Subcommentary on the Brahma Sūtras Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya)
Bरह्मसूत्र२ wइथ् Vआचस्पतिऽस् Bहामती (अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य)
2 SK ब्रह्मसूत्रशाङ्करभाष्यम् /
1 SK अनिर्वाच्याविद्या(*१)द्वितयसचिवस्य प्रभवतो विवर्ता(*२) यस्यैते वियदनिलतेजो ऽबवनयः / यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम्
5 SK FN *१-मूलविद्या, तूलाविद्येति द्वितयम् FN *२-स्वरूपोपमर्दनं विनान्यथाभावः
2 SK निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि / स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः
3 SK षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि / शाश्वताय नमस्कुर्मो वेदाय च भवाय च
4 SK मार्तण्डतिलकस्वामिमहागणपतीन् वयम् / विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः
5 SK ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे / ज्ञानशक्त्यवताराय नमो भगवतो हरेः
6 SK नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् / भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते
7 SK आचार्यकृतिनिवेशनमप्यवधूतं वचो ऽस्मदादीनाम् / रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति
12 SK अथ यदसंदिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रिय- संनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा;तथा चेदं ब्रह्मेति व्यापक
13 SK FN: १-यत्र जिज्ञास्यत्वं तत्रैव संदिग्धत्वं सप्रयोजनत्वं चेति जिज्ञास्यत्वव्यापके संदिग्धत्वसप्रयोजनत्वे / तयोर्विरुद्धस्य तदभावस्येहोपलब्धिर्ज्ञानम् / तथाच व्यापकाभावे तद्व्याप्तजिज्ञास्यत्वाभावो ऽत्रेत्यर्थः / अत्रैवं प्रयगोः-ब्रह्म मुमुक्ष्वविचार्यं तं प्रत्यसंदिग्धत्वात्, निष्प्रयोजनत्वाच्च / तथाविधकुम्भ-काकदन्तवदिति भावः /
14 SK विरुद्धोपलब्धिः / तथा हि-- बृहत्त्वाद्बृंहण
15 SK FN: २-वृद्ध्यर्थकबृहबृहिधातुजं ब्रह्मन्नितिरूपम् / बृंहणं च देहादीनां परिणामयितृत्वरूपं बोध्यम् /
16 SK त्वाद्वात्मैव ब्रह्मेति गीयते / स चायम् आकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ऽअहम्ऽइत्यसंदिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम् / न हि जातु कश्चिदत्र संदिग्धे ऽअहं वा नाहं वाऽइति / न च विपर्यस्यति ऽनाहमेवऽइति / न च ऽअहं कृशः, स्थूलः, गच्छामिऽइत्यादिदेहधर्मसामाना
17 SK FN: ३-एकार्थप्रतिपादकत्वज्ञानादित्यथर्ः /
18 SK धिकरण्यदर्शनाद्देहालम्बनो ऽयमहङ्कार इति सांप्रतम् / तदालम्बनत्वे हि ऽयो ऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामिऽइति प्रतिसंधानं न भवेत् / न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञान
19 SK FN: १-पूर्वानुभूतस्य साक्षात्कृतव्यक्त्यैक्यावगाहिनी धीः /
20 SK गन्धो येनैकत्वं अध्यवसीयेत / तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् / तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते / अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ऽनाहं देवो मनुष्य एवऽइति देवशरीरे बाध्यमाने ऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते / अपि च योग
21 SK FN: २-अणिमादिसिद्धिलाभाल्लीलाद्यर्थं योगमहिम्ना व्याघ्रशरीरं कृत्वा तदाभिमानीत्यर्थः अत्रेदं बोध्यम् अवयवोपचयापचयात्मके बाल्ये स्थाविरे वा न शरीरभेदः सिद्ध्यति, शरीरमिति बुद्धेरनुगतत्वादित्यरुच्या ऽस्वप्नान्तेऽइत्युदाहृतम् / स्वाप्नभ्रमवादिनां मते तदसिद्ध्या योगव्याघ्रदृष्टान्तः, जाग्रत्यपि दर्शयितुं वेति बोध्यम् /
22 SK व्याघ्रः शरीरभेदे ऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः / अत एव नेन्द्रियाण्यप्यस्यालम्बनम्, इन्द्रियभेदे ऽपि ऽयो ऽहमद्राक्षं स एवैतर्हि स्पृशामिऽइत्यहमालम्बनस्य प्रत्यभिज्ञानात् / विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव / बुद्धिमनसोश्च करणयोः ऽअहम्ऽइति कर्तृप्रतिभासप्रख्याना
23 SK FN: ३-प्रख्यानं शब्दः / करणानां कर्तृपदवाच्यत्वानुपपत्तेरिति भावः /
24 SK लम्बनत्वायोगः / ऽकृशो ऽहम्ऽ ऽअन्धो ऽहम्ऽइत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः
25 SK FN: ४-आत्मा शरीरादिभ्यो भिन्न इत्यधस्ताद्व्यवस्थापितत्वात्तदनुपपत्तेर्लक्षणावाश्रयणीयेति भावः /
26 SK क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः / तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् / अप्रयोज
27 SK FN: १-द्वितीयहेतुं विभजते /
28 SK नत्वाच्च / तथा हि-संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् / संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः / स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतो ऽस्य निवृत्तिः अविरोधात्?कुतश्चात्मयाथात्म्याननुभवः?न हि ऽअहम्ऽइत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति / न च ऽअहम्ऽइति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम्, अनुभवविरोधात् / न ह्यागमाः सहस्रमपि घटं पटयितुमीशते / तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति-युष्मदस्मत्प्रत्ययगोचरयोः इति / अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः / तथापीत्यादिपरिहारग्रन्थः / तथापीत्यभिसंबन्धाच्छङ्कायां यद्यपीति पठितव्यम् / इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् / यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, ऽएते वयम्, इमे वयमास्महेऽइति बहुलं
29 SK FN: २-इदंशब्दस्य पराक्प्रतिपादकत्वाविशेषे ऽपि एते वयमित्यादि प्रचुरप्रयोगवशान्मुख्यवद्भानं भवतीति तत्तत्र निरूढमिति भावः /
30 SK प्रयोगदर्शनादिति / चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः / एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति;स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् / परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तः-ऽतमः प्रकाशवदितिऽ / न हि जातु कश्चित्समुदाचारद्वृ
31 SK FN: ३-समुदाचरन्त्यौ भेदेन ज्ञायमाने वृत्ती वर्तने ययोस्ते तथा / अध्यासो हि विवेकाग्रहेण व्याप्तः, अत्र विवेकग्रहसत्त्वादध्यासो नोपपन्न इत्याशयः /
32 SK त्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति / तदिदमुक्तम् -इतरेतरभावानुपपत्ताविति / इतरेतर
33 SK FN: ४-इतरस्येतरत्र भाव इति योजने सिद्धस्य संसर्गाध्यासनिषेधस्य साधनं भवेत्तदनेनापहृतं बोद्धव्यम् /
34 SK भावः इतरेतरत्वम्, तादात्म्यमिति यावत्;तस्यानुपपत्ताविति / स्यादेतत् / मा भूद्धर्मिणोः परस्परभावः;तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनां इतरेतराध्यासो भविष्यति / दृश्यते हि धर्मिणोर्विवेकग्रहणे ऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणे ऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम्-तद्धर्माणामपीति / इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः / अयमभिसंधिः-रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि च्छायां गृह्णीयात्, चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति / यथाहुः-ऽशब्दगन्धरसानां च कीदृशी प्रतिबिम्बताऽइति / तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसंभेदेनैव तद्धर्माणामपि परस्परसंभेदेन विनिमयात्मना भवितव्यम्, तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसंभिन्नौ, असंभिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् /
35 SK तदिदमुक्तम्-सुतरामिति /
37 SK विषयविपर्ययेणेत्यर्थः / मिथ्याशब्दो ऽपह्नववचनः / एतदुक्तं भवति- अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति / मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना / इदमत्राकूतम्-भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत / न त्वेतदस्ति / तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते / न चैतान्युपक्रम
38 SK FN: १-उपक्रमः प्रारम्भः, परामर्शो मध्ये निर्देशः उपसंहारश्च सामान्येन कथितस्य विशेषे नियमनम् / अत्रायमभिप्रायः-ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयऽइत्युपक्रम्य, अन्तरा च तेजसा शुङ्गेन सन्मूलमन्विच्छ, अन्नेन शुङ्गेन सन्मूलमन्विच्छेत्यादि निर्दिश्य ऽस य एषो ऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽइत्युपसंहृतं वाक्यं, अखण्डसत्तात्पर्यकं तदुपक्रमोपसंहारलिङ्गात् / अवान्तरपठितम् ऽअसद्वा इदमग्र आसीत्ऽइत्यादिकमेतदनुसंधानेन नेयम् / ननु तेजोबादिसृष्टिक्रममपि व्याचष्टे / न / एकमद्वितीयं ब्रह्मैवेह प्रतिपिपादयिषितम्, यत्परः शब्दः स एव तदर्थो ऽन्यथातिप्रसङ्गात् / तस्मात् ब्रह्मणो ऽवताराय यत्किञ्चिद्व्याहर्तव्यमिति तद्व्याहृतमिति सुवचमतो निष्प्रपञ्चात्मतत्त्वप्रतिपादकान्येवैतानीति दिक् /
39 SK परामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् / अभ्यासे हि भूयस्त्वमर्थस्य भवति यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति / अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः
40 SK FN: २-उपप्लवो विपर्यासः / अहमनुभवस्तद्रहितः कथमित्यर्थः /)/ न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्या
41 SK FN: ३-अत्र तदपेक्षत्वं प्रत्यक्षप्रमाणसिद्धार्थानुवादकतया स्वप्रामाण्यमुखिनिपीक्षकत्वरूपं बोध्यम् /
42 SK प्रामाण्यमुपचरितार्थत्वं चेति युक्तम्, तस्यापौरुषेय
43 SK FN: ४-पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानुपूर्वीमत्त्वं पौरुषेयत्वं, तद्रहिततयेत्यर्थः /
44 SK तया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाण
45 SK FN: ५-अनधिगताबाधितार्थबोधकत्वमेव हि प्रामाण्यं, तच्चान्तराध्यक्षं सिद्धमित्यर्थः /
46 SK भावस्य स्वकार्ये प्रमितावनपेक्षत्वात् / प्रमितावनपेक्षत्वे ऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न / उत्पादकाप्रतिद्वन्द्वित्वात् / न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् / न च तत्तस्योत्पादकम् / अतात्त्विकप्रमाणभावेभ्यो ऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् / तथा च वर्णे ह्रस्वत्वदीर्घत्वादयो ऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः / न हि लौकिकाः ऽनागःऽइति वा᳚नगः᳚इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः / न चा
47 SK FN: १-यत्पूर्वमुपचरितत्वमुक्तं तन्निरस्यति)
48 SK नन्यपरं वाक्यं स्वार्थं उपचरितार्थं युक्तम् / उक्तं हि - ऽन विधौ
49 SK FN: २-विधायके शब्दे, परो लक्ष्यः शब्दार्थो न भवतीति शाबरभाष्ये सिद्धान्तितम् / नच ऽसोमेन यजेतऽइत्यादौ सोमवतेति मत्वर्थलक्षणाभ्युपगमात्, ऽतत्त्वमसिऽइत्यादौ च जीवब्रह्मणोरैक्यं ब्रुवतां मते भागलक्षणाङ्गीकारान्नैतद्युक्तमिति वाच्यम् / विधितुल्यं, तत्तुल्यं वा तात्पर्यवद्वाक्यं यत्किञ्चुदनुग्रहार्थमन्यपरं न नेतुं शक्यमित्यर्थे तात्पर्यात् / तत्र विना तात्पर्यं सिद्धिरेष्टव्येत्याशयः /
50 SK परः शब्दार्थःइति / ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् / तदनपबाधने तदपबाधात्मन
51 SK FN: ३-शुक्तिज्ञानं रजतज्ञानापबाधात्मकं, अतो यदि नाबाधिष्यत तर्हि नोदपत्स्यतेत्यर्थः /
52 SK स्तस्योत्पत्तेरनुत्पत्तेः / दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् / तथा च पारमर्षं सूत्रं, ऽपौर्वापर्ये
53 SK FN: ४-ज्योतिष्टोमे ऽन्योन्यं संबध्य यज्ञशालातो निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयते ऽयद्युद्गातापच्छिद्येतादक्षिणेन यजेत, यदि प्रतिहर्तापच्छिद्येत सर्वस्वदक्षिणेनेतिऽतत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात् किं पूर्वं कार्यमुत परमिति संदेहे राद्धान्तः ऽपूर्वं परमजातत्वादबाधित्वैव जायते / परस्यानन्यथोत्पादान्नात्वबाधेन संभवः इति /
54 SK पूर्वदौर्बल्यं प्रकृतिवत्ऽ (आ. ६ पा. ५ सू. ५४)इति / तथा ऽपूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् / अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् //
55 SK ऽइति / अपि च ये ऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम्, ऽअहमिहैवास्मि सदने जानानःऽइति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् / उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् / न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति सांप्रतम् / न हि तदैवं भवति ऽअहम्ऽ इति;गौणत्वे वा न ऽजानानःऽइति / अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः / तद्यथा नैयमिका
56 SK FN: ६-ऽयदग्नये च प्रजापतये च सायं जुहोतिऽइत्यग्नेर्हेमे देवताप्रख्यापनादत्र अग्निहोत्रकर्मनामधेयमग्निहोत्रपदमित्यर्थः)ग्निहोत्रवचने ऽग्निहोत्रशब्दः (अ. १ पा. ४ सू. ४)
57 SK प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि ऽमासमग्मिहोत्रं जुहोतिऽ(आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः,
58 SK FN: १-प्रकरणभेदेन कर्मभेदे सिद्धे ऽनेकत्र शक्त्यङ्गीकारे गौरवादग्निहोत्रवज्जुहोतीति साध्यसादृश्येन गौण इत्यर्थः /
59 SK माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः / न त्वहङ्कारस्य मुख्योर्ऽथो निर्लुठित
60 SK FN: २-निष्कृष्य लुठितः प्रतिभासितो गर्भो ऽसाधारणाकारो यस्य स तथा तत्तथा / तथा च नात्र विवदितव्यमित्यर्थः /
61 SK गर्भतया देहादिभ्यो भिन्नो ऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् / न चात्यन्त
62 SK FN: ३-प्रयोगप्राचुर्यान्मुख्यवद्भानात्, निरूढलक्षणा शक्तिवृत्तिसदृशीति शास्त्रसमयः /
63 SK निरूठतया गौणे ऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् / तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः / तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तम् तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति / न च बालस्थविरशरीरभेदे ऽपि सो ऽहमित्येकस्यात्मनः प्रतिसंधानदेहादिभ्यो भेदे
64 SK FN: ४-विवेकेनेत्यर्थः /
65 SK नास्त्यात्मानुभव इति वाच्यम् / परीक्षकाणां खल्वियं कथा, न लौकिकानाम् / परीक्षका अपि हि व्यवहारसमये न लोकसामाम्यमतिवर्तन्ते / वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः -ऽपश्वादिभिश्चाविशेषात्ऽइति / बाह्या अप्याहुः -ऽशास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारःऽइति / तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारम् ऽअहमिहास्मि सदनाऽइति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः / न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् / तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा?अणुपरिमाणत्वे स्थूलो ऽहम्, दीर्घ इति च न स्यात्, देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः / किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत् प्रत्येकं वावयवाः?प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धादिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत / समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनो ऽप्यवयवो वृक्ण इति न चेतयेत् / न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः / य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् / विज्ञानालम्बनत्वे ऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव / तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् / एतेन
66 SK FN: ५-गौणत्वासिद्ध्येत्यर्थः /
67 SK स्थूलो ऽहमन्यो ऽहं गच्छामीत्यादयो ऽप्यध्यासतया व्याख्याताः / तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति / तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् -अन्योन्यस्मिन्नित्यादि / अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौ ऽअन्योन्यात्मकताम्ऽअध्यस्याहमिदं शरीरादीति / इदमिति च वस्तुतः, न प्रतीतितः / लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः / इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः / ऽअन्योन्यधर्मांश्चाध्यस्यऽअन्योन्यस्मिन्धर्मिणि देहादिधर्मान्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः / अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम् / पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति-मिथ्याज्ञाननिमित्तः-व्यवहारः / मिथ्याज्ञानमध्यासस्तन्निमित्तः / तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः / तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह-इतरेतराविवेकेन / विवेकाग्रहणेत्यर्थः / अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह-अत्यन्तविविक्तयोर्धर्मधर्मिणोः / परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासंकीर्णता विवेकः / स्यादेतत् / विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः / इह तु परमार्थसतश्चिदात्मनो ऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत्, तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आह-सत्यानृते मिथुनीकृत्य इति / विवेकाग्रहादध्यस्येति योजना / सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि,ते द्वे धर्मिणी मिथुनीकृत्य
68 SK FN: १-अधिष्ठानारोप्ययोः स्वरूपेण बुद्धौ भानं तदर्थः /
69 SK युगलीकृत्येत्यर्थः / न च संवृतिपरमार्थसतोः पारमार्थकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः / एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति / स्यादेतत् / आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह-नैसर्गिक इति / स्वाभाविको ऽनादिरयं व्यवहारः / व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः / स्यादेतत् / अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता / प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते / प्रकाशमानत्वमेव हि चिदात्मनो ऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वा, द्वैतापत्तेः / सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पने ऽनवस्थापातात्, प्रकाशमानतैव सत्ताभ्युपेतव्या / तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत् / असत्त्वे वा न प्रकाशमानाःतत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः,तदसंभवे कुतो ऽध्यास इत्याशयवानाह-आहआक्षेप्ता-को ऽयमध्यासो नाम / क इत्याक्षेपे / समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति-उच्यते-स्मृतिरूपः परत्र पूर्वदृष्टावभास / अवसन्नो ऽवमतो वा भासो ऽवभासः / प्रत्ययान्तरबाधश्चास्यवसादो ऽवमानो वा / एतावता मिथ्याज्ञानमित्युक्तं भवति / तस्येदमुपव्याख्यानम् ऽपूर्वदृष्ट-ऽइत्यादि / पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः / मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति / तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् / तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् / तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् / आरोपविषयं सत्यमाह-परत्रेति / परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम् / स्यादेतत् / परत्र पूर्वदृष्टावभास इत्यलक्षणम्, अतिव्यापकत्वात् / अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः / अस्ति
70 SK FN: १-आश्रयं परधर्मावभास इति विवक्षायां मेतदुदाहरणम्, पूर्वं तु पूर्वदृष्टस्य परत्र धर्म्यध्यासमभिप्रेत्येति ज्ञेयम्
71 SK च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः / अवभास
72 SK FN: २-ननु अवमतो भासो ऽवभास इति व्युत्पादयम् कथमुदाहृतस्थलादावतिव्याप्तिमाहेति वदन्तं प्रत्याह-अवभासपदं चेति / एतेन प्रत्यभिज्ञायां नातिव्याप्तिरिति केषाञ्चिन्मतं परास्तम् / न च पूर्वदृष्टपदेनानिर्वाच्यानृतमुक्तमित्युक्तत्वान्न तत्रातिव्याप्तिकथनं संगच्छत इति वाच्यम्, तादृशार्थस्य स्मृतिरुपपदेनाभिधीयमानत्वादिति बोध्यम् /
73 SK पदं च समीचीने ऽपि प्रत्यये प्रसिद्धम्, यथा नीलस्यावभासः पीतस्यावभास इत्यत आह-स्मृतिरूप इति / स्मृते रूपमिव रूपमस्येति स्मृतिरूपः / असंनिहितविषयत्वं च स्मृतिरूपत्वम्, संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः / नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रम
74 SK FN: १-स्मृतौ विभ्रमः / स्मर्यमाणे स्मर्यमाणरूपान्तरारोप इति यावत् /
75 SK रूपस्यैवंरूपत्वात् / अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः / एवम्पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम् / तथा हि-बहिर्विनिर्गच्छजत्यच्छनयनरश्मिसंपृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन्, शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन्, पीततायाश्च शङ्खासंबन्धमननुभवन्, असंबन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डंपीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्खैति / एतेनतिक्तो गुडैति प्रत्ययो व्याख्यातः / एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत्, दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत्, पूर्वदृष्टाभिमुखा
76 SK FN: २-पूर्वदृष्टयोरभिमुखयोः आदर्थोदकयोर्देश एव देशो यस्य तस्य भावस्तत्ता / तथा च मुखादौ तदारोप इत्यर्थः /
77 SK दर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमो ऽपि लक्षितो भवति / एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासंभवं लक्षणं योजनीयम् / एतदुक्तं भवति-न प्रकाशमानतामात्रं सत्त्वम्, येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् / न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा / तथा सति मरुषु मरीचिकाचयम्,उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसंधाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत् / तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम् / न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति सांप्रतम्यतो यद्यसन् नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम्,न च स्वरूपसत्त्वेन तोयाद्यात्मनापि सन्तो भवन्ति / यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मना अभावः स्वरूपेण तु भावः / यथाहुः-ऽभावान्तरमभावो हि कस्याचित्तु
78 SK FN: ३-यथा इह घटो नास्तीत्यादौ केवलभूतलाधिकरणस्वरूपत्वं घटाभावस्य, अन्यथा निरूपयितुमशक्यत्वात् / तथा जलरूपेण मरीचीनामसत्त्वं यत् तन्मरीचय एव, तदेतदभिप्रेत्योक्तम्-कयाचित्तु व्यपेक्षयेति /
79 SK व्यपेक्षयाऽइति / ततश्च भावात्मनोपा
80 SK FN: ४-निर्वचनीयतयेत्यर्थः /
81 SK ख्येयतयास्य युज्येतानुभवगोचरता / प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतो ऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः / न च
82 SK FN: ५-प्रपञ्चस्य पुनरत्यन्तासत इत्यादिनानिर्वचनीयमतं निरस्तम् / इदानीं शून्यमतं निरस्यति-नचेति / शून्यवादिनो हि शून्यस्यापि भासनमभ्युपगच्छन्ति, उपपत्तिश्च स्वसमानाकारपर्वप्रत्ययसामर्थ्येन आसादितासाधारणस्वभावभेदं यज्ज्ञानं तदेवासत्प्रकाशयति / नच तन्मते ऽसत्प्रकाशनज्ञानस्यापि शून्यत्वात्सर्वत्रानाश्वासप्रसङ्ग इति वाच्यम्, यतो ज्ञानमपि पूर्वज्ञानाधीनसत्त्वमित्युपगम्यमानत्वात् /
83 SK विषयस्य समस्तसामर्थ्यविरहे ऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्माद
84 SK FN: ६-बौद्धानां मते ऽविद्ययासत्प्रकाशकमिति चेत् वा हि असत्प्रकाशनशक्तिर्ज्ञानस्य सैवा वद्येत्यर्थः /
85 SK सत्प्रकाशनशक्तिरेवास्याविद्येति सांप्रतम् / यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् ,असदिति चेत्, किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् / न तावत्कार्यम्, असतस्तत्त्वानुपपत्तेः / नापि ज्ञाप्यं, ज्ञानान्तरानु
86 SK FN: ७-मा भूदसतः शक्तिकार्यत्वम्, अयोग्यत्वात्, शक्तिज्ञाप्यं पुनः कस्मान्नभवेदिति चेत् शक्तिज्ञाप्यत्वं शक्तिनिष्ठज्ञापकतानिरूपितज्ञाप्यताशालित्वं वक्तव्यम्, तच्च शक्याश्रयज्ञानादन्यज्ञानानुपलब्धेरसंभवीत्याह-ज्ञानान्तरानुपलब्धेरिति /
88 SK FN: ८-अथ वक्तव्यं ज्ञानान्तरमुपलभत इति तथापि तस्यापि ज्ञापकत्वेन ज्ञानान्तरापेक्षायामनवस्थापात इत्यर्थः /
89 SK पाताच्च / विज्ञानस्वरूपमेव असतः प्रकाश इति चेत्, कः पुनरेष सदसतोः संबन्धः?असदधीननिरूपणत्वं सतो ज्ञानस्यासता संबन्ध इति चेत्, अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित्, असत आधारत्वायोगात् / असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत्, अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभाव
90 SK FN: १-अविनाभावमूलं कार्यकारणभावो वा तत्स्वभावत्वं वा वक्तव्यम्, उभयस्याप्युक्तक्रमेणासंभवादित्यर्थः /
91 SK नियतः प्रत्यय इति / तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति / अत्र ब्रूमः-
92 SK FN: २-एवं सर्वत्र वस्तु सदेव भातीति सद्वादिनाक्षिप्ते सिद्धान्त्याह-अत्र ब्रूम इति /
93 SK निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयो ऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः / न सतत्त्वाः, तदात्मना मरीचीना
94 SK FN: ३-ननु सद्वादिना तोयात्मना मरीचीनामसत्त्वं चेदङ्गीक्रियेत तर्हि सिद्धान्तहानिरिति चेन्न, मरीचिरूपमेव तोयरूपेणासत्, त्ययावगाहितोयत्वेनासन्मरीचिरूपं सत्यत्वान्न बाध्येतेत्याशयः /
95 SK मसत्त्वात् / द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च / तत्र पूर्वं स्वतः, परं तु परतः / यथाहुः- ऽस्वरूपपररूपाभ्यां नित्यं सदसदात्मके / वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न //
97 SK FN: ४-सिद्धान्ती शङ्कते-तत्किमिति / तादृशप्रत्ययावगाहितोयत्वेनासन्मरीचिरूपं सत्यत्वान्न बाध्येतेत्याशयः /
98 SK मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत /
99 SK FN: ५-सद्वादी प्रत्याह-अद्धेति / अतोयात्मतत्त्वा मरीचरो न भ्रमे भासन्ते, किं तु भावान्तरतोयात्मनः, तस्मादुपपद्यते तद्बाध इत्यङ्गीकारः /
100 SK अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात् / तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वाबाध्यः
101 SK FN: ६-अनिर्वचनीयख्यातिवादी प्रत्याह-यत्पुनरारोपित भावान्तरतोयात्मना मरीचयो भासन्त इत्यवादीः, तत्रेत्थं विचार्यते तद्वासत्, नाद्य इत्याह-हन्तेति /
102 SK हन्ततोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत्, तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः / नाप्यसत् /
103 SK FN: ७-न सत्किं तु असदेवेति चेत्तात्किं तुच्छं वा सद्भिन्नं वेति वक्तव्यम् / नाद्यः, अपसिद्धान्तात् / न द्वितीय इत्याह-वस्त्वन्तरमेव हीति / तस्मादसंमता सत्ख्यातिरिति /
104 SK वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते ऽभावान्तरमभावो ऽन्यो न कश्चिदनिरूपणात्ऽइति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम्,तद्धि मरीचयो वा भवेत्, गङ्गादिगतं तोयं वा / पूर्वस्मिन्कल्पे मरीचयः इति प्रत्ययः स्यात्, न तोयमिति / उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति / देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति /
105 SK FN: ८-असत्ख्यातिं निरस्यति-न चेदमिति /
106 SK न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति सांप्रतम्, तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् /
107 SK FN: ९-सिद्धान्ती उपसंहरति-तस्मादिति /
108 SK तस्मान्न सत्, नासन्नापि सदसत्, परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम्,तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव,तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम् / एवं च देहेन्द्रियादिप्रपञ्चो ऽप्यनिर्वाच्यः, अपूर्वो ऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अध्यासलक्षणयोगात् / देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते / चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः / अबाधिता स्वयंप्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वेति सर्वमवदातम् / स चायमेवंलक्षणको ऽध्यासो ऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह-तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति / अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य / ज्ञानाकारस्येति यावत् / अध्यासो ऽन्यत्र बाह्ये / सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत्, तत्र ज्ञानाकारस्यारोपः / विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत्, तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम्, तत्र ज्ञानाकारस्याध्यारोपः / उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः,अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात्
109 SK FN: १-अयं भावः-इदं रजतमित्यत्र रजतानुयोगिकं इदन्त्वप्रतियोगिकं तादात्म्यं भासते / नेदं रजतमित्युक्ते तदेव बाधितं भवति, ऽप्रतियोग्यभावान्वयौ तुल्ययोगक्षेनौऽइति नियमात् / नञो ऽसमभिव्याहारे यद्धर्मावच्छिन्ने यत्संबन्धावच्छिन्नयद्धर्मावच्छिन्नवत्त्नं नञ्समभिव्याहारे तद्धर्मावच्छिन्ने तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकस्तादभावः प्रतीयते इत्यर्थः, तस्मान्नेदं रजतमित्यत्र रडते भासमाना इदन्तैव बाधिता भवेन्न पुना रजतमपीति / तथा चैतन्मते अहं रजतमिति प्रत्ययः प्रमेति भावः /
110 SK नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता / रजतस्य धर्मिणो भाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम्,तद्वरमिदन्तैवास्य धर्मो बाध्यताम् न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति / केचित्तु---ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति-यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति / अपरितोषकारणं चाहुः-विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा / तत्रानुमानमुपरिष्टा
111 SK FN: २-सहोपलम्भात्, मितिमेययोरभेदो न सिध्यति, उपायोपेयभावहेतुकत्वेन तस्यान्यथासिद्धत्वादित्यर्थः /
112 SK न्निराकरिष्यते / अनुभवो ऽपि रजतप्रत्ययो वा स्यात्, बाधकप्रत्ययो वा / न तावद्रजतानुभवः / स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् / अहमिति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् / भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत्, हन्त बादकप्रत्ययमालोचयत्वायुष्मान् / किं पुरोवर्ति द्रव्यं रजताद्विधेचयत्याहोस्मिन् ज्ञानाकारतामप्यस्य दर्शयति / तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः / पुरोवर्तित्व
113 SK FN: ३-साक्षाज्ज्ञानाकारतां न दर्शयतीत्युक्तम् / आर्थिकमपि ज्ञानाकारत्वं न सिध्यतीत्याह-पुरोवर्तित्वेति /
114 SK प्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न / असंनिधाना
115 SK FN: ४-यदुक्तं बहिर्बाधितमर्थान्तरे व्यवतिष्ठत इति तदप्यन्नथोपपद्यत इत्याह-असंनिधानेति / देशान्तरेपि स्यादित्यर्थः /
116 SK ग्रहनिषेधादसंनिहितो भवति / प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्रात्मकं कुतस्त्यम् /
117 SK FN: ५-यत्पुनर्लाघवमाह तत्प्रतिवक्ति मीमांसकः--न चेति / व्यवहारमात्रस्य बाधोपपत्तौ विषयबाधान्माल्लाघवमिति हृदयं /
118 SK न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य / न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन / नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात् / न खलु
119 SK FN: ६-पुरोदेशत्तमात्रेणेत्यर्थः /
120 SK सत्तामात्रेणालम्बनम्, अतिप्रसङ्गात् / सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् / नापि कारण
121 SK FN: ७-रजतज्ञानहेतुसंस्कारोद्बोधकत्वेनेत्यर्थः /
122 SK त्वेन, इन्द्रियादीनामपि कारणत्वात् / तथा च भासमानतैवालम्बनार्थः / न च रजतज्ञाने शुक्तिका
123 SK FN: ८-तैः इदंविषयकं रजतविषयकं चेति ज्ञानद्वयस्याङ्गीकृतत्वात्कथमालम्बनमिति प्रच्छा /
124 SK भासते, इति कथमालम्बनम्,
125 SK FN: ९-एतेन अर्थाध्यासो निरस्तः /
126 SK भासमानताभ्युपगमे वा कथं नानुभवविरोधः /
127 SK FN: १०-इदं रजतमिति ज्ञानं न मिथ्येत्याह-अपि चेति /
128 SK अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसंभवः / दोषसहितानां तेषां मिथ्याप्रत्यये ऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्र हेतुत्वात्,अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् / अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः / तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् /
129 SK FN: ११-सर्वज्ञानानां समीचीनत्वे उदाहृतस्थले भ्रम एव न स्यादिति चेत्तत्र स्वमतमाह-तथा चेति /
130 SK तथा च रजतम्,इदम् इति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात्, तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति / सा च गृहीत
131 SK FN: १२-गृहीतमिदमिति प्रकाशनस्वभावेत्यर्थः / पूर्वानुभवविषयत्वं स्मृतेरिति भावः /
132 SK ग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते / तथा च रजतसमृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात्, संनिहित
133 SK FN: १३-संनिहितरजतगोचरज्ञानसारूप्येणेति / अत्रैवं तज्ज्ञानसारूप्यं-यथेदं रजतमितिज्ञानं इदमो रजतस्य चासंसर्गं न गृह्णाति, तयोः संसृष्टत्वात् / एवमेते अपि स्मरणग्रहणे स्वगतभेदं, स्वविषयासंसृष्टत्वं न निवेदयत इति /
134 SK रजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः / क्वचित्पुनर्ग्रहणे एव मिथो ऽनुगृहीतभेदे, यथा पीतः शङ्खःइति / अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते / शङ्खो ऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते / तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात् पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च / भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति / तस्माद्यथार्थाः
135 SK FN: १-साध्यनिर्देशो ऽयं /
136 SK सर्वे विप्रतिपन्नाः संदेहविभ्रमाः, प्रत्ययत्वात्, घटादिप्रत्ययवत् / तदिदमुक्तम्-यत्र यदध्यास इति / यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण गृहीतमात्रस्य च यः इदमिति पुरो ऽवस्थिताद्द्रव्यमात्रात्तत्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः / भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति / अन्ये तु-अत्राप्यपरितुष्यन्तः,यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनामाचक्षते / अत्रेदमाकूतम्-अस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् / तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति / ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् / ननूक्तं नाग्रहणमात्रात्, किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः / अथ ऽसमीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण / गृह्यमाणत्वे ऽपिसमीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोःऽइति ग्रहणम्, ऽअथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहःऽइति ग्रहणम् / तत्र न तावत्समीचीनज्ञानसदृशी इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् / न हिगोसदृशो गवयःइति ज्ञानं गवार्थिनं गवये प्रवर्तयति / अनयोरेव भेदाग्रहःइति तु ज्ञानं पराहतम्,न हि भेदाग्रहे अनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति / तस्मात्सत्तामात्रेण भेदाग्रहो ऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् / तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरास्त्वाहो ऽनुत्पादितारोप एव स्वत इति / वयं तु पश्यामः-चेतनव्यवहारस्यज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैव-इति / ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति / मैवम् / नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते / इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् / कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत् / अन्यदिच्छत्यन्यत्करोतीति व्याहतम् / न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् / यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्यो ऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति / सो ऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेदनो ऽव्यवस्थितः इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यते इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः / तथाहि-भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजतेतमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् / न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् / एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् / यदाहुः-
137 SK FN: २-साध्यसाधनज्ञातसंबन्धस्य पुंसो लिङ्गविशिष्टधर्म्येकदेशदर्शनात् लिङ्गे विशिष्टधर्म्येकदेशे बुद्धिरनुमानमिति शबरस्वामिनः /
138 SK ज्ञातसंबन्धस्यैकदेशदर्शनादिति / समारोपे त्वेकदेशदर्शनमस्ति / तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम्, रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात्, यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानन्तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम्, तथा चेदम्, तस्मात्तथेति / यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम्, किं शुक्तिकात्वस्यैदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्वित्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य / यदि शुक्तिकात्वस्यानालम्बनत्वम्, अद्धा / उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः / तथा हि-रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति / दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम्, यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम् / भस्मकदुष्टस्य चोदर्थस्य तेजसो बह्वन्नपचनमिति / प्रत्यक्षबाधापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतबहानुष्णत्वानुमानवत् / यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्याय
139 SK FN: ३-व्यभिचारिणामपि सितनीलादिषु चक्षुरादीनां बोधकत्वेन प्रामाण्यमित्या दे तत्रोक्तम् /
140 SK कणिकायामिति नेह प्रतन्यते / दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् / विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम्-ऽअन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति / ऽयत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना / ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यताह-सर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति / अन्यस्यान्यधर्म
141 SK FN: १-अवभासपदार्थः कल्पना /
142 SK कल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादयितुम् / तेन सर्वेषामेव परीक्षकाणां मतो ऽन्यस्यान्यधर्मकल्पनानिर्वचनीयावश्यंभाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः / अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः / न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह-तथा च लोके ऽनुभवः--शुक्तिका हि रजतवदवभासत इति / न पुना रजतमिदमिति शेषः / स्यादेतत् / अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनो ऽभिन्नानां जीवानां भेदविभ्रम इत्यताह-एकश्चन्द्रः सद्वितीयवदिति / पुनरपि चिदात्मन्यध्यासमाक्षिपति-कथं पुनः प्रत्यगात्मन्यविषये ऽध्यासो विषयतद्धर्माणाम् / अयमर्थः-चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणा / न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवतिति / प्रतिभासे वा (न) तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् / न खलु स एव कर्ता च कर्म च भवति, विरोधात् /
143 SK FN: २-धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्युक्ते गच्छतीत्यादौ संयोगफलस्य ग्राम इव चैत्रे ऽपि समवेतत्वात्, चैत्रश्चैवं गच्छतीति प्रयोगापत्तिः, तस्मात्परसमवेतक्रियाफलशालित्वमेव कर्मत्वमित्यर्थः /
144 SK परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म,न च तदेव स्वं च परं च, विरोधात् / आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनो ऽनात्मत्वप्रसङ्गः / एवं तस्य तस्येत्यनवस्थाप्रसङ्गः / स्यादेतत् / आत्मा जडो ऽपि सर्वार्थज्ञानेषु भासमानो ऽपि कर्तैव न कर्म,
145 SK परसमवेतक्रियाफलशालित्वाभावात्, चैत्रवत् / यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात्, न तु चैत्रस्य क्रियाफलशालिनो ऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न / श्रुतिविरोधात् / श्रूयते हि ऽसत्यं ज्ञानमनन्तं ब्रह्मऽइति उपपद्यते च, तथा हि-यो ऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयंप्रकाशो वा / जडश्चेत्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः / तथा चाभाणकः / ऽअन्धस्येवान्धलग्नस्य विनिपातः पदे पदेऽ / न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् / ज्ञापनं हि ज्ञानजननम्, जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति / एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था / तस्मादपराधीनप्रकाशा संविदुपेतव्या /
146 SK FN: ३-संविदपराधीनप्रकाशा भवतु, आत्मा जडः किं न स्यादितिवादिनं आत्मस्वप्रकाशवाद्याह---तथापीति /
147 SK तथापि किमायातं विषयात्मनोः स्वभावजडयोः / एतदायातं यत्तयोः संविदजडेति /
148 SK FN: १-अर्थात्मसंबन्धिन्यां संविद्यजडायामपि नार्थात्मनोः प्रकाशमानतासिद्धिः पण्डिते ऽपि पुत्रे पितुरपाण्डित्यवदित्याह---तत्किमिति /
149 SK तत्किं पुत्रः पण्डित इति पितापि पण्डितो ऽस्तु / स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेत्, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसंबन्धितेति
150 SK FN: २-यथा स्वभावसंबद्धा संवित् तथा पितृगतजनकत्वसंबद्धं पुत्रगतजन्यत्वमिति भावः /
151 SK समानम् / सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत्, तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ / तथा च न स्वयंप्रकाशा संवित्, न च संविदर्थात्मप्रकाश इति / अथ ऽसंविदर्थात्म
152 SK FN: ३-संविदश्च अर्थात्मनोश्च प्रकाशावित्यर्थः /
153 SK प्रकाशो न संविदो भिद्येतेऽ, संविदेव तौ / एवं चेत् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति,
154 SK FN: ४-संविदतिरिक्तप्रकाशानङ्गीकारे संविदर्थात्मानौ सह प्रकाशत इत्युक्तं स्यात् तथा चोक्तपुत्रपाण्डित्यन्यायप्रसरः /
155 SK तथा च न विवक्षितार्थसिद्धिः /
156 SK FN: ५अर्थसंविदोः सहभावो व्यभिचरतीत्याह---न चेति /
157 SK न चातीतानागतार्थगोचरायाः संविदोर्ऽथसहभावो ऽपि / तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः / हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम्, अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत्, तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशो ऽस्तु / जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत्, नन्वयं स्वयंप्रकाशो ऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् / न च प्रकाशस्यात्मानो विषयाःते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते,प्रकाशश्चायमान्तरो ऽस्थूलो ऽनणुरह्रस्वो ऽदीर्धश्चेति प्रकाशते,
158 SK FN: ६-ऽस्यादेतत्ऽइत्यारभ्य प्रतिपादितं बौद्धमतं निरस्य स्वमतमाह---तस्मादिति /
159 SK तस्माच्चन्द्रे ऽनुभूयमाने इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योर्ऽथः अनिर्वचनीय एवेति युक्तमुत्पश्यामः /
160 SK FN: ७-संविद आत्मत्वसिद्ध्यर्थमद्वितीयत्वमाह--नेति /
162 SK FN: ८-आजानतः स्वभावतः /
163 SK जानतः स्वलक्षणभेदो ऽनुभूयते / न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् / न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते / तदयं प्रकाश एव स्वयंप्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ् स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात्, अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम्, देहेन्द्रियादिधर्माणाम् कथम्,किमाक्षेपे / अयुक्तो ऽयमध्यास इत्याक्षेपः / कस्मादयमयुक्त इत्यत आह-सर्वो हि पुरो ऽवस्थिते विषये विषयान्तरमध्यस्यति / एतदुक्तं भवति-यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहे ऽन्यथा प्रकाशते / प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्देषैर्दुष्येत् / न चांशवान्, येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत / नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च संभवतीति न स्वयंप्रकाशपक्षे ऽध्यासः / सदातने ऽप्यप्रकाशे पुरो ऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः /
164 SK FN: ९-शुक्तेरिव एकस्यैव वस्तुनः ग्रहणाग्रहणे सिद्धे किमित्यौपाधिकं विषयत्वं साध्यत इति चेत् सांशस्य तथा स्यात् आत्मनस्तु निरंशत्वान्न तथेत्याह----नहीति /
165 SK न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति / तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् / स्यादेतत् / अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह-युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनो ऽविषयत्वं ब्रवीषि / विषयत्वे हि चिदात्मनो ऽन्यो विषयी भवेत् / तथा च यो विषयी स एव चिदात्मा / विषयस्तु ततो ऽन्यो युष्मत्प्रत्ययगोचरो ऽभ्युपेयः / तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वमत एवाविषयत्वमात्मनो वक्तव्यम्, तथा च नाध्यास इत्यर्थः / परिहरति-उच्यते-न तावदयमेकान्तेनाविषयः / कुतः,अस्मत्प्रत्ययविषयत्वात् / अयमर्थः- सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादविषयो ऽनंशश्च,तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदकभेदेनानवच्छिन्नो ऽपि वस्तुतो ऽवच्छिन्न इव अभिन्नो ऽपि भिन्न इव, अकर्तापि कर्तेव अभोक्तापि भोक्तेव अविषयो ऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नो ऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति / न हि चिदेकरसस्यात्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति / न खल्वानन्दनित्यत्वविभुत्वादयो ऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् / गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति / न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सो ऽपि गृहीतो भवेत्, बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् / तस्माच्चिदात्मनः स्वयंप्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात् तदध्यासेन जीवभाव इति / तस्य चानिदमिदमात्मनो ऽस्मत्प्रत्ययविषयत्वमुपपद्यते / तथा हि-कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते / न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा संभवति / यस्य च बुद्ध्यादेः कार्यकारणसंघातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् / तस्माच्चिदात्मैव कार्यकरणसंघातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयंप्रकाशो ऽपि बुद्ध्यादिविषयविच्छुरणात् कथञ्चिदस्मत्प्रत्ययविषयो ऽहङ्कारास्पदं जीव इति च जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते / न खलु जीवश्चिदात्मनो भिद्यते / तथा च श्रुतिः-ऽअनेन जीवेनात्मनाऽइति / तस्माच्चिदात्मनो ऽव्यतिरेकात् जीवः स्वयंप्रकाशो ऽप्यहंप्रत्ययेन
166 SK FN: १-यत्पूर्वं कर्मकर्तृत्वविरोध उक्तः सो ऽप्यनेन परास्तो वेदितव्यः, औपाधिकविषयत्वात् /
167 SK कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते / न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति सांप्रतम्, बीजाङ्कुरवदनादित्वात्, पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादि त्युक्तम्-ऽनैसर्गिको ऽयं लोकव्यवहारःऽइति भाष्यग्रन्थेन / तस्मात् सुष्टूक्तम्-न तावदयमेकान्तेनाविषय इति / जीवो हि चिदात्मतया स्वयंप्रकाशतयाविषयो ऽप्यौपाधिकेन रूपेण विषय इति भावः / स्यादेतत् / न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः / तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतो ऽध्यास इत्यत आह-अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः / प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् / यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः / यथा पुरुषस्य चैतन्यमिति / एतदुक्तं भवति-अवश्यं चिदात्मापरोक्षो ऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् / श्रुतिश्चात्र भवति-ऽतमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति / तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह-न चायमस्ति नियमः पुरो ऽवस्थित एव, अपरोक्ष एव,विषये विषयान्तरमध्यसितव्यम् / कस्मादयं न नियम इत्यत आह-अप्रत्यक्षे ऽपि ह्याकाशे बालास्तलमलिनताद्यध्यसन्ति / हिर्यस्मादर्थे / नभो हि द्रव्यं सत् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् / नापि मानसम्, मनसो ऽसहायस्य बाह्ये ऽप्रवृत्तेः, तस्मादप्रत्यक्षम् / अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति / तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपो ऽवभासत इति / एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतमहेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः / उपसंहरति-एवम्--उक्तेन प्रकारेण सर्वाक्षेपपरिहारात्,अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम्-बुद्ध्यादीनामध्यासः / ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह-तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते / अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् / तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति / प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् / अत्र च ऽएवं लक्षणम्ऽइत्येवंरूपतयानर्थहेतुतोक्ता / यस्मात्प्रत्यगात्मन्यशनायादिरहिते ऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः / न चैवं पृथग्जना अपि मन्यन्ते ऽध्यासम्, येन न व्युत्पाद्येतेत्यत उक्तम्-पण्डिता मन्यन्ते / नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम्, उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह-तद्विवेकेन च वस्तुस्वरूपावधारणम्-निर्विचिकित्सं ज्ञानम्विद्यामाहुः,पण्डिताः / प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः / तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं
168 SK FN: १-वस्तुस्वरूपं च तदवधारणं चेति कर्मधारयः /
169 SK वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः / स्यादेतत् / अतिनिरूढनिबिढवासनानुविद्वाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादिकार्यं स्वोचितमित्यत आह-तत्रैवं सति, एवंभूतवस्तुतत्त्वावधारणे सति,यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न संबध्यते-अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न संबध्यते / एतदुक्तं भवति-तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति / तत्त्वपक्षपातो हि स्वभावो धियाम्, यथाहुर्बाह्या अपि--ऽनिरुपद्रवभूतार्थस्वभावस्य विपर्ययैः / न बाधो ऽयत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततःऽ //
170 SK इति / विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतो ऽनिर्वाच्ययाविद्यया बाध इति / यदुक्तम्,सत्यानृते मिथुनाकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहारैति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः / इतिशब्दसूचितं लोकव्यवहारमादर्शयति-तमेतमविद्याख्यमिति / निगदव्याख्यातम् / आक्षिपति-कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि / तत्त्वपरिच्छेदो हि प्रमा विद्या,तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि / नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः / सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा,शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह-शास्त्राणि चेति / समाधत्ते-उच्यते-देहेन्द्रियादिष्वहंममाभिमानहीनस्य,तादात्म्यतद्धर्माध्यासहीनस्यप्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः / अयमर्थः-प्रमातृत्वं हि प्रमां प्रति कर्तृत्वम् तच्च स्वातन्त्र्यम् / स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् / तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् / न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति / न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् / तस्मात् व्यापारवद्बुद्ध्यादितादात्म्याध्यासात्, व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति / अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह-न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति / व्यवह्रियते अनेनेति व्यवहारः फलम्, प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः / ऽइन्द्रियाणिऽइति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम्, दण्डिनो गच्छन्तीतिवत् / एवं हि ऽप्रत्यक्षादिऽइत्युपपद्यते / व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता / अनुपादाय यो व्यवहार इति योजना / किमिति पुनः प्रमातोपादत्ते प्रमाणानि,अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह-न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः-प्रमाणानां व्यापारःसंभवति / न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति / अथ देह एवाधिष्ठाता कस्मान्न भवति,कृतमत्रात्माध्यासेनेत्यत आह-न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते / सुषुप्ते ऽपि व्यापारप्रसङ्गादि भावः / स्यादेतत् / यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातोत्यत आह-न चैतस्मिन्सर्वस्मिन्-इतरेतरात्माध्यासे इतरेतरात्माध्यासे च,असति, आत्मनो ऽसङ्गस्य-सर्वथा सर्वदा सर्वधर्मवियुक्तस्य,प्रमातृत्वमुपपद्यते / व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगो ऽसङ्गत्वादित्यर्थः /
171 SK FN: १-अवश्यं चेत्यर्थः /
172 SK आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह-न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति / प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति / अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा / कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत्, यदि चिदात्मा तत्र नाध्यस्येत / कथं चैष चिदात्मकर्तृको भवेत्, यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् / तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति, तत्सिद्धौ च प्रमातृत्वम्, तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः / प्रमातृत्वेन च प्रमोपलक्ष्यते / प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत / तथा च प्रमाणमप्रमाणं स्यादित्यर्थः / उपसंहरति-तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि / स्यादेतत् / भवतु पृथग्जनानामेवम् / आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह-पश्वादिभिश्चाविशेषादिति / विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् / प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते / यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते / तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् / चशब्दः समुच्चये / उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः / एतदेव विभजते-यथा हि पश्वादय इति / अत्र चशब्दादिभिः श्रोत्रादीनां संबन्धे सतिइति प्रत्यक्षं प्रमाणं दर्शितम् / शब्दादिविज्ञानेइति तत्फलमुक्तम् / प्रतिकूलेइति च अनुमानफलम् / तथा हि-शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति / उदाहरति-यथा दण्डेति / शेषमतिरोहितार्थम् / स्यादेतत् / भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि / शास्त्रं तु ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽइत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति / अत्र खल्वामुष्मिकफलोपभोगयोग्यो ऽधिकारी प्रतीयते / तथा च पारमर्षं सूत्रम्-ऽशास्त्र
173 SK FN: १-यस्मात् अर्थस्य तल्लक्षणत्वात्-शब्दप्रमाणत्वात्, शास्त्रफलं शास्त्रगम्यं फलं प्रयोक्तरि प्रतीयते तस्मात् प्रयोगे ऽनुष्ठाने यजमानः स्वयं कर्ता स्यादिति सूत्रार्थाः /
174 SK फलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्ऽ(आ. ३ पा. ७ सू. १८)इति / न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम्, तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह-शास्त्रीये त्विति / तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् / अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसंबन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत्, न त्वस्यासंसारित्वमपि, तस्याधिकारे ऽनुपयोगात् / प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् / प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति / तत्र कथमकर्ता प्रयोक्ता,कथं वाभोक्ता कर्मजनितफलभोगभागी / तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते / एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव / न हि प्रमात्रादिविभागादृते तदर्थाधिगमः / ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः / तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् / स्यादेतत् / यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषो ऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्यो ऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् / तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह-प्राक् च तथाभूतात्मेति / सत्यमौपनिषदपुरुषाधिगमो ऽधिकारविरोधी,तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारनिर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् / न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः / यथा-ऽन हिंस्यात्सर्वा भूतानिऽइति साध्यांशनिषेधे ऽपि ऽश्येनेनाभिचरन् यजेतऽइति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते,तत्कस्य हेतोः,पुरुषभेदादिति / अवजितक्रोधारातयः पुरुषा निषेधे ऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति / अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति-तथाहिति / वर्णाध्यासः-ऽराजा राजसूयेन यजेतऽइत्यादिः / आश्रमाध्यासः-ऽगृहस्थः सदृशीं भार्यां विन्देतऽइत्यादिः /
175 SK वयो ऽध्यासः-ऽकृष्णकेशो ऽग्नीनादधीतऽइत्यादिः / अवस्थाध्यासः ऽअप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागःऽइति / आदिग्रहणं महापातकोपपातकसंकरीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसंग्रहार्थम् / तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानहर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुम् तत्स्वरुपमुक्तं स्मारयति-अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम / ऽस्मृतिरूपः परत्र पूर्वदृष्टावभासःऽइत्यस्य संक्षेपाभिधानमेतत् / तत्र अहमिति धर्मितादात्म्याध्यास-मात्रम्, ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह-तद्यथा पुत्रभार्यादिष्विति / देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह-अहमेव विकलः, सकलः इति / स्वस्य खलु साकल्येन स्वाभ्यसाकल्यात् स्वामीश्वरः सकलः संपूर्णो भवति / तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात्, स्वामीश्वरो विकलो ऽसंपूर्णो भवति / बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया संचरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः / यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वत्याशयवानाह-तथा देहधर्मानिति / देहादप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान् मूकत्वादीन्, ततो ऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसंकल्पादीन् आत्मन्यध्यस्यतीति योजना / तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह-एवमहंप्रत्ययिनम्-अहंप्रत्ययो वृत्तिर्यस्मिन् अन्तःकरणादौ, सो ऽयमहंप्रत्ययीतं / स्वप्रचारणसाक्षिणि- अन्तःकरणप्रचारसाक्षिणि, चैतन्योदासीनताभ्यां,प्रत्यगात्मन्यध्यस्य / तदनेन कर्तृत्वभोक्तृत्वे उपपादिते / चैतन्यमुपपादयति-तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण,अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम्, तस्य विपर्ययः चैतन्यम्, तेन / इत्थंभूतलक्षणे तृतीया / अन्तःकरणादिष्वध्यस्यति / तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारो ऽहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वात् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति / प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति-एवमयमनादिरनन्तः-तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः / अनाद्यनन्तत्वे हेतुरुक्तः-नैसर्गिक इति / मिथ्याप्रत्ययरूपः-मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम्;तद्यस्य स तथोक्तः / अनिर्वचनीय इत्यर्थः / प्रकृतमुपसंहरति-अस्यानर्थहेतोः प्रहाणाय / विरोधिप्रत्ययं विना कुतो ऽस्य प्रहाणमित्यय उक्तम्-आत्मैकत्वविद्याप्रतिपत्तये इति / प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वम् आनन्दरूपस्य सतः / तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति / एतदुक्तं भवति-अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञात्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् / तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् / अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् / न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते / न चासावप्रमाणमभ्यस्तो ऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनो ऽपनेतुमर्हति / आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन / न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते / मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् / मिथ्याज्ञानसंस्कारश्च सुदृढो ऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति / स्यादेतत् / प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह-यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः / शरीरमेव शरीरकम्तत्र निवासी शारीरको जीवात्मा, तस्य त्वंपदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता / एतावानत्रार्थसंक्षेपः-यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम्, यद्यपि च ऽअविशिष्टस्तु
176 SK FN: १-ननु सर्वस्य वेदस्य कार्यावबोधपरत्वात् सिद्धे ब्रह्मणि वेदान्तानामप्रामाण्यं स्यादितिचेत्तत्राह---अविशिष्टस्त्विति / लोकवेदयोर्वाक्यार्थस्याविशेषात्, मन्त्राणामिव देवतादौ वेदान्तानां ब्रह्मणि प्रामाण्यं स्यादित्यर्थः / यत्पुनरुक्तं कार्यपरत्वं वेदस्य तद्धर्मविषयमुन्नेयमिति वक्ष्यति /
177 SK वाक्यार्थःऽइति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम्, यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन संदेहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः / तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या / न च सर्वजनीनाहमनुभवसिद्ध आत्मा संदिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेःइति पूर्वपक्षः / सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् / तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् / एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तक्षणाः / प्रत्यगात्मैव तेषां मुख्योर्ऽथः / तस्य च वक्ष्यमाणेन क्रमेण संदिग्धत्वात् प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्याशयवान्सूत्रकारः तज्जिज्ञासामसूत्रयत्,-
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) (sa_bAdarAyaNa-brahmasUtra-subcomm2.htm).
Source