Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)

Subcommentary on the Brahma Sūtras

Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya)

Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)

Adhyāya 4

SK
आवृत्तिर् असकृदुपदेशात् | BBस्_४,१.१ |
SK
साधनानुष्ठानपूर्वकत्वात्फलसिद्धेर्विषयक्रमेण विषयिणोरपि तद्विचारयोः क्रममाह--तृतीये ऽध्याय इति / मुक्तिलक्षणस्य फलस्यात्यन्तपरोक्षत्वात्तदर्थानि दर्शनश्रवणमनननिदिध्यासनानि चोद्यमानान्यदृष्टार्थानीति यावद्विधानमनुष्ठेयानि न तु ततो ऽधिकमावर्तनीयानि प्रमाणाभावात् / यत्र पुनः सकृदुपदेश उपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्रयाजादिवदिति प्राप्त उच्यते / यद्यपि मुक्तिरदृष्टचरी तथापि सवासनाविद्योच्छेदेनात्मनः स्वरूपावस्थानलक्षणायास्तस्याः श्रुतिसिद्धत्वादविद्यायाश्च विद्योत्पादविरोधितया विद्योत्पादेन समुच्छेदस्याहिविभ्रमस्येव रज्जुतत्वसाक्षात्कारेण समुच्छेदस्योपपत्तिसिद्धत्वादन्वयव्यतिरेकाभ्यां च श्रवणमनननिदिध्यासनाभ्यासस्यैव स्वगोचरसाक्षात्कारफलत्वेन लोकसिद्धत्वासकलदुःखविनिर्मुक्तैकचैतन्यात्मको ऽहमित्यपरोक्षरूपानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानात्तदर्थानि श्रवणादीनि दृष्टार्थानि भवन्ति / न च दृष्टार्थत्वे सत्यदृष्टार्थत्वं युक्तम् / न चैतान्यनावृत्तानि सत्कारदीर्घकालनैरन्तर्येण साक्षात्कारवते तादृशानुभवाय कल्पन्ते / न चात्रासाक्षात्कारवद्विज्ञानं साक्षात्कारवतीमविद्यामुच्छेत्तुमर्हति / न खलु पित्तोपहृतेन्द्रियस्य गुडे तिक्ततासाक्षात्कारो ऽन्तरेणमाधुर्यसाक्षात्कारं सहस्रेणाप्युपपत्तिभिर्निवर्तितुमर्हति / अतद्वतो नरान्तरवचांसिवोपपत्तिसहस्राणि वा परामृशतो ऽपि थूत्कृत्य गुडत्यागात् / तदेवं दृष्टार्थत्वद्ध्यानोपासनयोश्चान्तनीर्तावृत्तिकत्वेन लोकतः प्रतीतेरावृत्तिरेवेति सिद्धम्
SK
START Bस्VBह्_४,१.१.२
SK
लिङ्गाच् च | BBस्_४,१.२ |
SK
अधिकरणार्थमुक्त्वा निरुपाधिब्रह्मविषयत्वमस्याक्षिपति--अत्राह भवतु नामेति / साध्ये ह्यनुभवे प्रत्ययावृत्तिरर्थवती नासाध्ये / नहि ब्रह्मानुभवो ब्रह्मसाक्षात्कारो नित्यशुद्धस्वभावाद्ब्रह्मणो ऽतिरिच्यते / तथाच नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या / तदिदमुक्तम्---आत्मभूतमिति / आक्षेप्तारं प्रतिशङ्कते ---सकृच्छ्रुताविति / अयमभिसंधिः--न च ब्रह्मात्मभूतस्तत्साक्षात्कारो ऽविद्यामुच्छिनन्ति तया सहानुवृत्तेरविरोधात् / विरोधे वा तस्य नित्यत्वान्नाविद्योदीयेत कुत एव तु तेन सहानुवर्तेत / तस्मात्तन्निवृत्तये आगन्तुकस्तत्साक्षात्कार एषितव्यः / तथाच प्रत्ययानुवृत्तिरर्थवती / आक्षेप्ता सर्वपूर्वोक्ताक्षेपेण प्रत्यवतिष्ठते ---न आवृत्तावपीति / न खलु ज्योतिष्टोमवाक्यार्थप्रत्ययः शतशो ऽप्यावर्तमानः साक्षात्कारप्रमाणं स्वविषये जनयति / उत्पन्नस्यापि तादृशो दृष्टव्यभिचारत्वेन प्रातिभत्वात् /
SK
ब्रह्मात्मत्वप्रतीतिंब्रह्मत्मसाक्षात्कारम् / पुनः शङ्कते--न केवलं वाक्यमिति / आक्षेप्तादूषयति---तथाप्यावृत्यानर्थक्यमिति / वाक्यं चेद्युक्त्यपेक्षं साक्षात्काराय प्रभवति तथा सति कृतमावृत्या / सकृत्प्रवृत्तस्यैव तस्य सोपपत्तिकस्य यावत्कर्तव्यकरणादिति / पुनः शङ्कते ---अथापि स्यादिति / न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव प्रमाणस्य तत्फलत्वात् / ते तु परोक्षार्थावगाहिनी सामान्यमात्रमभिनिविशते नतु विशेषं साक्षात्कुरुत इति तद्विशेषसाक्षात्कारायावृत्तिरुपास्यते / सा हि सत्कारदीर्घकालनैरन्तर्यसेविता सती दृढभूमिर्विशेषसाक्षात्काराय प्रभवति कामिनीभावनेव स्त्रैणस्य पुंस इति / आक्षेप्ताह--न / असकृदपीति / स खल्वयं साक्षात्कारः शास्त्र युक्तियोनिर्वा स्याद्भावनामात्रयोनिर्वा / न तावत्परोक्षाभासविज्ञानफले शास्त्रयुक्ती साक्षात्कारलक्षणं प्रत्यक्षप्रमाणफलं प्रसोतुमर्हतः / न खलु कुटजबीजाद्वटाङ्कुरो जायते / नच भावनाप्रकर्षपर्यन्तजमपरोक्षावभासमपि ज्ञानं प्रमाणं व्यभिचारादित्युक्तम् / आक्षेप्ता स्वपक्षमुपसंहरति--तस्माद्यदीति / आक्षेप्ताक्षेपान्तरमाह---नच सकृत्प्रवृत्ते इति / कश्चित्खलु शुद्धसत्वोगर्भस्थ इव वामदेवः श्रुत्वा च मत्वा च क्षणमवधाय जीवात्मनो ब्रह्मात्मतमनुभवति / ततो ऽप्यावृत्तिरनर्थिकेति / अतश्चावृत्तिरनर्थिका यन्निरंशस्य ग्रहणमद्ग्रहणं वा न तु व्यक्ताव्यक्तत्वे सामान्यवशेषवत्पद्मरागादिवदित्यत आह--अपि चानेकांशेति / समाधत्ते--अत्रोच्यते--भवेदावृत्यानर्थक्यमिति / अयमभिसन्धिः---सत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपि तु युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवर्तीं बुद्धिवृत्तिं समाधत्ते / सा च नानुमानितवह्निसाक्षात्कारवत्प्रातिभत्वेनाप्रमाणं तदानीं वह्निस्वलक्षणस्यपरोक्षत्वात्सदातनं तु ब्रह्मस्वरूपस्योपाधिरूपितस्य जीवस्यापरोक्षत्वम् / नहि शुद्धबुद्धत्वादयो वस्तुतस्ततो ऽतिरिच्यन्ते / जीव एव तु तत्तदुपाधिरहितः शुद्धादिस्वभावो ब्रह्मेति गम्यते / नच तत्तदुपाधिविरहो ऽपि ततो ऽतिरिच्यते / तस्माद्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारः सचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनामेदमध्यक्षेणेक्षते एवं वेदान्तार्थज्ञानाहितसंस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेनेति / यस्तत्त्वमसीति सकृदुक्तमेवेति / श्रुत्वा मत्वा क्षणमवधाय प्राग्भवीयाभ्यासजातसंस्कारादित्यर्थः / यस्तु न शक्नोतीति / प्राग्भवीयब्रह्माभ्यासरहित इत्यर्थः / नहि दृष्टो ऽनुपपन्नं नामेति / यत्र परोक्षप्रतिभासिनि वाक्यार्थे ऽपि व्यक्ताव्यक्तत्वतारतम्यं तत्र मननोत्तरकालमाध्यासनाभ्यासनिकर्षप्रकर्षक्रमजन्मनि प्रत्ययप्रवाहे साक्षात्कारावधौ व्यक्तितारतम्यं प्रति कैव कथेति भावः / तदेवं वाक्यमात्रस्यार्थे ऽपि न द्रागित्येव प्रत्यय इत्युक्तम् / तत्त्वमसीति तु वाक्यमत्यन्तदुर्ग्रहपदार्थं न पदार्थज्ञानपूर्वके स्वार्थे ज्ञाने द्रागित्येव प्रवर्तते / किन्तु विलम्बिततमपदार्थज्ञानमतिविलम्बेनेत्याह---अपिच तत्वमसीत्येतद्वाक्यं त्वंपदार्थस्येति / स्यादेतत् पदार्थसंसर्गात्मा वाक्यार्थः पदार्थज्ञानक्रमेण तदधीननिरूपणीयतया क्रमवत्प्रतीतिर्युज्यते / ब्रह्म तु निरंशत्वेनाससृष्टनानात्वपदार्थकमिति कस्यानुक्रमेम क्रमवती प्रतीतिरिति सकृदेव तद्गृह्येत न वा गृह्यतेत्युक्तमित्यत आह---यद्यपि च प्रतिपत्तव्य आत्मा निरंश इति / निरंशो ऽप्यहमपरोक्षो ऽप्यात्मा तत्तद्देहाद्यारोपव्युदासाभ्यामंशवानिवात्यन्तपरोक्ष इव / ततश्च वाक्यार्थतया क्रमवत्प्रत्यय उपपद्यते / तत्किंमियमेव वाक्यजनिता प्रतीतिरात्मनि तथाच न साक्षात्प्रतीतिरात्मन्यनागतफलत्वादस्य इत्यत आह---तत्तु पूर्वरूपमेवात्मप्रतिपत्तेः साक्षात्कारवत्याः /
SK
एतदुक्तं भवति---वाक्यार्थश्रवणमननोत्तरकाला विशेषणत्रयवती भावना ब्रह्म साक्षात्काराय कल्पत इति वाक्यार्थप्रतीतिः साक्षात्कारस्य पूर्वरूपमिति / शङ्कते --सत्यमेवमिति / समारोप हि तत्वप्रत्ययेनापोद्यते न तत्वप्रत्ययः / दुःखित्वादिप्रत्ययश्चात्मनि सर्वेषां सर्वदोत्पद्यत इत्यबाधितत्वात्समीचीन इति बलवान्न शक्यो ऽपनेतुमित्यर्थः / निराकरोति---न / देहाद्यभिमानवदिति / नहि सर्वेषां सर्वदोत्पद्यत इत्येतावता तात्विकत्वम् / देहात्माभिमानस्यापि सत्यत्वप्रसङ्गात्सो ऽपि सर्वेषां सर्वदोत्पद्यते / उक्तं चास्य तत्र तत्रोपपत्या बाधनमेवं दुःखित्वाद्यभिमानो ऽपि तथा / नहि नित्यशुद्धबुद्धस्वभावस्यात्मना उपजनापायधर्माणो दुःखशोकादय आत्मानो भवितुमर्हन्ति / नापि धर्माः तेषां ततो ऽत्यन्तभिन्नानां तद्धर्मत्वानुपपत्तेः, नहि गौरश्वस्य धर्मः संबन्धस्यापि व्यतिरेकाव्यतिरेकाभ्यां संबन्धासंबन्धाभ्यां च विचारासहत्वात् / भेदाभेदयोश्च परस्परविरोदेनैकत्रासंभवत्वात् / इति सर्वमेतदुपपादितं द्वितीयाध्याये / तदिदमुक्तं---देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वादिति / इतश्च दुःखित्वादीनां न तादात्म्यमित्याह----सुषुप्तादिषु चेति / स्यादेतत् / कस्मादनुभवार्थ एवावृत्यभ्युपगमो यावता द्रष्टव्यः श्रोतव्य इत्यादिभिस्तत्वमसिवाक्यविषयादन्यविषयैवावृत्तिर्विधास्यत इत्यत आह---तत्रापि न तत्वमसिवाक्यार्थादिति / आत्मा वा अरे द्रष्टव्य इत्याद्यात्मविषयं दर्शनं विधीयते / न च तत्त्वमसीवाक्यविषयादन्यदात्मदर्शनमाम्नातं येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः / सदेव सोम्येदमिति चोपक्रम्य तत्त्वमसीत्युपसंहृत इति स एव वाक्यार्थः / तदितः प्राच्याव्यावृत्तिमन्यत्र विदधानः प्रधानमङ्गेन विहन्ति / वरो हि कर्मणाभिप्रेयमाणत्वात्संप्रदानं प्रधानम् / तमुद्वाहेन कर्मणाङ्गेन न विघ्नन्तीति / ननु विधिप्रधानत्वाद्वाक्यस्य न भूतार्थप्रधानत्वं भूतस्त्वर्थस्तदङ्गतया प्रत्याय्यते / यथाहुः ऽचोदना हि भूतं भवन्तम्ऽइत्यादि शाबरं वाक्यं व्याचक्षाणाः--ऽकार्यमर्थमवगमयन्ती चोदना तच्छेषतया भूतादिकमवगमयतिऽइत्याशङ्क्याह---नियुक्तस्य चास्मिन्नधिकृतो ऽहमिति / यथा तावद्भूतार्थपर्यवसिता वेदान्ता न कार्यविधिनिष्टास्तथोपपादितं ऽतत्तु समन्वयात्ऽ
SK
इत्यत्र / प्रत्युत विधिनिष्ठत्वे मुक्तिविरुद्धप्रत्योत्पादान्मुक्तिविहन्तृत्वमेवास्येत्यभ्युच्चयमात्रमत्रोक्तमिति
SK
START Bस्VBह्_४,१.२.३
SK
आत्मेति तूपगच्छन्ति ग्राहयन्ति च | BBस्_४,१.३ |
SK
यद्यपि तत्वमसीत्याद्याः श्रुतयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि तयोरपहतपाप्मत्वानपहतपाप्मत्वादिलक्षणविरुद्धधर्मसंसग्रेण नानत्वस्य विनिश्चयाच्छ्रुतेश्च तत्वमसीत्यद्याया ऽमनो ब्रह्म, ऽआदित्यो ब्रह्म,ऽइत्यादिवत्प्रतीकोपदेशपरतयाप्युपपत्तेः प्रतीकोपदेश एवायम् / नच यथा समारोपितं सर्पत्वमनूद्य रज्जुत्वं पुरोवर्तिनो द्रव्यस्यविधीयत एवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधीयत इति युक्तम् / युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामान्यरूपेणालोचिते विशेषरूपेणागृहीते विशेषान्तरसमारोपणम् / इह तु प्रकाशात्मनो निर्विशेषसामान्यस्यापराधीनप्रकाशस्य नागृहीतमस्ति किञ्चिद्रुपमिति कस्य विशेषस्याग्रहे किं विशेषान्तरं समारोप्यताम् / तस्माद्ब्रह्मणो जीवभावारोपासंभवाज्जीवो जीवो ब्रह्म च ह्रह्मेति तत्त्वमसीति प्रतीकोपदेश एवेति प्राप्तम् / एवं प्राप्ते ऽभिधीयते---श्वेतकेतोरात्मैव परमेश्वरःप्रतिपत्तव्यो न तु श्वेतकेतोर्व्यतिरिक्तः परमेश्वरः / भेदे हि गौणत्वापत्तिर्न च मुख्यसंभवे गौणत्वं युक्तम् / अपिच प्रतीकोपदेशे सकृद्वचनं तु प्रतीयते भेददर्शननिन्दा च(?) / अभ्यासे हि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् / तस्मात्पौर्वापर्यलोचनया श्रुतेस्तावज्जीवस्य परमात्मता वास्तवीत्येतत्परता लक्ष्यते / नच मानान्तरवीरोधादत्राप्रामाण्यं श्रुतेः / नच मानान्तरविरोध इत्यादि तु सर्वमुपादितं प्रथमाध्याये / निरंशस्यापि चानाद्यनिर्वाच्याविद्यातद्वासनासमारोपितविविधप्रपञ्चात्मनः सांशस्येव कस्यचिदंशस्याग्रहणाद्विभ्रम इव परमार्थस्तु न विभ्रमो नाम कश्चिन्न च संसारो नाम / किन्तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेनानिर्वचनीयमिति युक्तमुत्पश्यामः / तदनेनाभिसंधिनोक्तम्----यद्येवं प्रतिबद्धो ऽसि नास्ति कस्यचिदप्रतिबोध इति /
SK
अन्ये ऽप्याहुः---ऽयद्यद्वैते न तोषो ऽस्ति मुक्त एवासि सर्वदाऽइति / अतिरेहितार्थमन्यदिति
SK
START Bस्VBह्_४,१.३.४
SK
न प्रतीके न हि सः | BBस्_४,१.४ |
SK
यथा हि शास्त्रोक्तं शुद्धमुक्तस्वभावं ब्रह्मात्मत्वेनैव जीवेनोपास्यते ऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु त्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण तात्विकत्वादद्वितीयमिति श्रुतेश्च / जीवात्मानश्चाविद्यादर्पणा यथा ब्रह्मप्रतिबिम्बकास्तथा यत्र यत्र मनो ब्रह्मादित्यो ब्रह्मेत्यादिषु ब्रह्मदृष्टेरुपदेशस्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यं ब्रह्मणो मुख्यमात्मत्वमिति / उपपन्नं च मनःप्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम् / घटशरावोदञ्चनादीनामिव मृद्विकाराणां मृदात्मकत्वम् / तथाच तादृशानां प्रतीकोपदेशानां क्वचित् कस्यचिद्विकारस्य प्रविलयावगमाद्भेदप्रपञ्चप्रविलयपरत्वमेवेति प्राप्त उच्यते---न तावदहं ब्रह्मेत्यादिभिर्यथाहङ्कारास्पदस्य ब्रह्मात्मत्वमुपदिश्यते एवं मनो ब्रह्मेत्यादिभिरहङ्कारास्पदत्वं मनःप्रभृतीनां, किन्त्वेषां ब्रह्मत्वेनोपास्यत्वम् / अहङ्कारास्पदस्य ब्रह्मतया ब्रह्मत्वेनोपासनीयेषु मनःप्रभृतिष्वप्यहङ्कारास्पदत्वेनोपासनमिति चेत् / न / एवमादिष्वहमित्यश्रवणात् / ब्रह्मात्मतया त्वहङ्कारास्पदत्वकल्पने तत्प्रतिबिम्बस्येव तद्विकारान्तरस्याप्याकाशादेर्मनःप्रभृतिषूपासनप्रसङ्गः / तस्माद्यस्य यन्मात्रात्मतयोपासनं विहितं तस्य तन्मात्रात्मतयैव प्रतिपत्तव्यं ऽयावद्वचनं वाचनिकम् ऽइति न्यायात् / नाधिकमध्याहर्तव्यमतिप्रसङ्गात् / नच सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनम् / तदर्थत्वे हि मन इति प्रतीकग्रहणमनर्थकं विश्वमिति वाच्यं यथा सर्वं खल्विदं ब्रह्मेति / नच सर्वोपलक्षणार्थं मनोग्रहणं युक्तम् / मुख्यार्थसंभवे लक्षणया अयोगात् / आदित्यो ब्रह्मेत्यादीनां चानर्थक्यापत्तेः / नह्युपासकः प्रतीकानीति / अनुभवाद्वा प्रतीकानां मनःप्रभृतीनामात्मत्वेनाकलनं श्रुतेर्वा, न त्वेतदुभयमस्तीत्यर्थः / प्रतीकाभावप्रसङ्गादिति / ननु यथावच्छिन्नस्याहङ्करास्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभाव एवं प्रतीकानामपि भविष्यतीत्यत आह---स्वरूपोपमर्दे च नामादीनामिति / इह हि प्रतीकान्यहङ्कारास्पदत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि / नतु तत्वमसीत्यादावहङ्कारास्पदमुपास्यमवगम्यते / किन्तु सर्पत्वानुवादेन रज्जुतत्वश्ज्ञापन इवाहङ्कारास्पदस्यावच्छिन्नस्य प्रविलयो ऽवगम्यते / किमतो यद्येवम् / एतदतो भवति---प्रधानीभूतानां न प्रतीकानामुच्छेदो युक्तो नच तदुच्छेदे विधेयस्याप्युपपत्तिरिति / अपिचनच ब्रह्मण आत्मत्वादिति / नह्युपासनविधानानि जीवात्मनो ब्रह्मस्वभावप्रतिपादनपरैस्तत्वमस्यादिसंदर्भैरेकवाक्यभावमापद्यन्ते येन तदेकवाक्यतया ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्पेत भिन्नप्रकरणत्वात् / तथाच तत्र यथालोकप्रतीतिव्यवस्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्मेति कथं तस्य ब्रह्मात्मतयाब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिरुपदिश्यतेत्यर्थः /
SK
अतश्चोपासकस्य प्रतीकैः समत्वादिति /
SK
यद्यप्युपासको जीवात्मा न ब्रह्मविकारः, प्रतीकानि तु मनःप्रभृतीनिब्रह्मविकारस्तथाप्यवच्छिन्नतया जीवात्मनः प्रतीकैः साम्यं दृष्टव्यम्
SK
START Bस्VBह्_४,१.४.५
SK
ब्रह्मदृष्टिर् उत्कर्षात् | BBस्_४,१.५ |
SK
यद्यपि सामानाधिकरण्मुभयथापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फलप्रसवसामर्थ्येन फलवत्वात्प्राधान्येन तदेवादित्यादिदृष्टिभिः संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु / न चैवंविधे ऽवधृते शास्त्रार्थे निकृष्टदृष्टिनोर्कृष्ट इति लौकिको न्यायो ऽपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदितत्वादिति पूर्वपक्षसंक्षेपः / सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधान्यमवसीयते / यथा ऽदर्शपूर्णमासाभ्यां यजेत स्वर्गकामःऽ, ऽचित्रया यजेत पशुकामःऽइत्यादौ / अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फलवत्वप्रतीतेः प्राधान्यम् / क्वचिद्रव्यस्य यथा व्रीहीन्प्रोक्षतीत्यादौ / तदुक्तं----ऽयैस्तु द्रव्यं संचिकीर्ष्यते गुणस्तत्र प्रतीयतेऽइति / तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्मबुद्ध्याऽदित्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते इत्यभिवदति किंवादित्यादिबुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रार्थसंदेहे लोकानुसारतो निश्चीयते / तदिदमुक्तम्--निर्धारिते शास्त्रार्थ एतदेवं स्यादिति / न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदित्यादिशब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याह---प्राथम्याच्चेति / इति परत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयति / तथाहि----स्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दो ऽपि स्वार्थे वर्त्स्यति यदि स्वार्थो ऽस्य विपक्षितःस्यात् / तथाचेतिपरत्वमनर्थकं तस्मादितीना स्वार्थात्प्रच्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् / नच ब्रह्मपदमादित्यादिपदार्थ इति, प्रतीतिपर एवायमितिपरःशब्दो यथा गौरिति मे गवयो ऽभवदिति / तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याह---इतिपरत्वादपि ब्रह्मशब्दस्येति /
SK
शेषमतिरोहितार्थम्
SK
START Bस्VBह्_४,१.५.६
SK
आदित्यादिमतयश् चाङ्ग उपपत्तेः | BBस्_४,१.६ |
SK
अथवा नियमेनोद्गीथादिमतय आदित्यादिष्वध्यस्येरन्निति /
SK
सत्स्वपि आदित्यादिषु फलानुत्पादादुत्पत्तिमतः कर्मण एव फलदर्शनात्कर्मैव फलवत् / तथा चादित्यादिमतिभिर्यद्युद्गीथादिकर्माणि विषयीक्रियेरंस्तत आदित्यादिदृष्टिभिः कर्मरूपाण्यभिभूयेरन् //
SK
एवञ्च कर्मरूपेष्वसत्कल्पेषु कुतः फलमुत्पद्येत / आदित्यादिषु पुनरुद्गीथादिदृष्टावुद्गीथादिबुद्योपास्यमाना आदित्यादयः कर्मात्मकःसन्तः फलाय कल्पिष्यन्त इति / अत एव च पृथ्व्यग्न्योरृक्सामशब्दप्रयोग उपपन्नो यतः पृथ्व्यामृग्दृष्टिरध्यस्ताग्नौ च सामदृष्टिः / साम्नि पुनरग्निदृष्टौ ऋचि च पृथ्वीदृष्टौ विपरीतं भवेत् / तस्मादप्येतदेव युक्तमित्याह---तथाचेयमेवेति / उपपत्त्यन्तरमाह---अपिच लोकेष्विति / एवं खल्वधिकरणनिर्देशो विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सामदृष्टिरध्यस्येत नान्यथेति / पूर्वाधिकरणराद्धान्तोपपत्तिमत्रैवार्थे ब्रूते---प्रथमनिर्दिष्टेषु चेति / सिद्धान्तमत्र प्रक्रमते---आदित्यादिमतय एवेति / यद्युद्गीथादिमतय आदित्यादिषुक्षिप्येरंस्तत आदित्यादीनांस्वयमकार्यत्वादुद्गीथादिमतेस्तत्र वैयर्थ्यं प्रसज्येत / नह्यादित्यादिभिः किञ्चित्क्रियते यद्विद्यया वीर्यवत्तरं भवेदादित्यादिमत्या विद्ययोद्गीथादिकर्मसु कार्येषु यदेव विद्यय करोति तदेव वीर्यवत्तरं भवतीत्यादित्यमतीनामुपपद्यते उद्गीथादिषु संस्कारकत्वेनोपयोगः / चोदयति---भवतु कर्मसमृद्धिफलेष्वेवमिति / यत्र हि कर्मणः फलं तत्रैवं भवतु यत्र तु गुणातफलं तत्र गुणस्य सिद्धत्वेनाकार्यत्वात्करोतीत्येव नास्तीत्यत्र विद्यायाः क्व उपयोग इत्यर्थः / परिहरति---तेष्वपीति / न तावद्गुणः सिद्धस्वभावः कार्याय फलाय पर्याप्तः, मा भूत्प्रकृतकर्मानिवेशिनो यत्किञ्चित्फलोत्पादः, तस्मात्प्रकृतापूर्वसंनिवेशिनः फलोत्पाद इति तस्य क्रियमाणत्वेन विद्यया वीर्यवत्तरत्वोपपत्तिरिति / फलात्मकत्वाच्चादित्यादीनामिति / यद्यपि ब्रह्मविकारत्वेनादित्योद्गीथयोरविशेषस्तथापि फलात्मकत्वेनादित्यादीनामस्त्युद्गीथादिभ्यो विशेष इत्यर्थः / द्वितीयनिर्देशादप्युद्गीथादीनां प्राधान्यमित्याह---अपि चोमितीति / स्वयमेवोपासनस्य कर्मत्वात्फलवत्वोपपत्तेः / ननूक्तं सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यभूतत्वमभिभूतङ्कर्मणामित्यत आह---आदित्यादिभावेनापि च दृश्यमानानामिति / भवेदेतवं यद्यद्यासेन क्रमरूपमभिभूयेत / अपि तु माणवक इवाग्निदृष्टिः केनचित्तीव्रत्वादिना गुणेन गौण्यनभिभूतमाणवकत्वात्तथेहापि / नहीयं शुक्तिकायां रजतधीरिव वह्निधीर्येन माणवकत्त्वमभिभवेत् / किन्तु गौणी / तथेयमप्युद्गीथादावादित्यदृष्टिर्गौणीति भावः / तदेतस्यामृच्यध्यूढंसामेति त्विति / अन्यथापि लक्षणोपपत्तौ न ऋक्सामेत्यध्यासकल्पना पृथ्व्यग्नयोरित्यर्थः / अक्षरन्यासालोचनया तु विपरीतमेवेत्याह---इयमेवर्गिति / ऽलोकेषुपञ्चविधं सामोपासीतऽइति द्वितीयानिर्देशात्साम्नामुपास्यत्वमवगम्यते / तत्र यदि सामधीरध्यस्येत ततो न सामान्युपास्येरन् अपि तु लोकाः पृथिव्यादयः / तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्पयेत साम्नेति / लोकेष्विति सप्तमी द्वितीयार्थे कथञ्चिन्नीयते / अकारे गावो वास्यन्तां प्रावारे कुसुमानीतिवत् तेनोक्तन्यायानुरोधेन सप्तम्याश्चोभयथाप्यवश्यं कल्पनीयार्थत्वाद्वरं यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्यातव्या / लोकपृथिव्यादिबुद्ध्या पञ्चविधं हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनप्रकारं सामोपासीतेति, तत्र को विनिगमनायां हेतुरित्यत आह---तत्रापीति / तत्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति साम्न उपास्यत्वश्रुतेः साध्विति पञ्चविधस्य / साधुत्वं चास्य धर्मत्वम् / तथाच श्रुतिः --ऽसाधुकारी साधुर्भवतिऽइति / हिङ्कारानुवादेन पृथिवीदृष्टिविधाने हिङ्कारः पृथिवीति प्राप्ते विपरीतनिर्देशः पृथिवी हिङ्कारः
SK
START Bस्VBह्_४,१.६.७
SK
आसीनः संभवात् | BBस्_४,१.७ |
SK
कर्माङ्गसंमन्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र तत्संबद्धोपासानापि तिष्ठतैव कर्तव्या / यत्र त्वासीनस्य तत्रपासनाप्यासीनेनैवेति / नापि सम्यग्दर्शने वस्तुतन्त्रत्वात्प्रमाणतन्त्रत्वात्र्च्च / प्रमाणतन्त्रा च वस्तुव्यवस्था प्रमाणं च .....नापेक्षत इति तत्राप्यनियमः(?) / यन्महता प्रयत्नेन विनोपासितुमशक्यं यथा प्रतीकादि, यथा वा सम्यग्दर्शनमपि तत्वमस्यादि, तत्रैषा चिन्ता / तत्र चोदकशास्त्राभावादनियमे प्राप्ते यथा शक्यत इत्युपभन्धादासीनस्यैव सिद्धम् / ननु यस्यामवस्थायां ध्यायतिरुपचर्यते प्रयुज्यते किमसौ तदा तिष्ठतो न भवति न भवतीत्याह / आसीनश्चाविद्यमानायासो भवतीति / अतिरोहितार्थमितरत्
SK
START Bस्VBह्_४,१.६.८-१०
SK
ध्यानाच् च | BBस्_४,१.८ |
SK
अचलत्वं चापेक्ष्य | BBस्_४,१.९ |
SK
स्मरन्ति च | BBस्_४,१.१० |
SK
START Bस्VBह्_४,१.७.११
SK
यत्रैकाग्रता तत्राविशेषात् | BBस्_४,१.११ |
SK
समे शुचौ शर्करावह्निवालुकाविवर्जित इत्यादिवचनान्नियमे सिद्धे दिग्देशादिनियममवाचनिकमपि प्राचीनप्रवणे वैश्वदेवेन यजेतेतिवद्वैदिकारम्भसामान्यात्क्वचित्कश्चितदाशङ्कते / तमनुग्रहीतुमाचार्यः सुहृद्भावेनैव तदाह स्म / यत्रैकाग्रता मनस्तत्रैव भावनं प्रयोजयत् / ओविशेषात् / नह्यत्रास्ति वैश्वदेवादिवद्वचनं विशेषेकं तस्मादिति
SK
START Bस्VBह्_४,१.८.१२
SK
आ प्रयाणात् तत्रापि हि दृष्टम् | BBस्_४,१.१२ |
SK
अधिकरणविषयं विवेचयति--तत्र यानि तावदिति / अविद्यमाननियोज्या या ब्रह्मात्मप्रतिपत्तिस्तस्याः / शास्त्रं हि नियोज्यस्य कार्यरूपनियोगसंबन्धमवबोधयति तस्यैव कर्मण्यैश्वर्यलक्षणमधिकारं तच्चैतदुभयमतीन्द्रियत्वाद्भवति शास्त्रलक्षणं प्रमाणान्तराप्राप्ये शास्त्रस्यार्थवत्त्वाद्ब्रह्मात्वप्रतीतेस्तु जीवन्मुक्तेन दृष्टत्वान्नास्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति / नन्वेवमप्यभ्युदयफलान्युपासनानि तत्र नियोज्यनियोगलक्षणस्य च कर्मणि स्वामितालक्षणस्य च संबन्धस्यातीन्द्रियत्वात्तत्र सकृत्कारणादेव शास्त्रार्थसमाप्तौप्राप्तायामुपासनपदवेदनीयावृत्तिमात्रमेव कृतवत उपरमः प्राप्तस्तावतैव कृतशास्त्रार्थत्वादिति प्राप्ते ऽभिधीयते--सविज्ञानो भवतीत्यादिश्रुतेर्यत्र स्वर्गादिफलानामपि कर्मणां प्रायणकाले स्वर्गादिविज्ञानापेक्षकत्वं तत्र कैव कथातीन्द्रियफलानामुपासनानाम् / तानि खलु आप्रायणं तत्तदुपास्यगोचरबुद्धिप्रवाहवाहितया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति / किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे संभवत्यदृष्टकल्पना युक्ता / तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति / तदिदमुक्तम्--प्रत्ययास्त्वेत इति /
SK
तथा च श्रुतिः सर्वादीन्द्रियविषय--ऽस यथाक्रतुरस्माल्लोकात् प्रैति तात्क्रतुर्हामुं लोकं प्रेत्यभिसंभवतिऽइति / क्रतुः संकल्पविशेषः / स्मृतयश्चोदाहृता इति
SK
START Bस्VBह्_४,१.९.१३
SK
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् | BBस्_४,१.१३ |
SK
गतस्तृतीयशेषः साधनगोचरो विचारः / इदानीमेतदध्यायगतफलविषया चिन्ता प्रतन्यते / तत्र तावत्प्रथममिदं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्मज्ञानफलान्मोक्षाद्विपरीतफलं दुरितं बन्धनफलं क्षीयते न क्षीयत इति संशयः / किं तावत्प्राप्तं, शास्त्रेण हि फलाय यद्विहितं प्रतिषिद्धं चानर्थपरिहारायाश्वमेधादि ब्रह्महत्यादि चापूर्वान्तरव्यापारं किं तदपूर्वमुपरते ऽपि कर्मण्यत्र सुखदुःखोपभोगात्प्राङ्गाविरन्तुमर्हति / स हि तस्य विनाशहेतुस्तदभावे कथं विनश्येदिति / तस्याकस्मिकत्वप्रसङ्गात् शास्त्रव्याकोपाच्चेति / अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फलप्रसवसामर्थ्यबोधकशास्त्रमप्रमाणं भवेत् / नच प्रायश्चित्तमिव ब्रह्मज्ञानमदत्तफलान्यपि कर्मपूर्वाणि क्षिणोतीति साम्प्रतम् / प्रायश्चित्तानामपि तदप्रक्षयहेतुत्वात् तद्विधानस्य चैनस्विनराधिकारिप्राप्तिमात्रेणोपपत्तावुपात्तदुरितनिर्बहणफलाक्षेपकत्वायोगात् / अत एव स्मरन्ति नाभुक्तं क्षीयते कर्मेति / यदि पुनरपेक्षितोपायतात्मा प्रायश्चित्तविधिर्न नियोज्यविशेषप्रतिलम्भमात्रेण निर्वृणोतीत्यपेक्षिताकाङ्क्षायां दोषसंयोगेन श्रवणात्तन्निबर्हणफलः कल्पेत / तथापि ब्रह्मज्ञानस्य तत्संयोगेनाश्रवणान्नदुरितनिबर्हणसामर्थ्ये प्रमाणमस्ति मोक्षवात् / तस्यापि स्वर्गादिफलवद्देशकालनिमित्तापेक्षयोपपत्तेः / शास्त्रप्रामाण्यात्संभविष्यत्यसाववस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मज्ञानं मोक्षं प्रसोष्यति / योगाध्द्यैर्व वा दिवि भुव्यन्तरीक्षे बहूनि शरीरेन्द्रियाणि निर्माय फलान्युपभुज्यर्द्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी संपत्स्यते / स्थिते चैतस्मिन्नर्थे न्यायबलाद्यथा पुष्करपलाश इत्यादिव्यपदेशो ब्रह्मविद्यास्तुतिमात्रपरतया व्याख्येय इति प्राप्त उच्यते--व्याख्यायेतैवं व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति / शास्त्रं हि फलोत्पादनसामर्थ्यमात्रं कर्मणामवगमयति न तु कुतश्चिदागन्तुकान्निमित्ततः प्रायश्चित्तादेस्तदप्रतिबन्धमपि / तस्य तत्रौदासीन्यात् / यदि शास्त्रबोधितफलप्रसवसामर्थ्यमप्रतिबद्धमागन्तुकेन केनचित् कर्मणा ततस्तत्फलं प्रसूत एवेति न शास्त्रव्याघातः / नाभुक्तं कर्म क्षीयतैति च स्मरणप्रतिबद्धसामर्थ्यकर्माभिप्रायं / दोषक्षयोद्धेशेन चापरविद्यानामस्ति प्रायश्चित्तवद्विधानमैश्वर्यभलानामप्युभयसंयोगाविशेषात् / यत्रापि निर्गुणायां परविद्यायां दोषोद्धेशो नास्ति तत्रापि तत्स्वभावालोचनादेव तत्प्रक्षयप्रसवसामर्थ्यमवसीयते / नहि तत्त्वमसिवाक्यार्थपरिभावनाभुवा प्रसंख्यानेन निर्मृष्टनिखिलकर्तृभोक्तृत्वादिविभ्रमो जीवः फलोपभोगोन युज्यते / नहि रज्जवां भुजङ्कसमारोपनिबन्धना भयकम्पादयः सति रज्जुतत्वसाक्षात्कारे प्रभवन्ति, किन्तु संस्कारशेषात्किञ्चित्कालमनुवृत्ता अपि निवर्तन्त एव / अमुमेवार्थमनुवदन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशाः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथञ्चिद्व्याख्यानमर्हन्ति / ननूक्तं संभविष्यन्ति सावस्था जीवात्मनो यस्यां पर्यायेणोपभोगाद्वा योगर्द्धेः प्रभावतो युगपन्नैकविधकायनिर्माणेनापर्यायेणोपभोगाद्वा जन्तुः कर्माणि क्षपयित्वा मोक्षी संपत्स्यत इत्यत आह---एवमेव च मोक्ष उपपद्यत इति / अनादिकालप्रवृत्ता हि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन क्षेतुमशक्याः / भुञ्जानः खल्वयमपरानपि संचिनोति कर्माशयानिति / नाप्यपर्यायमुपभोगेनासक्तः कर्मान्तराण्यसंचिन्वानः क्षेष्यतीति साम्प्रतम् / कल्पशतानि क्रमकालभोग्यानां सम्प्रति भोक्तुमसामर्थ्यात् / दीर्घकालफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति / तस्मान्नान्यथा मोक्षसंभवः / ननु सत्स्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोक्षफलात् कर्मणः समुदाचरतो ब्रह्मभावमनुभूयाथ लब्धविपाकानां कर्मान्तराणां फलानि भोक्ष्यन्त इत्याह--नच देशकालनिमित्तापेक्षा इति / नहि कार्यः सन्मोक्षो मोक्षो भवितुमर्हति ब्रह्मभावो हि सः / नच ब्रह्म क्रियते नित्यत्वादित्यर्थः / परोक्षत्वानुपत्तेश्च ज्ञानफलस्य / ज्ञानफलं खलु मोक्षो ऽभ्युपेयते / ज्ञानस्य चानन्तरभाविनीज्ञेयाभिव्यक्तिः फलं, सैवाविद्योच्छेदमादधती ब्रह्मस्वभावस्वरूपावस्थानलक्षणाय मोक्षाय कल्पते / एवं हि दृष्टार्थता ज्ञानस्य स्यात् / अपूर्वाधानपरम्परया ज्ञानस्य मोक्षफले कल्प्यमाने ज्ञानस्य परोक्षफलत्वमदृष्टार्थत्वं भवेत् / नच दृष्टे संभवत्यदृष्टकल्पना युक्तेत्यर्थः / तस्माद्ब्रह्माधिगमे ब्रह्मज्ञानेसत्यद्वैतसिद्धौ दुरितक्षय इति सिद्धम्
SK
START Bस्VBह्_४,१.१०.१४
SK
इतरस्याप्य् एवम् असंश्लेषः पाते तु | BBस्_४,१.१४ |
SK
अधर्मस्य स्वाभाविकत्वेन रागादिनिबन्धनत्वेन शास्त्रीयेण ब्रह्मज्ञानेन प्रतिबन्धो युक्तः / धर्मज्ञानयोस्तु शास्त्रीयत्वेन, ज्योतिष्टोमदर्शपौर्णमासविरोधान्नोच्छेद्योच्छेत्तृभावो युज्यते / पाप्नमनश्च विशेषतो ब्रह्मज्ञानोच्छेद्यत्वश्रुतेर्धर्मस्यन तदुच्छेद्यत्वम् / विशेषविधानस्य शेषप्रतिषेधनान्तरीयकत्वेन लोकतः सिद्धेः / यथा देवदत्तो दक्षिणेनाक्ष्णा पश्यतीत्युक्ते न वामेन पश्यतीति गम्यते / उभे ह्येवैष एते तरतीति च यथासंभवं, ब्रह्मज्ञानेन दुष्कृतं भोगेन सुकृतमिति / ऽक्षीयन्ते चास्य कर्माणिऽइति च सामान्यवचनं ऽसर्वे पाप्मानःऽइति विशेषश्रवणात्पापकर्माणीति विशेषे उपसंहरणीयम् / तस्माद्ब्रह्मज्ञानाद्दुष्कृतस्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वाधिकरणराद्धान्ते ऽतिदिश्यते / नो खलु ब्रह्मविद्या केनचिददृष्टेन द्वारेण दुष्कृतमपनयत्यपि तु दृष्टेनैव भोक्तृभोक्तव्यभोगादिप्रविलयद्वारेण तच्चैतत्तुल्यं सुकृतेपीति कथमेतदपि नोच्छिन्द्यात् / एवं च सति न शास्त्रीयत्वसाम्यमात्रमविरोधहेतुर्नहि प्रत्यक्षत्वसामान्यमात्रादविरोधो जलानलादीनां / नच सुकृतशास्त्रमनर्थकमब्रह्मविदं प्रति तद्विधेरर्थवत्वात् / एवमवस्थिते च पाप्मश्रुत्या पुण्यमपि ग्रहीतव्यम् / ब्रह्मज्ञानमपेक्ष्य पुण्यस्य निकृष्टफलत्वात्तत्फलं हि क्षयातिशयवत् / नह्येवं मोक्षो निरतिशयत्वान्नित्यत्वाच्च / दृष्टप्रयोगश्चायं पाप्मशब्दो वेदे पुण्यपापयोः / तद्यथा पुण्यपापे अनुक्रम्य सर्वे पाप्मानो ऽतो निवर्तन्त इत्यत्र / तस्मादविशेषेण पुण्यपापयोरश्लेषविनाशाविति सिद्धम्
SK
START Bस्VBह्_४,१.११.१५
SK
अनारब्धकार्य एव तु पूर्वे तदवधेः | BBस्_४,१.१५ |
SK
यद्यद्वैतज्ञानस्वभावालोचनयोत्तरपूर्वसुकृतदुष्कृतयोरश्लेषविनाशौ हन्त आरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः स्यात् / कर्तृकर्मादिप्रविलयस्योभयत्राविशेषात् / तन्निबन्धनत्वाच्च विनाशस्य / नच संस्कारशेषात्कुलालचक्रभ्रमणवदनुवृत्तिः / वस्तुनः खल्वनुवृत्तिः / मायावादिनश्च पुण्यपापयोश्चमायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः / नच रज्जौ सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्ते ऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् / तत्रापि सर्पासत्त्वे ऽपि तज्ज्ञानस्य सत्त्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्ते ऽपि विभ्रमे ऽनिवृत्तेः / अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छत्वात्किमनुवर्तेत / न संस्कारशेषो न कर्मेत्यविशेषेणारब्धकार्याणामनारब्धकार्याणां च निवृत्तिः / नच तस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्य इति श्रुतेर्देहपातप्रतीक्षारब्धकार्याणां युक्ता / नह्येषा श्रुतिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा / यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति / नहि तत्र स्नानभोजने अवधित्वेन विधीयते कितु क्षपीयस्ता प्रतिपाद्यते उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरताचेति प्राप्ते ऽभिधीयते--यद्यप्यद्वैतब्रह्मतत्त्वसाक्षात्कारो ऽनाद्यविद्यपदर्शितप्रुञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरेधी / तथाप्यनारब्धविपाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं संपादितजात्यायुर्विततपूर्वापरीभूतसुखदुःखोपभोगप्रवाहं कर्मजातम् / तद्धि समुदाचारद्वृत्तितयेतरेभ्यःप्रसुप्तवृत्तिभ्यो बलवत् / अन्यथा देवर्षीणां हिरण्यगर्भमनूद्दालकप्रभृतीनांविगलितनिखिलक्लेशजालावरणतया परितः प्रद्योतमानबुद्धिसत्वानां न ज्योग्जीविता भवेत् / श्रूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च महाकल्पकल्पमन्वन्तरादिजीविता च / न चैते महाधियो न ब्रह्मविदो ब्रह्मचिदश्चाल्पपुण्यमेधसो मनुष्या इति श्रद्धेयं / तस्मादागमानुसारतो ऽस्ति प्रारब्धविभागानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे / तावदेव चिरमिति न चिरता विधीयते /
SK
अपि तु श्रुत्यन्तरसिद्धां चिरतामनूद्य देहपातावधिमात्रविधानं तदेतदभिसंधायौचित्यमात्रतयाह स्म भगवान् भाष्याकारः---न तावदनाश्रित्यारब्धकार्यं कर्माशयमिति / न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरोद्ध्यन्तरमनुवर्तत इत्याह---अकर्त्रात्मबोधो ऽपीति / यदा लोके ऽपि विरोधिनोः किञ्चित्कालं सहानुवृत्तिरुपलब्धा तदेहगमबलाद्दीर्घकालमपि भवतीति न शक्या निवारयितुम् / प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेः / तदेवं मध्यस्थान्प्रतिपाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याह---अपिच नैवात्र विवदितव्यमिति / स्थितप्रज्ञश्च न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् / निरतिशयस्तु स्थितप्रज्ञः / स च सिद्ध एव / नच ज्ञानकार्या भयकम्पादयः, ज्ञानमात्रादनुत्पादात् / सर्पावच्छेदोहि तस्य भयकम्पादिहेतुः / स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः / नच कार्यमपि भयकम्पादि वस्तुसत् / तस्यापि विचारासहत्वेनानिर्वाच्यत्वात् /
SK
अनिर्वाच्याच्चानिर्वाच्योत्पत्तौ नानुपपत्तिः / यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम्
SK
START Bस्VBह्_४,१.१२.१६
SK
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् | BBस्_४,१.१६ |
SK
यदि पुण्यस्याप्यश्लेषविनाशौ हन्त नित्यमप्यग्निहोत्रादि न कर्तव्यं योगमारूरुक्षुणा / तस्यापीतरपुण्यवद्विद्यया विनाशात् / ऽप्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरऽमिति न्यायात् / नच विविदिषन्ति यज्ञेन दानेति मोक्षलक्षणैककार्यतया विद्याकर्मणोरविरोधः / सहासंभवेनैककार्यत्वासंभवात् / नह्येतमात्मानं विदुषो विगलिताखिलकर्तृभोक्तृत्वादिप्रपञ्चविभ्रमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये संभवतः / तस्माद्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते / --सत्यं न विद्ययैककार्यत्वं कर्मणां परस्परविरोधेन सहासंभवात् / विद्योत्पादकतया तु कर्मणामारादुपकारकाणामस्तु मोक्षोपयोगः / नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वकारणविरोधिनां कार्याणां बहुलमुपलब्धेः / तथाच विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणामुपादानमर्थवत् / तदभावे तत्कार्यस्यानुत्पादेन मोक्षस्यासंभवात् / एवञ्च विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याय अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्यन्तपरोक्षवृत्तितया ज्ञानस्तुत्यर्थतया कथञ्चिद्व्याख्यानं भविष्यति / तदनेनाभिसमधिनोक्तं--ज्ञानस्येव हि प्रापकं सत्कर्म प्रणड्या मोक्षकारणमित्युपचर्यते / यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चातिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् / एतदेव स्फोरयति--नहि ब्रह्मविद इति
SK
START Bस्VBह्_४,१.१२.१७
SK
सूत्रान्तरमवतारयितुं पृच्छति--किंविषयं पुनरिदमिति / अस्योत्तरं सूत्रम्--- अतो ऽन्यापि ह्य् एकेषाम् उभयोः | BBस्_४,१.१७ | काम्यकर्मविषयमश्लेषविनाशवचनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति
SK
START Bस्VBह्_४,१.१३.१८
SK
यद् एव विद्ययेति हि | BBस्_४,१.१८ |
SK
अस्ति विद्यासंयुक्तं यज्ञादि य एवं विद्वान्यजेतेत्यादिकम् / अस्ति च केवलम् / तत्र यथा ब्राह्मणाय हिरण्यं दद्यादियुक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूर्खायेति विशेषप्रतिलम्भः तत्कस्य हेतोस्तस्यातिशयवत्वात् / एवं विद्यारहिताद्यज्ञादेर्विद्यासहितमतिशयवदिति तस्यैव परविद्यासाधनत्वमुपात्तदुरितक्षयद्वारा नेतरस्य / तस्माद्विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमिति प्राप्ते ऽभिधीयते--यदेव विद्यया करोति तदेवास्य वीर्यवत्तरमिति तरबर्थश्रुतेर्विद्यारहितस्य वीर्यवत्तामात्रमवगम्यते / नच सर्वथाकिञ्चित्करस्य तदुपपद्यते / तस्मादस्त्यस्यापि कयापि मात्रया परविद्योत्पादोपयोग इति विद्यारहितमपि यज्ञादि परविद्यार्थिनानुष्ठेयमिति सिद्धम्
SK
START Bस्VBह्_४,१.१४.१९
SK
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते | BBस्_४,१.१९ |
SK
अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण / अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात्
SK
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः //
SK
चतुर्थे ऽध्याये द्वितीयः पादः /
SK
START Bस्VBह्_४,२.१.१
SK
वाङ्मनसि दर्शनाच् छब्दाच् च | BBस्_४,२.१ |
SK
अथास्मिन् फलविचारलक्षणे वाङ्मनसि संपद्यत इत्यादिविचारो ऽसंगत इत्यत आह-- अथापरासु विद्यासु फलप्राप्तय इति / अपरविद्याफलप्राप्त्यर्थदेवयानमार्गार्थत्वादुत्क्रान्तेस्तद्गतो विचारः पारम्पर्येण भवति फलविचार इति नासंगत इत्यर्थः / नन्वयमुत्क्रान्तिक्रमो विदुषो नोपपद्यते ऽन तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽइति श्रवणात्तत्कथमस्य विद्याधिकार इत्यत आह-- समाना हि विद्वदविदुषोरिति / विषयमाह-- अस्तीति / विमृशति-- किमिहेति / विशयः संशयः / पूर्वपक्षमाह-- तत्र वागेवेति / श्रतिलक्षणाविशये संशये / सिद्धान्तसूत्रं पूरयित्वा पठति-- वाग्वृत्तिर्मनसि संपद्यते इति /
SK
वृत्त्यध्याहारप्रयोजनं प्रश्नपूर्वकमाह कथमिति / उत्तराधिकरणपर्यालोचनेनैवं पूरितमित्यर्थः / तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि / तस्मादिहाविभागेनाविंशिषतो ऽत्र वृत्त्युपसंहारमात्रविवक्षा सूत्रकारस्येति गम्यते / सिद्धान्तहेतुं प्रश्नपूर्वकमाह-- कस्मादिति / सत्यामेव मनोवृत्तौ वाग्वृत्तेरुपसंहारदर्शनात् / वाचस्तूपसंहारमदृष्टं नागमो ऽपि गमयितुमर्हति / आगमप्रभवयुक्तिविरोधाश्च / आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह / न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत / तस्मात्वृत्तिवृत्तिमतोरभेदविवक्षया वाक्पदं तद्वृत्तौ व्याख्येयम् / संभवति च वाग्वृत्तेर्वागप्रकृतावपि मनसि लयः / तथा तत्र तत्र दर्शनादित्याह-- वृत्त्युद्भवाभिभवाविति
SK
START Bस्VBह्_४,२.१.२
SK
अत एव च सर्वाण्यनु | BBस्_४,२.२ |
SK
यत एव प्रकृतिविकारभावाभावन्मनसि न स्वरूपलयो वाचो ऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षुरादीनामिद्रियाणां सत्येव सवृत्तिके मनसि वृत्तेरनुगतिर्लयो न स्वरूपलयः / वाचस्तु पृथक् ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विवक्षितमित्यर्थः
SK
START Bस्VBह्_४,२.२.३
SK
तन्मनः प्राण उत्तरात् | BBस्_४,२.३ |
SK
यदि स्वप्रकृतौ विकारस्य लयस्ततो मनः प्राणे संपद्यते इत्यत्र मनःस्वरूपस्यैव प्राणे संपत्त्या भवितव्यम् / तथा हि मनः इति नोपचारतो व्याख्यानं भविष्यति / संभवति हि प्रकृतिविकारभावः प्राणमनसोः / अन्नमयं हि सोम्य मन इत्यन्नात्मतामाह मनसः श्रुतिरापोमयः प्राण इति च प्राणस्याबात्मताम् / प्रकृतिविकारयोस्तादात्म्यात् / तथा च प्राणो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्ते ऽभिधीयते--सत्यम्, आपो ऽन्नमसृजन्त इति श्रुतेरबन्नयोः प्रकृतिविकारभावो ऽवगम्यते / न तु तद्विकारयोः प्राणमनसोः / स्वयोनिप्राणाडिकया तु मिथो विकारयोः प्रकृतिविकारभावाभ्युपगमे संकरादतिप्रसङ्गः स्यात् / तस्माद्यो यस्य साक्षाद्विकारस्तस्य तत्र लय इत्यन्नस्याप्सु लयो न त्वब्विकारे प्राणे ऽन्नविकारस्य मनसः / तथा चात्रापि मनोवृत्तेर्वृत्तिमति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम्
SK
START Bस्VBह्_४,२.३.४
SK
सो ऽध्यक्षे तदुपगमादिभ्यः | BBस्_४,२.४ |
SK
प्राणस्तेजसीति तेजःशब्दस्य भूतविशेषवचनत्वाद्विज्ञानात्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्थानश्रुतीनां च तेजोद्धारेणाप्युपपत्तेः / तेजसि समापन्नवृत्तिः खलु प्राणः / तेजस्तु जीवात्मनि समापन्नवृत्ति / तद्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते / तस्मात्तेजस्येव प्राणवृत्तिप्रविलय इति प्राप्ते ऽभिधीयते---स प्रकृतःप्राणो ऽध्यक्षे विज्ञानात्मन्यवतिष्ठते तत्तन्त्रवृत्तिर्भवति / कुतः--उपगमानुगमावस्थानेभ्यो हेतुभ्यः / तत्रोपगमश्रुतिमाह-- एवमेवेममात्मानमिति / अनुगमनश्रुतिमाह-- तमुत्क्रामन्तमिति / अवस्थानश्रुतिमाह- सविज्ञानो भवतीति चेति / विज्ञायते ऽनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञानः / चोदयति-- ननु प्रामस्तेजसीति श्रूयत इति / अधिकावापो ऽशब्दार्थव्याख्यानम् / परिहरति-- नैष दोष इति / यद्यपि प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्वशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयो ऽवगम्यते / न च तेजसस्तत्रापि लय इति साम्प्रतम् / तस्यानिलाकाशक्रमेण परमात्मनि तत्त्वलयावगमात् / तस्मात्तेजोग्रहणेनोपलक्ष्यते तेजः सहचरितदेहबीजभूतपञ्चभूतसूक्ष्मपरिचाराध्यक्षो जीवात्मा तस्मिन् प्राणवृत्तिरप्येतीति / चोदयति-- ननु चेयं श्रुतिरिति / तेजःसहचरितानि भूतान्युपलक्ष्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाहचर्यादित्यर्थः / परिहरति-- सो ऽध्यक्ष इत्यध्यक्षस्यापीति / यदा ह्ययं प्राणो ऽन्तराले ऽध्यक्षं प्राप्याध्यक्षसंपर्कवशादेव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति / अत्रैव दृष्टान्तमाह--- यो ऽपि स्रुघ्नादिति
SK
START Bस्VBह्_४,२.३.५
SK
भूतेषु तच्छ्रुतेः | BBस्_४,२.५ |
SK
START Bस्VBह्_४,२.३.६
SK
सूत्रान्तरमवतारयितुं पृच्छति-- कथं तेजःसहचरितेष्विति /
SK
नैकस्मिन् दर्शयतो हि | BBस्_४,२.६ | अत्र भाष्यकारो ऽनुमानदर्शनमाह-- कार्यस्य शरीरस्येति / स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्मकमित्यर्थः / दर्शयत इति सूत्रावयवं व्याचष्टे-- दर्शयतश्चैतमर्थमिति / प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्यभिप्रायं वा / अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति / श्रुत्यन्तरविरोधं चोदयति-- ननु चोपसंहृतेषु वागादिष्विति /
SK
कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः / परिहरति-- अत्रोच्यत इति / ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः / कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपादानत्वेनेत्यविरोधः / प्रशंसाशब्दो ऽपि
SK
कर्मणां प्रयोजकतया प्रकृष्टमाश्रयत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदुपपत्तेरित्याह-- प्रशंसाशब्दादपि तत्रेति
SK
START Bस्VBह्_४,२.४.७
SK
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य | BBस्_४,२.७ |
SK
अत्रामृतत्वप्राप्तिश्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः / विशयानानांसंदिहानानां पुंसाम् / चोदयति-- ननु विद्याप्रकरण इति / परिहरति-- न स्वापादिवदिति / परविद्ययैवामृतत्वप्राप्त्यवस्थामाख्यातुं तत्सधर्माश्च तद्विधर्माश्चान्या अप्यवस्थास्तदनुगुणतयाख्यायन्ते / साधर्म्यवैधर्म्याभ्यां हि स्फुटतरः प्रतिपिपादयिषिते वस्तुनि प्रत्ययो भवतीति / न तु विदुषः सकाशाद्विशेषवन्तो ऽविद्वांसो विधीयन्ते येन विद्याप्रकरणव्याख्यातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया तेषामनुवाद इति / एवं प्राप्ते ऽभिधीयते--- समाना चैषोत्क्रान्तिर्वाङ्मनसीत्याद्या विद्वदविदुषोः / कुतः-- आसृत्युपकृमात् / सृतिः सरणं देवयानेन पथा कार्यब्रह्मलोकप्राप्तिरासृतेराकार्यब्रह्मलोकप्राप्तेः / अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् / तस्मादेतदुक्तं भवति--नेयं परा विद्या यतो नाडीद्वारमाश्रयते / अपि त्वपरविद्येयम् / न चास्यामात्यन्तिकः क्लेशप्रदाहो यतो न तत्रोत्क्रान्तिर्भवेत् / तस्मादपरविद्यासामर्थ्यादापेक्षिकभाभूतसंप्लवस्थानममृतत्वं प्रेप्सते पुरुषार्थाय संभवत्येष उत्क्रान्तिभेदवान् सृत्युपक्रमोपदेशः / उपपूर्वादुष दाह इत्यस्मादुपोष्येति प्रयोगः
SK
START Bस्VBह्_४,२.५.८
SK
तदापीतेः संसारव्यपदेशात् | BBस्_४,२.८ |
SK
सिद्धां कृत्वा बीजभावावशेषं परमात्मसंपत्तिं विद्वदविदुषोरुत्क्रान्तिः समर्थिता / सैव संप्रति चिन्त्यते / किमात्मनि तेजःप्रभृतीनां भूतसूक्ष्माणां तत्वप्रविलय एव संपत्तिराहोस्विद्बीजभावावशेषेति / यदि पूर्वः पक्षः, नोत्क्रान्तिः / अथोत्तरः ततः सेति / तत्राप्रकृतौ न विकारतत्त्वप्रविलयो यथा मनसि न वागादीनाम् / सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रलय एवात्यन्तिकः स्यात्तेजःप्रभृतीनामिति प्राप्ते ऽभिधीयते--ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः / स्थाणुमन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम् //
SK
ऽइत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्यन्तिके तत्त्वलये नोपपद्यते / न च प्रायणस्यैवैष महिमा विद्वासमविद्वांसं वा प्रतीति सांप्रतमित्याह-- अन्यथा हि सर्वः प्रायणसमय एवेति / विधिशास्त्रं ज्योतिष्टोमादिविषयमनर्थकं प्रायणादेवात्यन्तिकप्रलये पुनर्भवाभावात् / मोक्षशास्त्रं चाप्रयत्नलभ्यात्प्रायणादेव जन्तुमात्रस्य मोक्षप्राप्तेः / न केवलं शास्त्रानर्थक्यमयुक्तश्च प्रायणमात्रान्मोक्ष इत्याह-- मिथ्याज्ञानेति / नासति निदानप्रशमे प्रशमस्तद्वतो युज्यत इत्यर्थः
SK
START Bस्VBह्_४,२.५.९
SK
अथेतरभूतसहितं तेजो जीवस्याश्रयभूतमुत्क्रमद्देहाद्देहान्तरं वा संचरत्कस्मादस्माभिर्न निरीक्ष्यते / तद्धि महत्त्वाद्वानेकद्रव्यत्वाद्वा रूपवदुपलब्दव्यम् / कस्मान्न मूर्तान्तरैः प्रतिबध्यत इति शङ्कामपाकर्तुमिदं सूत्रम्-- सूक्ष्मं प्रमाणतश् च तथोपलब्धेः | BBस्_४,२.९ | चकारो भिन्नक्रमः / न केवलमापीतेस्तदवतिष्ठते / तच्च सूक्ष्मं स्वरूपतः परिमाणतश्च स्वरूपमेव हि तस्य तादृशमदृश्यम् / यथा चाक्षुषस्य तेजसो महतो ऽपि अदृष्टवशादनुद्भूतरूपस्पर्शं हि तत् / परिमाणतः सौक्ष्म्यं यतो नोपलभ्यते यथा त्रसरेणवो जालसूर्यमरीचिभ्यो ऽन्यत्र प्रमाणतस्तथोपलब्धिरिति व्याचष्टे-- तथाहि नाडीनिष्क्रमण इति / आदिग्रहणेन चक्षुष्टो वा मूर्धो वा अन्येभ्यो वा शरीरदेशेभ्य इति संगृहीतम् / अप्रतिघाते हेतुमाह-- स्वच्छत्वाच्चेति / एतदपि हि सूक्ष्मत्वेनैव संगृहीतम् / यथा हि काचाभ्रपटलं स्वच्छस्वभावस्य न तेजसः प्रतिधातम् / एवं सर्वमेव वस्तुजातमस्येति
SK
START Bस्VBह्_४,२.५.१०
SK
नोपमर्देनातः | BBस्_४,२.१० |
SK
अत एव च स्वच्छतालक्षणात्सौक्ष्म्यादसक्तत्वापरनाम्नः
SK
START Bस्VBह्_४,२.५.११
SK
अस्यैव चोपपत्तेर् एष ऊष्मा | BBस्_४,२.११ |
SK
उपपत्तिः प्राप्तिः / एतदुक्तं भवति--दृष्टश्रुताभ्यामूष्मणो ऽन्वयव्यतिरेकाभ्यामस्ति स्थूलाद्देहादतिरिक्तं किञ्चिच्चदामात्सूक्ष्मं शरीरमिति
SK
START Bस्VBह्_४,२.६.१२
SK
प्रतिषेधाद् इति चेन् न शारीरात् | BBस्_४,२.१२ |
SK
अधिकरणतात्पर्यमाह-- अमृतत्वं चानुपोष्येत्यतो विशेषणादिति / विषयमाह-- अथाकामयमान इति / सिद्धान्तिमतमाशङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति-- अतः परविद्याविषयात्प्रतिषेधादिति / यदि हि प्राणोपलक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधच्छ्रुतिः तत एतदुपपद्यते / न त्वेतदस्ति / न तस्मात्प्राण उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधानावमर्शिनाभ्युदयनिःश्रेयसाधिकृतो देहि प्रधानं परामृश्यते / तथा च तस्माद्देहिनो न प्राणः सूक्ष्मं शरीरमुत्क्रामन्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते / स पुनरतिक्रम्य ब्रह्मनाड्य संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुकस्यादित्यमण्डलप्रस्थानं दर्शयतीति प्राप्तम्
SK
START Bस्VBह्_४,२.६.१३
SK
एवं प्राप्ते प्रत्युच्यते--
SK
स्पष्टो ह्येकेषाम् | BBस्_४,२.१३ |
SK
नायं देह्यपादानस्य प्रतिषेधः / अपि तु देहापादानस्य / तथा हि--आर्तभागप्रश्नोत्तरे ह्येकस्मिन्पक्षे संसारिण एव जीवात्मनो ऽनुत्क्रान्तिं परिगृह्य न तर्ह्येष भृतः प्राणानामनुत्क्रान्तेरिति स्वयमाशङ्क्य प्राणानां प्रविलयं प्रतिज्ञाय तत्सिद्ध्यर्थमुत्क्रान्त्यवधेरुच्छ्वयनाध्माने ब्रुवन्यस्योच्छ्वयनाध्माने तस्य तदवधित्वमाह / शरीरस्य च ते इतिशरीरमेव तदपादानं गम्यते / नन्वेवमप्यस्त्वविदुषः संसारिणो विदुषस्तु किमायातमित्यत आह-- तत्सामान्यादिति / ननु तदा सर्वनाम्ना प्रधानतया देहि परामृष्टः तत्कथमत्र देहावगतिरित्यत आह-- अभेदोपचारेण / देहदेहिनोर्देहिपरामर्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् / षष्ठीपाठे तु नोपचार इत्याह-- येषां तु षष्ठीति / अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते / अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषो ऽपि तत्सामान्याद्देहादुत्क्रमणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते / अपिचाद्वैतपरिभावनाभुवा प्रसंख्यानेन निर्मृष्टनिखिलप्रपञ्चावभासजातस्य गन्तव्याभावादेव नास्ति गतिरित्याह-- नच ब्रह्मविद इति / अपदस्य हि ब्रह्मविदो मार्गे पदैषिणो ऽपि देवा इति योजना / चोदयति-- ननु गतिरपीति / परिहरति-- सशरीरस्यैवायं योगबलेन / अपरविद्याबलेनेति
SK
START Bस्VBह्_४,२.६.१४
SK
स्मर्यते च | BBस्_४,२.१४ |
SK
START Bस्VBह्_४,२.७.१५
SK
तानि परे तथा ह्य् आह | BBस्_४,२.१५ |
SK
प्रतिष्ठाविलयनश्रुत्योर्विप्रतिपत्तेर्विमर्शस्तमपनेतुमयमारम्भः / तानि पुनः प्राणशब्दोदितानीन्द्रियाण्येकादश सूक्ष्माणि च भूतानि पञ्च / ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनीति /
SK
आरम्भबीजं विमर्शमाह-- ननु गताःकला इति / घ्राणमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशत्वमुक्तम् / अत्र श्रुत्योर्विषयव्यवस्थया विप्रतिपत्त्यभावमाह--- सा खल्विति / व्यवहारो लौकिकः सांव्यवहारिकप्रमाणापेक्षेयं श्रुतिः / न तात्त्विकप्रमाणापेक्षा / इतरा तु एवमेवास्य परिदृष्टुः इत्यादिका विद्वत्प्रतिपत्त्यपेक्षा तात्त्विकप्रमाणापेक्षा / तस्माद्विषयभेदादविप्रतिपत्तिः श्रुत्योरिति
SK
START Bस्VBह्_४,२.८.१६
SK
अविभागो वचनात् | BBस्_४,२.१६ |
SK
निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः / अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति / तथापि प्रविलयसामान्यात् सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम्
SK
START Bस्VBह्_४,२.९.१७
SK
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया | BBस्_४,२.१७ |
SK
अपरविद्याविदो ऽविदुषश्चोत्क्रान्तिरुक्ता / तत्र किं विद्वानविद्वांश्चाविशेषेण मूर्धादिभ्य उत्क्रामत्याहो विद्वान्मूर्धस्थानादेव, अपरे तु स्थानान्तरेभ्य इति / अत्र विद्यासामर्थ्यमपश्यतः पूर्वपक्षः / तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मना ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्तत्प्रकाशितद्वारो विनिष्क्रमद्वारो विद्वान्मूर्धस्थानादेव निष्क्रामति नान्येभ्यश्चक्षुरादिस्थानेभ्यः / कुतः--विद्यासामर्थात् हार्दविद्यासामर्थ्यात् / उत्कृष्टस्थानप्रतिलम्भाय हि हार्दविद्योपदेशः / मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिः / अथ स्थानान्तरेभ्यो ऽप्युत्क्रामन्कस्माल्लोकमुत्कृष्टं न प्राप्नोतीत्यत आह-- तच्छेषगत्यनुस्मृतियोगाच्च / हार्दविद्याशेषभूता हि मूर्धन्या नाडी गत्यै उपदिष्टा / तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्मणानुगृहीतस्तस्यानुस्मरंस्तद्भावमापन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति / हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदित्यमण्डलमनुप्रविष्टा तामनुशीलयतस्तयैवान्तकाले निर्गमनं भवतीति
SK
START Bस्VBह्_४,२.१०.१८
SK
रश्म्यनुसारी | BBस्_४,२.१८ |
SK
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञा
SK
START Bस्VBह्_४,२.१०.१९
SK
पूर्वपक्षमाशङ्कते सूत्रावयवेन--
SK
निशि नेति चेन् | BBस्_४,२.१९अ |
SK
सूत्रावयवान्तरेण निराकरोति--- न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च | BBस्_४,२.१९ब् | यावद्देहभावि हि शिराकिरणसंपर्कः प्रमाणान्तरात्प्रतीयते / दर्शयति चैतमर्थं श्रुतिरप्यशेषेण / अमुष्मादादित्यात्प्रतायन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते अविस्तार्यन्ते ते रश्मयो ऽमुष्मिन्नादित्ये सृप्ताः / प्रतापादिकार्यदर्शनादिति / आदिग्रहणेन चन्द्रापः संगृह्यन्ते / चन्द्रमसा खल्वम्मयेन संबध्यमानानां सूरीणां भासां चन्द्रिकात्वम् / तस्मादप्यस्ति निशि सौर्यरश्मिप्रचार इति / ये त्याहुः--स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदिति निरपेक्षश्रवणाद्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति / तान्प्रत्याह-- यदि च रात्रौ प्रेत इति / नह्येतद्विशिष्याधीयते ऽध्येतारः / ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोर्ध्वमाक्रमत इति तान्प्रत्याह-- अथ तु विद्वानपीति / नित्यवत्फलसंबन्धेन विहिता विद्या न पाक्षिकफला युक्तेति / ये तु रात्रौ प्रेतस्य विदुषो ऽहरपेक्षां सूर्यमण्डलप्राप्तिराचक्षते तन्मतमाशङ्क्याह--- अथापि रात्राविति / यावत्तावदुपबन्धेनानपेक्षा गतिः श्रुता / न चापेक्षा शक्यावगमा उपबन्धविरोधादिति
SK
START Bस्VBह्_४,२.११.२०
SK
अतश् चायने ऽपि दक्षिणे | BBस्_४,२.२० |
SK
अत एवेत्युक्तहेतुपरामर्श इत्याह-- अत एव चोदीक्षानुपपत्तेरिति / पूर्वपक्षबीजमाह-- उत्तरायणमरणप्राशस्त्य इति / अपनोदमाह-- प्राशस्त्यप्रसिद्धिरिति / अतःपदपरामृष्टहेतुबलादविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्तूभयत्राप्यविशेषो विद्यासामर्थ्यादिति / विदुषो ऽपि च भीष्मस्योत्तरायणप्रतीक्षणमविदुष आचारं ग्राह-यति ऽयद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनःऽइति न्यायात् / आपूर्यमाणपक्षादित्याद्या च श्रुतिर्न कालविशेषप्रतिपत्त्यर्था, अपि त्वातिवाहिकीर्देवताः प्रतिपादयतीति वक्ष्यति / तस्मादविरोधः
SK
START Bस्VBह्_४,२.११.२१
SK
सूत्रान्तरावतरणाय चोदयति-- ननु च यत्र काले त्विति / काल एवात्र प्राधान्येनोच्यते न त्वातिवाहिकी देवतेत्यर्थः /
SK
योगिनः प्रति च स्मर्येते स्मार्ते चैते | BBस्_४,२.२१ |
SK
स्मार्तीमुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः / अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामातिवाहिकतया विषयव्यवस्थया विरोधाभाव उक्तः / अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेणातिवाहिक्य एव देवता उक्ता इत्यविरोध एवेति
SK
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः //२ // //
SK
चतुर्थे ऽध्याये तृतीयः पादः
SK
START Bस्VBह्_४,३.१.१
SK
अर्चिरादिना तत्प्रथितेः | BBस्_४,३.१ |
SK
भिन्नप्रकरणस्थत्वाद्भिन्नोपासनयोगतः / अनपेक्षा मिथो मार्गस्त्वरातो ऽवधृतेरपि //
SK
गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते / एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् / अथ तैरेव रश्मिभिरित्यवधारणं नोपपद्यते पथ्यन्तरस्य निवर्तनीयस्याभावात्तस्मात्परानपेक्षा एवैते पन्थान एकब्रह्मलोकप्राप्त्युपाया व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यते-एकत्वे ऽपि पथो ऽनेकपर्वसंगमसंभवात् / गौरवान्नैव नानात्वं प्रत्यभिज्ञानलिङ्गतः //
SK
सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः / तत्र किमेते रश्म्यहर्वायुसूर्यादयो ऽध्वनः पर्वाणः सन्तो ऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति संदेहे ऽभेदे ऽप्यध्वनो भागभेदोपपत्तेर्न भागिभेदकल्पनोचिता, गौरवप्रसङ्गात् / एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्यभावोपपत्तेर्नानेकाध्वकल्पना / अथैतैरेव रश्मिभिरित्यवधारणं न तावदर्थान्तरनिवृत्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्विरोधात्, तस्मादन्यानपेक्षामस्यावधारयतीति वक्तव्यम् / न चैकं वाक्यमप्राप्तमध्वानं प्रापयति तस्य चानपेक्षतां प्रतिपादयतीत्यर्थद्वयाय पर्याप्तं, तस्माद्विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारो ऽनुवदतीति युक्तम् / त्वरावचनं चेति / न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः / यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुतश्चिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातीति / भूयांस्यर्चिरादिश्रुतौ मार्गपर्वाणीति / अयमर्थः-एकत्वात्प्राप्तव्यस्य ब्रह्मलोकस्याल्पपर्वणा मार्गेण तत्प्राप्तौ संभवन्त्यां बहुमार्गोपदेशो व्यर्थः प्रसज्यते / तत्र चेतनस्याप्रवृत्तेः / तस्माद्भूयसां पर्वणामविरोधेनाल्पानां तदनुप्रवेश एव युक्त इति
SK
START Bस्VBह्_४,३.२.२
SK
वायुम् अब्दाद् अविशेषविशेषाभ्याम् | BBस्_४,३.२ |
SK
ऽश्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता / ऊर्ध्वाक्रमणमात्रे च श्रुता वायोर्निमित्तता //
SK
ऽ ऽस वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमतेऽइति हि वायुनिमित्तमूर्ध्वाक्रमणं श्रुतं न तु वायुनिमित्तमादित्यगमनं ऽस आदित्यं गच्छतिऽइत्यादित्यगमनमात्रप्रतीतेः / नच तेनेत्यनन्तरश्रुतोर्ध्वीक्रमणक्रियासंबन्धि निराकाङ्क्षमादित्यगमनक्रिययापि संबन्द्धुमर्हति / न चादित्यागमनस्य तेनेति विना काचिदनुपपत्तिर्येनान्यसंबद्धमप्यनुषज्यते / तत्राग्निलोकमागच्छति स वायुलोकमित्यादिसंदर्भगतस्य पाठस्य क्वचिन्नियामकत्वेन कॢप्तसामर्थ्यादग्निवायुवरुणक्रमनियामकश्रुत्याद्यभावादिति प्राप्ते प्रत्युच्यते-ऊर्ध्वशब्दो न लोकस्य कस्यचित्प्रतिपादकः / तद्भेदापेक्षया युक्तमादित्येन विशेषणम् //
SK
भवेदेतदेवं यद्यूर्ध्वशब्दात्कश्चिल्लोकभेदः प्रतीयेत स तूपरिदेशमात्रवाची लोकभेदाद्विनापर्यवस्यंल्लोकभेदवाचिनादित्यपदेनादित्ये व्यवस्थाप्यते / तथा चादित्यलोकगमनमेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदार्थमात्रप्रदर्शनार्थो न तु क्रमाय प्रभवति श्रुतिविरोधादिति सिद्धम् / वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रोभयानुरोधादुभयपाठे माससंबन्धात्संवत्सरः पूर्वः पश्चिमो देवलोकः / नहि मासो देवलोकेन संबध्यते किन्तु संवत्सरेण / तस्मात्तयोः परस्परसंबन्धान्मासारभ्यत्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति / तत्रादित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाद्वायुमिति पठितव्यम् / वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव / तथापि संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसंभवन्तीति छान्दोग्यपाठमात्रापेक्षयोक्तं, तदिदमाह-वायुमब्दादिति त्विति
SK
START Bस्VBह्_४,३.३.३
SK
तडितो ऽधि वरुणः संबन्धात् | BBस्_४,३.३ |
SK
तडिदन्ते ऽर्चिराद्ये ऽध्वन्यप्पतिस्तडितः परः / तत्संबन्धात्तथेन्द्रादिरप्पतेः पर ईष्यते //
SK
आगन्तूनां निवेशो ऽन्ते स्थानाभावात्प्रसाधितः / तथा चेन्द्रादिरागन्तुः पठ्यते चाप्पतेः परः
SK
START Bस्VBह्_४,३.४.४
SK
आतिवाहिकास् तल्लिङ्गात् | BBस्_४,३.४ |
SK
मार्गचिह्नसरूपत्वाच्चिह्नान्येवार्चिरादयः / भर्तृभोगभुवो वा स्युर्लोकत्वान्नातिवाहिकाः //
SK
अर्चिरादिशब्दा हि ज्वलनादावचेतनेषु निरूढवृत्तयो लोके / न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतनन्त्रक्रिया बुद्धिपूर्वा संभवत्यचेतनानाम् / तस्माल्लोकशब्दवाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे / अपि चार्चिष इत्यस्मादपादानां प्रतीयते / न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् //
SK
जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा / न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते / अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवाहिकाः / न चामानवस्य पुरुषस्य विद्युदादिषु वोढृत्वदर्शनादर्चिरादीनामपि वोढृत्वमुन्नेयम् / यावद्वचनं हि वाचनिकं न तदवाच्ये संचारयितुमुचितम् / अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृत्वान्नामानवः पुरुषो वोढा श्रूयेत / यतः श्रूयते ततो ऽवगच्छामो विद्युदादिवन्नार्चिरादीनां वोढृत्वमिति / तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यते-संपिण्डकरणानां हि सूक्ष्मदेहवतां गतौ / न स्वातन्त्र्यं न चाग्न्याद्या नेतारो ऽचेतनास्तु ते //
SK
ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षावतो ऽप्रेक्षावतो वा प्रेक्षावत्प्रयुक्तस्य / न तावद्विगलितस्थूलकलेवराः सूक्ष्मदेहवन्तः संपिण्डितकरणग्रामा उत्क्रान्तिमन्तो जीवात्मानो मत्तमूर्च्छिचवत्स्वयं प्रेक्षावन्तो यदेवं स्वातन्त्र्येण गच्छेयुस्तद्यद्यर्चिरादयो ऽपि मार्गचिह्नानि वा शमीकारस्करादिवद्भोगभूमयो वा सुमेरुशैलेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् / न चैतेभ्यो ऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसंभवे / नच परमेश्वर एवास्तु नेतेति युक्तम् / तस्यात्यन्तसाधारणतया लोकपालग्रहादीनामकिञ्चित्करत्वात् / तस्माद्व्यवस्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वातन्त्र्यमेवमिहाप्यर्चिरादीनामातिवाहिकत्वमेव दर्शनानुसाराच्छब्दार्थ इति युक्तम् / इममेवार्थममानवपुरुषातिवाहनलक्षणं लिङ्गमुपोद्वलयतीत्युक्तम् / अनवस्थितत्वादर्चिरादीनामिति / अवस्थितं हि मार्गचिह्नं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति / अर्चिष इति च हेतौ पञ्चमी नापादाने / गुणत्वं चाश्रिततया / नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् / अपिच ते ऽर्चिरभिसंभवन्तीति संबन्धमात्रमुक्तमिति / सामान्यवचने शब्दे विशेषाकाङ्क्षिणि स्फुटम् / यद्विशेषपदं तेन तत्सामान्यं नियम्यते //
SK
यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तत्संनिधावुपनिपतति पदं कण्ठादि(?) तदा तेनैतन्नियम्यते एवमिहापीति
SK
START Bस्VBह्_४,३.४.५
SK
उभयव्यामोहात् तत् सिद्धेः | BBस्_४,३.५ |
SK
START Bस्VBह्_४,३.४.६
SK
वैद्युतेनैव ततस् तच्छ्रुतेः | BBस्_४,३.६ |
SK
विद्युल्लोकमागतो ऽमानवः पुरुषो वैद्युतस्तेनैव न तु वरुणादिना स्वयमुह्यते / तच्छ्रुतेस्तस्यैव स्वयं वोढृत्वश्रुतेः / वरुणादयस्तु तत्साहायके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढृत्वे इति सर्वमवदातम्
SK
पाठक्रमादर्थक्रमो बलवानितियथार्थक्रमं पठ्यन्ते सूत्राणि-परं जैमिनिर्मुख्यत्वात् /
SK
स एतान् ब्रह्म गमयतीति विचिकित्स्यते / किं परं ब्रह्म गमयत्याहोस्विदपरं कार्यं ब्रह्मेति / मुख्यत्वादमृतप्राप्तेः परप्रकरणादपि / गन्तव्यं जैमिनिर्मेने परमेवार्चिरादिना //
SK
ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरूढत्वादनपेक्षतया मुख्यमिति सति संभवे न कार्ये ब्रह्मणि गुणकल्पनया व्याख्यातुमुचितम् / अपि चामृतत्वफलावर्तिर्न कार्यब्रह्मप्राप्तौ युज्यते / तस्य कार्यत्वेन मरणधर्मवत्त्वात् / किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजापतिसद्मप्रतिपत्त्यादय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् / न च परस्मिन्त्सर्वगते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् / प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते / यथैकस्मिन्न्यग्रोधपादपे मूलादग्रमग्राच्च मूलं गच्छतः शाखामृगस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति / न चैते तदवयवविषयी न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते / न्यग्रोधावयवस्य तदवयवयोगात् / एवं दृश्यमानानामपि तदवयवानां न योगस्तदवयवयोगात्तदन्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते / ते चातीन्द्रिया इति कस्मिन्नु नामायमनुभवपद्धतिमध्यास्तां संयोगतपस्वी / तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफलत्वावगतिरेषितव्या / तद्ब्रह्म प्राप्तमपि प्राप्तिफलायावगतेगोचरो भविष्यति / ब्रह्मलोकेष्विति च बहुवचनमेकस्मिन्नपि प्रयोगसाधुतामात्रेण गमयितव्यम् / लोकशब्दश्चालोकने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे / तस्मात् परब्रह्मप्राप्त्यर्थं गत्युपदेशसामर्थ्यादयमर्थो भवति / यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् / प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवंभूतां विना लिङ्गप्रविलय इति / अत एव श्रुतिः- पुरुषमाणाः पुरुषं प्राप्यास्तं गच्छन्ति / तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः /
SK
START Bस्VBह्_४,३.५.७
SK
कार्यं बादरिरस्य गत्युपपत्तेः | BBस्_४,३.७ |
SK
तत्त्वदर्शीं बादरिर्ददर्श- कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापणी गतिः / प्रापयेद्ब्रह्म न परं प्राप्तत्वाज्जगदात्मकम् //
SK
तत्त्वमसिवाक्यार्थसाक्षात्कारात्प्राक्किल जीवात्माविद्याकर्मवासनाद्युपाध्यवच्छेदाद्वस्तुतो ऽनवच्छिन्नो ऽवच्छिन्नमिवाभिन्नो ऽपि लोकेभ्यो भिन्नमिवात्मानमभिमन्यमानः स्वरूपादन्यानप्राप्तानर्चिरादींल्लोकान्गत्याप्नोतीति युज्यते / अद्वैतब्रह्मतत्त्वसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्चावभासविभ्रमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन संगतम् / तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्ययग्रोधवानरतद्गतितत्संयोगविभागानां मिथो भेदात् / नच तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्वप्राप्तावप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः / एतदपि वस्तुतो विचारसहतया सर्वमनिर्वचनीयं विजृम्भितमविद्यायाः समुत्पन्नाद्वैततत्त्वसाक्षात्कारो न विद्वानभिमन्यते / विदुषो ऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसारिकधर्मानुवृत्तिरभ्युपेयते एवमालिङ्गशरीरपाताद्विदुषस्तद्धर्मानुवृत्तिः /
SK
तथाचाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तौ च लिङ्गदेहनिवृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत् / न / परविद्यावत उत्क्रान्तिप्रतिषेधात् ऽब्रह्मैव सन्ब्रह्माप्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्तेऽइति / यथा विद्याब्रह्मप्राप्त्योः समानकालता श्रूयते- ऽब्रह्म वेद ब्रह्मैव भवतिऽ ऽआनन्दं ब्रह्मणो विद्वान्न बिभेतिऽ ऽतदात्मानमेव वेदाहं ब्रह्मास्मीति तत्सर्वमभवत्ऽ ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽइति पौर्वापर्याश्रवणात् परविद्यावतो मुक्तिं प्रति नोपायान्तरापेक्षेति लक्ष्यते ऽभिसंधिः श्रुतेः / उपपन्नं चैतत् / न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्मभावसाक्षात्कारेणोन्मूलितायामनवयवेनाविद्यायामस्ति गन्तव्यगन्तृविभागो विदुषस्तदभावे कथमयमर्चिरादिमार्गे प्रवर्तेत / नच छायामात्रेणापि सांसारिकधर्मानुवृत्तिस्तत्र प्रवृत्त्यङ्गं यादृच्छिकप्रवृत्तेः / श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च / अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे / न चार्चिरादिमार्गभावनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरपि साम्प्रतम् / विकल्पासहत्वात् / किमियं परविद्यानपेक्षा परब्रह्मप्राप्तिसाधनं तदपेक्षा वा / न तावदनपेक्षा ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽइति परब्रह्मविज्ञानादन्यस्याध्वनः साक्षात्प्रतिषेधात् / परविद्यापेक्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे / न तावद्विद्याकार्ये तया सह तस्या द्वैताद्वैतगोचरतया मिथो विरोधेन सहासंभवात् / नापि यज्ञादिवद्विद्योत्पादे साक्षात्ब्रह्मप्राप्त्युपायत्वश्रवणादेतान्ब्रह्म गमयतीति / यज्ञादेस्तु विविदिषासंयोगेन श्रवणाद्विद्योत्पादाङ्गत्वम् / तस्मादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दो ऽसंभवन्मुख्यवृत्तिर्ब्रह्मसामीप्यादपरब्रह्मणि लक्षणया नेतव्यः / तथाच लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य / परस्य त्वनवयवतया तद्द्वारेणाप्यनुपपत्तेः / लोकत्वं चेलावृत्तादिवत्सन्निवेशविशेषवति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति / तस्मात्साधुदर्शी स भगवान्बादरिरसाधुदर्शी जैमिनिरिति सिद्धम् / अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैतन्यानन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूषणायानुभाष्यमाणा अप्यप्रामाणिकत्वमावहन्त्यस्माकमित्युपेक्षिताः / ग्रन्थयोजना तुप्रत्यगात्मत्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्यक् प्रतिभाववृत्ति ब्रह्म तदात्मत्वाद्गन्तॄणां जीवात्मनामिति / गौणी त्वन्यत्रेति / यौगिक्यपि हि योगगुणापेक्षया गौण्येव / विशुद्धोपाधिसंबन्धमिति / मनोमयत्वादयः कल्पनाः कार्याः / कार्यत्वादविशुद्धा अपि श्रेयोहेतुत्वाद्विशुद्धाः / प्रतिसंचरो महाप्रलयः प्रतिपत्त्यभिसंधिः प्रतिपत्तिर्गतिः पदेर्गत्यर्थत्वात् / अभिसंधिस्तात्पर्यम् / यस्य ब्रह्मणो नामाभिधानं यश इति / पूर्ववाक्यविच्छेदेनेति / श्रुतिवाक्ये बलीयसी प्रकरणात् / सगुणे ऽपि च ब्रह्मणीति / प्रशंसार्थमित्यर्थः / चोदयति-ननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति / न्यग्रोधवानरदृष्टान्त उपपादितः / परिहरति-न / प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति / अयमभिसंधिः-यथातथा न्यग्रोधावयवी परिणामवानुपजनापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रोधवत्संयोगविभागभाग् भवितुमर्हति / काल्पनिकसंयोगविभागस्तु काल्पनिकस्यैव कार्यब्रह्मलोकस्योपपद्यते न परस्य / शङ्कते-जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति / नह्युत्पत्त्यादिहेतुभावो ऽपरिणामिनः संभवति तस्मात्परिणामीति / तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः / निराकरोति-न / विशेषनिराकरणश्रुतिनामिति / विशेषनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् / अफलं तूत्पत्त्यादिविधानम् / तस्मात्फलवतः संनिधावाम्नायमानं तदर्थमेवोच्यत इत्युपपत्तिः / तद्विजिज्ञासस्वेति च श्रुतिः / तस्माच्छ्रुत्युपपत्तिभ्यां निरस्तसमस्तविशेषब्रह्मप्रतिपादनपरो ऽयमाम्नायो न तूत्पत्त्यादिप्रतिपादनपरः / तस्मान्न गतिस्तात्त्विकी / अपि चेयं गतिर्न विचारं सहत इत्याह-गतिकल्पनायां चेति / अन्यानन्यत्वीश्रयाववयवविकारपक्षौ / अन्यो वात्यन्तम् / अथ कस्मादात्यन्तिकमनन्यत्वं न कल्प्यत इत्यत आह-अत्यन्ततादात्म्य इति / मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति / विकारावयवपक्षयोश्च तद्वतः सह विकारावयवैःस्थिरत्वादचलत्वाद्ब्रह्मणः संसारलक्षणं गमनं विकारावयवयेरनुपपन्नम् / नहि स्थिरात्मकमस्थिरं भवति / अन्यानन्यत्वे अपि चैकस्य विरोधादसंभवन्ती इति भावः / अथान्य एव जीवो ब्रह्मणः / तथाच ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्प्यत इति / एतद्विकल्प्य दूषयति-सो ऽणुरिति /
SK
मध्यमपरिमाणत्व इति /
SK
मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् / न / मुख्यैकत्वेति / भेदाभेदयोर्विरोधिनोरेकत्रासंभवाद्बुद्धिव्यपदेशभेदादर्थभेदः / अयुतसिद्धतयोपचारेणाभिन्नमुच्यत इत्यमुख्यमस्यैकत्वमित्यर्थः / अपिच जीवानां ब्रह्मावयवत्वपरिणामात्यन्तभेदपक्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभावहानाज्जीवानां विनाशप्रसङ्गः / ब्रह्मविवर्तत्वे तु ब्रह्मैवैषां स्वभावः प्रतिबिम्बानामिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याह-सर्वेष्वेतेष्विति / मतान्तरमुपन्यस्यति दूषयितुम्-यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानंनित्यनैमित्तिकानीति / यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्तो ऽपि न पुनर्भवति / एवं कर्मनिमित्तो बन्ध उपात्तानां कर्मणामुपभोगात्प्रक्षये प्रशाम्यति / कर्मान्तरामणां च बन्धहेतूनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावात्स्वभावसिद्धो मोक्ष आरोग्यमिव / उपात्तदुरितनिबर्हणाय च नित्यनैमित्तिककर्मानुष्ठानाद्दुरितनिमित्तप्रत्यवायो न भवति / प्रत्यवायानुत्पत्तौ च स्वस्थस्वान्तो न निषिद्धान्याचरेदिति / तदेतद्दूषयति-तदसत् / प्रमाणाभावादिति / शास्त्रं खल्वस्मिन्प्रमाणं तच्च मोक्षमाणस्यात्मज्ञानमेवोपदिशति नतूक्तमाचारम् / न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्याप्यसंख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्तुमशक्यत्वादित्याह-न चैतत्तर्कयितुमपीति / चोदयति-स्यादेतदिति / नित्येति / परिहरति-तन्न विरोधाभावादिति / यदि हि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् / नह्यस्ति कश्चिच्चातुर्वर्ण्ये चातुराश्रम्ये वा यो न नित्यनैमित्तिकानि कर्माणि करोति / तस्मान्नैषां सुकृतविरोधितेति / अभ्युच्चयमात्रमाह-नच नित्यनैमित्तिकानुष्ठानादिति / न चासति सम्यग्दर्शने इति / सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमादादुपनिपतिते तेनैवसम्यग्दर्शनेन क्षपयति / ज्ञानपरिपाके च न करोत्येव अज्ञस्तु निपुणो ऽपि प्रमादात्करोति / कृते च न क्षपयितुं क्षमत इति विशेषः / न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति / कर्तृत्वभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् / नहि स्वभावाद्भावो ऽवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् / न च भोगो ऽपि सत्स्वभावः शक्यो ऽसत्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तं-स्वभावस्यापरिहार्यत्वादिति / समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तुं सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः / भावमिममविद्वान्परिचोदयति-स्यादेतत् / कर्तृत्वभोक्तृत्वकार्यमिति / अप्रकाशितभावो यथोक्तमेव समाधत्ते-तच्च नेति / कर्तृत्वभोक्तृत्वयोर्निमित्तसंबन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति संभावनातः कुतः कैवल्यनिश्चय इत्यर्थः / भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयति-परस्मादनन्यत्वे ऽपीति /
SK
शेषमतिरोहितार्थम्
SK
START Bस्VBह्_४,३.५.८-१४
SK
विशेषितत्वाच् च | BBस्_४,३.८ |
SK
सामीप्यात् तु तद्व्यपदेशः | BBस्_४,३.९ |
SK
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् | BBस्_४,३.१० |
SK
स्मृतेश् च | BBस्_४,३.११ |
SK
परं जैमिनिर् मुख्यत्वात् | BBस्_४,३.१२ |
SK
दर्शनाच् च | BBस्_४,३.१३ |
SK
न च कार्ये प्रतिपत्त्यभिसंधिः | BBस्_४,३.१४ |
SK
START Bस्VBह्_४,३.६.१५
SK
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च | BBस्_४,३.१५ |
SK
अब्रह्मक्रतवो यान्ति यथा पञ्चाग्निविद्यया / ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा //
SK
सन्ति हि मनो ब्रह्मेत्युपासीतेत्याद्याः प्रतीकविषया विद्याः / तद्वन्तो ऽप्यर्चिरादिमार्गेण कार्यब्रह्मोपासका इव गन्तुमर्हन्ति ऽअनियमः सर्वासाम्ऽइत्यविशेषेण विद्यान्तरेष्वपि गतेरवधारणात् / न चैषां परब्रह्मविदामिव गत्यसंभव इति / नच ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातत्क्रतव इत्यप्येकान्तः / अतत्क्रतूनामपि पञ्चाग्निविदां तत्प्राप्तेः / न चैते न ब्रह्मक्रतवो मनो ब्रह्मेत्युपासीतेत्यादौ सर्वत्र ब्रह्मानुगमेन तत्क्रतुत्वस्यापि संभवात् / फलविशेषस्य ब्रह्मलोकप्राप्तावप्युपपत्तेः, तस्य सावयवतयोत्कर्षनिकर्षसंभवादिति प्राप्ते प्रत्युच्यते- उत्तरोत्तरभूयस्त्वादब्रह्मक्रतुभावतः / प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् //
SK
भवतु पञ्चाग्निविद्यायामब्रह्मक्रतूनामपि ब्रह्मलोकनयनं, वचनात् / किमिव हि वचनं न कुर्यात् नास्ति वचनस्यातिभार इह तु तदभावात् / ऽतं यथायथोपासते तदेव भवतिऽइति श्रुतेरौत्सर्गिक्यान्नासति विशेषवचने ऽपवादो युज्यते / नच प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्मेत्यनुगमे / किन्तु नामादिविशेषं ब्रह्मरूपतया / तथा खल्वयं नामादितन्त्रो न ब्रह्मतन्त्रः / आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीक इति हि वृद्धाः / ब्रह्माश्रयश्च प्रत्ययो नामादिषु प्रक्षिप्त इति नामतन्त्रः / तस्मान्न तदुपासको ब्रह्मक्रतुः किन्तुनामादिक्रतुः / न च ब्रह्मक्रतुत्वे नामाद्युपासकानामविशेषादुत्तरोत्तरोत्कर्षः संभवी / नच ब्रह्मक्रतुस्तदवयवक्रतुर्येन तदवयवापेक्षयोत्कर्षो वर्ण्येत / तस्मात्प्रतीकालम्बनान्विदुषो वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयत्यमानवो ब्रह्मलोकम् / न ह्येवमुभयथाभाव उभयथार्थत्वे कांश्चित्प्रतीकालम्बनान्न नयति विकारलम्बनान्विदुषस्तु नयतीत्यभ्युपगमे कश्चिद्दोषो ऽस्ति ऽअनियमः सर्वासाम्ऽइत्यस्य न्यायस्येति सर्वमवदातम्
SK
START Bस्VBह्_४,३.६.१६
SK
विशेषं च दर्शयति | BBस्_४,३.१६ |
SK
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य तृतीयः पादः
SK
चतुर्थे ऽध्याये चतुर्थः पादः /
SK
START Bस्VBह्_४,४.१.१
SK
संपद्याविर्भावः स्वेन शब्दात् | BBस्_४,४.१ |
SK
प्रागभूतस्य निष्पत्तौ कर्तृत्वं न सतो यतः / फलत्वेन प्रसिद्धेश्च मुक्ते रूपान्तरोद्भवः / अभूतस्य घटादेर्भवनं निष्पत्तिर्न पुनरत्यन्तसतो ऽसतो वा / न जातु गगनतत्कुसुमे निष्पद्येते / स्वरूपावस्थानं चेदात्मनो मुक्तिर्न सा निष्पद्येत, तस्य गगनवदत्यन्तसतः प्रागसत्त्वाभावात् / न चास्य बन्धाभावो निष्पद्यते, तस्य तुच्छस्वभावस्य कार्यत्वेनातुच्छत्वप्रसङ्गात् / फलत्वप्रसिद्धेश्च मोक्षस्याकार्यस्य फलत्वानवकल्पनादागन्तुना रूपेण केनचिदुत्पत्तौ स्वेनेति प्राप्तमनूद्यत इति प्राप्ते ऽभिधीयते-संभवत्यर्थवत्त्वे हि नानर्थक्यमुपेयते / बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते //
SK
अनधिगतावबोधनं हि प्रमाणं शाब्दमगत्या कथञ्चिदनुवादतया वर्ण्यते / सकलसांसारिकधर्मापेतं तु प्रसन्नमात्मरूपमप्रसन्नात्तस्मादेव रूपाद्व्यावृत्तमनधिगतमवबोधयन्नानुवादो युज्यते / न चास्य निष्पत्त्यसंभवः, सत इव घटादेः सांव्यवहारिकेण प्रमाणेन बन्धविगमस्यापि निष्पत्तेर्लोकसिद्धत्वात् / विचारासहतया त्वसिद्धिरुभयत्रापि तुल्या / न ह्यसदुत्पत्तुमर्हतीत्यसकृदावेदितम् / अन्धो भवतीति स्वप्नावस्था दर्शिता बाह्येन्द्रियव्यापाराभावात् / रोदितीव जाग्रदवस्था दुःखशोकाद्यात्मकत्वात् / विनाशमेवापीत इति सुषुप्तिः / एवकारश्चेवार्थे ऽनवधारणे
SK
START Bस्VBह्_४,४.१.२
SK
मुक्तः प्रतिज्ञानात् | BBस्_४,४.२ |
SK
START Bस्VBह्_४,४.१.३
SK
आत्मा प्रकरणात् | BBस्_४,४.३ |
SK
ननु ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रवणात् स्वरूपनिष्पत्तेरन्या ज्योतिरुपसंपत्तिः तथाच भौतिकत्वे ऽपि न मोक्षव्याघातः / भवेदेतदेवं यदि ज्योतिरुपसंपद्य तत् परित्यजेदिति श्रूयेत / तदध्याहारे ऽपि तत्प्रतिपादनवैयर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते / तस्य च भूतत्वे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरमुक्तित्वमिति प्राप्ते प्रत्युच्यते-ज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् / तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते //
SK
परं ज्योतिरिति हि परपदसमभिव्याहारात्परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्योतिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्यादात्मैवात्र गम्यते / प्रकरणं चोक्तम् / यत् संपद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् / तस्माज्ज्योतिरुपसंपन्नो मुक्त इति सूक्तम्
SK
START Bस्VBह्_४,४.२.४
SK
अविभागेन दृष्टत्वात् | BBस्_४,४.४ |
SK
यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य संपत्तृसंपत्तव्यभावव्यपदेशस्य च समाधानार्थमाह
SK
START Bस्VBह्_४,४.३.५
SK
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः | BBस्_४,४.५ |
SK
उपन्यास उद्देशो ज्ञातस्य यथा य आत्मापहतपाप्मेत्यादिः / तथाज्ञातज्ञापनं विधिः / यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भवतीत्येतदज्ञातज्ञापनं विधिः / सर्वज्ञः सर्वेश्वर इति व्यपदेशः / नायमुद्देशो विधेयान्तराभावात् / नापि विधिरप्रतिपाद्यत्वात् / सिद्धवद्व्यपदेशात् / तन्निर्वचनसामर्थ्यादयमर्थः प्रतीयते-त एते उपन्यासादयः / एतेभ्यो हेतुभ्यः / भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः / मुक्तः संपद्यते स्वैरित्याह स्म किल जैमिनिः //
SK
न च चित्स्वभावस्यात्मनो ऽभावात्मानो ऽपहतपाप्मत्वादयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति / नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्गवाश्ववद्धर्मिधर्मभावाभाव इति जैमिनिराचार्य उवाच
SK
START Bस्VBह्_४,४.३.६
SK
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः | BBस्_४,४.६ |
SK
अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् / परस्परविरोधेन न भेदाभेदसंभवः //
SK
न ह्येकस्यात्मनः पारमार्थिकानेकधर्मसंभवः / ते चेदात्मनो भिद्यन्ते द्वैतापत्तेरद्वैतश्रुतयो व्यावर्तेरम् / अथ न भिद्यन्ते तत एकस्मादात्मनो ऽभेदान्मिथो ऽपि न भिद्येरन् / आत्मरूपवत् / आत्मरूपं वा भिद्येत / भिन्नेभ्यो ऽनन्यत्वान्नीलपीतरूपवत् / नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् / धर्म्यभेदेन तदनन्यत्वेन तेषामप्यभेदप्रसङ्गात् / भेदे वा धर्मिणो ऽपि भेदप्रसङ्गादित्युक्तम् / भेदाभेदौ च परस्परविरोधादेकत्राभावान्न संभवत इत्युपपादितं प्रथमे सूत्रे / अभावरूपाणामद्वैताविहन्तृत्वे ऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते / एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयो ऽप्यौपाधिका व्याख्याताः / तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेश्येन चैतन्यमात्रात्मनाभिनिष्पद्यमानस्य मुक्तावात्मनोर्ऽथशून्यैरेवापहतपाप्मसत्यकामादिशब्दैर्व्यपदेश इत्यौडुलोमिर्मेने / तदिदमुक्तं-शब्दविकल्पजा एवैते अपहतपाप्मत्वादयो न तु सांव्यवहारिका अपीति
SK
START Bस्VBह्_४,४.३.७
SK
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः | BBस्_४,४.७ |
SK
तदेतदतिशौण्डीर्यमौडुलोमेर्न मृष्यते / बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् //
SK
एवमपीत्यौडुलोमिमतमनुजानाति / शौण्डीर्यं तु न सहत इत्याह-व्यवहारापेक्षयेति /
SK
एतदुक्तं भवति-सत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मा, अपहतपाप्मसत्यकामत्वादयस्त्वौपाधिकतयातात्त्विका अपि व्यावहारिकप्रमाणोपनीततया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः
SK
START Bस्VBह्_४,४.४.८
SK
संकल्पाद् एव तु तच्छ्रुतेः | BBस्_४,४.८ |
SK
यत्नानपेक्षः संकल्पो लोके वस्तुप्रसाधनः / न दृष्टः सो ऽत्र यत्नस्य लाघवादवधारितः //
SK
लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समीहानस्तमर्थमाप्नोतीति क्रमो दृष्टः / न त्विच्छानन्तरमेवास्येष्यमाणमुपतिष्ठते / तेन श्रुत्यापि लोकवृत्तमनुरुध्यमानया विदुषस्तादृश एव क्रमो ऽनुमन्तव्यः / अवधारणं तु संकल्पादेवेति लौकिकं यत्नगौरवमपेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् / यल्लघु तदसत्कल्पमिति / स्यादेतत् / यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणानां चरमधातुविसर्गहेतुरेवं पित्रादयो ऽप्यस्य संकल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्यायेत्यत आह-नच संकल्पमात्रसमुत्थापना इति / सन्ति हि खलु कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि यथा स्त्रीवस्तुसाध्यानि दन्तक्षतमणिमालादीनि / कानिचित्तु ज्ञानसाध्यानि यथोक्तचरमधातुविसर्गरोमहर्षादीनि / तत्र मनोरथमात्रोपनीते पित्रादौ भवन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति / नहि स्त्रैणस्य रोमहर्षादिवद्भवन्ति स्त्रीवस्तुसाध्या मणिमालादयस्तदिदमुक्तंपुष्कलं भोगमिति प्राप्ते ऽभिधीयते- पित्रादीनां समुत्थानं संकल्पादेव तच्छ्रुतेः / न चानुमानबाधो ऽत्र श्रुत्या तस्यैव बाधनात् //
SK
प्रमाणान्तरानपेक्षा हि श्रुतिः स्वार्थं गोचरयन्ती न प्रमाणान्तरेण शक्या बाधितुम् / अनुमानमेव तु स्वोत्पादाय पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं स्वसामग्रीमध्यपातेनापेक्षमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते / अत एव नरशिरःकपालादिशौचानुमानमागमबाधितविषयतया नोपपद्यते / तस्माद्विद्याप्रभावाद्विदुषां संकल्पमात्रादेव पित्राद्युपस्थानमिति सांप्रतम् / तथाहुरागमिनः-को हि योगप्रभावादृते ऽगस्त्य इव समुद्रं पिबति स इव दण्डकारण्यं सृजति / तस्मात्सर्वमवदातम्
SK
START Bस्VBह्_४,४.४.९
SK
अत एव चानन्याधिपतिः | BBस्_४,४.९ |
SK
START Bस्VBह्_४,४.५.१०
SK
अभावं बादरिर् आह ह्य् एवम् | BBस्_४,४.१० |
SK
अन्ययोगव्यच्छित्त्या मनसेति विशेषणात् / देहेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् //
SK
अनेकधाभावश्चर्द्धिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा कथञ्चिद्भूमविद्यायां निर्गुणायां तदसंभवादसतापि हि गुणेन स्तुतिर्भवत्येवेति
SK
START Bस्VBह्_४,४.५.११
SK
भावं जैमिनिर् विकल्पामननात् | BBस्_४,४.११ |
SK
शरीरेन्द्रियभेदे हि नानाभावः समञ्जसः / न चार्थसंभवे युक्तं स्तुतिमात्रमनर्थकम् //
SK
नहि मनोमात्रभेदे स्फुटतरो ऽनेकधाभावो यथा शरीरेन्द्रियभेदे / अत एव सौभरेरभिविनिर्मितविविधदेहस्यापर्यायेण मान्धातृकन्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते / न चार्थसंभवे स्तुतिमात्रमनर्थकमवकल्पते / संभवति चास्यार्थवत्त्वम् / यद्यपि निर्गुणायमिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणैव विद्या स्तूयते / न चान्ययोगव्यवच्छेदेनैव विशेषणम् / यथा चैत्रो धनुर्धरः / तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः
SK
START Bस्VBह्_४,४.५.१२
SK
द्वादशाहवद् उभयविधं बादरायणो ऽतः | BBस्_४,४.१२ |
SK
मनसेति केवलमनोविषयां च स एकधा भवति त्रिधा भवतीति शरीरेन्द्रियभेदविषयां च श्रुतिमुपलभ्यानियमवादी खलु बादरायणो नियमवादौ पूर्वयोर्न सहते / द्विविधश्रुत्यनुरोधात् / न चायोगव्यवच्छेदेनैवंविधेषु विशेषणमवकल्प्यते / कामेषु हि रमणं समनस्केन्द्रियेण शरीरेण पुरुषाणां सिद्धमेवेति नास्ति शङ्का मनोयोगस्येति तद्व्यवच्छेदो व्यर्थः / सिद्धस्य तु मनोयोगस्य तदन्यपरिसंख्यानेनार्थवत्त्वमवकल्पते / तस्माद्वामेनाक्ष्णा पश्यतीतिवदत्रान्ययोगव्यवच्छेद इति सांप्रतम् /
SK
द्वादशाहवदिति /
SK
द्वादशाहस्य सत्रत्वमासनोपायिचोदने / अहीनत्वं च यजतिचोदने सति गम्यते //
SK
द्वादशाहमृद्धिकामा उपेयुरित्युपायिचोदनेन य एवं विद्वांसः सत्रमुपयन्तीति च द्वादशाहस्य सत्रत्वं बहुकर्तृकस्य गम्यते / एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन नियतकर्तृपरिमाणत्वेन द्विरात्रेण यजतेत्यादिवदहीनत्वमपि गम्यत इति / संप्रति शरीरेन्द्रियाभावेन मनोमात्रेण विदुषः स्वप्नवत्सूक्ष्मो भोगो भवति / कुतः-उपपत्तेः / मनसैतानिति श्रुतेः / यदि पुनः सुषुप्तवदभोगो भवेत् नैषा श्रुतिरुपपद्येत / नच सशरीरवदुपभोगः शरीराद्युपादानवैयर्थ्यात् / सशरीरस्य तु पुष्कलो भोगः / इहाप्युपपत्तेरित्यनुषञ्जनीयम् /
SK
तदिदमुक्तं सूत्राभ्याम्तन्वभावे संध्यवदुपपत्तेः / भावे जाग्रद्वत् /
SK
इति
SK
START Bस्VBह्_४,४.५.१३-१४
SK
तन्वभावे सन्ध्यवद् उपपत्तेः | BBस्_४,४.१३ |
SK
भावे जाग्रद्वत् | BBस्_४,४.१४ |
SK
START Bस्VBह्_४,४.६.१५
SK
प्रदीपवदावेशस् तथा हि दर्शयति | BBस्_४,४.१५ |
SK
वस्तुतः परमात्मनो ऽभिन्नो ऽप्ययं विज्ञानात्मानाद्यविद्याकल्पितप्रादेशिकान्तःकरणावच्छेदेनानादिजीवभावमापन्नः प्रादेशिकः सन्न देहान्तराणि स्वभावनिर्मितान्यपि नानाप्रदेशवर्तीनि सान्तःकरणो युगपदावेष्टुमर्हति / न वात्मान्तरं स्रष्टुमपि / सृज्यमानस्य स्रष्ट्रतिरेके ऽनात्मत्वादात्मत्वे वा कर्तृकर्मभावाभावाद्भेदाश्रयत्वादयस्य / नाप्यन्तःकरणान्तरं तत्र सृजति सृज्यमानस्य तदुपाधित्वाभावात् / अनादिना खल्वन्तःकरणेनौत्पत्तिकेनायमवरुद्धो नेदानीन्तनेनान्तःकरणेनोपाधितया संबद्धुमर्हति / तस्माद्यथा दारुयन्त्रं तत्प्रयोक्त्रा चेतनेनाधिष्ठितं सत्तदिच्छामनुरुध्यते / एवं निर्माणशरीराण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधीयते-शरीरत्वं न जातु स्याद्भोगाधिष्ठानतां विना / स त्रिधेति शरीरत्वमुक्तं युक्तं च तद्विभौ //
SK
स त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादिका श्रुतिर्विदुषो नानाभावमाचक्षाणा भिन्नशरीरेन्द्रियोपाधिसंबन्धे ऽवकल्पते नादेहहेतु(भूत)भेदे / नहि यन्त्राणि भिन्नानि निर्माय वाहयन्यन्त्रवाहो नानात्वेनापदिश्यते / भोगाधिष्ठानत्वं च शरीरत्वं नाभोगाधिष्ठानेषु यन्त्रेष्विव युज्यते / तस्माद्देहान्तराणि सृजति / न वानेनाधिष्ठितानि देहपक्षे वर्तन्ते / नच सर्वगतस्य वस्तुतो विगलितप्रायाविद्यस्य विदुषः पृथग्जनस्येवौत्पत्तिकान्तःकरणवश्यता येन तदौत्पत्तिकमन्तःकरणमागन्तुकान्तःकरणान्तरसंबन्धमस्य वारयेत् / तस्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसंकल्पः सेन्द्रियमनांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्तदिन्द्रियमन्तःकरणैस्तेषु लोकेषु मुक्तो विहरतीति सांप्रतम् / प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदीपव्यक्तिषूपचर्यते भिन्नवर्तिवर्तिनीनां भिन्नव्यक्तीनां भेदात् / एवं विद्वाञ्जीवात्मा देहभेदे ऽप्येक इति परामर्शार्थः / एकमनोनुवर्तीनित्येकाभिप्रायवर्तीनीत्यर्थः
SK
संपन्नः केवलो मुक्त इत्युच्यते / न चैतस्येत्थंभावसंभवः श्रुतिविरोधादित्युक्तमर्थजातमाक्षिपति-कथं पुनर्मुक्तस्येति / सलिल इति / सलिलमिव सलिलः सलिलप्रातिपदिकात्सर्वप्रातिपदिकेभ्य इत्युपमानादाचारे क्विपि कृते पचाद्यचि च कृते रूपम् / एतदुक्तं भवति-यथा सलिलमम्भोनिधौ प्रक्षिप्तं तदेकीभावमुपयाति /
SK
एवं द्रष्टापि ब्रह्मणेति /
SK
START Bस्VBह्_४,४.६.१६
SK
अत्रोत्तरं सूत्रम्- स्वाप्ययसंपत्त्योर् अन्यतरापेक्षम् आविष्कृतं हि | BBस्_४,४.१६ | आसु काश्चिच्छ्रुतयः सुषुप्तिमपेक्ष्य काश्चित्तु संपत्तिं तदधिकारात् / ऐश्वर्यश्रुतयस्तु सगुणविद्याविपाकावस्थापेक्षा मुक्त्यभिसंधानं तु तदवस्थासत्तेर्यथारुणदर्शने संध्यायां दिवसाभिधानम्
SK
START Bस्VBह्_४,४.७.१७
SK
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च | BBस्_४,४.१७ |
SK
स्वाराज्यकामचारादिश्रुतिभ्यः स्यान्निरङ्कुशः / स्वकार्य ईश्वराधीनसिद्धिरप्यत्र साधकः //
SK
ऽआप्नोति स्वाराज्यंऽ ऽसर्वे ऽस्मै देवा बलिमावहन्तिऽ ऽसर्वेषु लोकेषु कामचारो भवतिऽइत्यादिश्रुतिभ्यो विदुषः परब्रह्मण इवान्यानधीनत्वमैश्वर्यमवगम्यते / नन्वस्य ब्रह्मोपासनालब्धमैश्वर्यं कथं ब्रह्माधीनं न तु स्वभावः / नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वकारणमपेक्षन्ते / किं त्वत्र ते स्वतन्त्रा एव / यथाहुः-मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते / उदकाहरणे त्वस्य तदपेक्षा न विद्यते //
SK
न च विदुषां परमेश्वराधीनैश्वर्यसिद्धित्वात्तद्गतमैश्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः / न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः / तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते / दुष्टसामन्ताश्च पार्थिवाधीनैश्वर्याः पार्थिवान्स्पर्धमानास्तान्विजयमाना वा दृश्यन्ते / तदिह निरतिशयैश्वर्यत्वात् परमेश्वरस्य मा नाम भूवन्विद्वांसस्ततो ऽधिकास्तत्समास्तु भविष्यन्ति / तथाच न तदधीनाः / नहि समप्रधानभावानामस्ति मिथो ऽपेक्षा / तदेते स्वतन्त्राः सन्तस्तद्व्यापारे जगत्सर्जने ऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते-नित्यत्वादनपेक्षत्वात् श्रुतेस्तत्प्रक्रमादपि / एक्यमत्याच्च विदुषां परमेश्वरतन्त्रता //
SK
जगत्सर्गलक्षणं हि कार्यं कारणैकस्वभावस्यैव हि भवतु आहो कार्यकारणस्वभावस्य / तत्रोभयस्वभावस्य स्वोत्पत्तौ मूलकारणापेक्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैको ऽस्तु जगत्कारणम् / तस्यैव नित्यत्वेन स्वकारणानपेक्षस्य कॢप्तसामर्थ्यात् / कल्प्यसामर्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः / न च जगत्स्रष्टृत्वमेषां श्रूयते / श्रूयते त्वत्रभवतः परमेश्वरस्यैव / तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः / अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः संजिहीर्षतीत्यपर्यायेण सृष्टिसंहारौ स्याताम् / न चोभयोरपीश्वरत्वं व्याघातम् / एकस्य तु तदाधिपत्ये तदभिप्रायानुरोधिनां सर्वेषामैकमत्योपपत्तेरदोषः / तत्रागन्तुकानां कारणाधीनजन्मैश्वर्याणां गृह्यमाणविशेषतयासमत्वान्नित्यैश्वर्यशालिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति परमेश्वरव्यापारस्य सर्गसंहारस्य नेशते
SK
START Bस्VBह्_४,४.७.१८
SK
पूर्वपक्षिणो ऽनुशयबीजमाशङ्क्य निराकरोति-
SK
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः | BBस्_४,४.१८ |
SK
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः /
SK
यतः परमेश्वराधीनमैश्वर्यं तस्मात्ततो न्यूनमणिमादिमात्रं स्वाराज्यं न तु जदत्स्रष्टृत्वम् / उक्तान्न्यायात्
SK
START Bस्VBह्_४,४.७.१९
SK
विकारवर्ति च तथा हि स्थितिम् आह | BBस्_४,४.१९ |
SK
एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् / ततो ज्यायांश्चेति निर्विकारं रूपम् / तथा पादो ऽस्य विश्वा भूतानीति विकारवर्ति रूपं त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम्
SK
START Bस्VBह्_४,४.७.२०
SK
दर्शयतश् चैवं प्रत्यक्षानुमाने | BBस्_४,४.२० |
SK
दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते / एतदुक्तं भवति-यदि ब्रूषे सगुणे ब्रह्मण्युपास्यमाने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतो ऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते / यथा सविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अतत्क्रतुत्वादुपासकस्य / तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते / तत्त्वोपासनासु पुरुषक्रतुत्वात् / उपासकस्य तदक्रतुत्वं च निरवग्रहत्वस्योपासनविध्यगोचरत्वाद्विध्यधीनत्वाच्चोपासनासु पुरुषस्वातन्त्र्याभावात्स्वातन्त्र्ये वा प्रातिभत्वप्रसङ्गादिति
SK
START Bस्VBह्_४,४.७.२१
SK
भोगमात्रसाम्यलिङ्गाच् च | BBस्_४,४.२१ |
SK
न केवलं स्वाराज्यस्येश्वराधीनतयाजगत्सर्जनम्, साक्षाद्भोगमात्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यपदेशलिङ्गादिति / भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् / सूत्रान्तरावतारणाय शङ्कते-नन्वेवं सति सातिशयत्वादिति /
SK
सह परमेश्वरस्यातिशयेन वर्तत इति विदुष ऐश्वर्यं सातिशयम् / यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् / तदनेन कार्यत्वमुक्तम् / तथाच कार्यत्वादन्तवत्प्राप्तमिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति
SK
START Bस्VBह्_४,४.७.२२
SK
अत उत्तरं पठति- अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् | BBस्_४,४.२२ | किमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तानामैश्वर्यस्यान्तवत्त्वं त्वया साध्यते / आहोस्विच्चन्द्रलोकादिव ब्रह्मलोकादेतल्लोकप्राप्तिर्मुक्तेरन्तवत्त्वम् / तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् / उत्तरत्र तु श्रुतिस्मृतिविरोधः / तद्विधानां च क्रममुक्तिप्रतिपादनादिति / तत्त्वमसिवाक्यार्थैकोपासनापरान् प्रत्याह- सम्यग्दर्शनविध्वस्ततमसामिति / द्विधाविद्या तमः /
SK
निरुपाधिब्रह्मसाक्षात्कारस्तत्त्वदर्शनम् / न चैतन्निर्वाणं स्वरूपावस्थानलक्षणं कार्यं येनानित्यं स्यादित्याह-नित्यसिद्धेति
SK
भङ्क्त्वा वाद्यसुरेन्द्रवृन्दमखिलाविद्योपधानातिगं येनाम्नायपयोनिधेर्नयपथा ब्रह्मामृतं प्राप्यते / सो ऽयं शाङ्करभाष्यजातविषयो वाचस्पतेः सादरं संदर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः
SK
अज्ञानसागरं तीर्त्वा ब्रह्मतत्त्वमभीप्सताम् / नीतिनौकर्णधारेण मयापूरि मनोरथः
SK
यन्न्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः / यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः
SK
समचैषं महत्पुण्यं तत्फलं पुष्कलं मया / समर्पितमथैतेन प्रीयतां परमेश्वरः
SK
नृपान्तराणां मनसाप्यगम्यां भ्रूक्षेपमात्रेण चकार कीर्तिम् / कार्तस्वरासारसुपूरितार्थसार्थः स्वयं शास्त्रविचक्षणश्च
SK
नरेश्वरा यच्चरितानुकारमिच्छन्ति कर्तुं नच पारयन्ति / तस्मिन्महीपे महनीयकीर्तौ श्रीमन्नृगे ऽकारि मया निबन्धः
SK
इति श्रीवाचस्पतिमिश्रविरचिते शङ्करभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्तः /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) (sa_bAdarAyaNa-brahmasUtra-subcomm2.htm).

Source