ज्ञानेच्छावाचकत्वात्तु जिज्ञासापदस्य, प्रवर्तिका हि मीमांसायां
SK
FN: ५-मीमांसया इति पाठः /
SK
जिज्ञासा स्यात् / न च प्रवर्त्यप्रवर्तकयोरैक्यम्, एकत्वे तद्भावानुपपत्तेः / न च स्वार्थपरत्वस्योपपत्तौ सत्यां अन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् / तस्मात्सुष्ठूक्तम् ऽजिज्ञासाया अनधिकार्यत्वात्ऽइति / अथ मङ्गलार्थो ऽथशब्दः कस्मान्न भवति / तथा च मङ्गलहेतुत्वात् प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः संपद्यत इत्यत आह-मङ्गलस्य च वाक्यार्थे समन्वयाभावात् / पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो वा लक्ष्यो वा / न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् / न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः / तत्किमिदानीं मङ्गलार्थो ऽथशब्दः तेषु तेषु न प्रयोक्तव्यः / तथा च ऽओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा / कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ //
न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम्, अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् / अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् / तस्मान्निर्विचिकित्सवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति युक्तम् / न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः / न चैतावता ब्रह्मणो नापराधीनप्रकाशता / न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति / सर्वोपाधिरहितं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि / यथाह स्म भगवान् भाष्यकारः-ऽनायमेकान्तेनाविषयःऽइति / न चा
SK
FN: ९-न चान्तःकरणेति / निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते, स्वस्या अप्युपाधित्वात् / एवं च अनुपहितस्य विषयत्वं, उपाधेर्निवर्तकान्तरापेक्षा च नेति भावः /
FN: १-सर्वस्येति प्रसिद्धिरित्यनेनान्वीयते न हेतुना, वैयर्थ्यात् /
SK
पांसुल
SK
FN: २-पांसुमन्तौ पादौ यस्य /
SK
पादकस्य हालिक
SK
FN: ३-हलं वहति हालिकः /
SK
स्यापि ब्रह्मास्तित्वप्रसिद्धिः,कुतः,आत्मत्वात् / एतदेव स्फुटयति-सर्वो हीति / प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयति-न नेति / न न प्रत्येत्यहमस्मीति, किन्तु प्रत्येत्येवेति योजना / नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आह-यदीति /
SK
अहमस्मीति न प्रतीयात् /
SK
अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात्, अहमिति न प्रतीयादित्यर्थः / ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम्, ब्रह्मणि तु किमायातमित्यत आह-आत्मा च ब्रह्म / तदस्त्वमा सामानाधिकरण्यात् / तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः, त्वंपदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वंपदार्थस्य ब्रह्मभावावगमः ऽतत्त्वमसिऽइति वाक्यादुपपद्यत इति भावः / आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह-यदि तर्हि लोक इति / अध्यापकाध्येतृपरम्परा लोकः / तत्र ऽतत्त्वमसिऽइति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति / आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् / परिहरति-नः / कुतः,तद्विशेषं प्रति विप्रतिपत्तेः / तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् / ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः / विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धो ऽभ्युपेयः / अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः / विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः / न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः / न च भिन्नाश्रया विरुद्धाः / नह्यनित्या बुद्धिः,नित्य आत्मेति प्रतिपत्तिविप्रतिपत्ती / तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वंपदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः / तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः / तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः / तत्र त्वंपदार्थे तावद्विप्रतिपत्तीर्दर्शयति-देहमात्रमित्यादिना,भोक्तैव केवलं न कर्त्ताइत्यन्तेन / अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वंपदार्थेन संबध्यन्ते, योग्यताविरहात् / शून्यपक्षे ऽपि सर्वोपाख्यानरहितमपदार्थः कथं तत्त्वमोर्गोचरः / कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसंगतिरेव / अकर्तृत्वे ऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसंगतिः / अभोक्तृत्वे ऽपि नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासंगतिस्तदवस्थैव / त्वंपदार्थविप्रतिपत्त्या च तत्पदार्थे ऽपि विप्रतिपत्तिर्दर्शिता / वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते / वेद
SK
FN: १-वेदप्रामाण्यवादिनो मीमांसकाः / तेहि क्रियार्थत्वमाम्नायस्य ब्रुवाणा वेदान्ता औपचारिका वा अविवक्षितस्वार्था वा मन्यन्त इति दर्शितं प्राक् /
SK
प्रामाण्यवादिनो ऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति / तदेवं त्वंपदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाह-अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् / तदिति जीवात्मानं परामृशति / न केवलं शरीरादिभ्यः, जीवात्मभ्यो ऽपि व्यतिरिक्तः / स च सर्वस्यैव जगत ईष्टे / ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम्-सर्वज्ञः सर्वशक्तिरिति / तस्यापि जीवात्मभ्यो ऽपि व्यतिरेकात्, न त्वंपदार्थेन सामानाधिकरण्यमिति स्वमतमाह-अत्मा स भोक्तुरित्यपरे / भोक्तुर्जीवात्मनो ऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा,तत ईश्वरादभिन्नो जीवात्मा /
ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः /
SK
FN: ३-द्वितीयाध्यायस्य द्वितीय पादे /
SK
उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम् / न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः /
SK
FN: ४-तत्तु समन्वयादिति सूत्रे /
SK
तस्मात्सर्वमवदातम् / श्रुतिश्च ऽयतो वाऽइति जन्म दर्शयति, ऽयेन जातानि जीवन्तिऽइति जीवनं स्थितिम्, ऽयत्प्रयन्तिऽइति तत्रैव लयम् / तस्य च निर्णयवाक्यम् / अत्र च प्रधानादिसंशये निर्णयवाक्यम्-आनन्दाद्ध्येवेति /
SK
एतदुक्तं भवति-यथा रज्ज्वज्ञानसहितरज्जूपादाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगत् जायते, ब्रह्मण्येवास्ति, तत्रैव च लीयता इति सिद्धम्
ऽवगम्यते,स च तदेव कार्यमवगच्छति यत्स्वर्गानुकूलम् / न च क्रिया क्षणभङ्गुरामुष्मिकाय स्वर्गाय कल्पत इति पारिशेष्याद्वेदत एवापूर्वे कार्ये लिङादीनां संबन्धग्रह इति चेत्, हन्त चैत्यवन्दनादिवाक्येष्वपि स्वर्गकामादिपदसंबन्धादपूर्वकार्यत्वप्रसङ्गः, तथा च तेषामप्यशक्यरचनत्वेनापौरुषेयत्वापातः / स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्रतिषेधे वाक्यत्वादिना लिङ्गेन वेदान्तानामपि पौरुषेयत्वमनुमितमित्यपूर्वार्थता न स्यात् /
विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयित्वं चेति न नित्यफलत्वमुपासनायाः / तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात्, अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव संभवात्, उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात्, ऽआत्मेत्येवोपासीतऽइति न विधिः,अपि तु विधिसरूपो ऽयम् / यथोपांशुयाजवाक्ये ऽविष्णुरुपांशु यष्टव्यःऽइत्यादयो विधिसरूपा न विधयः-इति तात्पर्यार्थः / श्रुतिस्मृतिन्यायप्रसिद्धम् इत्युक्तम् / तत्र श्रुतिं दर्शयति-तथा च श्रुतिरिति /
SK
न्यायमाह-अत एवेति / यत्किल स्वाभाविकं तन्नित्यम्, यथा चैतन्यम् / स्वाभाविकं चेदम्,तस्मान्नित्यम् / परे हि द्वयीं नित्यतामाहुः-कूटस्थनित्यता परिणामिनित्यतां च / तत्र नित्यमित्युक्ते मा भूदस्य
SK
FN: १-परिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः /
SK
परिणामिनित्यतेत्याह-तत्र किञ्चिदिति / परिणामिनित्यता हि न पारमार्थिकी / तथा हि-तत्सर्वात्मना वा परिणमेदेकदेशेन वा / सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः / एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा / भिन्नश्चेत् कथं तस्य परिणामः / न ह्यन्यस्मिन् परिणममाने ऽन्यः परिणमति, अतिप्रसङ्गात् / अभेदे वा कथं न सर्वात्मना परिणामः / भिन्नाभिन्नं तदिति चेत्,तथा हि-तदेव कारणात्मनाभिन्नम्, भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना / न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् /
SK
FN: २-यत्प्रमाणविपर्ययेण विरोधेन वर्तते तद्विरुद्धमिति क्व संप्रत्यय इति योजना /
SK
विरुद्धमिति नः क्व संप्रत्ययोयत्प्रमाणविपर्ययेण वर्तते / यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव / कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये च व्यक्तं भेदाभेदौ चकास्तः / तथा हि-आत्यन्तिके ऽभेदे ऽन्यतरस्य द्विरवभासप्रसङ्गः / भेदे चात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् / आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम्,न हि भवति कुण्डं बदरमिति / नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति / सो ऽयमबाधितो ऽसंदिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति / तथा च कार्याणां कारणात्मत्वात्, कारणस्य च सद्रूपस्य सर्वत्रानुगमात्, सद्रूपेणाभेदः कार्यस्य जगतः,भेदः कार्यरूपेण गोघटादिनेति / यथाहुः-ऽकार्यरूपेण नानात्वमभेदः कारणात्मना / हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा //
SK
ऽइति / अत्रोच्यते-कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् / परस्पराभाव इति चेत्, किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा / न चेत्, एकत्वमेवास्ति, न च भेदः / अस्ति चेत् भेद एव, नाभेदः / न च भावाभावयोरविरोधः, सहावस्थानासंभवात् / संभवे वा कटकवर्धमानकयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् / अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन्, कटकस्य हाटकादभेदात् / तथा च हाटकमेव वस्तुसन्न कटकादयः, भेदस्याप्रतिभासनात् / अथ हाटकत्वेनैवाभेदो न कटकत्वेन,तेन तु भेद एव कुण्डलादेः / यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते / नानुवर्तते चेत् कथं हाटकादभिन्नः कटकः / ये हि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः / नानुवर्तन्ते चानुवर्तमाने ऽपि हाटकत्वे कुण्डलादयः,तस्मात्ते ऽपि हाटकाद्भिन्ना एवेति / सत्तानुवृत्त्या च सर्ववस्त्वनुगमे ऽइदमिह नेदम्, इदमेवं नेदम्ऽइति विभागो न स्यात् / कस्यचित् क्वचित् कदाचित् कथञ्चिद्विवेकहेतोरभावात् / अपि च दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन्, कनकादभेदात्तेषाम्, तस्य च ज्ञातत्वात् / अथ भेदो ऽप्यस्ति कनकात् कुण्डलादीनामिति कनकावगमे ऽप्यज्ञातास्ते / नन्वभेदो ऽप्यस्तीति किं न ज्ञाताः / प्रत्युत ज्ञानमेव तेषां युक्तम्,कारणाभावे हि कार्यभाव औत्सर्गिकः,स च कारणसत्तया अपोद्यते / अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः / तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते / यथा करभे गृह्यमाणे ऽगृह्यमाणे रासभः करभात् / गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः,तस्मात्ते हेम्नो भिद्यन्ते / कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यम् इति चेत्, न ह्याधाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् / अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् / न खल्वभेदे ऐकान्तिके ऽनैकान्तिके चैतदुभयमुपपद्यते इत्युक्तम् / तस्माद्भेदाभेदयोरन्यतरस्मिन्नवहेये ऽभेदो पादानैव भेदकल्पना, न भेदोपादानाभेदकल्पनेति युक्तम् / भिद्यमानतन्त्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात्, एकाभावे चानाश्रयस्य भेदस्यायोगात्, एकस्य च भेदानधीनत्वात्, नायमयं इति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात्, एकत्वग्रहस्य चान्यानपेक्षत्वात्, अभेदोपादानैवानिर्वचनीयभेदकल्पनेति सांप्रतम् / तथा च श्रुतिः-ऽमृत्तिकेत्येव सत्यम्ऽइति / तस्मात् कूटस्थनित्यतैव पारमार्थिकी न परिणामिनित्यतेति सिद्धम् / व्योमवत् इति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् / अत्र चकूटस्थनित्यमिति निर्वर्त्यकर्मतामपाकरोति / सर्वव्यापि इति प्राप्यकर्मताम् / सर्वविक्रियारहितम् इति विकार्यकर्मताम् / निरवयवम् इति संस्कार्यकर्मताम् / व्रीहीणां खलु प्रोक्षणेन संस्काराख्य्ॐऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयो ऽस्ति, अनवयवत्वात् / अनंशत्वादित्यर्थः / पुरुषार्थतामाह-नित्यतृप्तमिति / तृप्त्या दुःखरहितं सुखमुपलक्षयति / क्षुद्दुःखनिवृत्तिसहितं हि सुखं तृप्तिः / सुखं चाप्रतीयमानं न पुरुषार्थं इत्यत आह-स्वयञ्ज्योतिरिति / तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति-तद्यदीति / न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः / अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याह-अपि च ब्रह्म वेदेति / अविद्याद्वयप्रतिबन्धापनयमात्रेण च विद्याया मोक्षसाधनत्वम् न स्वतो ऽपूर्वोत्पादेन चेत्यत्रापि श्रुतीरुदाहरति-त्वं हि नः पितेति / न केवलमस्मिन्नर्थे श्रुत्यादयः, अपि त्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याह-तथा चाचार्यप्रणीतमिति /
SK
आचार्यश्चोक्तलक्षणः पुराणे-ऽआचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि / स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते //
नापि स्वार्थमात्रपरतैव पदानाम् / तथा सति न वाक्यार्थप्रत्ययः स्यात् / न हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा / तस्मात्पदानां स्वार्थमभिदधतामेक
SK
FN: ३-अयमर्थः-एकप्रयोजनसिद्ध्युपयोगित्वं पदार्थानामितरेतरवैशिष्ट्यमन्तरेण न घटते ऽतस्तत्सिद्ध्यै एकवाक्यत्वाय च लक्षणयान्वितपरत्वं कल्प्यते तादृक्प्रयोजनाभावे तु स्वार्थमात्राभिधेयत्वं पदानामिति /
SK
प्रयोजनवत्पदार्थपरतयैकवाक्यता / तथा च तत्तदर्थान्तरविशिष्टैकवाक्यार्थप्रत्यय उपपन्नो भवति / यथाहुः शास्त्रविदः-ऽसाक्षाद्यद्यपि कुर्वन्तिपदार्थप्रतिपादनम् / वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले //
एवं च भावार्थप्रणालिकया द्रव्यादिसंक्रान्तो विधिर्गौरवाद्बिभ्यत्स्वविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्रव्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः /
SK
====================== NOTE ४-सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति-एतेनेति / ======================
ऽगौणप्रवाहपाते ऽपि युज्यते मुख्यमीक्षणम् / मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिर्विशेषिका //
SK
ऽआनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्नमयादिपदप्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् / न च प्राणमयादिषु विकारार्थत्वायोगात्स्वार्थिको मयडिति युक्तम् / प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकाराः, घटाकाशमिव घटविकाराः / न च सत्यर्थे स्वार्थिकत्वमुचितम् / ऽचतुःकोशान्तरत्वे तु न सर्वान्तरतोच्यते / प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते //
SK
ऽन च सर्वान्तरतया ब्रह्मैवानन्दमयं, न जीव इति सांप्रतम् / नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते अपि त्वन्नमयादिकोशचतुष्ठयान्तरतामानन्दमयकोशस्य / न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् / यदपेक्षं यस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति / नहि देवदत्तो बलवानित्युक्ते सर्वान्सिंहशार्दूलादीनपि प्रति बलवानप्रतीयते ऽपि तु समानजातीयनरान्तरमपेक्ष्य / एवमानन्दमयो ऽप्यन्नमयादिभ्यो ऽन्तरो न तु सर्वस्मात् / न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शरीरत्वं युज्यत इति संसार्येवानन्दमयः / तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः / अपि च यदि प्राचुर्यार्थो ऽपि मयट्, तथापि संसार्येवानन्दमयः;न तु ब्रह्म / आनन्दप्राचुर्य हि तद्विपरीतदुःखलवसंभवे भवति न तु तदत्यन्तासंभवे / न च परमात्मनो मनागपि दुःखलवसंभवः, आनन्दैकरसत्वादित्याह-न च सशरीरस्य सत इति / अशरीरस्य पुनरप्रियसंबन्धो मनागपि नास्तीति प्राचुर्यार्थो ऽपि मयड् नोपपद्ययत इत्यर्थः / उच्यते / आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् / तथाच तदधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाधत्त इति तस्यैवानन्दमयस्याभ्यास इति युक्तम् / ज्योतिष्टोमाधिकारे ऽवसन्ते वसन्ते ज्योतिषा यजेतऽइति ज्योतिःपदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः / अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते-ऽएतमानन्दमयमात्मानमुपसंक्रामतिऽइति / पूर्वपक्षबीजमनुभाष्यं दूषयति-यत्तूक्तमन्नमयादिति / न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति / तादर्थ्यात्पूर्वदर्शनानामन्त्यदर्शनानुगुण्यं नतु तद्विरोधितेति चेत्, इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात्, तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवासानात्तादर्थ्यं तुल्यम् / प्रियाद्यवयवयोगशरीरत्वे च निगतव्याख्यातेन भाष्येण समाहिते / प्रियाद्यवयवयोगाच्च दुःखलवयोगे ऽपि परमात्मन औपाधिक उपपादितः / तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति //१२ // //१३
SK
START Bस्VBह्_१,१.६.१५
SK
अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः संप्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः / मन्त्रे हि पुनः पुनः ऽअन्यो ऽन्तर आत्माऽइति परब्रह्मण्यान्तरत्वश्रवणात्, तस्यैव च ऽअन्यो ऽन्तर आत्मानन्दमयःऽइति ब्राह्मणे प्रत्यभिज्ञानात्, परब्रह्मैवानन्दमयमित्याह सूत्रकारः-
तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि / तथा च सत्यसंकल्पप्रभृतीनां यथार्थता //
SK
ऽभवेदेतदेवं यदि प्राणशरीर इत्यदीनां साक्षाज्जीववाचकत्वं भवेत् / न त्वेतदस्ति / तथा हि प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं संप्राप्य तदभिधानं पर्यवस्येत् / तत्र मनोमयपदं पर्यमसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते /
SK
तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः / न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्य ऽअप्राणो ह्यमनाःऽइत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम्, तस्यापि सर्वविकारकारणतया, विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः / स्यादेतत् / जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा / तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म / ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणो ऽभेदाज्जीवे ऽप्युपपत्स्यन्ते / तदेतदत्र संप्रधार्यम्-किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि / जीवलिङ्गैस्तु ब्रह्म तद्वत, तथाच ब्रह्मलिङ्गानां दर्शनात्, तेषां च जीवे ऽनुपपत्तेर्ब्रह्मैवोपास्यमिति / वयं तु पश्यामः-ऽसमारोप्यस्य रूपेण विषयो रूपवान्भवेत् / विषयस्य तु रूपेण समारोप्यं न रूपवत् //
SK
ऽसमारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् / तदा भुजङ्गस्यैवाभावात्किं रूपवत् / भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः / तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसंभवात् / तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसंभवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् / एतदुपलक्षणाय च ऽसर्वं खल्विदं ब्रह्मऽइति वाक्यमुपन्यस्तमिति
SK
START Bस्VBह्_१,२.१.२
SK
विवक्षितगुणोपपत्तेश् च | BBस्_१,२.२ |
SK
यद्यप्यपौरुषेय इति /
SK
शास्त्रयोनित्वे ऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसंदर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् / परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव / अन्यथोद्देश्यतयानपपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् / तस्मादनुपादेयत्वे ऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः / तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् / इच्छानिच्छे च भक्तितः / तदिदमुक्तम्-वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति /