Commentary and Subcommentary on the Brahma Sūtras
Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)
Bरह्मसूत्र२ wइथ् Śअंकरऽस् Śआरीरकमीमांसाभाष्य अन्द् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या (सुब्चोम्मेन्तर्य्)
SKप्रथमाध्याये प्रथमः पादः /
SK(अत्र पादे स्पष्टब्रह्मलिङ्गयुक्तानां वाक्यानां विचारः)
SKब्रह्मसूत्रशाङ्करभाष्यम्
SKभाष्यरत्नप्रभाव्याख्या श्रीरामानन्दयतिप्रणीता /
SKयमिह कारुणिकं शरणं गतो ऽप्यरिसहोदर आप महत्पदम् / तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम्
SKश्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढुण्ढितुण्डासिना / वन्दे चर्मकपालिकोपकपणैर्वैराग्यसौख्यात्परं नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम्
SKयत्कृपालवमात्रेण मूको भवति पण्डितः / वेदशास्त्रशरीरां तां वाणीं वीणाकरां भजे
SKकामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्यश्रीगौरीनायकाभित्प्रकटनशिवरामार्यलब्धात्मबोधैः / श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मितास्यश्रीमद्गोविन्दवाणीचरणकमलगो निवृतो ऽहं यथालिः
SKश्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि / श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम्
SKविस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् / व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा
SKश्रीमच्छारीरकं भाष्यं प्राप्य वाक् शुद्धिमाप्नुयात् / इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा
SKयदज्ञानसमुद्भूतमिन्द्रजालमिदं जगत् / सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम्
SKSTART Bस्Cओम्_१,१.१.१
SK१ जिज्ञासाधिकरणम् / सू. १
SKवेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्-