Subcommentary on the Brahma Sūtras Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya)
Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)
3.1.1 SK तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् | BBस्_३,१.१ |
2 SK द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं संबन्धं दर्शयन् सुखावबोधार्थमर्थसंक्षेपमाह-द्वितीये ऽध्याय इति / स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथाच प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिध्येदिति / अवान्तरसंगतिं दर्शयितुन्तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानिचेत्युक्तम् / अध्यायार्थसंक्षेपमुक्त्वा पादार्थसंक्षेपमाह-तत्र प्रथमे तावत्पाद इति / तस्य प्रयोजनमाह-वैराग्य इति / पूर्वापरपरिशोधनाय भूमिकामारचयति-जीवो मुख्यप्राणसचिव इति / करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति / अत्र च करणोपादानश्रुत्यैव भौतिकत्वात् करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः / यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् / नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः / नह्यागमैकगम्येर्ऽथे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति / नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह-सुलभाश्च सर्वत्र भूतमात्रा इति / द्युपर्जन्य इति / इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिः-ऽअसौ वाव लोको गौतमाग्निःऽइत्यादि / अत्र सायंप्रातरग्निहोत्राहुतो, हुते पयःआदिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्संबन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये / तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते / असौ वाव द्युलोको गौतमाग्निः / यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः / अस्यादित्य एव समित् / तेन हीद्धो ऽसौ द्युलोको दीप्यते ऽतः समिन्धनात्समित् तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् / अहरर्थिः / प्रकाशसामान्यादादित्यकार्यत्वाच्च / चन्द्रमा अङ्गारः / अर्चिषः प्रशमे ऽभिव्यक्तेः / नक्षत्राप्यस्य विस्फुलिङ्गः चन्द्रमसो ऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः / तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् / श्रद्धां जुह्वति श्रद्धा चोक्ता / पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः / तस्य वायुरेव समित् / वायुना हि पर्जन्यो ऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् / अभ्रं धूमः / धूकार्यत्वात् धूमसादृश्याच्च / विद्युदर्चिः / प्रकाशसामान्यात् / अशनिरङ्गाराः काठिन्याद्विद्युत्संबन्धाच्च / गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् / तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति / एतदुक्तं भवति-श्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति / ऽपृथिवी वाव गौतमाग्निःऽतस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् / संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते / आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते / रात्रिरर्चिः पृथिव्या श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरुपमर्चिः / दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् / अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् / तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति / पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् / वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते / प्राणो धूमः / धूमवन्मुखान्निर्गमनात् / जिह्वार्चिः लोहितत्वसाम्यात् / चक्षुरङ्गाराः प्रभाश्रयत्वात् / श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् / ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपेः परिणता सत्यः पुरुषे ऽग्नौ हुतास्तासां परिणामो रेतः संभवति / योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् / तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः / स्त्रीसंभवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् / यदन्तः करोति मैथुनं ते ऽङ्गाराः / अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् / तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति / एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति / तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति / यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते / एतदुक्तं भवति-श्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजो ऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि संग्रह इत्येतदपि वक्ष्यते / यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोवन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात्, तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरया ऽआकाशाच्चन्द्रमसमेष सोमो राट्ऽइति श्रुत्या सह ऽश्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽइत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति / तथाहि-या एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति / ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु / को दोषः / अयं दोषः / यतः श्रुतिसामान्यातिक्रम इति / एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् / अन्यथा तु न श्रुतिसामान्यं स्यात् / तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते / अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति / चोदयति-नन्वन्या श्रुतिरिति / अयमर्थः-एवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत् यद्यस्य स्थूलं शरीरं रंहतो न भवेत् / अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति / परिहरति-तत्रापीति / न तावत्परमात्मनः संसरणसंभवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् / किन्तु जीवानाम् / परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति / तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते / सांख्यानां कल्पनामाह-व्यापिनां करणानामिति /
3 SK आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः / बौद्धानां कल्पनामाह-केवलस्यैवात्मन इति / आलयविज्ञानसंतान आत्मा तस्य वृत्तिः षट् प्रवृत्तिविज्ञानानि / पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते / कणभुक्क्ल्पनामाह-मन एव चेति / भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् / दिगम्बरकल्पनामाह-जीव एवोत्प्लुत्येति /
1 SK आदिग्रहणेन लोकायतिकानां कल्पनां संगृह्णाति / ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति
6 SK चोदयति- ननूदाहृताभ्यामिति / अत्र सूत्रेणोत्तरमाह-
3.1.2 SK त्र्यात्मकत्वात्तु भूयस्त्वात् | BBस्_३,१.२ |
8 SK तेजसः कार्यमशितपीताहारपरिपाकः / अपां कार्यं स्नेहस्वेदादि / पृथिव्याः कार्यं गन्धादि / यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह-पुनश्च त्र्यात्मक इति / वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् / अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते / अब्ग्रहणनियमस्तर्हि कस्मादित्यत आह-तस्माद्भूयस्त्वापेक्ष इति /
2 SK पृथिवीधातुवर्जमितरतेजःआद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था
10 SK START Bस्VBह्_३,१.१.३
3.1.3 SK प्राणगतेश्च | BBस्_३,१.३ |
3 SK प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् / अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति / स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते / नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति
13 SK START Bस्VBह्_३,१.१.४
3.1.4 SK अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् | BBस्_३,१.४ |
4 SK श्राविते ऽपि स्पष्टे जीवस्य प्राणैः सह गमने ऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था / अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् / एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति / भक्तिश्चोपकारनिवृत्तिरुक्ता
16 SK START Bस्VBह्_३,१.१.५
3.1.5 SK प्रथमे ऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः | BBस्_३,१.५ |
5 SK पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसंभद्धमनुपपन्नं च / नहि यथा पश्वादिभ्यो हृदयादयो ऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते / न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते / तस्माद्भक्त्यायामप्सु श्रद्धाशब्दः प्रयुक्त इति / अतःएव श्रुतिः ऽआपो हात्मैऽइति
19 SK START Bस्VBह्_३,१.१.६
3.1.6 SK अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः | BBस्_३,१.६ |
6 SK अस्यार्थः पूर्वमेवोक्तः / अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्च् इरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट्, तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम्
22 SK START Bस्VBह्_३,१.१.७
23 SK सूत्रान्तरमवतारयितुं शङ्कते-कथं पुनरिति / सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति / क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः / अत उत्तरं पठति-
3.1.7 SK भाक्तं वानात्मविस्त्त्वात्तथाहि दर्शयति | BBस्_३,१.७ |
7 SK कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वे ऽस्वर्गकामो यजेतऽइति यागभावनायः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तृणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति / अत्रैवार्थे श्रुत्यन्तरं संगच्छत इत्याह-तथाहि दर्शयति / श्रुतिरनात्मविगामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया / यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः / अथवाअनात्मवित्त्वात्तथाहि दर्शयतिइत्यस्यान्या व्याख्या / आत्मवित् पञ्चाग्निविद्यावित् न आत्मवित् अनात्मवित् / यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् / तदनेनोपचारस्य प्रयोजनमुक्तम् / उपचारनिमित्तमनुपपत्तिमाह-तथाहि दर्शयति / श्रुतिर्भोक्तृत्वम् / स सोमलोके विभूतिमनुभूयेति / शेषमतिरोहितार्थम्
26 SK START Bस्VBह्_३,१.२.८
3.1.8 SK कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च | BBस्_३,१.८ |
8 SK यावत्संपातमुषित्वेति / यावदुपबन्धात् / यत्किञ्चेह करोत्ययमिति / च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात्, प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् / न खल्वभिव्यक्तिनिमित्तस्य साधारण्ये ऽभिव्यक्तिनियमो युक्तः / फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् / स्वफलविरोधि च कर्म / तस्माच्छ्रुतेरुपपत्तेश्चं निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः / आचारकर्मणी च श्रुतेः प्रसिद्धभेदे / यथाकारी यथाचारी तथा भवतीति / तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म / स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशयो भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान् जात्यायुर्भोगांश्चन्द्रलोकादवरुह्यानुभविष्यति / स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्संबन्धिनस्तत्फलभागिता-ऽपतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्ऽइत्यादि / तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगामिफलश्रुतिः / तस्माद्यावत्संपातमित्युपक्रमानुरोधात् ऽयत् किञ्चेह करोतिऽइति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं संबन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं गमयितव्यम् / तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यते-येन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीते ऽपि सानुशया एव चन्द्रमण्डलादवरोहन्ति / कुतः-दृष्टस्मृतिभ्याम् / प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या / स्मृतिश्चोपन्यस्ता / अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते / अयमभिसंधिः-कपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् / नच सति मुख्यार्थसंभवे संबन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् / न चोपक्रमविरोधाच्छ्रुत्यन्तरविरोधाच्च मुख्यार्थसंभव इति सांप्रतम् / दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः / नहि ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति यावज्जीवमाहारविहारादिसमये ऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायंप्रातःकालापेक्षया / सायंप्रातःकालविधानसामर्थ्यात्, कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् / न / इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः / तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः संकोचयितव्यः / नेत्युच्यते / नह्यसावुपसंहारानुरोधे ऽप्यसंकुचद्वृत्तिरुपपत्तुमर्हति / नहि यावन्तः संपाता यावतां वा पुंसां संपातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते / पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षये ऽतिप्रसङ्गात् / चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् / तथाच स्वयं संकुचन्ती यावच्छ्रुतिरुपसंहारानुरोधप्राप्तमपि संकोचनमनुमन्यते / एतेन ऽयत्किञ्चेह करोतिऽइत्यपि व्याख्यातम् / अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् / एवमहर्निशं च वाङ्मनः शरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं संचितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भोग्यं भवितुमर्हति / नच स्वफलविरोधिनो ऽनुशयस्य ऋते प्रायश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः संभवति / तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् / न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति / अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याह-केचित्तावदाहुरिति / अनुशयो ऽत्र दत्तफलस्य कर्मणः शेष उच्यते / तत्रेदमिह विचार्यते-किं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरवशेषं क्षपयित्वानुपभुक्तकर्मशादिहावर्तन्त इति / तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यते-सानुशया एवावर्तन्त इति / कुतः-दृष्टानुसारात् / यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालिते ऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् / न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति / यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति / तदेदद्दूषयति-न चैतदिति / एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः / शब्दैकगम्येर्ऽथे न सामान्यतोदृष्टानुमानावसर इत्यर्थः / शेषमतिरोहितार्थम् / पूर्वपक्षहेतुमनुभाषते-यदप्युक्तं प्रायणमिति / दूषयति-तदप्यनुशयसद्भावेति / रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः / अपिचेत्यादि / इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते / युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् / युगपदेव तत्फलानि भुज्येरन् / तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः / एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् / न चाभिव्यक्तं च कर्म फलं न दत्त इति च संभवति / फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः / अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गनरकततिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाश्यस्य प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माश्य इति न ते संसरेयुः / नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बतालिष्टा दशाम् / किञ्च स्वसमवेतमेव प्रायणेनाभिव्यज्यते ऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति / शेषं सुगमम्
29 SK START Bस्VBह्_३,१.२.९
3.1.9 SK चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः | BBस्_३,१.९ |
31 SK अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति / यद्यपि ऽअक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा / अनुग्रहश्च ज्ञानं च शीलमेताद्विदुर्बुधाः //
9 SK ऽइति स्मृतेः शीलमाचारो ऽनुशयाद्भिन्नस्तथाप्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने / तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति
33 SK START Bस्VBह्_३,१.२.१०
3.1.10 SK आनर्थक्यमिति चेन्न तदपेक्षत्वात् | BBस्_३,१.१० |
35 SK ऽआचारहीनं न पुनन्ति वेदाःऽइति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य / तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् / संप्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वे ऽप्यदोष इत्याह-पुरुषार्थत्वे ऽप्याचारस्येति /
10 SK तदेवं चरणशब्देनाचारवाचिना सर्वो ऽनुशयो लक्षित इत्युक्तम्
37 SK START Bस्VBह्_३,१.२.११
38 SK बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह-
3.1.11 SK सुकृतदुष्कृते एवेति तु बादरिः | BBस्_३,१.११ |
11 SK ब्रह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः / शेषमतिरोहितार्थम्
41 SK START Bस्VBह्_३,१.३.१२
3.1.12 SK अनिष्टादिकारिणामपि च श्रुतम् | BBस्_३,१.१२ |
12 SK ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽइति कौषीतकिनां समाम्नानात्, देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहितिसंख्यानियमात् / तथाहि-द्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् / न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् / गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात्, पथ्यन्तरस्याश्रुतेः, ऽजायस्व म्रियस्वेति तृतीयं स्थानम्ऽइति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसंभवादसंपूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः, ऽन कतरेणचनऽइत्यस्यासंपूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात्, अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्ते ऽभिधीयते-सत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न संपूर्यते इत्यस्य प्रतिवचनावसरे मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसंपूरणाय तत्प्रतिपक्षमाचक्षीत / यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत् स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् / नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते / तत्कस्य हेतोः / पितृयाणेन पथावरोहात् / तद्यदि क्षुद्रजन्तवो ऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् / ततो ऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टादिकारिणो न चन्द्रमण्डलादवरोहन्तीति / तस्मात् ऽये वै के चऽइतीष्टादिकारिविषयं न सर्वविषयम् / पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् / संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः / तथाच सिद्धान्तसूत्रमेव / पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् / जीवजञ्जरायुजम् / संशोकजंसंस्वेदजम्
44 SK START Bस्VBह्_३,१.३.१३
3.1.13 SK संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् | BBस्_३,१.१३ |
46 SK START Bस्VBह्_३,१.३.१४
3.1.14 SK स्मरन्ति च | BBस्_३,१.१४ |
48 SK START Bस्VBह्_३,१.३.१५
3.1.15 SK अपि च सप्त | BBस्_३,१.१५ |
50 SK START Bस्VBह्_३,१.३.१६
3.1.16 SK तत्रापि च तद्व्यापारादविरोधः | BBस्_३,१.१६ |
52 SK START Bस्VBह्_३,१.३.१७
3.1.17 SK विद्याकर्मणोर् इति तु प्रकृतत्वात् | BBस्_३,१.१७ |
54 SK START Bस्VBह्_३,१.३.१८
3.1.18 SK न तृतीये तथोपलब्धेः | BBस्_३,१.१८ |
56 SK START Bस्VBह्_३,१.३.१९
3.1.19 SK स्मर्यते ऽपि च लोके | BBस्_३,१.१९ |
58 SK START Bस्VBह्_३,१.३.२०
3.1.20 SK दर्शनाच् च | BBस्_३,१.२० |
60 SK START Bस्VBह्_३,१.३.२१
3.1.21 SK तृतीयशब्दावरोधः संशोकजस्य | BBस्_३,१.२१ |
62 SK START Bस्VBह्_३,१.४.२२
3.1.22 SK साभाव्यापत्तिरुपपत्तेः | BBस्_३,१.२२ |
22 SK यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते / न चान्यस्यान्यभावानुपपत्तिः / मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् / तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया / गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः संभवात् / यथाहुः-ऽलक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणताऽइति / एवं प्राप्ते ब्रूमः-साभाव्यापत्तिः / समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् / कुतः-उपपत्तेः / एतदेव व्यतिरेकमुखेन व्याचष्टे-नह्यन्यस्यान्यभावो मुख्य उपपद्यते / युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमये ऽजगरशरीरस्याभावात् / यदि तु देवाजगशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते / नहि दधिपयसी समसमये परस्परात्मनी शक्ये संपादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति / एवं वाय्वादिष्वपि योज्यम् / तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः / नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह-विभुत्वाच्चाकाशेनेति
65 SK START Bस्VBह्_३,१.५.२३
3.1.23 SK नातिचिरेण विशेषात् | BBस्_३,१.२३ |
23 SK ऽदुर्निष्प्रपतरम्ऽइति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी / विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः
68 SK START Bस्VBह्_३,१.६.२४
3.1.24 SK अन्याधिष्ठितेषु पूर्ववदभिलापात् | BBस्_३,१.२४ |
70 SK आकाशसारूप्यं वायुधूमादिसंपर्को ऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषाधिवनस्पतयस्तिलभाषा इति जायन्त इति श्रूयते / तत्र संशयः-किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित् क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति / तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् / नच रमणीयचरणाः कपूयचरणा इतिवत् कर्मविशेषासंकीर्तनामात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञानन्तराधिष्ठितानामेव यत्संपर्कमात्रमिति सांप्रतम् / इष्टादिकारिणामिष्टादिकर्मसंकीर्तनादिष्टादेश्च हिंसादोषदूषितात्वेन सावद्यफलतया चन्द्रलोकभोगानान्तरं स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः / नच ऽन हिंस्यात्सर्वा भूतानिऽइति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति सांप्रतम् / नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे / न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् / ऽअग्नीषोमीयं पशुमालभेत् ऽइति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् / तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्छ क्रत्वर्थता को विरोधः / यथाहुः-ऽयो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् / न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितःऽइति / तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्ते ऽभिधीयते-भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति / न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः संभवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् / नच तद्गतायाः पशुहिंसाया ऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्संभवः /
24 SK पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् / तथाहि-न हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते / न चैतत् ऽनानृतं वदेत्ऽ ऽन तौ पशौ करोतिऽइतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेधस्य क्रत्वर्थते निषेधो ऽपि क्रत्वर्थः स्यात् / पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् / एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते / तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्परित्यागेन पुरुषार्थ एव भाव्यो ऽवतिष्ठते / आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् / केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसंक्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधो ऽपि पुरुषार्थो भवति / तथा चायमर्थः संपद्यते-यत्पुरुषार्थं हननं तन्न कुर्यादिति / क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते / नच दृष्टे पुरुषोकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् / नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र संभवतः / तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति / आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् / अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति / अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः / अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनीति / व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतः सिग्भावमनुभवन्ती श्रूयते / तदेतद्व्रीह्यादिदेहत्वे ऽनुशयिनां नोपपद्यते / व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणो ऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते / शेषमुक्तम्
72 SK START Bस्VBह्_३,१.६.२५
3.1.25 SK अशुद्धम् इति चेन् न शब्दात् | BBस्_३,१.२५ |
74 SK START Bस्VBह्_३,१.६.२६
3.1.26 SK रेतःसिग्योगो ऽथ | BBस्_३,१.२६ |
26 SK सद्यो जातो हि बालो न रेतः सिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते
77 SK START Bस्VBह्_३,१.६.२७
3.1.27 SK तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह- योनेः शरीरम् | BBस्_३,१.२७ | सुगमम्
79 SK इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः //
80 SK // इति तृतीयाध्यायस्य गत्यागतिचिन्तया वैराग्यनिरूपणाख्यः प्रथमः पादः //
81 SK तृतीयाध्याये द्वितीयः पादः //
82 SK START Bस्VBह्_३,२.१.१
3.2.1 SK संध्ये सृष्टिराह हि | BBस्_३,२.१ |
84 SK इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थ प्रपञ्चयते-किं प्रबोध इव स्वप्ने ऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति / यद्यपि ब्रह्मणो ऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते / ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते / एवं किं स्वप्नसृष्टिराहोस्वित् प्रतिदिनमेव निवर्तत इति विमर्शार्थः //
85 SK द्वयोः इहलोकपरलोकस्थानयोः / संधौ भवं संध्यम् / ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतो ऽप्रत्युत्पन्नत्वेन न पारलौकिकम् / नच न रूपादिसाक्षात्कारो ऽस्ति स्वप्नदृशः /
1 SK तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक् तथ्यरूपैव सृष्टिर्भवितुमर्हति / अयमभिसंधिः-इह हि सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते / प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् / ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् / तथाभावस्य ज्ञानारोहात् / अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात् बाधकप्रत्ययादतथात्वमिति चेत् / न / तस्य बाधकत्वासिद्धेः / समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्यते / बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते / न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः / यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् / नानारूपं वा तद्वस्तु / यद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति / यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति / एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते / प्रदीपाभिव्यक्तं तु नक्तं लोहिततया / एवमसत्यां निद्रायां सतो ऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः / नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः / द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् / तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः / तत्सिद्धमेतत् / विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात्, जाग्रत्स्तम्भादिप्रत्ययवदिति / इममर्थं श्रुतिरपि दर्शयति-ऽअथ रथान् रथयोगान् पथः सृजतेऽइति / नच ऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽइति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया / सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् / जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति / अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता / प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् / नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति सांप्रतम् / ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽइति प्राज्ञस्यैव प्रकृतत्वात् / जीवकर्तृकत्वे ऽपि च प्राज्ञदभेदेन जीवस्य प्राज्ञत्वात् / अपिच जाग्रत्प्रत्ययसंवादवन्तो ऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते / तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याह-प्रियव्रत, पञ्चमे ऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां मानयिष्यतीति / स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते / तस्मात्संध्ये पारमार्थिकी सृष्टिः
87 SK START Bस्VBह्_३,२.१.२
3.2.2 SK निर्मातारं चैके पुत्रादयश् च | BBस्_३,२.२ |
89 SK START Bस्VBह्_३,२.१.३
3.2.3 SK मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् | BBस्_३,२.३ |
92 SK इदमत्राकूतम् / न तावत् क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः संभवति / नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते / न चेतरस्य रजतानुभवसमये ऽन्यो ऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च / न चोभयरूपं वस्तु / सामग्रीभेदात्तु कदाचिदस्य तोयभावो ऽनुभूयते कदाचिन्मरीचितेति सांप्रतम् / पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् / न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति / नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् / तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् / अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमे ऽपि न सेद्धुमर्हति / तथाहि-असमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत् यथा मरीचीननुभवन् / अथाशक्तमभिमन्यमानो ऽभिधावति / किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते / नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् / तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य / रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधसंभवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति / तदपबाधात्मकं च स्वानुभवादवसीयते / यथाहुः-ऽआगामित्वादबाधित्वा परं पूर्वं हि जायते / पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्ऽ / नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् / मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति / असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् / तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् / तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते / यथाहुः-ऽरजतं गृह्यमाणं हि चिरस्थायीति गृह्यते / भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्ऽ //
3 SK इति / प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते / तदयुक्तम् / यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् / अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् / नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् / तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् / अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च / ग्राह्यक्षण एकः स्वलक्षणो ऽध्यवसेयश्च / संतान इति / एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः / यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् / प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति / तादृशस्यैव बहुलं विसंवाददर्शनात् / दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता / रजन्यां सुप्त इति / रजनीसमये ऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम्
94 SK START Bस्VBह्_३,२.१.४
3.2.4 SK सूचकश्च हि श्रुतेराचक्षते च तद्विदः | BBस्_३,२.४ |
96 SK दर्शनं सूचकं तच्च स्वरूपेण सत् /
4 SK असत्तु दृश्यम् / अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते / स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते / न चास्माभिः स्वप्ने ऽपि प्राज्ञव्यापार इति / प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः / बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति
98 SK START Bस्VBह्_३,२.१.५
3.2.5 SK पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ | BBस्_३,२.५ |
5 SK देहयोगाद्वा सो ऽपिइति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे / निगदव्याख्यातं चैतयोर्भाष्यमिति
101 SK START Bस्VBह्_३,२.१.६
3.2.6 SK देहयोगाद् वा सो ऽपि | BBस्_३,२.६ |
103 SK START Bस्VBह्_३,२.२.७
3.2.7 SK तदभावो नाडीषु तच्छ्रुतेरात्मनि च | BBस्_३,२.७ |
105 SK इह हि नाडीपुरितत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते /
7 SK तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः / किमतो यद्येवम् / एतदतो भवति / यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति / अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्तज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात्, विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि संभवात् / ततश्च कर्मणैवापवर्गो न ज्ञानेन / यथाहुः-ऽकर्मणैव तु संसिद्धिमास्थिता जनकादयःऽइति / अत तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः / तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् / तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति / तस्मात्प्रयोजनवत्येषा विचारणेति / किं तावप्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः / यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति / यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वेकनिलयनार्थाः परस्परानपेक्षा नाड्यदयो ऽपि विकल्पमर्हन्ति / यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम् ऽतथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति / अथास्मिन् प्राण एवैकधा भवतिऽइति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् / प्राणशब्दं च ब्रह्म ऽअथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवतिऽन्निरपेक्षयोरवेधारत्वम् / इयांस्तु विशेषः / कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः संचरमाणस्य पुरीतदेव / एवं ताभिरेव संचरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् / तथाच विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् / प्राप्ते ऽभिधीयते-जीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन / अयमभिसंधिः-नित्यवदाम्नातानां यत्पाक्षिकत्वं नाम तद्गत्यन्तराभावे कल्प्यते / यथाहुः-ऽएवमेषो ऽष्टदोषो ऽपि यद्व्रीहियववाक्ययोः / विकल्प आश्रितस्तत्र गतिरन्या न विद्यतेऽइति / प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौशक्रुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् / तत्र यदि मिश्राभ्यां पुरोडाशो ऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् / न चैतौ प्रयोगवचनः समुच्चतुमर्हति / स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितं शक्नोति / मिश्रणे चान्यथात्वमेतेषाम् / न चाङ्गानुरोधेन प्रधानाभ्यासो ऽगोसवे उभे कुर्यात्ऽइतिवद्युक्तः / अश्रुतो ह्यत्र प्रधानाभ्यासो ऽङ्गानुरोधेन च सो ऽन्याय्यः / न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् / ऽसोमेनयजेतऽइति हि तत्रापूर्वयागविधिः / तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्य ऽसोममभिषुणोतिऽ, ऽसोममभिप्लावयतिऽइति च वाक्यान्तरानुलोचनया रसद्वारेण यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् / नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् / नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते / दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् / एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत / नच दृष्टे संभवत्यदृष्टकल्पना न्याय्या / तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारे ऽवयवान्तरस्य ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् / अत एव समुच्चयदर्शनं ऽदशौतानध्वर्युः प्रातः सवने ग्रहन् गृह्णातिऽइति / समुच्चये च सति क्रमो ऽप्युपपद्यते / ऽआश्विनो दशमो गृह्यते तृतीयो हूयतेऽ / तथैव ऽऐन्द्रवायवाग्रान्ग्रहान्गृह्णातिऽइति / तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् / यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन्, पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः / नच दृष्टे संभवत्यदृष्टकल्पना न्याय्येत्युक्तम् / तस्मात्तत्र समुच्चयस्यावश्यंभावित्याद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते / इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च नियामिकैकार्ततया विकल्पमर्हतः / न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसंभवो येन विकल्पो भवेत् / नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् / पर्यङ्के शेते प्रसादे शेत इति / तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या / सा चोक्ता भाष्यकृता-यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना / सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः / शेषमतिरोहितार्थम् / ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आह-अपिचात्रेति / अपिचेति / समुच्चये न विकल्पे / एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति / मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसंकीर्तनमित्यर्थः / पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः / यदा तु तेजो ब्रह्म तदा सुगमम् / अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति / अयमर्थः-अभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् / परमार्थतस्तु न जीवस्याधेयत्वमस्ति / तथाहि-नाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्राह्माव्यतिरेकात्स्वमहिप्रतिष्ठः / न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् / विकल्प तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति / तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीताधारत्वम् / तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति / अपिच न कदाचिज्जीवस्येति / औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपे ऽपवादे सुषुप्तवस्थायां नान्यथयितुं शक्यमित्यर्थः / अपिच ये ऽपि स्थानविकल्पमास्थिषचत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या / न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते / तत्र हि स्थितो ऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् / तथाहि श्रुतिः-ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽइति / आत्मस्थानत्वे त्वदोषः / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्ऽइति श्रुतेः / तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याह-अपिच स्थानविकल्पाभ्युपगमे ऽपीति / अत्र चोदयति-ननु भेदविषयस्यापीति / भिद्यत इति भेदः / भिद्यमानस्यापि विषयस्येत्यर्थः / परिहरति-बाढमेवं स्यादिति / न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् / औपाधिके तु परिच्छेदे यत्रोपाधिसंनिहितस्तन्मात्रं न जानीयान्न तु सर्वम् / नह्यसंनिधानात्सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद / तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसादयत तदास्य सर्वोपाध्युपसंहारो वक्तव्यः / अथाच सिद्धमस्य तथा ब्रह्मात्मत्वमित्यर्थः / गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोति-नच वयमिहेति / स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् / नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति / तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः / नीतार्थमन्यत्
107 SK START Bस्VBह्_३,२.२.८
3.2.8 SK अतः प्रबोधो ऽस्मात् | BBस्_३,२.८ |
109 SK START Bस्VBह्_३,२.३.९
3.2.9 SK स एव तु कर्मानुस्मृतिशब्दविधिभ्यः | BBस्_३,२.९ |
111 SK यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः /
112 SK स एवेति दुःसंपादमिति / स वान्यो वेति ईश्वरो वेति संभवमात्रेणोपन्यासः / नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसंभवः / अत एव
113 SK विमर्शावसरे ऽस्यानुपन्यासः / यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्ये ऽनुः प्रत्यभिज्ञानसूचनार्थः / अत एव सो ऽहमस्मीत्युक्तम् / पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति / अयनं आयः नियमेन गमनं न्यायः / जीवः प्रतिन्यायं संप्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि / योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् / तदिदमुक्तम्-त इह व्याघ्रो वा सिंहो वेति / अथ तत्र सुप्त उतिष्ठेदिति / यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसंबन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः / अपिच न जीवो नाम कश्चित्परस्मादन्य इति / यथा घटाकाशो नाम न परमाकाशादन्यः / अथ चान्य इव यावद्घटमनुवर्तते / न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् / एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इत्यभिभूत इव प्रतीयते / ततश्च सुषुप्तादावपि अभिभूत इव
9 SK जाग्रदवस्थादिषूद्भूत इव / तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति
115 SK START Bस्VBह्_३,२.४.१०
3.2.10 SK मुग्धे ऽर्धसंपत्तिः परिशेषात् | BBस्_३,२.१० |
117 SK विशेषविज्ञानाभावान्मूर्च्छा जागरस्वप्नावस्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः /
118 SK अतः सुषुप्तिरेव मूर्च्छा विशेषज्ञानाभावाविशेषात् / चिरानुच्छ्वासवेपथुप्रभृतयस्तु सुप्तेरवान्तरप्रभेदाः / तद्यथा कश्चित्सुप्तोत्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चित्पुनर्दुःखमस्वाप्सं गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति / न चैतावता सुषुप्तिर्भिद्यते / तथा विकारान्तरे ऽपि मूर्च्छा न सुषुप्तेर्भिद्यते / तस्माल्लोकप्रसिद्ध्यभावान्नेयं पञ्चम्यवस्थेति प्राप्तम् / एवं प्राप्त उच्यते- यद्यपि विशेषविज्ञानोपशमेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् / नहि विशेषविज्ञानसद्भावसाम्यमात्रेण स्वप्नजागरयोरभेदः / बाह्येन्द्रियव्यापारभावाभावाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयोजनभेदात्कारणभेदाल्लक्षणभेदाच्च भेदः / श्रमापनुत्त्यर्था हि ब्रह्मणा संपत्तिः सुषप्तम् / शरीरत्यागार्था तु ब्रह्मणा संपत्तिर्मोहः / यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः /
10 SK मुसलसंपातादिनिमित्तत्वान्मोहस्य श्रमादिनिमित्तत्वाच्च सुषुप्तस्य मुखनेत्रादिविकारलक्षणत्वान्मोहस्य प्रसन्नवदनत्वादिलक्षणभेदाच्च सुषुप्तस्यासुषुप्तस्य त्ववान्तरभेदे ऽपि निमित्तप्रयोजनलक्षणाभेदादेकत्वम् / तस्मात् सुषुप्तमोहावस्थयोर्ब्रह्मणा संपत्तावपि सुषुप्ते यादृशी संपत्तिर्न तादृशी मोह इत्यर्धसंपत्तिरुक्ता / साम्यवैषम्याभ्यामर्धत्वम् / यदा नैतदवस्थान्तरं तदा भेदात्तत्प्रविलयाय यत्नान्तरमास्थेयम् / अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम्
120 SK START Bस्VBह्_३,२.५.११
3.2.11 SK न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि | BBस्_३,२.११ |
122 SK अवान्तरसंगतिमाह-येन ब्रह्मणा सुषुप्तादिष्विति / यद्यपि ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः / तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः / तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् /
123 SK तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतो ऽपरं तु परतः / नच यत्परतस्तद्पारमार्थिकम् / नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतो ऽप्रामाण्यमपारमार्थिकम् / विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् / तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यते-न स्थानत उपाधितो ऽपि परस्य ब्रह्मण उभयचिह्नत्वसंभवः / एकं हि पारमार्थिकमन्यदध्यारोपितम् / पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् / स च प्राक्प्रतिषिद्धः / तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् / सविशेषतायामपि ऽयश्चायमस्यां पृथिव्यां तेजोमयःऽइत्यादीनां श्रुतीनां ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसंभवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात्, नानात्वस्य प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः
11 SK श्रुतिभिरभेदप्रतिपानादाकारवद्ब्रह्मविषयाणां च कासांचिच्छ्रुतीनामुपासनापरत्वमसति बाधके ऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते / यथा देवतानां विग्रहवत्त्वम् / सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः / कासांचिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् / तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् / शेषमतिरोहितार्थम्
125 SK START Bस्VBह्_३,२.५.१२
3.2.12 SK न भेदाद् इति चेन् न प्रत्येकम् अतद्वचनात् | BBस्_३,२.१२ |
127 SK START Bस्VBह्_३,२.५.१३
3.2.13 SK अपि चैवम् एके | BBस्_३,२.१३ |
3.2.14 SK START Bस्VBह्_३,२.५.१४ अरूपवद् एव हि तत्प्रधानत्वात् | BBस्_३,२.१४ |
130 SK START Bस्VBह्_३,२.५.१५
3.2.15 SK प्रकाशवच् चावैयर्थ्यात् | BBस्_३,२.१५ |
132 SK START Bस्VBह्_३,२.५.१६
3.2.16 SK आह च तन्मात्रम् | BBस्_३,२.१६ |
134 SK START Bस्VBह्_३,२.५.१७
3.2.17 SK दर्शयति चाथो अपि स्मर्यते | BBस्_३,२.१७ |
136 SK START Bस्VBह्_३,२.५.१८
3.2.18 SK अत एव चोपमा सूर्यकादिवत् | BBस्_३,२.१८ |
138 SK START Bस्VBह्_३,२.५.१९
3.2.19 SK अम्बुवदग्रहणात् तु न तथात्वम् | BBस्_३,२.१९ |
140 SK START Bस्VBह्_३,२.५.२०
3.2.20 SK वृद्धिह्रासभाक्त्वम् अन्तर्भावाद् उभयसामञ्जस्याद् एवम् | BBस्_३,२.२० |
142 SK START Bस्VBह्_३,२.५.२१
3.2.21 SK दर्शनाच् च | BBस्_३,२.२१ |
144 SK अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति / किं साल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णाति-प्रकाशवच्चावैयर्थ्यात् / चकारात्सच्च / अवैयर्थ्यात् / ब्रह्मणि सच्छ्रुतेः सिद्धान्तयति-आह च तन्मात्रम् / प्रकाशमात्रम् / नहि सत्त्वं नाम प्रकाशरूपादन्यत्, यथा सर्वगन्धत्वादयो ऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः / तदेतदनेनोपन्यस्य दूषितम् / सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् / भेदे न स्थानतो ऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति / परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति / सर्वेषां च साधारणे प्रविलयार्थत्वे सति ऽ अरूपवदेव हि तत्प्रधानत्वात्ऽ इति विनिगमनकारणवचनमनवकाशं स्यात् / एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः / सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो
145 SK विनिगमनहेतुर्न स्यादित्यर्थः / एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम्,अनुबन्धभेदात्तु भिन्नो ऽनयोरपि नियोग इति / को ऽयं प्रपञ्चप्रविलय इति / वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् / समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् / न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् / अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् / नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् / आरोपितरूपविरोधित्वातत्त्वज्ञानस्येत्युक्तम् / समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना / नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् / न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति / मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् / अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति / नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरूपपादितम् / विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः / तस्मात् ऽजर्तिलयवाग्वा जुहुयात्ऽइतिवद्विधिसरूपा एते ऽआत्मा वा अरे द्रष्टव्यऽइत्यादयो न तु विधय इति / तदिदमुक्तम्-द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुधीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति / अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्संभवति / जीवो हि नियोज्यो भवेत्, स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् / अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणो ऽनियोज्यत्वात् / अथ ब्रह्मणो ऽनन्यो ऽप्यविद्ययान्य इवेति नियोज्यः / तदयुक्तम् / ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् / तस्मान्नियोज्याभावादपि न नियोगः / तदिदमुक्तम्-जीवो नाम प्रपञ्चपक्षस्यैवेति / अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् / तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् / एवं च कृतं तत्त्वज्ञानविधिनेत्याह-ज्ञेयाभिमुखस्यापीति / नच ज्ञानादाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः / एवं हि तदुभयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत / नच तच्छक्यं वापि युक्तमित्याह-नच
146 SK प्रमाणान्तरेणेति / किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतंभवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छास्त्राविरोधादप्रमाणकम् / अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याह-अथेति / दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतो ऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता / नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते / इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः / नियोगपरतायां चेति / पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः / अपिच
147 SK नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणो ऽप्यपूर्वावान्तरव्यापारादेव स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः / तथा चानित्यत्वं सातिशयत्वं
21 SK स्वर्गवद्भवेदित्याह-कर्मफलवदिति / अपिच ब्रह्मवाक्येष्विति / सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् / दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति
149 SK START Bस्VBह्_३,२.६.२२
3.2.22 SK प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः | BBस्_३,२.२२ |
151 SK अधिकरणविषयमाह-द्वे वाव ब्रह्मणो रूपे इति / द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतो ऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते / ते दर्शयति-मूर्तं चैवामूर्तं च / समुच्चीयमानावधारणम् / अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् / तस्यैव विशेषणान्तराणि-मर्त्यं मरणधर्मकम् / स्थितमव्यापि / अवच्छिन्नमिति यावत् / सत् अन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् / गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवो ऽसाधारणा धर्माः / तस्यैतस्य ब्रह्मरूपस्य तेजो ऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति / अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् / मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः संभवत्यमूर्तस्य / एतद्यदेति गच्छति व्याप्नोतीति / एतत्त्यं नित्यपरोक्षमित्यर्थः / तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः / करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् / अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति / अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो यो ऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः / लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् / तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः / अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् / मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयति-ऽतद्यथा माहारजनंऽइत्यादिनां / एतदुक्तं भति-मूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति / तदेवं
152 SK निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते / यतः सत्यस्य रूपं निःशेषमुक्तमतो ऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह-अथात आदेशःकथनं सत्यसत्यस्य परमात्मनस्तमाह-नेति नेतीति / एतदर्थकथनार्थमिदमधिकरणम् / ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आह-नह्येतस्माद्ब्रह्मण इति / नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् / तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः / अत्रैवमर्थेनेतिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् / तदवच्छेदकत्वेन च ब्रह्म / तत्रेदं विचार्यते-किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति / यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् / ऽअस्तीत्येवोपलब्धव्यःऽइति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः / नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य
23 SK सामान्यस्यायोगात् / यथाहुः-ऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवत्ऽइति / तस्मात्तद्विशेषनिषेधे ऽपि तत्सामान्यस्य ब्रह्मणो ऽनवस्थानात्सर्वस्यैवायं निषेधः / अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात् परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः / ऽअस्तीत्येवोपलब्धव्यःऽइति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् / तत्प्रशंसार्थ चासद्भावज्ञाननिन्दा / यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् / असंनिहितो ऽपि च तत्र निषेधो योग्यत्वात्संभन्स्यते / यथाहुः-ऽयेन यस्याभिसंबन्धो दूरस्थस्यापि तेन सःऽइति / तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः / अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात्, ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात्, कतरस्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात्, ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन संबध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात्, वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः / तत्र प्रथमं पक्षं निराकरोति-न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति / अयमभिसंधिः-उपाधयो ह्यमी पृथिव्यादयो ऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य / न चोपाधिविगमे उपहितस्याभावो ऽप्रतीतिर्वा / नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावो ऽप्रतितिर्वा / तस्मादुपाधिनिषेधे ऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा / न चेतीति संनिधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् / नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते / किञ्चिद्धि क्वचिन्निषिध्यते / नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् / तदिदमुक्तम्-अपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्भुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः / मध्यमं पक्षं प्रतिक्षिपति-नापि ब्रह्मप्रतिषेध उपपद्यते / युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य / ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् / तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् / तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधो ऽपि प्रमाणवान् / नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः वस्तुनि सिद्धस्वभावे तदनुपपत्तेः / न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः / अशक्यश्च कथं निषिध्यते / प्रपञ्चस्त्वनाद्यविद्यासिद्धो ऽनूद्य ब्रह्मणि प्रतिषिद्यत इति युक्तम् / तदिमामनुपपत्तिमभिप्रेत्योक्तम्-ऽनापि ब्रह्मप्रतिषेध उपपद्यतेऽइति / हेत्वन्तरमाह-ब्रह्म ते ब्रवाणीति / उपक्रमविरोधादिति / उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमे ऽध्याये / न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां संबन्धः संभवति / यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राह-वाङ्मनसातीतत्वमपीति / प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म / नच निषेधाय तत्प्रतिपादनम्, अनुपपत्तेरित्युक्तमधस्तात् / इदानीं तु निष्प्रयोजनमित्युक्तं ऽप्रक्षालनाद्धि पङ्कस्यऽइति न्यायात् / तस्माद्वेदान्तवाचा मनसि संनिधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः / यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म / यथाहुः-ऽभेदप्रपञ्चविलयद्वारेण च निरूपणम्ऽइति / ननु प्रकृतप्रतिषेधे ब्रह्मणो ऽपि कस्मान्न प्रतिषेध इत्यत आह-तद्धि प्रकृतं प्रपञ्चितं चेति / प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः / ततो ऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् / नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणो ऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् / यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मोपलक्ष्यते / कस्मादित्यत आह-ततो ब्रवीति च भूय इति / यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति / अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः-ऽप्राणा वै सत्यम्ऽइति / महारजनाद्युपमितं लिङ्गमुपलङयति / तत् खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म / तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति / तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् / अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् / शेषमतिरोहितार्थम्
3.2.24 SK START Bस्VBह्_३,२.६.२४ अपि च संराधने प्रत्यक्षानुमानाभ्याम् | BBस्_३,२.२४ |
155 SK START Bस्VBह्_३,२.६.२५
3.2.25 SK प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् | BBस्_३,२.२५ |
157 SK START Bस्VBह्_३,२.५.२६
3.2.26 SK अतो ऽनन्तेन तथा हि लिङ्गम् | BBस्_३,२.२६ |
159 SK START Bस्VBह्_३,२.६.२७
3.2.27 SK उभयव्यपदेशात्त्वहिकुण्डलवत् | BBस्_३,२.२७ |
27 SK अनेनाहिरूपेणाभेदः / कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः / विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्रमाणेनोपलभ्यते / आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति
162 SK START Bस्VBह्_३,२.६.२८
3.2.28 SK प्रकाशाश्रयवद्वा तेजस्त्वात् | BBस्_३,२.२८ |
28 SK प्रकारान्तरेण भेदाभेदयोरविरोधमाह-प्रकाशाश्रयवद्वा तेजस्त्वात्
165 SK START Bस्VBह्_३,२.६.२९
166 SK तदेवं परमतमुपन्यस्य स्वमतमाह-
3.2.29 SK पूर्ववद् वा | BBस्_३,२.२९ |
29 SK अयमभिसंधिः-यस्य मतं वस्तुनो ऽहित्वेनाभेदः / कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति / यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ / नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति / अतिप्रसङ्गात् / अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनो ऽनन्यत्वेनाभेदात् / न चैकविषयत्वे ऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत / नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति / देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् / प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् / तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः / तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः / तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसंभवः / नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति / यथाह श्रुतिः-ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽइति / शेषमतिरोहितार्थम्
169 SK START Bस्VBह्_३,२.६.३०
3.2.30 SK प्रतिषेधाच् च | BBस्_३,२.३० |
171 SK START Bस्VBह्_३,२.७.३१
3.2.31 SK परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः | BBस्_३,२.३१ |
31 SK यद्यपि श्रुतिप्राचुर्याद्ब्रह्मव्यतिरिक्तं तत्त्वं नास्तीत्यवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तद्विरोधदर्शनात्तत्प्रतिसमाधानार्थमयमारम्भः / जाङ्गलंस्थलम् / प्रकाशवदनन्तवज्ज्योतिष्मदायतनवदिति पादा ब्रह्मणश्चत्वारस्तेषां पादानामर्धान्यष्टौ शफाः / ते ऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म / षोडश कला अस्येति षोशकलम् / तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः / एतदुपासनायां प्रकाशवान् मुख्यो भवतीति प्रकाशवान् पादः / अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादो ऽनन्तवान्नाम / सो ऽयमनन्तवत्त्वेन गुणेनोपास्यमानो ऽनन्तत्वमुपासकस्यावहतीति अनन्तवान् पादः / अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः / अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम / एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतनवान्नाम पादः / तदेवं चतुष्पाद्ब्रह्माष्टशफं षोडषकलमुन्मिषितं श्रुत्या / अतस्ततो ब्रह्मणः परमन्यदस्ति / स्यादेतत् / अस्ति चेत् परिसंख्यायोच्यतामेतावदिति / अत आह-अमितमस्तीति / प्रमाणसिद्धम् / न त्वेतावदित्यर्थः / भेदव्यपदेशश्च त्रिप्रकारः-आधारतश्चातिदेशतश्चावधितश्च
174 SK START Bस्VBह्_३,२.७.३२
3.2.32 SK सामान्यात् तु | BBस्_३,२.३२ |
32 SK जगतस्तन्मर्यादानां च विधारकत्वं च सेतुसामान्यम् / यथा हि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् / तन्मर्यादानां च विधारकं ब्रह्म / इतरथातिचपलस्थूलबलवत्कल्लोलमालाकलिलो जलनिधिरिलापरिमण्डलमवगिलेत् / वडवानलो वा विस्फुर्जितज्वालाजटिलो जगद्भस्मसाद्भावयेत् / पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति / तथाच श्रुतिः-ऽभीषास्माद्वातः पवतेऽइत्यादिका
177 SK START Bस्VBह्_३,२.७.३३
3.2.33 SK बुद्ध्यर्थः पादवत् | BBस्_३,२.३३ |
179 SK मनसो ब्रह्मप्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमिति चत्वारः पादाः /
33 SK मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिः संचरतीति संचरणसाधारणतया मनसः पादस्तदिदमध्यात्मन् / आकाशस्य ब्रह्मप्रतीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः / ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादास्तदिदमधिदैवतम् / तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याह-अथवा पादवदिति / तद्वदिति / इहापि मन्दबुद्धीनामाध्यानव्यवहारायेत्यर्थः
181 SK START Bस्VBह्_३,२.७.३४
3.2.34 SK स्थानविशेषात्प्रकाशादिवत् | BBस्_३,२.३४ |
183 SK बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य जाग्रत्स्वप्नयोर्विशेषविज्ञानस्योपाध्युपशमे ऽभिभवे सुषुप्तावस्थानमिति /
184 SK तथा भेदव्यपदेशो ऽपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयेति / यथा सौधजालमार्गनिवेशिन्यः सवितृभासो जालमार्गोपाधिभेदाद्भिन्ना
34 SK भासन्ते तद्विगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन संबध्यन्त एवमिहापीति
186 SK START Bस्VBह्_३,२.७.३५
187 SK स्यादेतत् / एकीभावः कस्मादिह संबन्धः कथञ्चिद्व्याख्यायते न मुख्य एवेत्येतत्सूत्रेण परिहरति-
3.2.35 SK उपपत्तेश् च | BBस्_३,२.३५ |
35 SK स्वमपीत इति हि स्वरूपसंबन्धं ब्रूते / स्वभावश्चेदनेन संबन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादात्म्यान्नातिरिच्यत इति तर्कपाद उपपादितमित्यर्थः / तथा भेदो ऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः
190 SK START Bस्VBह्_३,२.७.३६
3.2.36 SK तथान्यप्रतिषेधात् | BBस्_३,२.३६ |
36 SK सुगमेन भाष्येण व्याख्यातम्
193 SK START Bस्VBह्_३,२.७.३७
3.2.37 SK अनेन सर्वगतत्वमायामशब्दादिभ्यः | BBस्_३,२.३७ |
37 SK ब्रह्माद्वैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आह-अनेन सेत्वादिनिराकरणेनपरहेतुनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च स्वसाधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति / अद्वैते सिद्धे सर्वो ऽयमनिर्वचनीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसंबन्धाद्ब्रह्म सर्वगतमिति सिद्धम्
196 SK START Bस्VBह्_३,२.८.३८
3.2.38 SK फलमत उपपत्तेः | BBस्_३,२.३८ |
198 SK सिद्धान्तोपक्रममिदमधिकरणम् / स्यादेतत् / नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आह-तस्यैव ब्रह्मणो व्यावहारिक्यामिति / नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् / एतच्च ऽतपसा चीयते ब्रह्मऽइति व्याचक्षाणेरस्माभिरूपपादितम् / इष्टंफलं स्वर्गः / यथाहुः-ऽयन्न दुःखन संभिन्नं नच ग्रस्तमनन्तरम् / अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्ऽइति / अनिष्टमवीच्यादिस्थानभोग्यं,व्यामिश्रंमनुष्यभोग्यम् / तत्र तावत्प्रतिपाद्यते-फलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति / अथ कर्मण एव फलं कस्मान्न भवतीत्यत आह-कर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति / चोदयति-सयादेतत्कर्म विनश्यदिति / उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न
38 SK भुज्यत इत्यर्थः / परिहरति-तदपि न परिशुध्यतीति / नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्यो ऽस्माकंभवत्विति / तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति / नच तादृशं कर्मानन्तरमिति कथं फलं, तदपि स्वरूपेण / अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् / तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते / चोदयति-अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः कर्माकार्यादपूर्वात्फलमुत्पत्स्यत इति / परिहरति-तदपि नेति / यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् / तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः / न चापूर्वं प्रामाणिकमपीत्याह-तदस्तित्वे इति
3.2.39 SK START Bस्VBह्_३,२.८.३९ श्रुतत्वाच् च | BBस्_३,२.३९ |
202 SK START Bस्VBह्_३,२.८.४०
203 SK सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति-
3.2.40 SK धर्मं जैमिनिरत एव | BBस्_३,२.४० |
205 SK श्रुतिमाह-श्रूयते तावदिति / ननु ऽस्वर्गकामो यजेतऽइत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति / तथाहि-यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण संबद्धुमर्हन्ति / अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति / न चैकस्मिन् वाक्ये साध्यद्वयसंबन्धसंभवः, वाक्यभेदप्रसङ्गात् / न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् / स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रति ऽभूतं भव्यायोपदिश्यतेऽइति न्यायात्साधनतया गुणत्वेनाभिसंबन्धः / तथाच पारमर्षं सूत्रम्-ऽद्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धःऽइति / तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात्, समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु संभवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहि-सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते-यथा ऽस्वर्गकामो यजेतऽइति शरीरात्मभावप्रलियः / इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थो ऽधिकारी गम्यते / तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतो ऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन देहात्मभावप्रविलयस्तत्परेण क्रियते / ऽगोदोहनेन पशुकामस्य प्रणयेत्ऽइत्यत्राप्यापाततो ऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः / निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानि ऽसांग्रहण्या यजेत ग्रामकामःऽइत्यादीनि न सांग्रहण्यादिप्रवृत्तिपराण्यपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि / यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति / तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते / रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः / तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् / तस्मात्कर्मफलसंबन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव
206 SK कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति / कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः / नहि यो यः प्रवर्तयति स सर्वो ऽधिकृतमपेक्षते / पवनादेः प्रवर्तकस्य तदनपेक्षत्वादितिशङ्कामपाचिकीर्षुराह-तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते / अन्यथा ह्यननुष्ठातृको याग आपद्येत / अयमभिसंधिः-उपदेशो हि विधिः / यथोक्तम्-ऽतस्य ज्ञानमुपदेशःऽइति / उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः / तद्यथारोग्यकामो जीर्णे भुञ्जीत / एष सुपन्था गच्छतु भवाननेनेति / न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात्, तस्य चापौरुषेये ऽसंभवात् / अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् / तथाच ऽस्वर्गकामो यजेतऽइत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः / इतरथा तु न साधयितारमनुगच्छेयुः / तदुक्तमृषिणा-ऽअसाधकं तु तादर्थ्यात्ऽइति / अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् /
207 SK साधयितारं नाधिगच्छेदित्यर्थः / न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः / दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् / स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च / प्रीत्यात्मकत्वाच्च / नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः / फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसंभवात्, भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणे ऽप्यविरोधात् / अन्यथा सर्वत्र तदुच्छेदात् / परश्वादेरपि छिदादिषु तथाभावात् / फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणो ऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् / न चाप्राप्तार्थविषयाः सांग्रहण्यादियागविधयः परिसंख्यायका नियामका वा भवितुमर्हन्ति / न चाधिकाराभावे
40 SK देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् / आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् / स्वरसतः प्रतीयमानेर्ऽथे वाक्यस्य तादर्थ्ये संभवति न संपातायातपरत्वमुचितम् / न चैतावता शास्त्रत्वव्याघातः / तस्य स्वर्गाद्युपायशासने ऽपि शास्त्रत्वोपपत्तेः / पुरुषश्रेयो ऽभिधायकत्वं हि शास्त्रत्वम् / सरागवीतरागपुरुषश्रेयो ऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः / तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् / कर्मणो वा काचिदवस्थेति / कर्मणो ऽवान्तरव्यापारः / एतदुक्तं भवति-कर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति / नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् / असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् / असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् / तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् / यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदाफलस्य वा पूर्वावस्था / अविचित्रस्य कारणस्येति / यदीश्वरादेव केवलादिति शेषः / कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः
209 SK START Bस्VBह्_३,२.८.४१
3.2.41 SK पूर्वं तु बादरायणो हेतुव्यपदेशात् | BBस्_३,२.४१ |
211 SK दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा / नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः / नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः / तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत / तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेध्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे / लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्ति भिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् / तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् / यथा विनष्टं
41 SK कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति / तथा देवपूजात्मको यागो देवतां नप्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् / नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते / तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते / तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण / एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् / ततः स्थायिनो ऽनिष्टफलप्रसवः / नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते / नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिको ऽपीश्वरः / यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः / एवं प्रधानाराधने ऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः / स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् / तस्माद्दृष्टाविरोधेन देवताराधनात् फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः / ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयांबभूवुस्तेभ्यो व्यावहारिख्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत
2 SK इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः
214 SK // इति तृतीयाध्यायस्य तत्त्वम्पदार्थपरिशोधनाख्यो द्वितीयः पादः //
215 SK तृतीयाध्याये तृतीयः पादः /
216 SK START Bस्VBह्_३,३.१.१
3.3.1 SK सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् | BBस्_३,३.१ |
218 SK पूर्वेण संगतिमाह- व्याख्यातं विज्ञेयस्य ब्रह्मण इति / निरूपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति- ननु विज्ञेयं ब्रह्मेति / सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन / नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम्- एकरसमिति / धनङ् कठिनम् / नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैको ऽप्याचार्यो मायुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम्- एकरूपत्वाच्च / एकस्मिन् गोचरे संभवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम्- अनेकरूपाणि / रूपमाकारः / समाधत्ते- उच्यते-सगुणेति / तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः / तत उपपन्नो विमर्श इत्याह- तेष्वेषा चिन्ता / पूर्वपक्षं गृह्णाति- तत्रेति / नाम्नस्तावदिति / अस्ति ऽअथैष ज्योतिः-एतेन सहस्रदक्षिणेन यजेतऽइति / तत्र संशयः-किं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम्, उतैतद्गुणविशिष्टकर्मान्तरविधानमिति / किं तावत् प्राप्तम्, ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन
219 SK कर्मनामव्यवस्थापनात्, कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नो ऽपि तथैव व्यवस्थापनात्, ज्योतिःशब्दस्य ऽवसन्ते वसन्ते ज्योतिषाऽइति च ज्योतिष्टोमे योगदर्शनात् नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत्, अथशब्दस्य चानन्तर्यार्थस्यासंबन्धित्वे ऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात्, द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् / एवं प्राप्त उच्यते-भवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् / विच्छिन्नं तु तत् / तथाहि संनिधावपि पूर्वासंबद्धार्थं संज्ञान्तरं प्रतीयमानम् ऽअन्यायश्चानेकार्थत्वम्ऽइति न्यायादुत्सर्गतोर्ऽथान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् / न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः / तथा चोपरिष्टात् ऽयजेतऽइति श्रूयमाणमसंबद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत् तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते / न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः / नहि गाङ्गायां घोष इत्यत्र गाङ्गापदं लाक्षणिकमिति मीनो गाङ्गायामित्यत्रापि लाक्षणिकं भवति / भेदे ऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते / तथा चाथशब्दो ऽधिकारार्थः प्रकरणान्तरतामवद्योतयति / एषशब्दश्चाधिक्रियमाणपरामर्शक इति सो ऽयं संज्ञान्तराद्भेद इति / भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह- अस्ति चात्र वेदान्तान्तरविहितेष्विति / यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञाने ऽपि लौकिकाः / न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् /
220 SK प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् / तस्माज्ज्ञानस्यापि वाचिका समाख्या / तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमे ऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति / तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्येवमादिषु / इदमाम्नयते-ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षाऽइति / अत्र हि द्रव्यदेवतासंबन्धानुमितो यागो विधीयते / तदनन्तरं चेदमाम्नायते-ऽवाजिभ्यो वाजिनम्ऽइति / अत्रेदं संदिह्यते-किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति / किं तावत् प्राप्तम्, द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात् कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः / न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् / उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् / तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् / न च वैश्वदेवीत्यत्र श्रौत आमिक्षासंबन्धो विश्वेषां देवानां येन वाजिनसंबन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् / नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः / अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्संबन्धिनो विश्वान्देवानुपलक्षयति / यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे
221 SK देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात्, तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात् संनिहितस्य च सर्वनामार्थत्वात्, विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः / तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः / ततश्चामिक्षासंबन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते-स्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत / तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात् संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषषु / न तत्संबन्धे, नापि तत्संबन्धिमात्रे / नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे / तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे / अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् / इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः / कुतो वा तत्रानपेक्षा / अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च / यत्तु पर्यवसिताभिधानपदाभिहितपदार्थवगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससंबन्धि पूर्वस्माद्भिनत्ति / एवञ्च सति नित्यवदवगधानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति / नचाश्वत्वे निरीढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति / प्रकृतं हि सर्वनामपदगोचरः /
222 SK प्रधानं च प्रकृतमुच्यते नोपसर्जनम् / प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् / तस्माद्यथेह पूर्वकर्मासंभविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति / तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक इति / तथाहि-कारीरिवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये / तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये / तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये / केचित्त्वाचरन्त्यन्यमेव धर्मम् / नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते / अतो ऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति / अस्तु प्रस्तुते किमायातमित्यत आह- अस्ति चात्रेति / अन्येषां शाखिनां नास्तीति शेषः / एवं पुनरुक्त्यादयो ऽपीति / ऽसमिधो यजतिऽइत्यादिषु पञ्चकृत्वो ऽभ्यस्तो यजतिशब्दः / तत्र किमेका कर्मभावना किंवा पञ्चैवेति / किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः ऽसमिधो यजतिऽइति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरीवर्तमानोपरितनैर्वाक्यैरनूद्यते / नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् / कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् / एवं प्राप्त उच्यते-परस्परानपेक्षाणि हि समिदादिवाक्यानीति / सर्वाण्येव प्राथम्यार्हण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति / न त्वयमेषां प्रयोजकः क्रमः / परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् /
223 SK तेन प्राथम्याभावात् प्राप्तमित्येव नास्तीति कस्य को ऽनुवादः / कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् / गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः / यथा ऽदध्ना जुहोतिऽइति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम् ऽअग्निहोत्रं जुहेतिऽइति विहितस्य होमस्य
224 SK विपरीवर्तमानस्यानुवादः / न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् / अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते / न चापूर्वा नाम ज्योतिरादिवद्विधानसंबन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् / किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वे ऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते / तस्मात् स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्यो ऽभ्यासो भेत्स्यतीति / अशक्तेश्च / नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारे ऽध्ययनविधानवैयथ्र्यप्रसङ्गात् / प्रतिशाखं भेदे तूपासनानां नायं दोषः / समाप्तिभेदाच्च / केषाञ्चित् शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः / केषाञ्चिदन्यत्र / तस्मादप्युपासनाभेदः / अन्यार्थदर्शनादपि भेदः / तथाहि-ऽनैतदचीर्णव्रतो ऽधीतेऽइति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः / क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते / तस्मादुपासनाभेद इति / अत्र सिद्धान्तमाह- सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् /
1 SK तद्व्याचष्टे- सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानिविज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति / यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः / चोदनाद्यविशेषात् / आदिशब्देन संयोगरूपाख्याः संगृह्यन्ते / अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः / स हि पुरुषस्य व्यापारः / तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते / तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति / एवं फलसंयोगो ऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव / रूपमपि तदेव / यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति / एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति
226 SK START Bस्VBह्_३,३.१.२
3.3.2a SK युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसंबन्धे ऽप्यभेद इति / यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः / तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः- भेदान्नेति चेदिति |
3.3.2b SK | परिहारः सूत्रावयवः- न एकस्यामपीति |
2 SK वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसंख्याया अविधानान्नोत्पत्तिशिष्टत्वं संख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा संख्यानूद्यते सांपादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् / अप्रत्यभिज्ञायमानायाश्च संख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसंभवान्न शाखान्तरे ज्ञानभेदः / उत्पत्तिशिष्टत्वे ऽसिद्धे प्राणसंवादादयो ऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति
231 SK START Bस्VBह्_३,३.१.३
3.3.3 SK स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः | BBस्_३,३.३ |
3 SK यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा / अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसंबन्धादवगम्यते / तत्संबन्धश्च वेदव्रतेनेति ऽनैतदचीर्णव्रतो ऽधीतेऽइति समाम्नानादवगम्यते / ऽतेषामेवैतां ब्रह्मविद्यां वदेतऽइति विद्यासंयोगे ऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसंबन्धाविरोधादाथर्वविहितैव विद्योच्यत इति / सवा होमाः सप्त सौर्यादयः शतौदनान्ता अथर्वणिकानां त एकस्मिन्नेवार्थर्वणिके ऽग्नौ क्रियन्ते न त्रेतायाम्
234 SK START Bस्VBह्_३,३.१.४
3.3.4 SK दर्शयति च | BBस्_३,३.४ |
237 SK भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद
4 SK एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव / तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति / यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् / एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् / नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते / नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ संभवन्त्यामुपासनाभिधानामप्यासां शक्यं कल्पयितुम् / नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् / कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक् नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत / तस्मान्न समाख्यातो भेदः / अभ्यासो ऽपि नात्र भेदकः / युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति / तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम् ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वे ऽपि नौत्सर्गिकविधित्वव्याकोप इति / अशक्तिरपि न भेदहेतुः स्वाध्यायो ऽध्येतव्य इति स्वशाखायामध्ययननियमः / ततश्च शाखान्तरपरीयानर्थानन्येभ्यस्तद्विद्येभ्यो ऽधिगम्योपसंहरिष्यति / समाप्तिश्चैकस्मिन्नपि तत्संबन्धिनि समाप्ते तस्य व्यपदिश्यते / यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्ति व्यपदिशन्ति-ऽज्योतिष्टोमः समाप्तःऽइति तस्मात्समाप्तिभेदो ऽपि न साधनमुपासनाभेदस्य / तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम्
239 SK START Bस्VBह्_३,३.२.५
240 SK कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् / वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् //
241 SK चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम्-
3.3.5 SK उपसंहारो ऽर्थाभेदाद् विधिशेषवत्समाने च | BBस्_३,३.५ |
5 SK सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति / तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् / अपेक्षणे चाधिकमपि तत्र विधीयते / नच विहितम् / तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति / एवं प्राप्त उच्यते-सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते / नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते / नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासंभवादुपकारावच्छेदः कल्प्यते / प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीये ऽप्युपकारावच्छेदः स्यात् / इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसंचष्टे / नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् / तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिको ऽसति बलवति बाधके नापवदितुं युक्त इति
245 SK START Bस्VBह्_३,३.३.६
3.3.6 SK अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् | BBस्_३,३.६ |
247 SK द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च / ततः कानीयसा एव देवा ज्यायसा असुराः / शास्त्रजन्यया सात्त्विक्या बुद्ध्या संपन्ना देवाः / ते हि दीव्यन्त इति देवाः / शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः / यतो ऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः / अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य / प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् / कदाचित्तामसवृत्त्युद्भवो ऽभिभवश्च सात्त्विक्या वृत्तैः / सेयं स्पर्धा / ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान्
248 SK जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति / ते ह वाचमूचुरित्यादिना संदर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति / तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत् ते ऽसुरा विदुरनेन प्राणेनोद्गात्रा नो ऽस्मान् देवा अत्येष्यन्तीति / तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चो ऽसुरा विनेशुः / तदेतत् संक्षिप्याह- वाजसनेयक इति / तथा छान्दोग्ये ऽप्येतदुक्तमित्याह- तथा छान्दोग्ये ऽपीति / विषयं दर्शयित्वा विमृशति- तत्र संशय इति / पूर्वपक्षं
6 SK गृह्णाति- विद्यैकत्वमिति / पूर्वपक्षमाक्षिपति- ननु न युक्तमिति / एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः / समाधत्ते- नैष दोष इति / बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् / न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह- वाजसनेत्यके ऽपि चेति / बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः
250 SK START Bस्VBह्_३,३.३.७
3.3.7 SK न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् | BBस्_३,३.७ |
252 SK बहुतरप्रत्यभिज्ञाने ऽपि उपक्रमभेदात्तनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः संकीर्तनाल्लक्षणायां च छान्दोग्ये
253 SK वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः / ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य / तथाहि-भूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् / तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये / नच विवक्षितार्थभेद इति / एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति / तथा ह्यभ्युदयवाक्ये इति / एवं हि श्रूयते-ऽविवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्ऽइति / तत्र संदेहः-किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति / एष तावदत्र विषयः-अमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः / दध्यर्थश्च दोहः / प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः / यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते-ऽयस्य हविर्निरुप्तम्ऽइति / तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः / तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति / तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् / यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् / अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् / अपिच प्राप्ते
254 SK पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता संबन्धश्च विधातव्यः / चरुत्वं चात्र विहितं नास्तीति तदपिव विधातव्यम् / तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत / कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते / दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते-न कर्मान्तरम् / पूर्वदवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् / चर्वर्थस्य चार्थप्राप्तेः / भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्वावत् / तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत् देवतासंबन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसंबन्धं विधातुं शक्नुवन्ति / तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानात् देवतान्तरसंबन्धे ऽपि न कर्मान्तरकल्पनाभवितुमर्हति / ततश्च समाप्ते ऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि / नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् / प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसंबन्धः कृतः / नच प्रभूतधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया संभवति / इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाको ऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते / भवतु वा अनेकवाक्यकल्पनम् /
255 SK प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति / तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् / पशुकामवाक्ये
7 SK त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्ये ऽपि / ऽयः पशुकामः स्यात्सो ऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमते ऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तनिन्द्राय प्रदात्रे दधंश्चरुम्ऽइति / अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणो ऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् / परोवरीयस्त्वादिवत् / यथोद्गीथोपासनासाम्ये ऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति / परस्मात् परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः संपन्नः / अत एव अनन्तः / परमात्मदृष्टिमुद्गीथे भवयितुम् ऽआकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्ऽइत्याकाशशब्देन परमात्मानं निर्दिशति
3.3.8 SK START Bस्VBह्_३,३.३.८ संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि | BBस्_३,३.८ | स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् / अपिच श्रुत्यक्षरालोचनयां भेदप्रत्ययो ऽन्तरङ्गश्चानपेक्षश्च / संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च / तस्मादुर्बलं नामेदसाधनायालमिति
258 SK START Bस्VBह्_३,३.४.९
3.3.9 SK व्याप्तेश् च समञ्जसम् | BBस्_३,३.९ |
260 SK अध्यासो नामेति / गौणी बुद्धिरध्यासः / यथा माणवके ऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथबुद्धिव्यपदेशाविति / अपवादैकत्वविशेषणानि
261 SK चोक्तानि / एकार्थे ऽपि च शब्दद्वयप्रयोगो दृश्यते / यथा वैश्वदेव्यामिक्षा विज्ञानमानन्दम् / व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति / विमृश्यानध्यवसायलक्षणं पक्षं गृह्णाति- तत्रान्यतम इति / सिद्धान्तमाह-इदमुच्यते- व्याप्तेश्च / प्रत्यनुवाकं प्रत्यृचमुपक्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्गतो ऽयमोङ्कारस्तत्तदाप्यादिगुणविशिष्टस्तस्मै तस्मै कामावाप्त्यादिफलायोपास्यत्वेनाधिक्रियत इत्यपेक्षायामुद्गीथपदेनेति विशिष्यते / उद्गीथपदेनोकाराद्यवयवघटितसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्तेस्तत्संबन्धवयव ओङ्कारो लक्ष्यते, न पुनरोङ्कारेणावयविन उद्गीथस्य लक्षणा / ओङ्कारस्यैवोपरिष्टात्तु तत्तद्गुणविशिष्टस्य तत्तत्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् / दृष्टश्च समुदायशब्दो ऽवयवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे / अध्यासे तु लक्षणा फलकल्पना च / तथाहि आप्त्यादिगुणकप्रणवोपासनादिदमुद्गीथतोपासनं प्रणवस्यान्यत् / नचात्राप्यादि उपासनेष्विव फलं श्रूयते / तस्मात् कल्पनीयम् / उद्गीथसंबन्धिप्रणवोपासनाधिकारपरे वाक्ये नायं दोषः / अपिच गौण्या वृत्तेर्लक्षणावृत्तिर्बलीयसी लाघवात् / लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् / यथा गाङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थे ऽन्तर्भावो ऽधिकरणतया / गौर्वाहीक इत्यत्र तु गोसंबन्धितीष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गोशब्दस्य / अपितु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वं तदिदमुक्तं-लक्षणायामपि त्विति / गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता / यद्यपि
9 SK वैश्वदेवीपदमामिक्षायां प्रवर्तते तथाप्यर्थमेदः स्फुटतरः / आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते / वैश्वदेवीपदं तु तस्यामेव विश्वदेवविशिष्टायाम् / एवं हि विज्ञानान्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकार्थ्ये / नच व्याख्यानमुभयोरपि प्रसिद्धार्थत्वाद्भिन्नार्थत्वाच्च / शेषमतिरोहितार्थम्
263 SK START Bस्VBह्_३,३.५.१०
3.3.10 SK सर्वाभेदादन्यत्रेमे | BBस्_३,३.१० |
265 SK सर्वाभेदादन्यत्रेति /
266 SK एवंशब्दस्य सन्निहितप्रकारभेदपरामर्शार्थत्वात्साक्षाच्छब्दोपस्थापितस्य च संनिधानाच्छाखान्तरगतस्य चानुक्रमतया(?) संनिधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य वसिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठत्रेष्ठत्वमात्रेणेति पूर्वः पक्षः / सिद्धान्तस्तु-सत्यं संनिहितं परामृशति एवङ्कारो न तु शब्दोपात्तमात्रं संनिहितम् / किन्तु यच्छब्दाभिहितार्थनान्तरीयकतया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव / यथा ऽयस्य पर्णमयी जुहूर्भवतिऽइत्यव्यभिचारितक्रतुसमन्वयया जुह्वोपस्थापितः क्रतुः / तस्मादुपास्यफलप्रत्यभिज्ञानात्तदव्यभिचारिणः प्रकारभेदस्येहानुक्तस्यापि बुद्धौ संनिधानात्प्रकृतपरामर्शिनैवङ्कारेण
267 SK परामर्शो युक्त इति सिद्धं कौषीतकिब्राह्मणगतेन तावदेवङ्कारेण शक्यते पराम्रष्टुम् / तथाप्यभ्युपेत्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम्- तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनेति / श्रुतहानिरिति /
10 SK केवलस्य श्रुतस्य हानिरितरसहितस्य चाक्षुतस्य कल्पना न चेत्यर्थः / अतिरोहितमन्यत्
269 SK START Bस्VBह्_३,३.६.११
3.3.11 SK आनन्दादयः प्रधानस्य | BBस्_३,३.११ |
11 SK वास्तवगुणव्याख्यानाद्विवेकार्थमिदमधिकरणम् / यथैकस्य ब्रह्मणः / संयद्वामत्वादयः सत्यकामादयश्च गुणा न संकीर्येरन् / एवामानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न संकीर्येरन् / तत्संकरे वा संयद्वामत्वादयो ऽपि सत्यकामादिभिः संकीर्येरन् / नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः / राद्धान्तस्तु वास्तवविधेययोर्वस्तुधर्मतया चानुष्ठेयतया चाव्यवस्थाव्यवस्थे व्यवतिष्ठेते / वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते / नासावेकत्रोक्तो ऽन्यत्रानुक्तो नास्तीति शक्यं वक्तुम् / विधेयस्तु पुरुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र यावद्गुणविशिष्टे ब्रह्मणि चोदितः स तावत्येवावतिष्ठते नाविहितमपि गुणं चोतरीकर्तुमर्हति / तस्य विधितन्त्रत्वाद्विधेश्च व्यवस्थानात् / तस्मादानन्दविज्ञानादयो ब्रह्मतत्त्वात्मतयोक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते / संयद्वामादयश्चोपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्त्विति सिद्धम् / प्रियशिरस्त्वादीनां तूपास्यत्वमारोप्य न्यायो दर्शितः / तस्य (?)तु संयद्वामादिरुक्तः / मोदनमात्रं मोदः / प्रमोदः प्रकृष्टो मोदस्ताविमौ परस्परापेक्षावुपचयापचयौ
273 SK START Bस्VBह्_३,३.६.१२
3.3.12 SK प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे | BBस्_३,३.१२ |
275 SK START Bस्VBह्_३,३.६.१३
3.3.13 SK इतरे त्वर्थसामान्यात् | BBस्_३,३.१३ |
277 SK START Bस्VBह्_३,३.७.१४
3.3.14 SK आध्यानाय प्रयोजनाभावात् | BBस्_३,३.१४ |
279 SK इन्द्रियेभ्यः परा ह्यर्था इति / किमत्र सर्वेषामेवार्थादीनां परत्वं प्रतिपिपादयिषितम्, आहो पुरुषस्यैव तत्प्रतिपादनार्थं चेतरेषां परत्वप्रतिपादनम् / तत्र प्रत्येकमर्थादिपरत्वप्रतिपादनश्रुतेः श्रूयमाणतत्तत्परत्वे च संभवति न तत्तदतिकर्मे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् / न च प्रयोजनाभावादसंभवः / सर्वेषामेव प्रत्येकं परत्वाभिधानस्याध्यानप्रयोजनत्वात् / तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः / तथाहि स्मृतिः- ऽदश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः / भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः //
14 SK बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः / पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः / पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते / ऽइति / प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात् प्रत्येकं तेषामर्थादीनां परत्वपराण्येतानि वाक्यानीति प्राप्तय उच्यते-इन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्संदर्भो वस्तुतत्त्वप्रतिपादनपरः प्रतीयते नाध्यानविधिपरः / तदश्रुतेः / तदत्र यत्प्रत्यस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् / दृष्टं च विष्णोः परमपदज्ञानस्य निखिलानर्थसंसारकारणाविद्योपशमः / तत्त्वज्ञानोदयस्य विपर्यासोपशमलक्षणत्वेत तत्र तत्र दर्शनात् / अर्थादिपरत्वप्रत्ययस्य तु न दृष्टमस्ति प्रयोजनम् / नच दृष्टे संभवति अदृष्टकल्पना न्याय्या / नच परमपुरुषार्थहेतुपरत्वे संभवति अवान्तरपुरुषार्थतोचिता / तस्माद्दृष्टप्रयोजनवत्त्वात्, पुरुषपरत्वप्रतिपादनार्थो ऽयं संदर्भ इति गम्यते / किञ्चादरादप्ययमेवास्यार्थ इत्याह- अपिच परप्रतिषेधेनेति / नन्वत्राध्यानविधिर्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह- आध्यानायेति
281 SK START Bस्VBह्_३,३.७.१५
3.3.15 SK आत्मशब्दाच् च | BBस्_३,३.१५ |
283 SK अनधिगतार्थप्रतिपादनस्वभावत्वाप्रमाणानां विशेषतश्चागमस्य, पुरुषशब्दवाच्यस्य चात्मनः स्वयं श्रुत्यैव दुरधिगमत्वावधारणाद्वस्तुतश्च दुरधिगमत्वादर्थादीनां च
15 SK सुगमत्वात्तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः / श्रुतेराशयातिशय इवाशयातिशयः / तत्तात्पर्यतेति यावत् / किञ्च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेव / अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह- अपिच सो ऽध्वनः पारमाप्नोतीति
285 SK START Bस्VBह्_३,३.८.१६
3.3.16 SK आत्मगृहीतिर् इतरवद् उत्तरात् | BBस्_३,३.१६ |
287 SK श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसंबन्धितया गमयति / पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् / अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् / अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता / तदनुसारादप्येतदेव विज्ञायते / अपिच ताभ्यो गामानयदित्यादयश्च व्यवहारः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः / ततो ऽप्यवान्तरेश्वर एव विज्ञायते / आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापो ऽयमिति प्राप्त उच्यति-परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु ऽएतस्मादात्मन आकाशः संभूतःऽइत्यादिषु / तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च / एतदभिसंहितम्-मुख्यं तावत् सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः / तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् / नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् /
288 SK आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यते ऽएतस्मादात्मन आकाशः संभूतःऽइति दर्शनात् / आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवहापि महाभूतानि सृष्ट्वेति कल्पनीयम् / सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् / अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् / यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे / तदिदमुक्तम्- यो ऽप्ययं व्यापारविशेषानुगम इति / नच लोकसर्गो ऽपि हिरण्यगर्भव्यापारो ऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् / तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुकम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते / यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् / अपरः कल्पः / सदुपक्रमस्य संदर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः / तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् / स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन संपत्त्यर्थतया व्याख्येयः / तद्धि सत्सामान्यं परमात्मतया संपादनीयम् / तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यते-आत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् / अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति / अभ्युपेत्याह / सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि
16 SK चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते / नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः संदिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः / अपिच संपत्तौ फलं कल्पनीयम् / नच सामान्यमात्रे ज्ञाते विशेषज्ञानसंभवः / न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति / तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् / अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति
290 SK START Bस्VBह्_३,३.८.१७
3.3.17 SK अन्वयाद् इति चेत् स्याद् अवधारणात् | BBस्_३,३.१७ |
292 SK START Bस्VBह्_३,३.९.१८
3.3.18 SK कार्याख्यानादपूर्वम् | BBस्_३,३.१८ |
294 SK विषयमाह- छन्दोगा वाजसनेयिनश्चेति / अननं प्राणनं अनः प्राणः तं प्राणमनग्नं कुर्वन्तः / अनग्नताचिन्तनमिति / मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् / संशयमाह- तत्किमिति / खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी- अथवाचमनमेवेति / यद्येवमनग्नतासंकीर्तनस्य किं प्रयोजनमित्यत आह- तस्यैव तु स्तुत्यर्थमिति / अयमभिसन्धिः-यद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणे ऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति / राद्धान्तमाह- एवं प्राप्त इति / चोदयति- नन्वियं श्रुतिरिति / परिहरति- नेति / तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः / अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति- न चेयं श्रुतिरिति / क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् / इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् / नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति / मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति- अत एव च नोभयविधानम् / युक्त्यन्तरमाह- उभयविधाने चेति / उपसंहरति- तस्मात्प्राप्तमेवेति / न चायमनग्नतावाद इति / स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः / अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत / न चानग्नतासंकल्पो ऽन्यतः प्राप्तो यतः स्तावको भवेत् / न चाचमनमन्यतो ऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह- स्वयं चानग्नतासंकल्पस्येति / अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते / संकल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह- न चैवं सत्येकस्याचमनस्येति / अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह- अपिच यदिदं किञ्चेति / यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासंभवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते / अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते / अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः / किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् / मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो
18 SK यजतीत्यादिवद्विधिरेवेत्याह-अपिचाचामन्तीति / शेषमतिरोहितार्थम्
296 SK START Bस्VBह्_३,३.१०.१९
3.3.19 SK समान एवं चाभेदात् | BBस्_३,३.१९ |
19 SK इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः / द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य को ऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः / नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च / तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यते-ऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् / न चागृह्यमाणविशेषता / यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः / यथा यत्र छत्रचामरपताकाहास्तिकाश्चीयशक्तिकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि / न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् / अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् / अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः / तस्मात्तदेव बृहदारण्यके ऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम्
299 SK START Bस्VBह्_३,३.११.२०
3.3.20 SK संबन्धाद् एवम् अन्यत्रापि | BBस्_३,३.२० |
20 SK यद्येकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां संकरः / तथा सति सत्यस्यैकसस्याभेदान्मण्डलद्वयवर्तिन उपनिषदोरपि संकरप्रसङ्गात् / तस्येति च प्रकृतपरामर्शित्वाद्भेदः / सत्यस्य च प्रधानस्य प्रकृतत्वादधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुत्वात्प्रस्तुतस्य च सत्यस्याभेदात्पूर्ववद्गुणसंकरः
302 SK START Bस्VBह्_३,३.११.२१
3.3.21 SK इति प्राप्त उच्यते- न वा विशेषात् | BBस्_३,३.२१ | सत्यं यत्र स्वरूपमात्रसंबन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वात्तन्मात्रसंबन्धित्वाच्च धर्माणाम् / यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसंबन्धो न निर्विशेषणस्य नाप्यन्यविशेषणसहितस्य / नहि दण्डिनं पुरुषमानयेत्युक्ते दण्डरहितः
21 SK कमण्डलुमानानीयते / तस्मादधिदैवं सत्यस्योपनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति / यथा चाचार्यस्य गच्छतो ऽनुगमनं विहितं न तिष्ठतो भवति, तस्मान्नोपनिषदोः संकरः किन्तु व्यवस्थितिः / तदिदमुक्तं-स्वरूपानपायादिति
305 SK START Bस्VBह्_३,३.११.२२
3.3.22 SK दर्शयति च | BBस्_३,३.२२ |
22 SK अतिदेशादप्येवमेव तत्त्वे हि नातिदेशः स्यादिति
308 SK START Bस्VBह्_३,३.१२.२३
3.3.23 SK संभृतिद्युव्याप्त्यपि चातः | BBस्_३,३.२३ |
23 SK ऽब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान / ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः / ऽब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस / यद्यपि तासु तासु शाण्डिल्यादिविद्यास्वायतनभेदपरिग्रहेणाध्यात्मिकायतनत्वं संभृत्यादीनां गुणानामाधिदैकत्वमित्यायतनभेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना संदर्भेणाधिदैविकविभूतिप्रत्यभिज्ञानात्षोडशकलाद्यासु च विद्यास्वायतनाश्रवणादन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञासंभवात् संबृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडशकलादिविद्यासु चोपसंहार इति पूर्वः पक्षः / राद्धान्तस्तु-मिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्राश्रुतान्गुणानुपसंहारयति न त्विह संभृत्यादिगुणकब्रह्मविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति / या तु काचिदाधिदैविकी विभूतिः शाण्डिल्यादिविद्यायां श्रूयते तस्यास्तत्प्रकरणाधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण संभृत्यादीननुक्रष्टुमर्हति / तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् / ब्रह्मा श्रयत्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् / भूयसीनामैक्यप्रसङ्गात् / तदिदमुक्तं- संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्चेति / तस्मात्संभृतिश्च द्युव्याप्तिश्च तदिदं संभृतिद्युव्याप्त्यपि चातः प्रत्यभिज्ञानाभावान्न शाण्डिल्यादिविद्यासूपसंह्रियत इति सिद्धम्
311 SK START Bस्VBह्_३,३.१३.२४
3.3.24 SK पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात् | BBस्_३,३.२४ |
313 SK पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् / नच विदुषो यज्ञस्येति न सामानाधिकरण्यसंभवः / यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् / यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसंभवः / तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् / एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसंपादनं तदायुषश्च त्रेधा
24 SK व्यवस्थितस्य सवनत्रयसंपादनम् / अशिशिषादीनां च दीक्षादिभावसंपादनं नैवं तैत्तिरीयाणाम् / तेषां न तावत् पुरुषे यज्ञसंपत्तिः / नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः / नहि यज्ञस्वरूपं यजमानो भवति / कर्तृकर्मणोरभेदाभावात् / चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् / यजमानस्य चेतनत्वात् / आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते / तथा चायमर्थः-एवं विदुषः पुरुषस्य यः संबन्धी यज्ञः तस्य संबन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्संबन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् / नच सत्यां गतौ तद्युक्तम् / तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् / नच पत्नीयजमानवेदविद्यादिसंपादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसंपत्तिरप्येषां विलक्षणैव / तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् / अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः / अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते / तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् / नच स्वतन्त्रपरन्त्रयोरैक्यमुचितमित्याह-अपिच ससंन्यासामात्मविद्यामिति / उपसंहरति-तस्मादिति
315 SK START Bस्VBह्_३,३.१४.२५
3.3.25 SK वेधाद्यर्थभेदात् | BBस्_३,३.२५ |
317 SK विचारविषयं दर्शयति- आथर्वणिकानामिति / आथर्वणिकाद्युपनिषदारम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातीनि / संशयमाह- किमिम इति / पूर्वपक्षं गृह्णाति- उपसंहार एवैषां विद्यास्विति / सफला हि सर्वा विद्या आम्नातास्तत्सन्निधौ मन्त्राः / कर्माणि च समाम्नातानि ऽफलवत्सन्निधाफलं तदङ्गम्ऽइति न्यायाद्विद्याङ्गाभावेन विज्ञायन्ते / चोदयति- नन्वेषामिति / नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्शपूर्णमासावारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्यामारभ्य मन्त्रा वा कर्माणि वा समाम्नातानि / न चासति सामान्यसंबन्धे संबन्धिसंनिधानमात्रात्तादर्थ्यसंभवः / नच श्रुतस्वाङ्गपरिपूर्णा विद्या एतानाकाङ्क्षितुमर्हति येन प्रकरणापदितसामान्यसंबन्धानां संनिधिर्विशेषसंबन्धाया भवेदित्यर्थः / समाधत्ते- बाढमनुपलभमाना अपीति / मा नाम भूत्फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क्षा //
318 SK मन्त्राणां तु स्वाध्यायविध्यापादितपुरुषार्थभावानां कर्मणां च प्रवर्ग्यादीनां स्वविध्यापादितपुरुषार्थभावानां पुरुषाभिलषितमाकाङ्क्षतां संनिधानादन्यताराकाङ्क्षानिबन्धो रक्तपटन्यायेन संबन्धः / तत्रापि च विद्यानां फलवत्त्वात्तादर्थ्यमफलानां मन्त्राणां कर्मणां च / नच प्रवर्ग्यादीनां पिण्डपितृयज्ञवत्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् / अनुमानस्यामहे संनिधिसामार्थ्यादिति / इदं खलु निवृत्ताकाङ्क्षाया विद्यायाः संनिधाने श्रुतमनाकाङ्क्षाया साकाङ्क्षस्यापि संबद्धुमसामर्थ्यात्तस्या अप्याकाङ्क्षामुत्थापयति / उत्थाप्य चैकवाक्यतामुपैति / असमर्थस्य चोपकारकत्वानुपपत्तेः प्रकरणिनं प्रति उपकारसामर्थ्यमात्मनः कल्पयति / नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्हतीत्यनया परम्परया संनिधिः श्रुतिमर्थापत्त्या कल्पयति / आक्षिपति- ननु नैषां मन्त्राणामिति / प्रयोगसमवेतार्थप्रकाशनेन हि मन्त्राणामुपयोगो वर्णितः ऽअविशिष्टस्तु वाक्यार्थःऽ
319 SK इत्यत्र / नच विद्यासंबद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः / यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसंबन्धं प्रतिपद्यते / ऽपुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तिऽइति / उपसदां जुहूवदव्यभिचारितक्रतुसंबन्धत्वात् / यद्यपि ज्योतिष्टोमविकृतावपि सन्त्युपसदस्तथापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्यक्षविहितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टोमाङ्गतैव वाक्येनावगम्यते / अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोदकेनोपसद्वत्तद्विकृतावपि प्राप्तिः / प्रकृतौ वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टोमे
320 SK एव विधानमुपसदा सह युक्तं, तदेतदाह- कथं च प्रवर्ग्यादीनीति / संनिधानादर्थविप्रकर्षेण वाक्यं बलीय इति भावः / समाधत्ते- नैष दोषः / सामर्थ्यं तावदिति / यथा ऽअग्नये त्वा जुष्टं निर्वपामिऽइति मन्त्रे अग्नये निर्वपामिति पदे कर्मसमवेतार्थप्रकाशके / शिष्टानां तु पदानां तदेकवाक्यतया यथाकथञ्चिद्व्याख्यानमेवमिहापि हृदयपदस्योपासनायां समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथञ्चिन्नेयानीति नासमवेतार्थता मन्त्राणाम् / नच मन्त्रविनियोगो नोपासनेषु दृष्टो येनात्यन्तादृष्टं कल्प्यत इत्याह- दृष्टश्चोपासनेष्विति / यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति / न चोहास्ति विरोधः / वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसंभवात् / यथा ऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति ब्रह्मवर्चसफलो ऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यते-वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति / अत्र हि क्त्वः समानकर्तृकत्वमवगम्यते धातुसंबन्धे प्रत्ययविधानात् / धात्वर्थान्तरसंबन्धश्च कथं च समानः कर्ता स्यात् / यद्यकः प्रयोगो भवेत् / प्रयोगाविष्टं हि कर्तृत्वम् / तच्च प्रयोगभेदे कथमेकम् / तस्मात्समानकर्तृकत्वादेकप्रयोगत्वं वाजपेयबृहस्पतिसवयोर्धात्वर्थान्तरसंबन्धाच्च / नच
321 SK गुणप्रधानभावमन्तरेणैकप्रयोगता संबन्धश्च तत्रापि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधानम् / अङ्गं बृहस्पतिसवः / नच ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइत्यत्राङ्गप्रधानभावप्रसङ्गः / नह्येतद्वचनं कस्यचिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् / तथाच द्वयोः साधिकारतया अगृह्यमाणविशेषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः / यदि तु कस्याञ्चिच्छाखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिष्ट्वेति / तथाप्यनारभ्याधीतस्यैवारभ्याधीते प्रत्यभिज्ञानमिति युक्तम् / तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् / तस्मात्कालार्थो ऽयं संयोग इति सिद्धम् / सिद्धान्तमुपक्रमते- एवं प्राप्त इति / हृदयं प्रविध्येत्ययं मन्त्रः स्वरसतस्तावदाभिचारिककर्मसमवेतं सकलैरेव पदैरर्थमभिदधदुपलभ्यते तदस्याभिधानसामर्थ्यलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्बलीयोभ्यामपि बलवत्किमङ्ग पुनः क्रमात्, तस्माल्लिङ्गेन संनिधिमपोद्याभिचारिककर्मशेषत्वमेवापाद्यते / यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् / तथापि तदितरेषां सर्वेषामेव पदानामसमवेतार्थत्वम् / आभिचारिके तु कर्मणि
322 SK सर्वेषामर्थसमवाय इति किमेकपदसमवेतार्थता करिष्यति / नच संनिध्युपगृहीयासूपासनासु मन्त्रमवस्थापयतीति युक्तम् / हृदयपदस्याभिचारे ऽपि समवेतार्थस्येतरपदैकवाक्यतापन्नस्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः संनिधिनाचालयितुमशक्यत्वादेवं ऽदेव सवितः प्रसुव यज्ञम्ऽइत्यादेरपि यज्ञप्रसवलिङ्गस्य यज्ञङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति /
323 SK एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषाञ्चिल्लिङ्गेन केषाञ्चिच्छुत्या केषाञ्चित्प्रमाणान्तरेण प्रकरणेनेति / कस्मात्पुनः संनिधिर्लिङ्गादिभिर्बाध्यते इत्यत आह- दुर्बलो हि संनिधिरिति / प्रथमतन्त्रगतोर्ऽथः स्मार्यते / तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलीय इति चिन्ता / अत्रोदाहरणम्-अस्त्यैन्द्री ऋक् ऽकदाचनस्तरीरसि नेन्द्रऽइत्यादिका श्रुतिर्विनियोकी ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽइति / अत्र हि सामर्थ्यलक्षणाल्लिङ्गादिन्द्रे विनियोगः प्रतिभाति / श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषित्वं ऐन्द्र्येति चतृतीयाश्रुतेरैन्द्र्या ऋचः शेषत्वमवगम्यते / यद्यपि गार्हपत्यमिति द्वितीयाश्रुतेराग्नेयीमृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः / यद्यपि चैन्द्र्येति च तृतीयाश्रुतेरैन्द्र्या इन्द्रं प्रति शेषत्वनोपपत्तेरविरोधः / पदान्तरसंबन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः / तत्र च विपरीतं बलाबलम् / तथापि श्रुतिवाक्ययो रूपतो व्यापारभेदाददोषः / द्वितीयातृतीयाश्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्मकरणभावमवगमयत इति विनियोजिके / क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः / पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुतिमात्रात्प्रतियेते इति श्रौते / सो ऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशाद्विशेषे ऽवस्थाप्यते / सो ऽयं विशेषणविशेष्यभावलक्षणः संबन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्माद्वाक्यलभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुतिलिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति / आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् / प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्रतेरैश्वर्यवचनत्वादिति / किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति / नो खलु यत्रासमर्थं तच्छ्रुतिसहस्रेणापि तत्र विनियोक्तुं शक्यते / यथा अग्निना सिञ्चेत् पाथसा दहेदिति / तस्मात्सामर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् / तच्चास्या ऋचः
324 SK प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते / तथाहि-विदितपदतदर्थः कदाचनेत्यृचः स्पष्टमिन्द्रमवगच्छति, शब्दाच्चैन्द्र्येत्यतः / तस्माद्दारुदहनस्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः / नच श्रुत्यनुरोधाज्जघन्यामास्थाया वृत्तिं सामर्थ्यकल्पनेति साम्प्रतम् / सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् / तस्मादैन्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्ते ऽभिधीयते-ऽलिङ्गज्ञानं पुरोधाय न श्रुतेर्विनयोक्तृता / श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्ऽ / यदि हि सामर्थ्यमवगम्य श्रुतेर्विनियोगमवधारयेत्प्रमाता ततः श्रुतेर्विनियोगं प्रति लिङ्गज्ञानापेक्षत्वाद्दुर्बलत्वं भवेत् / न त्वेतदस्ति / श्रुतिर्विनियोगाय सामर्थ्यमपेक्षते नापेक्षते सामर्थ्यविज्ञानम् / अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते / तच्छ्रुतिविनियोगात्पूर्वमस्ति सामर्थ्यम् / न तु पूर्वमगम्यते / विनियोगे तु सिद्धे तदन्यथानुपपत्त्या पश्चात्प्रतीयत इति श्रुतिविनियोगात्पराचीना सामर्थ्यप्रतीतिस्तदनुरोधेनावस्थापनीया / लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोकीं कल्पयित्वा श्रुतिम् / तथाहि-न स्वरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वीदृगिन्द्र इति तस्य तु प्रकरणाम्नानसामर्थ्यात् सामान्यतः प्रकरणापतितैदमर्थ्यस्य तदन्यथानुपपत्त्या विनियोगकल्पनायामपि श्रौताद्विनियोगात्कल्पनीयस्य विनियोगस्यार्थविप्रकर्षाच्छ्रुतिरेव कल्पयितुमुचिता न तु तदर्थो विनियोगः / नहि श्रुतमनुपपन्नं शाक्यमर्थेनोपपादयितुम् / नहि त्रयो ऽत्र ब्रह्मणाः कठकौण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन माठरेणोपपादयन्ति, उपपादयतो वा नोपहसन्ति / शाब्दाः / माठरश्चेति तु श्रावयन्तमनुमन्यन्ते /
325 SK तस्माच्छ्रुतार्थसमुत्थानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनीया, नार्थान्तरमात्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् / नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दार्थज्ञानोपायभूतलोकविरोधात् / तस्माद्विनियोजिका श्रुतिः कल्पनीया / तथाच यावल्लिङ्गाद्विनियोजिकां श्रुतिं कल्पयितुं प्रक्रान्तव्यापारस्तावत्प्रत्यक्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृत्ताकाङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोकीं श्रुतिमुपकल्पयेत् / मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रुत्योपपादितत्वात् / यथाहुः-ऽयावदज्ञातसंदिग्धं ज्ञेयं तावत्प्रमित्स्यते / प्रमिते तु प्रमातृणां प्रमौत्सुक्यं विहन्यतेऽइति /
326 SK तस्मात्प्रतीतश्रौतविनियोगोपपत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्तिमजहज्जघन्ययापि नेयमिति सिद्धम् / लिङ्गवाक्ययोरिह विरोधो यथा-ऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि / तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति / किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मिन्त्सीदेत्येवमादिस्तु पुरोडाशासादन इति / यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्पयामीत्येतदपेक्षो हि तस्मिन्सीदेत्यादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि तस्मिन्त्सीदेति / अथ लिङ्गं बलीयस्ततः कल्प्याम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् / तस्मिन्त्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति / किं तावत्प्राप्तम् / लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति / इह हि यत्तत्पदसमभिव्याहारेण विभज्यमानसाकाङ्क्षत्वादेकवाक्यतायां सिद्धायां तदनुरोधेन पश्चात्तदभिधानसामार्थ्यं कल्पनीयम् / यथा देवस्यत्वेतिमन्त्रे ऽग्न्ये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना / तदेवं प्रतीतैकवाक्यतानिर्वाहाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्यापादयितुमर्हति, अपि तु
327 SK विनियोजिकां श्रुतिं कल्पयत्तदनुगुणमेव कल्पयेत् / तथा च वाक्यस्य लिङ्गतो बलीयस्त्वात्सदनकरणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् / एवं प्राप्ते उच्यते-भवेदेतदेवं यद्येकवाक्यतावगमपूर्वं सामर्थ्यावधारणमपि तु अवधृतसामर्थ्यानां पदानां प्रश्लिष्टपठितानां सामर्थ्यवशेन प्रयोजनैकत्वेनेकवाक्यत्वावधारणम् / यावन्ति पदानि प्रधानमेकमर्थमवगमयितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् / अनुष्ठेयश्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् / सदनकरणपुरोडाशासादने चानुष्ठेयतया प्रधाने / तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मिन्सीदेत्यादिः / ततश्च यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयति / तथाच श्रुत्यैवैकैकस्य भागस्यैकत्र विनियोगे सति प्रकरणपाठोपपत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्पयितुमर्हतीत्येकवाक्यताबुद्धिरुत्पन्नाप्याभासीभवति लिङ्गेन बाधनात् / यत्र तु विरोधकं लिङ्गं नास्ति तत्र समवेतार्थैकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् / यथात्रैव स्योनं त इत्यादीनाम् / तस्माद्वाक्याल्लिङ्गं बलीय इति सिद्धम् //
328 SK वाक्यप्रकरणयोर्विरोधोदाहरणम् / अत्र च पदानां परस्परापेक्षावशात्कस्मिंश्चिद्विशिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्धवाक्यभावनां च पुनः कार्यान्तरापेक्षावशेन वाक्यान्तरेण संबन्धः प्रकरणम् / कर्तव्यायाः खलु फलभावनाया लब्धधात्वर्थकरणाया इतिकर्तव्यताकाङ्क्षाया वचनं
329 SK प्रकरणमाचक्षते वृद्धाः / यथा ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽइति / एतद्धि वचनं प्रकरणम् / तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षायां ऽसमिधो यजतिऽइत्यादिवाक्यान्तरसंबन्धः / समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्वजित्र्यायेन वानुषङ्गतो वार्थवादतो वा फलान्तराप्रतिलम्भेन दर्शपूर्णमासभावनां निर्वारयितुमीशते / तस्मात्तदाकाङ्क्षायामुपनिपतितान्येतानि वाक्यानि स्वकार्यापेक्षाणि तदपेक्षितकरणोपकारलक्षणं कार्यमासाद्य निर्वण्वन्ति च निर्वारयन्ति च प्रधानम् / सो ऽयमनयोर्नष्टाश्वदग्धरथवत्संयोगः / तदेवं लक्षणयोर्वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकनिगदः / तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः / ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्णमासीयागादिन्द्राग्नीशब्द उत्क्रष्टव्यः अमावास्यायां च समवेतार्थत्वात्प्रयोक्तव्यः / अथेदानीं संदिह्यते-किं यदिन्द्राग्निपदैकवाक्यतया प्रतीयते ऽअविवृधेथां महो ज्यायो ऽकाताम्ऽइति तन्नोत्क्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सहोत्क्रष्टव्यमिति / तत्र यदि प्रकरणं बलीयस्ततो ऽपनीतदेवताको ऽपि शेषः प्रयोक्तव्यो ऽथ वाक्यं ततो यत्र देवताशब्दस्तत्रैव प्रयोक्तव्यः / किं तावत्प्राप्तमपनीतदेवताको ऽपि शेषः प्रयोक्तव्यः प्रकरणस्यैवाङ्गसंबन्धप्रतिपादकत्वात् / फलवती हि भावना प्रधानेतिकर्तव्यतात्वमापादयति / तदुपजीवनेन श्रुत्यादीनां विशेषसंबन्धापादकत्वात् / अतः प्रधानभावनावचनलक्षणप्रकरणविरोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् / एवं प्राप्त उच्यते-भवेदेतदेवं यदि विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्य प्रकरणं विनियोजयेत् / अपि तु विनियोगाय तदपेक्षते ऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वादशोपसत्तायाश्च नोत्कर्षः स्यात् / तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते
330 SK तत्तद्बलवद्विप्रकृष्टं तु दुर्बलम् / तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः
331 SK प्रकरणं भङ्क्त्वोत्कृष्यते, परिशिष्टैस्तु प्रकरणस्येतिकर्तव्यतापेक्षा पूर्यते / अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् / यथा समिदादेः / तदिह प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते / प्रकरणे हि स्वार्थपूर्णानां वाक्यानामुपकार्योपकारकाकाङ्क्षामात्रं दृश्यते / वाक्ये तु पदानां प्रत्यक्षसंबन्धः / ततश्च सह प्रस्थितयोर्वाक्यप्रकरणयोर्यावत्प्रकरणेनैकवाक्यता कल्प्यते तावद्वाक्येनाभिधानसामर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुतिर्यावदितरत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छिन्नायामाकाङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्यबलीयस्त्वात्तद्देवताशेषणामपकर्ष एवेति सिद्धम् //
332 SK क्रमप्रकरणविरोधोदाहरणम् / राजसूयप्रकरणे प्रधानस्यैवाभिषेचनीयस्य संनिधौ शौनःशेपोपाख्यानाद्याम्नातं, तत्किं समस्तस्य राजसूयस्याङ्गमुतभिषेचनीयस्य / यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्ततो ऽभिषेचनीयस्यैवेति, किं तावत्प्राप्तम् / नाकाङ्क्षामात्रं हि संबन्धहेतुः / गामानय प्रासादं पश्येति गामित्यस्य क्रियामात्रापेक्षिणः पश्येत्यनेनापि संबन्धसंभवाद्विनिगमनाभावप्रसङ्गात् / तस्मात्संनिधानं संबन्धकारणम् / तथा चानयेत्यननैव गामित्यस्य संबन्धो विनिगम्यते / नच संनिधानमपि संबन्धकारणम् / अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र राज्ञ इत्यस्य पुत्रपुरुषपदसंनिधानाविशेषान्मा भूदविनिगमना / तस्मादाकाङ्क्षा निश्चयहेतुर्वक्तव्या / अत्र पुत्रशब्दस्य संबन्धिवचनतया समुत्थिताकाङ्क्षस्यान्तिके यदुपनिपतितं संबन्ध्यन्तराकाङ्क्षं पदं तस्य तेनैवाकाङ्क्षापरिपूर्तेः पुरुषपदेन
333 SK पुरुषरूपमात्राभिधायिना स्वतन्त्रेणैव न संबन्धः किन्तु परेणापसार्यतामित्यनेनापसरणीयापेक्षेणेति / सत्यपि संनिधाने आकाङ्क्षाभावादसंबन्धः / तथा चाभाणकः-ऽतप्तं तप्तेन संबध्यतेऽइति / तथा चाकाङ्क्षितमपि न यावत्संनिधाप्यते तावन्न संबध्यते / तथा संनिहितमपि यावन्नाकाङ्क्ष्यते न तावत्संबध्यत इति द्वयोः संबन्धं प्रति समानबलत्वात्क्रमप्रकरणयोः समुच्चयासंभवाच्च विकल्पेन राजसूयाभिषेचनीययोर्विनियोगः शौनःशेपोपाख्यानादीनामिति प्राप्तम् / एवं प्राप्त उच्यते-राजसूयके कथंभावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते / यथाच-ऽअविच्छिन्ने कथंभावे यत्प्रधानस्य पठ्यते / अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गता ऽइति न्यायाद्राजसूयाङ्गता शौनःशेपोपाख्यानादीनाम् / अभिषेचनीयस्य तु स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्य संनिधिपाठेनाकाङ्क्षोत्थापनीया यावत्तावत्सिद्धाकाङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते / यावच्चाभिषेचनीयाकाङ्क्ष्या तदेकवाक्यता कल्प्यते तावत्कॢप्तया राजसूयैकवाक्यता तदुपकारतया सामर्थ्यलक्षणं लिङ्गं यावच्चाभिषेचनीयैकवाक्यतया लिङ्गं कल्प्यते तावत्कॢप्तलिङ्गं विनियोक्रीं श्रुतिं कल्प्यति यावद्वाक्यकल्पितेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रकरणपाठोपपत्तौ संनिधानपरिकल्पितमन्तरा विलीयते / प्रमाणाभावे ऽप्रतिपत्वात् / प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धिसांनिध्येन तत्संनिधेरकल्पनीयत्वात् / तस्मात्प्रकरणविरोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् //
334 SK क्रमसमाख्ययोर्विरोधोदाहरणम्-पौरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र संदिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, आहो सान्नाय्यपात्राणां शुन्धने क्रमो बलीयानिति / किन्तावत्प्राप्तम् / समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरोडाशसंबन्धीनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् / ततश्च
335 SK यावत्क्रमेण प्रकरणाद्यनुमानपरम्परया संबन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरोडाशपात्रशुन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशुन्धन इति प्राप्तम् / एवं प्राप्ते ऽभिधीयते-समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति / तथाहि-समाख्या न तावत्संबन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह / तद्विशिष्टत्वान्यथानुपपत्त्या तु संबन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रबेदस्य / तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् / न चासौ संबन्धो ऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते / अपि तु संबन्धमात्रम् / तस्माच्छ्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता / तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरणापादितैदमर्थ्यस्य शौनःशेपोपाख्यानादिवच्चारादुपकारकतया प्रकृतमात्रसंबन्धानुपपत्तिः / मन्त्रस्य प्रयोगसमवेतार्थस्मारणेन सामवायिकाङ्गत्वात् / तथाच यं
336 SK कञ्चित्प्रकृतप्रयोगगतमर्थं प्रकाशयतो ऽस्य प्रकरणाङ्गत्वमविरुद्धमिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रकरणाद्यनुमानद्वारेण विनियोगं कल्पयितुमुत्सहते न तु समाख्यानम् / तस्य दुर्बलत्वात् / तथाहि-समाख्या संबन्धनिबन्धना सति तत्सिध्यर्थं संनिधिमुपकल्पयति यावत्ताद्वैदिकेन प्रत्यक्षदृष्टेन संनिधानेनाकाङ्क्षा कल्प्यते / यावच्च कॢप्तेन संनिधानेनाकाङ्क्षा कल्प्यते तावदितरत्र कॢप्तयाकाङ्क्षयैकवाक्यता यावच्च कॢप्तयाकाङ्क्षैकवाक्यता तावदितरत्रैकवाक्यतया कॢप्तयोपकारसामर्थ्यम् / यावच्चात्रैकवाक्यतयोपकारसामर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः / यावदत्र लिङ्गेन विनियोजिका श्रुतिस्तावदितरत्र कॢप्तया श्रुत्या विनियोग इति तावतैव
337 SK प्रकरणपाठोपपत्तेः सर्वं समाख्यानकल्पितं विच्छिन्नमूलत्वाल्लूयमानशस्यमिव निर्बीजं भवति / पुरोडाशाभिधायकमन्त्राबाहुल्यात्काण्डस्य पौरोडाशिकसमाख्येति मन्तव्यम् / ऽएकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम् / श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते //
338 SK ऽइत्यर्थविप्रकर्ष उक्तः / तत्रापि च ऽबाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा / मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया //
339 SK ऽइति विशेष उक्तो वृद्धैः / तद्वयं विस्तराद्बिभ्यतो ऽपि प्रथमतन्त्रानभिज्ञानुकम्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते / तस्माद्यथानुज्ञापनानुज्ञयोः प्रज्ञातक्रमयोरुपहूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देशसामान्यात्तथैवाङ्गतया प्राप्नुतः / उपहूत इति लिङ्गतो ऽनुज्ञामन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्गतो ऽनुज्ञापनो च मन्त्रो नानुज्ञायाम् / तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते / यावद्धि स्थानेन प्रकरणमुत्पाद्यैकवाक्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अकल्पितलिङ्गश्रुतेः क्रमस्य बाधः / तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति / यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः / नहि लिङ्गेनाभिचारिककर्मसंबन्धः विद्यासंबन्धेन क्रमकृतेन विरुध्यते / नच विनियुक्तविनियोगलक्षणो ऽत्र विरोधो बृहस्पतिसवे ऽपि तत्प्रसङ्गात् / अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगे ऽपि तुल्यः / तस्मादविरोधाद्वेधादिमन्त्रस्योपासनाङ्गत्वमित्यस्त्यभ्यधिका शङ्का / तत्रोच्यते-ऽनहि लिङ्गविरोधेन क्रमबाधो ऽभिधीयते / किन्तु लिङ्गपरिच्छिन्ने न क्रमः कल्पनाक्षमःऽ / प्रकरणपाठोपपत्त्या हि श्रुतिलिङ्गत्वाक्यप्रकरणैरविनियुक्तः क्रमेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्राणालिकया विनियुज्यते / तदा विनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् / उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न
25 SK स्वोचितां प्रमामुत्पादयितुमर्हति प्रमित्साभावादिति / बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातुसंबन्धाधिकारकात्समानकर्तृकतायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् / तदिदमुक्तम्- वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरमिति / अपि चैको ऽयं प्रवर्ग्य इति / तुल्यबलतया बृहस्पतिसवस्य तुल्यताशङ्कापाकरणद्वारेण समुच्चयो न तु पृथगुक्तितया परस्परापेक्षत्वादिति / संनिधिपाठमुपपादयति- अरण्यादिवचनवादिति
341 SK START Bस्VBह्_३,३.१५.२६
3.3.26 SK हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम् | BBस्_३,३.२६ |
343 SK यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्राप्युपायनमात्रश्रवणं तत्रापि नान्तरीयकतया हानमाक्षिप्तमित्यस्ति संनिपातः / यत्र तु हानमात्रं सकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं संनिपतेन्न वेति संशयः / अत्र पूर्वपक्षं गृह्णाति- असंनिपात इति / स्यादेतत् / यथा श्रूयमाणमेकत्र शाखायामुपासनाङ्गं तस्मिन्नेवोपासने शाखान्तरे ऽश्रूयमाणमुपसंह्रियते / एवं शाखान्तरश्रुतमुपायनमुपसंहरिष्यत इत्यत आह- विद्यान्तरगोचरत्वाच्चेति / एकत्वे ह्युपासनकर्मणामन्यत्र श्रुतानामप्यन्यत्र समवायो घटते / न त्विहोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः / ननु यथोपायनं श्रुतं हानमुपस्थापयत्येवं हानमपि उपायनमित्यत आह- अपि चात्मकर्तृकमिति / ग्रहणं हि न स्वामिनो ऽपगममन्तरेण भवतीति ग्रहणादपगमसिद्धिरवश्यंभाविनी /
344 SK अपगमस्त्वसत्यप्यन्येन ग्रहणे दृष्टो यथा प्रायश्चित्तेनापगतिरेनस इति / कर्तृभेदकथनं त्वेतदुपोद्बलानार्थं न पुनरवश्यंभावस्य प्रयोजकमुपायनेनानैकान्त्यादिति / सिद्धान्तमुपक्रमते- अस्यां प्राप्ताविति / अयमस्यार्थः-कर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् / यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया संकीर्त्यते तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्रतीयमानं परित्यक्तुमशक्यम् / तथाच विधूतयोः सकृतदुष्कृतयोर्निर्गुणायां
345 SK विद्यायामश्वरोमादिवत्किं भवत्वित्याकाङ्क्षायां न तावत्प्रायश्चित्तेनेव तद्विलयसंभवस्तथा सत्यश्वरोमराहुदृष्टान्तानुपपत्तेः / न जात्वश्वरोमराहुमुखयोर्विलयनमस्ति / अपि त्वश्वचन्द्राभ्यां विभागः / नच नष्टे
346 SK विधूननप्रमोचनार्थसंभवः / तस्मादर्थवादस्यापेक्षायां शब्दसंनिधिकृतो ऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति / निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या / स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् / अप्रकर्षे ऽपि स्तुत्युपपत्तेः / न चार्थवादान्तरापेक्षार्थवादान्तराणां न दृष्टा / नच तैर्न पूरणमित्याह- प्रसिद्धा चेति / विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्येति / यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितुर्वैश्वानरीयेष्टिः पुत्रस्य / नार्याश्च सुरापानं भर्तुर्नरकम् / तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षादन्यस्मिन्न संभवत इत्याशयेन शङ्का / फलतः प्राप्त्या स्तुतिरिति परिहारः / गुणोपसंहारविवक्षायाम् इत्यपि न स्वरूपतः सुकृतदुष्कृतसंचाराभिप्रायम् / ननु विद्यागुणोपसंहाराधिकारे को ऽयमकाण्डे स्तुत्यर्थविचार इतिशङ्कामुपसंहारन्नपाकरोति- तस्माद्गुणोपसंहारविचारप्रसङ्गेनेत् इ / विद्यागुणोपसंहारप्रसङ्गतः स्तुतिगुणोपसंहारो विचारितः / प्रयोजनं चोपासके सौहार्दमाचरितव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छादनादाच्छन्दो भवति / यथैव चाविशेषेणोपगानमिति / ऋत्विज
347 SK उपगायन्तीत्यविशेषेणोपगानमृत्विजाम् / भाल्लविनस्तु विशेषेण नाध्वर्युपगायतीति / तदेतस्माद्भाल्लविनां वाक्यमृत्विज उपगायन्तीत्येतच्छेषं विज्ञायते / एतदुक्तं भवति-अध्वर्युवर्जिता ऋत्विज उपगायन्तीति / कस्मात्पुनरेवं व्याख्यायते / ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह- श्रुत्यन्तरकृतमिति / अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेषत्वमत्रभवतो जैमिनेरपि संमतमित्याह- तदुक्तं द्वादशलक्षण्याम् / ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइत्येतदेव सूत्रमर्थद्वारेण पठति- अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्स चान्याय्य इति शेषः / एवं किल श्रूयते-ऽएष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञे ऽन्वायत्तऽइति / ततो नानुयाजेषु येयजामहं करोतीति / तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येयजामहकरणमुपदिष्टम् / तदुपदिश्य चाम्नातं नानुयाजेष्विति / तत्र संशयः-किं विधिप्रतिषेधयोर्विकल्प उत पर्युदासो ऽनुयाजवर्जितेषु येयजामहः कर्तव्य इति / मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधे विकल्पः / दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति / तस्य तत्रौदासीन्यात् / निषेधशास्त्रं तु तादात्विकं सौन्दर्यमबाधमानमेव प्रवृत्त्युन्मुखं नरं निवारयदायत्यामस्य दुःखफलत्वमवगमयति / यथाह-ऽअकर्तव्यो दुःखफलःऽइति / ततो रागतः प्रवृत्तमप्यायत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो गारतः प्रवृत्तेरिति न तया विकल्पमर्हति / शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोडशिग्रहणवद्विकल्प्येते / तत्र हि विधिदर्शनात्प्रधानस्योपकारभूयस्त्वं कल्प्यते / निषेधदर्शनाच्च वैगुण्ये ऽपि
348 SK फलसिद्धिरवगम्यते / तथाह-ऽअर्थप्राप्तवदिति चेन्न तुल्यत्वादुभयं शब्दलक्षणंऽइति / नच वाच्यं यावद्यजतिषु येयजामहकरणं यावद्यजतिसामान्यद्वारेणानुयाजं यजतिविशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामान्यशास्त्राद्विशेषनिषेधो बलवानिति / यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति / तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्तिपूर्वकत्वाप्रतिषेधस्य येयजामहस्य चान्यतो ऽप्राप्तेस्तन्निषेधेन निषेधप्राप्त्यै तद्विधिरपेक्षणीयः / नच सापेक्षतया निषेधाद्विधिरेव बलीयानित्यतुल्यशिष्टतया न विकल्पः किन्तु निषेधस्यैव बाधनमिति सांप्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् / नच तद्युक्तं तुल्यं हि सांप्रदायिकम् / नच न तौ पशौ करोतीतिवदर्थवादता / असमवेतार्थत्वात् / पशौ हि नाज्यभागौ स्त इत्युपपद्यते / न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् / अनुयाजानां च तद्भावात् / नच पर्युदासस्तदाननुयाजेष्विति, कात्यायनमतेन नियमप्रसक्तेः / तस्माद्विहितप्रतिषिद्धतया विकल्प इति प्राप्तम् / एवं प्राप्त उच्यते-उक्तं षोडशिग्रहणयोर्विकल्प इति / नहि तत्रान्या गतिरस्ति / तेनाष्टादोषदुष्टो ऽपि विकल्प आस्थीयते पक्षे ऽपि प्रामाण्यान्मा भूत्प्रमतगीततेति / इह तु पर्युदासेनाप्युपपत्तौ संभवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् / एवं हि तदा नञः संबन्धो ऽननुयाजेषु यजतिष्वनुयाजवर्तितेषु येयजामहः कर्तव्य इति / किमतो यद्यवम् / एतदतो भवति-नानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साकाङ्क्षं पूर्ववाक्यैकदेशेन संभन्त्स्यते यदेतद्येयजामहङ्करोतीत्येतन्नानुयाजेषु यावदुक्तं स्यादनुयाजवर्जितेष्विति तावदुक्तं
349 SK भवति नानुयाजेष्विति / तथाच यजितिविशेषणार्थत्वादननुयाजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पः / न चाभियुक्ततरपाणिनिविरोधे कात्यायनस्यासद्वादित्वं नित्यसमासवादिनः संभवति / स हि विभाषाधिकारे समासं शास्ति / तस्मादनुयाजवर्जितेषु येयजामहविधानमिति सिद्धम् /
26 SK वर्णकान्तरमाह- अथवैतास्विति / यथा हि सुकृतदुष्कृतयोरमूर्तयोः कल्पनं नाञ्जसं मूर्त्यनुविधायित्वात्कम्पस्य / तथान्यदीययोरन्यत्र संचारो ऽप्यनुपपन्नो ऽमूर्तत्वादेव / तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वकार्यारम्भाच्चालनमात्रमेव लक्ष्यतां न तु ततो ऽपगत्यान्यत्र संचारः कल्पनागौरवप्रसङ्गात् / तस्मात्स्वकार्यारम्भाच्चालनं विधूननमिति प्राप्ते ऽभिधीयते-यत्र तावदुपायनश्रुतिस्तत्रावश्यं त्यागो विधूननं वक्तव्यम् / क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति / एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत / न चैतदस्ति / तत्रापि स्वकार्याच्चालनस्य लक्ष्यमाणत्वात् / नच प्रामाणिकं कल्पनागौरवं लोहगन्धितामाचरति / अपिचानेकार्थत्वाद्धातूनां त्यागे ऽपि विधूयते मुख्यमेव भविष्यति / प्राचुर्येण त्यागे ऽपि लोके प्रयोगदर्शनात् / विनिगमनहेतोरभावात् / गणकारस्य चोपलक्षणत्वेनाप्यर्थनिर्देशस्य तत्र दर्शनात् / तस्माद्धानार्थ एवात्रेति युक्तम्
351 SK START Bस्VBह्_३,३.१६.२७
3.3.27 SK सांपराये तर्तव्याभावात् तथा ह्य् अन्ये | BBस्_३,३.२७ |
353 SK ननु पाठक्रमादर्धपथे सुकृतदुष्कृततरणे प्रतीयेते / विद्यासामर्थ्याच्च प्रागेवावगम्येते / तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः / श्रुत्यर्थौ च पाठक्रमाद्बलीयांसौ, ऽअग्निहोत्रं जुहोति यवागूं पचतिऽइत्यत्र यथा / तस्मात्पूर्वपक्षाभावादनारभ्यमेतत् / अत्रोच्यते / नैतत्पाठक्रममात्रमपि तु श्रुतिस्तत्सुकृतदुष्कृते विधूनुत इति / तदिति हि सर्वनाम तस्मादर्थे सन्निहितपरामर्शकं तस्य हेतुभावमाह / सन्निहितं च यदनन्तरं
27 SK श्रुतम् / तच्चार्धपथवर्ति विरजानदीमनो ऽभिगमनमित्यर्धपथ एव सुकृतदुष्कृतत्यागः / नच श्रुत्यन्तरविरोधः / अर्धपथे ऽपि पापविधूनने ब्रह्मलोकसंभवात्प्राक्कालतोपपत्तेः / एवं शाठ्यायनिनामप्यविरोधः / नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् / तथा चार्धपथ एव सुकृतदुष्कृतविमोकः / एवञ्च न पर्यङ्कविद्यातस्तत्प्रक्षय इति पूर्वः पक्षः / राद्धान्तस्तु विद्यासामर्थ्यविधूतकल्मषस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रक्षीणकल्मषस्योत्तरमार्गगमनं संभवति / यथा यवागूपाकात्प्राग्नाग्निहोत्रम् / यमनियमाद्यनुष्ठानसहिताया विद्याया उत्तरेण मार्गेण पर्यङ्कस्थब्रह्मप्राप्त्युपायत्वश्रवणात् / अप्रक्षीणपाप्मनश्च तदनुपपत्तेः / विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषयः / तस्मात्पाठक्रमबाधेनार्थक्रमो ऽनुसर्तव्यः / ननु न पाठक्रममात्रमत्र, तदिति सर्वनामश्रुत्या संनिहितपरामर्शादित्युक्तम् / तदयुक्तं, बुद्धिसंनिधानमात्रमत्रोपयुज्यते नान्यत्, तच्चानन्तरस्येव विद्याप्रकरणाद्विद्याया अपीति समाना श्रुतिरुभयत्रापीति / अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति / नच ताण्ड्यादिश्रुत्यविरोधः पूर्वपक्षे / अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम्, तस्मात्तद्विरोधः
355 SK START Bस्VBह्_३,३.१६.२८
3.3.28 SK छन्दत उभयाविरोधात् | BBस्_३,३.२८ |
28 SK केभ्यश्चित्पदेभ्य इदं सूत्रम् / ननु यथा परेतस्योत्तरेण पथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्धपथे सुकृतदुष्कृतहानिरपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् / तद्व्याचष्टे- यदि च देहादपसृप्तस्येति / विद्याफलमपि ब्रह्मप्राप्तिर्नापरेतस्य भवितुमर्हति शङ्कापदेभ्यः / यथाहुः-नाजनित्वा तत्र गच्छन्तीति / सुकृतदुष्कृतप्रक्षयस्तु सत्यपि नरशरीरे संभवतीति समर्थस्य हेतोर्यमनियमादिसहिताया विद्यायाः कर्यक्षयायोगाद्युक्तो जीवत एव सुकृतदुष्कृतक्षय इति सिद्धम् / छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् / स्वेच्छयानुष्ठानं यमनियमादिसहिताया विद्यायाः / तस्य जीवतः पुरुषस्य स्यान्न मृतस्य / तत्पूर्वकं चसुकृतदुष्कृतहानं स्याज्जीवत एव / समर्थस्य क्षेपायोगात् / एवं कारणानन्तरं कार्योत्पादे सति निमित्तनैमित्तकयोस्तद्भावस्योपपत्तिस्ताण्डिशाठ्यायनिश्रुत्योश्च संगतिरितरथा स्वातन्त्र्याभावेनासंगतिरुक्ता स्यात् / तदनेनोभयाविरोधो व्याख्यातः / ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र संक्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः / छन्दतः संकल्पत इति श्रुतिस्मृत्योरविरोधादेव / न त्वत्रागमगम्येर्ऽथे स्वातन्त्र्येण युक्तिर्निवेशनीयेते / तेषामधिकरणशरीरानुप्रवेशे संभवत्यर्थान्तरोपवर्णनमसङ्गतमेवेति
3.3.29 SK START Bस्VBह्_३,३.१७.२९.-३० गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः | BBस्_३,३.२९ | यथा हानिसंनिधावुपायनमन्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपायनमुपस्थापयत्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृतहानिः केवला श्रुता तत्रापि देवयानं पन्थानमुपस्थापयितुमर्हति / नच निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः / देवयानेन पथा ब्रह्मलोकप्राप्तौ निरञ्जनस्य परमसाम्योपपत्तेः / तस्माद्धानिमात्रे देवयानः पन्थाः संबध्यत इति प्राप्तम् / एवं प्राप्त उच्यते-विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधूतपुण्यपापस्य विद्यया क्षेमप्राप्तिमाह / भ्रमनिबन्धनो ऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनीयः / नासौ देशविशेषमपेक्षते / नहि जातु रज्जौ सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देशविशेषमपेक्षते / विद्योत्पादस्यैव स्वविरोध्यविद्यानिवृत्तिरूपत्वात् / नच विद्योत्पादाया ब्रह्मलोकप्राप्तिरपेक्षणीया / यमनियमादिविशुद्धसत्त्वस्येहैव श्रवणादिभिर्विद्योत्पादात् / यदि परमारब्धकार्यकर्मक्षपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीहार्थ इति श्रुतिदृष्टविरोधान्नापेक्षितव्य इति / अस्ति तु पर्यङ्कविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति / ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति / गतेरर्थवत्त्वमुभयथा दुष्कृतनिवृत्त्या सुकृतनिवृत्त्या च / यदि पुनः पुण्यमनुवर्तेत ब्रह्मलोकगतस्यापीह पुण्यफलोपभोगायवृत्तिः स्यात् / तथा चैतेन प्रतिपाद्यमानागत्यनावृत्तिश्रुतिविरोधः / तस्माद्दुष्कृतस्येव सुकृतस्यापि प्रक्षय इति तैः पुनरनाशङ्कनीयमेवाशङ्कितम् / विद्याक्षिप्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति / नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना / तस्माद्वृद्धोक्तमेवोपवर्णनं साध्विति
359 SK START Bस्VBह्_३,३.१७.३१
3.3.31 SK अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम् | BBस्_३,३.३१ |
361 SK प्रकरणं हि धर्माणां नियामकम् / यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः संकीर्येरन् / नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः / सर्वत्रौपदेशिकत्वात् / नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् / नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् / न चैवं सति श्रुत्यादयो ऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसंबन्धे सति विनियोजकत्वात् / यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगो ऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् / तस्मात्प्रकरणं विनियोगाय
31 SK तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः / तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् / नच ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽइति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः / श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् / अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे / विद्यान्तरे च श्रूयते / तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् / एवं प्राप्ते उच्यते-ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽइति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति / तथान्यत्रापि पञ्चाग्निविद्याधिकारे ऽभिधीयते-ऽय एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽइति / सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् / तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् / पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् / विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् / मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् / तत्रापि च योग्यतया देवयानस्यैवेहाध्वनो ऽभिसंबन्धः / एतदुक्तं भवति-भवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् / तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति
363 SK START Bस्VBह्_३,३.१९.३२
3.3.32 SK यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् | BBस्_३,३.३२ |
365 SK सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति / निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति / श्रुतिस्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते / तदपवर्गफलत्वे नोपपद्यते / अपवृक्तस्य तदनुपपत्तेः / उपपत्तौ वा तल्लक्षणायोगात् / अपुनरावृत्तिर्हि तल्लक्षणम् / तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः / फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् / अपुनरावृत्तिश्रुतिः पुनस्तत्प्रशंसार्थेति मन्यते / नच ऽतावदेवास्य चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽइति श्रुतेर्विदुषो देहपातावधिप्रतीक्षावद्वसिष्ठादीनामपि प्रारब्धकर्मफलोपभोगप्रतीक्षेति सांप्रतम् / येन हि कर्मणा वसिष्ठादीनामारब्धं शरीरं तत्प्रतीक्षा स्यात् / तथाच न शरीरान्तरं ते गृह्णीयुः / नच तावदेव चिरमित्येतदप्यार्जवेन घटते / समर्थहेतुसंनिधौ क्षेपायोगात् / तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् / तस्मान्नापवर्गो विद्याफलम् / तथा चापवर्गाक्षेपेण पूर्वः पक्षः / अत्र च पाक्षिकं मोक्षहेतुत्वमित्यापाततः, अहेतुत्वं वेति तु पूर्वपक्षतत्त्वम् / राद्धान्तस्तु-विद्याकर्मस्वनुष्ठानतोषितेश्वरचोदितम् / अधिकारं समाप्यैते प्रतिशन्ति परं पदम् //
32 SK निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यायमुचितम् / पौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् / नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् / उक्तं हि ऽन विधौ परः शब्दार्थऽइति / नच विदुषामपान्तरतमःप्रभृतीनां तत्तद्देहसंतारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् / हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपकारोति / नहि वृन्तफलसंयोगप्रतिबद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः / नच न सेतुप्रतिबन्धानामपां निम्नदेशानभिसर्पणमिति सेतुभेदे न निम्नमभिसर्पन्ति / तद्वदिहापि विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति / यथा हि प्रारब्धविपाकस्य कर्मणः प्रक्षयं प्रतीक्षमाणश्चरमदेहसमुत्पन्नब्रह्मसाक्षात्कारो ऽपि ध्रियते ऽथ तत्प्रक्षयान्मोक्षं प्राप्नोति / एवं प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुषो वसिष्ठादिर्विद्वानपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्तद्देहपरिग्रहपरित्यागौ कुर्वन्मुक्तो ऽप्यनाभोगात्मिकया प्रख्यया सांसारिक अव विहरति / तदिदमुक्तम्- सकृत्प्रवृत्तमेव हि ते कर्माशयमधिकारफलदानायेति / प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानिज्ञानेनैवातिवाहितानि / न चैते जातिस्मरा इति / यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्वजन्मानुभूतस्य स्मरति स जन्मवाञ्जातिस्मरश्च / गृहादिव गृहान्तरे स्वेच्छया कायान्तरं संचरमाणो न जातिस्मर आख्यायते / व्युद्य विवादं कृत्वा / व्यतिरेकमाह- यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तरमप्रारब्धविपाकमिति / स्येदेतत् / विद्ययाविद्यादिक्लेशनिवृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिनरनादिभवपरम्पराहितस्यानियतविपाककालस्यासङ्ख्येयत्वात्कार्मशयस्येत्यत आह- न चाविद्यादिक्लेशदाहे सतीते / नहिसमाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् / तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् / तथाच न विदुषो वसिष्ठादेर्देहधारणेत्यत आह- प्रवृत्तफलस्य तु कर्मण इति / तस्य तावदेव चिरमिति श्रुतिप्रामाण्यादनागतफलमेव कर्म क्षीयते न प्रवृत्तफलमित्यवगम्यते / अपिच नाधिकारवतां सर्वेषामृषीणामात्मतत्त्वज्ञानं तेनाव्यापको ऽप्ययं पर्वपक्ष इत्याह- ज्ञानान्तरेषु चेति / तत्किन्तेषामनिर्मोक्ष एव, नेत्याह- ते पश्चादैश्वर्यक्षय इति / निर्विण्णा विरक्ताः / प्रतिसंचरः प्रलयः / अपिच स्वर्गादावनुभवपथमनारोहति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलत्वं प्रति / यथा चार्थवादः-ऽको हि तद्वेद यदमुष्मिंल्लोके ऽस्ति वा न वेतिऽ / अद्वैतज्ञानफलत्वे मोक्षस्यानुभवसिद्धे विचिकित्सागन्धो ऽपि नास्तीत्याह- प्रत्यक्षफलत्वाच्चेति / अद्वैततत्त्वसाक्षात्कारो हि अविद्यासमारोपितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसाराङ्गारपरितापमुपशमयति पुरुषस्येत्यनुभवादपि स्फुटमुपपतिद्रढिम्नश्च श्रुतिर्दर्शिता / तच्चानुभवाद्वामदेवादीनां सिद्धम् / ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह- नहि तत्त्वमसीत्यस्येति / वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चाशक्य इत्यर्थः
367 SK START Bस्VBह्_३,३.२०.३३
3.3.33 SK अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् | BBस्_३,३.३३ |
369 SK अक्षगविषयाणां प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उपसंहारः प्रतिषेधसामान्यादक्षरस्य तद्भावप्रत्यभिज्ञानात् / आनन्दादयः प्रधानस्येत्यत्रायमर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्धस्तन्त्र्यायतया च निषेधरूपेष्विति सिद्ध एव / तथापि तस्यैवैष प्रपञ्चो ऽवगन्तव्यः / निदर्शनम् / जामदग्न्ये ऽहीन इति / यद्यपि शाबरे दत्तोत्तरमत्रोदाहरणान्तरं तथापि
370 SK तुल्यन्यायतयैदपि शक्यमुदाहर्तुमित्युदाहरणान्तरं दर्शितम् / तत्र शाबरमुदाहरणमस्त्याधानं यजुर्वेदविहितम्-ऽय एवं विद्वानग्निमाधत्तऽइति / तदङ्गत्वेन यजुर्वेद एव ऽय एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतिऽइति विहितम् / एतानि च
371 SK सामानि सामवेदेषूत्पन्नानि / तत्रेदं संदिह्यते-किमेतानि यत्रोत्पद्यन्ते तत्रत्यैनेवोच्चैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्येनोपांशुत्वेन स्वरेण ऽउच्चैः साम्नोपांशु यजुषा इति श्रुतेः / किं तावत्प्राप्तम् / उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गनां तस्यैव प्राथम्यात्तन्निबन्धन एवोच्चैःस्वरे प्राप्त उच्यते- गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः / अयमर्थः-उत्पत्तिविधिर्गुणो विनियोगविधिस्तु प्रधानं, तदनयोर्व्यातिक्रमे विरोधे उत्पत्तिविध्यालोचनेनोच्चैष्ट्वं विनियोगविध्यालोचनेन चोपांशुत्वं सो ऽयं विरोधो व्यतिक्रमस्तस्मिन्वयतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वारवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन / कुतः, विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन तदर्थत्वाद्विनियुज्यमानार्थत्वादुत्पद्यमानत्वस्य / एतदुक्तं भवति-यद्यप्युत्पत्तिविधावपि चातूरूप्यमस्ति विधित्वस्याविशेषात् / तन्मात्रनान्तरीयकत्वाच्च चातूरूप्यस्य / तथापि वाक्यानामैदंपर्यं भिद्यते / एकस्यैव विधेरुत्पत्तिविनियोगाधिकारप्रयोगरूपेषु चतुर्षु मध्ये किञ्चिदेव रूपं केनचिद्वाक्येनोल्लिख्यते यदन्यतो ऽप्राप्तम् / तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् / तथाचोत्पत्तिवाक्येभ्यः समीहितार्थाप्रतिलम्भाद्विनियोगवाक्येभ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साधनत्वंसंस्पर्शिनो ग्रहणं न तु रूपमात्रस्पर्शिन इति / भाष्यकारीयमप्युदाहरणमेवमेव योजयितव्यम् / उद्रातृवेदोत्पन्नानां मन्त्रणामुद्गात्रा प्रयोगे प्राप्ते
33 SK अध्वर्युप्रदानके ऽपि पुरोडाशे विनियुक्तत्वात्प्रधानानुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति- एवमिहापीति
373 SK START Bस्VBह्_३,३.२०.३४
3.3.34 SK इयदामननात् | BBस्_३,३.३४ |
34 SK ऽगुहां प्रविष्टावात्मानौऽइत्यत्र सिद्धो ऽप्यर्थः प्रपञ्च्यते / एकत्र भोक्त्रभोक्त्रोर्वेद्यता, अन्यत्र भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेद इति / नच सृष्टिरुपदधातीतिवत्पिबदपिबल्लक्षणापरं पिबन्ताविति नेतुमुचितम् / सति मुख्यार्थसंभवे तदाश्रयणायोगात् / नच वाक्यशेषानुरोधात्तदाश्रयणम् / संदेहे हि वाक्यशेषान्निर्णयो नच मुख्यलाक्षणिकग्रहणविषयो विषयः संभवति, तुल्यबलत्वाभावात् / प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् / तस्माद्वेद्यभेदाद्विद्याभेद इति प्राप्त उच्यते-द्वासुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च द्वित्वसंख्योत्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी / पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंहारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया / येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् / यथा जामित्वदोषसंकीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च संदर्भे मध्यपातिनो विष्णुरूपांशु यष्टव्यो ऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधित्वमविवक्षित्वार्थवादतया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति / तथेहापि तदनुरोधेन पिबदपिबत्समूहपरं लक्षणीयं पिबन्तावित्यनेन / तथाच वेद्याभेदाद्विद्याभेद इति / अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रये ऽपि पौर्वापर्यपर्यालोचनया परमात्मविद्यैवावगम्यते / यद्येवं कथं तर्हि जीवोपादानमस्त्वित्यत आह- तादात्म्यविवक्षयेति / नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनो ऽभेदं जीवस्य दर्शयितुमसावनूद्यते / परमात्मविद्यायाश्चाभेदविषयत्वान्न भेदाभेदविचारावतारः / तस्मादैकविद्यमत्र सिद्धम्
376 SK START Bस्VBह्_३,३.२२.३५
3.3.35 SK अन्तरा भूतग्रामवत्स्वात्मनः | BBस्_३,३.३५ |
378 SK कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः / कुतः-यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः / न चैकस्यैव ताण्डिनां नवकृत्व उपदेशे ऽपि यथा भेदो न भवति ऽस आत्मा तत्त्वमसि श्वेतकेतोऽइत्यत्र तथेहाप्यभेद इति युक्तम् / भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते / न चेह तथास्ति / तेन यद्यपीह वेद्याभेदो ऽवगम्यते
35 SK तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते / नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते / किमतो यद्येवम् / एतदतो भवति-विधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः / वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वो ऽपि हि पथ्यं वदन्त्याप्ताः / विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः / नच सर्वथा पौनरुक्त्यम् / एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् / तस्मादेका विद्या प्रत्यभिज्ञानात् / उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः
380 SK START Bस्VBह्_३,३.२२.३६
3.3.36 SK अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत् | BBस्_३,३.३६ |
36 SK अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः / सुगममन्यत्
383 SK START Bस्VBह्_३,३.२३.३७
3.3.37 SK व्यतिहारो विशिंषन्ति हीतरवत् | BBस्_३,३.३७ |
37 SK उत्कृष्टस्य निकृष्टरूपापत्तेर्नोभयत्रोभयरूपानुचिन्तनम् / अपि तु निकृष्टे जीव उत्कृष्टरूपाभेदचिन्तनम् / एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् / एवं प्राप्त उच्यते-इतरेतरानुवादेनेतरेतररूपविधानादुभयत्राभयचिन्तनं विधीयते / इतरथा तु यो ऽहं सो ऽसावित्येतावदेवोच्येत / जीवात्मानमनूद्येश्वरत्वमस्य विधीयेत / न त्वीश्वरस्य जीवात्मत्वं यो ऽसौ सो ऽहमिति / यथा तत्त्वमसीत्यत्र / तस्मादुभयरूपमुभयत्राध्यानायोपदिश्यते / नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्मण्युपास्यमाने ऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति / कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृष्टतामापादयतीति चेदिहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय न तु निकृष्टता भवत्युत्कृष्टस्य / अन्वाचयशिष्टं तु तादात्म्यदार्ढ्यं भवन्नोपेक्षामहे / सत्यकामादिगुणोपदेशैव तद्गुणेश्वरसिद्धिरिति सिद्धमुभयत्रोभयात्मत्वाध्यानमिति
386 SK START Bस्VBह्_३,३.२४.३८
3.3.38 SK सैव हि सत्यादयः | BBस्_३,३.३८ |
388 SK तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इत्यसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म / पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनमनेन संदर्भेण विधीयते / तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति / एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति / तत्तादाग्रे आस बभूव /
389 SK किं तदित्यत आह-सत्यमेव / सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् / तदुपासकस्य फलमाह-स यो हैतमिति / यः प्रथमजं यक्षं पूज्यं वेद / कथं वेदेत्यत आह-सत्यं ब्रह्मेतीति / स जयतीमान् लोकान् / किञ्च जितो वशीकृत इनुशब्द इत्थंशब्दस्यार्थे वर्तते / विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशति-असाविति / असद्भवेन्नश्येत् / उक्तमर्थं निगमयति-य एवमेतदिति / एवं विद्वान्कस्माज्जयतीत्यत आह-सत्यमेव यस्माद्ब्रह्मेति / अतस्तदुपासनात् फलोत्पादो ऽपि सत्य इत्यर्थः / तद्यत्तत्सत्यं किमसौ / अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ / कस्मिंन्नालम्बने तदुपासनीयमित्यत उत्तरम्-स आदित्यो य एष इत्यादिना तस्योपनिषदहरहमिति / हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन / उपनिषत् रहस्यं नाम / तस्य निर्वचनं-हन्ति पाप्मानं जहाति चेति / हन्तेर्जहातेर्वा रूपमेतत् / तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति / तमिमं विषयमाह भाष्यकारः- यो वै हैतमिति / सनामाक्षरोपासनामिति / तथाच श्रुतिः-ऽतदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतो ऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्तिऽइति / तीतीकारानुबन्ध उच्चारणार्थः / निरनुबन्धस्तकारो द्रष्टव्यः / अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्युरूपाभावात् / मध्यतो मध्ये ऽनृतमनृतं हि मृत्युः / मृत्य्वनृतयोस्तकारसाम्यात् / तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् / अन्तर्भावितं सत्यरूपाभ्याम् / अतो ऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति / शेषमतिरोहितार्थम् / सेयं सत्यविद्यायाः सनामाक्षरोपासनता / यद्यपि तद्यत्सत्यमिति
390 SK प्रकृतानुकर्षेणाभेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्यकाम्यविषयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः
391 SK सत्यप्यनुबन्धाभेदे भेद इति प्राप्ते प्रत्युच्यते-एकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् / नच फलभेदः / तस्योपनिषदहरहमिति तस्यैव यदङ्गान्तरं रहस्यनाम्नोपासनं तत्प्रशंसार्थोर्ऽथवादो ऽयं न फलविधिः / यदि पुनर्विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायामार्थवादिकं फलं कल्प्येत ततो जातेष्टाविवागृह्यमाणविशेषतया
392 SK संवलिताधिकारकल्पना ततश्च समस्तार्थवादिकफलयुक्तमेकमेवोपासनमिति सिद्धम् / परकीयं व्याख्यानमुपन्यस्यति- केचित्पुनरिति / वाजसनेयकमप्यक्ष्यादित्यविषयं छान्दोग्यमपीत्युपास्याभेदादभेदः / ततश्च वाजसनेयोक्तानां सत्यादीनामुपसंहार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति- तन्न साध्विति / ज्योतिष्टोमकर्मसंबन्धनीयमुद्गीथव्यपाश्रयेति /
38 SK अनुबन्धाभेदे ऽपि साध्यभेदाद्भेद इति विद्याभेदादनुपसंहार इति
394 SK START Bस्VBह्_३,३.२५.३९
3.3.39 SK कामादीतरत्र तत्र चायतनादिभ्यः | BBस्_३,३.३९ |
396 SK छान्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुणत्वेन भेदः / तथाहि छान्दोग्ये-ऽअथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान्कामान्ऽइत्यात्मवत्कामानामपि वेद्यत्वं श्रूयते / वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते ऽविमोक्षाय ब्रूहिऽइति तथापि तयोः परस्परगुणोपसंहारः / निर्गुणायां तावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवी / सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणोपसंहारसंभवः / नहि निर्गुणायां
39 SK विद्यायामाध्यातव्यत्वेनैते चोदिता येनात्राध्येयत्वेन संबध्येरन्नपि तु सत्यकामादिगुणनान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंहार उच्यते / एवं व्यवस्थित एष संक्षेपो ऽधिकरणार्थस्य-साम्यबाहुल्ये ऽप्येकत्राकाशाधारत्वस्यापरत्र चाकाशतादात्म्यस्य श्रवणाद्भेदे विद्ययोर्न परस्परगुणोपसंहार इति पूर्वपक्षः / राद्धान्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मोपदेशादाकाशशब्देनैकत्रात्मोक्तो ऽन्यत्र च दहराकाशाधारः स एवोक्त इति सर्वसाम्याद्ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः / सगुणनिर्गुणत्वेन तु विद्याभेदे ऽपि गुणोपसंहारव्यवस्था दर्शिता / तस्मात्सर्वमवदातम्
398 SK START Bस्VBह्_३,३.२६.४०
3.3.40 SK आदरादलोपः | BBस्_३,३.४० |
400 SK अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् / तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्संबद्धप्रथमभोजनसंबन्धादस्ति संगतिः / विचारगोचरं दर्शयति- छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति / विचारप्रयोजकं संदेहमाह-- किं भोजनलोप इति / अत्र पूर्वपक्षाभावेन संशयमाक्षिपति- तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति / उक्तं खल्वेतत्प्रथम एव तन्त्रे ऽपदकर्माप्रयोजकं नयनस्य परार्थत्वात्ऽइत्यनेन / यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति / तत्कस्य हेतोः / सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति / तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष
401 SK इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः / पूर्वपक्षमाक्षिप्य समाधत्ते- एवं प्राप्ते, न लुप्येतेति तावदाह / तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः / पृच्छति- कस्मात् / उत्तरम्-आदरात् / तदेव स्फोरयति- तथाहीति / जाबाला हि श्रावयन्ति-ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात्ऽइति / अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः / ऽयथा हि श्रुधिता बाला मातरं पर्युपासते / एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽइति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वो ऽतिथिभ्यो ऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते / तदेवं सति ऽयथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्ऽइत्यतिथिभोजनस्य प्राथम्यं निन्दित्वास्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति / नन्वाथ्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजने ऽपीत्यत आह- या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहेतेति मन्यते / ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथितिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् / तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः / पूर्वपक्षाक्षेपमनुभाष्य दूषयति- ननु भोजनार्था इति / यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रे ऽपि
402 SK नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते / न चैतावता भोजनस्य प्रयोजकत्वम् / उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति / न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि
40 SK प्रयोजकत्वात् / यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् / स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते / यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् / शक्यं तु जाघनीवद्भक्तं ज्ञातुम् / तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते / एवं भक्तमपि शक्यमुपादातुम् / तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी / अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वासूचनार्थं भाष्यकारस्य
404 SK START Bस्VBह्_३,३.२६.४१
3.3.41 SK उपस्थिते ऽतस्तद्वचनात् | BBस्_३,३.४१ |
406 SK तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् / तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति / जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः / यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति / तदयुक्तम् / विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह- न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति / अपि
41 SK चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते / नच संभवे बाधनिचयो न्याय्यः / कृष्णलचरौ खल्वगत्या प्राप्तबाधो ऽभ्युपेयत इत्याह-तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति / चोदकाभावमुपोद्बलयति- अत एव चेहापीति / यत एवोक्तेन क्रमेणातिदेशाभावो ऽत एव सांपादिकत्वमग्निहोत्राङ्गानाम् / तत्प्राप्तौ तु सांपादिकत्वं नोपपद्येत / कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण संपाद्यते / न तु नद्यां चक्रवाकादय एव चक्रवाकादिना संपाद्यन्ते / अतो ऽप्यवगच्छामो न चोदकप्राप्तिरिति / यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् / यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणो ऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः / नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह- नास्ति वचनस्यातिभारः / सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः
408 SK START Bस्VBह्_३,३.२७.४२
3.3.42 SK तन्निर्धारणानियमस् तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् | BBस्_३,३.४२ |
410 SK यथैव ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽइत्येतदनारभ्याधीतमव्यभिचारितक्रतुसंबन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति / एवमव्यभिचारितकर्मसंबन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् / परार्थत्वात् / तथाच पारमर्षं सूत्रम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति / एवञ्च सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यते-युक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् / नहि पर्णतानाश्रया यागादिवत्फलसंबन्धमनुभवितुमर्हति / अव्यापाररूपत्वात् / व्यापारस्यैव च फलवत्त्वात् / यथाहुः-ऽउत्पत्तिमतःफलदर्शनात्ऽइति / नापि खादिरतायामिव प्रकृतक्रतुसंबद्धो यूप
411 SK आश्रयस्तदाश्रयः प्रकृतो ऽस्ति अनारभ्याधीतत्वात्पर्णतायाः / तस्माद्वाक्येनैव जुहूसंबन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः / न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् / तथाच तत्परं सन्न पर्णतायाः फलसंबन्धमपि गमयितुमर्हति / वाक्यभेदप्रसङ्गात् / उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसंबन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् / फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति / ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति / तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् / मैवम् / नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् / न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः / न चानुपयोगमीप्सितम् / तस्मात्सक्तून्
412 SK जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति संबन्धः / तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् / शेषमुक्तं भाष्ये / न चेदं फलश्रवणमर्थवादमात्रमिति / अर्थवादमात्रत्वे ऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे / न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः / अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना / फलपरत्वे त्वस्य
42 SK न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति
414 SK START Bस्VBह्_३,३.२८.४३
3.3.43 SK प्रदानवद् एव तद् उक्तम् | BBस्_३,३.४३ |
43 SK तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः / नहि गुणभेदे गुणवतो भेदः / नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति / उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः / यथामिक्षावाजिनसंयुक्तयोः कर्मणोः / नोत्पन्नकर्मसंयुक्तः / अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः / तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः / राद्धान्तस्तु-सत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः / सायंप्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् / आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति / अग्निहोत्रस्येवाध्यानस्य कृते तधितण्डुलादिवदयं पृथगुपदेशः / एतेन व्रतोपदेश इति / एतेन तत्त्वाभेदेन / एवकारश्च वागादिव्रतनिराकरणार्थः / नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह- देवतेत्यत्र वायुरिति / वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नो ऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता / सर्वेषामभिगमयन्निति / मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति / सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् / क्रमवति प्रदाने व्यत्यासविधिरर्थवान् / तथाविधस्यैव क्रमस्य विवक्षितत्वात् / सुगममन्यत्
417 SK START Bस्VBह्_३,३.२९.४४
3.3.44 SK लिङ्गभूयस्त्वात् तद् धि बलीयस् तद् अपि | BBस्_३,३.४४ |
419 SK इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति / तत्र
420 SK यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि / प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति / न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् / न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् / तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् / तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वा ऽपशुना यजेतऽइत्येकत्वसंख्याया अर्थस्य संख्येयावच्छेतसामर्थ्यम् / न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा / स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् / तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति / नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति / येन श्रुतिविरोधे सति न प्रकरणं भवेत्, बाह्यसाधनतापाकरणार्थत्वादवधारणस्य / नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसंबन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति / अन्यार्थदर्शनं खल्वेतदपि / नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् / तस्मात्तदपि न प्रकरणविरोधायालमिति सांपादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् / द्वादशाहे तु श्रूयते-ऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामिऽइति / तत्र संशयः-किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति / तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः / निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति
421 SK स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः / त्रयोदशाहे ऽप्यवयुज्य द्वादशसंख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्ते ऽभिधीयते-प्रमाणान्तरेण हि
44 SK त्रयोदशत्वे ऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत / न त्वस्ति तादृशं प्रमाणान्तरम् / नच व्यपदेशभेदो ऽहरन्तरत्वं कल्पयितुमर्हति / अङ्गाङ्गिभेदेनापि तदुपपत्तेः / अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः / देवदत्तस्येव दीर्घैः केशैः / पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति / किमिव हि न कुर्याद्वचनमिति / एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते / विसर्गे ऽन्तो ऽन्तवतो धर्मो न स्वतन्त्र इति दशमे ऽहनि मानसाय प्रमर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् / तदिह द्वादशाहसंबन्धिनो दशमस्याह्नो ऽङ्गं मानसमितिं धर्ममीमांसासूत्रकृतोक्तम् / दशरात्रगस्यापि दशमस्याह्नो ऽङ्गमिति भगवन्भाष्यकारः / श्रुत्यन्तरबलेनाह- यथा दशरात्रस्य दशमे ऽहन्यविवाक्य इति / अविवाक्य इति दशमस्याह्नो नाम
423 SK START Bस्VBह्_३,३.२९.४५
3.3.45 SK पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् | BBस्_३,३.४५ |
425 SK START Bस्VBह्_३,३.२९.४६
3.3.46 SK अतिदेशाच् च | BBस्_३,३.४६ |
46 SK नहि सांपादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् / तस्मादपि न स्वतन्त्र इति प्राप्ते ऽभिधीयते
428 SK START Bस्VBह्_३,३.२९.४७
3.3.47 SK विद्यैव तु निर्धारणात् | BBस्_३,३.४७ |
430 SK मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषु ऽवचनानि त्वपूर्वत्वात्ऽइति न्यायाद्विधिरुन्नेतव्यः / तथा चैतेभ्यो यादृशोर्ऽथः प्रतीयते तदनुरूप एव स भवति / प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसंबन्धश्च / न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् / नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् / स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः / तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् / न चैवमर्थत्वे संभवति / द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया / तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् / अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् / ते च भाष्य एव स्फुटाः / यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति / तदुतल्यकार्यत्वेन दूषयति-नच सत्येव क्रियासंबन्ध इति / अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनो ऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण- परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः / स्फुटमस्य भाष्यम् / अस्ति राजसूयः ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति / तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् / आग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते / यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति / तत्र संदिह्यते- किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति / तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूये ऽधिकारः / तस्मात्संभवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वं एवैते राजसूये प्राप्ता इति ऽयदि ब्राह्मणो यजेतऽइत्येवमादयो निमित्तार्थाः श्रुतयः / अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि / तत्र किं तावत्प्राप्तं, नैमित्तिकानीति / राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः / तथाहि-ब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते / तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् / बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेः ऽविरोधे त्वनपेक्षं स्यात्ऽइति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः / तथाच यदिशब्दो ऽप्याञ्जसः स्यादिति प्राप्तम् / एवं प्राप्त उच्यते-ऽरूपतो न विशेषो ऽस्ति ह्यार्यम्लेच्छप्रयोगयोः / वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितःऽ //
431 SK तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् / नच संभावितादिमद्भावा प्रसिद्धिः पाणिनिम्सृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते /
47 SK गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः / तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः / अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति / अत एवाहुः-ऽयदि शब्दपरित्यागो रुच्यध्यहारकल्पनाऽइति / इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता / एतस्मिंस्त्वधिकारे ऽन्नाद्यकामस्य त्रैवर्णिक्य संभवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति
433 SK START Bस्VBह्_३,३.२९.४८
3.3.48 SK दर्शनाच् च | BBस्_३,३.४८ |
435 SK START Bस्VBह्_३,३.२९.४९
3.3.49 SK श्रुत्यादिबलीयस्त्वाच् च न बाधः | BBस्_३,३.४९ |
437 SK START Bस्VBह्_३,३.२९.५०
3.3.50 SK अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् | BBस्_३,३.५० |
440 SK START Bस्VBह्_३,३.२९.५१
3.3.51 SK न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः | BBस्_३,३.५१ |
442 SK START Bस्VBह्_३,३.२९.५२
3.3.52 SK परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः | BBस्_३,३.५२ |
444 SK START Bस्VBह्_३,३.३०.५३
3.3.53 SK एक आत्मनः शरीरे भावात् | BBस्_३,३.५३ |
446 SK अधिकारणतात्पर्यमाह- इहेति / समर्थनप्रयोजनमाह- बन्धमोक्षेति / असमर्थने बन्धमोक्षाधिकाराभावमाह- न ह्यसतीति / अधस्तनतन्त्रोक्तेन पौनरुक्त्यं चोदयति- नन्विति / परिहरति- उक्तं भाष्यकृतेति / नसूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्यकृतेत्यत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र कृत इति / यत इह सूत्रकृद्वक्ष्यत्यत एव भगवतोपवर्षेणोद्धारो ऽपकर्षस्य कृतः / विचारस्यास्य पूर्वोत्तरतन्त्रशेषत्वमाह- इह चेति / पूर्वाधिकरणसंगतिमाह- अपिचेति / नन्वात्मास्तित्वोपपत्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह-आक्षेपपूर्विका हीति / आक्षेपमाह- अत्रैके देहमात्रात्मदर्शिन इति / यद्यपि समस्तव्यस्तेषु पृथिव्यप्तेजोवायुषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति / नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति / अहमिति चानुभवे देह एव गौराद्यकारः प्रथते / न तु तदतिरिक्तः तदधिष्ठानः कुण्ड एव दधीति / अत एवाहं स्थूलो गच्छामीत्यादिसामानाधिकरण्योपपत्तिरहमः स्थूलादिभिः / न जातु दधिसमानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनुभवन्ति सितं मधुरं कुण्डमिति / न चाप्रत्यक्षमात्मतत्त्वमनुमानादिभिः शक्यमुन्नेतुम् / न खल्वप्रत्यक्षं प्रमाणमस्ति / उक्तं हि-ऽदेशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु / भवानामनुमानेन प्रसिद्धिरतिदुर्लभाऽइति / यदा च उपलब्धिसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्टव्यभिचारस्य शब्दस्यार्थापत्तेश्चात्यन्तपरोक्षार्थगोचराया उपमानस्य च सर्वैकदेशसादृश्यविकल्पितस्य / सर्वसारूप्ये तत्त्वात् / एकदेशसारूप्ये चातिप्रसङ्गात्सर्वस्य सर्वेणोपमानात् / सौत्रस्तु हेतुर्भाष्यकृता
447 SK व्याख्यातः / चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः / स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरूपः शरीरधर्म एव / इच्छाप्रयत्नादयश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरीरे भावात् अन्तः शरीराश्रया एव, अन्यथा दृष्टहानादृष्टकल्पनाप्रसङ्गात् / शरीरातिरिक्त आत्मनि
53 SK प्रमाणाभावाच्छरीरे च संभवाच्छरीरमेवेच्छादिमदात्मेति प्राप्त उच्यते-
449 SK START Bस्VBह्_३,३.३०.५४
3.3.54 SK व्यतिरेकस् तद्भावभावित्वान् न तूपलब्धिवत् | BBस्_३,३.५४ |
54 SK नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति / प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति / नहि धूमज्ञानमिवैषामिन्द्रियार्थसन्निकर्षादप्रामाण्यज्ञानमुदेतुमर्हति / किन्तु देशकालावस्थारूपभेदेन व्यभाचिरोत्प्रेक्षया / न चैतावान्प्रत्यक्षस्य व्यापारः संभवति / यथाहुः-नहीदमियतो व्यापारान्कर्तुं समर्थं संनिहितविषयबलेनोत्पत्तेरविचारकत्वादिति / तस्मादस्मिन्ननिच्छतापि प्रमाणान्तरमभ्युपेयम् / अपिच प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसंदिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते / न चैषामित्थंभावो भवत्प्रत्यक्षगोचरः / न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः किन्तु वचनचेष्टादिलिङ्गानुमेयाः / नच लिङ्गं प्रमाणं यत एते सिध्यन्ति / न पुंसामित्थंभावमविज्ञाय यं कञ्चन पुरुषं प्रतिपिपातयिषतो ऽनवधेयवचनस्य प्रेक्षावत्ता नाम / अपिच पशवो ऽपि हिताहितप्राप्तिपरिहारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते / परिहरन्ति चाश्यानतृणकण्टकाकीर्णाम् / नास्तिकस्तु पशोरपि पशुरिष्टनिष्टसाधनमविद्वान् / न खल्वस्मिन्नुमानगोचर-प्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षं प्रभवति / नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थस्याप्रत्यक्षत्वात् / तदेव मा नाम भून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्मन्युपस्थितो ऽस्य मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः / पराक्रान्तं चात्र सूरिभिः / अत्यन्तपरोक्षगोचराप्यन्यथानुपपद्यमानार्थप्रभवार्थापत्तिः / भूयःसामान्ययोगेन चोपमानमुपपादितं प्रमाणलक्षणे / तदत्रास्तु तावत्प्रमाणान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालम्बत इत्यन्वयतिरेकाभ्यामवधार्यते / योगव्याघ्रवत्स्वप्नदशायां च शरीरान्तरपरिग्रहाभिमाने ऽप्यहङ्कारास्पदस्य प्रत्यभिज्ञायमानत्वमित्युक्तम् / सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् / कुतस्तद्भावाभावित्वात् / चैतन्यादिर्यदि शरीरगुणः ततो ऽनेन विशेषगुणेन भवितव्यम् / न तु संख्यापरिमाणसंयोगादिवत्सामान्यगुणेन / तथाच ये भूतविशेषगुणास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः / नह्यस्ति संभवः भूतं च रूपादिरहितं चेति / तस्माद्भूतविशेषगुणरूपादिवैधर्म्यान्न चैतन्यं शरीरगुणः / एतेनेच्छादीनां शरीरविशेषगुणत्वं प्रत्युक्तम् / प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः / मृतावस्थायामपि प्रसङ्गात् / तस्माद्यस्यैते अधिष्ठानाद्देहधर्मा भवन्ति स देहातिरिक्त आत्मा / अदृष्टकारणत्वे ऽभ्युपगम्यमाने तस्यापि देहाश्रयत्वानुपपत्तेरात्मैवाभ्युपेतव्य इति / वैधर्म्यान्तरमाह- देहधर्माश्चेति / स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः / इच्छादयस्तु स्वप्रत्यक्षा एवेति देहधर्मवैधर्म्यम् / तस्मादपि देहातिरिक्तधर्मा इति / तत्र यद्यपि चैतन्यमपि भूतविशेषगुणस्तथापि यावद्भूतमनुवर्तेत / नच मदशक्त्या व्यभिचारः / सामर्थ्यस्य सामान्यगुणत्वात् / अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहे ऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् / तथा चैकस्मिन्देहे बहवश्चेतयेरन् / नच बहूनां चेतनानामन्योन्याभिप्रायानुविधानसंभव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरुद्धादिक्रियाभिमुखाः समर्था अपि न हस्तमात्रमपि देशमतिपतितुमुत्सहन्ते / एवं शरीरमपि न किञ्चित्कर्तुमुत्सहते / अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः / शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् / अपि त्वन्वयव्यतिरेकाभ्याम् / संदिग्धश्चात्र व्यतिरेकः / तथाच साधकत्वमन्वयमात्रस्येत्याह- अपिच सति हि तावदिति / दूषणान्तरं विवक्षुराक्षिपति- किमात्मकं चेति / स एवैकग्रन्थेनाः- नहीति / नास्तिक आह- यदनुभवनमिति / यथा हि भूतपरिणामभेदो रूपादिर्न तु भूतचतुष्टयादर्थान्तरमेवं भूतपरिणामभेद एव चैतन्यं न तु भूतेभ्योर्ऽथान्तरं, येन ऽपृथिव्यापस्तेजो वायुरिति तत्त्वानिऽइति प्रतिज्ञाव्याघातः स्यादित्यर्थः / एतदुक्तं भवति-चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयो ऽन्यद्वा परिणामान्तरमिति / अत्रोक्ताभिस्तावदुपपत्तिभिर्देहधर्मत्वं निरस्तं तथाप्युपपत्त्यन्तराभिधित्सयाह- चेत्तर्हीति / भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः / नच केषाञ्चिद्विषयाणामपि विषयित्वं भविष्यतीति वाच्यम् / स्वात्मनि वृत्तिविरोधात् / न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वयंप्रकाशत्वाभ्युपगमात् / कृतोपपादनं चैतत्पुरस्तात् / उपलब्धिवदिति सूत्रावयवं योजयति- यथैवास्या इति / उपलब्धिग्राहिण एव प्रमाणाच्छरीव्यतिरेको ऽप्यवगम्यते / तस्यास्ततः स्वयंप्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् / अस्तु तर्हि व्यतिरेकादुपलब्धिर्भूतेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह- उपलब्धिस्वरूप एव च न आत्मेति / आजानतस्तावदुपलब्धिभेदो नानुभूयत इति विषयभेदादभ्युपेयः / न चोपलब्धिव्यतिरेकिणां विषयाणां प्रथा संभवतीत्युपपादतम् / नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्मतत्त्वसमीक्षायामस्माभिः / एवं च सति विषयरूपतद्भेदादेव सुदुर्लभाविति दूरनिरस्ता विषयभेदादुपलब्धिभेदसंकथा / तेनोपलब्धेरुपलब्धृत्वमपि न तात्त्विकम् / किन्त्वविद्याकल्पितम् / तत्राविद्यादशायामप्युपलब्धेरभेद इत्याह- अहमिदमद्राक्षमिति चेति / न केवलं तात्त्विकाभेदान्नित्यत्वमतात्त्विकादपि नित्यत्वमेवेति तस्यार्थः / स्मृत्याद्युपपत्तेश्च / नानात्वे हि नान्येनोपलब्धे ऽन्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः / निराकृतमप्यर्थं निराकरणान्तरायानुभाषते- यत्तूक्तमिति / यो हि देहव्यापारादुपलब्धिरुत्पद्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम्- न चात्यन्तं देहस्येति / प्रकृतमुपसंहरति- तस्मादनवद्यमिति
452 SK START Bस्VBह्_३,३.३१.५५
3.3.55 SK अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् | BBस्_३,३.५५ |
454 SK स्वरादिभेदात्प्रतिवेदमुद्गीथादयो भिद्यन्ते / तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन / तत्र संशयः-किं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उतान्यवेदविहितानामप्युद्गीथादीनां ते प्रत्यया इति / किं तावत्प्राप्तम् / ऽओमित्यक्षरमुद्गीथमुपास्तिऽइत्युद्गीथश्रवणेनोद्गीथसामान्यमवगम्यते / निर्विशेषस्य च तस्यानुपपत्तेर्विशेषकाङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनिधानात्तेनैवाकाङ्क्षाविनिवृत्तेर्न शाखान्तरीयमुद्गीथान्तरमपेक्षते / न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुतिसमर्पितमर्थमपबाधेन ततः श्रुतिं पीडयेन्न चैतदस्ति / नह्युद्गीथश्रुत्यभिहितलक्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीकरणाच्छाखान्तरीयास्वीकारे ऽपि / यथाहुः-ऽजातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते / कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यतेऽ //
55 SK एवं प्राप्तम् / एवं प्राप्त उच्यते-उद्गीथाङ्गवबद्धास्तु प्रत्यया नानाशाखासु प्रतिवेदमनुवर्तेरन्न प्रतिशाखं व्यवतिष्ठेरन् / उद्गीथमित्यादिसामान्यश्रुतेरविशेषात् एतदुक्तं भवति-युक्तं शुक्लं पटमानयेत्यादौ पटश्रुतिमविशेषप्रवृत्तामपि संनिधानाच्छुक्लश्रुतिर्बाधत इति / विशिष्टार्थप्रत्यायनप्रत्युक्तत्वात्पदानां समभिव्याहारस्य / अन्यथा तदनुपपत्तेः / नच स्वार्थमस्मारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थस्मारणं न स्वप्रयोजकमपवाधितुमुत्सहते / मा च वाधिप्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि श्रुतेरेकस्मिन्नेव विशेषे अवस्थापनम् / इह तूद्गीथश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् / संकोचे प्रमाणं किञ्चिन्नास्ति / नच संनिधिमात्रमपबाधितुमर्हति / श्रुतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्रुतेरेकस्मिन्नवस्थानं पीडैव / तस्मात्सर्वोद्गीथविषयाः प्रत्यया इति
456 SK START Bस्VBह्_३,३.३१.५६
3.3.56 SK मन्त्रादिवद्वाविरोधः | BBस्_३,३.५६ |
56 SK विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते / उपलब्धं च मन्त्रादिषु शाखान्तरीयेषि शाखान्तरीयकर्मसंबन्धित्वम् / तद्वदिहापीति दर्शनादविरोधः / एतच्च दर्शितं भाष्येण सुगमेनेति
459 SK START Bस्VBह्_३,३.३२.५७
3.3.57 SK भूम्नः क्रतुवज्ज्यायस् त्वं तथा हि दर्शयति | BBस्_३,३.५७ |
461 SK वैश्वानरविद्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता समस्तोपासनमेवेति / तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्यकमुपासनश्रुतेः प्रत्येकं च फलवत्त्वाम्नानात्समस्तोपासने च फलवत्त्वश्रुतेरुभयथाप्युपासनम् / नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भवतीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणे ऽप्यर्थवादमात्रत्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्वमेवमत्रापि भवितुमर्हति / तत्र हि द्वादशकपालं निर्वपेदिति / विधिभक्तिश्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमानापदेशः / नच वचनानि त्वपूर्वत्वादिति विधिकल्पना / अवयुज्यवादेन स्तुत्याप्युपपत्तेः / इह तु समस्ते व्यस्ते च वर्तमानापदेशस्याविशेषादगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् / निन्दायाश्च समस्तोपासनारम्भे व्यस्तोपासने ऽप्युपपत्तेः / श्यामो वाश्वाहुतिमभ्यवहरतीतिवदुभयविधमुपासनमिति
57 SK प्राप्त उच्यते-समस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य / यद्यपि वर्तमानापदेशत्वमुभयत्राप्यविशिष्टं तथापि पौर्वापर्यालोचनया समस्तोपासनपरत्वस्यावगमः / यत्परं हि वाक्यं तदस्यार्थः / तथाहि-प्राचीनशालप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः / ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः / तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपासनमुपसंजहार / तथा चैकवाक्यतालाभाय वाक्यभेदपरिहाराय च समस्तोपासनपरतैव संदर्भस्य लक्ष्यते / तस्माद्बहुफलसंकीर्तनं / प्रधानस्तवनाय / समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् / एकदेशिव्याख्यानमुपन्यस्य दूषयति- केचित्त्वत्रेति / संभवत्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात् नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः
463 SK START Bस्VBह्_३,३.३३.५८
3.3.58 SK नानाशब्दादिभेदात् | BBस्_३,३.५८ |
465 SK सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम् / संप्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदो भेदो वा, एवं प्राणादिगोचरास्विति विचारयितव्यम् / ननु यथा प्रत्ययाभिधेयाया अपूर्वभावनाया आजानतो भेदभावे ऽपि धात्वर्थेन निरूप्यमाणत्वात्तस्य च यागादेर्भेदात्प्रकृत्यर्थयागादिधात्वर्थानुबन्धभेदाद्भेदः / तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् / एवं विद्यानामपि रूपतो वेद्यस्येश्वरस्याभेदे ऽपि तत्तत्सत्यसंकल्पत्वादिगुणोपधानभेदाद्विद्याभेद इति नास्त्यभेदाशङ्का / उच्यते-युक्तमनुबन्धभेदात्कार्यरूपाणामपूर्वभावनानां भेद इति / इह ब्रह्मणः सिद्धरूपत्वाद्गुणानामपि सत्यसंकल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु / नहि विशालवक्षाश्चकोरेक्षणः क्षत्रिययुवा दुश्चयवनधर्मेति एकत्रोपदिष्टो ऽन्यत्र सिंहास्यो वृषस्कन्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजहाति न खलु प्रत्युपदेशं वस्तु भिद्यते / तस्य सर्वत्र तादवस्थ्यात् / अतादवस्थ्ये वा तदेव न भवेत् / नहि वस्तु विकल्प्यत इति / तस्माद्वेद्याभेदाद्विद्यानां भेद इति प्राप्तम् / एवं प्राप्त उच्यते-भवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किन्तु तद्विषयामुपासनाभावनां विदधति / सा च कार्यरूपा / यद्यपि चोपासनाभावना उपासनाधीननिरूपणोपासनं चोपास्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम्, तथाप्युपासनविषयीभावो ऽस्य कदाचित्कस्यचित्केनचिद्रूपेणेत्यपरिनिष्ठित एव / यथैकः स्त्रीकायः केनचिद्भक्ष्यतया केनचिदुपगन्तव्यतया केनचिदपत्यतया केनचिन्मातृतया केनचिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छातन्त्रः / एवमिहापि उपासनानि पुरुषेच्छातन्त्रतया विधेयतां नातिक्रामन्ति /
58 SK नच तत्तद्गुणतयोपासनानि गुणभेदान्न भिद्यन्ते / न चाग्निहोत्रमिवोपसनां विधाय दधितण्डुलादिगुणवदिह सत्यसंकल्पत्वादिगुणविधिर्येनैकशास्त्रत्वं स्यात् / अपि तूत्पत्तावेवोपासनानां तत्तद्गुणविशिष्टानामवगमात् / तत्रागृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः / नच समस्तशाखाविहितसर्वगुणोपसंहारः शक्यानुष्ठानस्तस्माद्भेदः / न चास्मिन्पक्षे सामाना सन्तः सत्यकामादयैति / केचित्खलु गुणाः कासुचिद्विद्यासु समानास्तेनैकविद्यात्वे आवर्तयितव्याः / एकत्रोक्तत्वात् / विद्याभेदे तु न पौनरुक्त्यमेकस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्गुणत्वाय वक्तव्या अनुक्तानामप्राप्तेरिति
467 SK START Bस्VBह्_३,३.३४.५९
3.3.59 SK विकल्पो ऽविशिष्टफलत्वात् | BBस्_३,३.५९ |
59 SK अग्निहोत्रदर्शपूर्णमासादिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समुच्चयनियमः / तेन समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि संभवादिति पूर्वः पक्षः / उपासनानाममूषामुपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्यैकेनोपासनेनोपास्यसाक्षात्करणे तत एव फलप्रतिलाभे तु कृतमुपासनान्तरेण / नच साक्षात्करणस्यातिशयसंभवस्योपायसहस्रैरपि तादवस्थ्यात्तन्मात्रसाध्यत्वाच्च फलावाप्तेः / उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चिदुपासनानिष्पत्तेरिह विकल्प एव नियमवानिति राद्धान्तः
470 SK START Bस्VBह्_३,३.३५.६०
3.3.60 SK काम्यास् तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् | BBस्_३,३.६० |
472 SK यासूपासनासु विनोपास्यसाक्षात्कारणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपौर्णमासादिवत्पुरुषेच्छावशेन
60 SK विकल्पसमुच्चयाविति साम्प्रतम्
474 SK START Bस्VBह्_३,३.३६.६१
3.3.61 SK अङ्गेषु यथाश्रयभावः | BBस्_३,३.६१ |
476 SK तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः / इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते / यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति / तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते / नच प्रयुज्यन्ते तत्कस्य होतोः / क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति / एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः / स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यंभावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः / राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थनुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति / किन्तु तदविरोधेनावतिष्ठते / तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च संभवान्नियमेनैतान्त्समुच्चिनोतु / कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति / नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते / मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती / तथा सत्युद्देशानुपपत्तेः /
61 SK तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् / नित्यानित्यसंयोगविरोधात् सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति / न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तम्-आश्रयतन्त्राण्यपि हीति
478 SK START Bस्VBह्_३,३.३६.६२
3.3.62 SK शिष्टेश् च | BBस्_३,३.६२ |
480 SK START Bस्VBह्_३,३.३६.६३
3.3.63 SK समाहारात् | BBस्_३,३.६३ |
482 SK होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति /
63 SK अपिर्भिन्नकमो दिरुद्गीथमपीति / वेदान्तरोहितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् / एवं ब्रुवन्वेदान्तरोदितस्य प्रत्यस्येत्यादि योजनीयम्
484 SK START Bस्VBह्_३,३.३६.६४
3.3.64 SK गुणसाधारण्यश्रुतेश् च | BBस्_३,३.६४ |
64 SK अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या / शेषमतिरोहितार्थम्
487 SK START Bस्VBह्_३,३.३६.६५
3.3.65 SK न वा तत्सहभावाश्रुतेः | BBस्_३,३.६५ |
489 SK START Bस्VBह्_३,३.३६.६६
3.3.66 SK दर्शनाच् च | BBस्_३,३.६६ |
3 SK इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः
492 SK तृतीयाध्याये चतुर्थः पादः /
493 SK START Bस्VBह्_३,४.१.१
3.4.1 SK पुरुषार्थो ऽतः शब्दाद् इति बादरायणः | BBस्_३,४.१ |
1 SK स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् / सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे / यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् / इतो ऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् / यथा शुद्धत्वादि / यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् / तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम्, यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसंबन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसंबन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः / तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः / आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासंभवात्तत्संबन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः / तदुक्तम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्यो ऽस्मीति विद्यावाच्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति / प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् / न तु तत्परत्वमुपनिषदाम् / तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति / एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः / न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् / तृतीयाश्रुतेश्च / न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् / यथा य एव धूमवान्देशः स वह्निमानिति / समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति / तच्च यद्यप्याप्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् / वेदार्थज्ञानवतः कर्मविधानादुपनिषदो ऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति
496 SK START Bस्VBह्_३,४.१.२
3.4.2 SK शेषत्वात् पुरुषार्थवादो यथान्येष्व् इति जैमिनिः | BBस्_३,४.२ |
498 SK START Bस्VBह्_३,४.१.३
3.4.3 SK आचारदर्शनात् | BBस्_३,४.३ |
500 SK START Bस्VBह्_३,४.१.४
3.4.4 SK तच्छ्रुतेः | BBस्_३,४.४ |
502 SK START Bस्VBह्_३,४.१.५
3.4.5 SK समन्वारम्भणात् | BBस्_३,४.५ |
504 SK START Bस्VBह्_३,४.१.६
3.4.6 SK तद्वतो विधानात् | BBस्_३,४.६ |
506 SK START Bस्VBह्_३,४.१.७
3.4.7 SK नियमाच् च | BBस्_३,४.७ |
509 SK START Bस्VBह्_३,४.१.८
3.4.8 SK सिद्धान्तयति- अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् | BBस्_३,४.८ | यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मत्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति / तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् / अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन / तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति / किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता / तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव / अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनो ऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते / यथा समारोपितस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते यो ऽयं सर्पः सा रज्जुरिति / यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवकर्माङ्गत्वे दर्शनमुक्तम् / तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः
511 SK START Bस्VBह्_३,४.१.९
3.4.9 SK तुल्यं तु दर्शनम् | BBस्_३,४.९ |
513 SK START Bस्VBह्_३,४.१.१०
3.4.10 SK असार्वत्रिकी | BBस्_३,४.१० |
10 SK व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया / यथ सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात्
516 SK START Bस्VBह्_३,४.१.११
3.4.11 SK विभागः शतवत् | BBस्_३,४.११ |
11 SK सुगमम् / अविभागे ऽपि न दोष इत्याह-न चेदं समन्वारम्भवचनमिति / संसारिविषया विद्याविहितायथोद्गीथविद्या / प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा
519 SK START Bस्VBह्_३,४.१.१२
3.4.12 SK अध्ययनमात्रवतः | BBस्_३,४.१२ |
521 SK अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः / एतदुक्तं भवति-यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति / अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति-नन्वेवं सतीति / स्वाभिप्रायमुद्घाटयन्समाधत्ते-न वयमिति /
12 SK उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः
523 SK START Bस्VBह्_३,४.१.१३
3.4.13 SK नाविशेषात् | BBस्_३,४.१३ |
13 SK कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः
526 SK START Bस्VBह्_३,४.१.१४
3.4.14 SK विद्यावद्विषयत्वे ऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह- स्तुतये ऽनुमतिर् वा | BBस्_३,४.१४ |
528 SK START Bस्VBह्_३,४.१.१५
3.4.15 SK कामकारेण चैके | BBस्_३,४.१५ |
530 SK अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह-कामकारेण चैके /
532 SK START Bस्VBह्_३,४.१.१६
3.4.16 SK उपमर्दं च | BBस्_३,४.१६ |
16 SK अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः / इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति
535 SK START Bस्VBह्_३,४.१.१७
3.4.17 SK ऊर्ध्वरेतःसु च शब्दे हि | BBस्_३,४.१७ |
538 SK START Bस्VBह्_३,४.२.१८
3.4.18 SK परामर्शं जैमिनिरचोदना चापवदति हि | BBस्_३,४.१८ |
540 SK सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् / आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति /
18 SK विध्यभावात् / स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् / निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं ऽवीरहा वा एष देवानाम्ऽइत्यादिका / प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं ऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइति / तदेतत्सर्वमाह-त्रयो धर्मस्कन्धा इत्यादिना / अनधिकृतविषया वेति / अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति / अपिचापवदिति हि / न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः / स्यादेतत् / भवत्वेष परामर्शो ऽन्यार्थः / ये चेमे ऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेतस्यतीत्यत आह-ये चेमे ऽरण्य इति / अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः / न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यत इत्याह-संदिग्धं चेति / नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति / नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह-तथैतमेवेति / एतदपि लोकसंस्तनवनपरमिति / अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते-ननु ब्रह्मचर्यादेवेति
542 SK START Bस्VBह्_३,४.२.१९
3.4.19 SK अनुष्ठेयं बादरायणः साम्यश्रुतेः | BBस्_३,४.१९ |
19 SK भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति / एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् / प्रतीयमानानि वा श्रुत्या बाध्येरन् / न तावन्न प्रतीयन्ते / तथाहि-त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् / तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत / एकैकाश्रमोपसंगृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः / तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति / तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्ते ऽपाकर्तुम् / नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः / एवञ्च अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये ऽउपव्ययते देवलक्ष्ममेव तत्कुरुतेऽइत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति
545 SK START Bस्VBह्_३,४.२.२०
3.4.20 SK विधिर् वा धारणवत् | BBस्_३,४.२० |
547 SK यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य संदर्भस्यैकवाक्यता गम्यते / संभवान्त्यां चैकवाक्यतायां वाक्यभेदो ऽन्याय्यः / तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसंभवेन किंपरतया एकवाक्यतास्त्विती तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु / यथा ऽअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽइत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् / तथोक्तम् ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽइति / तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते / संप्रति परामर्शे ऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या / न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह-यदापीति / अत्रावान्तरविचारमारभते-सा च किं चतुर्ष्विति /
548 SK विचारप्रयोजनमाह-यदि चेति / ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह-अनाश्रयमित्वेति / तत्र पूर्वपक्षमाह-तत्र तपःशब्देनेति / अयमभिसंधिः / यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजके ऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत / तथाच नान्यः पन्था विद्यते ऽयनायेति विरोधः / नच संभत्यवयवार्थे समुदायशक्तिकल्पना / तस्माद्ब्रह्मणि संस्थास्येति / ब्रह्मसंस्थः / एवञ्च चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थो ऽमृतत्वमेतीति युक्तम् / तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ / भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः / नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासंभवः / यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति / अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः / तथा सति गृहस्थादयो ऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः / तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः / प्रमाणविरोधात् / तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते / एवञ्च त्रयो ऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सो ऽमृतत्वभागिति / नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः / यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां संप्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः / पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः / तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति / यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते / नच विनियुक्तविनियोगविरोधः / यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत / विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः / इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते / न तूद्दिश्यते / विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् / तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसंभवः / नच यातयामतया न विनियोगः / वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् / तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः / राद्धान्तमुपक्रमते-तदयुक्तम् / नहि सत्यां गतौ वानप्रस्थविशेषणेनेति / यथोपक्रान्तं तथैव परिसमापनमुचितम् / यत्संख्याकाश्च ये प्रसिद्धास्ते तत्संख्याका एव कीर्त्यन्ते इति चोचितम् / न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते / अशाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् / न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते / नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह-तपश्चासाधारण इति / न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे / नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः / अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते-ऽशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःऽइति / सिद्धसंख्याभेदेषु च संख्यान्तराभिधानमाश्लिष्टमित्याह-चतुष्ट्वेन चेति / अपिच भेदव्यपदेशो ऽत्रेति / त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव / न तावन्त्रय इति भिक्षुसंग्रहे तद्वर्जनमेते त्रय इत्यत्र वर्तुं शक्यम् / एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसंग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः / तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः / त्रिषु च ब्रह्मसंस्थपदे यदेति संबन्धनीयम् / भिक्षौ च सदेति वैषम्यम् / तदिदमुक्तम्-पृथक्त्वे चेति / पूर्वपक्षाभासं स्मारयति-कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति / तन्निराकरोति-अत्रोच्यत इति / अयमभिसंधिः / सत्यं यौगिकः शब्दः सति प्रकृतसंभवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति / असति तु संभवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासंभवे ऽधस्तादिति / एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव / तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र / शमदमादिस्तु तदीय इति / स्वाङ्गमव्यवधायकमित्यर्थः / ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह-तथाच न्यास इति ब्रह्मेति / सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह-ब्रह्मा हि परः / अतः परो न्यासो ब्रह्मेति / किमपेक्ष्य परः संन्यास इत्यत आह-तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति /
20 SK एतदुक्तं भवति-ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति / तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् / ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारो ऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् / न त्वनधिकृतं प्रतीत्यर्थः
550 SK START Bस्VBह्_३,४.३.२१
3.4.21 SK स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् | BBस्_३,४.२१ |
552 SK यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितो ऽपि विधिव्यभिचारिततद्विधिसंबन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसंदर्भेणैकवाक्यभावमुपगतः स्तूयते / नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति / अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् / यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्ते ऽभिधीयते-न तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासंभवः / प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति / न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः / यथाहुः-ऽअस्ति तु तदित्यतिरेके परिहारःऽइति / अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभ् इधानमसमञ्जसम् / नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः / तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् / तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् / अगत्या हि सा / तस्मादुपासनार्था इति सिद्धम् / ऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् / एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् //
21 SK ऽभावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् / यथाहुः-ऽकर्तव्यश्च सुखफलो ऽकर्तव्यो दुःखफलःऽइति / एतच्चास्माभिरुपपादितं न्यायकणिकायाम् / क्रिया च भावना तद्वचनाश्च करोत्यादयः / यथाहुः-कृभ्वस्तयः क्रियासामान्यवचना इति / अत एव कृभ्वस्तीनुदाहृतवान् / सामान्योक्तौ तद्विशेषाः पचेदित्यादयो ऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना / क्रियेतेति आक्षिप्तकर्मिका भावना / कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना / एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः / भवतिश्चैष जन्मनि / यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते / नच बीजादङ्कुरो ऽस्तीति प्रयुञ्जते / तस्मादस्ति सत्तायां न जन्मनीति
554 SK START Bस्VBह्_३,४.३.२२
3.4.22 SK भावशब्दाच् च | BBस्_३,४.२२ |
556 SK START Bस्VBह्_३,४.४.२३
3.4.23 SK पारिप्लवार्था इति चेन् न विशेषितत्वात् | BBस्_३,४.२३ |
23 SK यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि ऽसर्वाण्याख्यानानि पारिप्लवेऽइति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि / नच सर्वा दाशतयीरनुब्रूयादिति विनियोगे ऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् / दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात् श्रुतेर्बलीयस्त्वात् / तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते-नैषामाख्यानानां पारिप्लवे विनियोगः / किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि / इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् / आख्यानविशेषणत्वे त्वर्थवत् / तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः / यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः / तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सो ऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् / प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति
559 SK START Bस्VBह्_३,४.४.२४
3.4.24 SK तथा चैकवाक्यतोपबन्धात् | BBस्_३,४.२४ |
561 SK START Bस्VBह्_३,४.५.२५
3.4.25 SK अत एव चाग्नीन्धनाद्यनपेक्षा | BBस्_३,४.२५ |
563 SK विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः / तदभावे कस्योपकारो विद्ययेति / यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् / अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाह-अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति /
25 SK स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति / एतच्चाधिकमुपरिष्टाद्वक्ष्यते / तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम्
565 SK START Bस्VBह्_३,४.५.२६
3.4.26 SK अधिकविवक्ष्येति यदुक्तं तदधिकमाह- सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् | BBस्_३,४.२६ | यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् / नच विविदिषन्ति यज्ञेनेत्यादिविरोधः / नह्येष विधिरपि तु वर्तमानापदेशः / स च स्तुत्याप्युपपद्यते / अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि / प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति / द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते / मननमिति / तृतीया चिन्ता / सन्ततिमयी यामाचक्षते निदिध्यासनमिति / चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति / तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा / ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा / सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा / तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा / तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् / एवं प्राप्त उच्यते-उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा ऽविविदिषन्ति यज्ञेनऽइति श्रुतेः / न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य / यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः / तस्मादुत्पत्तौ विद्यया शमादिवत् कर्माण्यपेक्ष्यन्ते / तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् /
567 SK तथाहि-आश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते / स हि तत्त्वतो ऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिमुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् / अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति / ततो ऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते / ततस्तज्जिहासास्योपावर्तते / ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः / विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते / ततो ऽस्य ऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते / नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारो ऽस्ति / येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः / एतेन वृत्तिरूरपसाक्षात्कारकार्ये ऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः / तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् /
26 SK विदुषस्तत्रानधिकारादित्युक्तम् / दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारे ऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव / नहि तत्रान्वयव्यतिरेकसमधिगमनीयफले ऽस्ति विध्यपेक्षा / अतश्च ऽभ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु तेऽइति प्रलापः / शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः / उपपादितं चैतदस्माभिः प्रथमसूत्र इते नेह पुनः प्रत्याप्यते / तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् / शेषमतिरोहितार्थम्
569 SK START Bस्VBह्_३,४.६.२७
3.4.27 SK शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् | BBस्_३,४.२७ |
571 SK START Bस्VBह्_३,४.७.२८
3.4.28 SK सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् | BBस्_३,४.२८ |
573 SK प्राणसंवादे सर्वेन्द्रियाणां श्रूयते / एष किल विचारविषयः-सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मे ऽन्नं भविष्यतीति, तानि होचुः / यदिदं लोके ऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति / तदनेन संदर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः-ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽइति / सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति / तत्र संशयः-किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं संकीर्त्यत इति / तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते / तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः / स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ / भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते / गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते-अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः / प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः //
28 SK न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् / इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् / न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति / नच कल्पनीयो विधिरपूर्वत्वाभावात् / स्तुत्यापि च तदुपपत्तेः / नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसंकोचो युक्तः / तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् / शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे / प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् / तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् / न त्वन्यत्रेति / इभ्येनहस्तिपकेनसामिस्वादितानर्धभक्षितान् / स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः / कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति / एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे / कारणं चात्रोवाच / न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् / कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास
575 SK START Bस्VBह्_३,४.७.२९
3.4.29 SK अबाधाच् च | BBस्_३,४.२९ |
577 SK START Bस्VBह्_३,४.७.३०
3.4.30 SK अपि च स्मर्यते | BBस्_३,४.३० |
579 SK START Bस्VBह्_३,४.७.३१
3.4.31 SK शब्दश् चातो ऽकामकारे | BBस्_३,४.३१ |
581 SK START Bस्VBह्_३,४.८.३२
3.4.32 SK विहितत्वाच् चाश्रमकर्मापि | BBस्_३,४.३२ |
583 SK नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि / विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यंभावनियमाभावादनित्यता प्राप्नोति / नित्यानित्यसंयोगश्चैकस्य न संभवति, अवश्यानवश्यंभावयोरेकत्र विरोधात् / नच वाक्यभेदाद्वास्तवो विरोधः शक्यो ऽपनेतुम् / तस्मादनध्यवसाय एवात्रेति प्राप्तम् / एतेन ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइत्याक्षिप्तम् / एवं प्राप्ते ऽभिधीयते-सिद्धे हि स्याद्विरोधो ऽयं न तु साध्ये कथञ्चन / विध्यधीनात्मलाभे ऽस्मिन् यथाविधि मता स्थितिः //
32 SK सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते / न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे / ते हि विध्यधीनत्वाद्विकल्पेते एव / न पुनः सिद्धे विकल्पसंभवः / तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावे ऽपि ऽकाम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशतेऽइति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् / सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ / कोर्ऽथो विद्यासहकारीणि कर्माणीति / अयमर्थः-सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते / यथा ऽसहैव दशभिः पूत्रैर्भारं वहति गर्दभीऽइति सात्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति / अविधिलक्षणत्वादिति / विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् / ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् / अविहिते च तदनुपपत्तेः / चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे / द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् / उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् / असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः / नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् / शेषमतिरोहितार्थम्
585 SK START Bस्VBह्_३,४.८.३३
3.4.33 SK सहकारित्वेन च | BBस्_३,४.३३ |
587 SK START Bस्VBह्_३,४.८.३४
3.4.34 SK सर्वथापि त एवोभयलिङ्गात् | BBस्_३,४.३४ |
34 SK यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽइतिक्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्ध् इव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यते-सत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति तदेवाग्निहोत्रमुभयसंयुक्तम् / नहि प्रकरणान्तरं साक्षाद्भेदकम् / किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् / प्रकरणान्तरेण तु विघटुतप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति / इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति / नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति सांप्रतम् / होम एव साक्षाद्विधिश्रुतेः / कालस्य चानुपादेयस्याविधेयत्वात् / काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः / इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ / तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् / स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम्
590 SK START Bस्VBह्_३,४.८.३५
3.4.35 SK अनभिभवं च दर्शयति | BBस्_३,४.३५ |
592 SK START Bस्VBह्_३,४.९.३६
3.4.36 SK अन्तरा चापि तु तद्दृष्टेः | BBस्_३,४.३६ |
594 SK यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम्, अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यते-नात्यन्तमकर्माणो रैक्वविधुरवाचक्रवीप्रभृतयः / सन्ति हि तेषामनाश्रमित्वे ऽपि जपोपवासदेवताराधनादीनि कर्माणि / कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु /
595 SK जन्मान्तरानुष्ठितेरपि चेति /
596 SK न खलु विद्याकार्ये कर्मणामपेक्षा / अपितु उत्पादे / उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् / उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः / यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवे ऽनुष्ठितानि तैरिति गम्यत इति / ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि / तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आह-दृष्टार्था चेति /
36 SK अविद्यानिवृत्तिर्विद्याया दृष्टोर्ऽथः / स चान्वव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः / प्रतिषेधो विधातस्तस्याभाव इत्यर्थः
598 SK START Bस्VBह्_३,४.९.३७
3.4.37 SK अपि च स्मर्यते | BBस्_३,४.३७ |
600 SK START Bस्VBह्_३,४.९.३८
3.4.38 SK विशेषानुग्रहश् च | BBस्_३,४.३८ |
602 SK START Bस्VBह्_३,४.१०.३९
3.4.39 SK अतस् त्व् इतरज्ज्यायो लिङ्गाच् च | BBस्_३,४.३९ |
39 SK यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याह-अतस्त्वितरज्ज्यायो लिङ्गाच्च / स्वस्थेनाश्रमित्वमास्थेयम् / दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसंदर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते / तेनैति पुण्यकृदिति श्रुतिलिङ्गम्, अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम्
605 SK START Bस्VBह्_३,४.१०.४०
3.4.40 SK तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः | BBस्_३,४.४० |
607 SK आरोहवत्प्रत्यवरोहो ऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् / पूर्वधर्मेषु यागहोमादिषु / रागतो वा गृहस्थो ऽहं पत्न्यादिपरिवृतः स्यामिति / नियमं व्याचष्टे-तथाहि-अत्यन्तमात्मानमिति / अतद्रूपतामारोहतुल्यताभावं व्याचष्टे-यथाच ब्रह्मचर्यं समाप्येति / अभावं शिष्टाचाराभावं विभजते-न चैवमाचाराः शिष्टा इति /
609 SK START Bस्VBह्_३,४.११.४१
3.4.41 SK न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् | BBस्_३,४.४१ |
41 SK प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति / तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः / सूत्रयोजना तु-न चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽइत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति / कुतः-आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात्
612 SK START Bस्VBह्_३,४.११.४२
3.4.42 SK उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम् | BBस्_३,४.४२ |
42 SK श्रुतिस्तावत्सरसतो ऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् / प्रायश्चित्तं न पश्यामीति तु स्मृतिः / तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सो ऽनुमातव्यः / तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या / श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति / स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् / एतदुक्तं भवति-कृतनिर्णेजनैरपि एतैर्न संख्यानं कर्तव्यमिति / सूत्रार्थस्तु-उपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति / आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् / शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् / उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति / सुगममितरम्
615 SK START Bस्VBह्_३,४.१२.४३
3.4.43 SK बहिस् तूभयथापि स्मृतेर् आचाराच् च | BBस्_३,४.४३ |
43 SK यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति / तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणो वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यते-बहिस्तूभयथापि स्मृतेराचाराच्च / निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वये ऽप्यशुद्धिमापादयति द्वैधम् कस्यचिदेनसो लोकद्वये ऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः / कस्याचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् / यथा स्त्रीबालादिघातिनाम् / यथाहुः-ऽविशुद्धानपि धर्मतो न संपिबेत्ऽइति / तथा च ऽप्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्ऽकामतः कृतमपि / बालघ्नादिस्तु कृतनिर्णेजनो ऽपि वचनादव्यवहार्य इह लोके जायत इति / वचनं च बालघ्नांश्चेत्यादि / तस्मात्सर्वमवदातम्
618 SK START Bस्VBह्_३,४.१३.४४
3.4.44 SK स्वामिनः फलश्रुतेर् इत्य् आत्रेयः | BBस्_३,४.४४ |
44 SK प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्संबन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्ये ऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवञ्जातीयकानि चाङ्गसंबद्धानि उपासनानि किं याजमानन्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् / तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजो ऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्यभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते-
621 SK START Bस्VBह्_३,४.१३.४५
3.4.45 SK आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते | BBस्_३,४.४५ |
45 SK उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते / तद्बलवति सति बाधके ऽन्यथोपपादनीयम् / न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासंभविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते / तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः
624 SK START Bस्VBह्_३,४.१३.४६
3.4.46 SK श्रुतेश्च | BBस्_३,४.४६ |
626 SK START Bस्VBह्_३,४.१४.४७
3.4.47 SK सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् | BBस्_३,४.४७ |
47 SK तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन / लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति / यत्र हि विधिविभक्तिः श्रूयते स विधेयः / बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने / तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि / न चापूर्वत्वाद्विधेयं, तस्माद्ब्राह्णः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति / अथवा भिक्षुवचनो ऽयं मुनिशब्दस्तत्र दर्शनात् ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽइत्यत्र / तस्यान्यतो विहितस्यायमनुवादः / तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् / भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् / अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसंपत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः / आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् / तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते / एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह-निर्वेदनीयत्वनिर्देशादिति / कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह-तद्वतो विद्यावतः संन्यासिनोभिक्षोः / पृच्छति-कथमिति / विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः / उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् / तद्दर्शयति-आत्मानं विदित्वेति / सूत्रावयवं योजयितुं शङ्कते-नन्विति / परिहरति-अत आह-पक्षेणेति / विद्यावानिति न विद्यातिशयो विवक्षितः / अपि तु विद्योदयायाभ्यासो प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः / तथाचास्य पक्षे कदाचिद्भेददर्शनात्संभव इत्यर्थः / विध्यादिर्विधिमुख्यः प्रधानमिति यावत् / अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति / तत्राश्रूयमाणविधित्वे ऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः
629 SK START Bस्VBह्_३,४.१४.४८
630 SK ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति-एवं बाल्यादिविशिष्टेति /
3.4.48 SK उत्तरं पठति- कृत्स्नभावात् तु गृहिणोपसंहारः | BBस्_३,४.४८ | छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः
632 SK START Bस्VBह्_३,४.१४.४९
3.4.49 SK एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम्- मौनवद् इतरेषाम् अप्य् उपदेशात् | BBस्_३,४.४९ | वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्माचारिणो ऽपीति वृत्तिभेदो ऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वे ऽपि बहुवचनमविरुद्धम्
634 SK START Bस्VBह्_३,४.१५.५०
3.4.50 SK अनाविष्कुर्वन्न् अन्वयात् | BBस्_३,४.५० |
50 SK बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाशचात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्ते ऽभिधीयते-विद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते / एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति
637 SK START Bस्VBह्_३,४.१६.५१
3.4.51 SK ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् | BBस्_३,४.५१ |
51 SK संगतिमाह-सर्वापेक्षा चेति / किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति / यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति / तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽइति च स्मरणादामुष्मिकत्वमप्यवगम्यते / तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् / यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वाम् / श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् / नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् / नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय / तस्मादैहिक एव विद्योत्पादो नानियतकालः / श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः / इत्थंभूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरे ऽपि विद्यामुत्पादयन्तीति / एवं प्राप्त उच्यते-यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगो ऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् / तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति / पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम्-अभिसंधेर्निरङ्कुशत्वादिति
640 SK START Bस्VBह्_३,४.१७.५२
3.4.52 SK एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः | BBस्_३,४.५२ |
642 SK यज्ञाद्युपकृतविद्यासाधनश्रवणादिवीर्यविशेषात्किल तत्फले विद्यायामैहिकामुष्मिकत्वलक्षण उत्कर्षो दर्शितः / तथा च यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्याया उत्कर्षनिकर्षावेवं विद्याफलस्यापि मुक्तेरुत्कर्षनिकर्षौ संभाव्येते / नच मुक्तावैहिकामुष्मिकत्वलक्षणो विशेष उपपद्यते ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो मुक्तेरवश्यंभावनियमात्सत्यप्यारब्धविपाककर्माप्रक्षये / तस्मान्मुक्तावेव रूपतो निकर्षोत्कर्षौ स्याताम् /
52 SK अपिच सगुणानां विद्यानामुत्कर्षनिकर्षाभ्यां तत्फलानामुत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वाद्रूपतश्चोत्कर्षनिकर्षौ स्यातामिति प्रापत उच्यते-न मुक्तेस्तत्र तत्रैकरूप्यश्रुतेरुपपत्तेश्च / साध्यं हि साधनविशेशषाद्विशेषवद्भवति / नच मुक्तिर्ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति / नच सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजन्म {FN १-विरोधिकार्योदय एव पूर्वप्रध्वसं इति मतमाश्रित्य क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् /} विशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् / नच सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते / नच चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते तस्या अप्येकरूपत्वेन श्रुतेः / सगुणायास्तु विद्यायास्तत्तद्गुणावापोद्धामाभ्यां तत्कार्यस्य फलस्योत्कर्षनिकर्षौ युज्येते / न चात्र विद्यात्वं सामान्यतो दृष्टं भवति / आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात् / तस्मात्तस्या मुक्त्यवस्थाया ऐकरूप्यावधृतेर्मुक्तिलक्षणस्य फलस्याविशेषो युक्त इति
644 SK इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः //
645 SK // इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गसाधनविचाराख्यश्चतुर्थः पादः //
1 SK नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः / मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम्
648 SK शङ्के संप्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्रतपःस्थितेषु कथमप्युद्वेगमभ्येष्यति /
2 SK यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फुटद्वेदान्तार्थविवेकवञ्चिदभवाः स्वर्गे ऽप्यमी निःस्पृहाः
650 SK START Bस्VBह्_४,१.१.१
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) (sa_bAdarAyaNa-brahmasUtra-subcomm2.htm).
Source