकथञ्चिदर्वाग्बिलत्वादिकल्पनोपपत्तेः / एवमिहाप्यविशेषो ऽजामेकामित्यस्य मन्त्रस्य / नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्यते नियन्तुम्
SK
तत्र तु ऽइदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नःऽ इति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवति / इह पुनः केयमजा प्रतिपत्तव्येति / अत्र ब्रूमः -
SK
FN: अजामेकां- न जायत इत्यजा तां मुलप्रकृतिं लोहितशुक्लकृष्णां रजःसत्वमोगुणां सरूपास्त्रिगुणात्मिकाः प्रजा जनयन्तीं एको ऽजो जीवस्तां शब्दादिविषयरूपतापन्नां जुषमाणः सन्ननुशेते निरन्तरं मुह्यति / जीवेन भुक्तो भोगो यस्यां यस्या वा तां जीवेन भुज्यमानामन्यः परमात्मा जहाति नास्यामासक्तिं करोति / अवयवाः प्रधानस्य रज आदयस्तेषां धर्मा रञ्जकत्वादयस्तैः / प्रजायन्त इति प्रजा महदादयः / त्रैगुण्यं सुखदुःखमोहाः / अत्रात्मत्वं तादात्म्यम् / शब्दाद्युपलब्धिर्भोगः / गुणपुरुषान्यताधीरपवृज्यते ऽनेनेत्यपवर्गः /
SK
चमसवदविशेषात् / अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासंभवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति-पुनरपीति / फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् / रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजादिगुणलाभे ऽपि कथं प्रधानलाभः, तत्राह-तेषां साम्येति / अवयवाः प्रधानस्य रजादयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः / गुणाभेदात्प्रधानलाभ इति भावः / तत्राजाशब्दं योजयति-नेति / ऽरूढिर्योगमपहरतिऽइति न्यायेन शङ्कते-नन्विति / रूढ्यसंभवाद्योग आश्रयणीय इत्याह-बाढमिति / अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह-सा चेत्यादिना / प्रजायन्त इति प्रजा महदादयः / त्रैगुण्यं सुखदुःखमोहाः / अनुशयनं विवृणोति-तामेवाविद्ययेति / अविवेकेनेत्यर्थः / विषयधीर्भोगः / गुणभिन्नात्मख्यातिरपवर्गः / सिद्धान्तयति-एवं प्राप्त इति / मायादावपि साधारणान्मन्त्राद्विशेषार्थग्रहो न युक्तः, विशेषग्रहहेतोः प्रकरणादेरभावादिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे-चमसवदिति /
SK
सर्वत्र गिरिगुहादावपि
SK
END Bस्Cओम्_१,४.२.८
SK
START Bस्Cओम्_१,४.२.९
SK
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके | BBस्_१,४.९ |
SK
परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या / तुशब्दो ऽवधाणार्थः / भूतत्रयलक्षणैवेयमजा विज्ञेया न गुणत्रयलक्षणा / कस्मात् / तथाह्येके शाखिनस्तेजोबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति- ऽयदग्रे रोहितं रूपं तेजस्तद्रूपं यच्छुक्रं तदपां यत्कृष्णं तदन्नस्यऽ इति / तान्येवेह तेजोबन्नानि प्रत्यभिज्ञायन्ते रोहितादिशब्दसामान्यात् / रोहितादीनां च शब्दानां रूपविशेषेषु मुख्यत्वाद्भाक्तत्वाच्च गुणविषयत्वस्य / असंदिग्धेन च संदिग्धस्य निगमनं न्याय्यं मन्यन्ते / तथेहापि ऽब्रह्मवादिनो वदन्ति / किङ्कारणं ब्रह्मऽ (श्वे. १.१) इत्युपक्रम्य ऽते द्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्ऽ (श्वे.
SK
१.३) इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमे ऽवगमात् / वाक्यशेषे ऽपि ऽमायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्ऽ इति ऽयो योनिं योनिमधितिष्ठत्येकःऽ (श्वे. ४.१०,११) इति च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामजामन्त्रेणाम्नायत इति शक्यते वक्तुम् / प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः प्रागवस्थानेनापि मन्त्रेणाम्नायत इत्युच्यते / तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम्
SK
FN: शाखिनश्छन्दोगाः / ते ब्रह्मवादिनो ऽनया रीत्या विमृश्य द्यानयोगेनानुगताः परमात्मानमनु प्रविष्टाः / अविद्याशक्तिर्योनिः सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना /
SK
उत्तरसूत्रव्यावर्त्यां शङ्कामाह-तत्र त्विदमिति / चतुर्विधस्येति / जरायुजाण्डजस्वेदजोद्भिज्जरूपस्येत्यर्थ / स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते-कस्मादिति / श्रुतेः श्रुत्यन्तरादर्थग्रहो युक्तः, साजात्यान्मूलानपेक्षत्वाच्चेत्याह-तथा हीति / शाखिनश्चन्दोगाः / किञ्च लोहितादिशब्दैरपि द्रव्यलक्षणा न्याय्या अव्यवधानात् न तु रञ्जनीयत्वादिगुणव्यवहिता सत्त्वादिगुणलक्षणेत्याह-लोहितादीनां चेति / ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह-असंदिग्धेनेति / सर्वशाखाप्रत्ययन्यादिति भावः / यथा शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेताश्वतरोपनिषदि मायाप्रकरणान्न तद्ब्रह्म इत्याह-तथेति / सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते / ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मानमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः / मायाया एकत्वे ऽपि तदंशानां जीवोपाधीनां तत्तसंघातयोनीनामविद्याख्यानां भेदाद्वीप्सा / अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा / अनेन ऽतद्धेदं तर्ह्यव्याकृतमासीत्ऽइति श्रुत्यन्तरप्रसिद्धिरुक्ता / तस्यां शक्तौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूययति-नामेति / मायाया रोहितादिरूपवत्त्वं कथमित्यत आह-तस्या इति /
SK
विषय आश्रयः
SK
END Bस्Cओम्_१,४.२.९
SK
START Bस्Cओम्_१,४.२.१०
SK
कथं पुनस्तेजोबन्नात्मना त्रैरूप्येण त्रिरूपाजा प्रतिपत्तुं शक्यते / यावता न तावत्तेजोबन्नेष्वजाकृतिरस्ति / नच तेजोबन्नानां जातिश्रवणादजातिनिमित्तो ऽप्यजाशब्दः संभवतीति / अत उत्तरं पठति-
SK
कल्पनोपदेशाच् च मध्वादिवदविरोधः | BBस्_१,४.१० |
SK
नायमजाकृतिनिमित्तो ऽजाशब्दः / नापि यौगिकः / किं तर्हि कल्पनोपदेशो ऽयम् / अजारूपककॢप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते / यथाहि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णणवर्णा स्याद्बहुबर्करा सरूपबर्करा च तां च कश्चिदजो जुषमाणो ऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जुह्यात्, एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति अविदुषा च क्षेत्रज्ञेनोपभुज्यते विदुषा त परित्यजत इति / नचेदमाशङ्कितव्यमेकः क्षेत्रज्ञो ऽनुशेते ऽन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति / नहीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा किन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषा / प्रसिद्धं तु भेदमनुद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते / भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः / ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ इत्यादिश्रुतिभ्यः / मध्वादिवत् / यथा ऽआदित्यस्यामधुनो मधुत्वम्ऽ (छा. ३.१), ऽवाचाश्चाधेनोर्धेनुत्वम् (बृ. ५.८), ऽद्युलोकादीनां चानग्नीनामग्नित्वम्ऽ (बृ. ८.२.९) इत्येवञ्जातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः / तस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य
SK
FN: बहुबर्करा बहुशावा / बर्करो बालपशुः /
SK
एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् / छान्दोग्यश्रुत्या तेजो ऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते-कथमिति / किं तेजोबन्नेत्वजाशब्दो रूढो, न जायत इति यौगिको वा / नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह-यावतेति / यत इत्यर्थः / अतो न रूढ इति शेषः / न द्वितीय इत्याह-नचेति / जातिर्जन्म / अजातिरजन्म / लौकिकाजाशब्दसादृश्यकल्पनया तेजो ऽबन्नानामजात्वोपदेशाद्गौणो ऽयं शब्द इति परिहरति-कल्पनेति / अनियमो यदृच्छा / बर्करो बालपशुः / यदुक्तं जीवभेदेन प्रधानवादप्रत्यभिज्ञेति, तन्नेत्याह-न चेदमिति / व्यवस्थार्थो भेदो ऽप्यर्थात्प्रतिपाद्यत इत्याह-प्रसिद्धं त्विति / सत्य एव प्रसिद्ध इत्यत आह-भेदस्त्विति / कल्पनोपदेशे दृष्टान्तं व्याचष्टे-मध्विति / नच योगस्य मुख्यवृत्तित्वात्तेन प्रधानग्रहो न्याय्य इति वाच्यं,
SK
रूढार्थानपेक्षाद्योगात्तदाश्रितगुणलक्षणाया बलीयस्त्वात् / गुणवृत्तौ हि रूढिराश्रिता भवति / तथाच रोहितादिशब्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधित्वावान्तरप्रकृतिरजाशब्देन ग्राह्य, यथा मध्वादिशब्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणय आदित्यादयो गृह्यन्ते तद्वत् / तस्मादशब्दं प्रधानमिति सिद्धम्
SK
END Bस्Cओम्_१,४.२.१०
SK
START Bस्Cओम्_१,४.३.११
SK
३ सांख्योपसंग्रहादिकरणम् / सू. ११-१३
SK
न संख्योपसंग्रहादपि नानाभावाद् अतिरेकाच् च | BBस्_१,४.११ |
SK
एवं परिगृहीते ऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते / ऽयस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः / तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतो ऽमृतम्ऽ (बृ. ४.४.१७) इति / अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषयापरा पञ्चसंख्या श्रूयते पञ्चद्वयशब्ददर्शनात् / त एते पञ्चपञ्चकाः पञ्चविंशतिः संपद्यन्ते / तथा पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्तेलतावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते- ऽमूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषःऽ (सांख्यका. ३) इति / तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसंग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् / ततो ब्रूमः - न संख्योपसंग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या / कस्मात् / नानाभावात् / नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि / नैषां पञ्चशः पञ्चशः साधारणो धर्मो ऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्चसंख्या निवेशेरन् /
SK
नह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते / अथोच्येत पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथा ऽपञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुःऽ इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति तद्वदिति / तदपि नोपपद्यते / अयमेवास्मिन्पक्षे दोषो यल्लक्षणाश्रयणीया स्यात् /
SK
परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजना इति, पारिभाषिकेण स्वरेणैकपदत्वनिश्चयात् / प्रयोगान्तरे च ऽपञ्चानां त्वा पञ्चजनानाम्ऽ (तै. १.६.२.२) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात् / समस्तस्य न वीप्सा पञ्च पञ्चेति / नच पचकद्वयग्रहणं पञ्च पञ्चेति / नच पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणं पञ्च पञ्चका इति / उपसर्जनस्य विशेषणेनासंयोगात् /
SK
नन्वापन्नपञ्चसंख्यका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते / यथा पञ्च पञ्चपूल्य इति पञ्चवंशतिपूलाः प्रतीयन्ते तद्वत् /
SK
नेति ब्रूमः / युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात्कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम् / इह तु पञ्च पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् / भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्, तत्र चोक्तो दोषः / तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम् / अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् / अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् / अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः / आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः / यस्मिन्निति सप्तमिसूचितस्य ऽऽतमेव मन्य आत्मानम्ऽ इत्यात्मत्वेनानुकर्षणात् / आत्मा च चेतनः पुरुषः / स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्यते / अर्थान्तरपरिग्रहे च तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत / तथा ऽआकाशश्च प्रतिष्ठितःऽ इत्याकाशस्यापि पञ्चविंशतवन्तर्गतस्य न पृथगुपादानं न्याय्यम् / अर्थान्तरपरिग्रहे चोक्तं दूषणम् / कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसंग्रहः प्रतीयते / जनशब्दस्य तत्वेष्वरूढत्वात् / अर्थान्तरोपसंग्रहे ऽपि संख्योपपत्तेः / कथं तर्हि पञ्च पञ्चजना इति / उच्यते- ऽदिक्संख्ये संज्ञायाम्ऽ (पा. सू. २.१.५०) इति विशेषणस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते न सांख्यतत्त्वाभिप्रायेण / ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते / पञ्चजना नाम ये केचित्ते च पञ्चैवेत्यर्थः / सप्तर्षयः सप्तेति यथा
SK
FN: मूलप्रकृतिरविकृतिः अन्यस्य कस्यचिद्विकारो न / महदहङ्कारपञ्चतन्मात्राणि सप्त प्रकृतिविकृतयः / महानहङ्कारस्य प्रकृतिर्मूलप्रकृतेर्विकृतिः / अहङ्कारो ऽपि तामसस्तन्मात्राणां प्रकृतिः / सात्त्विकस्त्वेकादशेन्द्रियाणां तन्मात्राण्याकाशादीनां स्थूलानां प्रकृतयः / पञ्चभूतान्येकादशेन्द्रियाणि षोडशको गणो विकार एव / पृथिव्यादीनां घटादिप्रकृतित्वे ऽपि तत्त्वान्तराप्रकृतित्वाद्विकृतय एव / पुरुषस्तु कौटस्थ्यात्प्रकृतिविकृतित्वविरहीत्यर्थः / भेदो विशेषणम् / अतिरेक आधिक्यम् / उक्तदोषः संख्याधिक्यम् /
SK
न संख्योपसंग्रहात् / पञ्चजनशब्दः सांख्यतत्त्वपरो ऽन्यपरो वेति योगरूढ्योरनिश्चयात् संशये यथा तत्त्वविद्याधिकारे छागायां तात्पर्याभावादजापदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्पर्याभावात्पञ्चजनशब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्याणीतिदृष्टान्तसंगतिं सूचयन् मन्त्रमुदाहृत्य पूर्वपक्षयति-एवमित्यादिना / फलं पूर्ववत् / प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च / तत्र चत्वारः सूत्रं अन्नं विराट् तयोः कारणमव्याकृतमाकाशश्च यस्मिन्नध्यस्तास्तमेवात्मानममृतं ब्रह्म मन्ये / तस्मान्मननात् विद्वानहममृतो ऽस्मीति मन्त्रदृशो वचनम् / नन्वस्तु पञ्चत्वशिष्टेषु पञ्चजनेषु पुनः पञ्चत्वान्वयात् पञ्चविंशतिसंख्याप्रतीतिः, तावता कथं सांख्यतत्त्वग्रह इत्याशङ्क्य संख्याया धर्म्याकाङ्क्षायां तत्त्वानि ग्राह्याणीत्याह-तथेति / जगतो मूलभूता प्रकृतिस्त्रिगुणात्मकं प्रधानमनादित्वादविकृतिः / कस्यचित्कार्यं न भवतीत्यर्थः / महदहङ्कारपञ्चतन्मत्रणीति सप्त प्रकृतयो विकृतयश्च / तत्र महान्प्रधानस्य विकृतिरहङ्कारस्य प्रकृतिः / अहङ्कारस्तामसः पञ्चतन्मात्राणां शब्दादीनां प्रकृतिः, सात्त्विक एकादशेन्द्रियाणाम् / पञ्च तन्मात्राश्च पञ्चानां स्थूलभूतानामाकाशादीनां प्रकृतयः पञ्च स्थूलभूतान्येकादशेन्द्रियाणि चेति षोडशसंख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरोपादानत्वाभावात् / पुरुषस्तूदासीन इति सांख्यकारिकार्थः / संख्यया तत्त्वानामुपसंहग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति-नेति / नानात्वमिष्टमित्यत आह-नैषामिति / पञ्च्सु पञ्चसु साधारणस्येतरपञ्चकाद्ध्यावृत्तस्य धर्मस्याभावो ऽत्र नानात्वं विवक्षितमित्यर्थः / यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वये ऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च / अस्मिन् पञ्चकद्वये मिथो ऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः / मास्त्वित्यत आह-येनेति / धर्मेणेत्यर्थः / तदेत स्फुटयति-नहीति / महासांख्यायामवान्तरसंख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयो ऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्तिः / नान्यथेत्यर्थः / पञ्चशब्दद्वयेन स्ववाच्यन्यूनसंख्याद्वारेण तद्व्याप्या महासंख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते-अथेति / मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति-तदपि नेति / पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसंख्याप्रतीनिर्निरस्ता / संप्रति समासनिश्चयान्न तत्प्रतीरित्याह-परश्चेति / समासे हेतुमाह-पारिभाषिकेणेति / अयमर्थः-अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः / द्वितीयः सर्वानुदात्तः / जनशब्दश्चान्तोदात्तः / तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते ऽसमासस्यऽइति सूत्रेण समासस्यान्तोदात्तविधानात् / ऽअनुदात्तं पदमेकवर्जम्ऽइति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्रह्मणस्वरविधायकग्रन्थे ऽस्वरितो ऽनुदात्तो वाऽइति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः / तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्रह्मणावस्थायां प्राप्तं, ऽउदात्तमनुदात्तमन्त्यम्ऽइति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितं, तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानो ऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति / प्रकटार्थकारैस्तु पाठकप्रसिद्धो ऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् / तद्व्याख्यानं कल्पतरूकारैर्दूषितम् / अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति / तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नस्वर इति विभागः / उभयथाप्यैकपद्यात् समाससिद्धिरिति /
SK
तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह-प्रयोगान्तरे चेति / आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः / देवतानां कर्मणि यन्त्रदवस्थितं शरीरं तदेव धर्त्रं इहामित्रभोगाधारं, तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः / अस्तु समासस्ततः किमित्यत आह-समत्तत्वाच्चेति / आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसंख्याप्रतीतिरसिद्धेति भावः / जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः / किञ्चासमासपक्षे ऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः / नाद्य इत्याह-नच पञ्चसंख्याया इति / विशेषणमन्वयः / अनन्वये हेतुमाह-उपसर्जनस्येति / अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः / गुणानां परस्परान्वयो वाक्यभेदापातादित्यर्थः / द्वितीये दशसंख्याप्रतीतिः स्यान्न पञ्चविंशतिसंख्याप्रतीतिः / तृतीयमुत्थापयति-नन्विति / पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वे ऽपि पञ्चत्वान्वयात् पञ्चविंशतित्वप्रतीतिरित्यर्थः / दृष्टान्तवैषम्येण परिहरति-नेति ब्रूम इति / पञ्चानां पूलानां समाहारा इत्यत्र ऽसंख्यापूर्वो द्विगुःऽइति समासो विहितः / ततो ऽद्विगोःऽइति सूत्रेण ङीपो विधानात् समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः / पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्संख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति / आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः / भेदो विशेषणम् / ननु जनानां निराकाङ्क्षत्वे ऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते-भवदपीति / नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जन्यायविरोध उक्त इति परिहरति-तत्र चेति / एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे-अतिरेकाच्चेत्यादिना / अतिरेक आधिक्यम् / जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा / नाद्य इत्युक्त्वा द्वितीये दोषमाह-अर्थान्तरेति / तथाकाशं विकल्प्य दूषयति-तथेति / उक्तो दोषः संख्याधिक्यम् / पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसंख्या स्यादित्यर्थः / नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम्, आकाशस्य पृथगुक्तिवैयर्थ्यात्, यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात्, ऽनेह नानास्तिऽइति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् / किं च पञ्चविंशतिसंख्याप्रतीतावपि न सांख्यतत्त्वानां ग्रहणमित्याह-कथं चेति / किं जनशब्दात्तत्त्वग्रहः उत संख्ययेति कथंशब्दार्थः / नाद्य इत्याह-जनेति / न द्वितीय इत्याह-अर्थान्तरेति / किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति-कथमिति / पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह-उच्यत इति /
SK
विग्वाचिनः संख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेतोत्तरपदेन समस्यन्ते / यथा दक्षिणाग्निः सप्तर्षय इत्यादि / अयं च समासस्तत्पुरुषभेदः
SK
END Bस्Cओम्_१,४.३.११
SK
START Bस्Cओम्_१,४.३.१२
SK
के पुनस्ते पञ्चजना नामेति, तदुच्यते-
SK
प्राणादयो वाक्यशेषात् | BBस्_१,४.१२ |
SK
ऽयस्मिनपञ्च पञ्चजनाःऽ इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः - ऽप्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुःऽ इति / ते ऽत्र वाक्यशेषगताः संनिधानात्पञ्चजना विवक्ष्यन्ते / कथं पुनः प्राणादिषु जनशब्दप्रयोगः / तत्त्वेषु वा कथं जनशब्दप्रयोगः / समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्पहीतव्या भवन्ति / जनसंबन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति / जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः ऽते वा एते पञ्च ब्रह्मपुरुषाःऽ (छा. ३.१३.६) इत्यत्र / ऽप्राणो ह पिता प्राणो ह माताऽ (छा.७.१५.१) इत्यादि च ब्राह्मणम् / समासबलाच्च मसुदायस्य रूढत्वमविरुद्धम् / कथं पुनरसति प्रथम्प्रयोगे रूढिः शक्याश्रयितुम् / शक्योद्भिदादिवदित्याह / प्रसिद्धार्थसंनिधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते, यथा ऽउद्भिदा यजेतऽ ऽयूपं छिनत्तिऽ ऽवेदिं करोतिऽ इति / तथायमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते / कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः / अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः / क्वचिच्च ऽयत्पाञ्चजन्यया विशाऽ (ऋ.सं. ८.५३.७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते / तत्परिग्पहे ऽपीह न कश्चिद्वरोधः / आचार्यस्तु न पञ्चविशतेस्तत्त्वानमिह प्रतीतिरस्तीत्येवंपरतया ऽप्राणादयो वाक्यशेषात्ऽ इति जगाद
SK
FN: उतशब्दोषप्यर्थः / ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः / जनवाचकः शब्दो जनशब्दः पञ्चजनशब्द इति यावत् / शूद्रायां ब्राह्मणाज्जातो निषादः /
SK
पञ्चजनशब्दस्य संज्ञात्वमुक्त्वा संज्ञिकथनार्थं सूत्रं गृह्णाति-के पुनस्त इति / श्रुतौ उतशब्दो ऽप्यर्थः / ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः / पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते-कथं पुनरिति / यथा तव तत्त्वेषु जनशब्दस्य लक्षणय प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह-तत्त्वेष्विति / तर्हि रूढ्यतिक्रमसाम्यात्तत्त्वान्येव ग्राह्याणीत्यत आह-समाने त्विति / संनिहितसजातीयानपेक्षश्रुतिस्था एव ग्राह्याः / न तु व्यवहितविजातीयसापेक्षस्मृतिस्था इत्यर्थः / लक्षणाबीजं संबन्धमाह-जनेति / जनः पञ्चजन इति पर्यायः / पुरुषमित्रादिशब्दवच्च पञ्चजनशब्दस्य प्राणादिलक्षकत्वं युक्तमित्याह-जनवचनश्चेति / ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसंभवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह-समासेति / यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्यर्थः / पूर्वकालिकप्रयोगाभावान्न रूढिरित्याक्षिपति-कथमिति / ऽस्युः पुमांसः पञ्चजनाःऽइत्यमरकोशादौ प्रयोगो ऽस्त्येव, तदभावमङ्गीकृत्याप्याह-शक्येति / जनसंबन्धाच्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता / इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् / संगृहीतं विवृणोति-प्रसिद्धेत्यादिना / ऽउद्भिदा यजेत पशुकामःऽइत्यत्रोद्भित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्भित्पदस्य प्रसिद्धेर्यागनामत्वे प्रसिद्धिविरोधाज्ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तः-यजेत यागेनेष्टं भावयेदित्यर्थः / ततश्टोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसिद्धेरविरोधादपेरकृतज्योतिष्टोमे गुणविध्ययोगात्, तद्विधौ चोद्भिदाख्यगुणवता यागेनेति मत्वर्थसंबन्धलक्षणाप्रसङ्गाच्चेति कर्मनामैवोद्भित्पदम् / तथा छिनत्तीति प्रसिद्धार्थच्छेदनयोग्यार्थकशब्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः करोतीति समभिव्याहाराद्वेदिशब्दार्थः संस्कारयोग्यस्थण्डिलविशेष इति गम्यते / तथा प्रसिद्धार्तकप्राणादिशब्दसमभिव्याहारात् पञ्चजनशब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः / एकदेशिनां मतद्वयमाह-कैश्चिदित्यादिना / शूद्रायां ब्राह्मणाज्जातो निषादः / श्रुत्या पञ्चजनशब्दस्यार्थान्तरमाह-क्वचिच्चेति / पाञ्चजन्यया प्रजया विशतीति विट् तया विशापुरुषरूपयेन्द्रस्याह्वानार्थं घोषाः सृष्टा इति यत्तद्युक्तं, घोषातिरेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहे ऽपि न विरोध इत्यर्थः / सूत्रविरोधमाशङ्क्याह-आचार्यस्त्विति /
SK
अतः सांख्यतत्त्वातिरिक्तयत्किञ्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः
SK
END Bस्Cओम्_१,४.३.१२
SK
START Bस्Cओम्_१,४.३.१३
SK
भवेयुस्तावत्प्राणादयः पञ्चजना माध्यन्दिनानां ये ऽन्नं प्राणादिष्वामनन्ति / काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुर्ये ऽन्नं प्राणादिषु नामनन्तीति / अत उत्तरं पठति-
SK
ज्योतिषैकेषाम् असत्यन्ने | BBस्_१,४.१३ |
SK
असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत / ते ऽपि हि ऽयस्मिन्पञ्च पञ्चजनाः इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते- ऽतद्देवा ज्योतिषां ज्योतिःऽ इति / कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्ग्रृह्यते केषाञ्चिन्नेति / अपेक्षाभेदादित्याह / माध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्वपेक्षा भवति / तदलाभात्तु काण्वानां भवत्यपेक्षा / अपेक्षाभेदाच्च समाने ऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे / यथा समाने ऽप्यतिरात्रे वचनभेदात्षोडषिनो ग्रहणाग्रहणे तद्वत् / तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति / स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते
SK
FN: अत्र षोडशिग्रहणाग्रहणवद्वाक्यभेदाज्ज्योतिषो विकल्पः /
SK
शङ्कोत्तरत्वेन सूत्रं गृह्णाति-भवेयुरिति / ज्योतिषां सूर्यादीनां ज्योतिस्तद्ब्रह्म देवा उपासत इत्यर्थः / नन्विदं षष्ठ्यन्तज्योतिःपदोक्तं सूर्यादिकं ज्योतिः शाखाद्वये ऽप्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते-कथं पुनरिति / आकाङ्क्षाविशेषाद्विकल्पो युक्त इत्याह सिद्धान्ती-अपेक्षेति / यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्यभेदाद्विकल्पस्तद्वच्छाखाभेदेनान्नपाठापाठाभ्यां ज्योतिषो विकल्प इत्यर्थः / ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् / सत्यम् / अत्रापि शाखामेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रतिष्ठितास्तन्मनसानुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरित्यनवद्यम् / उक्तं प्रधानस्याशब्दत्वमुपसंहरति-तदेवमिति / तथापि स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह-स्मृतीति
SK
END Bस्Cओम्_१,४.३.१३
SK
START Bस्Cओम्_१,४.४.१४
SK
४ कारणत्वाधिकरणम्. सू. १४-१५
SK
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः | BBस्_१,४.१४ |
SK
प्रतिपादितं ब्रह्मणो लक्षणम् / प्रतिपादितं च ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम् / प्रतिपादितं च प्रधानस्याशब्दत्वम् / तत्रेदमपरमाशङ्कते- न जन्मादिकरणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपत्तुं शक्यम् / कस्मात् / विगानदर्शनात् / प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवैचित्र्यात् / तथाहि- क्वचित् ऽआत्मन आकाशः संभूतःऽ (तै. २.१) इत्याकाशादिकासृष्टराम्नायते / क्वचित्तेजादिका- ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इति / क्वचित्प्राणादिका- ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्र. ६.४) इति क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते- स इमांल्लोकानसृजत / अम्भो मरीचीर्मरमापः (ऐ. उ. ४.२.१) इति / तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते- ऽअसद्वा इदमग्र आसीत्ततो वै सदाजयतऽ (तै. २.७) इति / असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत् (छा. ३.१९.१) इति च / क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते- ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इत्युपक्रम्य ऽकुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत्ऽ (छा. ६.२.१,२) इति / क्वचित्स्वयङ्कर्तृकैव व्याक्रिया जगतो निगद्यते- ऽतद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतऽ (बृ. १.४.७) इति / एवमनेकधा विप्रतिपत्तिर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या / स्मृतिन्यायप्रसिद्धायां तु कारणान्तरपरिग्रहो न्याय्य इति / एवं प्राप्ते ब्रूमः - सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने न स्रष्टरि किञ्चिद्विगानमस्ति / कुतः / यथा व्यपदिष्टोक्तेः / यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैको ऽद्वितीयः कारणत्वेन व्यपदिष्टस्तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते / तद्यथा- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै.२.१) इति / अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयदपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् / तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरंपरया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् / ऽबहु स्या प्रजायेयऽ(तै. २.६) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत / तथा ऽइदं सर्वमसृजत यदिदं किञ्चऽ (तै.२.६) इति समस्तजगत्सृष्टिनिर्देशेन प्राख्सृष्टेरद्वितीयं स्रष्टारमाचष्टे / तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं तल्लक्षणमेवान्यत्रापि विज्ञायते- ऽसदेव सेम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ ऽतदैक्षत बहु स्यां प्रजायेयेति / तत्तेजो ऽसृजतऽ (छा. ६.२.१,३) इति / तथा ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यकिञ्चन मिषत् / स ईक्षत लोकान्नु सृजैऽ (ऐ.उ. ४.१.१,२) इति च / एवञ्जातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् / कार्यविषयं तु विगानं दृश्यते क्वचिदाकाशादिका सृष्टिः क्वचित्तेजादिकेत्येवञ्जातीयकम् / नच कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् / अतिप्रसङ्गात् / समाधस्यति चाचार्यः कार्यविषयमपि विगानं ऽन वियदश्रुतेःऽ (ब्र.सू. २.३.१) इत्यारभ्य भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् / नह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपादयिषितः / नहि तत्प्रतिबद्धः क्वचित्पुरुषार्थो दृश्यते श्रूयते वा / नच कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात् / दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम्- ऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजो मुलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छऽ (छा.६.८.४) इति / मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यते / तथाच संप्रदायविदो वदन्ति- ऽमृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा / उपायः सो ऽवताराय नास्ति भेदः कथञ्चन //
SK
ऽ (माण्डू. ३.१५) इति / ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते- ऽब्रह्मविदाप्नोति परम्ऽ (तै. २.१) ऽतरति शोकमात्मवित्ऽ (छा. ७.१.३) ऽतमेव विदित्वातिमृत्युमेतिऽऽ (श्वं. ३.८) इति / प्रत्यक्षावगमं चेदं फलम् / ऽतत्त्वमसिऽ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः
SK
FN: आदिग्रहणादक्रमो ऽपि गृह्यते / अंमयशरीरप्रचुरस्वर्गलोको ऽम्भःशब्दार्थः / सूर्यरश्मिव्याप्तो ऽन्तरिक्षलोको मरीचयः / मरो मरणधर्मा मर्त्यः / अब्बहुलाः पाताललोक आप इति श्रुत्यर्थः / प्रक्रिया सृष्टिः / तत् तत्र कारणे / एके बाह्याः / तद्विषयेण ब्रह्मविषयेण / मिषत् सव्यापारम् / अविरुद्धार्थकत्वात् / शुङ्गेन कार्येण / अन्यथान्यथेति वीप्सा द्रष्टव्या / अवताराय ब्रह्मधीजन्मने / अतस्तदन्यथात्वे ऽपि ब्रह्मणि न भेदः / ज्ञेये विगानं न /
SK
कारणत्वेन चाकाशादिषु तथव्यपदिष्टोक्तेः / पूर्वग्रन्थेनास्य संगतिं वक्तुं वृत्तमनुवदति-प्रतिपादितमिति / अधिकरणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्वसूत्रसंदर्भेण / तत्र लक्षणसमन्वययोरसिद्धिरेव, श्रुतीनां विरोधदर्शनादित्याक्षेपरूपां तेनास्य संगतिमाह-तत्रेति / न चाविरोधचिन्ताया द्वितीयाध्याये संगतिर्नास्मिन्नध्याय इति वाच्यं, सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थत्वात्, तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्वाच्यार्थानिर्णयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अत्रैव संगतत्वात् / न चैवं सृष्टिश्रुतीनामप्यविरोधो ऽत्रैव चिन्तनीय इति वाच्यम्, स्वप्नवत्कल्पितसृष्टौ विरोधस्यैवाभावात् / किमर्थं तर्हि द्वितीये तच्चिन्तनं, स्थूलबुद्धिसमाधानार्थमिति ब्रूमः / इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिह्रियते / तद्यपि त्वंपदार्थश्रुतिविरोधो ऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्धमिथ्यात्वसूचनादविरोधः सिद्धः / प्रपञ्चस्तु स्थूलबुद्धिसमाधनप्रसङ्गेन भविष्यतीति मन्यते सूत्रकारः / अत्र जगत्कारणश्रुतयो विषयः / ताः किं ब्रह्मणि मानं न वेति संशये ऽन्नज्योतिषोः संख्यादृष्टिक्रियायां विकल्पे ऽपि कारणे वस्तुन्यसद्वा सद्वा कारणमित्यादिविकल्पासंभवादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति-प्रतिवेदान्तमित्यादिना / वेदान्तानां समन्वयसाधनाच्छ्रुत्यध्यायसंगतिः / असदादिपदानां सत्कारणे समन्वयोक्तेः पादसंगतिः / पूर्वपक्षे समन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः / क्रमाक्रमाभ्यां सृष्टिविरोधं तावद्दर्शयति-तथाहि क्वचिदित्यादिना / स परमात्मा लोकानसृजत / अंमयशरीरप्रचुरस्वर्गलोको ऽम्भः शब्दार्थः / सूर्यरश्मिमव्याप्तो ऽन्तरिक्षलोको मरीचयः / मरो मर्त्यलोकः / अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः /
SK
सृष्टिविरोधमुक्त्वा कारणविरोधमाह-तथेति / असदनभिव्यक्तनामरूपात्मकं कारणं, ततः कारणात्सदभिव्यक्तम् / एतत्तुल्यार्थं छान्दोग्यवाक्यमाह-असदेवेति / किं शून्यमेव, नेत्याह-तत्सदिति / अबाधितं ब्रह्मैवासीदित्यर्थः / तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्यगभिव्यक्तमभवत् / प्रक्रिया सृष्टिः / तत्तत्र कारणे / एके बाह्याः / तेषां मतं श्रुतिरेव दूषयति-कुत इति / कुत एवंपदयोरर्थमाह-कथमिति / स्वतमाह-सदिति / तदिदं जगद्ध किल तर्हि प्राक्काले ऽव्याकृतं कारणात्मकामासीत् / श्रुतीनां विरोधमुपसंहरति-एवमिति / किमत्र न्याय्यमित्याशङ्क्य मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह-स्मृतीति / तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति-सत्यपीति / आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह-कुत इति / यथाभूतत्वमेवाह-सर्वज्ञ इति / कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह-तद्यथेत्यादिना / तद्विषयेण ब्रह्मविषयेण / चेतनं सर्वज्ञम् / ऽतदात्मानं स्वयमकुरुतऽइति श्रुतेरपरप्रयोज्यत्वम् / ऽतस्माद्वा एतस्मादात्मनःऽइति प्रत्यगात्मत्वम् / स्वस्य बहुरूपत्वकामनया स्थितिकाले ऽप्यद्वितीयत्वम् / यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह-तदत्र यल्लक्षणमिति / मिषत्सव्यापारम् / अविगीतार्थत्वादविरुद्धार्थकत्वात् कारणे नास्ति विप्रतिपत्तिरिति शेषः / तथापि कार्ये विरोधात्कारणे ऽपि विरोधः स्यादित्याशङ्क्य निषेधति-कार्यविषयं त्वित्यादिना / स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सो ऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह-अतिप्रसङ्गादिति / सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् / अधुनाङ्गीकारं ज्यजति-समाधास्यति चेति / किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह-भवेदित्यादिना / अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति-नहीति / फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसंभवान्न स्वार्थे पृथक्फलं कल्प्यं, वाक्यभेदापत्तेरित्याह-नच कल्पयितुमिति / न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह-दर्शयति चेति / शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तमाह-मृदादीति / एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह-तथाचेति / अन्यथान्यथेति वीप्सा द्रष्टव्या / अवताराय ब्रह्माधिजन्मने / अतस्तदन्यथात्वे ऽपि ब्रह्मणि न भेदः / ज्ञेये न विगानमित्यर्थः / ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तं, तन्निर्वाहाय तस्य फलमाह-ब्रह्मेति /
SK
मृत्युमत्येतीत्यन्वयः
SK
END Bस्Cओम्_१,४.४.१४
SK
START Bस्Cओम्_१,४.४.१५
SK
यत्पुनः कारणविषयं विगानं दर्शितम्- ऽअसद्वा इदमग्र आसीत्ऽ इत्यादि तत्परिहर्तव्यम् / अत्रोच्यते-
SK
समाकर्षात् | BBस्_१,४.१५ |
SK
ऽअसद्वा इदमग्र आसीत्ऽ (तै. २.७) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते / यतः ऽअसन्नेव स भवति / असद्ब्रह्मेति वेद चेत् / अस्ति ब्रह्मेति चेद्वेद / सन्तमेनं ततो विदुःऽ इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य ऽसो ऽकामयतऽ इति तमेव प्रकृतं समाकृष्य सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा ऽतत्सत्यमित्याचक्षतेऽ इति चोपसंहृत्य ऽतदप्येष श्लोको भवतिऽ इति तस्मिन्नेव प्रकृतेर्ऽथे श्लोकमिममुदाहरति- ऽअसद्वा इदमग्र आसीत्ऽ इति / यदि त्वसन्निरात्मकमस्मिञ्छ्लोके ऽभिप्रेयेत ततो ऽन्यसमाकर्षणे ऽन्यस्योदाहरणादसंबद्धं वाक्यमापद्येत / तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते / एषैव ऽअसदेवेदमग्र आसीत्ऽ (छा. ३.१९.१) इत्यत्रापि योजना / ऽतत्सदासीत्ऽ इति समाकर्षणात् / अत्यन्ताभावाभ्युपगमे हि तत्सदासीदिति किं समाकृष्येत / ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ (छा. ६.२.१) इत्यत्रापि न श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः / क्रियायामिव वस्तुनि विकल्पस्यासंभवात् / तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम् / ऽतद्धेदं तर्ह्यव्याकृतमासीत्ऽ (बृ. १.४.७) इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात् / निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत / चेतनस्य चायामात्मनः शरीरे ऽनुप्रवेशः श्रूयते / प्रविष्टस्य चेतनत्वश्रवणात् ऽपश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनःऽ इति / अपिच यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियत एवमादिसर्गे ऽपीति गम्यते / दृष्टविपरीतकल्पनानुपपत्तेः / श्रुत्यन्तरमपि ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६. ३.२) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति / व्याक्रियत इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः / यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि / यद्वा कर्मण्येवैष लकारोर्ऽथाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यः / यथा गम्यते ग्राम इति
SK
FN: तत् तत्र ब्रह्मणि / श्लोको मन्त्रः / अध्यक्षः कर्ता / चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यते / अद्यत्वे इदानीम् /
SK
एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छ्रुतिविरोधनिरासार्थं सूत्रमादत्ते-यत्पुनरिति / यतो ऽस्तित्वलक्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतो ऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना / तत् तत्र सदात्मनि श्लोको मन्त्रो भवति / सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन ब्रह्म लक्ष्यत इत्याह-तस्मादिति / नच प्रधानमेव लक्ष्यतामिति वाच्यम् / चेतनार्थकब्रह्मादिशब्दानामनेकेषां लक्षणागौरवादिति भावः / तैत्तिरीयकश्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति-एषैवेति / सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थः / नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवद्विकल्पस्य दर्शितत्वादित्यत आह-तद्धैक इति / एके शाखिन इत्यर्थो न भवति, किन्तु अनादिसंसारचक्रस्था वेदबाह्या इत्यर्थः / शून्यनिरासेन श्रुतिभिः सद्वादस्यैवेष्टत्वात्तासां विरोधस्फूर्तिनिरासाय लक्षणा युक्तेति भावः / यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह-तद्धेदमिति / अध्यक्षः कर्ता / ननु कर्त्रभाव एव परामृश्यत इत्यत आह-चेतनस्य चायमिति / चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः / आद्यकार्यं सकर्तृकं, कार्यत्वात्, घटवदित्याह-अपिचेति / अद्यत्वे इदानीम् / ननु कर्मकारकादन्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह-व्याक्रियत इति /
SK
अनायासेन सिद्धिमपेक्ष्य कर्मणः / कर्तृत्वमुपचर्यत इत्यर्थः / व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केनचिद्व्याकृतमिति व्याचष्टे-यद्वेति /
SK
अतः श्रुतीनामविरोधात्कारणद्वारा समन्वय इति सिद्धम्
SK
END Bस्Cओम्_१,४.४.१५
SK
START Bस्Cओम्_१,४.५.१६
SK
५ बालक्याधिकरणम् / सू. १६-१८
SK
जगद्वाचित्वात् | BBस्_१,४.१६ |
SK
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते- ऽयो वै बालाक एतेषां कर्ता यस्य वै तत्कर्म स वेदितव्यःऽ (कौ. ब्रा. ४.१९) इति / तत्र किं जीवो वेदितव्यत्वेनोपदिश्यत उत मुख्यः प्राण उत परमात्मेति विशयः / किं तावत्प्राप्तम् / प्राण इति / कुतः / ऽयस्य वैतत्कर्मऽ इति श्रवणात् / परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् / वाक्यशेषे च ऽअथास्मिन्प्राण एवैकधा भवतिऽ इति प्राणशब्ददर्शनात् / प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् / ये चैते पुरस्ताद्धालाकिना ऽआदित्ये पुरुषश्चन्द्रमसि पुरुषःऽ इत्येवमादयः पुरुषा निर्दिष्टास्तेषामपि भवति प्राणः कर्ता प्राणावस्थाविशेषत्वादित्यादिदेवतात्मनाम् / ऽकतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते (बृ. ३.९.९) इति श्रुत्यन्तरप्रसिद्धेः / जीवो वायमिह वेदितव्यतयोपदिश्यते / तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् ऽयस्य वैतत्कर्मऽ इति / सो ऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यते / वाक्यशेषे च जीवलिङ्गमवगम्यते / यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थानात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति / तथा परस्तादपि जीवलिङ्गमवगम्यते- ऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिन भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्तिऽ (कौ. ब्रा. ४.२०) इति / प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् / तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयो न परमेश्वरः, तल्लिङ्गानवगमादिति / एवं प्राप्ते ब्रूमः - परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् / कस्मात् / उपक्रमसामर्थ्यात् / इह हि बालाकिरजातशत्रुणा सह ऽब्रह्म ते ब्रवाणिऽ इति संवदितुमुपचक्रमे / स च कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूव / तमजातशत्रुः ऽमृषा वै खलु मा संवदिष्टा ब्रह्म ते ब्रवाणिऽ इत्यमुख्य ब्रह्मवादितयापोद्य तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप / यदि सो ऽप्यमुख्यब्रह्मदृष्टिभाक् स्यादुपक्रमो बाध्येत / तस्मात्परमेश्वर एवायं भवितुमर्हति / कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते / ऽयस्य वैतत्कर्मऽ इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः / तयोरन्यतरस्याप्यप्रकृतत्वात् / असंशब्दितत्वाच्च / नापि पुरुषाणामयं निर्देशः / एतेषां पुरुषाणां कर्तेत्येव तेषां निर्दिष्टत्वात् / लिङ्गवचनविगानाच्च नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरपपात्तत्वात् / पारिशेष्यात्प्रत्यक्षसंनिहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते / क्रियत इति च तदैव जगत्कर्म /
SK
ननु जगदप्यप्रकृतमसंशब्दितं च /
SK
सत्यमेतत् / तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिधानेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते न विशिष्टस्य कस्यचित् / विशेषसंनिधानाभावात् / पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानदविशेषितं जगदेवेहोपादीयत इति गम्यते / एतदुक्तं भवति- य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता, किमनेन विशेषेण, यस्य कृत्स्नमेव जगदविशेषितं कर्मेति / वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः / ये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तितास्तेषामब्रह्मत्वख्यापनाय विशेषोपादानम् / एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते / परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः
SK
FN: एतज्जगद्यस्य कर्म / क्रियत इति व्युत्पत्त्या कार्यमित्यर्थः / स प्राणः / त्यत् परोक्षम् / यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना / ब्राह्मण भोजयितव्याः परिव्राजकश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणवत् /
SK
जगद्वाचित्वात् / विषयमाह-कौषीतकीति / बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच-यो वा इति / न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह-यस्येति / एतज्जगद्यस्य कर्म / क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः / कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह-तत्रेति / पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः / इह तु वाक्यभेदात् ऽब्रह्म ते ब्रवाणिऽइति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमाशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह--किं तावदिति / पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् / अथ सुषुप्तौ / द्रष्टेति शेषः / श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह-ये चैत इति / सूत्रात्मकप्राणस्य विकारः सूर्यादय इत्यत्र मानमाह-क्रतम इति / यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितं, अतः सर्वदेवात्मकत्वात्, स प्राणो ब्रह्म / त्यत् परोक्षम् / शास्त्रैकवेद्यत्वादित्यर्थः / पूर्वपक्षान्तरमाह-जीवो वेति / यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना / तौ ह पुरुषं सुप्तमाजग्मतुः / तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य संबोध्य संबोधनानभिज्ञत्वात् प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः / श्रोष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवो ऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् / ननु ऽप्राण एवैकधा भवतिऽइति श्रुतः प्राणशब्दो जीवे कथमित्यत आह-प्राणभृत्त्वाच्चेति / सूत्राद्बहिरेव सिद्धान्तयति-एवमिति / स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः / त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञो ऽपि मृषावादित्वप्रसङ्गादित्याह-यदि सो ऽपीति / वेदितव्यो ऽपीत्यर्थः / मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गं, प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह-कर्तृत्वं चेति / यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह-यस्येति / अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् / अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात् क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः / एतकर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह-नापीति / पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाचेत्यर्थः /
SK
ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थं उत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दो ऽस्त्वित्यत आह-नापीति / कर्तृशब्देनेति / क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः / जगतो ऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति-सत्यमिति / प्रकरणादिकं हि सर्वनाम्नः संकोचकं, तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते / अत्र च संकोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह-तथापीति / किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह-पूर्वत्रेति / जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह-एतदुक्तमिति / स वेदितव्य इति संबन्धः / पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः / ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्रह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह-एवमिति / अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह-परमेश्वरेति
SK
END Bस्Cओम्_१,४.५.१६
SK
START Bस्Cओम्_१,४.५.१७
SK
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् | BBस्_१,४.१७ |
SK
अत यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति /
SK
तत्परिहर्तव्यम् / यत्रोच्यते- परिहृतं चैतत् ऽनोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्ऽ (ब्र. सू. १.१.३१) इत्यत्र / त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्ज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति / न चैतन्न्याय्यम् / उपक्रमोपसंहाराभ्यां हि ब्रह्विषयत्वमस्य वाक्यस्यावगम्यते / तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम् / उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते- ऽसर्वान्पाप्मनो ऽपहृत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेदऽ इति /
SK
नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत / न निर्णीयते / ऽयस्य चैतत्कर्मऽ इत्यस्य ब्रह्मविषयत्वेन तत्रानिर्धारितत्वात् / तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निर्वर्त्यते / प्राणशब्दो ऽपि ब्रह्मविषयो दृष्टः ऽप्राणबन्धनं हि सोम्य मनःऽ (छा. ६.८.२) इत्यत्र / जीलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम्
SK
FN: श्रैष्ठ्यं गुणाधिक्यम्, आधिपत्यं नियनितृत्वम्, स्वाराज्यमनियम्यत्वमिति भेदः /
SK
सिद्धान्तमुक्त्वा पूर्वपक्षबीजमनूद्य दूषयति-जीवमुख्यप्राणलिङ्गादिति / उक्तमेव स्मारयति-त्रिविधमिति / श्रैष्ठ्यं गुणाधिक्यम्, आदिपत्यं नियन्तृत्वम् / स्वाराज्यमनियम्यत्वमिति भेदः / ऽसंभवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यतेऽइत्युक्तं चेत् पुनरुक्तिः स्यादिति शङ्कते-नन्वेवमिति / कर्मपदस्य रूढ्या पूर्वपक्षप्राप्तौ तन्निरासार्थमस्यारम्भो युक्त इत्याह-नेत्यादिना / प्राणशब्दजीवलिङ्गयोर्गतिमाह-प्राणशब्दो ऽपीति /
SK
मनो जीवः
SK
END Bस्Cओम्_१,४.५.१७
SK
START Bस्Cओम्_१,४.५.१८
SK
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके | BBस्_१,४.१८ |
SK
अपिच नैवात्र विवदितव्यं जीवप्रधानं वेदं वाक्यं स्याद्ब्रह्मप्रधानं वेति / यतो ऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यन्ते / कस्मात् / प्रश्नव्याख्यानाभ्याम् /
SK
प्रश्नस्तावत्सुषुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते- ऽक्वैष एतद्बालाके पुरुषो ऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्ऽ (कौ.ब्रा. ४.१९) इति / प्रतिवचनमपि ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ इत्यादि ऽएतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःऽ (कौ.ब्रा. ४.२०) इति च / सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति / परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा / तस्माद्यत्रास्य जीवस्य निःसंबोधतास्वच्छतारूपः स्वाप उपाधिजनितविशेषविज्ञानरहितं स्वरूपं, यतस्तद्धंशरूपमागमनं, सो ऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते / अपिचैवमेके शाखिनो वाजसनेयिनो ऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति- ऽय एष विज्ञानमयपुरुषः क्वैष तदाभूत्कुत एतदागात्ऽ (बृ. २.१.१६) इति प्रश्ने / प्रतिवचने ऽपि ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्शेतेऽ इति / आकाशशब्दश्च परमात्मनि प्रयुक्तः ऽदहरो ऽस्मिन्नन्तराकाशःऽ (छा. ८.१.१) इत्यत्र / ऽसर्व एत आत्मनो व्युच्चरन्तिऽ इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते / प्राणनराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशो ऽभ्युच्चयः
SK
FN: निःसंबोधता विशेषधीशून्यता / स्वच्छता विक्षेपमलशून्यत्वम् /
SK
जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् / इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह-अन्यार्थमिति / जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह-कैष इति / हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट / कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः / एकीभावाश्रयज्ञानार्थं पृच्छति-क्व वेति / एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः / केनैक्यं प्राप्नोतीति यावत् / उत्थानापादानं पृच्छति-कुत इति / एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः / प्रश्नमुक्त्वा व्याख्यानमाह-प्रतिवचनमिति / शयनभवनयोराधार उत्थानापादनं च प्राणाशब्दितं ब्रह्मैवेत्यर्थः / उत्तरे प्राणोक्तेः प्रश्नो ऽपि प्राणविशय इत्यत आह-सुषुप्तिकाले चेति / जगद्धेतुत्व जीवैक्याभ्यां प्राणो ऽत्र ब्रह्मेत्यर्थः / जीवोक्तेरन्यार्थत्वमुपसंहरति-तस्मादिति / निःसंबोधता विशेषधीशून्यता / स्वच्छता विक्षेपमलशून्यता / भेदभ्रान्तिशून्यता स्वरूपैक्यमाह-उपाधीति / प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह-अपि चैवमेके शाखिन इति / ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह-आकाशेति / उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह-सर्व इति / एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे-प्राणेति /
SK
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वागमात् / अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना / अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः / तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,४.५.१८
SK
START Bस्Cओम्_१,४.६.१९
SK
६ वाक्यान्वयाधिकरणम् / सू. १९-२२
SK
वाक्यान्वयात् | BBस्_१,४.१९ |
SK
बृहदारण्यके मैत्रेयीब्राह्मणे ऽधीयते- ऽन वा अरे पत्युः कामायऽ इत्युपक्रम्य ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ / (बृ. ४.५.६) इति, तत्रैतद्विचिकित्स्यते- किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यत आहोस्वित्परमात्मेति / कुतः पुनरेषा विचिकित्सा / प्रियसंसूचितेनात्मना भोकत्रोपक्रमाद्विज्ञानत्मोपदेश इति / किं तावत्प्राप्तम् / विज्ञानात्मोपदेश इति / कस्मात् / उपक्रमसामर्थ्यात् / पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगदात्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात् / मध्ये ऽपि ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मनं एवेदं द्रष्टव्यत्वं दर्शयति / तथा ऽविज्ञातारमरे केन विजानीयात्ऽ इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति / तस्मादात्मविज्ञानेन सर्वविज्ञानं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमिति / एवं प्राप्ते ब्रूमः परमात्मोपदेश एवायम् / कस्मात् / वाक्यान्वयात् / वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानंप्रति अन्वितावयवं लक्ष्यते / कथमिति, तदुपपाद्यते- ऽअमृतत्वस्य तु नाशास्ति वित्तेनऽ इति याज्ञवल्क्यादुपश्रुत्य ऽयेनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहिऽ इत्यमृतत्वमाशासानाय मैत्रेय्या याज्ञवल्क्य आत्मविज्ञानमिदमुपदिशति /
SK
नचान्यत्र परमात्मविज्ञानादमृत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति / तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते / नचैतदौपचारिकमाश्रयितुं शक्यं, यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति- ऽब्रह्म तं परादाद्यो ऽन्यत्रात्मनो ब्रह्म वेदऽ इत्यादिना / यो हि ब्रह्मक्षत्रादिकं जगदात्मनोन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति भेददृष्टिमपोद्य ऽइदं सर्वं यदयमात्माऽ इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति / दुन्दुभ्यादिदृष्टान्तैश्च (बृ. ४.५.८) तमेवाव्यतिरेकं द्रढयति / ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ ( बृ. ४.५.११) इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्चकारणतां व्याचक्षाणः परमात्मानमेनं गमयति / तथैवैकायनप्रक्रियायामपि (बृ. ४.५.१२) सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति / तस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते
SK
FN: इदं प्रत्यक् / महदपरिच्छिन्नम् / भूतं सत्यम् / अनन्तं नित्यम् / अपारं सर्वगतं चेदेकरसम् / विज्ञातारं विज्ञानकर्तारम् / न वित्तेन तत्साध्येन कर्मणेत्यर्थः / ऽनान्यः पन्थाऽ, ऽन कर्मणाऽ इत्यादयः श्रुतिवादाः / ऽज्ञानादेव तु कैवल्यंऽ इत्यादयः स्मृतिवादाः / पराकरोति श्रेयोमार्गान्द्भ्रंशयति / ऋग्वेदादिकं नाम, इष्टं हुतमिति कर्म, अयं च लोक इति रूपम् / प्रक्रिया प्रकरणम् /
SK
वाक्यान्वयात् / विषयवाक्यमाह-बृहदिति / प्रत्यादेरात्मशेषत्वेन प्रियत्वादात्मैव सर्विशेषी प्रियतमः, अतो ऽन्यत्परित्यज्यात्मैव द्रष्टव्यः / दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः / प्रियसंसूचितेनेति / पातिजायादिभिः / प्रियैर्भोग्यैर्जीवतयानुमितेनेत्यर्थः / यथा ऽब्रह्म ते ब्रवाणिऽइत्युपक्रमबलाद्वाक्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति-किं तावदिति / पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वं, सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलम् / इदं प्रत्यक् / महदपरिच्छिन्नम् / भूतं सत्यम् / अनन्तं नित्यम् / अपारं सर्वगतं चिदेकरसम् / एतेभ्यःकार्यकारणात्मना जायमानेभ्यो भूतेभयः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीयमानान्यनुसृत्य विनश्यति / औपाधिकमरणानन्तरं विशेषधीर्नास्तीति श्रुत्यर्थः / विज्ञातारंविज्ञानकर्तारम् / भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः / मोक्षसाधनज्ञानगम्यत्वादिलिङ्गैर्वाक्यस्यान्वयाद्ब्रह्मण्येव तात्पर्यावगमाद्ब्रह्मप्रमापकत्वमिति सिद्धान्तयति-एवमिति / न वित्तेन / तत्साध्येन कर्मणेत्यर्थः / भेदनिन्दापूर्वकमभेदसाधनेनैकविज्ञानात्सर्वविज्ञानस्य समर्थनादौपचारिकत्वं न युक्तमित्याह-न चैतदौपचारिकमित्यादिना / पराकरोति / श्रेयोमार्गाद्भ्रंशयति / यथा दुन्दुभिशङ्खवीणाशब्दसामान्यग्रहणेनैव गृह्यमाणास्तदवान्तरविशेषाः शुक्तिग्रहणग्राह्यरजतवत् सामान्ये कल्पितास्ततो न भिद्यन्ते, एवमात्मभानभास्यं सर्वमात्ममात्रमिति निश्चितमित्याह-दुन्दुभ्यादिति / एवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्ब्रह्मनिश्चयः / सर्वस्रष्टृत्वलिङ्गादपीत्याह-अस्यमहत इति / ऋग्वेदादिकं नाम / इष्टं हुतमिति कर्म / अयं च लोकः परश्च लोक इति रूपम् / किञ्च ऽस यथा सर्वासामपां समुद्र एकायनम्ऽइति कण्डिकया सर्वप्रपञ्चस्य मुख्यलयाधारत्वमात्मनो ब्रह्मत्वे लिङ्गमित्याह-तथैवैकायनेति
SK
END Bस्Cओम्_१,४.६.१९
SK
START Bस्Cओम्_१,४.६.२०
SK
यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः -
SK
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः | BBस्_१,४.२० |
SK
अस्त्यत्र प्रतिज्ञा ऽआत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतिऽ ऽइदं सर्वं यदयमात्माऽ इति च / तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसंकीर्तनम् / यदि हि विज्ञानात्मा परमात्मनो ऽन्यः स्यात्ततः परमात्मविज्ञाने ऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तद्धीयेत / तस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते
SK
जीवब्रह्मणोर्भेदाभेदसत्त्वादभेदाशेनेदं जीवोपक्रमणं प्रतिज्ञासाधकमित्याश्मरथ्यमतम्
SK
END Bस्Cओम्_१,४.६.२०
SK
START Bस्Cओम्_१,४.६.२१
SK
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः | BBस्_१,४.२१ |
SK
विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानासंप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते / श्रुतिश्चैवं भवति- ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ (छा. ८.१२.३) इति / क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति- ऽयथा नद्यः स्यन्दमानाः समुद्रे ऽस्तं गच्छन्ति नामरूपे विहाय / तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. ३.२.८) इति / यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्त्येवं जीवो ऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै
SK
FN: समुत्थानमुत्क्रान्तिः /
SK
सत्यसंसारदशायां भेद एव, मुक्तावेवाभेद इत्यौडुलोमिमतम् / तत्र मानमाह-श्रुतिश्चेति / समुत्थानमुत्क्रान्तिः / ननु संसारस्यौपाधिकत्वात् सर्वदैवाभेद इत्याशङ्क्य दृष्टान्तबलेन संसारस्य स्वाभाविकत्वमित्याह-क्वचिच्चेति /
SK
ऽयथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहायऽइति नदिनिदर्शनं व्याचष्टे-यथा लोके इति
SK
END Bस्Cओम्_१,४.६.२१
SK
START Bस्Cओम्_१,४.६.२२
SK
अवस्थितेर् इति काशकृत्स्नः | BBस्_१,४.२२ |
SK
अस्यैव परमात्मनो ऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते / तथाच ब्राह्मणम्- ऽअनेन जीवेनात्मनामुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२) इत्येवञ्जातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति / मन्त्रवर्णश्च- ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते (तै.आ. ३.१२.७) इत्येवञ्जातीयकाः / नच तेजः प्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः, श्रुता, येन परस्मादात्मनो ऽन्यस्तद्विकारो जीवः स्यात् / काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् /
SK
आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं, तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते / औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपादयिषितार्थानुसारात् ऽतत्त्वमसिऽ इत्यादिश्रुतिभ्यः / एवञ्च सति तज्ज्ञानादमृतत्वमवकल्पते / विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसंबन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतमवकल्पेत / अतश्च स्वाश्रयस्य नामरूपस्यासंभवादुपाध्याश्रयं नामरूपं जीव उपचर्यते / अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणोपाध्याश्रयैव वेदितव्या / यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापियमेव त्रिसूत्री योजयितव्या / ऽप्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यःऽ / इदमत्र प्रतिज्ञातम्- ऽआत्मनि विदिते सर्वं विदितं भवतिऽ ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६) इति च / उपपादितं च, सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् / तस्या एव प्रतिज्ञायाः सिद्धिं सूचत्येतल्लिङ्गं यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते / अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पयत इति / ऽउत्क्रमिष्यत एवंभावादित्यौडुलोमिःऽ / उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते / ऽअवस्थितेरिति काशकृत्स्नःऽ / अस्यैव परमात्मनो ऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते /
SK
ननूच्छेदाभिधानमेतत् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ (बृ. २.४.१२) इति, कथमेदभेदाभिधानम् /
SK
नैष दोषः / विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानं नात्मोच्छेदाभिप्रायम् / ऽअत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तिऽ इति पर्यनुयुज्य स्वयमेव श्रुत्यार्थान्तरस्य दर्शितत्वात्- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ इति / एतदुक्तं भवति- कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रसङ्गो ऽस्ति / मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति / संसर्गाभावे च प्रकृतस्य विशेषविज्ञानस्याभावान्न प्रेत्य संज्ञास्तीत्युक्तमिति / यदप्युक्तम्- ऽविज्ञातारमरे केन विजानीयात्ऽ इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहपणीयम् / अपिच ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ. २.४.१३) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषज्ञानं प्रपञ्च्य ऽयत्र त्वस्य सर्वामात्मैवाभूत्तत्केन कं पश्येत्ऽ इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति / पुनश्च विषयाभावे ऽपि आत्मानं विजानीयात् इत्याशङ्क्य ऽविज्ञातारमरे केन विजानीयात्ऽ इत्याह / ततश्च विशेषविज्ञानाभावोपपादानपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः संन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते / दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम् / अतश्च विज्ञानात्परमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिम् इत्तो भेदो न पारमार्थिक इत्येषोर्ऽथः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः / ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२),ऽ ब्रह्मैवेदं सर्वम्ऽ (मुण्ड. २.२.११), ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ
SK
(बृ. ३.७.२३), ऽनान्यदतो ऽस्ति द्रष्टृऽ (बृ. ३.८.११) इत्येवंरूपाभ्यः श्रुतिभ्यः / स्मृतिभ्यश्च ऽवासुदेवः सर्वमितिऽ (गी. ७.१९), ऽक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतऽ (गी. १३.२), ऽसमं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्ऽ (गी. १३.२७) इत्येवंरूपाभ्यः / भेददर्शनापवादाच्च ऽअन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुःऽ (बृ. १.४.१०), ऽमृत्योः स मृत्युमाप्नोति च इह नानेव पश्यतिऽ (बृ. ४.४.१९) इत्येवञ्जातीयकात् / ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४२५) इति चात्मनि सर्वविक्रियाप्रतिषेधात् / अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्च / निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते, ऽवेदान्तविज्ञानसुनुश्चितार्थाःऽ (मुण्ड. ३.२.६) इति च श्रुतेः / ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा. ७) इति च / श्थितप्रज्ञलक्षणस्मृतेश्च (गी. २.५४) / स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषय सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभैदात्, क्षेत्रज्ञो ऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवञ्जातीयक आत्मभैदविषयो निर्बन्धो निरर्थकः / एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति / नहि ऽसत्यं ज्ञानमन्तं ब्रह्म / यो वेद निहितं गुहायाम्ऽ (तै. २.१) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम् / नच ब्रह्मणो ऽन्यो गुहायां निहितो ऽस्ति, ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६) इति स्रष्टुरेव प्रवेशश्रवणात् / ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते / कृतकमनित्यं च मोक्षं कल्पयन्ति / न्यायेन च न संगच्छन्त इति
SK
FN: धीरो सर्वज्ञः / रूपाणि चराचराणि शरीराणि / विचित्य निर्माय तेषां नामानि कृत्वा तत्रानुप्रविश्याभिवदन्नभिवदनादि कुर्वन् / मोहं मोहकरं वाक्यम् / उच्छित्तिर्नाशस्तद्वान्न भवितीत्यनुच्छित्तिधर्मा / काञ्चित् जीवस्थानादन्याम् / ये तु आश्मरथ्यप्रभृतयः /
SK
सिद्धान्तमाह-अवस्थितेरिति / अत्यन्ताभेदज्ञापनार्थं जीवमुपक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः / एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमधिकरणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् / नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थं, ऽसुषुप्त्युत्क्रान्त्योःऽइत्यत्र गतत्वात् / अतो व्यर्थमिदमधिकरणमिति निरस्तम् / जीवोद्देशेन ब्रह्मत्वप्रतिपादने भेदो ऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्देश्यत्वादिकं स्वतो ऽत्यन्ताभेद इति ज्ञापनार्थमस्यारम्भात् / ज्ञापने चात्र लिङ्गमात्मशब्देनोपक्रान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् / धीरः सर्वज्ञः / सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषं नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तद्विद्वानिहैवामृतो भवतीति मन्त्रो ऽपि जीवपरयोरैक्यं दर्शयतीत्याह-मन्त्रेति / जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह-नच तेज इति / मतत्रयं विभज्य दर्शयति-काशेत्यादिना / कियानपीति / अभेदवद्भेदो ऽपीत्यर्थः / तत्रान्त्यस्य मतस्योपादेयत्वमाह-तत्र काशेति / सो ऽयं देवदत्त इतिवत्तत्त्वमस्यादिवाक्येभ्यः परापरयोरत्यन्ताभेदः प्रतिपादयितुमिष्टोर्ऽथः, तदनुसारित्वादित्यर्थः, ज्ञानान्मुक्तिश्रुत्यन्यथानुपपत्त्याप्ययमेव पक्ष आदेय इत्याह-एवं चेति / अत्यन्ताभेदे सतीत्यर्थः / कल्पितस्य भेदस्य ज्ञानान्निवृत्तिः संभवति न सत्यस्येत्यपि द्रष्टव्यम् / यदुक्तं नदीदृष्टान्तात्संसारः स्वाभाविक इति, तन्नेत्याह-अतश्चेति / अनामरूपब्रह्मत्वाज्जीवस्येत्यर्थः / उत्पत्तिश्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह-अत एवेति / उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः / अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति / तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् / संप्रति द्वितीयमनूद्य तथैव निराचष्टे-यदप्युक्तमित्यादिना / आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः ऽइदं सर्वं यदयमात्माऽइत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना / एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः / समुत्थानमभेदाभिधानमिति यावत् / जन्मानाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति-नन्वित्यादिना / मृतस्य संज्ञा नास्तीति वाक्ये ऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह-न वा अरे इति / मोहं मोहकरं वाक्यम्, अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः / तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह-यदपीत्यादिना / आद्यमयद्वये ऽपि सत्यभेदाङ्गीकारात् केनेत्याक्षेपो न युक्तः / काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः / किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह-अपि चेति / आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजं, तदाह-दर्शितमिति / अतश्चश्रुतिमत्त्वाच्च / पुनरपि श्रुतिस्मृतिमत्त्वमाह-सदेवेत्यादिना / हेतूनां भेदो न परमार्थिक इति प्रतिज्ञया संबन्धः / भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह-स वा एष इति / भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्वाधं ज्ञानं न स्यादित्याह-अन्यथाचेति / अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह-सुनिश्चितेति / मास्तु निर्बाधज्ञानमित्यत आह-निरपवादमिति / अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह-स्थितेति / आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः / ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात्, स्तम्भकुम्भवदित्यत आह-स्थिते चेति / कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह-एको हीति / किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः / स्थानैक्याज्जीव एव ब्रह्मेत्याह-नहीति / काञ्चिदेवैकामिति / जीवस्थानादन्यामित्यर्थः / नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह-नचेति / स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः / नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् / न / दर्पणे प्रतिबिम्बस्य स्फुटत्वे ऽपि बिम्बस्यास्फुटत्ववत् कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः / सत्यभेदे येषामाग्रहस्तेषां दोषमाह-ये त्विति /
SK
सो ऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः / किञ्च भेदाभदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः / यत्तु कृतकमपि नित्यमिति, तच्च ऽयत् क्रियासाध्यं तदनित्यम्ऽइति न्यायबाधितम् / अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः / तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम्
SK
END Bस्Cओम्_१,४.६.२२
SK
START Bस्Cओम्_१,४.७.२३
SK
प्रकृत्यधिकरणम् / सू. २३-२७
SK
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् | BBस्_१,४.२३ |
SK
यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्य एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम् / ब्रह्म च ऽजन्माद्यस्य यतःऽ (ब्र. १.१.२) इति लक्षितम् / तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः, किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति / तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति / कस्मात् / ईक्षापूर्वककर्तृत्वश्रवणात् / ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते- ऽस ईक्षाञ्चक्रेऽ (प्र. ६.३) ऽस प्राणमसृजतऽ (प्र. ६.४) इत्यदिश्रुतिभ्यः / ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् / अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा / स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम् / ईश्वरत्वप्रसिद्धेश्च / ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् / कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यं, कार्यकारणयोः सारूप्यदर्शनात् / ब्रह्म च नैवंलक्षणमवगम्यते ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे. ६.१९) इत्यादिश्रुतिभ्यः / पारिशेष्याद्ब्रह्मणो ऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् / ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादिति / एवं प्राप्ते ब्रूमः प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यं निमित्तकारणं च / न केवलं निमित्तकारणमेव / कस्मात् / प्रतिज्ञादृष्टान्तानुपरोधात् / एवं प्रतिज्ञादृष्टान्तौ श्रौतौ नोपरुध्येते / प्रतिज्ञा तावत्- ऽउत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. ६.१.२) इति / तत्र चैकेन विज्ञातेन सर्वमन्दविज्ञातमपि विज्ञातं भवतीति प्रतीयते / तच्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवत्युपादानकारणव्यतिरेकात्कार्यस्य / निमित्तकारणाव्यतिरेकास्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् / दृष्टान्तो ऽपि यथा ऽसोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ इत्युपादानकारणगोचर एवमाम्नायते / तथा ऽएकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्ऽ ऽएकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्ऽ (छा. ६.१.४,५,६) इति च / तथान्यत्रापि ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति (मुण्ड. १.१.२) इति प्रतिज्ञा / ऽयथा पृथिव्यामोषधयः संभवन्तिऽ ( मुण्ड. १.१.७) इति दृष्टान्तः / तथा ऽआत्मनि कल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ इति प्रतिज्ञा / ऽस यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतःऽ (बृ. ४.५.६,७) इति दृष्टान्तः / एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ / यत इतीयं पञ्चमी ऽयतो वा इमानि भूतानि जायन्तेऽ इत्यत्र ऽजनिकर्तुः प्रकृतिःऽ (पा.सू. १.४.३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या / निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् / यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृनपेक्ष्य प्रवर्तते नैवं ब्रह्मण उपादानकारणस्य सतो ऽन्यो ऽधिष्ठातापेक्ष्यो ऽस्ति, प्रागुत्पत्तेरेकमेवाद्वितीयमित्यवधारणात् / अधिष्ठात्रन्तराभावो ऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः / अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासंभवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात् / तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम्
SK
FN: विमर्शः संशयः / निष्कलं निरवयवम्, निष्क्रियमचलम्, शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् / लोहं सुवर्णम् / नखनिकृन्तनं कार्ष्णायसकृतनखलवनशस्त्रं लोहपिण्डो वा / दुन्दुभ्याघातस्य जनकस्य जन्यतया संबन्धी वा शब्दो विशेषशब्द इत्यर्थः /
SK
प्रकृतिश्चेति / लक्षणसूत्रेणास्य संगतिं वक्तुं वृत्तं स्मारयति-यथेति / तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तं, तेन बुद्धिस्थे ब्रह्मणि कृतस्नवेदान्तसमन्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृत्वमात्रमुत प्रकृतित्वकर्तृत्वोभयरूपमिति / विशेषजिज्ञासायमिदमारभ्यते / तथाच सामान्यज्ञानस्य विशेषचिन्ताहेतुत्वात्तेनास्य संगतिः / यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चिततात्पर्यैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं लिखितम् / लक्षणसूत्रस्याध्यायादिसंगतत्वादस्याप्यध्यादिसंगतिः / पूर्वत्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्वाक्यस्य जीवपरत्वं निरस्तं, तदयुक्तं, कर्त्रुपादनयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति-तत्र निमित्तेत्यादिना / पूर्वोत्तरपक्षयोर्द्वैताद्वैतसिद्धिः फलम्-ईक्षापूर्वकेति / ईक्षणश्रुत्या कर्तृत्वं निश्चितं, तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात्, यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः / जगत् भिन्नकर्त्रुपादानकं, कार्यत्वात् घटवदित्याह-अनेकेति / ब्रह्म नोपादानं, ईश्वरत्वात्, राजादिवदित्याह-ईश्वरत्वेति / जगन्न ब्रह्मप्रकृतिकं, तद्विलक्षणत्वात्, यदित्थं तत्तथा कुलालविलक्षणघटवदित्याह-कार्यं चेति / निष्कलं निरवयवं, निष्क्रियमचलं, शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् / तत्र हेतुः-निरञ्जनमिति / अञ्जनतुल्यतमःशून्यमित्यर्थः / तर्हि जगतः सदृशोपादानं किमित्यत आह-पारिशेष्यादिति / ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति-प्रकृतिश्चेति / चकारान्निमित्तत्वग्रहः / एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह-एवमिति / कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह-निमित्तकारणाव्यतिरेकस्त्विति / मृदादीनामुपादानानां दृष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह-दृष्टान्तो ऽपीति / वागारभ्यं नाममात्रं विकारो न वस्तुतो ऽस्तीति सत्यकारणज्ञानाद्विकारज्ञानं युक्तमित्यर्थः / गतिसामान्यार्थं मुण्डके ऽपि प्रतिज्ञादृष्टान्तावाह-तथान्यत्रापीति / बृहदारण्यके ऽपि तावाह-तथात्मनीति / घटः स्फुरतीत्यनुगतस्फुरणं प्रकृतिस्तदतिरिकेण विकारा न सन्तीति सो ऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते / हन्यमानदुन्दुभिजन्याच्छब्दसामान्याद्बाह्यान् विशेषशब्दान् सामान्यग्रहणातिरिकेण पृथग्ग्रहीतुं श्रोता न शक्नुयात् / सामान्यस्य तु ग्रहणेन दुन्दुभ्याघातजशब्दविशेषो गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीतो भवति / अतः शब्दसामान्यग्रहणग्रह्या विशेषाः सामान्ये कल्पिताः तद्वदात्मभानभास्या घटादय आत्मनि कल्पिता इत्यर्थः / प्रतिज्ञादृष्टान्तानुपरोधाल्लिङ्गाद्ब्रह्मणः प्रकृतित्वमुक्त्वा पञ्चमीश्रुत्याप्याह-यत इति / ऽयतो वाऽइत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्टव्येत्यन्वयः / जनिकर्तुर्जायमानस्य कार्यस्य प्रकृतिरपादानसंज्ञिका भवतीति सूत्रार्थः / संज्ञायाः फलं ऽअपादाने पञ्चमीऽइति सूत्रात्प्रकृतौ पञ्चमीलाभः / एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति-निमित्तत्वमिति / ब्रह्म स्वातिरिक्तकर्त्रधिष्ठेयं, प्रकृतित्वात्, मृदादिवदित्याद्यनुमानानामागमबाधकमाह-प्रागुत्पत्तेरिति / जगत्कर्तृ ब्रह्मैवेत्यत्रापि सूत्रं योजयति-अधिष्ठात्रान्तरेति
SK
END Bस्Cओम्_१,४.७.२३
SK
START Bस्Cओम्_१,४.७.२४
SK
कुतश्चात्मनः कर्तृत्वप्रकृतित्वे-
SK
अभिध्योपदेशाच् च | BBस्_१,४.२४ |
SK
अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति ऽसो ऽकामयत बहु स्यां प्रजायेयेतिऽ ऽतदैक्षत बहु स्यां प्रजायेयऽ इति च / तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते / बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्यप्रकृतिरित्यपि गम्यते
SK
FN: अभिध्या सृष्टिसंकल्पः /
SK
एकस्योभयरूपं कारणत्वमविरुद्धमिति सूत्रचतुष्टयेन साधयति-कुतश्चेत्यादिना /
SK
अभिध्या सृष्टिसंकल्पः
SK
END Bस्Cओम्_१,४.७.२४
SK
START Bस्Cओम्_१,४.७.२५
SK
साक्षाच् चोभयाम्नानात् | BBस्_१,४.२५ |
SK
प्रकृतित्वस्यायमभ्युच्चयः / इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादायोभौ प्रभवप्रलयावाम्नायते- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते / आकाशं प्रत्यस्तं यन्तिऽ (छा. १.९.१) इति / यद्धि यस्मात्प्रभवति यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् / यथा व्रीहियवादीनां पृथिवी / साक्षादिते साक्षादिति चोपादानान्तरानुपादानं दर्शयत्याकाशादेवेति / प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः
SK
FN: अभ्युच्चयो हेत्वन्तरम् /
SK
अभ्युच्चयोहेत्वन्तरम् /
SK
आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानमग्रहणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना
SK
END Bस्Cओम्_१,४.७.२५
SK
START Bस्Cओम्_१,४.७.२६
SK
आत्मकृतेः परिणामात् | BBस्_१,४.२६ |
SK
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ऽतदात्मानं स्वयमकुरुतऽ (तै. २.७) इत्यात्मनः कर्मत्वं कर्तृत्वं त दर्शयति / आत्मानमिति कर्मत्वं, स्वयमकुरुतेति कर्तृत्वम् / कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं संपादयितुम् / परिणामादिति ब्रूमः / पूर्वसिद्धो ऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति / विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः / स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते / परिणामादिति वा पृथक्सूत्रम् / तस्यैषोर्ऽथः - इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ऽसच्च त्यच्चाभवत् / निरुक्तं चानिरुक्तं चऽ (तै. २.६) इत्यादिनेति
SK
FN: सत् प्रत्यक्षं भूतत्रयम्, त्यत् परोक्षं भूतद्वयम्, निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकम् /
SK
आत्मसंबन्धिनी कृतिरात्मकृतिः / संबन्धश्चात्मनः कृतिं प्रति विषयत्वमाश्रयत्वं च / ननु कृतेराश्रयःसिद्धोभवति विषयस्तु साध्य इत्येकस्योभयं विरुद्धमित्याशङ्कते-कथं पुनरिति / यथा मृदः साध्यपरिणामाभेदेन कृतिविषयत्वं तद्वदात्मन इत्याह-परिणामादिति / आत्मानमिति / अविरोध इति शेषः / सिद्धस्यापि साध्यत्वे दृष्टान्तमाह-विकारात्मनेति / ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्यत्वश्रुत्यास्तु प्रकृतित्वं कर्ता त्वन्यो ऽस्त्वित्यत आह-स्वयमिति चेति / ब्रह्मणः कृतिकर्मत्वोपपादनार्थं परिणामादिति पदं व्याख्यायान्यथापि व्याचष्टे-पृथक्सूत्रमिति /
SK
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेर्ब्रह्मणः प्रकृतित्वमित्यर्थः / सत्प्रत्यक्षं भूतत्रयं, त्यपरोक्षं भूतद्वयं, निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः / अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्यकार्यात्मकपरिणामपरः, ऽतदनन्यत्वम्-ऽइति विवर्तवादस्य वक्ष्यमाणत्वात्
SK
END Bस्Cओम्_१,४.७.२६
SK
START Bस्Cओम्_१,४.७.२७
SK
योनिश् च हि गीयते | BBस्_१,४.२७ |
SK
इतश्च प्रकृतिर्ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु ऽकर्तारमीशं पुरुषं ब्रह्मयोनिम्ऽ (मुण्ड. ३.१.३) इति, ऽयद्भूतयोनि परिपश्यन्ति धीराःऽ (मुण्ड. १.१६) इति च / योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके ऽपृथिवी योनिरोषधिवनस्पतीनाम्ऽ इति / स्त्रीयोनेरप्यस्त्येवायवद्वारेण गर्भं प्रत्युपादानकारणत्वम् / कचित्स्थानवचनो ऽपि योनिशब्दो दृष्टः - ऽयोनिष्ट इन्द्र निषदे अकारिऽ (ऋ.सं. १.१०४.१) इति / वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते ऽयथोर्णनाभिः सृजते गृह्यते चऽ (मुण्ड. १.१.७) इत्येवञ्जातीयकात् / एवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् / यत्पुनरिदमुक्तमीक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टं नोपादानेष्वित्यादि, तत्प्रत्युच्यते- न लोकवदिह भवितव्यम् / नह्ययमनुमानगम्योर्ऽथः / शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् / शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिदयतात्यवोचाम / पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः
SK
FN: कर्तारं क्रियाशक्तिमन्तम्, ईशं नियन्तारम्, पुरुषं प्रत्यञ्चम्, ब्रह्म पूर्णम्, योनिं प्रकृतिम् / हे इन्द्र, ते तव निषदे उपवेशनाय योनिः स्थानं मया अकारि कृतम् /
SK
योनिशब्दाच्च प्रकृतित्वमित्याह-योनिश्चेति / कर्तारं क्रियाशक्तिमन्तं, ईशं नियन्तारं, पुरुषं प्रत्यञ्चं, ब्रह्म पूर्णं, योनिं प्रकृतिं, धीरा ध्यानेन पश्यन्तीत्यर्थः / नन्वनुपादाने ऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह-स्त्रीयोनेरिति / शोणितमवयवशब्दार्थः / योनिशब्दस्य स्थानमप्यर्थो भवति सो ऽत्र भूतयोन्यादिशब्दैर्न ग्राह्यः, उर्णनाभ्यादिप्रकृतदृष्टान्तवाक्यशेषविरोधादित्याह-क्वचिदिति / हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः / पूर्वपक्षोक्तानुमानानि अनूद्यागमबाधमाह-यत्पुनरित्यादिना / नन्वनुमानस्य श्रुत्यनपेक्षत्वान्न तया बाध इत्यत आह-नहीति / जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्यकृतिमतो ऽनुमानासंभवात् / अतः श्रौतमीश्वरं पक्षीकृत्यानुपादानत्वसाधने भवत्येवोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः / यदुक्तं विलक्षणत्वाद्ब्रह्मणो न जगदुपादानत्वमिति, तत्राह-पुनश्चेति /
SK
ऽन विलक्षणत्वात्-ऽइत्यारभ्येत्यर्थः / अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धाम्
SK
END Bस्Cओम्_१,४.७.२७
SK
START Bस्Cओम्_१,४.७.२८
SK
८ सर्वव्याख्यानाधिकरणम् / सू. २८
SK
एतेन सर्वे व्याख्याता व्याख्याताः | BBस्_१,४.२८ |
SK
ऽईक्षतेर्नाशब्दम्ऽ (ब्र.सू. १.१.५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः,
SK
तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रतिभान्तीति / स च कार्यकारणनन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य / देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः, तेन तत्प्रतिषेधे यत्नो ऽतीव कृतो नाण्वादिकारणवादप्रतिषेधे / ते ऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः / तेषामप्युपोद्वलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति / अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति- एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वे ऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः / तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति / व्याख्याता व्याख्याता इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति
SK
एतेन सर्वे व्याख्याताः / अस्यातिदेशाधिकरणस्य तात्पर्यं वक्तुं वृत्तमनुवदति-ईक्षतेरिति / प्रधानवादस्य प्राधान्येन निराकरणे हेतूनाह-तस्य हीत्यादिना / तर्ह्यण्वादिवादा उपेक्षणीयाः, दुर्बलत्वादित्यत आह-ते ऽपि त्विति / निर्मूलास्ते कथं प्रतिपक्षा इत्यत आह-तेषामिति / तथा हि छान्दोग्ये जगत्कारणत्वज्ञापनार्थं पिता पुत्रमुवाच, आसां वटधानानां मध्ये एकां भिन्धीति / भिन्ना भगव इत्युवाच पुत्रः / पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह / तत्र पित्राणिमानं न पश्यसीत्युक्तं, तथा च न किञ्चनशब्दाच्छून्यस्वभाववादौ प्रतीयेते, अणुशब्दात्परमाणुवाद इति / एवं ऽअसदेवेदमग्र आसीत्ऽ ऽअणोरणीयान्ऽइत्यादिलिङ्गं द्रष्टव्यम् / अत्राण्वादिवादाः श्रौता न वेति संशये सत्यसदण्वादिशब्दबलाच्छ्रौता इति प्राप्ते ऽतिदिशति-एतेनेति /
SK
अस्यातिदेशत्वान्न पृथक् संगत्याद्यपेक्षा / न किञ्चनासच्छब्दयोः प्रत्यक्षायोग्यवस्तुपरत्वादाणुशब्दस्य सूक्ष्माभिप्रायत्वादशब्दत्वं, तेषां वादानां प्रधानवादवदश्रौतत्वं, ब्रह्मकारणश्रुतिबाधितत्वं च, तस्माद्ब्रह्मैव परमकारणं, तस्मिन्नैव सर्वेषां वेदान्तानां समन्वय इति सिद्धम्
SK
END Bस्Cओम्_१,४.७.२८
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य चतुर्थः पादः समाप्तः
SK
इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमो ऽध्यायः
SK
// इति प्रथमाध्याये ऽव्यक्तादिसंदिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः //
SK
// इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमो ऽध्यायः //
SK
द्वितीयो ऽध्यायः /
SK
[द्वितीये अविरोधाख्याध्याये प्रथमपादे सांख्ययोगकारणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहारः]
SK
अथ द्वितीयो ऽध्यायः /
SK
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे / नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे
SK
सांख्यादिस्मृतियुक्तिभिर्न चलितो वेदान्तसिद्धान्तगो निर्मूलैर्विविधागमैरविदितो व्योमादिजन्माप्ययः / उत्पत्त्यन्तविवर्जितश्चितिवपुर्व्यापि च कर्तांशको लिङ्गेन प्रथितो ऽपि नामतनुकृत्तं जानकीशं भजे
SK
START Bस्Cओम्_२,१.१.१
SK
१ स्मृत्यधिकरणम् / सू. १-२
SK
प्रथमे ऽध्याये सर्वज्ञः सर्वेश्वरः जगत उत्पत्तिकारणं, मृत्सुवर्णादय इव घटरुचकादीनाम् / उत्पन्नस्य जगतो नियन्तृत्वेन स्तिथिकारणं, मायावीव मायायाः / प्रसारितस्य च जगतः पुनः स्वात्मन्येवोपसंहारकारणं, अवनिरिव चतुर्विधस्य भूतग्रामस्य / स एव च सर्वेषां न आत्मेत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम् / प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः / इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः, प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं, प्रतिवेदान्तं च सृष्ट्यादिप्रक्रियाया अविगीतत्वमिस्यर्थजातस्य प्रतिपादनाय द्वितीयो ऽध्याय आरभ्यते / तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति-

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) (sa_bAdarAyaNa-brahmasUtra-comm-subcomm2.htm).

Source