ऽइति / अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् / अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि / तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यभेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम्, एवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिर्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः
पुरुषार्थत्वम् / तस्मादुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यत इति सिद्धोर्ऽथाभावः / सुगममितरत् / शङ्कते--दृक्शक्तीति / पुरुषो हि दृक्शक्तिः / सा च दृश्यमन्तरेणानर्थिका स्यात् / नच स्वात्मन्यर्थवती, स्वात्मनि वृत्तिविरोधात् / प्रधानं च सर्गशक्तिः / सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्शक्तेर्दृश्यं भवतीति तदुभयार्थवत्वाय सर्जनमिति शङ्कार्थः / निराकरोति--सर्गशक्त्यनुच्छेदवदिति /
SK
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रवर्तते ऽनुच्छेदात् / एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्त्वायानुच्छेदात्सर्वदा प्रवर्तेतेत्यनिर्मोक्षप्रसङ्गः / सकृद्दृश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति
SK
START Bस्VBह्_२,२.१.७
SK
पुरुषाश्मवदिति चेत्तथापि | BBस्_२,२.७ |
SK
नैव दोषात्प्रच्युतिरिति शेषः / मा भूत्पुरुषार्थस्य शक्त्यर्थवत्त्वस्य वा प्रवर्तकत्वम्, पुरुष एव दृक्शक्तिसम्पन्नः पङ्गुरिव प्रवृत्तिशक्तिसंपन्नं प्रधानमन्धमिव प्रवर्तयिष्यतीति शङ्का / दोषादनिर्मोक्षमाह--अभ्युपेतहानं तावदिति / न केवलमभ्युपेतहानम्, अयुक्तं चैतद्भवद्दर्शनालोचनेनेत्याह-कथं चोदासीन इति / निष्क्रियत्वे साधनम्--निर्गुणत्वादिति /
SK
शेषमतिरोहितार्थम्
SK
START Bस्VBह्_२,२.१.८
SK
अङ्गित्वानुपपत्तेश्च | BBस्_२,२.८ |
SK
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्राच्युतिरनित्यत्वप्रसङ्गात् / यथाहुः--ऽनित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यतिऽइति / तदिदमुक्तम्--स्वरूपप्राणाशभयादिति / अथ परिणामिनित्या / यथाहुः--ऽयस्मिन् विक्रियमाणे ऽपि यत्तत्वं न विहन्यते / तदपि नित्यम्ऽइति / तत्राह--बाह्यस्य चेति / यत्साम्यावस्थया सुचिरं
भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या, तया निरोधः प्रतिसंख्यानिरोधः / सन्तमिममसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् / एतेनाप्रतिसंख्यानिरोधो ऽपि व्याख्यातः / संतानगोचरो वा निरोधः, संतानिक्षणगोचरो वा / न तावत्संतानस्य निरोधः संभवति / हेतुफलभावेन हि व्यवस्थिताः संतानिन एवोदयव्ययधर्माणः संतानाः / तत्र यो ऽसावन्त्यः संतानी, यन्निरोधात्संतानोच्छेदेन भवितव्यम्, स किं फलं किञ्चिदारभते न वा / आरभते चेत्, नान्त्यः / तथा च न संतानोच्छेदः / अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन्, अर्थक्रियाकारितायाः सत्तालक्षणस्य विरहात् / तदसत्वे तज्जनकमप्यसज्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्व एव संतानिन इति
यद्यभूत्वा न भवेत् / अभूत्वा भाविनामनित्यत्वाद्घटादीनाम् / कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् / न च परिमाणान्तरावरोधे ऽपूर्वं भवितुमर्हति / तस्मादन्त्यमेव परिमाणं पूर्वमप्यासीदित्यभेदः / तथा चैकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरप्राप्तिः शरीरपरिमाणत्वाभ्युपगमव्याघातादिति / अत्र चोभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति योजना / एकशरीरपरिमाणतैवेति च दीप्यम् / द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना / एकशरीरपरिमाणता न दीप्या, किन्त्वेकपरिमाणतामात्रमणुर्महान् वेति विवेकः