Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)

Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya)

Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)

Full text

SK
भामती
SK
ब्रह्मसूत्रशाङ्करभाष्यम् /
SK
START Bस्VBह्_१,१.१.१
SK
अनिर्वाच्याविद्या(*१)द्वितयसचिवस्य प्रभवतो विवर्ता(*२) यस्यैते वियदनिलतेजो ऽबवनयः / यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम्
SK
FN *१-मूलविद्या, तूलाविद्येति द्वितयम् FN *२-स्वरूपोपमर्दनं विनान्यथाभावः
SK
निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि / स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः
SK
षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि / शाश्वताय नमस्कुर्मो वेदाय च भवाय च
SK
मार्तण्डतिलकस्वामिमहागणपतीन् वयम् / विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः
SK
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे / ज्ञानशक्त्यवताराय नमो भगवतो हरेः
SK
नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् / भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते
SK
आचार्यकृतिनिवेशनमप्यवधूतं वचो ऽस्मदादीनाम् / रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति
SK
अथ यदसंदिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रिय- संनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा;तथा चेदं ब्रह्मेति व्यापक
SK
FN: १-यत्र जिज्ञास्यत्वं तत्रैव संदिग्धत्वं सप्रयोजनत्वं चेति जिज्ञास्यत्वव्यापके संदिग्धत्वसप्रयोजनत्वे / तयोर्विरुद्धस्य तदभावस्येहोपलब्धिर्ज्ञानम् / तथाच व्यापकाभावे तद्व्याप्तजिज्ञास्यत्वाभावो ऽत्रेत्यर्थः / अत्रैवं प्रयगोः-ब्रह्म मुमुक्ष्वविचार्यं तं प्रत्यसंदिग्धत्वात्, निष्प्रयोजनत्वाच्च / तथाविधकुम्भ-काकदन्तवदिति भावः /
SK
विरुद्धोपलब्धिः / तथा हि-- बृहत्त्वाद्बृंहण
SK
FN: २-वृद्ध्यर्थकबृहबृहिधातुजं ब्रह्मन्नितिरूपम् / बृंहणं च देहादीनां परिणामयितृत्वरूपं बोध्यम् /
SK
त्वाद्वात्मैव ब्रह्मेति गीयते / स चायम् आकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ऽअहम्ऽइत्यसंदिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम् / न हि जातु कश्चिदत्र संदिग्धे ऽअहं वा नाहं वाऽइति / न च विपर्यस्यति ऽनाहमेवऽइति / न च ऽअहं कृशः, स्थूलः, गच्छामिऽइत्यादिदेहधर्मसामाना
SK
FN: ३-एकार्थप्रतिपादकत्वज्ञानादित्यथर्ः /
SK
धिकरण्यदर्शनाद्देहालम्बनो ऽयमहङ्कार इति सांप्रतम् / तदालम्बनत्वे हि ऽयो ऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामिऽइति प्रतिसंधानं न भवेत् / न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञान
SK
FN: १-पूर्वानुभूतस्य साक्षात्कृतव्यक्त्यैक्यावगाहिनी धीः /
SK
गन्धो येनैकत्वं अध्यवसीयेत / तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् / तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते / अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ऽनाहं देवो मनुष्य एवऽइति देवशरीरे बाध्यमाने ऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते / अपि च योग
SK
FN: २-अणिमादिसिद्धिलाभाल्लीलाद्यर्थं योगमहिम्ना व्याघ्रशरीरं कृत्वा तदाभिमानीत्यर्थः अत्रेदं बोध्यम् अवयवोपचयापचयात्मके बाल्ये स्थाविरे वा न शरीरभेदः सिद्ध्यति, शरीरमिति बुद्धेरनुगतत्वादित्यरुच्या ऽस्वप्नान्तेऽइत्युदाहृतम् / स्वाप्नभ्रमवादिनां मते तदसिद्ध्या योगव्याघ्रदृष्टान्तः, जाग्रत्यपि दर्शयितुं वेति बोध्यम् /
SK
व्याघ्रः शरीरभेदे ऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः / अत एव नेन्द्रियाण्यप्यस्यालम्बनम्, इन्द्रियभेदे ऽपि ऽयो ऽहमद्राक्षं स एवैतर्हि स्पृशामिऽइत्यहमालम्बनस्य प्रत्यभिज्ञानात् / विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव / बुद्धिमनसोश्च करणयोः ऽअहम्ऽइति कर्तृप्रतिभासप्रख्याना
SK
FN: ३-प्रख्यानं शब्दः / करणानां कर्तृपदवाच्यत्वानुपपत्तेरिति भावः /
SK
लम्बनत्वायोगः / ऽकृशो ऽहम्ऽ ऽअन्धो ऽहम्ऽइत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः
SK
FN: ४-आत्मा शरीरादिभ्यो भिन्न इत्यधस्ताद्व्यवस्थापितत्वात्तदनुपपत्तेर्लक्षणावाश्रयणीयेति भावः /
SK
क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः / तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् / अप्रयोज
SK
FN: १-द्वितीयहेतुं विभजते /
SK
नत्वाच्च / तथा हि-संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् / संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः / स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतो ऽस्य निवृत्तिः अविरोधात्?कुतश्चात्मयाथात्म्याननुभवः?न हि ऽअहम्ऽइत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति / न च ऽअहम्ऽइति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम्, अनुभवविरोधात् / न ह्यागमाः सहस्रमपि घटं पटयितुमीशते / तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति-युष्मदस्मत्प्रत्ययगोचरयोः इति / अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः / तथापीत्यादिपरिहारग्रन्थः / तथापीत्यभिसंबन्धाच्छङ्कायां यद्यपीति पठितव्यम् / इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् / यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, ऽएते वयम्, इमे वयमास्महेऽइति बहुलं
SK
FN: २-इदंशब्दस्य पराक्प्रतिपादकत्वाविशेषे ऽपि एते वयमित्यादि प्रचुरप्रयोगवशान्मुख्यवद्भानं भवतीति तत्तत्र निरूढमिति भावः /
SK
प्रयोगदर्शनादिति / चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः / एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति;स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् / परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तः-ऽतमः प्रकाशवदितिऽ / न हि जातु कश्चित्समुदाचारद्वृ
SK
FN: ३-समुदाचरन्त्यौ भेदेन ज्ञायमाने वृत्ती वर्तने ययोस्ते तथा / अध्यासो हि विवेकाग्रहेण व्याप्तः, अत्र विवेकग्रहसत्त्वादध्यासो नोपपन्न इत्याशयः /
SK
त्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति / तदिदमुक्तम् -इतरेतरभावानुपपत्ताविति / इतरेतर
SK
FN: ४-इतरस्येतरत्र भाव इति योजने सिद्धस्य संसर्गाध्यासनिषेधस्य साधनं भवेत्तदनेनापहृतं बोद्धव्यम् /
SK
भावः इतरेतरत्वम्, तादात्म्यमिति यावत्;तस्यानुपपत्ताविति / स्यादेतत् / मा भूद्धर्मिणोः परस्परभावः;तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनां इतरेतराध्यासो भविष्यति / दृश्यते हि धर्मिणोर्विवेकग्रहणे ऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणे ऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम्-तद्धर्माणामपीति / इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः / अयमभिसंधिः-रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि च्छायां गृह्णीयात्, चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति / यथाहुः-ऽशब्दगन्धरसानां च कीदृशी प्रतिबिम्बताऽइति / तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसंभेदेनैव तद्धर्माणामपि परस्परसंभेदेन विनिमयात्मना भवितव्यम्, तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसंभिन्नौ, असंभिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् /
SK
तदिदमुक्तम्-सुतरामिति /
SK
तद्विपर्ययेणेति /
SK
विषयविपर्ययेणेत्यर्थः / मिथ्याशब्दो ऽपह्नववचनः / एतदुक्तं भवति- अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति / मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना / इदमत्राकूतम्-भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत / न त्वेतदस्ति / तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते / न चैतान्युपक्रम
SK
FN: १-उपक्रमः प्रारम्भः, परामर्शो मध्ये निर्देशः उपसंहारश्च सामान्येन कथितस्य विशेषे नियमनम् / अत्रायमभिप्रायः-ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयऽइत्युपक्रम्य, अन्तरा च तेजसा शुङ्गेन सन्मूलमन्विच्छ, अन्नेन शुङ्गेन सन्मूलमन्विच्छेत्यादि निर्दिश्य ऽस य एषो ऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽइत्युपसंहृतं वाक्यं, अखण्डसत्तात्पर्यकं तदुपक्रमोपसंहारलिङ्गात् / अवान्तरपठितम् ऽअसद्वा इदमग्र आसीत्ऽइत्यादिकमेतदनुसंधानेन नेयम् / ननु तेजोबादिसृष्टिक्रममपि व्याचष्टे / न / एकमद्वितीयं ब्रह्मैवेह प्रतिपिपादयिषितम्, यत्परः शब्दः स एव तदर्थो ऽन्यथातिप्रसङ्गात् / तस्मात् ब्रह्मणो ऽवताराय यत्किञ्चिद्व्याहर्तव्यमिति तद्व्याहृतमिति सुवचमतो निष्प्रपञ्चात्मतत्त्वप्रतिपादकान्येवैतानीति दिक् /
SK
परामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् / अभ्यासे हि भूयस्त्वमर्थस्य भवति यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति / अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः
SK
FN: २-उपप्लवो विपर्यासः / अहमनुभवस्तद्रहितः कथमित्यर्थः /)/ न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्या
SK
FN: ३-अत्र तदपेक्षत्वं प्रत्यक्षप्रमाणसिद्धार्थानुवादकतया स्वप्रामाण्यमुखिनिपीक्षकत्वरूपं बोध्यम् /
SK
प्रामाण्यमुपचरितार्थत्वं चेति युक्तम्, तस्यापौरुषेय
SK
FN: ४-पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानुपूर्वीमत्त्वं पौरुषेयत्वं, तद्रहिततयेत्यर्थः /
SK
तया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाण
SK
FN: ५-अनधिगताबाधितार्थबोधकत्वमेव हि प्रामाण्यं, तच्चान्तराध्यक्षं सिद्धमित्यर्थः /
SK
भावस्य स्वकार्ये प्रमितावनपेक्षत्वात् / प्रमितावनपेक्षत्वे ऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न / उत्पादकाप्रतिद्वन्द्वित्वात् / न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् / न च तत्तस्योत्पादकम् / अतात्त्विकप्रमाणभावेभ्यो ऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् / तथा च वर्णे ह्रस्वत्वदीर्घत्वादयो ऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः / न हि लौकिकाः ऽनागःऽइति वा᳚नगः᳚इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः / न चा
SK
FN: १-यत्पूर्वमुपचरितत्वमुक्तं तन्निरस्यति)
SK
नन्यपरं वाक्यं स्वार्थं उपचरितार्थं युक्तम् / उक्तं हि - ऽन विधौ
SK
FN: २-विधायके शब्दे, परो लक्ष्यः शब्दार्थो न भवतीति शाबरभाष्ये सिद्धान्तितम् / नच ऽसोमेन यजेतऽइत्यादौ सोमवतेति मत्वर्थलक्षणाभ्युपगमात्, ऽतत्त्वमसिऽइत्यादौ च जीवब्रह्मणोरैक्यं ब्रुवतां मते भागलक्षणाङ्गीकारान्नैतद्युक्तमिति वाच्यम् / विधितुल्यं, तत्तुल्यं वा तात्पर्यवद्वाक्यं यत्किञ्चुदनुग्रहार्थमन्यपरं न नेतुं शक्यमित्यर्थे तात्पर्यात् / तत्र विना तात्पर्यं सिद्धिरेष्टव्येत्याशयः /
SK
परः शब्दार्थःइति / ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् / तदनपबाधने तदपबाधात्मन
SK
FN: ३-शुक्तिज्ञानं रजतज्ञानापबाधात्मकं, अतो यदि नाबाधिष्यत तर्हि नोदपत्स्यतेत्यर्थः /
SK
स्तस्योत्पत्तेरनुत्पत्तेः / दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् / तथा च पारमर्षं सूत्रं, ऽपौर्वापर्ये
SK
FN: ४-ज्योतिष्टोमे ऽन्योन्यं संबध्य यज्ञशालातो निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयते ऽयद्युद्गातापच्छिद्येतादक्षिणेन यजेत, यदि प्रतिहर्तापच्छिद्येत सर्वस्वदक्षिणेनेतिऽतत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात् किं पूर्वं कार्यमुत परमिति संदेहे राद्धान्तः ऽपूर्वं परमजातत्वादबाधित्वैव जायते / परस्यानन्यथोत्पादान्नात्वबाधेन संभवः इति /
SK
पूर्वदौर्बल्यं प्रकृतिवत्ऽ (आ. ६ पा. ५ सू. ५४)इति / तथा ऽपूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् / अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् //
SK
ऽइति / अपि च ये ऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम्, ऽअहमिहैवास्मि सदने जानानःऽइति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् / उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् / न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति सांप्रतम् / न हि तदैवं भवति ऽअहम्ऽ इति;गौणत्वे वा न ऽजानानःऽइति / अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः / तद्यथा नैयमिका
SK
FN: ६-ऽयदग्नये च प्रजापतये च सायं जुहोतिऽइत्यग्नेर्हेमे देवताप्रख्यापनादत्र अग्निहोत्रकर्मनामधेयमग्निहोत्रपदमित्यर्थः)ग्निहोत्रवचने ऽग्निहोत्रशब्दः (अ. १ पा. ४ सू. ४)
SK
प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि ऽमासमग्मिहोत्रं जुहोतिऽ(आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः,
SK
FN: १-प्रकरणभेदेन कर्मभेदे सिद्धे ऽनेकत्र शक्त्यङ्गीकारे गौरवादग्निहोत्रवज्जुहोतीति साध्यसादृश्येन गौण इत्यर्थः /
SK
माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः / न त्वहङ्कारस्य मुख्योर्ऽथो निर्लुठित
SK
FN: २-निष्कृष्य लुठितः प्रतिभासितो गर्भो ऽसाधारणाकारो यस्य स तथा तत्तथा / तथा च नात्र विवदितव्यमित्यर्थः /
SK
गर्भतया देहादिभ्यो भिन्नो ऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् / न चात्यन्त
SK
FN: ३-प्रयोगप्राचुर्यान्मुख्यवद्भानात्, निरूढलक्षणा शक्तिवृत्तिसदृशीति शास्त्रसमयः /
SK
निरूठतया गौणे ऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् / तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः / तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तम् तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति / न च बालस्थविरशरीरभेदे ऽपि सो ऽहमित्येकस्यात्मनः प्रतिसंधानदेहादिभ्यो भेदे
SK
FN: ४-विवेकेनेत्यर्थः /
SK
नास्त्यात्मानुभव इति वाच्यम् / परीक्षकाणां खल्वियं कथा, न लौकिकानाम् / परीक्षका अपि हि व्यवहारसमये न लोकसामाम्यमतिवर्तन्ते / वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः -ऽपश्वादिभिश्चाविशेषात्ऽइति / बाह्या अप्याहुः -ऽशास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारःऽइति / तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारम् ऽअहमिहास्मि सदनाऽइति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः / न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् / तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा?अणुपरिमाणत्वे स्थूलो ऽहम्, दीर्घ इति च न स्यात्, देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः / किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत् प्रत्येकं वावयवाः?प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धादिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत / समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनो ऽप्यवयवो वृक्ण इति न चेतयेत् / न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः / य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् / विज्ञानालम्बनत्वे ऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव / तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् / एतेन
SK
FN: ५-गौणत्वासिद्ध्येत्यर्थः /
SK
स्थूलो ऽहमन्यो ऽहं गच्छामीत्यादयो ऽप्यध्यासतया व्याख्याताः / तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति / तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् -अन्योन्यस्मिन्नित्यादि / अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौ ऽअन्योन्यात्मकताम्ऽअध्यस्याहमिदं शरीरादीति / इदमिति च वस्तुतः, न प्रतीतितः / लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः / इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः / ऽअन्योन्यधर्मांश्चाध्यस्यऽअन्योन्यस्मिन्धर्मिणि देहादिधर्मान्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः / अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम् / पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति-मिथ्याज्ञाननिमित्तः-व्यवहारः / मिथ्याज्ञानमध्यासस्तन्निमित्तः / तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः / तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह-इतरेतराविवेकेन / विवेकाग्रहणेत्यर्थः / अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह-अत्यन्तविविक्तयोर्धर्मधर्मिणोः / परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासंकीर्णता विवेकः / स्यादेतत् / विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः / इह तु परमार्थसतश्चिदात्मनो ऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत्, तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आह-सत्यानृते मिथुनीकृत्य इति / विवेकाग्रहादध्यस्येति योजना / सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि,ते द्वे धर्मिणी मिथुनीकृत्य
SK
FN: १-अधिष्ठानारोप्ययोः स्वरूपेण बुद्धौ भानं तदर्थः /
SK
युगलीकृत्येत्यर्थः / न च संवृतिपरमार्थसतोः पारमार्थकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः / एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति / स्यादेतत् / आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह-नैसर्गिक इति / स्वाभाविको ऽनादिरयं व्यवहारः / व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः / स्यादेतत् / अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता / प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते / प्रकाशमानत्वमेव हि चिदात्मनो ऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वा, द्वैतापत्तेः / सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पने ऽनवस्थापातात्, प्रकाशमानतैव सत्ताभ्युपेतव्या / तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत् / असत्त्वे वा न प्रकाशमानाःतत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः,तदसंभवे कुतो ऽध्यास इत्याशयवानाह-आहआक्षेप्ता-को ऽयमध्यासो नाम / क इत्याक्षेपे / समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति-उच्यते-स्मृतिरूपः परत्र पूर्वदृष्टावभास / अवसन्नो ऽवमतो वा भासो ऽवभासः / प्रत्ययान्तरबाधश्चास्यवसादो ऽवमानो वा / एतावता मिथ्याज्ञानमित्युक्तं भवति / तस्येदमुपव्याख्यानम् ऽपूर्वदृष्ट-ऽइत्यादि / पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः / मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति / तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् / तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् / तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् / आरोपविषयं सत्यमाह-परत्रेति / परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम् / स्यादेतत् / परत्र पूर्वदृष्टावभास इत्यलक्षणम्, अतिव्यापकत्वात् / अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः / अस्ति
SK
FN: १-आश्रयं परधर्मावभास इति विवक्षायां मेतदुदाहरणम्, पूर्वं तु पूर्वदृष्टस्य परत्र धर्म्यध्यासमभिप्रेत्येति ज्ञेयम्
SK
च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः / अवभास
SK
FN: २-ननु अवमतो भासो ऽवभास इति व्युत्पादयम् कथमुदाहृतस्थलादावतिव्याप्तिमाहेति वदन्तं प्रत्याह-अवभासपदं चेति / एतेन प्रत्यभिज्ञायां नातिव्याप्तिरिति केषाञ्चिन्मतं परास्तम् / न च पूर्वदृष्टपदेनानिर्वाच्यानृतमुक्तमित्युक्तत्वान्न तत्रातिव्याप्तिकथनं संगच्छत इति वाच्यम्, तादृशार्थस्य स्मृतिरुपपदेनाभिधीयमानत्वादिति बोध्यम् /
SK
पदं च समीचीने ऽपि प्रत्यये प्रसिद्धम्, यथा नीलस्यावभासः पीतस्यावभास इत्यत आह-स्मृतिरूप इति / स्मृते रूपमिव रूपमस्येति स्मृतिरूपः / असंनिहितविषयत्वं च स्मृतिरूपत्वम्, संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः / नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रम
SK
FN: १-स्मृतौ विभ्रमः / स्मर्यमाणे स्मर्यमाणरूपान्तरारोप इति यावत् /
SK
रूपस्यैवंरूपत्वात् / अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः / एवम्पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम् / तथा हि-बहिर्विनिर्गच्छजत्यच्छनयनरश्मिसंपृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन्, शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन्, पीततायाश्च शङ्खासंबन्धमननुभवन्, असंबन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डंपीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्खैति / एतेनतिक्तो गुडैति प्रत्ययो व्याख्यातः / एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत्, दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत्, पूर्वदृष्टाभिमुखा
SK
FN: २-पूर्वदृष्टयोरभिमुखयोः आदर्थोदकयोर्देश एव देशो यस्य तस्य भावस्तत्ता / तथा च मुखादौ तदारोप इत्यर्थः /
SK
दर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमो ऽपि लक्षितो भवति / एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासंभवं लक्षणं योजनीयम् / एतदुक्तं भवति-न प्रकाशमानतामात्रं सत्त्वम्, येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् / न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा / तथा सति मरुषु मरीचिकाचयम्,उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसंधाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत् / तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम् / न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति सांप्रतम्यतो यद्यसन् नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम्,न च स्वरूपसत्त्वेन तोयाद्यात्मनापि सन्तो भवन्ति / यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मना अभावः स्वरूपेण तु भावः / यथाहुः-ऽभावान्तरमभावो हि कस्याचित्तु
SK
FN: ३-यथा इह घटो नास्तीत्यादौ केवलभूतलाधिकरणस्वरूपत्वं घटाभावस्य, अन्यथा निरूपयितुमशक्यत्वात् / तथा जलरूपेण मरीचीनामसत्त्वं यत् तन्मरीचय एव, तदेतदभिप्रेत्योक्तम्-कयाचित्तु व्यपेक्षयेति /
SK
व्यपेक्षयाऽइति / ततश्च भावात्मनोपा
SK
FN: ४-निर्वचनीयतयेत्यर्थः /
SK
ख्येयतयास्य युज्येतानुभवगोचरता / प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतो ऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः / न च
SK
FN: ५-प्रपञ्चस्य पुनरत्यन्तासत इत्यादिनानिर्वचनीयमतं निरस्तम् / इदानीं शून्यमतं निरस्यति-नचेति / शून्यवादिनो हि शून्यस्यापि भासनमभ्युपगच्छन्ति, उपपत्तिश्च स्वसमानाकारपर्वप्रत्ययसामर्थ्येन आसादितासाधारणस्वभावभेदं यज्ज्ञानं तदेवासत्प्रकाशयति / नच तन्मते ऽसत्प्रकाशनज्ञानस्यापि शून्यत्वात्सर्वत्रानाश्वासप्रसङ्ग इति वाच्यम्, यतो ज्ञानमपि पूर्वज्ञानाधीनसत्त्वमित्युपगम्यमानत्वात् /
SK
विषयस्य समस्तसामर्थ्यविरहे ऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्माद
SK
FN: ६-बौद्धानां मते ऽविद्ययासत्प्रकाशकमिति चेत् वा हि असत्प्रकाशनशक्तिर्ज्ञानस्य सैवा वद्येत्यर्थः /
SK
सत्प्रकाशनशक्तिरेवास्याविद्येति सांप्रतम् / यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् ,असदिति चेत्, किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् / न तावत्कार्यम्, असतस्तत्त्वानुपपत्तेः / नापि ज्ञाप्यं, ज्ञानान्तरानु
SK
FN: ७-मा भूदसतः शक्तिकार्यत्वम्, अयोग्यत्वात्, शक्तिज्ञाप्यं पुनः कस्मान्नभवेदिति चेत् शक्तिज्ञाप्यत्वं शक्तिनिष्ठज्ञापकतानिरूपितज्ञाप्यताशालित्वं वक्तव्यम्, तच्च शक्याश्रयज्ञानादन्यज्ञानानुपलब्धेरसंभवीत्याह-ज्ञानान्तरानुपलब्धेरिति /
SK
पलब्धेः, अनवस्था
SK
FN: ८-अथ वक्तव्यं ज्ञानान्तरमुपलभत इति तथापि तस्यापि ज्ञापकत्वेन ज्ञानान्तरापेक्षायामनवस्थापात इत्यर्थः /
SK
पाताच्च / विज्ञानस्वरूपमेव असतः प्रकाश इति चेत्, कः पुनरेष सदसतोः संबन्धः?असदधीननिरूपणत्वं सतो ज्ञानस्यासता संबन्ध इति चेत्, अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित्, असत आधारत्वायोगात् / असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत्, अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभाव
SK
FN: १-अविनाभावमूलं कार्यकारणभावो वा तत्स्वभावत्वं वा वक्तव्यम्, उभयस्याप्युक्तक्रमेणासंभवादित्यर्थः /
SK
नियतः प्रत्यय इति / तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति / अत्र ब्रूमः-
SK
FN: २-एवं सर्वत्र वस्तु सदेव भातीति सद्वादिनाक्षिप्ते सिद्धान्त्याह-अत्र ब्रूम इति /
SK
निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयो ऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः / न सतत्त्वाः, तदात्मना मरीचीना
SK
FN: ३-ननु सद्वादिना तोयात्मना मरीचीनामसत्त्वं चेदङ्गीक्रियेत तर्हि सिद्धान्तहानिरिति चेन्न, मरीचिरूपमेव तोयरूपेणासत्, त्ययावगाहितोयत्वेनासन्मरीचिरूपं सत्यत्वान्न बाध्येतेत्याशयः /
SK
मसत्त्वात् / द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च / तत्र पूर्वं स्वतः, परं तु परतः / यथाहुः- ऽस्वरूपपररूपाभ्यां नित्यं सदसदात्मके / वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न //
SK
ऽइति / तत्किं
SK
FN: ४-सिद्धान्ती शङ्कते-तत्किमिति / तादृशप्रत्ययावगाहितोयत्वेनासन्मरीचिरूपं सत्यत्वान्न बाध्येतेत्याशयः /
SK
मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत /
SK
FN: ५-सद्वादी प्रत्याह-अद्धेति / अतोयात्मतत्त्वा मरीचरो न भ्रमे भासन्ते, किं तु भावान्तरतोयात्मनः, तस्मादुपपद्यते तद्बाध इत्यङ्गीकारः /
SK
अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात् / तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वाबाध्यः
SK
FN: ६-अनिर्वचनीयख्यातिवादी प्रत्याह-यत्पुनरारोपित भावान्तरतोयात्मना मरीचयो भासन्त इत्यवादीः, तत्रेत्थं विचार्यते तद्वासत्, नाद्य इत्याह-हन्तेति /
SK
हन्ततोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत्, तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः / नाप्यसत् /
SK
FN: ७-न सत्किं तु असदेवेति चेत्तात्किं तुच्छं वा सद्भिन्नं वेति वक्तव्यम् / नाद्यः, अपसिद्धान्तात् / न द्वितीय इत्याह-वस्त्वन्तरमेव हीति / तस्मादसंमता सत्ख्यातिरिति /
SK
वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते ऽभावान्तरमभावो ऽन्यो न कश्चिदनिरूपणात्ऽइति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम्,तद्धि मरीचयो वा भवेत्, गङ्गादिगतं तोयं वा / पूर्वस्मिन्कल्पे मरीचयः इति प्रत्ययः स्यात्, न तोयमिति / उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति / देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति /
SK
FN: ८-असत्ख्यातिं निरस्यति-न चेदमिति /
SK
न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति सांप्रतम्, तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् /
SK
FN: ९-सिद्धान्ती उपसंहरति-तस्मादिति /
SK
तस्मान्न सत्, नासन्नापि सदसत्, परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम्,तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव,तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम् / एवं च देहेन्द्रियादिप्रपञ्चो ऽप्यनिर्वाच्यः, अपूर्वो ऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अध्यासलक्षणयोगात् / देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते / चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः / अबाधिता स्वयंप्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वेति सर्वमवदातम् / स चायमेवंलक्षणको ऽध्यासो ऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह-तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति / अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य / ज्ञानाकारस्येति यावत् / अध्यासो ऽन्यत्र बाह्ये / सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत्, तत्र ज्ञानाकारस्यारोपः / विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत्, तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम्, तत्र ज्ञानाकारस्याध्यारोपः / उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः,अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात्
SK
FN: १-अयं भावः-इदं रजतमित्यत्र रजतानुयोगिकं इदन्त्वप्रतियोगिकं तादात्म्यं भासते / नेदं रजतमित्युक्ते तदेव बाधितं भवति, ऽप्रतियोग्यभावान्वयौ तुल्ययोगक्षेनौऽइति नियमात् / नञो ऽसमभिव्याहारे यद्धर्मावच्छिन्ने यत्संबन्धावच्छिन्नयद्धर्मावच्छिन्नवत्त्नं नञ्समभिव्याहारे तद्धर्मावच्छिन्ने तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकस्तादभावः प्रतीयते इत्यर्थः, तस्मान्नेदं रजतमित्यत्र रडते भासमाना इदन्तैव बाधिता भवेन्न पुना रजतमपीति / तथा चैतन्मते अहं रजतमिति प्रत्ययः प्रमेति भावः /
SK
नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता / रजतस्य धर्मिणो भाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम्,तद्वरमिदन्तैवास्य धर्मो बाध्यताम् न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति / केचित्तु---ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति-यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति / अपरितोषकारणं चाहुः-विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा / तत्रानुमानमुपरिष्टा
SK
FN: २-सहोपलम्भात्, मितिमेययोरभेदो न सिध्यति, उपायोपेयभावहेतुकत्वेन तस्यान्यथासिद्धत्वादित्यर्थः /
SK
न्निराकरिष्यते / अनुभवो ऽपि रजतप्रत्ययो वा स्यात्, बाधकप्रत्ययो वा / न तावद्रजतानुभवः / स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् / अहमिति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् / भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत्, हन्त बादकप्रत्ययमालोचयत्वायुष्मान् / किं पुरोवर्ति द्रव्यं रजताद्विधेचयत्याहोस्मिन् ज्ञानाकारतामप्यस्य दर्शयति / तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः / पुरोवर्तित्व
SK
FN: ३-साक्षाज्ज्ञानाकारतां न दर्शयतीत्युक्तम् / आर्थिकमपि ज्ञानाकारत्वं न सिध्यतीत्याह-पुरोवर्तित्वेति /
SK
प्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न / असंनिधाना
SK
FN: ४-यदुक्तं बहिर्बाधितमर्थान्तरे व्यवतिष्ठत इति तदप्यन्नथोपपद्यत इत्याह-असंनिधानेति / देशान्तरेपि स्यादित्यर्थः /
SK
ग्रहनिषेधादसंनिहितो भवति / प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्रात्मकं कुतस्त्यम् /
SK
FN: ५-यत्पुनर्लाघवमाह तत्प्रतिवक्ति मीमांसकः--न चेति / व्यवहारमात्रस्य बाधोपपत्तौ विषयबाधान्माल्लाघवमिति हृदयं /
SK
न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य / न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन / नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात् / न खलु
SK
FN: ६-पुरोदेशत्तमात्रेणेत्यर्थः /
SK
सत्तामात्रेणालम्बनम्, अतिप्रसङ्गात् / सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् / नापि कारण
SK
FN: ७-रजतज्ञानहेतुसंस्कारोद्बोधकत्वेनेत्यर्थः /
SK
त्वेन, इन्द्रियादीनामपि कारणत्वात् / तथा च भासमानतैवालम्बनार्थः / न च रजतज्ञाने शुक्तिका
SK
FN: ८-तैः इदंविषयकं रजतविषयकं चेति ज्ञानद्वयस्याङ्गीकृतत्वात्कथमालम्बनमिति प्रच्छा /
SK
भासते, इति कथमालम्बनम्,
SK
FN: ९-एतेन अर्थाध्यासो निरस्तः /
SK
भासमानताभ्युपगमे वा कथं नानुभवविरोधः /
SK
FN: १०-इदं रजतमिति ज्ञानं न मिथ्येत्याह-अपि चेति /
SK
अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसंभवः / दोषसहितानां तेषां मिथ्याप्रत्यये ऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्र हेतुत्वात्,अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् / अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः / तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् /
SK
FN: ११-सर्वज्ञानानां समीचीनत्वे उदाहृतस्थले भ्रम एव न स्यादिति चेत्तत्र स्वमतमाह-तथा चेति /
SK
तथा च रजतम्,इदम् इति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात्, तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति / सा च गृहीत
SK
FN: १२-गृहीतमिदमिति प्रकाशनस्वभावेत्यर्थः / पूर्वानुभवविषयत्वं स्मृतेरिति भावः /
SK
ग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते / तथा च रजतसमृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात्, संनिहित
SK
FN: १३-संनिहितरजतगोचरज्ञानसारूप्येणेति / अत्रैवं तज्ज्ञानसारूप्यं-यथेदं रजतमितिज्ञानं इदमो रजतस्य चासंसर्गं न गृह्णाति, तयोः संसृष्टत्वात् / एवमेते अपि स्मरणग्रहणे स्वगतभेदं, स्वविषयासंसृष्टत्वं न निवेदयत इति /
SK
रजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः / क्वचित्पुनर्ग्रहणे एव मिथो ऽनुगृहीतभेदे, यथा पीतः शङ्खःइति / अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते / शङ्खो ऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते / तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात् पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च / भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति / तस्माद्यथार्थाः
SK
FN: १-साध्यनिर्देशो ऽयं /
SK
सर्वे विप्रतिपन्नाः संदेहविभ्रमाः, प्रत्ययत्वात्, घटादिप्रत्ययवत् / तदिदमुक्तम्-यत्र यदध्यास इति / यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण गृहीतमात्रस्य च यः इदमिति पुरो ऽवस्थिताद्द्रव्यमात्रात्तत्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः / भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति / अन्ये तु-अत्राप्यपरितुष्यन्तः,यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनामाचक्षते / अत्रेदमाकूतम्-अस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् / तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति / ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् / ननूक्तं नाग्रहणमात्रात्, किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः / अथ ऽसमीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण / गृह्यमाणत्वे ऽपिसमीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोःऽइति ग्रहणम्, ऽअथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहःऽइति ग्रहणम् / तत्र न तावत्समीचीनज्ञानसदृशी इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् / न हिगोसदृशो गवयःइति ज्ञानं गवार्थिनं गवये प्रवर्तयति / अनयोरेव भेदाग्रहःइति तु ज्ञानं पराहतम्,न हि भेदाग्रहे अनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति / तस्मात्सत्तामात्रेण भेदाग्रहो ऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् / तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरास्त्वाहो ऽनुत्पादितारोप एव स्वत इति / वयं तु पश्यामः-चेतनव्यवहारस्यज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैव-इति / ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति / मैवम् / नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते / इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् / कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत् / अन्यदिच्छत्यन्यत्करोतीति व्याहतम् / न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् / यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्यो ऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति / सो ऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेदनो ऽव्यवस्थितः इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यते इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः / तथाहि-भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजतेतमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् / न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् / एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् / यदाहुः-
SK
FN: २-साध्यसाधनज्ञातसंबन्धस्य पुंसो लिङ्गविशिष्टधर्म्येकदेशदर्शनात् लिङ्गे विशिष्टधर्म्येकदेशे बुद्धिरनुमानमिति शबरस्वामिनः /
SK
ज्ञातसंबन्धस्यैकदेशदर्शनादिति / समारोपे त्वेकदेशदर्शनमस्ति / तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम्, रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात्, यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानन्तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम्, तथा चेदम्, तस्मात्तथेति / यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम्, किं शुक्तिकात्वस्यैदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्वित्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य / यदि शुक्तिकात्वस्यानालम्बनत्वम्, अद्धा / उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः / तथा हि-रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति / दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम्, यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम् / भस्मकदुष्टस्य चोदर्थस्य तेजसो बह्वन्नपचनमिति / प्रत्यक्षबाधापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतबहानुष्णत्वानुमानवत् / यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्याय
SK
FN: ३-व्यभिचारिणामपि सितनीलादिषु चक्षुरादीनां बोधकत्वेन प्रामाण्यमित्या दे तत्रोक्तम् /
SK
कणिकायामिति नेह प्रतन्यते / दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् / विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम्-ऽअन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति / ऽयत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना / ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यताह-सर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति / अन्यस्यान्यधर्म
SK
FN: १-अवभासपदार्थः कल्पना /
SK
कल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादयितुम् / तेन सर्वेषामेव परीक्षकाणां मतो ऽन्यस्यान्यधर्मकल्पनानिर्वचनीयावश्यंभाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः / अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः / न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह-तथा च लोके ऽनुभवः--शुक्तिका हि रजतवदवभासत इति / न पुना रजतमिदमिति शेषः / स्यादेतत् / अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनो ऽभिन्नानां जीवानां भेदविभ्रम इत्यताह-एकश्चन्द्रः सद्वितीयवदिति / पुनरपि चिदात्मन्यध्यासमाक्षिपति-कथं पुनः प्रत्यगात्मन्यविषये ऽध्यासो विषयतद्धर्माणाम् / अयमर्थः-चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणा / न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवतिति / प्रतिभासे वा (न) तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् / न खलु स एव कर्ता च कर्म च भवति, विरोधात् /
SK
FN: २-धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्युक्ते गच्छतीत्यादौ संयोगफलस्य ग्राम इव चैत्रे ऽपि समवेतत्वात्, चैत्रश्चैवं गच्छतीति प्रयोगापत्तिः, तस्मात्परसमवेतक्रियाफलशालित्वमेव कर्मत्वमित्यर्थः /
SK
परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म,न च तदेव स्वं च परं च, विरोधात् / आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनो ऽनात्मत्वप्रसङ्गः / एवं तस्य तस्येत्यनवस्थाप्रसङ्गः / स्यादेतत् / आत्मा जडो ऽपि सर्वार्थज्ञानेषु भासमानो ऽपि कर्तैव न कर्म,
SK
परसमवेतक्रियाफलशालित्वाभावात्, चैत्रवत् / यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात्, न तु चैत्रस्य क्रियाफलशालिनो ऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न / श्रुतिविरोधात् / श्रूयते हि ऽसत्यं ज्ञानमनन्तं ब्रह्मऽइति उपपद्यते च, तथा हि-यो ऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयंप्रकाशो वा / जडश्चेत्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः / तथा चाभाणकः / ऽअन्धस्येवान्धलग्नस्य विनिपातः पदे पदेऽ / न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् / ज्ञापनं हि ज्ञानजननम्, जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति / एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था / तस्मादपराधीनप्रकाशा संविदुपेतव्या /
SK
FN: ३-संविदपराधीनप्रकाशा भवतु, आत्मा जडः किं न स्यादितिवादिनं आत्मस्वप्रकाशवाद्याह---तथापीति /
SK
तथापि किमायातं विषयात्मनोः स्वभावजडयोः / एतदायातं यत्तयोः संविदजडेति /
SK
FN: १-अर्थात्मसंबन्धिन्यां संविद्यजडायामपि नार्थात्मनोः प्रकाशमानतासिद्धिः पण्डिते ऽपि पुत्रे पितुरपाण्डित्यवदित्याह---तत्किमिति /
SK
तत्किं पुत्रः पण्डित इति पितापि पण्डितो ऽस्तु / स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेत्, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसंबन्धितेति
SK
FN: २-यथा स्वभावसंबद्धा संवित् तथा पितृगतजनकत्वसंबद्धं पुत्रगतजन्यत्वमिति भावः /
SK
समानम् / सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत्, तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ / तथा च न स्वयंप्रकाशा संवित्, न च संविदर्थात्मप्रकाश इति / अथ ऽसंविदर्थात्म
SK
FN: ३-संविदश्च अर्थात्मनोश्च प्रकाशावित्यर्थः /
SK
प्रकाशो न संविदो भिद्येतेऽ, संविदेव तौ / एवं चेत् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति,
SK
FN: ४-संविदतिरिक्तप्रकाशानङ्गीकारे संविदर्थात्मानौ सह प्रकाशत इत्युक्तं स्यात् तथा चोक्तपुत्रपाण्डित्यन्यायप्रसरः /
SK
तथा च न विवक्षितार्थसिद्धिः /
SK
FN: ५अर्थसंविदोः सहभावो व्यभिचरतीत्याह---न चेति /
SK
न चातीतानागतार्थगोचरायाः संविदोर्ऽथसहभावो ऽपि / तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः / हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम्, अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत्, तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशो ऽस्तु / जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत्, नन्वयं स्वयंप्रकाशो ऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् / न च प्रकाशस्यात्मानो विषयाःते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते,प्रकाशश्चायमान्तरो ऽस्थूलो ऽनणुरह्रस्वो ऽदीर्धश्चेति प्रकाशते,
SK
FN: ६-ऽस्यादेतत्ऽइत्यारभ्य प्रतिपादितं बौद्धमतं निरस्य स्वमतमाह---तस्मादिति /
SK
तस्माच्चन्द्रे ऽनुभूयमाने इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योर्ऽथः अनिर्वचनीय एवेति युक्तमुत्पश्यामः /
SK
FN: ७-संविद आत्मत्वसिद्ध्यर्थमद्वितीयत्वमाह--नेति /
SK
न च अस्य प्रकाशस्या
SK
FN: ८-आजानतः स्वभावतः /
SK
जानतः स्वलक्षणभेदो ऽनुभूयते / न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् / न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते / तदयं प्रकाश एव स्वयंप्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ् स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात्, अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम्, देहेन्द्रियादिधर्माणाम् कथम्,किमाक्षेपे / अयुक्तो ऽयमध्यास इत्याक्षेपः / कस्मादयमयुक्त इत्यत आह-सर्वो हि पुरो ऽवस्थिते विषये विषयान्तरमध्यस्यति / एतदुक्तं भवति-यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहे ऽन्यथा प्रकाशते / प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्देषैर्दुष्येत् / न चांशवान्, येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत / नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च संभवतीति न स्वयंप्रकाशपक्षे ऽध्यासः / सदातने ऽप्यप्रकाशे पुरो ऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः /
SK
FN: ९-शुक्तेरिव एकस्यैव वस्तुनः ग्रहणाग्रहणे सिद्धे किमित्यौपाधिकं विषयत्वं साध्यत इति चेत् सांशस्य तथा स्यात् आत्मनस्तु निरंशत्वान्न तथेत्याह----नहीति /
SK
न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति / तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् / स्यादेतत् / अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह-युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनो ऽविषयत्वं ब्रवीषि / विषयत्वे हि चिदात्मनो ऽन्यो विषयी भवेत् / तथा च यो विषयी स एव चिदात्मा / विषयस्तु ततो ऽन्यो युष्मत्प्रत्ययगोचरो ऽभ्युपेयः / तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वमत एवाविषयत्वमात्मनो वक्तव्यम्, तथा च नाध्यास इत्यर्थः / परिहरति-उच्यते-न तावदयमेकान्तेनाविषयः / कुतः,अस्मत्प्रत्ययविषयत्वात् / अयमर्थः- सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादविषयो ऽनंशश्च,तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदकभेदेनानवच्छिन्नो ऽपि वस्तुतो ऽवच्छिन्न इव अभिन्नो ऽपि भिन्न इव, अकर्तापि कर्तेव अभोक्तापि भोक्तेव अविषयो ऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नो ऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति / न हि चिदेकरसस्यात्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति / न खल्वानन्दनित्यत्वविभुत्वादयो ऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् / गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति / न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सो ऽपि गृहीतो भवेत्, बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् / तस्माच्चिदात्मनः स्वयंप्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात् तदध्यासेन जीवभाव इति / तस्य चानिदमिदमात्मनो ऽस्मत्प्रत्ययविषयत्वमुपपद्यते / तथा हि-कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते / न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा संभवति / यस्य च बुद्ध्यादेः कार्यकारणसंघातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् / तस्माच्चिदात्मैव कार्यकरणसंघातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयंप्रकाशो ऽपि बुद्ध्यादिविषयविच्छुरणात् कथञ्चिदस्मत्प्रत्ययविषयो ऽहङ्कारास्पदं जीव इति च जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते / न खलु जीवश्चिदात्मनो भिद्यते / तथा च श्रुतिः-ऽअनेन जीवेनात्मनाऽइति / तस्माच्चिदात्मनो ऽव्यतिरेकात् जीवः स्वयंप्रकाशो ऽप्यहंप्रत्ययेन
SK
FN: १-यत्पूर्वं कर्मकर्तृत्वविरोध उक्तः सो ऽप्यनेन परास्तो वेदितव्यः, औपाधिकविषयत्वात् /
SK
कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते / न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति सांप्रतम्, बीजाङ्कुरवदनादित्वात्, पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादि त्युक्तम्-ऽनैसर्गिको ऽयं लोकव्यवहारःऽइति भाष्यग्रन्थेन / तस्मात् सुष्टूक्तम्-न तावदयमेकान्तेनाविषय इति / जीवो हि चिदात्मतया स्वयंप्रकाशतयाविषयो ऽप्यौपाधिकेन रूपेण विषय इति भावः / स्यादेतत् / न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः / तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतो ऽध्यास इत्यत आह-अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः / प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् / यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः / यथा पुरुषस्य चैतन्यमिति / एतदुक्तं भवति-अवश्यं चिदात्मापरोक्षो ऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् / श्रुतिश्चात्र भवति-ऽतमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति / तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह-न चायमस्ति नियमः पुरो ऽवस्थित एव, अपरोक्ष एव,विषये विषयान्तरमध्यसितव्यम् / कस्मादयं न नियम इत्यत आह-अप्रत्यक्षे ऽपि ह्याकाशे बालास्तलमलिनताद्यध्यसन्ति / हिर्यस्मादर्थे / नभो हि द्रव्यं सत् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् / नापि मानसम्, मनसो ऽसहायस्य बाह्ये ऽप्रवृत्तेः, तस्मादप्रत्यक्षम् / अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति / तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपो ऽवभासत इति / एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतमहेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः / उपसंहरति-एवम्--उक्तेन प्रकारेण सर्वाक्षेपपरिहारात्,अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम्-बुद्ध्यादीनामध्यासः / ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह-तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते / अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् / तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति / प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् / अत्र च ऽएवं लक्षणम्ऽइत्येवंरूपतयानर्थहेतुतोक्ता / यस्मात्प्रत्यगात्मन्यशनायादिरहिते ऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः / न चैवं पृथग्जना अपि मन्यन्ते ऽध्यासम्, येन न व्युत्पाद्येतेत्यत उक्तम्-पण्डिता मन्यन्ते / नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम्, उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह-तद्विवेकेन च वस्तुस्वरूपावधारणम्-निर्विचिकित्सं ज्ञानम्विद्यामाहुः,पण्डिताः / प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः / तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं
SK
FN: १-वस्तुस्वरूपं च तदवधारणं चेति कर्मधारयः /
SK
वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः / स्यादेतत् / अतिनिरूढनिबिढवासनानुविद्वाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादिकार्यं स्वोचितमित्यत आह-तत्रैवं सति, एवंभूतवस्तुतत्त्वावधारणे सति,यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न संबध्यते-अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न संबध्यते / एतदुक्तं भवति-तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति / तत्त्वपक्षपातो हि स्वभावो धियाम्, यथाहुर्बाह्या अपि--ऽनिरुपद्रवभूतार्थस्वभावस्य विपर्ययैः / न बाधो ऽयत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततःऽ //
SK
इति / विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतो ऽनिर्वाच्ययाविद्यया बाध इति / यदुक्तम्,सत्यानृते मिथुनाकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहारैति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः / इतिशब्दसूचितं लोकव्यवहारमादर्शयति-तमेतमविद्याख्यमिति / निगदव्याख्यातम् / आक्षिपति-कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि / तत्त्वपरिच्छेदो हि प्रमा विद्या,तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि / नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः / सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा,शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह-शास्त्राणि चेति / समाधत्ते-उच्यते-देहेन्द्रियादिष्वहंममाभिमानहीनस्य,तादात्म्यतद्धर्माध्यासहीनस्यप्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः / अयमर्थः-प्रमातृत्वं हि प्रमां प्रति कर्तृत्वम् तच्च स्वातन्त्र्यम् / स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् / तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् / न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति / न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् / तस्मात् व्यापारवद्बुद्ध्यादितादात्म्याध्यासात्, व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति / अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह-न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति / व्यवह्रियते अनेनेति व्यवहारः फलम्, प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः / ऽइन्द्रियाणिऽइति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम्, दण्डिनो गच्छन्तीतिवत् / एवं हि ऽप्रत्यक्षादिऽइत्युपपद्यते / व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता / अनुपादाय यो व्यवहार इति योजना / किमिति पुनः प्रमातोपादत्ते प्रमाणानि,अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह-न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः-प्रमाणानां व्यापारःसंभवति / न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति / अथ देह एवाधिष्ठाता कस्मान्न भवति,कृतमत्रात्माध्यासेनेत्यत आह-न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते / सुषुप्ते ऽपि व्यापारप्रसङ्गादि भावः / स्यादेतत् / यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातोत्यत आह-न चैतस्मिन्सर्वस्मिन्-इतरेतरात्माध्यासे इतरेतरात्माध्यासे च,असति, आत्मनो ऽसङ्गस्य-सर्वथा सर्वदा सर्वधर्मवियुक्तस्य,प्रमातृत्वमुपपद्यते / व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगो ऽसङ्गत्वादित्यर्थः /
SK
FN: १-अवश्यं चेत्यर्थः /
SK
आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह-न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति / प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति / अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा / कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत्, यदि चिदात्मा तत्र नाध्यस्येत / कथं चैष चिदात्मकर्तृको भवेत्, यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् / तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति, तत्सिद्धौ च प्रमातृत्वम्, तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः / प्रमातृत्वेन च प्रमोपलक्ष्यते / प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत / तथा च प्रमाणमप्रमाणं स्यादित्यर्थः / उपसंहरति-तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि / स्यादेतत् / भवतु पृथग्जनानामेवम् / आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह-पश्वादिभिश्चाविशेषादिति / विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् / प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते / यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते / तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् / चशब्दः समुच्चये / उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः / एतदेव विभजते-यथा हि पश्वादय इति / अत्र चशब्दादिभिः श्रोत्रादीनां संबन्धे सतिइति प्रत्यक्षं प्रमाणं दर्शितम् / शब्दादिविज्ञानेइति तत्फलमुक्तम् / प्रतिकूलेइति च अनुमानफलम् / तथा हि-शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति / उदाहरति-यथा दण्डेति / शेषमतिरोहितार्थम् / स्यादेतत् / भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि / शास्त्रं तु ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽइत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति / अत्र खल्वामुष्मिकफलोपभोगयोग्यो ऽधिकारी प्रतीयते / तथा च पारमर्षं सूत्रम्-ऽशास्त्र
SK
FN: १-यस्मात् अर्थस्य तल्लक्षणत्वात्-शब्दप्रमाणत्वात्, शास्त्रफलं शास्त्रगम्यं फलं प्रयोक्तरि प्रतीयते तस्मात् प्रयोगे ऽनुष्ठाने यजमानः स्वयं कर्ता स्यादिति सूत्रार्थाः /
SK
फलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्ऽ(आ. ३ पा. ७ सू. १८)इति / न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम्, तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह-शास्त्रीये त्विति / तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् / अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसंबन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत्, न त्वस्यासंसारित्वमपि, तस्याधिकारे ऽनुपयोगात् / प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् / प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति / तत्र कथमकर्ता प्रयोक्ता,कथं वाभोक्ता कर्मजनितफलभोगभागी / तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते / एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव / न हि प्रमात्रादिविभागादृते तदर्थाधिगमः / ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः / तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् / स्यादेतत् / यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषो ऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्यो ऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् / तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह-प्राक् च तथाभूतात्मेति / सत्यमौपनिषदपुरुषाधिगमो ऽधिकारविरोधी,तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारनिर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् / न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः / यथा-ऽन हिंस्यात्सर्वा भूतानिऽइति साध्यांशनिषेधे ऽपि ऽश्येनेनाभिचरन् यजेतऽइति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते,तत्कस्य हेतोः,पुरुषभेदादिति / अवजितक्रोधारातयः पुरुषा निषेधे ऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति / अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति-तथाहिति / वर्णाध्यासः-ऽराजा राजसूयेन यजेतऽइत्यादिः / आश्रमाध्यासः-ऽगृहस्थः सदृशीं भार्यां विन्देतऽइत्यादिः /
SK
वयो ऽध्यासः-ऽकृष्णकेशो ऽग्नीनादधीतऽइत्यादिः / अवस्थाध्यासः ऽअप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागःऽइति / आदिग्रहणं महापातकोपपातकसंकरीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसंग्रहार्थम् / तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानहर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुम् तत्स्वरुपमुक्तं स्मारयति-अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम / ऽस्मृतिरूपः परत्र पूर्वदृष्टावभासःऽइत्यस्य संक्षेपाभिधानमेतत् / तत्र अहमिति धर्मितादात्म्याध्यास-मात्रम्, ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह-तद्यथा पुत्रभार्यादिष्विति / देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह-अहमेव विकलः, सकलः इति / स्वस्य खलु साकल्येन स्वाभ्यसाकल्यात् स्वामीश्वरः सकलः संपूर्णो भवति / तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात्, स्वामीश्वरो विकलो ऽसंपूर्णो भवति / बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया संचरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः / यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वत्याशयवानाह-तथा देहधर्मानिति / देहादप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान् मूकत्वादीन्, ततो ऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसंकल्पादीन् आत्मन्यध्यस्यतीति योजना / तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह-एवमहंप्रत्ययिनम्-अहंप्रत्ययो वृत्तिर्यस्मिन् अन्तःकरणादौ, सो ऽयमहंप्रत्ययीतं / स्वप्रचारणसाक्षिणि- अन्तःकरणप्रचारसाक्षिणि, चैतन्योदासीनताभ्यां,प्रत्यगात्मन्यध्यस्य / तदनेन कर्तृत्वभोक्तृत्वे उपपादिते / चैतन्यमुपपादयति-तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण,अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम्, तस्य विपर्ययः चैतन्यम्, तेन / इत्थंभूतलक्षणे तृतीया / अन्तःकरणादिष्वध्यस्यति / तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारो ऽहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वात् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति / प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति-एवमयमनादिरनन्तः-तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः / अनाद्यनन्तत्वे हेतुरुक्तः-नैसर्गिक इति / मिथ्याप्रत्ययरूपः-मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम्;तद्यस्य स तथोक्तः / अनिर्वचनीय इत्यर्थः / प्रकृतमुपसंहरति-अस्यानर्थहेतोः प्रहाणाय / विरोधिप्रत्ययं विना कुतो ऽस्य प्रहाणमित्यय उक्तम्-आत्मैकत्वविद्याप्रतिपत्तये इति / प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वम् आनन्दरूपस्य सतः / तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति / एतदुक्तं भवति-अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञात्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् / तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् / अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् / न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते / न चासावप्रमाणमभ्यस्तो ऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनो ऽपनेतुमर्हति / आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन / न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते / मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् / मिथ्याज्ञानसंस्कारश्च सुदृढो ऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति / स्यादेतत् / प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह-यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः / शरीरमेव शरीरकम्तत्र निवासी शारीरको जीवात्मा, तस्य त्वंपदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता / एतावानत्रार्थसंक्षेपः-यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम्, यद्यपि च ऽअविशिष्टस्तु
SK
FN: १-ननु सर्वस्य वेदस्य कार्यावबोधपरत्वात् सिद्धे ब्रह्मणि वेदान्तानामप्रामाण्यं स्यादितिचेत्तत्राह---अविशिष्टस्त्विति / लोकवेदयोर्वाक्यार्थस्याविशेषात्, मन्त्राणामिव देवतादौ वेदान्तानां ब्रह्मणि प्रामाण्यं स्यादित्यर्थः / यत्पुनरुक्तं कार्यपरत्वं वेदस्य तद्धर्मविषयमुन्नेयमिति वक्ष्यति /
SK
वाक्यार्थःऽइति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम्, यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन संदेहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः / तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या / न च सर्वजनीनाहमनुभवसिद्ध आत्मा संदिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेःइति पूर्वपक्षः / सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् / तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् / एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तक्षणाः / प्रत्यगात्मैव तेषां मुख्योर्ऽथः / तस्य च वक्ष्यमाणेन क्रमेण संदिग्धत्वात् प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्याशयवान्सूत्रकारः तज्जिज्ञासामसूत्रयत्,-

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) (sa_bAdarAyaNa-brahmasUtra-subcomm2.htm).

Source