Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)

Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya)

Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)

Adhyāya 3

SK
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् | BBस्_३,१.१ |
SK
द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं संबन्धं दर्शयन् सुखावबोधार्थमर्थसंक्षेपमाह-द्वितीये ऽध्याय इति / स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथाच प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिध्येदिति / अवान्तरसंगतिं दर्शयितुन्तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानिचेत्युक्तम् / अध्यायार्थसंक्षेपमुक्त्वा पादार्थसंक्षेपमाह-तत्र प्रथमे तावत्पाद इति / तस्य प्रयोजनमाह-वैराग्य इति / पूर्वापरपरिशोधनाय भूमिकामारचयति-जीवो मुख्यप्राणसचिव इति / करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति / अत्र च करणोपादानश्रुत्यैव भौतिकत्वात् करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः / यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् / नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः / नह्यागमैकगम्येर्ऽथे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति / नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह-सुलभाश्च सर्वत्र भूतमात्रा इति / द्युपर्जन्य इति / इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिः-ऽअसौ वाव लोको गौतमाग्निःऽइत्यादि / अत्र सायंप्रातरग्निहोत्राहुतो, हुते पयःआदिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्संबन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये / तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते / असौ वाव द्युलोको गौतमाग्निः / यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः / अस्यादित्य एव समित् / तेन हीद्धो ऽसौ द्युलोको दीप्यते ऽतः समिन्धनात्समित् तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् / अहरर्थिः / प्रकाशसामान्यादादित्यकार्यत्वाच्च / चन्द्रमा अङ्गारः / अर्चिषः प्रशमे ऽभिव्यक्तेः / नक्षत्राप्यस्य विस्फुलिङ्गः चन्द्रमसो ऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः / तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् / श्रद्धां जुह्वति श्रद्धा चोक्ता / पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः / तस्य वायुरेव समित् / वायुना हि पर्जन्यो ऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् / अभ्रं धूमः / धूकार्यत्वात् धूमसादृश्याच्च / विद्युदर्चिः / प्रकाशसामान्यात् / अशनिरङ्गाराः काठिन्याद्विद्युत्संबन्धाच्च / गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् / तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति / एतदुक्तं भवति-श्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति / ऽपृथिवी वाव गौतमाग्निःऽतस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् / संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते / आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते / रात्रिरर्चिः पृथिव्या श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरुपमर्चिः / दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् / अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् / तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति / पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् / वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते / प्राणो धूमः / धूमवन्मुखान्निर्गमनात् / जिह्वार्चिः लोहितत्वसाम्यात् / चक्षुरङ्गाराः प्रभाश्रयत्वात् / श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् / ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपेः परिणता सत्यः पुरुषे ऽग्नौ हुतास्तासां परिणामो रेतः संभवति / योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् / तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः / स्त्रीसंभवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् / यदन्तः करोति मैथुनं ते ऽङ्गाराः / अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् / तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति / एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति / तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति / यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते / एतदुक्तं भवति-श्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजो ऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि संग्रह इत्येतदपि वक्ष्यते / यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोवन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात्, तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरया ऽआकाशाच्चन्द्रमसमेष सोमो राट्ऽइति श्रुत्या सह ऽश्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽइत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति / तथाहि-या एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति / ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु / को दोषः / अयं दोषः / यतः श्रुतिसामान्यातिक्रम इति / एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् / अन्यथा तु न श्रुतिसामान्यं स्यात् / तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते / अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति / चोदयति-नन्वन्या श्रुतिरिति / अयमर्थः-एवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत् यद्यस्य स्थूलं शरीरं रंहतो न भवेत् / अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति / परिहरति-तत्रापीति / न तावत्परमात्मनः संसरणसंभवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् / किन्तु जीवानाम् / परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति / तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते / सांख्यानां कल्पनामाह-व्यापिनां करणानामिति /
SK
आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः / बौद्धानां कल्पनामाह-केवलस्यैवात्मन इति / आलयविज्ञानसंतान आत्मा तस्य वृत्तिः षट् प्रवृत्तिविज्ञानानि / पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते / कणभुक्क्ल्पनामाह-मन एव चेति / भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् / दिगम्बरकल्पनामाह-जीव एवोत्प्लुत्येति /
SK
आदिग्रहणेन लोकायतिकानां कल्पनां संगृह्णाति / ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति
SK
START Bस्VBह्_३,१.१.२
SK
चोदयति- ननूदाहृताभ्यामिति / अत्र सूत्रेणोत्तरमाह-
SK
त्र्यात्मकत्वात्तु भूयस्त्वात् | BBस्_३,१.२ |
SK
तेजसः कार्यमशितपीताहारपरिपाकः / अपां कार्यं स्नेहस्वेदादि / पृथिव्याः कार्यं गन्धादि / यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह-पुनश्च त्र्यात्मक इति / वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् / अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते / अब्ग्रहणनियमस्तर्हि कस्मादित्यत आह-तस्माद्भूयस्त्वापेक्ष इति /
SK
पृथिवीधातुवर्जमितरतेजःआद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था
SK
START Bस्VBह्_३,१.१.३
SK
प्राणगतेश्च | BBस्_३,१.३ |
SK
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् / अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति / स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते / नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति
SK
START Bस्VBह्_३,१.१.४
SK
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् | BBस्_३,१.४ |
SK
श्राविते ऽपि स्पष्टे जीवस्य प्राणैः सह गमने ऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था / अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् / एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति / भक्तिश्चोपकारनिवृत्तिरुक्ता
SK
START Bस्VBह्_३,१.१.५
SK
प्रथमे ऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः | BBस्_३,१.५ |
SK
पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसंभद्धमनुपपन्नं च / नहि यथा पश्वादिभ्यो हृदयादयो ऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते / न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते / तस्माद्भक्त्यायामप्सु श्रद्धाशब्दः प्रयुक्त इति / अतःएव श्रुतिः ऽआपो हात्मैऽइति
SK
START Bस्VBह्_३,१.१.६
SK
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः | BBस्_३,१.६ |
SK
अस्यार्थः पूर्वमेवोक्तः / अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्च् इरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट्, तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम्
SK
START Bस्VBह्_३,१.१.७
SK
सूत्रान्तरमवतारयितुं शङ्कते-कथं पुनरिति / सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति / क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः / अत उत्तरं पठति-
SK
भाक्तं वानात्मविस्त्त्वात्तथाहि दर्शयति | BBस्_३,१.७ |
SK
कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वे ऽस्वर्गकामो यजेतऽइति यागभावनायः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तृणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति / अत्रैवार्थे श्रुत्यन्तरं संगच्छत इत्याह-तथाहि दर्शयति / श्रुतिरनात्मविगामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया / यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः / अथवाअनात्मवित्त्वात्तथाहि दर्शयतिइत्यस्यान्या व्याख्या / आत्मवित् पञ्चाग्निविद्यावित् न आत्मवित् अनात्मवित् / यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् / तदनेनोपचारस्य प्रयोजनमुक्तम् / उपचारनिमित्तमनुपपत्तिमाह-तथाहि दर्शयति / श्रुतिर्भोक्तृत्वम् / स सोमलोके विभूतिमनुभूयेति / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,१.२.८
SK
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च | BBस्_३,१.८ |
SK
यावत्संपातमुषित्वेति / यावदुपबन्धात् / यत्किञ्चेह करोत्ययमिति / च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात्, प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् / न खल्वभिव्यक्तिनिमित्तस्य साधारण्ये ऽभिव्यक्तिनियमो युक्तः / फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् / स्वफलविरोधि च कर्म / तस्माच्छ्रुतेरुपपत्तेश्चं निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः / आचारकर्मणी च श्रुतेः प्रसिद्धभेदे / यथाकारी यथाचारी तथा भवतीति / तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म / स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशयो भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान् जात्यायुर्भोगांश्चन्द्रलोकादवरुह्यानुभविष्यति / स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्संबन्धिनस्तत्फलभागिता-ऽपतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्ऽइत्यादि / तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगामिफलश्रुतिः / तस्माद्यावत्संपातमित्युपक्रमानुरोधात् ऽयत् किञ्चेह करोतिऽइति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं संबन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं गमयितव्यम् / तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यते-येन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीते ऽपि सानुशया एव चन्द्रमण्डलादवरोहन्ति / कुतः-दृष्टस्मृतिभ्याम् / प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या / स्मृतिश्चोपन्यस्ता / अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते / अयमभिसंधिः-कपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् / नच सति मुख्यार्थसंभवे संबन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् / न चोपक्रमविरोधाच्छ्रुत्यन्तरविरोधाच्च मुख्यार्थसंभव इति सांप्रतम् / दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः / नहि ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति यावज्जीवमाहारविहारादिसमये ऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायंप्रातःकालापेक्षया / सायंप्रातःकालविधानसामर्थ्यात्, कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् / न / इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः / तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः संकोचयितव्यः / नेत्युच्यते / नह्यसावुपसंहारानुरोधे ऽप्यसंकुचद्वृत्तिरुपपत्तुमर्हति / नहि यावन्तः संपाता यावतां वा पुंसां संपातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते / पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षये ऽतिप्रसङ्गात् / चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् / तथाच स्वयं संकुचन्ती यावच्छ्रुतिरुपसंहारानुरोधप्राप्तमपि संकोचनमनुमन्यते / एतेन ऽयत्किञ्चेह करोतिऽइत्यपि व्याख्यातम् / अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् / एवमहर्निशं च वाङ्मनः शरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं संचितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भोग्यं भवितुमर्हति / नच स्वफलविरोधिनो ऽनुशयस्य ऋते प्रायश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः संभवति / तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् / न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति / अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याह-केचित्तावदाहुरिति / अनुशयो ऽत्र दत्तफलस्य कर्मणः शेष उच्यते / तत्रेदमिह विचार्यते-किं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरवशेषं क्षपयित्वानुपभुक्तकर्मशादिहावर्तन्त इति / तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यते-सानुशया एवावर्तन्त इति / कुतः-दृष्टानुसारात् / यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालिते ऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् / न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति / यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति / तदेदद्दूषयति-न चैतदिति / एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः / शब्दैकगम्येर्ऽथे न सामान्यतोदृष्टानुमानावसर इत्यर्थः / शेषमतिरोहितार्थम् / पूर्वपक्षहेतुमनुभाषते-यदप्युक्तं प्रायणमिति / दूषयति-तदप्यनुशयसद्भावेति / रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः / अपिचेत्यादि / इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते / युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् / युगपदेव तत्फलानि भुज्येरन् / तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः / एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् / न चाभिव्यक्तं च कर्म फलं न दत्त इति च संभवति / फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः / अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गनरकततिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाश्यस्य प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माश्य इति न ते संसरेयुः / नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बतालिष्टा दशाम् / किञ्च स्वसमवेतमेव प्रायणेनाभिव्यज्यते ऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति / शेषं सुगमम्
SK
START Bस्VBह्_३,१.२.९
SK
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः | BBस्_३,१.९ |
SK
अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति / यद्यपि ऽअक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा / अनुग्रहश्च ज्ञानं च शीलमेताद्विदुर्बुधाः //
SK
ऽइति स्मृतेः शीलमाचारो ऽनुशयाद्भिन्नस्तथाप्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने / तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति
SK
START Bस्VBह्_३,१.२.१०
SK
आनर्थक्यमिति चेन्न तदपेक्षत्वात् | BBस्_३,१.१० |
SK
ऽआचारहीनं न पुनन्ति वेदाःऽइति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य / तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् / संप्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वे ऽप्यदोष इत्याह-पुरुषार्थत्वे ऽप्याचारस्येति /
SK
तदेवं चरणशब्देनाचारवाचिना सर्वो ऽनुशयो लक्षित इत्युक्तम्
SK
START Bस्VBह्_३,१.२.११
SK
बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह-
SK
सुकृतदुष्कृते एवेति तु बादरिः | BBस्_३,१.११ |
SK
ब्रह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,१.३.१२
SK
अनिष्टादिकारिणामपि च श्रुतम् | BBस्_३,१.१२ |
SK
ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽइति कौषीतकिनां समाम्नानात्, देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहितिसंख्यानियमात् / तथाहि-द्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् / न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् / गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात्, पथ्यन्तरस्याश्रुतेः, ऽजायस्व म्रियस्वेति तृतीयं स्थानम्ऽइति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसंभवादसंपूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः, ऽन कतरेणचनऽइत्यस्यासंपूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात्, अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्ते ऽभिधीयते-सत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न संपूर्यते इत्यस्य प्रतिवचनावसरे मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसंपूरणाय तत्प्रतिपक्षमाचक्षीत / यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत् स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् / नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते / तत्कस्य हेतोः / पितृयाणेन पथावरोहात् / तद्यदि क्षुद्रजन्तवो ऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् / ततो ऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टादिकारिणो न चन्द्रमण्डलादवरोहन्तीति / तस्मात् ऽये वै के चऽइतीष्टादिकारिविषयं न सर्वविषयम् / पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् / संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः / तथाच सिद्धान्तसूत्रमेव / पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् / जीवजञ्जरायुजम् / संशोकजंसंस्वेदजम्
SK
START Bस्VBह्_३,१.३.१३
SK
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् | BBस्_३,१.१३ |
SK
START Bस्VBह्_३,१.३.१४
SK
स्मरन्ति च | BBस्_३,१.१४ |
SK
START Bस्VBह्_३,१.३.१५
SK
अपि च सप्त | BBस्_३,१.१५ |
SK
START Bस्VBह्_३,१.३.१६
SK
तत्रापि च तद्व्यापारादविरोधः | BBस्_३,१.१६ |
SK
START Bस्VBह्_३,१.३.१७
SK
विद्याकर्मणोर् इति तु प्रकृतत्वात् | BBस्_३,१.१७ |
SK
START Bस्VBह्_३,१.३.१८
SK
न तृतीये तथोपलब्धेः | BBस्_३,१.१८ |
SK
START Bस्VBह्_३,१.३.१९
SK
स्मर्यते ऽपि च लोके | BBस्_३,१.१९ |
SK
START Bस्VBह्_३,१.३.२०
SK
दर्शनाच् च | BBस्_३,१.२० |
SK
START Bस्VBह्_३,१.३.२१
SK
तृतीयशब्दावरोधः संशोकजस्य | BBस्_३,१.२१ |
SK
START Bस्VBह्_३,१.४.२२
SK
साभाव्यापत्तिरुपपत्तेः | BBस्_३,१.२२ |
SK
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते / न चान्यस्यान्यभावानुपपत्तिः / मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् / तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया / गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः संभवात् / यथाहुः-ऽलक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणताऽइति / एवं प्राप्ते ब्रूमः-साभाव्यापत्तिः / समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् / कुतः-उपपत्तेः / एतदेव व्यतिरेकमुखेन व्याचष्टे-नह्यन्यस्यान्यभावो मुख्य उपपद्यते / युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमये ऽजगरशरीरस्याभावात् / यदि तु देवाजगशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते / नहि दधिपयसी समसमये परस्परात्मनी शक्ये संपादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति / एवं वाय्वादिष्वपि योज्यम् / तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः / नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह-विभुत्वाच्चाकाशेनेति
SK
START Bस्VBह्_३,१.५.२३
SK
नातिचिरेण विशेषात् | BBस्_३,१.२३ |
SK
ऽदुर्निष्प्रपतरम्ऽइति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी / विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः
SK
START Bस्VBह्_३,१.६.२४
SK
अन्याधिष्ठितेषु पूर्ववदभिलापात् | BBस्_३,१.२४ |
SK
आकाशसारूप्यं वायुधूमादिसंपर्को ऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषाधिवनस्पतयस्तिलभाषा इति जायन्त इति श्रूयते / तत्र संशयः-किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित् क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति / तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् / नच रमणीयचरणाः कपूयचरणा इतिवत् कर्मविशेषासंकीर्तनामात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञानन्तराधिष्ठितानामेव यत्संपर्कमात्रमिति सांप्रतम् / इष्टादिकारिणामिष्टादिकर्मसंकीर्तनादिष्टादेश्च हिंसादोषदूषितात्वेन सावद्यफलतया चन्द्रलोकभोगानान्तरं स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः / नच ऽन हिंस्यात्सर्वा भूतानिऽइति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति सांप्रतम् / नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे / न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् / ऽअग्नीषोमीयं पशुमालभेत् ऽइति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् / तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्छ क्रत्वर्थता को विरोधः / यथाहुः-ऽयो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् / न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितःऽइति / तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्ते ऽभिधीयते-भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति / न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः संभवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् / नच तद्गतायाः पशुहिंसाया ऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्संभवः /
SK
पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् / तथाहि-न हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते / न चैतत् ऽनानृतं वदेत्ऽ ऽन तौ पशौ करोतिऽइतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेधस्य क्रत्वर्थते निषेधो ऽपि क्रत्वर्थः स्यात् / पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् / एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते / तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्परित्यागेन पुरुषार्थ एव भाव्यो ऽवतिष्ठते / आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् / केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसंक्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधो ऽपि पुरुषार्थो भवति / तथा चायमर्थः संपद्यते-यत्पुरुषार्थं हननं तन्न कुर्यादिति / क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते / नच दृष्टे पुरुषोकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् / नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र संभवतः / तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति / आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् / अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति / अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः / अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनीति / व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतः सिग्भावमनुभवन्ती श्रूयते / तदेतद्व्रीह्यादिदेहत्वे ऽनुशयिनां नोपपद्यते / व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणो ऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते / शेषमुक्तम्
SK
START Bस्VBह्_३,१.६.२५
SK
अशुद्धम् इति चेन् न शब्दात् | BBस्_३,१.२५ |
SK
START Bस्VBह्_३,१.६.२६
SK
रेतःसिग्योगो ऽथ | BBस्_३,१.२६ |
SK
सद्यो जातो हि बालो न रेतः सिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते
SK
START Bस्VBह्_३,१.६.२७
SK
तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह- योनेः शरीरम् | BBस्_३,१.२७ | सुगमम्
SK
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः //
SK
// इति तृतीयाध्यायस्य गत्यागतिचिन्तया वैराग्यनिरूपणाख्यः प्रथमः पादः //
SK
तृतीयाध्याये द्वितीयः पादः //
SK
START Bस्VBह्_३,२.१.१
SK
संध्ये सृष्टिराह हि | BBस्_३,२.१ |
SK
इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थ प्रपञ्चयते-किं प्रबोध इव स्वप्ने ऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति / यद्यपि ब्रह्मणो ऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते / ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते / एवं किं स्वप्नसृष्टिराहोस्वित् प्रतिदिनमेव निवर्तत इति विमर्शार्थः //
SK
द्वयोः इहलोकपरलोकस्थानयोः / संधौ भवं संध्यम् / ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतो ऽप्रत्युत्पन्नत्वेन न पारलौकिकम् / नच न रूपादिसाक्षात्कारो ऽस्ति स्वप्नदृशः /
SK
तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक् तथ्यरूपैव सृष्टिर्भवितुमर्हति / अयमभिसंधिः-इह हि सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते / प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् / ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् / तथाभावस्य ज्ञानारोहात् / अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात् बाधकप्रत्ययादतथात्वमिति चेत् / न / तस्य बाधकत्वासिद्धेः / समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्यते / बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते / न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः / यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् / नानारूपं वा तद्वस्तु / यद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति / यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति / एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते / प्रदीपाभिव्यक्तं तु नक्तं लोहिततया / एवमसत्यां निद्रायां सतो ऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः / नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः / द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् / तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः / तत्सिद्धमेतत् / विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात्, जाग्रत्स्तम्भादिप्रत्ययवदिति / इममर्थं श्रुतिरपि दर्शयति-ऽअथ रथान् रथयोगान् पथः सृजतेऽइति / नच ऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽइति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया / सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् / जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति / अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता / प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् / नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति सांप्रतम् / ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽइति प्राज्ञस्यैव प्रकृतत्वात् / जीवकर्तृकत्वे ऽपि च प्राज्ञदभेदेन जीवस्य प्राज्ञत्वात् / अपिच जाग्रत्प्रत्ययसंवादवन्तो ऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते / तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याह-प्रियव्रत, पञ्चमे ऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां मानयिष्यतीति / स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते / तस्मात्संध्ये पारमार्थिकी सृष्टिः
SK
START Bस्VBह्_३,२.१.२
SK
निर्मातारं चैके पुत्रादयश् च | BBस्_३,२.२ |
SK
START Bस्VBह्_३,२.१.३
SK
इति प्राप्ते उच्यते-
SK
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् | BBस्_३,२.३ |
SK
इदमत्राकूतम् / न तावत् क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः संभवति / नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते / न चेतरस्य रजतानुभवसमये ऽन्यो ऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च / न चोभयरूपं वस्तु / सामग्रीभेदात्तु कदाचिदस्य तोयभावो ऽनुभूयते कदाचिन्मरीचितेति सांप्रतम् / पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् / न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति / नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् / तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् / अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमे ऽपि न सेद्धुमर्हति / तथाहि-असमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत् यथा मरीचीननुभवन् / अथाशक्तमभिमन्यमानो ऽभिधावति / किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते / नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् / तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य / रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधसंभवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति / तदपबाधात्मकं च स्वानुभवादवसीयते / यथाहुः-ऽआगामित्वादबाधित्वा परं पूर्वं हि जायते / पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्ऽ / नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् / मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति / असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् / तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् / तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते / यथाहुः-ऽरजतं गृह्यमाणं हि चिरस्थायीति गृह्यते / भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्ऽ //
SK
इति / प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते / तदयुक्तम् / यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् / अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् / नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् / तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् / अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च / ग्राह्यक्षण एकः स्वलक्षणो ऽध्यवसेयश्च / संतान इति / एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः / यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् / प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति / तादृशस्यैव बहुलं विसंवाददर्शनात् / दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता / रजन्यां सुप्त इति / रजनीसमये ऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम्
SK
START Bस्VBह्_३,२.१.४
SK
सूचकश्च हि श्रुतेराचक्षते च तद्विदः | BBस्_३,२.४ |
SK
दर्शनं सूचकं तच्च स्वरूपेण सत् /
SK
असत्तु दृश्यम् / अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते / स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते / न चास्माभिः स्वप्ने ऽपि प्राज्ञव्यापार इति / प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः / बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति
SK
START Bस्VBह्_३,२.१.५
SK
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ | BBस्_३,२.५ |
SK
देहयोगाद्वा सो ऽपिइति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे / निगदव्याख्यातं चैतयोर्भाष्यमिति
SK
START Bस्VBह्_३,२.१.६
SK
देहयोगाद् वा सो ऽपि | BBस्_३,२.६ |
SK
START Bस्VBह्_३,२.२.७
SK
तदभावो नाडीषु तच्छ्रुतेरात्मनि च | BBस्_३,२.७ |
SK
इह हि नाडीपुरितत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते /
SK
तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः / किमतो यद्येवम् / एतदतो भवति / यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति / अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्तज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात्, विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि संभवात् / ततश्च कर्मणैवापवर्गो न ज्ञानेन / यथाहुः-ऽकर्मणैव तु संसिद्धिमास्थिता जनकादयःऽइति / अत तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः / तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् / तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति / तस्मात्प्रयोजनवत्येषा विचारणेति / किं तावप्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः / यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति / यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वेकनिलयनार्थाः परस्परानपेक्षा नाड्यदयो ऽपि विकल्पमर्हन्ति / यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम् ऽतथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति / अथास्मिन् प्राण एवैकधा भवतिऽइति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् / प्राणशब्दं च ब्रह्म ऽअथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवतिऽन्निरपेक्षयोरवेधारत्वम् / इयांस्तु विशेषः / कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः संचरमाणस्य पुरीतदेव / एवं ताभिरेव संचरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् / तथाच विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् / प्राप्ते ऽभिधीयते-जीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन / अयमभिसंधिः-नित्यवदाम्नातानां यत्पाक्षिकत्वं नाम तद्गत्यन्तराभावे कल्प्यते / यथाहुः-ऽएवमेषो ऽष्टदोषो ऽपि यद्व्रीहियववाक्ययोः / विकल्प आश्रितस्तत्र गतिरन्या न विद्यतेऽइति / प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौशक्रुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् / तत्र यदि मिश्राभ्यां पुरोडाशो ऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् / न चैतौ प्रयोगवचनः समुच्चतुमर्हति / स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितं शक्नोति / मिश्रणे चान्यथात्वमेतेषाम् / न चाङ्गानुरोधेन प्रधानाभ्यासो ऽगोसवे उभे कुर्यात्ऽइतिवद्युक्तः / अश्रुतो ह्यत्र प्रधानाभ्यासो ऽङ्गानुरोधेन च सो ऽन्याय्यः / न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् / ऽसोमेनयजेतऽइति हि तत्रापूर्वयागविधिः / तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्य ऽसोममभिषुणोतिऽ, ऽसोममभिप्लावयतिऽइति च वाक्यान्तरानुलोचनया रसद्वारेण यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् / नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् / नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते / दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् / एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत / नच दृष्टे संभवत्यदृष्टकल्पना न्याय्या / तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारे ऽवयवान्तरस्य ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् / अत एव समुच्चयदर्शनं ऽदशौतानध्वर्युः प्रातः सवने ग्रहन् गृह्णातिऽइति / समुच्चये च सति क्रमो ऽप्युपपद्यते / ऽआश्विनो दशमो गृह्यते तृतीयो हूयतेऽ / तथैव ऽऐन्द्रवायवाग्रान्ग्रहान्गृह्णातिऽइति / तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् / यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन्, पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः / नच दृष्टे संभवत्यदृष्टकल्पना न्याय्येत्युक्तम् / तस्मात्तत्र समुच्चयस्यावश्यंभावित्याद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते / इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च नियामिकैकार्ततया विकल्पमर्हतः / न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसंभवो येन विकल्पो भवेत् / नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् / पर्यङ्के शेते प्रसादे शेत इति / तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या / सा चोक्ता भाष्यकृता-यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना / सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः / शेषमतिरोहितार्थम् / ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आह-अपिचात्रेति / अपिचेति / समुच्चये न विकल्पे / एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति / मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसंकीर्तनमित्यर्थः / पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः / यदा तु तेजो ब्रह्म तदा सुगमम् / अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति / अयमर्थः-अभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् / परमार्थतस्तु न जीवस्याधेयत्वमस्ति / तथाहि-नाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्राह्माव्यतिरेकात्स्वमहिप्रतिष्ठः / न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् / विकल्प तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति / तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीताधारत्वम् / तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति / अपिच न कदाचिज्जीवस्येति / औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपे ऽपवादे सुषुप्तवस्थायां नान्यथयितुं शक्यमित्यर्थः / अपिच ये ऽपि स्थानविकल्पमास्थिषचत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या / न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते / तत्र हि स्थितो ऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् / तथाहि श्रुतिः-ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽइति / आत्मस्थानत्वे त्वदोषः / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्ऽइति श्रुतेः / तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याह-अपिच स्थानविकल्पाभ्युपगमे ऽपीति / अत्र चोदयति-ननु भेदविषयस्यापीति / भिद्यत इति भेदः / भिद्यमानस्यापि विषयस्येत्यर्थः / परिहरति-बाढमेवं स्यादिति / न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् / औपाधिके तु परिच्छेदे यत्रोपाधिसंनिहितस्तन्मात्रं न जानीयान्न तु सर्वम् / नह्यसंनिधानात्सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद / तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसादयत तदास्य सर्वोपाध्युपसंहारो वक्तव्यः / अथाच सिद्धमस्य तथा ब्रह्मात्मत्वमित्यर्थः / गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोति-नच वयमिहेति / स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् / नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति / तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः / नीतार्थमन्यत्
SK
START Bस्VBह्_३,२.२.८
SK
अतः प्रबोधो ऽस्मात् | BBस्_३,२.८ |
SK
START Bस्VBह्_३,२.३.९
SK
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः | BBस्_३,२.९ |
SK
यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः /
SK
स एवेति दुःसंपादमिति / स वान्यो वेति ईश्वरो वेति संभवमात्रेणोपन्यासः / नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसंभवः / अत एव
SK
विमर्शावसरे ऽस्यानुपन्यासः / यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्ये ऽनुः प्रत्यभिज्ञानसूचनार्थः / अत एव सो ऽहमस्मीत्युक्तम् / पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति / अयनं आयः नियमेन गमनं न्यायः / जीवः प्रतिन्यायं संप्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि / योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् / तदिदमुक्तम्-त इह व्याघ्रो वा सिंहो वेति / अथ तत्र सुप्त उतिष्ठेदिति / यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसंबन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः / अपिच न जीवो नाम कश्चित्परस्मादन्य इति / यथा घटाकाशो नाम न परमाकाशादन्यः / अथ चान्य इव यावद्घटमनुवर्तते / न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् / एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इत्यभिभूत इव प्रतीयते / ततश्च सुषुप्तादावपि अभिभूत इव
SK
जाग्रदवस्थादिषूद्भूत इव / तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति
SK
START Bस्VBह्_३,२.४.१०
SK
मुग्धे ऽर्धसंपत्तिः परिशेषात् | BBस्_३,२.१० |
SK
विशेषविज्ञानाभावान्मूर्च्छा जागरस्वप्नावस्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः /
SK
अतः सुषुप्तिरेव मूर्च्छा विशेषज्ञानाभावाविशेषात् / चिरानुच्छ्वासवेपथुप्रभृतयस्तु सुप्तेरवान्तरप्रभेदाः / तद्यथा कश्चित्सुप्तोत्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चित्पुनर्दुःखमस्वाप्सं गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति / न चैतावता सुषुप्तिर्भिद्यते / तथा विकारान्तरे ऽपि मूर्च्छा न सुषुप्तेर्भिद्यते / तस्माल्लोकप्रसिद्ध्यभावान्नेयं पञ्चम्यवस्थेति प्राप्तम् / एवं प्राप्त उच्यते- यद्यपि विशेषविज्ञानोपशमेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् / नहि विशेषविज्ञानसद्भावसाम्यमात्रेण स्वप्नजागरयोरभेदः / बाह्येन्द्रियव्यापारभावाभावाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयोजनभेदात्कारणभेदाल्लक्षणभेदाच्च भेदः / श्रमापनुत्त्यर्था हि ब्रह्मणा संपत्तिः सुषप्तम् / शरीरत्यागार्था तु ब्रह्मणा संपत्तिर्मोहः / यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः /
SK
मुसलसंपातादिनिमित्तत्वान्मोहस्य श्रमादिनिमित्तत्वाच्च सुषुप्तस्य मुखनेत्रादिविकारलक्षणत्वान्मोहस्य प्रसन्नवदनत्वादिलक्षणभेदाच्च सुषुप्तस्यासुषुप्तस्य त्ववान्तरभेदे ऽपि निमित्तप्रयोजनलक्षणाभेदादेकत्वम् / तस्मात् सुषुप्तमोहावस्थयोर्ब्रह्मणा संपत्तावपि सुषुप्ते यादृशी संपत्तिर्न तादृशी मोह इत्यर्धसंपत्तिरुक्ता / साम्यवैषम्याभ्यामर्धत्वम् / यदा नैतदवस्थान्तरं तदा भेदात्तत्प्रविलयाय यत्नान्तरमास्थेयम् / अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम्
SK
START Bस्VBह्_३,२.५.११
SK
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि | BBस्_३,२.११ |
SK
अवान्तरसंगतिमाह-येन ब्रह्मणा सुषुप्तादिष्विति / यद्यपि ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः / तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः / तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् /
SK
तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतो ऽपरं तु परतः / नच यत्परतस्तद्पारमार्थिकम् / नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतो ऽप्रामाण्यमपारमार्थिकम् / विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् / तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यते-न स्थानत उपाधितो ऽपि परस्य ब्रह्मण उभयचिह्नत्वसंभवः / एकं हि पारमार्थिकमन्यदध्यारोपितम् / पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् / स च प्राक्प्रतिषिद्धः / तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् / सविशेषतायामपि ऽयश्चायमस्यां पृथिव्यां तेजोमयःऽइत्यादीनां श्रुतीनां ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसंभवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात्, नानात्वस्य प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः
SK
श्रुतिभिरभेदप्रतिपानादाकारवद्ब्रह्मविषयाणां च कासांचिच्छ्रुतीनामुपासनापरत्वमसति बाधके ऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते / यथा देवतानां विग्रहवत्त्वम् / सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः / कासांचिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् / तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,२.५.१२
SK
न भेदाद् इति चेन् न प्रत्येकम् अतद्वचनात् | BBस्_३,२.१२ |
SK
START Bस्VBह्_३,२.५.१३
SK
अपि चैवम् एके | BBस्_३,२.१३ |
SK
START Bस्VBह्_३,२.५.१४ अरूपवद् एव हि तत्प्रधानत्वात् | BBस्_३,२.१४ |
SK
START Bस्VBह्_३,२.५.१५
SK
प्रकाशवच् चावैयर्थ्यात् | BBस्_३,२.१५ |
SK
START Bस्VBह्_३,२.५.१६
SK
आह च तन्मात्रम् | BBस्_३,२.१६ |
SK
START Bस्VBह्_३,२.५.१७
SK
दर्शयति चाथो अपि स्मर्यते | BBस्_३,२.१७ |
SK
START Bस्VBह्_३,२.५.१८
SK
अत एव चोपमा सूर्यकादिवत् | BBस्_३,२.१८ |
SK
START Bस्VBह्_३,२.५.१९
SK
अम्बुवदग्रहणात् तु न तथात्वम् | BBस्_३,२.१९ |
SK
START Bस्VBह्_३,२.५.२०
SK
वृद्धिह्रासभाक्त्वम् अन्तर्भावाद् उभयसामञ्जस्याद् एवम् | BBस्_३,२.२० |
SK
START Bस्VBह्_३,२.५.२१
SK
दर्शनाच् च | BBस्_३,२.२१ |
SK
अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति / किं साल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णाति-प्रकाशवच्चावैयर्थ्यात् / चकारात्सच्च / अवैयर्थ्यात् / ब्रह्मणि सच्छ्रुतेः सिद्धान्तयति-आह च तन्मात्रम् / प्रकाशमात्रम् / नहि सत्त्वं नाम प्रकाशरूपादन्यत्, यथा सर्वगन्धत्वादयो ऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः / तदेतदनेनोपन्यस्य दूषितम् / सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् / भेदे न स्थानतो ऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति / परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति / सर्वेषां च साधारणे प्रविलयार्थत्वे सति ऽ अरूपवदेव हि तत्प्रधानत्वात्ऽ इति विनिगमनकारणवचनमनवकाशं स्यात् / एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः / सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो
SK
विनिगमनहेतुर्न स्यादित्यर्थः / एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम्,अनुबन्धभेदात्तु भिन्नो ऽनयोरपि नियोग इति / को ऽयं प्रपञ्चप्रविलय इति / वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् / समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् / न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् / अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् / नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् / आरोपितरूपविरोधित्वातत्त्वज्ञानस्येत्युक्तम् / समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना / नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् / न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति / मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् / अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति / नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरूपपादितम् / विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः / तस्मात् ऽजर्तिलयवाग्वा जुहुयात्ऽइतिवद्विधिसरूपा एते ऽआत्मा वा अरे द्रष्टव्यऽइत्यादयो न तु विधय इति / तदिदमुक्तम्-द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुधीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति / अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्संभवति / जीवो हि नियोज्यो भवेत्, स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् / अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणो ऽनियोज्यत्वात् / अथ ब्रह्मणो ऽनन्यो ऽप्यविद्ययान्य इवेति नियोज्यः / तदयुक्तम् / ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् / तस्मान्नियोज्याभावादपि न नियोगः / तदिदमुक्तम्-जीवो नाम प्रपञ्चपक्षस्यैवेति / अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् / तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् / एवं च कृतं तत्त्वज्ञानविधिनेत्याह-ज्ञेयाभिमुखस्यापीति / नच ज्ञानादाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः / एवं हि तदुभयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत / नच तच्छक्यं वापि युक्तमित्याह-नच
SK
प्रमाणान्तरेणेति / किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतंभवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छास्त्राविरोधादप्रमाणकम् / अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याह-अथेति / दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतो ऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता / नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते / इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः / नियोगपरतायां चेति / पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः / अपिच
SK
नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणो ऽप्यपूर्वावान्तरव्यापारादेव स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः / तथा चानित्यत्वं सातिशयत्वं
SK
स्वर्गवद्भवेदित्याह-कर्मफलवदिति / अपिच ब्रह्मवाक्येष्विति / सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् / दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति
SK
START Bस्VBह्_३,२.६.२२
SK
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः | BBस्_३,२.२२ |
SK
अधिकरणविषयमाह-द्वे वाव ब्रह्मणो रूपे इति / द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतो ऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते / ते दर्शयति-मूर्तं चैवामूर्तं च / समुच्चीयमानावधारणम् / अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् / तस्यैव विशेषणान्तराणि-मर्त्यं मरणधर्मकम् / स्थितमव्यापि / अवच्छिन्नमिति यावत् / सत् अन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् / गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवो ऽसाधारणा धर्माः / तस्यैतस्य ब्रह्मरूपस्य तेजो ऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति / अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् / मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः संभवत्यमूर्तस्य / एतद्यदेति गच्छति व्याप्नोतीति / एतत्त्यं नित्यपरोक्षमित्यर्थः / तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः / करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् / अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति / अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो यो ऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः / लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् / तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः / अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् / मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयति-ऽतद्यथा माहारजनंऽइत्यादिनां / एतदुक्तं भति-मूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति / तदेवं
SK
निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते / यतः सत्यस्य रूपं निःशेषमुक्तमतो ऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह-अथात आदेशःकथनं सत्यसत्यस्य परमात्मनस्तमाह-नेति नेतीति / एतदर्थकथनार्थमिदमधिकरणम् / ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आह-नह्येतस्माद्ब्रह्मण इति / नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् / तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः / अत्रैवमर्थेनेतिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् / तदवच्छेदकत्वेन च ब्रह्म / तत्रेदं विचार्यते-किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति / यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् / ऽअस्तीत्येवोपलब्धव्यःऽइति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः / नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य
SK
सामान्यस्यायोगात् / यथाहुः-ऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवत्ऽइति / तस्मात्तद्विशेषनिषेधे ऽपि तत्सामान्यस्य ब्रह्मणो ऽनवस्थानात्सर्वस्यैवायं निषेधः / अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात् परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः / ऽअस्तीत्येवोपलब्धव्यःऽइति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् / तत्प्रशंसार्थ चासद्भावज्ञाननिन्दा / यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् / असंनिहितो ऽपि च तत्र निषेधो योग्यत्वात्संभन्स्यते / यथाहुः-ऽयेन यस्याभिसंबन्धो दूरस्थस्यापि तेन सःऽइति / तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः / अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात्, ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात्, कतरस्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात्, ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन संबध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात्, वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः / तत्र प्रथमं पक्षं निराकरोति-न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति / अयमभिसंधिः-उपाधयो ह्यमी पृथिव्यादयो ऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य / न चोपाधिविगमे उपहितस्याभावो ऽप्रतीतिर्वा / नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावो ऽप्रतितिर्वा / तस्मादुपाधिनिषेधे ऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा / न चेतीति संनिधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् / नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते / किञ्चिद्धि क्वचिन्निषिध्यते / नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् / तदिदमुक्तम्-अपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्भुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः / मध्यमं पक्षं प्रतिक्षिपति-नापि ब्रह्मप्रतिषेध उपपद्यते / युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य / ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् / तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् / तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधो ऽपि प्रमाणवान् / नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः वस्तुनि सिद्धस्वभावे तदनुपपत्तेः / न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः / अशक्यश्च कथं निषिध्यते / प्रपञ्चस्त्वनाद्यविद्यासिद्धो ऽनूद्य ब्रह्मणि प्रतिषिद्यत इति युक्तम् / तदिमामनुपपत्तिमभिप्रेत्योक्तम्-ऽनापि ब्रह्मप्रतिषेध उपपद्यतेऽइति / हेत्वन्तरमाह-ब्रह्म ते ब्रवाणीति / उपक्रमविरोधादिति / उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमे ऽध्याये / न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां संबन्धः संभवति / यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राह-वाङ्मनसातीतत्वमपीति / प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म / नच निषेधाय तत्प्रतिपादनम्, अनुपपत्तेरित्युक्तमधस्तात् / इदानीं तु निष्प्रयोजनमित्युक्तं ऽप्रक्षालनाद्धि पङ्कस्यऽइति न्यायात् / तस्माद्वेदान्तवाचा मनसि संनिधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः / यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म / यथाहुः-ऽभेदप्रपञ्चविलयद्वारेण च निरूपणम्ऽइति / ननु प्रकृतप्रतिषेधे ब्रह्मणो ऽपि कस्मान्न प्रतिषेध इत्यत आह-तद्धि प्रकृतं प्रपञ्चितं चेति / प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः / ततो ऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् / नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणो ऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् / यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मोपलक्ष्यते / कस्मादित्यत आह-ततो ब्रवीति च भूय इति / यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति / अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः-ऽप्राणा वै सत्यम्ऽइति / महारजनाद्युपमितं लिङ्गमुपलङयति / तत् खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म / तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति / तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् / अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,२.६.२४ अपि च संराधने प्रत्यक्षानुमानाभ्याम् | BBस्_३,२.२४ |
SK
START Bस्VBह्_३,२.६.२५
SK
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् | BBस्_३,२.२५ |
SK
START Bस्VBह्_३,२.५.२६
SK
अतो ऽनन्तेन तथा हि लिङ्गम् | BBस्_३,२.२६ |
SK
START Bस्VBह्_३,२.६.२७
SK
उभयव्यपदेशात्त्वहिकुण्डलवत् | BBस्_३,२.२७ |
SK
अनेनाहिरूपेणाभेदः / कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः / विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्रमाणेनोपलभ्यते / आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति
SK
START Bस्VBह्_३,२.६.२८
SK
प्रकाशाश्रयवद्वा तेजस्त्वात् | BBस्_३,२.२८ |
SK
प्रकारान्तरेण भेदाभेदयोरविरोधमाह-प्रकाशाश्रयवद्वा तेजस्त्वात्
SK
START Bस्VBह्_३,२.६.२९
SK
तदेवं परमतमुपन्यस्य स्वमतमाह-
SK
पूर्ववद् वा | BBस्_३,२.२९ |
SK
अयमभिसंधिः-यस्य मतं वस्तुनो ऽहित्वेनाभेदः / कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति / यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ / नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति / अतिप्रसङ्गात् / अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनो ऽनन्यत्वेनाभेदात् / न चैकविषयत्वे ऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत / नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति / देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् / प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् / तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः / तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः / तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसंभवः / नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति / यथाह श्रुतिः-ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽइति / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,२.६.३०
SK
प्रतिषेधाच् च | BBस्_३,२.३० |
SK
START Bस्VBह्_३,२.७.३१
SK
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः | BBस्_३,२.३१ |
SK
यद्यपि श्रुतिप्राचुर्याद्ब्रह्मव्यतिरिक्तं तत्त्वं नास्तीत्यवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तद्विरोधदर्शनात्तत्प्रतिसमाधानार्थमयमारम्भः / जाङ्गलंस्थलम् / प्रकाशवदनन्तवज्ज्योतिष्मदायतनवदिति पादा ब्रह्मणश्चत्वारस्तेषां पादानामर्धान्यष्टौ शफाः / ते ऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म / षोडश कला अस्येति षोशकलम् / तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः / एतदुपासनायां प्रकाशवान् मुख्यो भवतीति प्रकाशवान् पादः / अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादो ऽनन्तवान्नाम / सो ऽयमनन्तवत्त्वेन गुणेनोपास्यमानो ऽनन्तत्वमुपासकस्यावहतीति अनन्तवान् पादः / अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः / अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम / एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतनवान्नाम पादः / तदेवं चतुष्पाद्ब्रह्माष्टशफं षोडषकलमुन्मिषितं श्रुत्या / अतस्ततो ब्रह्मणः परमन्यदस्ति / स्यादेतत् / अस्ति चेत् परिसंख्यायोच्यतामेतावदिति / अत आह-अमितमस्तीति / प्रमाणसिद्धम् / न त्वेतावदित्यर्थः / भेदव्यपदेशश्च त्रिप्रकारः-आधारतश्चातिदेशतश्चावधितश्च
SK
START Bस्VBह्_३,२.७.३२
SK
सामान्यात् तु | BBस्_३,२.३२ |
SK
जगतस्तन्मर्यादानां च विधारकत्वं च सेतुसामान्यम् / यथा हि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् / तन्मर्यादानां च विधारकं ब्रह्म / इतरथातिचपलस्थूलबलवत्कल्लोलमालाकलिलो जलनिधिरिलापरिमण्डलमवगिलेत् / वडवानलो वा विस्फुर्जितज्वालाजटिलो जगद्भस्मसाद्भावयेत् / पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति / तथाच श्रुतिः-ऽभीषास्माद्वातः पवतेऽइत्यादिका
SK
START Bस्VBह्_३,२.७.३३
SK
बुद्ध्यर्थः पादवत् | BBस्_३,२.३३ |
SK
मनसो ब्रह्मप्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमिति चत्वारः पादाः /
SK
मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिः संचरतीति संचरणसाधारणतया मनसः पादस्तदिदमध्यात्मन् / आकाशस्य ब्रह्मप्रतीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः / ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादास्तदिदमधिदैवतम् / तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याह-अथवा पादवदिति / तद्वदिति / इहापि मन्दबुद्धीनामाध्यानव्यवहारायेत्यर्थः
SK
START Bस्VBह्_३,२.७.३४
SK
स्थानविशेषात्प्रकाशादिवत् | BBस्_३,२.३४ |
SK
बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य जाग्रत्स्वप्नयोर्विशेषविज्ञानस्योपाध्युपशमे ऽभिभवे सुषुप्तावस्थानमिति /
SK
तथा भेदव्यपदेशो ऽपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयेति / यथा सौधजालमार्गनिवेशिन्यः सवितृभासो जालमार्गोपाधिभेदाद्भिन्ना
SK
भासन्ते तद्विगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन संबध्यन्त एवमिहापीति
SK
START Bस्VBह्_३,२.७.३५
SK
स्यादेतत् / एकीभावः कस्मादिह संबन्धः कथञ्चिद्व्याख्यायते न मुख्य एवेत्येतत्सूत्रेण परिहरति-
SK
उपपत्तेश् च | BBस्_३,२.३५ |
SK
स्वमपीत इति हि स्वरूपसंबन्धं ब्रूते / स्वभावश्चेदनेन संबन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादात्म्यान्नातिरिच्यत इति तर्कपाद उपपादितमित्यर्थः / तथा भेदो ऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः
SK
START Bस्VBह्_३,२.७.३६
SK
तथान्यप्रतिषेधात् | BBस्_३,२.३६ |
SK
सुगमेन भाष्येण व्याख्यातम्
SK
START Bस्VBह्_३,२.७.३७
SK
अनेन सर्वगतत्वमायामशब्दादिभ्यः | BBस्_३,२.३७ |
SK
ब्रह्माद्वैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आह-अनेन सेत्वादिनिराकरणेनपरहेतुनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च स्वसाधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति / अद्वैते सिद्धे सर्वो ऽयमनिर्वचनीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसंबन्धाद्ब्रह्म सर्वगतमिति सिद्धम्
SK
START Bस्VBह्_३,२.८.३८
SK
फलमत उपपत्तेः | BBस्_३,२.३८ |
SK
सिद्धान्तोपक्रममिदमधिकरणम् / स्यादेतत् / नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आह-तस्यैव ब्रह्मणो व्यावहारिक्यामिति / नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् / एतच्च ऽतपसा चीयते ब्रह्मऽइति व्याचक्षाणेरस्माभिरूपपादितम् / इष्टंफलं स्वर्गः / यथाहुः-ऽयन्न दुःखन संभिन्नं नच ग्रस्तमनन्तरम् / अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्ऽइति / अनिष्टमवीच्यादिस्थानभोग्यं,व्यामिश्रंमनुष्यभोग्यम् / तत्र तावत्प्रतिपाद्यते-फलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति / अथ कर्मण एव फलं कस्मान्न भवतीत्यत आह-कर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति / चोदयति-सयादेतत्कर्म विनश्यदिति / उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न
SK
भुज्यत इत्यर्थः / परिहरति-तदपि न परिशुध्यतीति / नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्यो ऽस्माकंभवत्विति / तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति / नच तादृशं कर्मानन्तरमिति कथं फलं, तदपि स्वरूपेण / अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् / तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते / चोदयति-अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः कर्माकार्यादपूर्वात्फलमुत्पत्स्यत इति / परिहरति-तदपि नेति / यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् / तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः / न चापूर्वं प्रामाणिकमपीत्याह-तदस्तित्वे इति
SK
START Bस्VBह्_३,२.८.३९ श्रुतत्वाच् च | BBस्_३,२.३९ |
SK
अन्नादः अन्नप्रदः
SK
START Bस्VBह्_३,२.८.४०
SK
सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति-
SK
धर्मं जैमिनिरत एव | BBस्_३,२.४० |
SK
श्रुतिमाह-श्रूयते तावदिति / ननु ऽस्वर्गकामो यजेतऽइत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति / तथाहि-यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण संबद्धुमर्हन्ति / अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति / न चैकस्मिन् वाक्ये साध्यद्वयसंबन्धसंभवः, वाक्यभेदप्रसङ्गात् / न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् / स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रति ऽभूतं भव्यायोपदिश्यतेऽइति न्यायात्साधनतया गुणत्वेनाभिसंबन्धः / तथाच पारमर्षं सूत्रम्-ऽद्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धःऽइति / तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात्, समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु संभवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहि-सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते-यथा ऽस्वर्गकामो यजेतऽइति शरीरात्मभावप्रलियः / इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थो ऽधिकारी गम्यते / तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतो ऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन देहात्मभावप्रविलयस्तत्परेण क्रियते / ऽगोदोहनेन पशुकामस्य प्रणयेत्ऽइत्यत्राप्यापाततो ऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः / निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानि ऽसांग्रहण्या यजेत ग्रामकामःऽइत्यादीनि न सांग्रहण्यादिप्रवृत्तिपराण्यपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि / यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति / तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते / रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः / तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् / तस्मात्कर्मफलसंबन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव
SK
कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति / कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः / नहि यो यः प्रवर्तयति स सर्वो ऽधिकृतमपेक्षते / पवनादेः प्रवर्तकस्य तदनपेक्षत्वादितिशङ्कामपाचिकीर्षुराह-तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते / अन्यथा ह्यननुष्ठातृको याग आपद्येत / अयमभिसंधिः-उपदेशो हि विधिः / यथोक्तम्-ऽतस्य ज्ञानमुपदेशःऽइति / उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः / तद्यथारोग्यकामो जीर्णे भुञ्जीत / एष सुपन्था गच्छतु भवाननेनेति / न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात्, तस्य चापौरुषेये ऽसंभवात् / अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् / तथाच ऽस्वर्गकामो यजेतऽइत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः / इतरथा तु न साधयितारमनुगच्छेयुः / तदुक्तमृषिणा-ऽअसाधकं तु तादर्थ्यात्ऽइति / अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् /
SK
साधयितारं नाधिगच्छेदित्यर्थः / न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः / दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् / स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च / प्रीत्यात्मकत्वाच्च / नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः / फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसंभवात्, भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणे ऽप्यविरोधात् / अन्यथा सर्वत्र तदुच्छेदात् / परश्वादेरपि छिदादिषु तथाभावात् / फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणो ऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् / न चाप्राप्तार्थविषयाः सांग्रहण्यादियागविधयः परिसंख्यायका नियामका वा भवितुमर्हन्ति / न चाधिकाराभावे
SK
देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् / आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् / स्वरसतः प्रतीयमानेर्ऽथे वाक्यस्य तादर्थ्ये संभवति न संपातायातपरत्वमुचितम् / न चैतावता शास्त्रत्वव्याघातः / तस्य स्वर्गाद्युपायशासने ऽपि शास्त्रत्वोपपत्तेः / पुरुषश्रेयो ऽभिधायकत्वं हि शास्त्रत्वम् / सरागवीतरागपुरुषश्रेयो ऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः / तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् / कर्मणो वा काचिदवस्थेति / कर्मणो ऽवान्तरव्यापारः / एतदुक्तं भवति-कर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति / नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् / असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् / असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् / तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् / यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदाफलस्य वा पूर्वावस्था / अविचित्रस्य कारणस्येति / यदीश्वरादेव केवलादिति शेषः / कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः
SK
START Bस्VBह्_३,२.८.४१
SK
पूर्वं तु बादरायणो हेतुव्यपदेशात् | BBस्_३,२.४१ |
SK
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा / नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः / नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः / तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत / तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेध्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे / लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्ति भिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् / तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् / यथा विनष्टं
SK
कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति / तथा देवपूजात्मको यागो देवतां नप्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् / नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते / तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते / तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण / एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् / ततः स्थायिनो ऽनिष्टफलप्रसवः / नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते / नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिको ऽपीश्वरः / यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः / एवं प्रधानाराधने ऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः / स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् / तस्माद्दृष्टाविरोधेन देवताराधनात् फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः / ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयांबभूवुस्तेभ्यो व्यावहारिख्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत
SK
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः
SK
// इति तृतीयाध्यायस्य तत्त्वम्पदार्थपरिशोधनाख्यो द्वितीयः पादः //
SK
तृतीयाध्याये तृतीयः पादः /
SK
START Bस्VBह्_३,३.१.१
SK
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् | BBस्_३,३.१ |
SK
पूर्वेण संगतिमाह- व्याख्यातं विज्ञेयस्य ब्रह्मण इति / निरूपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति- ननु विज्ञेयं ब्रह्मेति / सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन / नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम्- एकरसमिति / धनङ् कठिनम् / नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैको ऽप्याचार्यो मायुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम्- एकरूपत्वाच्च / एकस्मिन् गोचरे संभवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम्- अनेकरूपाणि / रूपमाकारः / समाधत्ते- उच्यते-सगुणेति / तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः / तत उपपन्नो विमर्श इत्याह- तेष्वेषा चिन्ता / पूर्वपक्षं गृह्णाति- तत्रेति / नाम्नस्तावदिति / अस्ति ऽअथैष ज्योतिः-एतेन सहस्रदक्षिणेन यजेतऽइति / तत्र संशयः-किं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम्, उतैतद्गुणविशिष्टकर्मान्तरविधानमिति / किं तावत् प्राप्तम्, ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन
SK
कर्मनामव्यवस्थापनात्, कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नो ऽपि तथैव व्यवस्थापनात्, ज्योतिःशब्दस्य ऽवसन्ते वसन्ते ज्योतिषाऽइति च ज्योतिष्टोमे योगदर्शनात् नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत्, अथशब्दस्य चानन्तर्यार्थस्यासंबन्धित्वे ऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात्, द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् / एवं प्राप्त उच्यते-भवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् / विच्छिन्नं तु तत् / तथाहि संनिधावपि पूर्वासंबद्धार्थं संज्ञान्तरं प्रतीयमानम् ऽअन्यायश्चानेकार्थत्वम्ऽइति न्यायादुत्सर्गतोर्ऽथान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् / न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः / तथा चोपरिष्टात् ऽयजेतऽइति श्रूयमाणमसंबद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत् तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते / न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः / नहि गाङ्गायां घोष इत्यत्र गाङ्गापदं लाक्षणिकमिति मीनो गाङ्गायामित्यत्रापि लाक्षणिकं भवति / भेदे ऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते / तथा चाथशब्दो ऽधिकारार्थः प्रकरणान्तरतामवद्योतयति / एषशब्दश्चाधिक्रियमाणपरामर्शक इति सो ऽयं संज्ञान्तराद्भेद इति / भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह- अस्ति चात्र वेदान्तान्तरविहितेष्विति / यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञाने ऽपि लौकिकाः / न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् /
SK
प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् / तस्माज्ज्ञानस्यापि वाचिका समाख्या / तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमे ऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति / तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्येवमादिषु / इदमाम्नयते-ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षाऽइति / अत्र हि द्रव्यदेवतासंबन्धानुमितो यागो विधीयते / तदनन्तरं चेदमाम्नायते-ऽवाजिभ्यो वाजिनम्ऽइति / अत्रेदं संदिह्यते-किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति / किं तावत् प्राप्तम्, द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात् कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः / न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् / उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् / तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् / न च वैश्वदेवीत्यत्र श्रौत आमिक्षासंबन्धो विश्वेषां देवानां येन वाजिनसंबन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् / नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः / अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्संबन्धिनो विश्वान्देवानुपलक्षयति / यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे
SK
देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात्, तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात् संनिहितस्य च सर्वनामार्थत्वात्, विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः / तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः / ततश्चामिक्षासंबन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते-स्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत / तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात् संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषषु / न तत्संबन्धे, नापि तत्संबन्धिमात्रे / नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे / तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे / अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् / इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः / कुतो वा तत्रानपेक्षा / अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च / यत्तु पर्यवसिताभिधानपदाभिहितपदार्थवगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससंबन्धि पूर्वस्माद्भिनत्ति / एवञ्च सति नित्यवदवगधानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति / नचाश्वत्वे निरीढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति / प्रकृतं हि सर्वनामपदगोचरः /
SK
प्रधानं च प्रकृतमुच्यते नोपसर्जनम् / प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् / तस्माद्यथेह पूर्वकर्मासंभविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति / तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक इति / तथाहि-कारीरिवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये / तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये / तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये / केचित्त्वाचरन्त्यन्यमेव धर्मम् / नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते / अतो ऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति / अस्तु प्रस्तुते किमायातमित्यत आह- अस्ति चात्रेति / अन्येषां शाखिनां नास्तीति शेषः / एवं पुनरुक्त्यादयो ऽपीति / ऽसमिधो यजतिऽइत्यादिषु पञ्चकृत्वो ऽभ्यस्तो यजतिशब्दः / तत्र किमेका कर्मभावना किंवा पञ्चैवेति / किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः ऽसमिधो यजतिऽइति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरीवर्तमानोपरितनैर्वाक्यैरनूद्यते / नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् / कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् / एवं प्राप्त उच्यते-परस्परानपेक्षाणि हि समिदादिवाक्यानीति / सर्वाण्येव प्राथम्यार्हण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति / न त्वयमेषां प्रयोजकः क्रमः / परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् /
SK
तेन प्राथम्याभावात् प्राप्तमित्येव नास्तीति कस्य को ऽनुवादः / कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् / गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः / यथा ऽदध्ना जुहोतिऽइति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम् ऽअग्निहोत्रं जुहेतिऽइति विहितस्य होमस्य
SK
विपरीवर्तमानस्यानुवादः / न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् / अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते / न चापूर्वा नाम ज्योतिरादिवद्विधानसंबन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् / किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वे ऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते / तस्मात् स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्यो ऽभ्यासो भेत्स्यतीति / अशक्तेश्च / नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारे ऽध्ययनविधानवैयथ्र्यप्रसङ्गात् / प्रतिशाखं भेदे तूपासनानां नायं दोषः / समाप्तिभेदाच्च / केषाञ्चित् शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः / केषाञ्चिदन्यत्र / तस्मादप्युपासनाभेदः / अन्यार्थदर्शनादपि भेदः / तथाहि-ऽनैतदचीर्णव्रतो ऽधीतेऽइति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः / क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते / तस्मादुपासनाभेद इति / अत्र सिद्धान्तमाह- सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् /
SK
तद्व्याचष्टे- सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानिविज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति / यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः / चोदनाद्यविशेषात् / आदिशब्देन संयोगरूपाख्याः संगृह्यन्ते / अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः / स हि पुरुषस्य व्यापारः / तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते / तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति / एवं फलसंयोगो ऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव / रूपमपि तदेव / यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति / एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति
SK
START Bस्VBह्_३,३.१.२
SK
कञ्चिद्विशेषमिति /
SK
युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसंबन्धे ऽप्यभेद इति / यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः / तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः- भेदान्नेति चेदिति |
SK
| परिहारः सूत्रावयवः- न एकस्यामपीति |
SK
वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसंख्याया अविधानान्नोत्पत्तिशिष्टत्वं संख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा संख्यानूद्यते सांपादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् / अप्रत्यभिज्ञायमानायाश्च संख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसंभवान्न शाखान्तरे ज्ञानभेदः / उत्पत्तिशिष्टत्वे ऽसिद्धे प्राणसंवादादयो ऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति
SK
START Bस्VBह्_३,३.१.३
SK
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः | BBस्_३,३.३ |
SK
यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा / अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसंबन्धादवगम्यते / तत्संबन्धश्च वेदव्रतेनेति ऽनैतदचीर्णव्रतो ऽधीतेऽइति समाम्नानादवगम्यते / ऽतेषामेवैतां ब्रह्मविद्यां वदेतऽइति विद्यासंयोगे ऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसंबन्धाविरोधादाथर्वविहितैव विद्योच्यत इति / सवा होमाः सप्त सौर्यादयः शतौदनान्ता अथर्वणिकानां त एकस्मिन्नेवार्थर्वणिके ऽग्नौ क्रियन्ते न त्रेतायाम्
SK
START Bस्VBह्_३,३.१.४
SK
विद्यैकत्वं
SK
दर्शयति च | BBस्_३,३.४ |
SK
भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद
SK
एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव / तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति / यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् / एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् / नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते / नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ संभवन्त्यामुपासनाभिधानामप्यासां शक्यं कल्पयितुम् / नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् / कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक् नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत / तस्मान्न समाख्यातो भेदः / अभ्यासो ऽपि नात्र भेदकः / युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति / तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम् ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वे ऽपि नौत्सर्गिकविधित्वव्याकोप इति / अशक्तिरपि न भेदहेतुः स्वाध्यायो ऽध्येतव्य इति स्वशाखायामध्ययननियमः / ततश्च शाखान्तरपरीयानर्थानन्येभ्यस्तद्विद्येभ्यो ऽधिगम्योपसंहरिष्यति / समाप्तिश्चैकस्मिन्नपि तत्संबन्धिनि समाप्ते तस्य व्यपदिश्यते / यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्ति व्यपदिशन्ति-ऽज्योतिष्टोमः समाप्तःऽइति तस्मात्समाप्तिभेदो ऽपि न साधनमुपासनाभेदस्य / तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम्
SK
START Bस्VBह्_३,३.२.५
SK
कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् / वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् //
SK
चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम्-
SK
उपसंहारो ऽर्थाभेदाद् विधिशेषवत्समाने च | BBस्_३,३.५ |
SK
अत्रैदमाशङ्कते-भवतु
SK
सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति / तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् / अपेक्षणे चाधिकमपि तत्र विधीयते / नच विहितम् / तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति / एवं प्राप्त उच्यते-सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते / नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते / नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासंभवादुपकारावच्छेदः कल्प्यते / प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीये ऽप्युपकारावच्छेदः स्यात् / इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसंचष्टे / नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् / तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिको ऽसति बलवति बाधके नापवदितुं युक्त इति
SK
START Bस्VBह्_३,३.३.६
SK
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् | BBस्_३,३.६ |
SK
द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च / ततः कानीयसा एव देवा ज्यायसा असुराः / शास्त्रजन्यया सात्त्विक्या बुद्ध्या संपन्ना देवाः / ते हि दीव्यन्त इति देवाः / शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः / यतो ऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः / अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य / प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् / कदाचित्तामसवृत्त्युद्भवो ऽभिभवश्च सात्त्विक्या वृत्तैः / सेयं स्पर्धा / ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान्
SK
जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति / ते ह वाचमूचुरित्यादिना संदर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति / तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत् ते ऽसुरा विदुरनेन प्राणेनोद्गात्रा नो ऽस्मान् देवा अत्येष्यन्तीति / तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चो ऽसुरा विनेशुः / तदेतत् संक्षिप्याह- वाजसनेयक इति / तथा छान्दोग्ये ऽप्येतदुक्तमित्याह- तथा छान्दोग्ये ऽपीति / विषयं दर्शयित्वा विमृशति- तत्र संशय इति / पूर्वपक्षं
SK
गृह्णाति- विद्यैकत्वमिति / पूर्वपक्षमाक्षिपति- ननु न युक्तमिति / एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः / समाधत्ते- नैष दोष इति / बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् / न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह- वाजसनेत्यके ऽपि चेति / बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः
SK
START Bस्VBह्_३,३.३.७
SK
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् | BBस्_३,३.७ |
SK
बहुतरप्रत्यभिज्ञाने ऽपि उपक्रमभेदात्तनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः संकीर्तनाल्लक्षणायां च छान्दोग्ये
SK
वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः / ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य / तथाहि-भूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् / तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये / नच विवक्षितार्थभेद इति / एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति / तथा ह्यभ्युदयवाक्ये इति / एवं हि श्रूयते-ऽविवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्ऽइति / तत्र संदेहः-किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति / एष तावदत्र विषयः-अमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः / दध्यर्थश्च दोहः / प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः / यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते-ऽयस्य हविर्निरुप्तम्ऽइति / तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः / तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति / तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् / यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् / अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् / अपिच प्राप्ते
SK
पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता संबन्धश्च विधातव्यः / चरुत्वं चात्र विहितं नास्तीति तदपिव विधातव्यम् / तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत / कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते / दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते-न कर्मान्तरम् / पूर्वदवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् / चर्वर्थस्य चार्थप्राप्तेः / भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्वावत् / तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत् देवतासंबन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसंबन्धं विधातुं शक्नुवन्ति / तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानात् देवतान्तरसंबन्धे ऽपि न कर्मान्तरकल्पनाभवितुमर्हति / ततश्च समाप्ते ऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि / नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् / प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसंबन्धः कृतः / नच प्रभूतधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया संभवति / इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाको ऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते / भवतु वा अनेकवाक्यकल्पनम् /
SK
प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति / तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् / पशुकामवाक्ये
SK
त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्ये ऽपि / ऽयः पशुकामः स्यात्सो ऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमते ऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तनिन्द्राय प्रदात्रे दधंश्चरुम्ऽइति / अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणो ऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् / परोवरीयस्त्वादिवत् / यथोद्गीथोपासनासाम्ये ऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति / परस्मात् परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः संपन्नः / अत एव अनन्तः / परमात्मदृष्टिमुद्गीथे भवयितुम् ऽआकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्ऽइत्याकाशशब्देन परमात्मानं निर्दिशति
SK
START Bस्VBह्_३,३.३.८ संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि | BBस्_३,३.८ | स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् / अपिच श्रुत्यक्षरालोचनयां भेदप्रत्ययो ऽन्तरङ्गश्चानपेक्षश्च / संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च / तस्मादुर्बलं नामेदसाधनायालमिति
SK
START Bस्VBह्_३,३.४.९
SK
व्याप्तेश् च समञ्जसम् | BBस्_३,३.९ |
SK
अध्यासो नामेति / गौणी बुद्धिरध्यासः / यथा माणवके ऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथबुद्धिव्यपदेशाविति / अपवादैकत्वविशेषणानि
SK
चोक्तानि / एकार्थे ऽपि च शब्दद्वयप्रयोगो दृश्यते / यथा वैश्वदेव्यामिक्षा विज्ञानमानन्दम् / व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति / विमृश्यानध्यवसायलक्षणं पक्षं गृह्णाति- तत्रान्यतम इति / सिद्धान्तमाह-इदमुच्यते- व्याप्तेश्च / प्रत्यनुवाकं प्रत्यृचमुपक्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्गतो ऽयमोङ्कारस्तत्तदाप्यादिगुणविशिष्टस्तस्मै तस्मै कामावाप्त्यादिफलायोपास्यत्वेनाधिक्रियत इत्यपेक्षायामुद्गीथपदेनेति विशिष्यते / उद्गीथपदेनोकाराद्यवयवघटितसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्तेस्तत्संबन्धवयव ओङ्कारो लक्ष्यते, न पुनरोङ्कारेणावयविन उद्गीथस्य लक्षणा / ओङ्कारस्यैवोपरिष्टात्तु तत्तद्गुणविशिष्टस्य तत्तत्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् / दृष्टश्च समुदायशब्दो ऽवयवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे / अध्यासे तु लक्षणा फलकल्पना च / तथाहि आप्त्यादिगुणकप्रणवोपासनादिदमुद्गीथतोपासनं प्रणवस्यान्यत् / नचात्राप्यादि उपासनेष्विव फलं श्रूयते / तस्मात् कल्पनीयम् / उद्गीथसंबन्धिप्रणवोपासनाधिकारपरे वाक्ये नायं दोषः / अपिच गौण्या वृत्तेर्लक्षणावृत्तिर्बलीयसी लाघवात् / लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् / यथा गाङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थे ऽन्तर्भावो ऽधिकरणतया / गौर्वाहीक इत्यत्र तु गोसंबन्धितीष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गोशब्दस्य / अपितु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वं तदिदमुक्तं-लक्षणायामपि त्विति / गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता / यद्यपि
SK
वैश्वदेवीपदमामिक्षायां प्रवर्तते तथाप्यर्थमेदः स्फुटतरः / आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते / वैश्वदेवीपदं तु तस्यामेव विश्वदेवविशिष्टायाम् / एवं हि विज्ञानान्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकार्थ्ये / नच व्याख्यानमुभयोरपि प्रसिद्धार्थत्वाद्भिन्नार्थत्वाच्च / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,३.५.१०
SK
सर्वाभेदादन्यत्रेमे | BBस्_३,३.१० |
SK
सर्वाभेदादन्यत्रेति /
SK
एवंशब्दस्य सन्निहितप्रकारभेदपरामर्शार्थत्वात्साक्षाच्छब्दोपस्थापितस्य च संनिधानाच्छाखान्तरगतस्य चानुक्रमतया(?) संनिधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य वसिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठत्रेष्ठत्वमात्रेणेति पूर्वः पक्षः / सिद्धान्तस्तु-सत्यं संनिहितं परामृशति एवङ्कारो न तु शब्दोपात्तमात्रं संनिहितम् / किन्तु यच्छब्दाभिहितार्थनान्तरीयकतया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव / यथा ऽयस्य पर्णमयी जुहूर्भवतिऽइत्यव्यभिचारितक्रतुसमन्वयया जुह्वोपस्थापितः क्रतुः / तस्मादुपास्यफलप्रत्यभिज्ञानात्तदव्यभिचारिणः प्रकारभेदस्येहानुक्तस्यापि बुद्धौ संनिधानात्प्रकृतपरामर्शिनैवङ्कारेण
SK
परामर्शो युक्त इति सिद्धं कौषीतकिब्राह्मणगतेन तावदेवङ्कारेण शक्यते पराम्रष्टुम् / तथाप्यभ्युपेत्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम्- तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनेति / श्रुतहानिरिति /
SK
केवलस्य श्रुतस्य हानिरितरसहितस्य चाक्षुतस्य कल्पना न चेत्यर्थः / अतिरोहितमन्यत्
SK
START Bस्VBह्_३,३.६.११
SK
आनन्दादयः प्रधानस्य | BBस्_३,३.११ |
SK
गुणवदुपासनाविधानस्य
SK
वास्तवगुणव्याख्यानाद्विवेकार्थमिदमधिकरणम् / यथैकस्य ब्रह्मणः / संयद्वामत्वादयः सत्यकामादयश्च गुणा न संकीर्येरन् / एवामानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न संकीर्येरन् / तत्संकरे वा संयद्वामत्वादयो ऽपि सत्यकामादिभिः संकीर्येरन् / नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः / राद्धान्तस्तु वास्तवविधेययोर्वस्तुधर्मतया चानुष्ठेयतया चाव्यवस्थाव्यवस्थे व्यवतिष्ठेते / वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते / नासावेकत्रोक्तो ऽन्यत्रानुक्तो नास्तीति शक्यं वक्तुम् / विधेयस्तु पुरुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र यावद्गुणविशिष्टे ब्रह्मणि चोदितः स तावत्येवावतिष्ठते नाविहितमपि गुणं चोतरीकर्तुमर्हति / तस्य विधितन्त्रत्वाद्विधेश्च व्यवस्थानात् / तस्मादानन्दविज्ञानादयो ब्रह्मतत्त्वात्मतयोक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते / संयद्वामादयश्चोपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्त्विति सिद्धम् / प्रियशिरस्त्वादीनां तूपास्यत्वमारोप्य न्यायो दर्शितः / तस्य (?)तु संयद्वामादिरुक्तः / मोदनमात्रं मोदः / प्रमोदः प्रकृष्टो मोदस्ताविमौ परस्परापेक्षावुपचयापचयौ
SK
START Bस्VBह्_३,३.६.१२
SK
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे | BBस्_३,३.१२ |
SK
START Bस्VBह्_३,३.६.१३
SK
इतरे त्वर्थसामान्यात् | BBस्_३,३.१३ |
SK
START Bस्VBह्_३,३.७.१४
SK
आध्यानाय प्रयोजनाभावात् | BBस्_३,३.१४ |
SK
इन्द्रियेभ्यः परा ह्यर्था इति / किमत्र सर्वेषामेवार्थादीनां परत्वं प्रतिपिपादयिषितम्, आहो पुरुषस्यैव तत्प्रतिपादनार्थं चेतरेषां परत्वप्रतिपादनम् / तत्र प्रत्येकमर्थादिपरत्वप्रतिपादनश्रुतेः श्रूयमाणतत्तत्परत्वे च संभवति न तत्तदतिकर्मे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् / न च प्रयोजनाभावादसंभवः / सर्वेषामेव प्रत्येकं परत्वाभिधानस्याध्यानप्रयोजनत्वात् / तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः / तथाहि स्मृतिः- ऽदश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः / भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः //
SK
बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः / पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः / पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते / ऽइति / प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात् प्रत्येकं तेषामर्थादीनां परत्वपराण्येतानि वाक्यानीति प्राप्तय उच्यते-इन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्संदर्भो वस्तुतत्त्वप्रतिपादनपरः प्रतीयते नाध्यानविधिपरः / तदश्रुतेः / तदत्र यत्प्रत्यस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् / दृष्टं च विष्णोः परमपदज्ञानस्य निखिलानर्थसंसारकारणाविद्योपशमः / तत्त्वज्ञानोदयस्य विपर्यासोपशमलक्षणत्वेत तत्र तत्र दर्शनात् / अर्थादिपरत्वप्रत्ययस्य तु न दृष्टमस्ति प्रयोजनम् / नच दृष्टे संभवति अदृष्टकल्पना न्याय्या / नच परमपुरुषार्थहेतुपरत्वे संभवति अवान्तरपुरुषार्थतोचिता / तस्माद्दृष्टप्रयोजनवत्त्वात्, पुरुषपरत्वप्रतिपादनार्थो ऽयं संदर्भ इति गम्यते / किञ्चादरादप्ययमेवास्यार्थ इत्याह- अपिच परप्रतिषेधेनेति / नन्वत्राध्यानविधिर्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह- आध्यानायेति
SK
START Bस्VBह्_३,३.७.१५
SK
आत्मशब्दाच् च | BBस्_३,३.१५ |
SK
अनधिगतार्थप्रतिपादनस्वभावत्वाप्रमाणानां विशेषतश्चागमस्य, पुरुषशब्दवाच्यस्य चात्मनः स्वयं श्रुत्यैव दुरधिगमत्वावधारणाद्वस्तुतश्च दुरधिगमत्वादर्थादीनां च
SK
सुगमत्वात्तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः / श्रुतेराशयातिशय इवाशयातिशयः / तत्तात्पर्यतेति यावत् / किञ्च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेव / अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह- अपिच सो ऽध्वनः पारमाप्नोतीति
SK
START Bस्VBह्_३,३.८.१६
SK
आत्मगृहीतिर् इतरवद् उत्तरात् | BBस्_३,३.१६ |
SK
श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसंबन्धितया गमयति / पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् / अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् / अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता / तदनुसारादप्येतदेव विज्ञायते / अपिच ताभ्यो गामानयदित्यादयश्च व्यवहारः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः / ततो ऽप्यवान्तरेश्वर एव विज्ञायते / आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापो ऽयमिति प्राप्त उच्यति-परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु ऽएतस्मादात्मन आकाशः संभूतःऽइत्यादिषु / तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च / एतदभिसंहितम्-मुख्यं तावत् सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः / तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् / नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् /
SK
आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यते ऽएतस्मादात्मन आकाशः संभूतःऽइति दर्शनात् / आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवहापि महाभूतानि सृष्ट्वेति कल्पनीयम् / सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् / अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् / यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे / तदिदमुक्तम्- यो ऽप्ययं व्यापारविशेषानुगम इति / नच लोकसर्गो ऽपि हिरण्यगर्भव्यापारो ऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् / तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुकम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते / यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् / अपरः कल्पः / सदुपक्रमस्य संदर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः / तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् / स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन संपत्त्यर्थतया व्याख्येयः / तद्धि सत्सामान्यं परमात्मतया संपादनीयम् / तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यते-आत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् / अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति / अभ्युपेत्याह / सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि
SK
चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते / नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः संदिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः / अपिच संपत्तौ फलं कल्पनीयम् / नच सामान्यमात्रे ज्ञाते विशेषज्ञानसंभवः / न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति / तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् / अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति
SK
START Bस्VBह्_३,३.८.१७
SK
अन्वयाद् इति चेत् स्याद् अवधारणात् | BBस्_३,३.१७ |
SK
START Bस्VBह्_३,३.९.१८
SK
कार्याख्यानादपूर्वम् | BBस्_३,३.१८ |
SK
विषयमाह- छन्दोगा वाजसनेयिनश्चेति / अननं प्राणनं अनः प्राणः तं प्राणमनग्नं कुर्वन्तः / अनग्नताचिन्तनमिति / मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् / संशयमाह- तत्किमिति / खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी- अथवाचमनमेवेति / यद्येवमनग्नतासंकीर्तनस्य किं प्रयोजनमित्यत आह- तस्यैव तु स्तुत्यर्थमिति / अयमभिसन्धिः-यद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणे ऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति / राद्धान्तमाह- एवं प्राप्त इति / चोदयति- नन्वियं श्रुतिरिति / परिहरति- नेति / तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः / अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति- न चेयं श्रुतिरिति / क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् / इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् / नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति / मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति- अत एव च नोभयविधानम् / युक्त्यन्तरमाह- उभयविधाने चेति / उपसंहरति- तस्मात्प्राप्तमेवेति / न चायमनग्नतावाद इति / स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः / अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत / न चानग्नतासंकल्पो ऽन्यतः प्राप्तो यतः स्तावको भवेत् / न चाचमनमन्यतो ऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह- स्वयं चानग्नतासंकल्पस्येति / अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते / संकल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह- न चैवं सत्येकस्याचमनस्येति / अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह- अपिच यदिदं किञ्चेति / यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासंभवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते / अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते / अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः / किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् / मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो
SK
यजतीत्यादिवद्विधिरेवेत्याह-अपिचाचामन्तीति / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,३.१०.१९
SK
समान एवं चाभेदात् | BBस्_३,३.१९ |
SK
इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः / द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य को ऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः / नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च / तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यते-ऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् / न चागृह्यमाणविशेषता / यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः / यथा यत्र छत्रचामरपताकाहास्तिकाश्चीयशक्तिकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि / न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् / अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् / अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः / तस्मात्तदेव बृहदारण्यके ऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम्
SK
START Bस्VBह्_३,३.११.२०
SK
संबन्धाद् एवम् अन्यत्रापि | BBस्_३,३.२० |
SK
यद्येकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां संकरः / तथा सति सत्यस्यैकसस्याभेदान्मण्डलद्वयवर्तिन उपनिषदोरपि संकरप्रसङ्गात् / तस्येति च प्रकृतपरामर्शित्वाद्भेदः / सत्यस्य च प्रधानस्य प्रकृतत्वादधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुत्वात्प्रस्तुतस्य च सत्यस्याभेदात्पूर्ववद्गुणसंकरः
SK
START Bस्VBह्_३,३.११.२१
SK
इति प्राप्त उच्यते- न वा विशेषात् | BBस्_३,३.२१ | सत्यं यत्र स्वरूपमात्रसंबन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वात्तन्मात्रसंबन्धित्वाच्च धर्माणाम् / यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसंबन्धो न निर्विशेषणस्य नाप्यन्यविशेषणसहितस्य / नहि दण्डिनं पुरुषमानयेत्युक्ते दण्डरहितः
SK
कमण्डलुमानानीयते / तस्मादधिदैवं सत्यस्योपनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति / यथा चाचार्यस्य गच्छतो ऽनुगमनं विहितं न तिष्ठतो भवति, तस्मान्नोपनिषदोः संकरः किन्तु व्यवस्थितिः / तदिदमुक्तं-स्वरूपानपायादिति
SK
START Bस्VBह्_३,३.११.२२
SK
दर्शयति च | BBस्_३,३.२२ |
SK
अतिदेशादप्येवमेव तत्त्वे हि नातिदेशः स्यादिति
SK
START Bस्VBह्_३,३.१२.२३
SK
संभृतिद्युव्याप्त्यपि चातः | BBस्_३,३.२३ |
SK
ऽब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान / ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः / ऽब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस / यद्यपि तासु तासु शाण्डिल्यादिविद्यास्वायतनभेदपरिग्रहेणाध्यात्मिकायतनत्वं संभृत्यादीनां गुणानामाधिदैकत्वमित्यायतनभेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना संदर्भेणाधिदैविकविभूतिप्रत्यभिज्ञानात्षोडशकलाद्यासु च विद्यास्वायतनाश्रवणादन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञासंभवात् संबृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडशकलादिविद्यासु चोपसंहार इति पूर्वः पक्षः / राद्धान्तस्तु-मिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्राश्रुतान्गुणानुपसंहारयति न त्विह संभृत्यादिगुणकब्रह्मविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति / या तु काचिदाधिदैविकी विभूतिः शाण्डिल्यादिविद्यायां श्रूयते तस्यास्तत्प्रकरणाधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण संभृत्यादीननुक्रष्टुमर्हति / तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् / ब्रह्मा श्रयत्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् / भूयसीनामैक्यप्रसङ्गात् / तदिदमुक्तं- संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्चेति / तस्मात्संभृतिश्च द्युव्याप्तिश्च तदिदं संभृतिद्युव्याप्त्यपि चातः प्रत्यभिज्ञानाभावान्न शाण्डिल्यादिविद्यासूपसंह्रियत इति सिद्धम्
SK
START Bस्VBह्_३,३.१३.२४
SK
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात् | BBस्_३,३.२४ |
SK
पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् / नच विदुषो यज्ञस्येति न सामानाधिकरण्यसंभवः / यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् / यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसंभवः / तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् / एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसंपादनं तदायुषश्च त्रेधा
SK
व्यवस्थितस्य सवनत्रयसंपादनम् / अशिशिषादीनां च दीक्षादिभावसंपादनं नैवं तैत्तिरीयाणाम् / तेषां न तावत् पुरुषे यज्ञसंपत्तिः / नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः / नहि यज्ञस्वरूपं यजमानो भवति / कर्तृकर्मणोरभेदाभावात् / चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् / यजमानस्य चेतनत्वात् / आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते / तथा चायमर्थः-एवं विदुषः पुरुषस्य यः संबन्धी यज्ञः तस्य संबन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्संबन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् / नच सत्यां गतौ तद्युक्तम् / तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् / नच पत्नीयजमानवेदविद्यादिसंपादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसंपत्तिरप्येषां विलक्षणैव / तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् / अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः / अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते / तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् / नच स्वतन्त्रपरन्त्रयोरैक्यमुचितमित्याह-अपिच ससंन्यासामात्मविद्यामिति / उपसंहरति-तस्मादिति
SK
START Bस्VBह्_३,३.१४.२५
SK
वेधाद्यर्थभेदात् | BBस्_३,३.२५ |
SK
विचारविषयं दर्शयति- आथर्वणिकानामिति / आथर्वणिकाद्युपनिषदारम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातीनि / संशयमाह- किमिम इति / पूर्वपक्षं गृह्णाति- उपसंहार एवैषां विद्यास्विति / सफला हि सर्वा विद्या आम्नातास्तत्सन्निधौ मन्त्राः / कर्माणि च समाम्नातानि ऽफलवत्सन्निधाफलं तदङ्गम्ऽइति न्यायाद्विद्याङ्गाभावेन विज्ञायन्ते / चोदयति- नन्वेषामिति / नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्शपूर्णमासावारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्यामारभ्य मन्त्रा वा कर्माणि वा समाम्नातानि / न चासति सामान्यसंबन्धे संबन्धिसंनिधानमात्रात्तादर्थ्यसंभवः / नच श्रुतस्वाङ्गपरिपूर्णा विद्या एतानाकाङ्क्षितुमर्हति येन प्रकरणापदितसामान्यसंबन्धानां संनिधिर्विशेषसंबन्धाया भवेदित्यर्थः / समाधत्ते- बाढमनुपलभमाना अपीति / मा नाम भूत्फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क्षा //
SK
मन्त्राणां तु स्वाध्यायविध्यापादितपुरुषार्थभावानां कर्मणां च प्रवर्ग्यादीनां स्वविध्यापादितपुरुषार्थभावानां पुरुषाभिलषितमाकाङ्क्षतां संनिधानादन्यताराकाङ्क्षानिबन्धो रक्तपटन्यायेन संबन्धः / तत्रापि च विद्यानां फलवत्त्वात्तादर्थ्यमफलानां मन्त्राणां कर्मणां च / नच प्रवर्ग्यादीनां पिण्डपितृयज्ञवत्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् / अनुमानस्यामहे संनिधिसामार्थ्यादिति / इदं खलु निवृत्ताकाङ्क्षाया विद्यायाः संनिधाने श्रुतमनाकाङ्क्षाया साकाङ्क्षस्यापि संबद्धुमसामर्थ्यात्तस्या अप्याकाङ्क्षामुत्थापयति / उत्थाप्य चैकवाक्यतामुपैति / असमर्थस्य चोपकारकत्वानुपपत्तेः प्रकरणिनं प्रति उपकारसामर्थ्यमात्मनः कल्पयति / नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्हतीत्यनया परम्परया संनिधिः श्रुतिमर्थापत्त्या कल्पयति / आक्षिपति- ननु नैषां मन्त्राणामिति / प्रयोगसमवेतार्थप्रकाशनेन हि मन्त्राणामुपयोगो वर्णितः ऽअविशिष्टस्तु वाक्यार्थःऽ
SK
इत्यत्र / नच विद्यासंबद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः / यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसंबन्धं प्रतिपद्यते / ऽपुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तिऽइति / उपसदां जुहूवदव्यभिचारितक्रतुसंबन्धत्वात् / यद्यपि ज्योतिष्टोमविकृतावपि सन्त्युपसदस्तथापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्यक्षविहितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टोमाङ्गतैव वाक्येनावगम्यते / अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोदकेनोपसद्वत्तद्विकृतावपि प्राप्तिः / प्रकृतौ वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टोमे
SK
एव विधानमुपसदा सह युक्तं, तदेतदाह- कथं च प्रवर्ग्यादीनीति / संनिधानादर्थविप्रकर्षेण वाक्यं बलीय इति भावः / समाधत्ते- नैष दोषः / सामर्थ्यं तावदिति / यथा ऽअग्नये त्वा जुष्टं निर्वपामिऽइति मन्त्रे अग्नये निर्वपामिति पदे कर्मसमवेतार्थप्रकाशके / शिष्टानां तु पदानां तदेकवाक्यतया यथाकथञ्चिद्व्याख्यानमेवमिहापि हृदयपदस्योपासनायां समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथञ्चिन्नेयानीति नासमवेतार्थता मन्त्राणाम् / नच मन्त्रविनियोगो नोपासनेषु दृष्टो येनात्यन्तादृष्टं कल्प्यत इत्याह- दृष्टश्चोपासनेष्विति / यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति / न चोहास्ति विरोधः / वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसंभवात् / यथा ऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति ब्रह्मवर्चसफलो ऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यते-वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति / अत्र हि क्त्वः समानकर्तृकत्वमवगम्यते धातुसंबन्धे प्रत्ययविधानात् / धात्वर्थान्तरसंबन्धश्च कथं च समानः कर्ता स्यात् / यद्यकः प्रयोगो भवेत् / प्रयोगाविष्टं हि कर्तृत्वम् / तच्च प्रयोगभेदे कथमेकम् / तस्मात्समानकर्तृकत्वादेकप्रयोगत्वं वाजपेयबृहस्पतिसवयोर्धात्वर्थान्तरसंबन्धाच्च / नच
SK
गुणप्रधानभावमन्तरेणैकप्रयोगता संबन्धश्च तत्रापि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधानम् / अङ्गं बृहस्पतिसवः / नच ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइत्यत्राङ्गप्रधानभावप्रसङ्गः / नह्येतद्वचनं कस्यचिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् / तथाच द्वयोः साधिकारतया अगृह्यमाणविशेषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः / यदि तु कस्याञ्चिच्छाखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिष्ट्वेति / तथाप्यनारभ्याधीतस्यैवारभ्याधीते प्रत्यभिज्ञानमिति युक्तम् / तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् / तस्मात्कालार्थो ऽयं संयोग इति सिद्धम् / सिद्धान्तमुपक्रमते- एवं प्राप्त इति / हृदयं प्रविध्येत्ययं मन्त्रः स्वरसतस्तावदाभिचारिककर्मसमवेतं सकलैरेव पदैरर्थमभिदधदुपलभ्यते तदस्याभिधानसामर्थ्यलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्बलीयोभ्यामपि बलवत्किमङ्ग पुनः क्रमात्, तस्माल्लिङ्गेन संनिधिमपोद्याभिचारिककर्मशेषत्वमेवापाद्यते / यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् / तथापि तदितरेषां सर्वेषामेव पदानामसमवेतार्थत्वम् / आभिचारिके तु कर्मणि
SK
सर्वेषामर्थसमवाय इति किमेकपदसमवेतार्थता करिष्यति / नच संनिध्युपगृहीयासूपासनासु मन्त्रमवस्थापयतीति युक्तम् / हृदयपदस्याभिचारे ऽपि समवेतार्थस्येतरपदैकवाक्यतापन्नस्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः संनिधिनाचालयितुमशक्यत्वादेवं ऽदेव सवितः प्रसुव यज्ञम्ऽइत्यादेरपि यज्ञप्रसवलिङ्गस्य यज्ञङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति /
SK
एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषाञ्चिल्लिङ्गेन केषाञ्चिच्छुत्या केषाञ्चित्प्रमाणान्तरेण प्रकरणेनेति / कस्मात्पुनः संनिधिर्लिङ्गादिभिर्बाध्यते इत्यत आह- दुर्बलो हि संनिधिरिति / प्रथमतन्त्रगतोर्ऽथः स्मार्यते / तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलीय इति चिन्ता / अत्रोदाहरणम्-अस्त्यैन्द्री ऋक् ऽकदाचनस्तरीरसि नेन्द्रऽइत्यादिका श्रुतिर्विनियोकी ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽइति / अत्र हि सामर्थ्यलक्षणाल्लिङ्गादिन्द्रे विनियोगः प्रतिभाति / श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषित्वं ऐन्द्र्येति चतृतीयाश्रुतेरैन्द्र्या ऋचः शेषत्वमवगम्यते / यद्यपि गार्हपत्यमिति द्वितीयाश्रुतेराग्नेयीमृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः / यद्यपि चैन्द्र्येति च तृतीयाश्रुतेरैन्द्र्या इन्द्रं प्रति शेषत्वनोपपत्तेरविरोधः / पदान्तरसंबन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः / तत्र च विपरीतं बलाबलम् / तथापि श्रुतिवाक्ययो रूपतो व्यापारभेदाददोषः / द्वितीयातृतीयाश्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्मकरणभावमवगमयत इति विनियोजिके / क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः / पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुतिमात्रात्प्रतियेते इति श्रौते / सो ऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशाद्विशेषे ऽवस्थाप्यते / सो ऽयं विशेषणविशेष्यभावलक्षणः संबन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्माद्वाक्यलभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुतिलिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति / आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् / प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्रतेरैश्वर्यवचनत्वादिति / किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति / नो खलु यत्रासमर्थं तच्छ्रुतिसहस्रेणापि तत्र विनियोक्तुं शक्यते / यथा अग्निना सिञ्चेत् पाथसा दहेदिति / तस्मात्सामर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् / तच्चास्या ऋचः
SK
प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते / तथाहि-विदितपदतदर्थः कदाचनेत्यृचः स्पष्टमिन्द्रमवगच्छति, शब्दाच्चैन्द्र्येत्यतः / तस्माद्दारुदहनस्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः / नच श्रुत्यनुरोधाज्जघन्यामास्थाया वृत्तिं सामर्थ्यकल्पनेति साम्प्रतम् / सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् / तस्मादैन्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्ते ऽभिधीयते-ऽलिङ्गज्ञानं पुरोधाय न श्रुतेर्विनयोक्तृता / श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्ऽ / यदि हि सामर्थ्यमवगम्य श्रुतेर्विनियोगमवधारयेत्प्रमाता ततः श्रुतेर्विनियोगं प्रति लिङ्गज्ञानापेक्षत्वाद्दुर्बलत्वं भवेत् / न त्वेतदस्ति / श्रुतिर्विनियोगाय सामर्थ्यमपेक्षते नापेक्षते सामर्थ्यविज्ञानम् / अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते / तच्छ्रुतिविनियोगात्पूर्वमस्ति सामर्थ्यम् / न तु पूर्वमगम्यते / विनियोगे तु सिद्धे तदन्यथानुपपत्त्या पश्चात्प्रतीयत इति श्रुतिविनियोगात्पराचीना सामर्थ्यप्रतीतिस्तदनुरोधेनावस्थापनीया / लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोकीं कल्पयित्वा श्रुतिम् / तथाहि-न स्वरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वीदृगिन्द्र इति तस्य तु प्रकरणाम्नानसामर्थ्यात् सामान्यतः प्रकरणापतितैदमर्थ्यस्य तदन्यथानुपपत्त्या विनियोगकल्पनायामपि श्रौताद्विनियोगात्कल्पनीयस्य विनियोगस्यार्थविप्रकर्षाच्छ्रुतिरेव कल्पयितुमुचिता न तु तदर्थो विनियोगः / नहि श्रुतमनुपपन्नं शाक्यमर्थेनोपपादयितुम् / नहि त्रयो ऽत्र ब्रह्मणाः कठकौण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन माठरेणोपपादयन्ति, उपपादयतो वा नोपहसन्ति / शाब्दाः / माठरश्चेति तु श्रावयन्तमनुमन्यन्ते /
SK
तस्माच्छ्रुतार्थसमुत्थानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनीया, नार्थान्तरमात्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् / नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दार्थज्ञानोपायभूतलोकविरोधात् / तस्माद्विनियोजिका श्रुतिः कल्पनीया / तथाच यावल्लिङ्गाद्विनियोजिकां श्रुतिं कल्पयितुं प्रक्रान्तव्यापारस्तावत्प्रत्यक्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृत्ताकाङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोकीं श्रुतिमुपकल्पयेत् / मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रुत्योपपादितत्वात् / यथाहुः-ऽयावदज्ञातसंदिग्धं ज्ञेयं तावत्प्रमित्स्यते / प्रमिते तु प्रमातृणां प्रमौत्सुक्यं विहन्यतेऽइति /
SK
तस्मात्प्रतीतश्रौतविनियोगोपपत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्तिमजहज्जघन्ययापि नेयमिति सिद्धम् / लिङ्गवाक्ययोरिह विरोधो यथा-ऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि / तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति / किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मिन्त्सीदेत्येवमादिस्तु पुरोडाशासादन इति / यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्पयामीत्येतदपेक्षो हि तस्मिन्सीदेत्यादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि तस्मिन्त्सीदेति / अथ लिङ्गं बलीयस्ततः कल्प्याम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् / तस्मिन्त्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति / किं तावत्प्राप्तम् / लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति / इह हि यत्तत्पदसमभिव्याहारेण विभज्यमानसाकाङ्क्षत्वादेकवाक्यतायां सिद्धायां तदनुरोधेन पश्चात्तदभिधानसामार्थ्यं कल्पनीयम् / यथा देवस्यत्वेतिमन्त्रे ऽग्न्ये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना / तदेवं प्रतीतैकवाक्यतानिर्वाहाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्यापादयितुमर्हति, अपि तु
SK
विनियोजिकां श्रुतिं कल्पयत्तदनुगुणमेव कल्पयेत् / तथा च वाक्यस्य लिङ्गतो बलीयस्त्वात्सदनकरणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् / एवं प्राप्ते उच्यते-भवेदेतदेवं यद्येकवाक्यतावगमपूर्वं सामर्थ्यावधारणमपि तु अवधृतसामर्थ्यानां पदानां प्रश्लिष्टपठितानां सामर्थ्यवशेन प्रयोजनैकत्वेनेकवाक्यत्वावधारणम् / यावन्ति पदानि प्रधानमेकमर्थमवगमयितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् / अनुष्ठेयश्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् / सदनकरणपुरोडाशासादने चानुष्ठेयतया प्रधाने / तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मिन्सीदेत्यादिः / ततश्च यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयति / तथाच श्रुत्यैवैकैकस्य भागस्यैकत्र विनियोगे सति प्रकरणपाठोपपत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्पयितुमर्हतीत्येकवाक्यताबुद्धिरुत्पन्नाप्याभासीभवति लिङ्गेन बाधनात् / यत्र तु विरोधकं लिङ्गं नास्ति तत्र समवेतार्थैकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् / यथात्रैव स्योनं त इत्यादीनाम् / तस्माद्वाक्याल्लिङ्गं बलीय इति सिद्धम् //
SK
वाक्यप्रकरणयोर्विरोधोदाहरणम् / अत्र च पदानां परस्परापेक्षावशात्कस्मिंश्चिद्विशिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्धवाक्यभावनां च पुनः कार्यान्तरापेक्षावशेन वाक्यान्तरेण संबन्धः प्रकरणम् / कर्तव्यायाः खलु फलभावनाया लब्धधात्वर्थकरणाया इतिकर्तव्यताकाङ्क्षाया वचनं
SK
प्रकरणमाचक्षते वृद्धाः / यथा ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽइति / एतद्धि वचनं प्रकरणम् / तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षायां ऽसमिधो यजतिऽइत्यादिवाक्यान्तरसंबन्धः / समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्वजित्र्यायेन वानुषङ्गतो वार्थवादतो वा फलान्तराप्रतिलम्भेन दर्शपूर्णमासभावनां निर्वारयितुमीशते / तस्मात्तदाकाङ्क्षायामुपनिपतितान्येतानि वाक्यानि स्वकार्यापेक्षाणि तदपेक्षितकरणोपकारलक्षणं कार्यमासाद्य निर्वण्वन्ति च निर्वारयन्ति च प्रधानम् / सो ऽयमनयोर्नष्टाश्वदग्धरथवत्संयोगः / तदेवं लक्षणयोर्वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकनिगदः / तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः / ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्णमासीयागादिन्द्राग्नीशब्द उत्क्रष्टव्यः अमावास्यायां च समवेतार्थत्वात्प्रयोक्तव्यः / अथेदानीं संदिह्यते-किं यदिन्द्राग्निपदैकवाक्यतया प्रतीयते ऽअविवृधेथां महो ज्यायो ऽकाताम्ऽइति तन्नोत्क्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सहोत्क्रष्टव्यमिति / तत्र यदि प्रकरणं बलीयस्ततो ऽपनीतदेवताको ऽपि शेषः प्रयोक्तव्यो ऽथ वाक्यं ततो यत्र देवताशब्दस्तत्रैव प्रयोक्तव्यः / किं तावत्प्राप्तमपनीतदेवताको ऽपि शेषः प्रयोक्तव्यः प्रकरणस्यैवाङ्गसंबन्धप्रतिपादकत्वात् / फलवती हि भावना प्रधानेतिकर्तव्यतात्वमापादयति / तदुपजीवनेन श्रुत्यादीनां विशेषसंबन्धापादकत्वात् / अतः प्रधानभावनावचनलक्षणप्रकरणविरोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् / एवं प्राप्त उच्यते-भवेदेतदेवं यदि विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्य प्रकरणं विनियोजयेत् / अपि तु विनियोगाय तदपेक्षते ऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वादशोपसत्तायाश्च नोत्कर्षः स्यात् / तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते
SK
तत्तद्बलवद्विप्रकृष्टं तु दुर्बलम् / तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः
SK
प्रकरणं भङ्क्त्वोत्कृष्यते, परिशिष्टैस्तु प्रकरणस्येतिकर्तव्यतापेक्षा पूर्यते / अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् / यथा समिदादेः / तदिह प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते / प्रकरणे हि स्वार्थपूर्णानां वाक्यानामुपकार्योपकारकाकाङ्क्षामात्रं दृश्यते / वाक्ये तु पदानां प्रत्यक्षसंबन्धः / ततश्च सह प्रस्थितयोर्वाक्यप्रकरणयोर्यावत्प्रकरणेनैकवाक्यता कल्प्यते तावद्वाक्येनाभिधानसामर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुतिर्यावदितरत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छिन्नायामाकाङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्यबलीयस्त्वात्तद्देवताशेषणामपकर्ष एवेति सिद्धम् //
SK
क्रमप्रकरणविरोधोदाहरणम् / राजसूयप्रकरणे प्रधानस्यैवाभिषेचनीयस्य संनिधौ शौनःशेपोपाख्यानाद्याम्नातं, तत्किं समस्तस्य राजसूयस्याङ्गमुतभिषेचनीयस्य / यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्ततो ऽभिषेचनीयस्यैवेति, किं तावत्प्राप्तम् / नाकाङ्क्षामात्रं हि संबन्धहेतुः / गामानय प्रासादं पश्येति गामित्यस्य क्रियामात्रापेक्षिणः पश्येत्यनेनापि संबन्धसंभवाद्विनिगमनाभावप्रसङ्गात् / तस्मात्संनिधानं संबन्धकारणम् / तथा चानयेत्यननैव गामित्यस्य संबन्धो विनिगम्यते / नच संनिधानमपि संबन्धकारणम् / अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र राज्ञ इत्यस्य पुत्रपुरुषपदसंनिधानाविशेषान्मा भूदविनिगमना / तस्मादाकाङ्क्षा निश्चयहेतुर्वक्तव्या / अत्र पुत्रशब्दस्य संबन्धिवचनतया समुत्थिताकाङ्क्षस्यान्तिके यदुपनिपतितं संबन्ध्यन्तराकाङ्क्षं पदं तस्य तेनैवाकाङ्क्षापरिपूर्तेः पुरुषपदेन
SK
पुरुषरूपमात्राभिधायिना स्वतन्त्रेणैव न संबन्धः किन्तु परेणापसार्यतामित्यनेनापसरणीयापेक्षेणेति / सत्यपि संनिधाने आकाङ्क्षाभावादसंबन्धः / तथा चाभाणकः-ऽतप्तं तप्तेन संबध्यतेऽइति / तथा चाकाङ्क्षितमपि न यावत्संनिधाप्यते तावन्न संबध्यते / तथा संनिहितमपि यावन्नाकाङ्क्ष्यते न तावत्संबध्यत इति द्वयोः संबन्धं प्रति समानबलत्वात्क्रमप्रकरणयोः समुच्चयासंभवाच्च विकल्पेन राजसूयाभिषेचनीययोर्विनियोगः शौनःशेपोपाख्यानादीनामिति प्राप्तम् / एवं प्राप्त उच्यते-राजसूयके कथंभावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते / यथाच-ऽअविच्छिन्ने कथंभावे यत्प्रधानस्य पठ्यते / अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गता ऽइति न्यायाद्राजसूयाङ्गता शौनःशेपोपाख्यानादीनाम् / अभिषेचनीयस्य तु स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्य संनिधिपाठेनाकाङ्क्षोत्थापनीया यावत्तावत्सिद्धाकाङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते / यावच्चाभिषेचनीयाकाङ्क्ष्या तदेकवाक्यता कल्प्यते तावत्कॢप्तया राजसूयैकवाक्यता तदुपकारतया सामर्थ्यलक्षणं लिङ्गं यावच्चाभिषेचनीयैकवाक्यतया लिङ्गं कल्प्यते तावत्कॢप्तलिङ्गं विनियोक्रीं श्रुतिं कल्प्यति यावद्वाक्यकल्पितेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रकरणपाठोपपत्तौ संनिधानपरिकल्पितमन्तरा विलीयते / प्रमाणाभावे ऽप्रतिपत्वात् / प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धिसांनिध्येन तत्संनिधेरकल्पनीयत्वात् / तस्मात्प्रकरणविरोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् //
SK
क्रमसमाख्ययोर्विरोधोदाहरणम्-पौरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र संदिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, आहो सान्नाय्यपात्राणां शुन्धने क्रमो बलीयानिति / किन्तावत्प्राप्तम् / समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरोडाशसंबन्धीनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् / ततश्च
SK
यावत्क्रमेण प्रकरणाद्यनुमानपरम्परया संबन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरोडाशपात्रशुन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशुन्धन इति प्राप्तम् / एवं प्राप्ते ऽभिधीयते-समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति / तथाहि-समाख्या न तावत्संबन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह / तद्विशिष्टत्वान्यथानुपपत्त्या तु संबन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रबेदस्य / तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् / न चासौ संबन्धो ऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते / अपि तु संबन्धमात्रम् / तस्माच्छ्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता / तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरणापादितैदमर्थ्यस्य शौनःशेपोपाख्यानादिवच्चारादुपकारकतया प्रकृतमात्रसंबन्धानुपपत्तिः / मन्त्रस्य प्रयोगसमवेतार्थस्मारणेन सामवायिकाङ्गत्वात् / तथाच यं
SK
कञ्चित्प्रकृतप्रयोगगतमर्थं प्रकाशयतो ऽस्य प्रकरणाङ्गत्वमविरुद्धमिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रकरणाद्यनुमानद्वारेण विनियोगं कल्पयितुमुत्सहते न तु समाख्यानम् / तस्य दुर्बलत्वात् / तथाहि-समाख्या संबन्धनिबन्धना सति तत्सिध्यर्थं संनिधिमुपकल्पयति यावत्ताद्वैदिकेन प्रत्यक्षदृष्टेन संनिधानेनाकाङ्क्षा कल्प्यते / यावच्च कॢप्तेन संनिधानेनाकाङ्क्षा कल्प्यते तावदितरत्र कॢप्तयाकाङ्क्षयैकवाक्यता यावच्च कॢप्तयाकाङ्क्षैकवाक्यता तावदितरत्रैकवाक्यतया कॢप्तयोपकारसामर्थ्यम् / यावच्चात्रैकवाक्यतयोपकारसामर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः / यावदत्र लिङ्गेन विनियोजिका श्रुतिस्तावदितरत्र कॢप्तया श्रुत्या विनियोग इति तावतैव
SK
प्रकरणपाठोपपत्तेः सर्वं समाख्यानकल्पितं विच्छिन्नमूलत्वाल्लूयमानशस्यमिव निर्बीजं भवति / पुरोडाशाभिधायकमन्त्राबाहुल्यात्काण्डस्य पौरोडाशिकसमाख्येति मन्तव्यम् / ऽएकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम् / श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते //
SK
ऽइत्यर्थविप्रकर्ष उक्तः / तत्रापि च ऽबाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा / मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया //
SK
ऽइति विशेष उक्तो वृद्धैः / तद्वयं विस्तराद्बिभ्यतो ऽपि प्रथमतन्त्रानभिज्ञानुकम्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते / तस्माद्यथानुज्ञापनानुज्ञयोः प्रज्ञातक्रमयोरुपहूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देशसामान्यात्तथैवाङ्गतया प्राप्नुतः / उपहूत इति लिङ्गतो ऽनुज्ञामन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्गतो ऽनुज्ञापनो च मन्त्रो नानुज्ञायाम् / तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते / यावद्धि स्थानेन प्रकरणमुत्पाद्यैकवाक्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अकल्पितलिङ्गश्रुतेः क्रमस्य बाधः / तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति / यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः / नहि लिङ्गेनाभिचारिककर्मसंबन्धः विद्यासंबन्धेन क्रमकृतेन विरुध्यते / नच विनियुक्तविनियोगलक्षणो ऽत्र विरोधो बृहस्पतिसवे ऽपि तत्प्रसङ्गात् / अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगे ऽपि तुल्यः / तस्मादविरोधाद्वेधादिमन्त्रस्योपासनाङ्गत्वमित्यस्त्यभ्यधिका शङ्का / तत्रोच्यते-ऽनहि लिङ्गविरोधेन क्रमबाधो ऽभिधीयते / किन्तु लिङ्गपरिच्छिन्ने न क्रमः कल्पनाक्षमःऽ / प्रकरणपाठोपपत्त्या हि श्रुतिलिङ्गत्वाक्यप्रकरणैरविनियुक्तः क्रमेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्राणालिकया विनियुज्यते / तदा विनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् / उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न
SK
स्वोचितां प्रमामुत्पादयितुमर्हति प्रमित्साभावादिति / बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातुसंबन्धाधिकारकात्समानकर्तृकतायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् / तदिदमुक्तम्- वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरमिति / अपि चैको ऽयं प्रवर्ग्य इति / तुल्यबलतया बृहस्पतिसवस्य तुल्यताशङ्कापाकरणद्वारेण समुच्चयो न तु पृथगुक्तितया परस्परापेक्षत्वादिति / संनिधिपाठमुपपादयति- अरण्यादिवचनवादिति
SK
START Bस्VBह्_३,३.१५.२६
SK
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम् | BBस्_३,३.२६ |
SK
यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्राप्युपायनमात्रश्रवणं तत्रापि नान्तरीयकतया हानमाक्षिप्तमित्यस्ति संनिपातः / यत्र तु हानमात्रं सकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं संनिपतेन्न वेति संशयः / अत्र पूर्वपक्षं गृह्णाति- असंनिपात इति / स्यादेतत् / यथा श्रूयमाणमेकत्र शाखायामुपासनाङ्गं तस्मिन्नेवोपासने शाखान्तरे ऽश्रूयमाणमुपसंह्रियते / एवं शाखान्तरश्रुतमुपायनमुपसंहरिष्यत इत्यत आह- विद्यान्तरगोचरत्वाच्चेति / एकत्वे ह्युपासनकर्मणामन्यत्र श्रुतानामप्यन्यत्र समवायो घटते / न त्विहोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः / ननु यथोपायनं श्रुतं हानमुपस्थापयत्येवं हानमपि उपायनमित्यत आह- अपि चात्मकर्तृकमिति / ग्रहणं हि न स्वामिनो ऽपगममन्तरेण भवतीति ग्रहणादपगमसिद्धिरवश्यंभाविनी /
SK
अपगमस्त्वसत्यप्यन्येन ग्रहणे दृष्टो यथा प्रायश्चित्तेनापगतिरेनस इति / कर्तृभेदकथनं त्वेतदुपोद्बलानार्थं न पुनरवश्यंभावस्य प्रयोजकमुपायनेनानैकान्त्यादिति / सिद्धान्तमुपक्रमते- अस्यां प्राप्ताविति / अयमस्यार्थः-कर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् / यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया संकीर्त्यते तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्रतीयमानं परित्यक्तुमशक्यम् / तथाच विधूतयोः सकृतदुष्कृतयोर्निर्गुणायां
SK
विद्यायामश्वरोमादिवत्किं भवत्वित्याकाङ्क्षायां न तावत्प्रायश्चित्तेनेव तद्विलयसंभवस्तथा सत्यश्वरोमराहुदृष्टान्तानुपपत्तेः / न जात्वश्वरोमराहुमुखयोर्विलयनमस्ति / अपि त्वश्वचन्द्राभ्यां विभागः / नच नष्टे
SK
विधूननप्रमोचनार्थसंभवः / तस्मादर्थवादस्यापेक्षायां शब्दसंनिधिकृतो ऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति / निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या / स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् / अप्रकर्षे ऽपि स्तुत्युपपत्तेः / न चार्थवादान्तरापेक्षार्थवादान्तराणां न दृष्टा / नच तैर्न पूरणमित्याह- प्रसिद्धा चेति / विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्येति / यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितुर्वैश्वानरीयेष्टिः पुत्रस्य / नार्याश्च सुरापानं भर्तुर्नरकम् / तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षादन्यस्मिन्न संभवत इत्याशयेन शङ्का / फलतः प्राप्त्या स्तुतिरिति परिहारः / गुणोपसंहारविवक्षायाम् इत्यपि न स्वरूपतः सुकृतदुष्कृतसंचाराभिप्रायम् / ननु विद्यागुणोपसंहाराधिकारे को ऽयमकाण्डे स्तुत्यर्थविचार इतिशङ्कामुपसंहारन्नपाकरोति- तस्माद्गुणोपसंहारविचारप्रसङ्गेनेत् इ / विद्यागुणोपसंहारप्रसङ्गतः स्तुतिगुणोपसंहारो विचारितः / प्रयोजनं चोपासके सौहार्दमाचरितव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छादनादाच्छन्दो भवति / यथैव चाविशेषेणोपगानमिति / ऋत्विज
SK
उपगायन्तीत्यविशेषेणोपगानमृत्विजाम् / भाल्लविनस्तु विशेषेण नाध्वर्युपगायतीति / तदेतस्माद्भाल्लविनां वाक्यमृत्विज उपगायन्तीत्येतच्छेषं विज्ञायते / एतदुक्तं भवति-अध्वर्युवर्जिता ऋत्विज उपगायन्तीति / कस्मात्पुनरेवं व्याख्यायते / ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह- श्रुत्यन्तरकृतमिति / अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेषत्वमत्रभवतो जैमिनेरपि संमतमित्याह- तदुक्तं द्वादशलक्षण्याम् / ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइत्येतदेव सूत्रमर्थद्वारेण पठति- अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्स चान्याय्य इति शेषः / एवं किल श्रूयते-ऽएष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञे ऽन्वायत्तऽइति / ततो नानुयाजेषु येयजामहं करोतीति / तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येयजामहकरणमुपदिष्टम् / तदुपदिश्य चाम्नातं नानुयाजेष्विति / तत्र संशयः-किं विधिप्रतिषेधयोर्विकल्प उत पर्युदासो ऽनुयाजवर्जितेषु येयजामहः कर्तव्य इति / मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधे विकल्पः / दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति / तस्य तत्रौदासीन्यात् / निषेधशास्त्रं तु तादात्विकं सौन्दर्यमबाधमानमेव प्रवृत्त्युन्मुखं नरं निवारयदायत्यामस्य दुःखफलत्वमवगमयति / यथाह-ऽअकर्तव्यो दुःखफलःऽइति / ततो रागतः प्रवृत्तमप्यायत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो गारतः प्रवृत्तेरिति न तया विकल्पमर्हति / शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोडशिग्रहणवद्विकल्प्येते / तत्र हि विधिदर्शनात्प्रधानस्योपकारभूयस्त्वं कल्प्यते / निषेधदर्शनाच्च वैगुण्ये ऽपि
SK
फलसिद्धिरवगम्यते / तथाह-ऽअर्थप्राप्तवदिति चेन्न तुल्यत्वादुभयं शब्दलक्षणंऽइति / नच वाच्यं यावद्यजतिषु येयजामहकरणं यावद्यजतिसामान्यद्वारेणानुयाजं यजतिविशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामान्यशास्त्राद्विशेषनिषेधो बलवानिति / यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति / तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्तिपूर्वकत्वाप्रतिषेधस्य येयजामहस्य चान्यतो ऽप्राप्तेस्तन्निषेधेन निषेधप्राप्त्यै तद्विधिरपेक्षणीयः / नच सापेक्षतया निषेधाद्विधिरेव बलीयानित्यतुल्यशिष्टतया न विकल्पः किन्तु निषेधस्यैव बाधनमिति सांप्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् / नच तद्युक्तं तुल्यं हि सांप्रदायिकम् / नच न तौ पशौ करोतीतिवदर्थवादता / असमवेतार्थत्वात् / पशौ हि नाज्यभागौ स्त इत्युपपद्यते / न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् / अनुयाजानां च तद्भावात् / नच पर्युदासस्तदाननुयाजेष्विति, कात्यायनमतेन नियमप्रसक्तेः / तस्माद्विहितप्रतिषिद्धतया विकल्प इति प्राप्तम् / एवं प्राप्त उच्यते-उक्तं षोडशिग्रहणयोर्विकल्प इति / नहि तत्रान्या गतिरस्ति / तेनाष्टादोषदुष्टो ऽपि विकल्प आस्थीयते पक्षे ऽपि प्रामाण्यान्मा भूत्प्रमतगीततेति / इह तु पर्युदासेनाप्युपपत्तौ संभवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् / एवं हि तदा नञः संबन्धो ऽननुयाजेषु यजतिष्वनुयाजवर्तितेषु येयजामहः कर्तव्य इति / किमतो यद्यवम् / एतदतो भवति-नानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साकाङ्क्षं पूर्ववाक्यैकदेशेन संभन्त्स्यते यदेतद्येयजामहङ्करोतीत्येतन्नानुयाजेषु यावदुक्तं स्यादनुयाजवर्जितेष्विति तावदुक्तं
SK
भवति नानुयाजेष्विति / तथाच यजितिविशेषणार्थत्वादननुयाजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पः / न चाभियुक्ततरपाणिनिविरोधे कात्यायनस्यासद्वादित्वं नित्यसमासवादिनः संभवति / स हि विभाषाधिकारे समासं शास्ति / तस्मादनुयाजवर्जितेषु येयजामहविधानमिति सिद्धम् /
SK
वर्णकान्तरमाह- अथवैतास्विति / यथा हि सुकृतदुष्कृतयोरमूर्तयोः कल्पनं नाञ्जसं मूर्त्यनुविधायित्वात्कम्पस्य / तथान्यदीययोरन्यत्र संचारो ऽप्यनुपपन्नो ऽमूर्तत्वादेव / तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वकार्यारम्भाच्चालनमात्रमेव लक्ष्यतां न तु ततो ऽपगत्यान्यत्र संचारः कल्पनागौरवप्रसङ्गात् / तस्मात्स्वकार्यारम्भाच्चालनं विधूननमिति प्राप्ते ऽभिधीयते-यत्र तावदुपायनश्रुतिस्तत्रावश्यं त्यागो विधूननं वक्तव्यम् / क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति / एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत / न चैतदस्ति / तत्रापि स्वकार्याच्चालनस्य लक्ष्यमाणत्वात् / नच प्रामाणिकं कल्पनागौरवं लोहगन्धितामाचरति / अपिचानेकार्थत्वाद्धातूनां त्यागे ऽपि विधूयते मुख्यमेव भविष्यति / प्राचुर्येण त्यागे ऽपि लोके प्रयोगदर्शनात् / विनिगमनहेतोरभावात् / गणकारस्य चोपलक्षणत्वेनाप्यर्थनिर्देशस्य तत्र दर्शनात् / तस्माद्धानार्थ एवात्रेति युक्तम्
SK
START Bस्VBह्_३,३.१६.२७
SK
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये | BBस्_३,३.२७ |
SK
ननु पाठक्रमादर्धपथे सुकृतदुष्कृततरणे प्रतीयेते / विद्यासामर्थ्याच्च प्रागेवावगम्येते / तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः / श्रुत्यर्थौ च पाठक्रमाद्बलीयांसौ, ऽअग्निहोत्रं जुहोति यवागूं पचतिऽइत्यत्र यथा / तस्मात्पूर्वपक्षाभावादनारभ्यमेतत् / अत्रोच्यते / नैतत्पाठक्रममात्रमपि तु श्रुतिस्तत्सुकृतदुष्कृते विधूनुत इति / तदिति हि सर्वनाम तस्मादर्थे सन्निहितपरामर्शकं तस्य हेतुभावमाह / सन्निहितं च यदनन्तरं
SK
श्रुतम् / तच्चार्धपथवर्ति विरजानदीमनो ऽभिगमनमित्यर्धपथ एव सुकृतदुष्कृतत्यागः / नच श्रुत्यन्तरविरोधः / अर्धपथे ऽपि पापविधूनने ब्रह्मलोकसंभवात्प्राक्कालतोपपत्तेः / एवं शाठ्यायनिनामप्यविरोधः / नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् / तथा चार्धपथ एव सुकृतदुष्कृतविमोकः / एवञ्च न पर्यङ्कविद्यातस्तत्प्रक्षय इति पूर्वः पक्षः / राद्धान्तस्तु विद्यासामर्थ्यविधूतकल्मषस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रक्षीणकल्मषस्योत्तरमार्गगमनं संभवति / यथा यवागूपाकात्प्राग्नाग्निहोत्रम् / यमनियमाद्यनुष्ठानसहिताया विद्याया उत्तरेण मार्गेण पर्यङ्कस्थब्रह्मप्राप्त्युपायत्वश्रवणात् / अप्रक्षीणपाप्मनश्च तदनुपपत्तेः / विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषयः / तस्मात्पाठक्रमबाधेनार्थक्रमो ऽनुसर्तव्यः / ननु न पाठक्रममात्रमत्र, तदिति सर्वनामश्रुत्या संनिहितपरामर्शादित्युक्तम् / तदयुक्तं, बुद्धिसंनिधानमात्रमत्रोपयुज्यते नान्यत्, तच्चानन्तरस्येव विद्याप्रकरणाद्विद्याया अपीति समाना श्रुतिरुभयत्रापीति / अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति / नच ताण्ड्यादिश्रुत्यविरोधः पूर्वपक्षे / अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम्, तस्मात्तद्विरोधः
SK
START Bस्VBह्_३,३.१६.२८
SK
छन्दत उभयाविरोधात् | BBस्_३,३.२८ |
SK
केभ्यश्चित्पदेभ्य इदं सूत्रम् / ननु यथा परेतस्योत्तरेण पथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्धपथे सुकृतदुष्कृतहानिरपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् / तद्व्याचष्टे- यदि च देहादपसृप्तस्येति / विद्याफलमपि ब्रह्मप्राप्तिर्नापरेतस्य भवितुमर्हति शङ्कापदेभ्यः / यथाहुः-नाजनित्वा तत्र गच्छन्तीति / सुकृतदुष्कृतप्रक्षयस्तु सत्यपि नरशरीरे संभवतीति समर्थस्य हेतोर्यमनियमादिसहिताया विद्यायाः कर्यक्षयायोगाद्युक्तो जीवत एव सुकृतदुष्कृतक्षय इति सिद्धम् / छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् / स्वेच्छयानुष्ठानं यमनियमादिसहिताया विद्यायाः / तस्य जीवतः पुरुषस्य स्यान्न मृतस्य / तत्पूर्वकं चसुकृतदुष्कृतहानं स्याज्जीवत एव / समर्थस्य क्षेपायोगात् / एवं कारणानन्तरं कार्योत्पादे सति निमित्तनैमित्तकयोस्तद्भावस्योपपत्तिस्ताण्डिशाठ्यायनिश्रुत्योश्च संगतिरितरथा स्वातन्त्र्याभावेनासंगतिरुक्ता स्यात् / तदनेनोभयाविरोधो व्याख्यातः / ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र संक्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः / छन्दतः संकल्पत इति श्रुतिस्मृत्योरविरोधादेव / न त्वत्रागमगम्येर्ऽथे स्वातन्त्र्येण युक्तिर्निवेशनीयेते / तेषामधिकरणशरीरानुप्रवेशे संभवत्यर्थान्तरोपवर्णनमसङ्गतमेवेति
SK
START Bस्VBह्_३,३.१७.२९.-३० गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः | BBस्_३,३.२९ | यथा हानिसंनिधावुपायनमन्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपायनमुपस्थापयत्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृतहानिः केवला श्रुता तत्रापि देवयानं पन्थानमुपस्थापयितुमर्हति / नच निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः / देवयानेन पथा ब्रह्मलोकप्राप्तौ निरञ्जनस्य परमसाम्योपपत्तेः / तस्माद्धानिमात्रे देवयानः पन्थाः संबध्यत इति प्राप्तम् / एवं प्राप्त उच्यते-विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधूतपुण्यपापस्य विद्यया क्षेमप्राप्तिमाह / भ्रमनिबन्धनो ऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनीयः / नासौ देशविशेषमपेक्षते / नहि जातु रज्जौ सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देशविशेषमपेक्षते / विद्योत्पादस्यैव स्वविरोध्यविद्यानिवृत्तिरूपत्वात् / नच विद्योत्पादाया ब्रह्मलोकप्राप्तिरपेक्षणीया / यमनियमादिविशुद्धसत्त्वस्येहैव श्रवणादिभिर्विद्योत्पादात् / यदि परमारब्धकार्यकर्मक्षपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीहार्थ इति श्रुतिदृष्टविरोधान्नापेक्षितव्य इति / अस्ति तु पर्यङ्कविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति / ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति / गतेरर्थवत्त्वमुभयथा दुष्कृतनिवृत्त्या सुकृतनिवृत्त्या च / यदि पुनः पुण्यमनुवर्तेत ब्रह्मलोकगतस्यापीह पुण्यफलोपभोगायवृत्तिः स्यात् / तथा चैतेन प्रतिपाद्यमानागत्यनावृत्तिश्रुतिविरोधः / तस्माद्दुष्कृतस्येव सुकृतस्यापि प्रक्षय इति तैः पुनरनाशङ्कनीयमेवाशङ्कितम् / विद्याक्षिप्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति / नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना / तस्माद्वृद्धोक्तमेवोपवर्णनं साध्विति
SK
START Bस्VBह्_३,३.१७.३१
SK
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम् | BBस्_३,३.३१ |
SK
प्रकरणं हि धर्माणां नियामकम् / यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः संकीर्येरन् / नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः / सर्वत्रौपदेशिकत्वात् / नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् / नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् / न चैवं सति श्रुत्यादयो ऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसंबन्धे सति विनियोजकत्वात् / यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगो ऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् / तस्मात्प्रकरणं विनियोगाय
SK
तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः / तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् / नच ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽइति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः / श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् / अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे / विद्यान्तरे च श्रूयते / तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् / एवं प्राप्ते उच्यते-ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽइति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति / तथान्यत्रापि पञ्चाग्निविद्याधिकारे ऽभिधीयते-ऽय एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽइति / सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् / तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् / पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् / विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् / मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् / तत्रापि च योग्यतया देवयानस्यैवेहाध्वनो ऽभिसंबन्धः / एतदुक्तं भवति-भवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् / तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति
SK
START Bस्VBह्_३,३.१९.३२
SK
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् | BBस्_३,३.३२ |
SK
सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति / निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति / श्रुतिस्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते / तदपवर्गफलत्वे नोपपद्यते / अपवृक्तस्य तदनुपपत्तेः / उपपत्तौ वा तल्लक्षणायोगात् / अपुनरावृत्तिर्हि तल्लक्षणम् / तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः / फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् / अपुनरावृत्तिश्रुतिः पुनस्तत्प्रशंसार्थेति मन्यते / नच ऽतावदेवास्य चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽइति श्रुतेर्विदुषो देहपातावधिप्रतीक्षावद्वसिष्ठादीनामपि प्रारब्धकर्मफलोपभोगप्रतीक्षेति सांप्रतम् / येन हि कर्मणा वसिष्ठादीनामारब्धं शरीरं तत्प्रतीक्षा स्यात् / तथाच न शरीरान्तरं ते गृह्णीयुः / नच तावदेव चिरमित्येतदप्यार्जवेन घटते / समर्थहेतुसंनिधौ क्षेपायोगात् / तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् / तस्मान्नापवर्गो विद्याफलम् / तथा चापवर्गाक्षेपेण पूर्वः पक्षः / अत्र च पाक्षिकं मोक्षहेतुत्वमित्यापाततः, अहेतुत्वं वेति तु पूर्वपक्षतत्त्वम् / राद्धान्तस्तु-विद्याकर्मस्वनुष्ठानतोषितेश्वरचोदितम् / अधिकारं समाप्यैते प्रतिशन्ति परं पदम् //
SK
निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यायमुचितम् / पौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् / नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् / उक्तं हि ऽन विधौ परः शब्दार्थऽइति / नच विदुषामपान्तरतमःप्रभृतीनां तत्तद्देहसंतारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् / हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपकारोति / नहि वृन्तफलसंयोगप्रतिबद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः / नच न सेतुप्रतिबन्धानामपां निम्नदेशानभिसर्पणमिति सेतुभेदे न निम्नमभिसर्पन्ति / तद्वदिहापि विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति / यथा हि प्रारब्धविपाकस्य कर्मणः प्रक्षयं प्रतीक्षमाणश्चरमदेहसमुत्पन्नब्रह्मसाक्षात्कारो ऽपि ध्रियते ऽथ तत्प्रक्षयान्मोक्षं प्राप्नोति / एवं प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुषो वसिष्ठादिर्विद्वानपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्तद्देहपरिग्रहपरित्यागौ कुर्वन्मुक्तो ऽप्यनाभोगात्मिकया प्रख्यया सांसारिक अव विहरति / तदिदमुक्तम्- सकृत्प्रवृत्तमेव हि ते कर्माशयमधिकारफलदानायेति / प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानिज्ञानेनैवातिवाहितानि / न चैते जातिस्मरा इति / यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्वजन्मानुभूतस्य स्मरति स जन्मवाञ्जातिस्मरश्च / गृहादिव गृहान्तरे स्वेच्छया कायान्तरं संचरमाणो न जातिस्मर आख्यायते / व्युद्य विवादं कृत्वा / व्यतिरेकमाह- यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तरमप्रारब्धविपाकमिति / स्येदेतत् / विद्ययाविद्यादिक्लेशनिवृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिनरनादिभवपरम्पराहितस्यानियतविपाककालस्यासङ्ख्येयत्वात्कार्मशयस्येत्यत आह- न चाविद्यादिक्लेशदाहे सतीते / नहिसमाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् / तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् / तथाच न विदुषो वसिष्ठादेर्देहधारणेत्यत आह- प्रवृत्तफलस्य तु कर्मण इति / तस्य तावदेव चिरमिति श्रुतिप्रामाण्यादनागतफलमेव कर्म क्षीयते न प्रवृत्तफलमित्यवगम्यते / अपिच नाधिकारवतां सर्वेषामृषीणामात्मतत्त्वज्ञानं तेनाव्यापको ऽप्ययं पर्वपक्ष इत्याह- ज्ञानान्तरेषु चेति / तत्किन्तेषामनिर्मोक्ष एव, नेत्याह- ते पश्चादैश्वर्यक्षय इति / निर्विण्णा विरक्ताः / प्रतिसंचरः प्रलयः / अपिच स्वर्गादावनुभवपथमनारोहति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलत्वं प्रति / यथा चार्थवादः-ऽको हि तद्वेद यदमुष्मिंल्लोके ऽस्ति वा न वेतिऽ / अद्वैतज्ञानफलत्वे मोक्षस्यानुभवसिद्धे विचिकित्सागन्धो ऽपि नास्तीत्याह- प्रत्यक्षफलत्वाच्चेति / अद्वैततत्त्वसाक्षात्कारो हि अविद्यासमारोपितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसाराङ्गारपरितापमुपशमयति पुरुषस्येत्यनुभवादपि स्फुटमुपपतिद्रढिम्नश्च श्रुतिर्दर्शिता / तच्चानुभवाद्वामदेवादीनां सिद्धम् / ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह- नहि तत्त्वमसीत्यस्येति / वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चाशक्य इत्यर्थः
SK
START Bस्VBह्_३,३.२०.३३
SK
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् | BBस्_३,३.३३ |
SK
अक्षगविषयाणां प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उपसंहारः प्रतिषेधसामान्यादक्षरस्य तद्भावप्रत्यभिज्ञानात् / आनन्दादयः प्रधानस्येत्यत्रायमर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्धस्तन्त्र्यायतया च निषेधरूपेष्विति सिद्ध एव / तथापि तस्यैवैष प्रपञ्चो ऽवगन्तव्यः / निदर्शनम् / जामदग्न्ये ऽहीन इति / यद्यपि शाबरे दत्तोत्तरमत्रोदाहरणान्तरं तथापि
SK
तुल्यन्यायतयैदपि शक्यमुदाहर्तुमित्युदाहरणान्तरं दर्शितम् / तत्र शाबरमुदाहरणमस्त्याधानं यजुर्वेदविहितम्-ऽय एवं विद्वानग्निमाधत्तऽइति / तदङ्गत्वेन यजुर्वेद एव ऽय एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतिऽइति विहितम् / एतानि च
SK
सामानि सामवेदेषूत्पन्नानि / तत्रेदं संदिह्यते-किमेतानि यत्रोत्पद्यन्ते तत्रत्यैनेवोच्चैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्येनोपांशुत्वेन स्वरेण ऽउच्चैः साम्नोपांशु यजुषा इति श्रुतेः / किं तावत्प्राप्तम् / उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गनां तस्यैव प्राथम्यात्तन्निबन्धन एवोच्चैःस्वरे प्राप्त उच्यते- गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः / अयमर्थः-उत्पत्तिविधिर्गुणो विनियोगविधिस्तु प्रधानं, तदनयोर्व्यातिक्रमे विरोधे उत्पत्तिविध्यालोचनेनोच्चैष्ट्वं विनियोगविध्यालोचनेन चोपांशुत्वं सो ऽयं विरोधो व्यतिक्रमस्तस्मिन्वयतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वारवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन / कुतः, विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन तदर्थत्वाद्विनियुज्यमानार्थत्वादुत्पद्यमानत्वस्य / एतदुक्तं भवति-यद्यप्युत्पत्तिविधावपि चातूरूप्यमस्ति विधित्वस्याविशेषात् / तन्मात्रनान्तरीयकत्वाच्च चातूरूप्यस्य / तथापि वाक्यानामैदंपर्यं भिद्यते / एकस्यैव विधेरुत्पत्तिविनियोगाधिकारप्रयोगरूपेषु चतुर्षु मध्ये किञ्चिदेव रूपं केनचिद्वाक्येनोल्लिख्यते यदन्यतो ऽप्राप्तम् / तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् / तथाचोत्पत्तिवाक्येभ्यः समीहितार्थाप्रतिलम्भाद्विनियोगवाक्येभ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साधनत्वंसंस्पर्शिनो ग्रहणं न तु रूपमात्रस्पर्शिन इति / भाष्यकारीयमप्युदाहरणमेवमेव योजयितव्यम् / उद्रातृवेदोत्पन्नानां मन्त्रणामुद्गात्रा प्रयोगे प्राप्ते
SK
अध्वर्युप्रदानके ऽपि पुरोडाशे विनियुक्तत्वात्प्रधानानुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति- एवमिहापीति
SK
START Bस्VBह्_३,३.२०.३४
SK
इयदामननात् | BBस्_३,३.३४ |
SK
ऽगुहां प्रविष्टावात्मानौऽइत्यत्र सिद्धो ऽप्यर्थः प्रपञ्च्यते / एकत्र भोक्त्रभोक्त्रोर्वेद्यता, अन्यत्र भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेद इति / नच सृष्टिरुपदधातीतिवत्पिबदपिबल्लक्षणापरं पिबन्ताविति नेतुमुचितम् / सति मुख्यार्थसंभवे तदाश्रयणायोगात् / नच वाक्यशेषानुरोधात्तदाश्रयणम् / संदेहे हि वाक्यशेषान्निर्णयो नच मुख्यलाक्षणिकग्रहणविषयो विषयः संभवति, तुल्यबलत्वाभावात् / प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् / तस्माद्वेद्यभेदाद्विद्याभेद इति प्राप्त उच्यते-द्वासुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च द्वित्वसंख्योत्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी / पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंहारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया / येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् / यथा जामित्वदोषसंकीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च संदर्भे मध्यपातिनो विष्णुरूपांशु यष्टव्यो ऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधित्वमविवक्षित्वार्थवादतया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति / तथेहापि तदनुरोधेन पिबदपिबत्समूहपरं लक्षणीयं पिबन्तावित्यनेन / तथाच वेद्याभेदाद्विद्याभेद इति / अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रये ऽपि पौर्वापर्यपर्यालोचनया परमात्मविद्यैवावगम्यते / यद्येवं कथं तर्हि जीवोपादानमस्त्वित्यत आह- तादात्म्यविवक्षयेति / नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनो ऽभेदं जीवस्य दर्शयितुमसावनूद्यते / परमात्मविद्यायाश्चाभेदविषयत्वान्न भेदाभेदविचारावतारः / तस्मादैकविद्यमत्र सिद्धम्
SK
START Bस्VBह्_३,३.२२.३५
SK
अन्तरा भूतग्रामवत्स्वात्मनः | BBस्_३,३.३५ |
SK
कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः / कुतः-यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः / न चैकस्यैव ताण्डिनां नवकृत्व उपदेशे ऽपि यथा भेदो न भवति ऽस आत्मा तत्त्वमसि श्वेतकेतोऽइत्यत्र तथेहाप्यभेद इति युक्तम् / भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते / न चेह तथास्ति / तेन यद्यपीह वेद्याभेदो ऽवगम्यते
SK
तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते / नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते / किमतो यद्येवम् / एतदतो भवति-विधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः / वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वो ऽपि हि पथ्यं वदन्त्याप्ताः / विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः / नच सर्वथा पौनरुक्त्यम् / एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् / तस्मादेका विद्या प्रत्यभिज्ञानात् / उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः
SK
START Bस्VBह्_३,३.२२.३६
SK
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत् | BBस्_३,३.३६ |
SK
अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः / सुगममन्यत्
SK
START Bस्VBह्_३,३.२३.३७
SK
व्यतिहारो विशिंषन्ति हीतरवत् | BBस्_३,३.३७ |
SK
उत्कृष्टस्य निकृष्टरूपापत्तेर्नोभयत्रोभयरूपानुचिन्तनम् / अपि तु निकृष्टे जीव उत्कृष्टरूपाभेदचिन्तनम् / एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् / एवं प्राप्त उच्यते-इतरेतरानुवादेनेतरेतररूपविधानादुभयत्राभयचिन्तनं विधीयते / इतरथा तु यो ऽहं सो ऽसावित्येतावदेवोच्येत / जीवात्मानमनूद्येश्वरत्वमस्य विधीयेत / न त्वीश्वरस्य जीवात्मत्वं यो ऽसौ सो ऽहमिति / यथा तत्त्वमसीत्यत्र / तस्मादुभयरूपमुभयत्राध्यानायोपदिश्यते / नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्मण्युपास्यमाने ऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति / कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृष्टतामापादयतीति चेदिहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय न तु निकृष्टता भवत्युत्कृष्टस्य / अन्वाचयशिष्टं तु तादात्म्यदार्ढ्यं भवन्नोपेक्षामहे / सत्यकामादिगुणोपदेशैव तद्गुणेश्वरसिद्धिरिति सिद्धमुभयत्रोभयात्मत्वाध्यानमिति
SK
START Bस्VBह्_३,३.२४.३८
SK
सैव हि सत्यादयः | BBस्_३,३.३८ |
SK
तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इत्यसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म / पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनमनेन संदर्भेण विधीयते / तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति / एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति / तत्तादाग्रे आस बभूव /
SK
किं तदित्यत आह-सत्यमेव / सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् / तदुपासकस्य फलमाह-स यो हैतमिति / यः प्रथमजं यक्षं पूज्यं वेद / कथं वेदेत्यत आह-सत्यं ब्रह्मेतीति / स जयतीमान् लोकान् / किञ्च जितो वशीकृत इनुशब्द इत्थंशब्दस्यार्थे वर्तते / विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशति-असाविति / असद्भवेन्नश्येत् / उक्तमर्थं निगमयति-य एवमेतदिति / एवं विद्वान्कस्माज्जयतीत्यत आह-सत्यमेव यस्माद्ब्रह्मेति / अतस्तदुपासनात् फलोत्पादो ऽपि सत्य इत्यर्थः / तद्यत्तत्सत्यं किमसौ / अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ / कस्मिंन्नालम्बने तदुपासनीयमित्यत उत्तरम्-स आदित्यो य एष इत्यादिना तस्योपनिषदहरहमिति / हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन / उपनिषत् रहस्यं नाम / तस्य निर्वचनं-हन्ति पाप्मानं जहाति चेति / हन्तेर्जहातेर्वा रूपमेतत् / तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति / तमिमं विषयमाह भाष्यकारः- यो वै हैतमिति / सनामाक्षरोपासनामिति / तथाच श्रुतिः-ऽतदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतो ऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्तिऽइति / तीतीकारानुबन्ध उच्चारणार्थः / निरनुबन्धस्तकारो द्रष्टव्यः / अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्युरूपाभावात् / मध्यतो मध्ये ऽनृतमनृतं हि मृत्युः / मृत्य्वनृतयोस्तकारसाम्यात् / तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् / अन्तर्भावितं सत्यरूपाभ्याम् / अतो ऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति / शेषमतिरोहितार्थम् / सेयं सत्यविद्यायाः सनामाक्षरोपासनता / यद्यपि तद्यत्सत्यमिति
SK
प्रकृतानुकर्षेणाभेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्यकाम्यविषयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः
SK
सत्यप्यनुबन्धाभेदे भेद इति प्राप्ते प्रत्युच्यते-एकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् / नच फलभेदः / तस्योपनिषदहरहमिति तस्यैव यदङ्गान्तरं रहस्यनाम्नोपासनं तत्प्रशंसार्थोर्ऽथवादो ऽयं न फलविधिः / यदि पुनर्विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायामार्थवादिकं फलं कल्प्येत ततो जातेष्टाविवागृह्यमाणविशेषतया
SK
संवलिताधिकारकल्पना ततश्च समस्तार्थवादिकफलयुक्तमेकमेवोपासनमिति सिद्धम् / परकीयं व्याख्यानमुपन्यस्यति- केचित्पुनरिति / वाजसनेयकमप्यक्ष्यादित्यविषयं छान्दोग्यमपीत्युपास्याभेदादभेदः / ततश्च वाजसनेयोक्तानां सत्यादीनामुपसंहार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति- तन्न साध्विति / ज्योतिष्टोमकर्मसंबन्धनीयमुद्गीथव्यपाश्रयेति /
SK
अनुबन्धाभेदे ऽपि साध्यभेदाद्भेद इति विद्याभेदादनुपसंहार इति
SK
START Bस्VBह्_३,३.२५.३९
SK
कामादीतरत्र तत्र चायतनादिभ्यः | BBस्_३,३.३९ |
SK
छान्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुणत्वेन भेदः / तथाहि छान्दोग्ये-ऽअथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान्कामान्ऽइत्यात्मवत्कामानामपि वेद्यत्वं श्रूयते / वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते ऽविमोक्षाय ब्रूहिऽइति तथापि तयोः परस्परगुणोपसंहारः / निर्गुणायां तावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवी / सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणोपसंहारसंभवः / नहि निर्गुणायां
SK
विद्यायामाध्यातव्यत्वेनैते चोदिता येनात्राध्येयत्वेन संबध्येरन्नपि तु सत्यकामादिगुणनान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंहार उच्यते / एवं व्यवस्थित एष संक्षेपो ऽधिकरणार्थस्य-साम्यबाहुल्ये ऽप्येकत्राकाशाधारत्वस्यापरत्र चाकाशतादात्म्यस्य श्रवणाद्भेदे विद्ययोर्न परस्परगुणोपसंहार इति पूर्वपक्षः / राद्धान्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मोपदेशादाकाशशब्देनैकत्रात्मोक्तो ऽन्यत्र च दहराकाशाधारः स एवोक्त इति सर्वसाम्याद्ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः / सगुणनिर्गुणत्वेन तु विद्याभेदे ऽपि गुणोपसंहारव्यवस्था दर्शिता / तस्मात्सर्वमवदातम्
SK
START Bस्VBह्_३,३.२६.४०
SK
आदरादलोपः | BBस्_३,३.४० |
SK
अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् / तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्संबद्धप्रथमभोजनसंबन्धादस्ति संगतिः / विचारगोचरं दर्शयति- छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति / विचारप्रयोजकं संदेहमाह-- किं भोजनलोप इति / अत्र पूर्वपक्षाभावेन संशयमाक्षिपति- तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति / उक्तं खल्वेतत्प्रथम एव तन्त्रे ऽपदकर्माप्रयोजकं नयनस्य परार्थत्वात्ऽइत्यनेन / यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति / तत्कस्य हेतोः / सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति / तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष
SK
इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः / पूर्वपक्षमाक्षिप्य समाधत्ते- एवं प्राप्ते, न लुप्येतेति तावदाह / तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः / पृच्छति- कस्मात् / उत्तरम्-आदरात् / तदेव स्फोरयति- तथाहीति / जाबाला हि श्रावयन्ति-ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात्ऽइति / अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः / ऽयथा हि श्रुधिता बाला मातरं पर्युपासते / एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽइति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वो ऽतिथिभ्यो ऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते / तदेवं सति ऽयथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्ऽइत्यतिथिभोजनस्य प्राथम्यं निन्दित्वास्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति / नन्वाथ्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजने ऽपीत्यत आह- या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहेतेति मन्यते / ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथितिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् / तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः / पूर्वपक्षाक्षेपमनुभाष्य दूषयति- ननु भोजनार्था इति / यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रे ऽपि
SK
नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते / न चैतावता भोजनस्य प्रयोजकत्वम् / उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति / न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि
SK
प्रयोजकत्वात् / यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् / स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते / यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् / शक्यं तु जाघनीवद्भक्तं ज्ञातुम् / तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते / एवं भक्तमपि शक्यमुपादातुम् / तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी / अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वासूचनार्थं भाष्यकारस्य
SK
START Bस्VBह्_३,३.२६.४१
SK
उपस्थिते ऽतस्तद्वचनात् | BBस्_३,३.४१ |
SK
तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् / तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति / जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः / यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति / तदयुक्तम् / विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह- न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति / अपि
SK
चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते / नच संभवे बाधनिचयो न्याय्यः / कृष्णलचरौ खल्वगत्या प्राप्तबाधो ऽभ्युपेयत इत्याह-तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति / चोदकाभावमुपोद्बलयति- अत एव चेहापीति / यत एवोक्तेन क्रमेणातिदेशाभावो ऽत एव सांपादिकत्वमग्निहोत्राङ्गानाम् / तत्प्राप्तौ तु सांपादिकत्वं नोपपद्येत / कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण संपाद्यते / न तु नद्यां चक्रवाकादय एव चक्रवाकादिना संपाद्यन्ते / अतो ऽप्यवगच्छामो न चोदकप्राप्तिरिति / यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् / यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणो ऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः / नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह- नास्ति वचनस्यातिभारः / सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः
SK
START Bस्VBह्_३,३.२७.४२
SK
तन्निर्धारणानियमस् तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् | BBस्_३,३.४२ |
SK
यथैव ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽइत्येतदनारभ्याधीतमव्यभिचारितक्रतुसंबन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति / एवमव्यभिचारितकर्मसंबन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् / परार्थत्वात् / तथाच पारमर्षं सूत्रम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति / एवञ्च सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यते-युक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् / नहि पर्णतानाश्रया यागादिवत्फलसंबन्धमनुभवितुमर्हति / अव्यापाररूपत्वात् / व्यापारस्यैव च फलवत्त्वात् / यथाहुः-ऽउत्पत्तिमतःफलदर्शनात्ऽइति / नापि खादिरतायामिव प्रकृतक्रतुसंबद्धो यूप
SK
आश्रयस्तदाश्रयः प्रकृतो ऽस्ति अनारभ्याधीतत्वात्पर्णतायाः / तस्माद्वाक्येनैव जुहूसंबन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः / न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् / तथाच तत्परं सन्न पर्णतायाः फलसंबन्धमपि गमयितुमर्हति / वाक्यभेदप्रसङ्गात् / उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसंबन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् / फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति / ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति / तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् / मैवम् / नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् / न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः / न चानुपयोगमीप्सितम् / तस्मात्सक्तून्
SK
जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति संबन्धः / तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् / शेषमुक्तं भाष्ये / न चेदं फलश्रवणमर्थवादमात्रमिति / अर्थवादमात्रत्वे ऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे / न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः / अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना / फलपरत्वे त्वस्य
SK
न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति
SK
START Bस्VBह्_३,३.२८.४३
SK
प्रदानवद् एव तद् उक्तम् | BBस्_३,३.४३ |
SK
तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः / नहि गुणभेदे गुणवतो भेदः / नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति / उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः / यथामिक्षावाजिनसंयुक्तयोः कर्मणोः / नोत्पन्नकर्मसंयुक्तः / अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः / तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः / राद्धान्तस्तु-सत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः / सायंप्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् / आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति / अग्निहोत्रस्येवाध्यानस्य कृते तधितण्डुलादिवदयं पृथगुपदेशः / एतेन व्रतोपदेश इति / एतेन तत्त्वाभेदेन / एवकारश्च वागादिव्रतनिराकरणार्थः / नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह- देवतेत्यत्र वायुरिति / वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नो ऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता / सर्वेषामभिगमयन्निति / मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति / सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् / क्रमवति प्रदाने व्यत्यासविधिरर्थवान् / तथाविधस्यैव क्रमस्य विवक्षितत्वात् / सुगममन्यत्
SK
START Bस्VBह्_३,३.२९.४४
SK
लिङ्गभूयस्त्वात् तद् धि बलीयस् तद् अपि | BBस्_३,३.४४ |
SK
इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति / तत्र
SK
यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि / प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति / न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् / न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् / तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् / तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वा ऽपशुना यजेतऽइत्येकत्वसंख्याया अर्थस्य संख्येयावच्छेतसामर्थ्यम् / न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा / स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् / तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति / नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति / येन श्रुतिविरोधे सति न प्रकरणं भवेत्, बाह्यसाधनतापाकरणार्थत्वादवधारणस्य / नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसंबन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति / अन्यार्थदर्शनं खल्वेतदपि / नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् / तस्मात्तदपि न प्रकरणविरोधायालमिति सांपादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् / द्वादशाहे तु श्रूयते-ऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामिऽइति / तत्र संशयः-किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति / तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः / निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति
SK
स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः / त्रयोदशाहे ऽप्यवयुज्य द्वादशसंख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्ते ऽभिधीयते-प्रमाणान्तरेण हि
SK
त्रयोदशत्वे ऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत / न त्वस्ति तादृशं प्रमाणान्तरम् / नच व्यपदेशभेदो ऽहरन्तरत्वं कल्पयितुमर्हति / अङ्गाङ्गिभेदेनापि तदुपपत्तेः / अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः / देवदत्तस्येव दीर्घैः केशैः / पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति / किमिव हि न कुर्याद्वचनमिति / एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते / विसर्गे ऽन्तो ऽन्तवतो धर्मो न स्वतन्त्र इति दशमे ऽहनि मानसाय प्रमर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् / तदिह द्वादशाहसंबन्धिनो दशमस्याह्नो ऽङ्गं मानसमितिं धर्ममीमांसासूत्रकृतोक्तम् / दशरात्रगस्यापि दशमस्याह्नो ऽङ्गमिति भगवन्भाष्यकारः / श्रुत्यन्तरबलेनाह- यथा दशरात्रस्य दशमे ऽहन्यविवाक्य इति / अविवाक्य इति दशमस्याह्नो नाम
SK
START Bस्VBह्_३,३.२९.४५
SK
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् | BBस्_३,३.४५ |
SK
START Bस्VBह्_३,३.२९.४६
SK
अतिदेशाच् च | BBस्_३,३.४६ |
SK
नहि सांपादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् / तस्मादपि न स्वतन्त्र इति प्राप्ते ऽभिधीयते
SK
START Bस्VBह्_३,३.२९.४७
SK
विद्यैव तु निर्धारणात् | BBस्_३,३.४७ |
SK
मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषु ऽवचनानि त्वपूर्वत्वात्ऽइति न्यायाद्विधिरुन्नेतव्यः / तथा चैतेभ्यो यादृशोर्ऽथः प्रतीयते तदनुरूप एव स भवति / प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसंबन्धश्च / न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् / नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् / स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः / तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् / न चैवमर्थत्वे संभवति / द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया / तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् / अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् / ते च भाष्य एव स्फुटाः / यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति / तदुतल्यकार्यत्वेन दूषयति-नच सत्येव क्रियासंबन्ध इति / अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनो ऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण- परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः / स्फुटमस्य भाष्यम् / अस्ति राजसूयः ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति / तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् / आग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते / यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति / तत्र संदिह्यते- किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति / तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूये ऽधिकारः / तस्मात्संभवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वं एवैते राजसूये प्राप्ता इति ऽयदि ब्राह्मणो यजेतऽइत्येवमादयो निमित्तार्थाः श्रुतयः / अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि / तत्र किं तावत्प्राप्तं, नैमित्तिकानीति / राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः / तथाहि-ब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते / तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् / बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेः ऽविरोधे त्वनपेक्षं स्यात्ऽइति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः / तथाच यदिशब्दो ऽप्याञ्जसः स्यादिति प्राप्तम् / एवं प्राप्त उच्यते-ऽरूपतो न विशेषो ऽस्ति ह्यार्यम्लेच्छप्रयोगयोः / वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितःऽ //
SK
तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् / नच संभावितादिमद्भावा प्रसिद्धिः पाणिनिम्सृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते /
SK
गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः / तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः / अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति / अत एवाहुः-ऽयदि शब्दपरित्यागो रुच्यध्यहारकल्पनाऽइति / इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता / एतस्मिंस्त्वधिकारे ऽन्नाद्यकामस्य त्रैवर्णिक्य संभवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति
SK
START Bस्VBह्_३,३.२९.४८
SK
दर्शनाच् च | BBस्_३,३.४८ |
SK
START Bस्VBह्_३,३.२९.४९
SK
श्रुत्यादिबलीयस्त्वाच् च न बाधः | BBस्_३,३.४९ |
SK
START Bस्VBह्_३,३.२९.५०
SK
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् | BBस्_३,३.५० |
SK
// ५० /
SK
START Bस्VBह्_३,३.२९.५१
SK
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः | BBस्_३,३.५१ |
SK
START Bस्VBह्_३,३.२९.५२
SK
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः | BBस्_३,३.५२ |
SK
START Bस्VBह्_३,३.३०.५३
SK
एक आत्मनः शरीरे भावात् | BBस्_३,३.५३ |
SK
अधिकारणतात्पर्यमाह- इहेति / समर्थनप्रयोजनमाह- बन्धमोक्षेति / असमर्थने बन्धमोक्षाधिकाराभावमाह- न ह्यसतीति / अधस्तनतन्त्रोक्तेन पौनरुक्त्यं चोदयति- नन्विति / परिहरति- उक्तं भाष्यकृतेति / नसूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्यकृतेत्यत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र कृत इति / यत इह सूत्रकृद्वक्ष्यत्यत एव भगवतोपवर्षेणोद्धारो ऽपकर्षस्य कृतः / विचारस्यास्य पूर्वोत्तरतन्त्रशेषत्वमाह- इह चेति / पूर्वाधिकरणसंगतिमाह- अपिचेति / नन्वात्मास्तित्वोपपत्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह-आक्षेपपूर्विका हीति / आक्षेपमाह- अत्रैके देहमात्रात्मदर्शिन इति / यद्यपि समस्तव्यस्तेषु पृथिव्यप्तेजोवायुषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति / नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति / अहमिति चानुभवे देह एव गौराद्यकारः प्रथते / न तु तदतिरिक्तः तदधिष्ठानः कुण्ड एव दधीति / अत एवाहं स्थूलो गच्छामीत्यादिसामानाधिकरण्योपपत्तिरहमः स्थूलादिभिः / न जातु दधिसमानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनुभवन्ति सितं मधुरं कुण्डमिति / न चाप्रत्यक्षमात्मतत्त्वमनुमानादिभिः शक्यमुन्नेतुम् / न खल्वप्रत्यक्षं प्रमाणमस्ति / उक्तं हि-ऽदेशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु / भवानामनुमानेन प्रसिद्धिरतिदुर्लभाऽइति / यदा च उपलब्धिसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्टव्यभिचारस्य शब्दस्यार्थापत्तेश्चात्यन्तपरोक्षार्थगोचराया उपमानस्य च सर्वैकदेशसादृश्यविकल्पितस्य / सर्वसारूप्ये तत्त्वात् / एकदेशसारूप्ये चातिप्रसङ्गात्सर्वस्य सर्वेणोपमानात् / सौत्रस्तु हेतुर्भाष्यकृता
SK
व्याख्यातः / चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः / स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरूपः शरीरधर्म एव / इच्छाप्रयत्नादयश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरीरे भावात् अन्तः शरीराश्रया एव, अन्यथा दृष्टहानादृष्टकल्पनाप्रसङ्गात् / शरीरातिरिक्त आत्मनि
SK
प्रमाणाभावाच्छरीरे च संभवाच्छरीरमेवेच्छादिमदात्मेति प्राप्त उच्यते-
SK
START Bस्VBह्_३,३.३०.५४
SK
व्यतिरेकस् तद्भावभावित्वान् न तूपलब्धिवत् | BBस्_३,३.५४ |
SK
नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति / प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति / नहि धूमज्ञानमिवैषामिन्द्रियार्थसन्निकर्षादप्रामाण्यज्ञानमुदेतुमर्हति / किन्तु देशकालावस्थारूपभेदेन व्यभाचिरोत्प्रेक्षया / न चैतावान्प्रत्यक्षस्य व्यापारः संभवति / यथाहुः-नहीदमियतो व्यापारान्कर्तुं समर्थं संनिहितविषयबलेनोत्पत्तेरविचारकत्वादिति / तस्मादस्मिन्ननिच्छतापि प्रमाणान्तरमभ्युपेयम् / अपिच प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसंदिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते / न चैषामित्थंभावो भवत्प्रत्यक्षगोचरः / न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः किन्तु वचनचेष्टादिलिङ्गानुमेयाः / नच लिङ्गं प्रमाणं यत एते सिध्यन्ति / न पुंसामित्थंभावमविज्ञाय यं कञ्चन पुरुषं प्रतिपिपातयिषतो ऽनवधेयवचनस्य प्रेक्षावत्ता नाम / अपिच पशवो ऽपि हिताहितप्राप्तिपरिहारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते / परिहरन्ति चाश्यानतृणकण्टकाकीर्णाम् / नास्तिकस्तु पशोरपि पशुरिष्टनिष्टसाधनमविद्वान् / न खल्वस्मिन्नुमानगोचर-प्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षं प्रभवति / नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थस्याप्रत्यक्षत्वात् / तदेव मा नाम भून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्मन्युपस्थितो ऽस्य मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः / पराक्रान्तं चात्र सूरिभिः / अत्यन्तपरोक्षगोचराप्यन्यथानुपपद्यमानार्थप्रभवार्थापत्तिः / भूयःसामान्ययोगेन चोपमानमुपपादितं प्रमाणलक्षणे / तदत्रास्तु तावत्प्रमाणान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालम्बत इत्यन्वयतिरेकाभ्यामवधार्यते / योगव्याघ्रवत्स्वप्नदशायां च शरीरान्तरपरिग्रहाभिमाने ऽप्यहङ्कारास्पदस्य प्रत्यभिज्ञायमानत्वमित्युक्तम् / सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् / कुतस्तद्भावाभावित्वात् / चैतन्यादिर्यदि शरीरगुणः ततो ऽनेन विशेषगुणेन भवितव्यम् / न तु संख्यापरिमाणसंयोगादिवत्सामान्यगुणेन / तथाच ये भूतविशेषगुणास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः / नह्यस्ति संभवः भूतं च रूपादिरहितं चेति / तस्माद्भूतविशेषगुणरूपादिवैधर्म्यान्न चैतन्यं शरीरगुणः / एतेनेच्छादीनां शरीरविशेषगुणत्वं प्रत्युक्तम् / प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः / मृतावस्थायामपि प्रसङ्गात् / तस्माद्यस्यैते अधिष्ठानाद्देहधर्मा भवन्ति स देहातिरिक्त आत्मा / अदृष्टकारणत्वे ऽभ्युपगम्यमाने तस्यापि देहाश्रयत्वानुपपत्तेरात्मैवाभ्युपेतव्य इति / वैधर्म्यान्तरमाह- देहधर्माश्चेति / स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः / इच्छादयस्तु स्वप्रत्यक्षा एवेति देहधर्मवैधर्म्यम् / तस्मादपि देहातिरिक्तधर्मा इति / तत्र यद्यपि चैतन्यमपि भूतविशेषगुणस्तथापि यावद्भूतमनुवर्तेत / नच मदशक्त्या व्यभिचारः / सामर्थ्यस्य सामान्यगुणत्वात् / अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहे ऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् / तथा चैकस्मिन्देहे बहवश्चेतयेरन् / नच बहूनां चेतनानामन्योन्याभिप्रायानुविधानसंभव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरुद्धादिक्रियाभिमुखाः समर्था अपि न हस्तमात्रमपि देशमतिपतितुमुत्सहन्ते / एवं शरीरमपि न किञ्चित्कर्तुमुत्सहते / अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः / शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् / अपि त्वन्वयव्यतिरेकाभ्याम् / संदिग्धश्चात्र व्यतिरेकः / तथाच साधकत्वमन्वयमात्रस्येत्याह- अपिच सति हि तावदिति / दूषणान्तरं विवक्षुराक्षिपति- किमात्मकं चेति / स एवैकग्रन्थेनाः- नहीति / नास्तिक आह- यदनुभवनमिति / यथा हि भूतपरिणामभेदो रूपादिर्न तु भूतचतुष्टयादर्थान्तरमेवं भूतपरिणामभेद एव चैतन्यं न तु भूतेभ्योर्ऽथान्तरं, येन ऽपृथिव्यापस्तेजो वायुरिति तत्त्वानिऽइति प्रतिज्ञाव्याघातः स्यादित्यर्थः / एतदुक्तं भवति-चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयो ऽन्यद्वा परिणामान्तरमिति / अत्रोक्ताभिस्तावदुपपत्तिभिर्देहधर्मत्वं निरस्तं तथाप्युपपत्त्यन्तराभिधित्सयाह- चेत्तर्हीति / भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः / नच केषाञ्चिद्विषयाणामपि विषयित्वं भविष्यतीति वाच्यम् / स्वात्मनि वृत्तिविरोधात् / न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वयंप्रकाशत्वाभ्युपगमात् / कृतोपपादनं चैतत्पुरस्तात् / उपलब्धिवदिति सूत्रावयवं योजयति- यथैवास्या इति / उपलब्धिग्राहिण एव प्रमाणाच्छरीव्यतिरेको ऽप्यवगम्यते / तस्यास्ततः स्वयंप्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् / अस्तु तर्हि व्यतिरेकादुपलब्धिर्भूतेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह- उपलब्धिस्वरूप एव च न आत्मेति / आजानतस्तावदुपलब्धिभेदो नानुभूयत इति विषयभेदादभ्युपेयः / न चोपलब्धिव्यतिरेकिणां विषयाणां प्रथा संभवतीत्युपपादतम् / नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्मतत्त्वसमीक्षायामस्माभिः / एवं च सति विषयरूपतद्भेदादेव सुदुर्लभाविति दूरनिरस्ता विषयभेदादुपलब्धिभेदसंकथा / तेनोपलब्धेरुपलब्धृत्वमपि न तात्त्विकम् / किन्त्वविद्याकल्पितम् / तत्राविद्यादशायामप्युपलब्धेरभेद इत्याह- अहमिदमद्राक्षमिति चेति / न केवलं तात्त्विकाभेदान्नित्यत्वमतात्त्विकादपि नित्यत्वमेवेति तस्यार्थः / स्मृत्याद्युपपत्तेश्च / नानात्वे हि नान्येनोपलब्धे ऽन्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः / निराकृतमप्यर्थं निराकरणान्तरायानुभाषते- यत्तूक्तमिति / यो हि देहव्यापारादुपलब्धिरुत्पद्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम्- न चात्यन्तं देहस्येति / प्रकृतमुपसंहरति- तस्मादनवद्यमिति
SK
START Bस्VBह्_३,३.३१.५५
SK
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् | BBस्_३,३.५५ |
SK
स्वरादिभेदात्प्रतिवेदमुद्गीथादयो भिद्यन्ते / तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन / तत्र संशयः-किं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उतान्यवेदविहितानामप्युद्गीथादीनां ते प्रत्यया इति / किं तावत्प्राप्तम् / ऽओमित्यक्षरमुद्गीथमुपास्तिऽइत्युद्गीथश्रवणेनोद्गीथसामान्यमवगम्यते / निर्विशेषस्य च तस्यानुपपत्तेर्विशेषकाङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनिधानात्तेनैवाकाङ्क्षाविनिवृत्तेर्न शाखान्तरीयमुद्गीथान्तरमपेक्षते / न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुतिसमर्पितमर्थमपबाधेन ततः श्रुतिं पीडयेन्न चैतदस्ति / नह्युद्गीथश्रुत्यभिहितलक्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीकरणाच्छाखान्तरीयास्वीकारे ऽपि / यथाहुः-ऽजातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते / कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यतेऽ //
SK
एवं प्राप्तम् / एवं प्राप्त उच्यते-उद्गीथाङ्गवबद्धास्तु प्रत्यया नानाशाखासु प्रतिवेदमनुवर्तेरन्न प्रतिशाखं व्यवतिष्ठेरन् / उद्गीथमित्यादिसामान्यश्रुतेरविशेषात् एतदुक्तं भवति-युक्तं शुक्लं पटमानयेत्यादौ पटश्रुतिमविशेषप्रवृत्तामपि संनिधानाच्छुक्लश्रुतिर्बाधत इति / विशिष्टार्थप्रत्यायनप्रत्युक्तत्वात्पदानां समभिव्याहारस्य / अन्यथा तदनुपपत्तेः / नच स्वार्थमस्मारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थस्मारणं न स्वप्रयोजकमपवाधितुमुत्सहते / मा च वाधिप्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि श्रुतेरेकस्मिन्नेव विशेषे अवस्थापनम् / इह तूद्गीथश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् / संकोचे प्रमाणं किञ्चिन्नास्ति / नच संनिधिमात्रमपबाधितुमर्हति / श्रुतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्रुतेरेकस्मिन्नवस्थानं पीडैव / तस्मात्सर्वोद्गीथविषयाः प्रत्यया इति
SK
START Bस्VBह्_३,३.३१.५६
SK
मन्त्रादिवद्वाविरोधः | BBस्_३,३.५६ |
SK
विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते / उपलब्धं च मन्त्रादिषु शाखान्तरीयेषि शाखान्तरीयकर्मसंबन्धित्वम् / तद्वदिहापीति दर्शनादविरोधः / एतच्च दर्शितं भाष्येण सुगमेनेति
SK
START Bस्VBह्_३,३.३२.५७
SK
भूम्नः क्रतुवज्ज्यायस् त्वं तथा हि दर्शयति | BBस्_३,३.५७ |
SK
वैश्वानरविद्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता समस्तोपासनमेवेति / तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्यकमुपासनश्रुतेः प्रत्येकं च फलवत्त्वाम्नानात्समस्तोपासने च फलवत्त्वश्रुतेरुभयथाप्युपासनम् / नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भवतीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणे ऽप्यर्थवादमात्रत्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्वमेवमत्रापि भवितुमर्हति / तत्र हि द्वादशकपालं निर्वपेदिति / विधिभक्तिश्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमानापदेशः / नच वचनानि त्वपूर्वत्वादिति विधिकल्पना / अवयुज्यवादेन स्तुत्याप्युपपत्तेः / इह तु समस्ते व्यस्ते च वर्तमानापदेशस्याविशेषादगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् / निन्दायाश्च समस्तोपासनारम्भे व्यस्तोपासने ऽप्युपपत्तेः / श्यामो वाश्वाहुतिमभ्यवहरतीतिवदुभयविधमुपासनमिति
SK
प्राप्त उच्यते-समस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य / यद्यपि वर्तमानापदेशत्वमुभयत्राप्यविशिष्टं तथापि पौर्वापर्यालोचनया समस्तोपासनपरत्वस्यावगमः / यत्परं हि वाक्यं तदस्यार्थः / तथाहि-प्राचीनशालप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः / ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः / तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपासनमुपसंजहार / तथा चैकवाक्यतालाभाय वाक्यभेदपरिहाराय च समस्तोपासनपरतैव संदर्भस्य लक्ष्यते / तस्माद्बहुफलसंकीर्तनं / प्रधानस्तवनाय / समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् / एकदेशिव्याख्यानमुपन्यस्य दूषयति- केचित्त्वत्रेति / संभवत्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात् नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः
SK
START Bस्VBह्_३,३.३३.५८
SK
नानाशब्दादिभेदात् | BBस्_३,३.५८ |
SK
सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम् / संप्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदो भेदो वा, एवं प्राणादिगोचरास्विति विचारयितव्यम् / ननु यथा प्रत्ययाभिधेयाया अपूर्वभावनाया आजानतो भेदभावे ऽपि धात्वर्थेन निरूप्यमाणत्वात्तस्य च यागादेर्भेदात्प्रकृत्यर्थयागादिधात्वर्थानुबन्धभेदाद्भेदः / तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् / एवं विद्यानामपि रूपतो वेद्यस्येश्वरस्याभेदे ऽपि तत्तत्सत्यसंकल्पत्वादिगुणोपधानभेदाद्विद्याभेद इति नास्त्यभेदाशङ्का / उच्यते-युक्तमनुबन्धभेदात्कार्यरूपाणामपूर्वभावनानां भेद इति / इह ब्रह्मणः सिद्धरूपत्वाद्गुणानामपि सत्यसंकल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु / नहि विशालवक्षाश्चकोरेक्षणः क्षत्रिययुवा दुश्चयवनधर्मेति एकत्रोपदिष्टो ऽन्यत्र सिंहास्यो वृषस्कन्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजहाति न खलु प्रत्युपदेशं वस्तु भिद्यते / तस्य सर्वत्र तादवस्थ्यात् / अतादवस्थ्ये वा तदेव न भवेत् / नहि वस्तु विकल्प्यत इति / तस्माद्वेद्याभेदाद्विद्यानां भेद इति प्राप्तम् / एवं प्राप्त उच्यते-भवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किन्तु तद्विषयामुपासनाभावनां विदधति / सा च कार्यरूपा / यद्यपि चोपासनाभावना उपासनाधीननिरूपणोपासनं चोपास्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम्, तथाप्युपासनविषयीभावो ऽस्य कदाचित्कस्यचित्केनचिद्रूपेणेत्यपरिनिष्ठित एव / यथैकः स्त्रीकायः केनचिद्भक्ष्यतया केनचिदुपगन्तव्यतया केनचिदपत्यतया केनचिन्मातृतया केनचिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छातन्त्रः / एवमिहापि उपासनानि पुरुषेच्छातन्त्रतया विधेयतां नातिक्रामन्ति /
SK
नच तत्तद्गुणतयोपासनानि गुणभेदान्न भिद्यन्ते / न चाग्निहोत्रमिवोपसनां विधाय दधितण्डुलादिगुणवदिह सत्यसंकल्पत्वादिगुणविधिर्येनैकशास्त्रत्वं स्यात् / अपि तूत्पत्तावेवोपासनानां तत्तद्गुणविशिष्टानामवगमात् / तत्रागृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः / नच समस्तशाखाविहितसर्वगुणोपसंहारः शक्यानुष्ठानस्तस्माद्भेदः / न चास्मिन्पक्षे सामाना सन्तः सत्यकामादयैति / केचित्खलु गुणाः कासुचिद्विद्यासु समानास्तेनैकविद्यात्वे आवर्तयितव्याः / एकत्रोक्तत्वात् / विद्याभेदे तु न पौनरुक्त्यमेकस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्गुणत्वाय वक्तव्या अनुक्तानामप्राप्तेरिति
SK
START Bस्VBह्_३,३.३४.५९
SK
विकल्पो ऽविशिष्टफलत्वात् | BBस्_३,३.५९ |
SK
अग्निहोत्रदर्शपूर्णमासादिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समुच्चयनियमः / तेन समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि संभवादिति पूर्वः पक्षः / उपासनानाममूषामुपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्यैकेनोपासनेनोपास्यसाक्षात्करणे तत एव फलप्रतिलाभे तु कृतमुपासनान्तरेण / नच साक्षात्करणस्यातिशयसंभवस्योपायसहस्रैरपि तादवस्थ्यात्तन्मात्रसाध्यत्वाच्च फलावाप्तेः / उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चिदुपासनानिष्पत्तेरिह विकल्प एव नियमवानिति राद्धान्तः
SK
START Bस्VBह्_३,३.३५.६०
SK
काम्यास् तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् | BBस्_३,३.६० |
SK
यासूपासनासु विनोपास्यसाक्षात्कारणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपौर्णमासादिवत्पुरुषेच्छावशेन
SK
विकल्पसमुच्चयाविति साम्प्रतम्
SK
START Bस्VBह्_३,३.३६.६१
SK
अङ्गेषु यथाश्रयभावः | BBस्_३,३.६१ |
SK
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः / इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते / यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति / तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते / नच प्रयुज्यन्ते तत्कस्य होतोः / क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति / एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः / स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यंभावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः / राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थनुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति / किन्तु तदविरोधेनावतिष्ठते / तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च संभवान्नियमेनैतान्त्समुच्चिनोतु / कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति / नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते / मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती / तथा सत्युद्देशानुपपत्तेः /
SK
तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् / नित्यानित्यसंयोगविरोधात् सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति / न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तम्-आश्रयतन्त्राण्यपि हीति
SK
START Bस्VBह्_३,३.३६.६२
SK
शिष्टेश् च | BBस्_३,३.६२ |
SK
START Bस्VBह्_३,३.३६.६३
SK
समाहारात् | BBस्_३,३.६३ |
SK
होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति /
SK
अपिर्भिन्नकमो दिरुद्गीथमपीति / वेदान्तरोहितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् / एवं ब्रुवन्वेदान्तरोदितस्य प्रत्यस्येत्यादि योजनीयम्
SK
START Bस्VBह्_३,३.३६.६४
SK
गुणसाधारण्यश्रुतेश् च | BBस्_३,३.६४ |
SK
अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,३.३६.६५
SK
न वा तत्सहभावाश्रुतेः | BBस्_३,३.६५ |
SK
START Bस्VBह्_३,३.३६.६६
SK
दर्शनाच् च | BBस्_३,३.६६ |
SK
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः
SK
तृतीयाध्याये चतुर्थः पादः /
SK
START Bस्VBह्_३,४.१.१
SK
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः | BBस्_३,४.१ |
SK
स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् / सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे / यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् / इतो ऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् / यथा शुद्धत्वादि / यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् / तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम्, यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसंबन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसंबन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः / तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः / आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासंभवात्तत्संबन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः / तदुक्तम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्यो ऽस्मीति विद्यावाच्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति / प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् / न तु तत्परत्वमुपनिषदाम् / तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति / एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः / न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् / तृतीयाश्रुतेश्च / न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् / यथा य एव धूमवान्देशः स वह्निमानिति / समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति / तच्च यद्यप्याप्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् / वेदार्थज्ञानवतः कर्मविधानादुपनिषदो ऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति
SK
START Bस्VBह्_३,४.१.२
SK
शेषत्वात् पुरुषार्थवादो यथान्येष्व् इति जैमिनिः | BBस्_३,४.२ |
SK
START Bस्VBह्_३,४.१.३
SK
आचारदर्शनात् | BBस्_३,४.३ |
SK
START Bस्VBह्_३,४.१.४
SK
तच्छ्रुतेः | BBस्_३,४.४ |
SK
START Bस्VBह्_३,४.१.५
SK
समन्वारम्भणात् | BBस्_३,४.५ |
SK
START Bस्VBह्_३,४.१.६
SK
तद्वतो विधानात् | BBस्_३,४.६ |
SK
START Bस्VBह्_३,४.१.७
SK
नियमाच् च | BBस्_३,४.७ |
SK
सुगमम्
SK
START Bस्VBह्_३,४.१.८
SK
सिद्धान्तयति- अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् | BBस्_३,४.८ | यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मत्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति / तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् / अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन / तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति / किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता / तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव / अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनो ऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते / यथा समारोपितस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते यो ऽयं सर्पः सा रज्जुरिति / यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवकर्माङ्गत्वे दर्शनमुक्तम् / तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः
SK
START Bस्VBह्_३,४.१.९
SK
तुल्यं तु दर्शनम् | BBस्_३,४.९ |
SK
START Bस्VBह्_३,४.१.१०
SK
असार्वत्रिकी | BBस्_३,४.१० |
SK
व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया / यथ सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात्
SK
START Bस्VBह्_३,४.१.११
SK
विभागः शतवत् | BBस्_३,४.११ |
SK
सुगमम् / अविभागे ऽपि न दोष इत्याह-न चेदं समन्वारम्भवचनमिति / संसारिविषया विद्याविहितायथोद्गीथविद्या / प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा
SK
START Bस्VBह्_३,४.१.१२
SK
अध्ययनमात्रवतः | BBस्_३,४.१२ |
SK
अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः / एतदुक्तं भवति-यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति / अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति-नन्वेवं सतीति / स्वाभिप्रायमुद्घाटयन्समाधत्ते-न वयमिति /
SK
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः
SK
START Bस्VBह्_३,४.१.१३
SK
नाविशेषात् | BBस्_३,४.१३ |
SK
कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः
SK
START Bस्VBह्_३,४.१.१४
SK
विद्यावद्विषयत्वे ऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह- स्तुतये ऽनुमतिर् वा | BBस्_३,४.१४ |
SK
START Bस्VBह्_३,४.१.१५
SK
कामकारेण चैके | BBस्_३,४.१५ |
SK
अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह-कामकारेण चैके /
SK
कामकार इच्छा
SK
START Bस्VBह्_३,४.१.१६
SK
उपमर्दं च | BBस्_३,४.१६ |
SK
अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः / इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति
SK
START Bस्VBह्_३,४.१.१७
SK
ऊर्ध्वरेतःसु च शब्दे हि | BBस्_३,४.१७ |
SK
सुबोधम्
SK
START Bस्VBह्_३,४.२.१८
SK
परामर्शं जैमिनिरचोदना चापवदति हि | BBस्_३,४.१८ |
SK
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् / आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति /
SK
विध्यभावात् / स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् / निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं ऽवीरहा वा एष देवानाम्ऽइत्यादिका / प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं ऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइति / तदेतत्सर्वमाह-त्रयो धर्मस्कन्धा इत्यादिना / अनधिकृतविषया वेति / अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति / अपिचापवदिति हि / न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः / स्यादेतत् / भवत्वेष परामर्शो ऽन्यार्थः / ये चेमे ऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेतस्यतीत्यत आह-ये चेमे ऽरण्य इति / अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः / न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यत इत्याह-संदिग्धं चेति / नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति / नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह-तथैतमेवेति / एतदपि लोकसंस्तनवनपरमिति / अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते-ननु ब्रह्मचर्यादेवेति
SK
START Bस्VBह्_३,४.२.१९
SK
अनुष्ठेयं बादरायणः साम्यश्रुतेः | BBस्_३,४.१९ |
SK
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति / एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् / प्रतीयमानानि वा श्रुत्या बाध्येरन् / न तावन्न प्रतीयन्ते / तथाहि-त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् / तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत / एकैकाश्रमोपसंगृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः / तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति / तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्ते ऽपाकर्तुम् / नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः / एवञ्च अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये ऽउपव्ययते देवलक्ष्ममेव तत्कुरुतेऽइत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति
SK
START Bस्VBह्_३,४.२.२०
SK
विधिर् वा धारणवत् | BBस्_३,४.२० |
SK
यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य संदर्भस्यैकवाक्यता गम्यते / संभवान्त्यां चैकवाक्यतायां वाक्यभेदो ऽन्याय्यः / तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसंभवेन किंपरतया एकवाक्यतास्त्विती तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु / यथा ऽअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽइत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् / तथोक्तम् ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽइति / तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते / संप्रति परामर्शे ऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या / न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह-यदापीति / अत्रावान्तरविचारमारभते-सा च किं चतुर्ष्विति /
SK
विचारप्रयोजनमाह-यदि चेति / ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह-अनाश्रयमित्वेति / तत्र पूर्वपक्षमाह-तत्र तपःशब्देनेति / अयमभिसंधिः / यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजके ऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत / तथाच नान्यः पन्था विद्यते ऽयनायेति विरोधः / नच संभत्यवयवार्थे समुदायशक्तिकल्पना / तस्माद्ब्रह्मणि संस्थास्येति / ब्रह्मसंस्थः / एवञ्च चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थो ऽमृतत्वमेतीति युक्तम् / तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ / भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः / नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासंभवः / यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति / अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः / तथा सति गृहस्थादयो ऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः / तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः / प्रमाणविरोधात् / तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते / एवञ्च त्रयो ऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सो ऽमृतत्वभागिति / नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः / यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां संप्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः / पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः / तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति / यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते / नच विनियुक्तविनियोगविरोधः / यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत / विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः / इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते / न तूद्दिश्यते / विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् / तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसंभवः / नच यातयामतया न विनियोगः / वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् / तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः / राद्धान्तमुपक्रमते-तदयुक्तम् / नहि सत्यां गतौ वानप्रस्थविशेषणेनेति / यथोपक्रान्तं तथैव परिसमापनमुचितम् / यत्संख्याकाश्च ये प्रसिद्धास्ते तत्संख्याका एव कीर्त्यन्ते इति चोचितम् / न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते / अशाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् / न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते / नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह-तपश्चासाधारण इति / न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे / नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः / अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते-ऽशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःऽइति / सिद्धसंख्याभेदेषु च संख्यान्तराभिधानमाश्लिष्टमित्याह-चतुष्ट्वेन चेति / अपिच भेदव्यपदेशो ऽत्रेति / त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव / न तावन्त्रय इति भिक्षुसंग्रहे तद्वर्जनमेते त्रय इत्यत्र वर्तुं शक्यम् / एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसंग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः / तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः / त्रिषु च ब्रह्मसंस्थपदे यदेति संबन्धनीयम् / भिक्षौ च सदेति वैषम्यम् / तदिदमुक्तम्-पृथक्त्वे चेति / पूर्वपक्षाभासं स्मारयति-कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति / तन्निराकरोति-अत्रोच्यत इति / अयमभिसंधिः / सत्यं यौगिकः शब्दः सति प्रकृतसंभवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति / असति तु संभवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासंभवे ऽधस्तादिति / एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव / तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र / शमदमादिस्तु तदीय इति / स्वाङ्गमव्यवधायकमित्यर्थः / ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह-तथाच न्यास इति ब्रह्मेति / सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह-ब्रह्मा हि परः / अतः परो न्यासो ब्रह्मेति / किमपेक्ष्य परः संन्यास इत्यत आह-तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति /
SK
एतदुक्तं भवति-ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति / तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् / ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारो ऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् / न त्वनधिकृतं प्रतीत्यर्थः
SK
START Bस्VBह्_३,४.३.२१
SK
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् | BBस्_३,४.२१ |
SK
यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितो ऽपि विधिव्यभिचारिततद्विधिसंबन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसंदर्भेणैकवाक्यभावमुपगतः स्तूयते / नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति / अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् / यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्ते ऽभिधीयते-न तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासंभवः / प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति / न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः / यथाहुः-ऽअस्ति तु तदित्यतिरेके परिहारःऽइति / अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभ् इधानमसमञ्जसम् / नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः / तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् / तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् / अगत्या हि सा / तस्मादुपासनार्था इति सिद्धम् / ऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् / एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् //
SK
ऽभावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् / यथाहुः-ऽकर्तव्यश्च सुखफलो ऽकर्तव्यो दुःखफलःऽइति / एतच्चास्माभिरुपपादितं न्यायकणिकायाम् / क्रिया च भावना तद्वचनाश्च करोत्यादयः / यथाहुः-कृभ्वस्तयः क्रियासामान्यवचना इति / अत एव कृभ्वस्तीनुदाहृतवान् / सामान्योक्तौ तद्विशेषाः पचेदित्यादयो ऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना / क्रियेतेति आक्षिप्तकर्मिका भावना / कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना / एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः / भवतिश्चैष जन्मनि / यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते / नच बीजादङ्कुरो ऽस्तीति प्रयुञ्जते / तस्मादस्ति सत्तायां न जन्मनीति
SK
START Bस्VBह्_३,४.३.२२
SK
भावशब्दाच् च | BBस्_३,४.२२ |
SK
START Bस्VBह्_३,४.४.२३
SK
पारिप्लवार्था इति चेन् न विशेषितत्वात् | BBस्_३,४.२३ |
SK
यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि ऽसर्वाण्याख्यानानि पारिप्लवेऽइति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि / नच सर्वा दाशतयीरनुब्रूयादिति विनियोगे ऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् / दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात् श्रुतेर्बलीयस्त्वात् / तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते-नैषामाख्यानानां पारिप्लवे विनियोगः / किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि / इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् / आख्यानविशेषणत्वे त्वर्थवत् / तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः / यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः / तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सो ऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् / प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति
SK
START Bस्VBह्_३,४.४.२४
SK
तथा चैकवाक्यतोपबन्धात् | BBस्_३,४.२४ |
SK
START Bस्VBह्_३,४.५.२५
SK
अत एव चाग्नीन्धनाद्यनपेक्षा | BBस्_३,४.२५ |
SK
विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः / तदभावे कस्योपकारो विद्ययेति / यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् / अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाह-अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति /
SK
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति / एतच्चाधिकमुपरिष्टाद्वक्ष्यते / तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम्
SK
START Bस्VBह्_३,४.५.२६
SK
अधिकविवक्ष्येति यदुक्तं तदधिकमाह- सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् | BBस्_३,४.२६ | यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् / नच विविदिषन्ति यज्ञेनेत्यादिविरोधः / नह्येष विधिरपि तु वर्तमानापदेशः / स च स्तुत्याप्युपपद्यते / अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि / प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति / द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते / मननमिति / तृतीया चिन्ता / सन्ततिमयी यामाचक्षते निदिध्यासनमिति / चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति / तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा / ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा / सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा / तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा / तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् / एवं प्राप्त उच्यते-उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा ऽविविदिषन्ति यज्ञेनऽइति श्रुतेः / न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य / यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः / तस्मादुत्पत्तौ विद्यया शमादिवत् कर्माण्यपेक्ष्यन्ते / तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् /
SK
तथाहि-आश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते / स हि तत्त्वतो ऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिमुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् / अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति / ततो ऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते / ततस्तज्जिहासास्योपावर्तते / ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः / विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते / ततो ऽस्य ऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते / नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारो ऽस्ति / येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः / एतेन वृत्तिरूरपसाक्षात्कारकार्ये ऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः / तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् /
SK
विदुषस्तत्रानधिकारादित्युक्तम् / दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारे ऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव / नहि तत्रान्वयव्यतिरेकसमधिगमनीयफले ऽस्ति विध्यपेक्षा / अतश्च ऽभ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु तेऽइति प्रलापः / शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः / उपपादितं चैतदस्माभिः प्रथमसूत्र इते नेह पुनः प्रत्याप्यते / तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,४.६.२७
SK
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् | BBस्_३,४.२७ |
SK
START Bस्VBह्_३,४.७.२८
SK
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् | BBस्_३,४.२८ |
SK
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते / एष किल विचारविषयः-सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मे ऽन्नं भविष्यतीति, तानि होचुः / यदिदं लोके ऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति / तदनेन संदर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः-ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽइति / सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति / तत्र संशयः-किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं संकीर्त्यत इति / तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते / तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः / स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ / भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते / गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते-अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः / प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः //
SK
न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् / इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् / न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति / नच कल्पनीयो विधिरपूर्वत्वाभावात् / स्तुत्यापि च तदुपपत्तेः / नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसंकोचो युक्तः / तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् / शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे / प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् / तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् / न त्वन्यत्रेति / इभ्येनहस्तिपकेनसामिस्वादितानर्धभक्षितान् / स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः / कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति / एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे / कारणं चात्रोवाच / न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् / कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास
SK
START Bस्VBह्_३,४.७.२९
SK
अबाधाच् च | BBस्_३,४.२९ |
SK
START Bस्VBह्_३,४.७.३०
SK
अपि च स्मर्यते | BBस्_३,४.३० |
SK
START Bस्VBह्_३,४.७.३१
SK
शब्दश् चातो ऽकामकारे | BBस्_३,४.३१ |
SK
START Bस्VBह्_३,४.८.३२
SK
विहितत्वाच् चाश्रमकर्मापि | BBस्_३,४.३२ |
SK
नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि / विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यंभावनियमाभावादनित्यता प्राप्नोति / नित्यानित्यसंयोगश्चैकस्य न संभवति, अवश्यानवश्यंभावयोरेकत्र विरोधात् / नच वाक्यभेदाद्वास्तवो विरोधः शक्यो ऽपनेतुम् / तस्मादनध्यवसाय एवात्रेति प्राप्तम् / एतेन ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइत्याक्षिप्तम् / एवं प्राप्ते ऽभिधीयते-सिद्धे हि स्याद्विरोधो ऽयं न तु साध्ये कथञ्चन / विध्यधीनात्मलाभे ऽस्मिन् यथाविधि मता स्थितिः //
SK
सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते / न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे / ते हि विध्यधीनत्वाद्विकल्पेते एव / न पुनः सिद्धे विकल्पसंभवः / तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावे ऽपि ऽकाम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशतेऽइति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् / सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ / कोर्ऽथो विद्यासहकारीणि कर्माणीति / अयमर्थः-सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते / यथा ऽसहैव दशभिः पूत्रैर्भारं वहति गर्दभीऽइति सात्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति / अविधिलक्षणत्वादिति / विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् / ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् / अविहिते च तदनुपपत्तेः / चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे / द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् / उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् / असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः / नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् / शेषमतिरोहितार्थम्
SK
START Bस्VBह्_३,४.८.३३
SK
सहकारित्वेन च | BBस्_३,४.३३ |
SK
START Bस्VBह्_३,४.८.३४
SK
सर्वथापि त एवोभयलिङ्गात् | BBस्_३,४.३४ |
SK
यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽइतिक्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्ध् इव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यते-सत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति तदेवाग्निहोत्रमुभयसंयुक्तम् / नहि प्रकरणान्तरं साक्षाद्भेदकम् / किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् / प्रकरणान्तरेण तु विघटुतप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति / इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति / नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति सांप्रतम् / होम एव साक्षाद्विधिश्रुतेः / कालस्य चानुपादेयस्याविधेयत्वात् / काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः / इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ / तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् / स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम्
SK
START Bस्VBह्_३,४.८.३५
SK
अनभिभवं च दर्शयति | BBस्_३,४.३५ |
SK
START Bस्VBह्_३,४.९.३६
SK
अन्तरा चापि तु तद्दृष्टेः | BBस्_३,४.३६ |
SK
यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम्, अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यते-नात्यन्तमकर्माणो रैक्वविधुरवाचक्रवीप्रभृतयः / सन्ति हि तेषामनाश्रमित्वे ऽपि जपोपवासदेवताराधनादीनि कर्माणि / कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु /
SK
जन्मान्तरानुष्ठितेरपि चेति /
SK
न खलु विद्याकार्ये कर्मणामपेक्षा / अपितु उत्पादे / उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् / उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः / यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवे ऽनुष्ठितानि तैरिति गम्यत इति / ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि / तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आह-दृष्टार्था चेति /
SK
अविद्यानिवृत्तिर्विद्याया दृष्टोर्ऽथः / स चान्वव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः / प्रतिषेधो विधातस्तस्याभाव इत्यर्थः
SK
START Bस्VBह्_३,४.९.३७
SK
अपि च स्मर्यते | BBस्_३,४.३७ |
SK
START Bस्VBह्_३,४.९.३८
SK
विशेषानुग्रहश् च | BBस्_३,४.३८ |
SK
START Bस्VBह्_३,४.१०.३९
SK
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च | BBस्_३,४.३९ |
SK
यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याह-अतस्त्वितरज्ज्यायो लिङ्गाच्च / स्वस्थेनाश्रमित्वमास्थेयम् / दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसंदर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते / तेनैति पुण्यकृदिति श्रुतिलिङ्गम्, अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम्
SK
START Bस्VBह्_३,४.१०.४०
SK
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः | BBस्_३,४.४० |
SK
आरोहवत्प्रत्यवरोहो ऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् / पूर्वधर्मेषु यागहोमादिषु / रागतो वा गृहस्थो ऽहं पत्न्यादिपरिवृतः स्यामिति / नियमं व्याचष्टे-तथाहि-अत्यन्तमात्मानमिति / अतद्रूपतामारोहतुल्यताभावं व्याचष्टे-यथाच ब्रह्मचर्यं समाप्येति / अभावं शिष्टाचाराभावं विभजते-न चैवमाचाराः शिष्टा इति /
SK
अतिरोहितार्थमन्यत्
SK
START Bस्VBह्_३,४.११.४१
SK
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् | BBस्_३,४.४१ |
SK
प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति / तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः / सूत्रयोजना तु-न चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽइत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति / कुतः-आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात्
SK
START Bस्VBह्_३,४.११.४२
SK
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम् | BBस्_३,४.४२ |
SK
श्रुतिस्तावत्सरसतो ऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् / प्रायश्चित्तं न पश्यामीति तु स्मृतिः / तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सो ऽनुमातव्यः / तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या / श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति / स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् / एतदुक्तं भवति-कृतनिर्णेजनैरपि एतैर्न संख्यानं कर्तव्यमिति / सूत्रार्थस्तु-उपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति / आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् / शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् / उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति / सुगममितरम्
SK
START Bस्VBह्_३,४.१२.४३
SK
बहिस् तूभयथापि स्मृतेर् आचाराच् च | BBस्_३,४.४३ |
SK
यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति / तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणो वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यते-बहिस्तूभयथापि स्मृतेराचाराच्च / निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वये ऽप्यशुद्धिमापादयति द्वैधम् कस्यचिदेनसो लोकद्वये ऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः / कस्याचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् / यथा स्त्रीबालादिघातिनाम् / यथाहुः-ऽविशुद्धानपि धर्मतो न संपिबेत्ऽइति / तथा च ऽप्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्ऽकामतः कृतमपि / बालघ्नादिस्तु कृतनिर्णेजनो ऽपि वचनादव्यवहार्य इह लोके जायत इति / वचनं च बालघ्नांश्चेत्यादि / तस्मात्सर्वमवदातम्
SK
START Bस्VBह्_३,४.१३.४४
SK
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः | BBस्_३,४.४४ |
SK
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्संबन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्ये ऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवञ्जातीयकानि चाङ्गसंबद्धानि उपासनानि किं याजमानन्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् / तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजो ऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्यभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते-
SK
START Bस्VBह्_३,४.१३.४५
SK
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते | BBस्_३,४.४५ |
SK
उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते / तद्बलवति सति बाधके ऽन्यथोपपादनीयम् / न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासंभविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते / तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः
SK
START Bस्VBह्_३,४.१३.४६
SK
श्रुतेश्च | BBस्_३,४.४६ |
SK
START Bस्VBह्_३,४.१४.४७
SK
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् | BBस्_३,४.४७ |
SK
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन / लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति / यत्र हि विधिविभक्तिः श्रूयते स विधेयः / बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने / तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि / न चापूर्वत्वाद्विधेयं, तस्माद्ब्राह्णः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति / अथवा भिक्षुवचनो ऽयं मुनिशब्दस्तत्र दर्शनात् ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽइत्यत्र / तस्यान्यतो विहितस्यायमनुवादः / तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् / भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् / अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसंपत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः / आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् / तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते / एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह-निर्वेदनीयत्वनिर्देशादिति / कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह-तद्वतो विद्यावतः संन्यासिनोभिक्षोः / पृच्छति-कथमिति / विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः / उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् / तद्दर्शयति-आत्मानं विदित्वेति / सूत्रावयवं योजयितुं शङ्कते-नन्विति / परिहरति-अत आह-पक्षेणेति / विद्यावानिति न विद्यातिशयो विवक्षितः / अपि तु विद्योदयायाभ्यासो प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः / तथाचास्य पक्षे कदाचिद्भेददर्शनात्संभव इत्यर्थः / विध्यादिर्विधिमुख्यः प्रधानमिति यावत् / अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति / तत्राश्रूयमाणविधित्वे ऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः
SK
START Bस्VBह्_३,४.१४.४८
SK
ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति-एवं बाल्यादिविशिष्टेति /
SK
उत्तरं पठति- कृत्स्नभावात् तु गृहिणोपसंहारः | BBस्_३,४.४८ | छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः
SK
START Bस्VBह्_३,४.१४.४९
SK
एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम्- मौनवद् इतरेषाम् अप्य् उपदेशात् | BBस्_३,४.४९ | वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्माचारिणो ऽपीति वृत्तिभेदो ऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वे ऽपि बहुवचनमविरुद्धम्
SK
START Bस्VBह्_३,४.१५.५०
SK
अनाविष्कुर्वन्न् अन्वयात् | BBस्_३,४.५० |
SK
बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाशचात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्ते ऽभिधीयते-विद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते / एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति
SK
START Bस्VBह्_३,४.१६.५१
SK
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् | BBस्_३,४.५१ |
SK
संगतिमाह-सर्वापेक्षा चेति / किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति / यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति / तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽइति च स्मरणादामुष्मिकत्वमप्यवगम्यते / तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् / यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वाम् / श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् / नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् / नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय / तस्मादैहिक एव विद्योत्पादो नानियतकालः / श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः / इत्थंभूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरे ऽपि विद्यामुत्पादयन्तीति / एवं प्राप्त उच्यते-यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगो ऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् / तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति / पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम्-अभिसंधेर्निरङ्कुशत्वादिति
SK
START Bस्VBह्_३,४.१७.५२
SK
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः | BBस्_३,४.५२ |
SK
यज्ञाद्युपकृतविद्यासाधनश्रवणादिवीर्यविशेषात्किल तत्फले विद्यायामैहिकामुष्मिकत्वलक्षण उत्कर्षो दर्शितः / तथा च यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्याया उत्कर्षनिकर्षावेवं विद्याफलस्यापि मुक्तेरुत्कर्षनिकर्षौ संभाव्येते / नच मुक्तावैहिकामुष्मिकत्वलक्षणो विशेष उपपद्यते ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो मुक्तेरवश्यंभावनियमात्सत्यप्यारब्धविपाककर्माप्रक्षये / तस्मान्मुक्तावेव रूपतो निकर्षोत्कर्षौ स्याताम् /
SK
अपिच सगुणानां विद्यानामुत्कर्षनिकर्षाभ्यां तत्फलानामुत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वाद्रूपतश्चोत्कर्षनिकर्षौ स्यातामिति प्रापत उच्यते-न मुक्तेस्तत्र तत्रैकरूप्यश्रुतेरुपपत्तेश्च / साध्यं हि साधनविशेशषाद्विशेषवद्भवति / नच मुक्तिर्ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति / नच सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजन्म {FN १-विरोधिकार्योदय एव पूर्वप्रध्वसं इति मतमाश्रित्य क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् /} विशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् / नच सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते / नच चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते तस्या अप्येकरूपत्वेन श्रुतेः / सगुणायास्तु विद्यायास्तत्तद्गुणावापोद्धामाभ्यां तत्कार्यस्य फलस्योत्कर्षनिकर्षौ युज्येते / न चात्र विद्यात्वं सामान्यतो दृष्टं भवति / आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात् / तस्मात्तस्या मुक्त्यवस्थाया ऐकरूप्यावधृतेर्मुक्तिलक्षणस्य फलस्याविशेषो युक्त इति
SK
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः //
SK
// इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गसाधनविचाराख्यश्चतुर्थः पादः //
SK
अथ चतुर्थो ऽध्यायः
SK
नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः / मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम्
SK
शङ्के संप्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्रतपःस्थितेषु कथमप्युद्वेगमभ्येष्यति /
SK
यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फुटद्वेदान्तार्थविवेकवञ्चिदभवाः स्वर्गे ऽप्यमी निःस्पृहाः
SK
START Bस्VBह्_४,१.१.१

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) (sa_bAdarAyaNa-brahmasUtra-subcomm2.htm).

Source