Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · माण्डूक्योपनिषद् (सटीका)

Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya

माण्डूक्योपनिषद् (सटीका)

Prakaraṇa 4

SK
ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् / ज्ञेयाभिन्नेन संबुद्धस् तं वन्दे द्विपदां वरम् // Mअन्द्Uप्K_४.१ //
SK
Mअन्द्Uप्KC_४.१ आकाशेनेषदसमाप्तमाकाशकल्पमाकाशतुल्यमेतत् / तेनाकाशकल्पेन ज्ञानेन, किम्? धर्मानात्मनः, किंविशिष्टान्गगनोपमान्गगनमुपमा येषां ते गगनोपमास्तानात्मनो धर्मान् / ज्ञानस्यैव पुनर्विशेषणम्- ज्ञेयैर्धर्मैरात्मभिरभिन्नमग्न्युष्णवत्सवितृप्रकाशवच्च ज्ञानं तेन ज्ञेयाभिन्नेन ज्ञानेनाकाशकल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन गगनोपमान्धर्मान्यः संबुद्धः संबुद्धवानिति, अयमेवेश्वरो यो नारायणाख्यस्तं वन्दे ऽभिवादये द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानं पुरुषोत्तममित्यभिप्रायः /
SK
उपदेष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थदर्शनमिह प्रकरणे प्रतिपिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति
SK
START Mअन्द्Uप्K ४.२
SK
अधुना९द्वैतदर्शनयोगस्य नमस्कारस्तत्स्तुतये-
SK
अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः / अविवादो ऽविरुद्धश् च देशितस् तं नमाम्य् अहम् // Mअन्द्Uप्K_४.२ //
SK
Mअन्द्Uप्KC_४.२ स्पर्शनं स्पर्शः सम्बन्धो न विद्यते यस्य योगस्य केनचित्कदाचिदपि स अस्पर्शयोगो ब्रह्मस्वभाव एव, वै नामेति ब्रह्मविदामस्पर्शयोग इत्येवंप्रसिद्ध इत्यर्थः / स च सर्वसत्त्वसुखः / भवति कश्चिदत्यन्तसुखसाधनविशिष्टो ऽपि दुःखरूपः, यथा तपः / अयं तु न तथा / किं तर्हि सर्वसत्त्वानां सुखः /
SK
तथेह भवति कश्चिद्विषयोपभोगः सुखो न हितो ऽयं तु सुखो हितश्च नित्यमप्रचलितस्वभावत्वात् किं चाविवादो विरुद्ध वदनं विवादः पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते स अविवादः / कस्मात्? यतो ऽविरुद्धश्च / य ईदृशो योगो देशित उपदिष्टः शास्त्रेण तं नमाम्यहं प्रणमामीत्यर्थः
SK
START Mअन्द्Uप्K ४.३
SK
कथं द्वैतिनः परस्परं विरुध्यन्ते? इत्युच्यते /
SK
भूतस्य जातिम् इच्छन्ति वादिनः केचिद् एव हि / अभूतस्यापरे धीरा विवदन्तः परस्परम् // Mअन्द्Uप्K_४.३ //
SK
Mअन्द्Uप्KC_४.३ भूतस्य विद्यमानस्य वस्तुनो जातिमुत्पत्तिमिच्छन्ति वादिनः केचिदेव हि सांख्या न सर्वं एव द्वैतिनः / यस्मादभूतस्याविद्यमानस्यापरे वैशेषिका नैयायिकाश्च धीरा धीमन्तः प्रज्ञाभिमानिन इत्यर्थो विवदन्तो विरुद्धं वदन्तो ह्यन्येन्यमिच्छन्ति जेतुमित्यभिप्रायः
SK
START Mअन्द्Uप्K ४.४
SK
तैरेवं विरुद्धवदनेनान्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवत्युच्यते-
SK
भूतं न जायते किञ्चिद् अभूतं नैव जायते / विवदन्तो ऽद्वया ह्य् एवम् अजातिं ख्यापयन्ति ते // Mअन्द्Uप्K_४.४ //
SK
Mअन्द्Uप्KC_४.४ भूतं विद्यमानं वस्तु न जायते किञ्चिद्विद्यमानत्वादेवात्मवदित्येवं वदन्नसद्वादी सांख्यपक्षं प्रतिषेधति सज्जन्म / तथाभूतमविद्यमानमविद्यमानत्वान्नैव जायते शशविषाणवदित्येवं वदन्सांख्यो ऽप्यसद्धादिपक्षमसज्जन्म प्रतिषेधति / विवदन्तो विरुद्धं वदन्तो ऽद्वया अद्वैतिनो ह्येते ऽन्योन्यस्य पक्षौ सदसतोर्जन्मनी प्रतिषेधन्तो ऽजातिमनुत्पत्तिमर्थात्ख्यापयन्ति प्रकाशयन्ति ते
SK
START Mअन्द्Uप्K ४.५
SK
ख्याप्यमानाम् अजातिं तैर् अनुमोदामहे वयम् / विवदामो न तैः सार्धम् अविवादं निबोधत // Mअन्द्Uप्K_४.५ //
SK
Mअन्द्Uप्KC_४.५ तैरेवं ख्याप्यमानामजातिमेवमस्त्वित्यनुमोदामहे केवलं न तैः सार्धं विवदामः पक्षप्रतिपक्षग्रहणेन; यथा ते ऽन्योन्यमित्यभिप्रायः / अतस्तमविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिर्निबोधत हे शिष्याः
SK
START Mअन्द्Uप्K ४.६
SK
अजातस्यैव धर्मस्य जातिम् इच्छन्ति वादिनः / अजातो ह्य् अमृतो धर्मो मर्त्यतां कथम् एष्यति // Mअन्द्Uप्K_४.६ //
SK
Mअन्द्Uप्KC_४.६ सदसद्वादिनः सर्वे ऽपीति पुरस्तात्कृतभाष्यश्लोकः
SK
START Mअन्द्Uप्K ४.७-८
SK
न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा / प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति // Mअन्द्Uप्K_४.७ //
SK
स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् / कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः // Mअन्द्Uप्K_४.८ //
SK
Mअन्द्Uप्KC_४.७-८ उक्तार्थानां श्लोकानामिहोपन्यासः परवादिपक्षाणामन्योन्यविरोधख्यापितानुत्पत्यनुमोदनप्रदर्शनार्थः //७-८//
SK
START Mअन्द्Uप्K ४.९
SK
यस्माल्लौकिक्यपि प्रकृतिर्न विपर्येति, कासावित्याह-
SK
सांसिद्धिकी स्वाभाविकी सहजा अकृता च या / प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या // Mअन्द्Uप्K_४.९ //
SK
Mअन्द्Uप्KC_४.९ सम्यक्सिद्धिः संसिद्धिस्तत्र भवा सांसिद्धिकी यथा योगिनां सिद्धानाम् अणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः / सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति तथैव सा / तथा स्वाभाविकी द्रव्यस्वभावत एव यथाग्न्यादीनाम् उष्णप्रकाशादिलक्षणा, सापि न कालान्तरे व्यभिचरति देशान्तरे च / तथा सहजा आत्मना सहैव जाता यथा पक्ष्यादीनामाकाशगमनादिलक्षणा /
SK
अन्यापि या काचिदकृता केनचिन्न कृता यतापां निम्नदेशगमनादिलक्षणा / अन्यापि या काजित्स्वभावं न जहाति सा सर्वा प्रकृतिरिति विज्ञेया लोके / मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति किमुताजस्वभावेषु परमार्थवस्तुष्वमृतत्वलक्षणा प्रकृतिर्नान्यथा भवतीत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.१० किंविषया पुनः सा प्रकृतिर्यस्या अन्यथाभावो वादिभिः कल्प्यते कल्पनायां वा को दोष इत्याह-
SK
जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः / जरामरणम् इच्छन्तश् च्यवन्ते तन्मनीषया // Mअन्द्Uप्K_४.१० //
SK
Mअन्द्Uप्KC_४.१० जरामरणनिर्मुक्ताः- जरामरणादिसर्वविक्रियावर्जिता इत्यर्थः / के ? सर्वे धर्माः सर्व आत्मान इत्येतत्स्वभावतः प्रकृतितः / एवंस्वभावाः सन्तो धर्माजरामरणमिच्छन्त इच्छन्त इवेच्छन्तोरज्ज्वामिव सर्पमात्मनि कल्पयन्तश्च्यवन्ते स्वभावतश्चलन्तीत्यर्थः, तन्मनीषया जन्ममरणचिन्तया तद्भावभावितत्वादोषेणेत्यर्थः
SK
START Mअन्द्Uप्K ४.११
SK
कथं सज्जातिवादिभिः सांख्यैरनुपपन्नमुच्यत इत्याह वैशेषिकः-
SK
कारणं यस्य वै कार्यं कारणं तस्य जायते / जायमानं कथम् अजं भिन्नं नित्यं कथं च तत् // Mअन्द्Uप्K_४.११ //
SK
Mअन्द्Uप्KC_४.११ कारणं मृद्वदुपादानलक्षणं यस्य वादिनो वै कार्यं कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्यर्थः, तस्याजमेव सत्प्राधानादि कारणं महदादिकार्यरूपेण जायत इत्यर्थः / महदाद्याकारेण चेज्जायमानं प्रधानं कथमजमुच्यते तैर्विप्रतिषिद्धं चेदं जायते ऽजं चेति /
SK
नित्यं च तैरुच्यते प्रधानं भिन्नं विदीर्णं स्फुटितमेकदेशेन सत्कथं नित्यं भवेदित्यर्थः / न हि सावयवं घटाद्य् एकदेशस्फुटनधर्मि नित्यं दृष्टं लोक इत्यर्थः / विदीर्णं च स्यादेकदेशेनाजं नित्यं चेत्य् एतद्विप्रतिषिद्धं तैरभिधीयत इत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.१२
SK
उक्तस्यैवार्थस्य स्पष्टीकरणार्थमाह-
SK
कारणाद् यद्य् अनन्यत्वम् अतः कार्यम् अजं यदि / जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम् // Mअन्द्Uप्K_४.१२ //
SK
Mअन्द्Uप्KC_४.१२ कारणादजात्कार्यस्य यद्यनन्यत्वमिष्टं त्वया ततः कार्यमजमिति प्राप्तम् / इदं चान्यद्विप्रतिषिद्धं कार्यमजं चेति तव / किं चान्यत्कार्यकारणयोनन्यत्वे जायमानाद्धि वै कार्यकारणमनन्यन्नित्यं ध्रुवं च ते कथं भवेत् / न हि कुक्कुट्या एकदेशः पच्यत एकदेशः प्रसवाय कल्प्यते
SK
START Mअन्द्Uप्K ४.१३
SK
किं चान्यम्-
SK
अजाद् वै जायते यस्य दृष्टान्तस् तस्य नास्ति वै / जाताच् च जायामानस्य न व्यवस्था प्रसज्यते // Mअन्द्Uप्K_४.१३ //
SK
Mअन्द्Uप्KC_४.१३ अजादनुत्पन्नाद्वस्तुनो जायते यस्य वादिनः कार्यं दृष्टान्त्तस्तस्य नास्ति वै, दृष्टान्ताभावेर्ऽथादजान्न किञ्चिज्जायत इति सिद्धं भवतीत्यर्थः / यदा पुनर्जाताज्जायमानस्य वस्तुनो ऽभ्युपगमस् तदप्यन्यस्माज् जातात्तदप्यन्यस्मादिति न व्यावस्था प्रसज्यते / अनवस्थानं स्यादित्यर्थः
SK
START Mअन्द्Uप्K ४.१४
SK
᳚यत्र त्वस्य सर्वमात्मैवाभूत्᳚(बृ.उ.२ / ४ / १८) इति परमार्थतो द्वैताभावः श्रुत्योक्तस्तमाश्रित्याह-
SK
हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च / हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते // Mअन्द्Uप्K_४.१४ //
SK
Mअन्द्Uप्KC_४.१४ हेतोर्धर्मादेरादिः कारणं देहादिसंघातः फलं येषां वादिनाम् / तथादिः कारणं हेतुर्धर्माधर्मादिः फलस्य च देहादिसंघातस्य / एवं हेतुफलयोरितरेतरकार्यकारणत्वेनादिमत्त्वं ब्रुवद्भिरेवं हेतोः फलस्य चानादित्वं कथं तैरुपवर्ण्यते? विप्रतिषिद्धमित्यर्थः / न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मता सम्भवति
SK
START Mअन्द्Uप्K ४.१५
SK
कथं तैर्विरुद्धमभ्युपगम्यत इत्युच्यते-
SK
हेतोर् आदिः फलं येषाम् आदिर् हेतुः कलस्य च / तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा // Mअन्द्Uप्K_४.१५ //
SK
Mअन्द्Uप्KC_४.१५ हेतुजन्यादेव फलाद्धेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति यथा पुत्राज्जन्म पितुः
SK
START Mअन्द्Uप्K ४.१६
SK
यथोक्तो विरोधो न युक्तो ऽभ्युपगन्तुमिति चेन्मन्यसे-
SK
संभवे हेतुफलयोर् एषितव्यः क्रमस् त्वया / युगपत्संभवे यस्माद् असंबन्धो विषाणवत् // Mअन्द्Uप्K_४.१६ //
SK
Mअन्द्Uप्KC_४.१६ संभवे हेतुफलयोरुत्पत्तौ क्रम एषितव्यस्त्वयान्येष्टव्यो हेतु ; पूर्वं पश्चात्फलं चेति / इतश्च युगपत्संभवे यस्माद्धेतुफलयोः कार्यकारणत्वेनासंबन्धः, यथा युगपत्संभवतोः सव्येतरगोविषाणयोः
SK
START Mअन्द्Uप्K ४.१७
SK
कथमसंबन्धः? इत्याह-
SK
फलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति / अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति // Mअन्द्Uप्K_४.१७ //
SK
Mअन्द्Uप्KC_४.१७ जन्यात्स्वतो ऽलब्धात्मकात् फलादुत्पद्यमानः सञ्शशविषाणादेरिवासतो न हेतुः प्रसिध्यति जन्म न लभते / अलब्धात्मको ऽप्रसिद्धः सञ्शशविषाणादिकल्पस्तव कथं फलमुत्पादयिष्यति? न हीतरेतरापेक्षसिद्ध्योः शशविषाणकल्पयोः कार्यकारणभावेन संबन्धः क्वचिद् दृष्टः, अन्यथा वेत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.१८
SK
यदि हेतोः फलात् सिद्धिः फलसिद्धिश् च हेतुतः / कतरत् पूर्वनिष्पन्नं यस्य सिद्धिर् अपेक्षया // Mअन्द्Uप्K_४.१८ //
SK
Mअन्द्Uप्KC_४.१८ असंबन्धतादोषेणापोदिते ऽपि हेतुफलयोः कार्यकारणभावे यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया कतरत्पूर्वनिष्पन्नं हेतुफलयोर्यस्य पश्चाद्भाविनः सिद्धिः स्यात्पूर्वसिद्ध्यपेक्षया तद् ब्रूहीत्यर्थः
SK
START Mअन्द्Uप्K ४.१९
SK
अथैतन्न शक्यते वक्तुमिति मन्यसे-
SK
अशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः / एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता // Mअन्द्Uप्K_४.१९ //
SK
Mअन्द्Uप्KC_४.१९ सेयमशक्तिरपरिज्ञानं तत्त्वाविवेको मूढतेत्यर्थः / अथ वा यो ऽयं त्वयोक्तः क्रमो हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरितीतरेतरानन्तर्यलक्षणस्तस्य कोपो विपर्यासो ऽन्यथाभावः स्यादित्यभिप्रायः / एवं हेतुफलयोः कार्यकारणभावानुपपत्तेरजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशितान्योन्यपक्षदोषं ब्रुवद्भिर्वादिभिर्बुद्धैः पण्डितैरित्यर्थः
SK
START Mअन्द्Uप्K ४.२०
SK
ननु हेतुलयोः कार्यकारणभाव इत्यस्माभिरुक्तं शब्दमात्रमाश्रित्य च्छलमिदं त्वयोक्तं पुत्राज्जन्म पितुर्यथा, विषाणवच्चासंबन्ध इत्यादि / न ह्यस्माभिरसिद्धाद्धेतोः फलसिद्धिरसिद्धाद्वा फलाद्धेतुसिद्धरभ्युपगता / किं तर्हि? बीजाङ्कुरवत्कार्यकारणभावो ऽभ्युपगम्यत इति /
SK
अत्रोच्यते-
SK
बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स / न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते // Mअन्द्Uप्K_४.२० //
SK
Mअन्द्Uप्KC_४.२० बीजाङ्कुराख्या दृष्टान्तो यः स साध्येन तुल्यो ममेत्यभिप्रायः / ननु प्रत्यक्षः कार्यकारणभावो बीजाङ्कुरयोरनादिः? न, पूर्वस्य पूर्वस्यापरवदादिमत्त्वाभ्युपगमात् / यथेदानीमुत्पन्नो ऽपरो ऽङ्कुरो बीजादादिमान्बीजं चापरमन्यस्मादङ्कुरादिति क्रमेणोत्यन्नत्वादादिमत् / एवं पूर्वः पूर्वो ऽङ्कुरो बीजं च पूर्वं पूर्वमादिमदेविति प्रत्येकं सर्वस्य बीजाङ्कुरजातस्यादिमत्त्वात्कस्यचिदप्यनादित्वानुपपत्ति / एवं हेतुफलानाम् /
SK
अथ बीजाङ्कुरसन्ततेरनादिमत्त्वमिति चेत्? न, एकत्वानुपपत्तेः / न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुरसन्ततिर्नामैकाभ्युपगम्यते हेतुफलसन्ततिर्वा तदनादित्ववादिभिस् तस्मात्सूक्तं हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यत इति / तथा चान्यदप्यनुपपत्तेर्नच्छलमित्यभिप्रायः / न च लोके साध्यसमो हेतुः साध्यसिद्धौ सिद्धिनिमित्तं प्रयुज्यते प्रमाणकुशलैरित्यर्थः / हेतुरिति दृष्टान्तो ऽत्राभिप्रेतः, गमकत्वात् / प्रकृतो हि दृष्टान्तो न हेतुरिति
SK
START Mअन्द्Uप्K ४.२१ कथं बुद्धैरजातिः परिदीपितेत्याह-
SK
पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् / जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते // Mअन्द्Uप्K_४.२१ //
SK
Mअन्द्Uप्KC_४.२१ यदेतद्धेतुफलयोः पूर्वापरापरिज्ञानं तच्चैतदजातेः परिदीपकमवबोधकमित्यर्थः / जायमानो हि चेद्धर्मो गृह्यते, कथं तस्मात्पूर्वं कारणं न गृह्यते / अवश्यं जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम् / जन्यजनकयोः संबन्धस्यानपेतत्वात् / तस्मादजातिपरिदीपकं तदित्यर्थः
SK
START Mअन्द्Uप्K ४.२२
SK
इतश्च न जायते किञ्चित्, यज्जायमानं वस्तु-
SK
स्वतो वा परतो वापि न किञ्चिद् वस्तु जायते / सद् असत् सदसद् वापि न किञ्चिद् वस्तु जायते // Mअन्द्Uप्K_४.२२ //
SK
Mअन्द्Uप्KC_४.२२ स्वतः परत उभयतो वा सदसत्सदसद्वा न जायते न तस्य केनचिदपि प्रकारेण जन्म संभवति / न तावत्स्वयमेवापरिनिष्पन्नात्स्वतः स्वरूपात्स्वयमेव जायते यथा घटस्तस्मादेव घटात् / नापि परतो ऽन्यस्मादन्यो यथा घटात्पटः पटात्पटान्तरम् / तथा नोभयतः, विरोधात्; यथा घटपटाभ्यां घटः पटो वा न जायते /
SK
ननु मृदो घटो जायते पितुश्च पुत्रः / सत्यम्, अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम् / तावेव शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते किं सत्यमेव तावुत मृषेति / यावता परीक्ष्यमाणे शब्दप्रत्यविषयं वस्तु घटपुत्रादिलक्षणं शब्दमात्रमेव तत् / ᳚वाचारम्भणम्᳚(छा.उ.६ / १ / ४) इति श्रुतेः /
SK
सच्चेन्न जायते सत्त्वान्मृत्पित्रादिवद् / यद्यसत्तथापि न जायते ऽसत्त्वादेव शशविषाणादिवत् / अथ सदसत्तथापि न जायते विरुद्धस्यैकस्यासंभवात् / अतो न किञ्चद्वस्तु जायत इति सिद्धम् /
SK
येषां पुनर्जनिरेव जायत इति क्रियाकारकफलैकत्वम् अभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते दूरत एव न्यायापेताः / इदमित्थमित्यवधारणक्षणान्तरानवस्थानादननुभूतस्य स्मृत्यनुपपत्तेश्च
SK
START Mअन्द्Uप्K ४.२३
SK
किं च हेतुफलयोरनादित्वमभ्युपगच्छता त्वया बलाद्धेतुफलयोरजन्मैवाभ्युपगतं स्यात् / तत्कथम्?
SK
हेतुर् न जायते ऽनादेः फलं चापि स्वभावतः / आदिर् न विद्यते यस्य तस्य ह्य् आदिर् न विद्यते // Mअन्द्Uप्K_४.२३ //
SK
Mअन्द्Uप्KC_४.२३ अनादेरादिरहितात्फलाद्धेतुर्न जायते / न ह्यनुत्पन्नादनादेः फलाद्धेतोर्जन्मेष्यते त्वया / फलं चादिरहितादनादेर्हेतोरजात्स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगम्यते /
SK
तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफलयोरजन्मावाभ्युपगम्यते / यस्मादादिः कारणं न विद्यते यस्य लोके तस्य ह्यादिः पूर्वोक्ता जातिर्न विद्यते / कारणवत एव ह्यादिरभ्युपगम्यते नाकारणवतः
SK
START Mअन्द्Uप्K ४.२४
SK
उक्तस्यैवार्थस्य दृढीकरणचिकीर्षया पुनराक्षिपति-
SK
प्रज्ञप्तेः सनिमित्तत्वम् अन्यथा द्वयनाशतः / संक्लेशस्योपलब्धेश् च परतन्त्रास्तिता मता // Mअन्द्Uप्K_४.२४ //
SK
Mअन्द्Uप्KC_४.२४ प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिस्तस्याः सनिमित्तत्वम्; निमित्तं कारणं विषय इत्येतत्सन्निमित्तत्वं सविषत्वं स्वात्मव्यतिरिक्तविषयतेत्येतत् प्रतिजानीमहे / न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिः स्यात्, तस्याः सनिमित्तत्वात् / अन्यथा निर्विषयत्वे शब्दस्पर्शनीलपीतलोहितादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतो नाशो ऽभावः प्रसज्येतेत्यर्थः / न च प्रत्ययवैचित्र्यस्य द्वयस्याभावो ऽस्ति प्रत्यक्षत्वात् / अतः प्रत्यवैचित्र्यस्य द्वयस्य दर्शानात्, परेषां तन्त्रं परतन्त्रमित्यन्यशास्त्रम्, तस्य परतन्त्रस्य परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्थिता मताभिप्रेता /
SK
न हि प्रज्ञप्तेः प्रकाशमात्रस्वरूपाया नीलपीतादिबाह्यालम्बनवैचित्र्यमन्तरेण स्वभावभेदेनैव वैचित्र्यं संभवति / स्फटिकस्येव नीलाद्युपाध्याश्रयैर्विना वैचित्र्यं न घटत इत्यभिप्रायः /
SK
इतश्च परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तिता / संक्लेशनं संक्लेशो दुःखमित्यर्थः / उपलभ्यते ह्यग्निदाहादिनिमित्तं दुःखम् / यद्यग्न्यादिबाह्यं दाहादिनिमित्तं विज्ञानव्यतिरिक्तं न स्यात्ततो दाहादिदुःखं नोपलभ्यते / उपलभ्यते तु / अतस्तेन मन्यमहे ऽस्ति बाह्योर्ऽथ इति / न हि विज्ञानमात्रे संक्लोशो युक्तः, अन्यत्रादर्शनादित्यभिप्रायः
SK
START Mअन्द्Uप्K ४.२५
SK
अत्रोच्यते-
SK
प्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात् / निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात् // Mअन्द्Uप्K_४.२५ //
SK
Mअन्द्Uप्KC_४.२५ बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसंक्लेशोपलब्धियुक्तिदर्शनादिष्यते त्वया / स्थिरीभव तावत्त्वं युक्तिदर्शनं वस्तुनस्तथात्वाभ्युपगमे कारणमित्यत्र /
SK
ब्रूहि किं तत इति /
SK
उच्यते / निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य घटादेरनिमित्तत्वमनालम्बनत्वं वैचित्र्याहेतुत्वमिष्यते ऽस्माभिः / कथम्? भूतदर्शनात्परमार्थदर्शनादित्येतत् / न हि घटो यथाभूतमृद्रूपदर्शने सति तद्व्यतिरेकेणास्ति, यथाश्वान्महिषः पटो वा तन्तुव्यतिरेकेण, तन्तवश्चांशुव्यतिरेकेणेत्येवमुत्तरोत्तर भूतदर्शन आशब्दप्रत्ययनिरोधान्नैव निमित्तमुपलभामह इत्यर्थः /
SK
अथवा भूतदर्शनाद्बाह्यार्थस्यानिमित्तत्वमिष्यते, रज्ज्वादाविव सर्पादेरित्यर्थः / भ्रान्तिदर्शनविषयत्वाच्च निमित्तस्यानिमित्तत्वं भवेत् / तदभावे ऽभावान् न हि सुषुप्तसमाहितमुक्तानां भ्रान्तिदर्शनाभाव आत्मव्यतिरिक्तो बाह्योर्ऽथ उपलभ्यते / न ह्युन्मत्तावगतं वस्त्वनुन्मत्तैरपि तथाभूतं गम्यते / एतेन द्वयदर्शनं संक्लेशोपलब्धिश्च प्रत्युक्ता
SK
START Mअन्द्Uप्K ४.२६
SK
यस्मान्नास्ति बाह्यं निमित्तमतः-
SK
चित्तं न संस्पृशत्य् अर्थं नार्थाभासं तथैव च / अभूतो हि यतश् चार्थो नार्थाभासस् ततः पृथक् // Mअन्द्Uप्K_४.२६ //
SK
Mअन्द्Uप्KC_४.२६ चित्तं न स्पृशत्यर्थं बाह्यालम्बनविषयम्, नाप्यर्थाभासं चित्तत्वात्स्वप्नचित्तवत् / अभूतो हि जागरिते ऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यत उक्तहेतुत्वाच्च / नाप्यर्थाभासश्चित्तात्पृथक्चित्तमेव हि घटाद्यर्थवदवभासते यथा स्वप्ने
SK
START Mअन्द्Uप्K ४.२७
SK
ननु विपर्यासस्तर्ह्यसति घटादौ घटाद्याभासता चित्तस्य / तथा च सत्यविपर्यासः क्वचिद्वक्तव्य इति / अत्रोच्यते-
SK
निमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु / अनिमित्तो विपर्यासः कथं तस्य भविष्यति // Mअन्द्Uप्K_४.२७ //
SK
Mअन्द्Uप्KC_४.२७ निमित्तं विषयमतीतानागतवर्तमानाध्वसु त्रिष्वपि सदा चित्तं न स्पृशेदेव हि / यदि हि क्वचित् संस्पृशेत् स अविपर्यासः परमार्थ इति / अतस्तदपेक्षयासति घटे घटाद्याभासता विपर्यासः स्यान्न तु तदस्ति कदाचिदपि चित्तस्यार्थसंस्पर्शनम् / तस्मादनिमित्तो विपर्यासः कथं तस्य चित्तस्य भविष्यति; न कथञ्चिद्विपर्यासो ऽस्तीत्यभिप्रायः /
SK
अयमेव हि स्वभावश्चित्तस्य यदुतासति निमित्ते घटादौ तद्वदवभासनम्
SK
START Mअन्द्Uप्K ४.२८
SK
प्रज्ञप्तेः सनिमित्तत्वमित्याद्येतदन्तं विज्ञानवादिनो बौद्धस्थ वचनं बाह्यार्थवादिपक्षप्रतिषेधपरमाचार्येणानुमोदितम् / तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदमुच्यते-
SK
तस्मान् न जायते चित्तं चित्तदृश्यं न जायते / तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् // Mअन्द्Uप्K_४.२८ //
SK
Mअन्द्Uप्KC_४.२८ यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिनाभ्युपगता तदनुमोदितम् अस्माभिरपि भूतदर्शनात्, तस्मात्तस्यापि चित्तस्य जायमानावभासतासत्येव जन्मनि युक्ता भवितुमित्यतो न जायते चित्तम्, यथा चित्तदृश्यं न जायते /
SK
अतस्तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः क्षणिकत्वदुःखित्वशून्यत्वानात्मत्वादि च, तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् / अत इतरेभ्यो ऽपि द्वैतिभ्यो ऽत्यन्तसाहसिका इत्यर्थो ये ऽपि शून्यवादिनः पश्यन्त एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते ते ततो ऽपि साहसिकतराः खं मुष्टिनापि जिघृक्षन्ति
SK
START Mअन्द्Uप्K ४.२९
SK
उक्तैर्हेतुभिरजमेकं ब्रह्मेति सिद्धं यत्पुनरादौ प्रतिज्ञातं तत्फलोपसंहारार्थोयं श्लोकः-
SK
अजातं जायते यस्माद् अजातिः प्रकृतिस् ततः / प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति // Mअन्द्Uप्K_४.२९ //
SK
Mअन्द्Uप्KC_४.२९ अजातं यच्चित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्यते तदजातं जायते यस्मादजातिः प्रकृतिस्तस्य / ततस्तस्मादजातरूपायाः प्रकृतेरन्यथाभावो जन्म न कथञ्चिद्भविष्यति
SK
START Mअन्द्Uप्K ४.३०
SK
अयं चापर आत्मनः संसारमोक्षयोः परमार्थसद्भाववादिनां दोष उच्यते-
SK
अनादेर् अन्तवत्त्वं च संसारस्य न सेत्स्यति / अनन्तता चादिमतो मोक्षस्य न भविष्यति // Mअन्द्Uप्K_४.३० //
SK
Mअन्द्Uप्KC_४.३० अनादेरतीतकोटिरहितस्य संसारस्यान्तवत्त्वं समाप्तिर्न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति / न ह्यनादिः सन्नन्तवान्कश्चित्पदार्थो दृष्टो लोके / बीजाङ्कुरसंबन्धनैरन्तर्यविच्छेदो इष्ट इति चेत्, नै७कवस्त्वभावेनापोदित्वात् /
SK
तथानन्ततापि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्यादिमतो न भविष्यति, घटादिष्वदर्शनात् / घचादिविनाशवदवस्तुत्वाददोष इति चेत्, तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः / असत्त्वादेव शशविषाणस्येवादिमत्त्वाभावश्च
SK
START Mअन्द्Uप्K ४.३१-३२
SK
आदावन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा / वितथैः सदृशाः सन्तो ऽवितथा इव लक्षिताः // Mअन्द्Uप्K_४.३१ //
SK
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते / तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः // Mअन्द्Uप्K_४.३२ //
SK
Mअन्द्Uप्KC_४.३१-३२ वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितौ //३१-३२ //
SK
START Mअन्द्Uप्K ४.३३
SK
सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् / संवृत्ते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः // Mअन्द्Uप्K_४.३३ //
SK
निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनादित्ययमर्थः प्रपञ्च्यत एतैः श्लोकैः
SK
START Mअन्द्Uप्K ४.३४
SK
न युक्तं दर्शनं गत्वा कालस्यानियमाद् गतौ / प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते // Mअन्द्Uप्K_४.३४ //
SK
Mअन्द्Uप्KC_४.३४ जागरिते गत्यागमनकालो नियतो देशः प्रमाणतो यस्तस्या नियमान्नियमस्याभावात्स्वप्ने न देशान्तरागमनमित्यर्थः
SK
START Mअन्द्Uप्K ४.३५
SK
मित्राद्यैः सह संमन्त्र्य संबुद्धौ न प्रपद्यते / गृहीतं चापि यत् किञ्चित् प्रतिबुद्धो न पश्यति // Mअन्द्Uप्K_४.३५ //
SK
Mअन्द्Uप्KC_४.३५ मित्राद्यैः सह संमन्त्र्य तदेव मन्त्रणं प्रतिबुद्धौ न प्रपद्यते / गृहीतं च यत्किञ्चिद्धिरण्यादि न प्राप्नोति / अतश्च न देशान्तरं गच्छन्ति स्वप्ने
SK
START Mअन्द्Uप्K ४.३६
SK
स्वप्ने चावस्तुकः कायः पृथग् अन्यस्य दर्शनात् / यथा कायस् तथा सर्वं चित्तदृश्यम् अवस्तुकम् // Mअन्द्Uप्K_४.३६ //
SK
Mअन्द्Uप्KC_४.३६ स्वप्ने चाटन्दृश्यते यः कायः स अवस्तुकस्ततो ऽन्यस्य स्वापदेशस्तस्य पृथक्कायान्तरस्य दर्शनात् / यथा स्वप्नदृश्यः कायो ऽसंस्तथा सर्वं चित्तदृश्यमवस्तुकं जागरिते ऽपि चित्तदृश्यत्वादित्यर्थः / स्वप्नसमत्वादसज्जागरितमपीति प्रकरणार्थः
SK
START Mअन्द्Uप्K ४.३७
SK
इतश्चासत्वं जाग्रद्वस्तुनः-
SK
ग्रहणाज् जागरितवत् तद्धेतुः स्वप्न इष्यते / तद् धेतुत्वात् तु तस्यैव सज्जागरितम् इष्यते // Mअन्द्Uप्K_४.३७ //
SK
Mअन्द्Uप्KC_४.३७ जागरितवज्जागरितस्ये७व ग्रहणाद्ग्राह्यग्राहकरूपेणास्वप्नस्य तज्जागरितं हेतुरस्य स्वप्नस्य स स्वप्नस्तद्धेतुजागरितकार्यमिष्यते / तद्धेतुत्वाज्जागरितकार्यत्वात्तस्यैव स्वप्नदृश्य एव सज्जागरितं न त्वन्येषाम् / यथा स्वप्न इत्यभिप्रायः /
SK
यथा स्वप्नः स्वप्नदृश्य एव सन्साधारणविद्यमानवस्तुवदवभासते तथा तत्कारणत्वात्साधारणविद्यमानवस्तुवदवभासमानं न तु साधारणं विद्यमानवस्तु स्वप्नवदेवेत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.३८
SK
ननु स्वप्नकारणत्वे ऽपि जागरितवस्तुनो न स्वप्नवदवस्तुत्वम् / अत्यन्तचलो हि स्वप्नो जागरितं तु स्थिरं लक्ष्यते /
SK
सत्यमेवमविवेकिनां स्यात् / विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धे ऽतः-
SK
उत्पादस्याप्रसिद्धत्वाद् अजं सर्वम् उदाहृतम् / न च भूताद् अभूतस्य संभवो ऽस्ति कथञ्चन // Mअन्द्Uप्K_४.३८ //
SK
Mअन्द्Uप्KC_४.३८ अप्रसिद्धत्वादुत्पादस्यात्मैव सर्वमित्यजं सर्वमुदाहृतं वेदान्तेषु᳚सबाह्याभ्यन्तरो ह्यजः᳚(मु.उ.२ / १ / २) इति / यद्यपि मन्यसे जागरितास्ततो ऽसत्स्वप्नो जायत इति तदसत् / न भूताद्विद्यमानाद भूतस्यासतः सम्भवो ऽस्ति लोके / न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपि
SK
START Mअन्द्Uप्K ४.३९
SK
ननूक्तं त्वयैव स्वप्नो जागरितकार्यमिति तत्कथमुत्पादो ऽप्रसिद्ध इत्युच्यते?
SK
शृणु तत्र यथा कार्यकारणभावो ऽस्माभिरभिप्रेत इति-
SK
असज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः / असत्स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यति // Mअन्द्Uप्K_४.३९ //
SK
Mअन्द्Uप्KC_४.३९ असदविद्यमानं रज्जुसर्पद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मयः स्वप्ने ऽपि जागरितवद्ग्राह्यग्राहकरूपेण विकल्पयन्पश्यति / तथासत्स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यत्यविकल्पयन् / च शब्दात्तथा जागरिते ऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचिदित्यर्थः / तस्माज्जागरितं स्वप्नहेतुरुच्यते न तु परमार्थसदिति कृत्वा
SK
START Mअन्द्Uप्K ४.४०
SK
परमार्थतस्तु न कस्यचित्केनचिदपि प्रकारेण कार्यकारणभाव उपपद्यते कथम्?-
SK
नास्त्य् असद्धेतुकम् असत् सदसद्धेतुकं तथा / सच् च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः // Mअन्द्Uप्K_४.४० //
SK
Mअन्द्Uप्KC_४.४० नास्त्यसद्धेतुकमसच्छशविषाणादि हेतुः कारणं यस्यासत एव स्वकुसुमादेस्तदसद्धतुकमसन्न विद्यते / तथा सदपि घटादिवस्त्व् असद्धेतुकं शशविषाणादिकार्यं नास्ति / तथा सच्च विद्यमानं घटादि विद्यमानघटादिवस्त्वन्तरकार्यं नास्ति / सत्कार्यमसत्कुत एव सम्भवति? न चान्यः कार्यकारणभावः सम्भवति शक्यो वा कल्पयितुम्? अतो विवेकिनामसिद्ध एव कार्यकारणभावः कस्य चिदित्यभिप्रायः
SK
START Mअन्द्Uप्K ४.४१
SK
पुनरपि जाग्रत्स्वप्नयोरसतोरपि कार्यकारणभावाशङ्कामपनयन्न् आह-
SK
विपर्यासाद् यथा जाग्रद् अचिन्त्यान् भूतवत् स्पृशेत् / तथा स्वप्ने विपर्यासाद् धर्मांस् तत्रैव पश्यति // Mअन्द्Uप्K_४.४१ //
SK
Mअन्द्Uप्KC_४.४१ विपर्यासादविवेकतो यथा जाग्रज्जागरिते ऽचिन्त्यान्भावानशक्यचिन्तनीयान् रज्जुसर्पादीन् भूतवत्परमार्थवत्स्पृशन्निव विकल्पयेदित्यर्थः कश्चिद्यथा, तथा स्वप्ने विपर्यासाद्धस्त्यादीन्धर्मान् पश्यन्निव विकल्पयति; तत्रैव पश्यति न तु जागरितादुत्पद्यमानानित्यर्थः
SK
START Mअन्द्Uप्K ४.४२
SK
उपलम्भात् समाचाराद् अस्ति वस्तुत्ववादिनाम् / जातिस् तु देशिता बुद्धैर् अजातेस् त्रसतां सदा // Mअन्द्Uप्K_४.४२ //
SK
Mअन्द्Uप्KC_४.४२ यापि बुद्धैरद्वैतवादिभिर्जातिर्देशितोपदिष्टा, उपलम्भनम् उपलम्भस्तस्मादुपलब्धेरित्यर्थः, समाचाराद्वर्णाश्रमादिधर्मसमाचरणात्, ताभ्यां हेतुभ्यामस्तिवस्तुत्ववादिनाम् अस्ति वस्तुभूव इत्येवं वदनशीलानां दृढाग्रहवतां श्रद्दधानानां मन्दविवेकिनामनर्थेपायत्वेन सा देशिता जातिः / तां गृह्णन्तु तावत् / वेदान्ताभ्यासिनां तु स्वयमेवाजाद्वयात्मविषयो विवेको भविष्यतीति न तु परमार्थबुद्ध्या / ते हि श्रोत्रियाः स्थूलबुद्धित्वादजातेर् अजातिवस्तुनः सदा त्रस्यन्त्यात्मनाशं मन्यमाना अविवेकिन इत्यर्थः / उपायः स अवतारायेत्युक्तम्
SK
START Mअन्द्Uप्K ४.४३
SK
अजातेस् त्रसतां तेषाम् उपलम्भाद् वियन्ति ये / जातिदोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति // Mअन्द्Uप्K_४.४३ //
SK
Mअन्द्Uप्KC_४.४३ ये चैवमुपलम्भात्समाचराच्चाजातेरजातिवस्तुनस्त्रसन्तो ऽस्तिवस्त्वित्यद्वयादात्मनो वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः / तेषामजातेस्त्रसतां श्रद्धधानानां सन्मार्गावलम्बिनां जातिदोषा जात्युपलम्भकृता दोषा न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवेकमार्गप्रवृत्तत्वात् / यद्यपि कश्चिद्दोषः स्यात्सो ऽप्यल्प एव भविष्यति / सम्यग्दर्शनाप्रतिपत्तिहेतुक इत्यर्थः
SK
START Mअन्द्Uप्K ४.४४
SK
ननूपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति, न; उपलम्भसमाचारयोर्व्यभिचारात् / कथं व्यभिचार इत्युच्यते-
SK
उपलम्भात् समाचारान् मायाहस्ती यथोच्यते / उपलम्भात् समाचाराद् अस्ति वस्तु तथोच्यते // Mअन्द्Uप्K_४.४४ //
SK
Mअन्द्Uप्KC_४.४४ उपलभ्यते हि मायाहस्ती हस्तीव हस्तिनमिवात्र समाचरन्ति, बन्धनारोहणादिहास्तिसम्बन्धिभिर्धर्मैर्हस्तीति चोच्यते ऽसन्नपि यथा तथैवोपलम्भात्समाचाराद्द्वैतं भेदरूपमस्ति वस्त्वित्युच्यते / तस्मान्नोपलम्भसमाचारौ द्वैतवस्तुसद्भावे हेतु भवत इत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.४५
SK
किं पुनः परमार्थसद्वस्तु यदास्पदा जात्याह्यसद्बुद्धय इत्याह-
SK
जात्याभासं चलाभासं वस्त्वाभासं तथैव च / अजाचलम् अवस्तुत्वं विज्ञानं शान्तम् अद्वयम् // Mअन्द्Uप्K_४.४५ //
SK
Mअन्द्Uप्KC_४.४५ अजाति सज्जातिवदवभासत इति जात्याभासम् / तद्यथा देवदत्तो जायत इति / चलाभासं चलमिवाभासत इति / यथा स एव देवदत्तो गच्छतीति / वस्त्वाभासं वस्तु द्रव्यं धर्मि तद्वदवभासत इति वस्त्वाभासम् / यथा स एव देवदत्तो गौरो दीर्घ इति जायते देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते / परमार्थतस्त्वजमचलमवस्तुत्वमद्रव्यं च किं तदेवंप्रकारम्? विज्ञानं विज्ञप्तिः / जात्यादिरहितत्वाच्छान्तम् / अत एवाद्वयं च तदित्तर्थः
SK
START Mअन्द्Uप्K ४.४६
SK
एवं न जायते चित्तम् एवं धर्मा अजाः स्मृताः / एवम् एव विजानन्तो न पतन्ति विपर्यये // Mअन्द्Uप्K_४.४६ //
SK
Mअन्द्Uप्KC_४.४६ एवं यथोक्तेभ्यो हेतुभ्यो न जायते चित्तमेवं धर्मा आत्मनो ऽजाः स्मृता ब्रह्मविद्भिः / धर्मा इति बहुवचनं देहभेदानुविधायित्वादद्वयस्यैवोपचारतः /
SK
एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्मतत्त्वं विजानन्तस्त्यक्तबाह्यैषणाः पुनर्नपतन्त्यविद्याध्वान्तसागरे विपर्यये / ᳚तत्र को मोहः कः शोक एकत्वमनुपश्यतः᳚ (ई.उ.७) इत्यादि मन्त्रवर्णात्
SK
START Mअन्द्Uप्K ४.४७
SK
यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाह-
SK
ऋजुवक्रादिकाभासम् अलातस्पन्दितं यथा / ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा // Mअन्द्Uप्K_४.४७ //
SK
Mअन्द्Uप्KC_४.४७ यथा हि लोक ऋजुवक्रादिप्रकाराभासमलातस्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः / किं तद्विज्ञानस्पन्दितम् / स्पन्दितमिव स्पन्दितमविद्यया / न ह्यचस्य विज्ञानस्य स्पन्दनमस्ति / अजाचलमिति ह्युक्तम्
SK
START Mअन्द्Uप्K ४.४८
SK
अस्पन्दमानम् अलातम् अनाभासम् अजं यथा / अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा // Mअन्द्Uप्K_४.४८ //
SK
Mअन्द्Uप्KC_४.४८ अस्पन्दमानं स्पन्दनवर्जितं तदेवालातमृज्वाद्याकारेणाजायमानमनाभासमजं यथा; तथाविद्यया स्पन्दमानमविद्योपरमे ऽस्पन्दमानं जात्याद्याकारेणानाभासमजमचलं भविष्यितीत्यर्थः
SK
START Mअन्द्Uप्K ४.४९
SK
किं च-
SK
अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः / न ततो ऽन्यत्र निस्पन्दान् नालातं प्रविशन्ति ते // Mअन्द्Uप्K_४.४९ //
SK
Mअन्द्Uप्KC_४.४९ तस्मिन्नेवालाते स्पन्दमान ऋजुवक्राद्याभासा अलातादन्यतः कुतश्चिदागत्यालाते नैव भवन्ती७ति नान्यतोभुवः / न च तस्मान्निस्पन्दादलातादन्यत्र निर्गताः / न च निस्पन्दमलातमेव प्रविशन्ति ते
SK
START Mअन्द्Uप्K ४.५०
SK
किं च-
SK
न निर्गता अलातात् ते द्रव्यत्वाभावयोगतः / विज्ञाने ऽपि तथैव स्युर् आभासस्याविशेषतः // Mअन्द्Uप्K_४.५० //
SK
Mअन्द्Uप्KC_४.५० न निर्गता अलातात्त आभासा गृहादिवद्द्रव्यत्वाभावयोगतो द्रव्यस्यभावो द्रव्यत्वम्, तदभावो द्रव्यत्वाभावः, द्रव्यत्वाभावयोगतो द्रव्यत्वाभावयुक्तैर्वस्तुत्वाभावादित्यर्थः, वस्तुनो हि प्रवेशादि सम्भवति नावस्तुनः / विज्ञानो ऽपि जात्याद्याभासास्तथैव स्युराभासस्याविशेषतस्तुल्यत्वात्
SK
START Mअन्द्Uप्K ४.५१-५२
SK
कथं तुल्यत्वमित्याह-
SK
विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः / न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते // Mअन्द्Uप्K_४.५१ //
SK
न निर्गतास् ते विज्ञानाद् द्रव्यत्वाभावयोगतः / कार्यकारणताभावाद् यतो ऽचिन्त्याः सदैव ते // Mअन्द्Uप्K_४.५२ //
SK
Mअन्द्Uप्KC_४.५१-५२ अलातेन समानं सर्वं विज्ञानस्य / सदाचलत्वं तु विज्ञानस्य विशेषः / जात्याद्याभास विज्ञाने ऽचले किङ्कृता इत्याह / कार्यकारणताभावाज्जन्यजनकत्वानुपपत्तेरभावरूपत्वादचिन्त्यास्ते यतः सदैव /
SK
यथासत्स्वृज्वाद्याभासेष्व् ऋज्वादिबुद्धिर्दृष्टालातमात्रे तथास्त्वेव जात्यादिषु विज्ञानमात्रे जात्यादिबुद्धिर्मृषैवेति समुदायार्थः //५१-५२ //
SK
START Mअन्द्Uप्K ४.५३
SK
अजमेकमात्मतत्त्वमिति स्थितं तत्र यैरपि कार्यकारणभावः कल्प्यते तेषाम् /
SK
द्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य चैव हि / द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते // Mअन्द्Uप्K_४.५३ //
SK
Mअन्द्Uप्KC_४.५३ द्रव्यं द्रव्यस्यान्यस्यान्यद्धेतुः कारणं स्यान्न तु तस्यैव तत् / नाप्यद्रव्यं कस्यचित्कारणं स्वतन्त्रं दृष्टं लोके / न च द्रव्यत्वं धर्माणामात्मानामुपपद्यते ऽन्यत्वं वा कुतश्चिद्येनान्यस्य कारणत्वं कार्यत्वं वा प्रतिपद्यते / अतो ऽद्रव्यत्वादनन्यत्वाच्च न कस्यचित्कार्यं कारणं वात्मेत्यर्थः
SK
START Mअन्द्Uप्K ४.५४
SK
एवं न चित्तजा धर्माश् चित्तं वापि न धर्मजम् / एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः // Mअन्द्Uप्K_४.५४ //
SK
Mअन्द्Uप्KC_४.५४ एवं यथोक्तेभ्यो हेतुभ्य आत्मविज्ञानस्वरूपमेव चित्तमिति न चित्तजा बाह्यधर्मा नापि बाह्यधर्मजं चित्तम् / विज्ञानस्वरूपाभासमात्रत्वात्सर्वधर्माणाम् / एवं न हेतोः फलं जायते नापि फलाद्धेतुरिति हेतुफलयोरजातिं हेतुफलाजातिं प्रविशन्त्यध्यवस्यन्त्य् आत्मनि हेतुफलयोरभावमेव प्रतिपद्यन्ते ब्रह्मविद इत्यर्थः
SK
START Mअन्द्Uप्K ४.५५
SK
ये पुनर्हेतुफलयोरभिनिविष्टास्तेषां किं स्यादित्युच्यते- धर्माधर्माख्यस्य हेतोरहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे क्वचित्प्राणिनिकाये जातो भोक्ष्य इति-
SK
यावद् धेतुफलावेशस् तावद् धेतुफलोद्भवः / क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः // Mअन्द्Uप्K_४.५५ //
SK
Mअन्द्Uप्KC_४.५५ यावद्धेतुफलयोरावेशो हेतुफलाग्रह आत्न्यध्यारोपणं तच्चित्ततेत्यर्थः,तावद्धेतुफलयोरुद्भवो धर्माधर्मयोसत्त्फलस्य चानुच्छेदेन प्रवृत्तिरित्यर्थः / यदा पुनर्मन्त्रौषधिवीर्येणेव ग्रहावेशो यथोक्ताद्वैतदशनेनाविद्योद्भूतहेतुफलावेशो ऽपनीतो भवति तदा तस्मिन्क्षीणे नास्ति हेतुफलोद्भवः
SK
START Mअन्द्Uप्K ४.५६
SK
यदि हेतुफलोद्भवस्तदा को दोष इत्युच्यते-
SK
यावद् धेतुफलावेशः संसारस् तावदायतः / क्षीणे हेतुफलावेशे संसारं न प्रपद्यते // Mअन्द्Uप्K_४.५६ //
SK
Mअन्द्Uप्KC_४.५६ यावत्सम्यग्दर्शनेन हेतुफलावेशो न निवर्तते ऽक्षीणः संसारस्तावदायतो दीर्घो भवतीत्यर्थः / क्षीणे पुनर्हेतिफलावेशे संसारं न प्रपद्यते कारणाभावात्
SK
START Mअन्द्Uप्K ४.५७
SK
नन्वजादात्मनो ऽन्यन्नास्त्येव तत्कथं हेतुफलयोः संसारस्य चोत्पत्तिविनाशावुच्येते त्वया?
SK
शृणु-
SK
संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै / सद्भावेन ह्य् अजं सर्वम् उच्छेदस् तेन नास्ति वै // Mअन्द्Uप्K_४.५७ //
SK
Mअन्द्Uप्KC_४.५७ संवृत्या संवरणं संवृतिरविद्याविषयो लौकिको व्यवहारस्ता संवृत्या जायते सर्वम् / तेनाविद्याविषये शाश्वतं नित्यं नास्ति वै / अत उत्पत्तिविनाशलक्षणः संसार आयत इत्युच्यते / परमार्थसद्भावेन त्वजं सर्वमात्मैव यस्मात् / अतो जात्यभावादुच्छेदस्तेन नास्ति वै कस्यचिद्धेतुफलादेरित्यर्थः
SK
START Mअन्द्Uप्K ४.५८
SK
धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः / जन्म मायोपमं तेषां सा च माया न विद्यते // Mअन्द्Uप्K_४.५८ //
SK
Mअन्द्Uप्KC_४.५८ ये ऽप्यात्मानो ऽन्ये च धर्मा जायन्त इति कल्प्यन्ते त इत्येवं प्रकारा यथोक्ता संवृतिनिर्दिश्यत इति संवृत्यैव धर्मा जायन्ते; न ते तत्त्वतः परमार्थतोय जायन्ते / यत्पुनस्तत्संवृत्या जन्म तेषां धर्माणां यथोक्तानां यथा मायया जन्म तथा तन्मायोपमं प्रत्येतव्यम् /
SK
माया नाम वस्तु तर्हि? नैवम्; सा च माया न विद्यते, मायेत्यविद्यमानस्याख्येत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.५९
SK
कथं मायोपमं तेषां धर्माणां जन्मेत्याह-
SK
यथा मायामयाद् बीजाज् जायते तन्मयोङ्कुरः / नासौ नित्यो न चोच्छेदी तद्वद् धर्मेषु योजना // Mअन्द्Uप्K_४.५९ //
SK
Mअन्द्Uप्KC_४.५९ यथा मायामयाद्बीजाज्जायते तन्मयो मायामयो ऽङ्कुरो नासाङ्कुरो नित्यो न चोच्छेदी विनाशी वाभूतत्वात्तद्वदेव धर्मेषु जन्मनाशादियोजना युक्तिर् न तु परमार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः
SK
START Mअन्द्Uप्K ४.६०
SK
नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा / यत्र वर्णा न वर्तन्ते विवेकस् तत्र नोच्यते // Mअन्द्Uप्K_४.६० //
SK
Mअन्द्Uप्KC_४.६० परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्रसत्ताकेषु शाश्वतो ऽशाश्वत इत वा नाभिधा नाभिधानं प्रवर्तत इत्यर्थः / यत्र येषु वर्ण्यन्ते यैरर्थास्ते वर्णां शब्दा न प्रवर्तन्ते ऽभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः / इदमेवमिति विवेको विविक्तता तत्र नित्यो ऽनित्य इति नोच्यते / ᳚यतो वाचो निवर्तन्ते᳚(तै.उ.२ / ४ / १) इति श्रुतेः
SK
START Mअन्द्Uप्K ४.६१-६२
SK
यथा स्वप्ने द्वयाभासं चित्तं चलति मायया / तथा जाग्रद् द्वयाभासं चित्तं चलति मायया // Mअन्द्Uप्K_४.६१ //
SK
अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः / अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः // Mअन्द्Uप्K_४.६२ //
SK
Mअन्द्Uप्KC_४.६१-६२ यत्पुनर्वाग्गोचरत्वं परमार्थतो ऽद्वयस्य विज्ञानमात्रस्य तन्मनसः स्पन्दनमात्रं न परमार्थत इति / उक्तार्थौ श्लोकौ //६१-६२ //
SK
START Mअन्द्Uप्K ४.६३
SK
इतश्च वाग्गोचरस्याभावो द्वैतस्य-
SK
स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् / अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा // Mअन्द्Uप्K_४.६३ //
SK
Mअन्द्Uप्KC_४.६३ स्वप्नान्पश्यतीति स्वप्नदृक्प्रचरन्पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान्वर्तमानाञ्जीवान्प्राणिनो ऽण्डजान्स्वेदजान्वा यान्सदा पश्यति
SK
START Mअन्द्Uप्K ४.६४
SK
यद्येवं ततः किम्? उच्यते-
SK
स्वप्नदृक्चित्तदृश्यास् ते न विद्यन्ते ततः पृथक् / तथा तद् दृश्यम् एवेदं स्वप्नदृक्चित्तम् इष्यते // Mअन्द्Uप्K_४.६४ //
SK
Mअन्द्Uप्KC_४.६४ स्वप्नदृशश्चित्तं स्वप्नदृक्चित्तं तेन दृश्यास्ते जीवास्ततस्तस्मात्स्वप्नदृक्चित्तात्पृथङ्न विद्यन्ते न सन्तीत्यर्थः / चित्तमेव ह्यनेकजीवादिभेदाकारेण विकल्प्यते / तथा तदपि स्वप्नदृक्चित्तमिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् / अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्तीत्यर्थः
SK
START Mअन्द्Uप्K ४.६५-६६
SK
चरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् / अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा // Mअन्द्Uप्K_४.६५ //
SK
जाग्रच् चित्तेक्षणीयास् ते न विद्यन्ते ततः पृथक् / तथा तद् दृश्यम् एवेदं जाग्रतश् चित्तम् इष्यते // Mअन्द्Uप्K_४.६६ //
SK
Mअन्द्Uप्KC_४.६५-६६ जाग्रतो दृश्या जीवास्तच्चित्ताव्यतिरिक्ताश्चित्तेक्षणीयत्वात्स्वप्नदृक्चित्तेक्षणीयजीववत् / तच्च जीवेक्षणात्मकं चित्तं द्रष्टुरव्यतिरिक्तं द्रष्टुदृश्यत्वात्स्वप्नचित्तवत् / उक्तार्थमन्यत् //६५-६६ //
SK
START Mअन्द्Uप्K ४.६७
SK
उभे ह्य् अन्योन्यदृश्ये ते किं तद् अस्तीति चोच्यते / लक्षणाशून्यम् उभयं तन् मते नैव गृह्यते // Mअन्द्Uप्K_४.६७ //
SK
Mअन्द्Uप्KC_४.६७ जीवचित्त उभे चित्तचैत्ये ते ऽन्योन्यदृश्य इतरेतरगम्ये / जीवादिविषयापेक्षं हि चित्तं नाम भवति /
SK
चित्तापेक्षं हि जीवादि दृश्यम् / अतस्ते ऽन्येन्यदृश्ये / तस्मान्न किञ्चिदस्तीति चोच्यते चित्तं वा चित्तेक्षणीयं वा किं तदस्तीति विवेकिनोच्यते / न हि स्वप्ने हस्ती हस्तिचित्तं वा विद्यते तथेहापि विवेकिनामित्यभिप्रायः /
SK
कथम्? लक्षणाशून्यं लक्ष्यते ऽनयेति लक्षणा प्रमाणं प्रमाणशून्यमुभयं चित्तं चैत्यं द्वयं यतस्तन्मतेनैव तच्चित्ततयैव तद्गृह्यते / न हि घटमतिं प्रत्याख्याय घटो गृह्यते नापि घटं प्रत्याख्याय घटमतिः / न हि तत्र प्रमाणप्रमेयभेदः शक्यते कल्पयितुमित्यभिप्रायः
SK
START Mअन्द्Uप्K ४.६८-७०
SK
यथा स्वप्नमयो जीवो जायते म्रियते ऽपि च / तथा जीवा अमी सर्वे भवन्ति न भवन्ति च // Mअन्द्Uप्K_४.६८ //
SK
यथा मायामयो जीवो जायते म्रियते ऽपि च / तथा जीवा अमी सर्वे भवन्ति न भवन्ति च // Mअन्द्Uप्K_४.६९ //
SK
यथा निर्मितको जीवो जायते म्रियते ऽपि च / तथा जीवा अमी सर्वे भवन्ति न भवन्ति च // Mअन्द्Uप्K_४.७० //
SK
Mअन्द्Uप्KC_४.६८-७० मायामयो मायाविना यः कृतो निर्मितको मन्त्रौषध्यादिभिर्निष्पादितः / स्वप्नमायानिर्मितका अण्डजातयो जीवा यता जायन्ते म्रियन्ते च तछा मनुष्यादिलक्षणा अविद्यमाना एव चित्त विकल्पनामात्रा इत्यर्तः //६८-७० //
SK
START Mअन्द्Uप्K ४.७१
SK
न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते / एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते // Mअन्द्Uप्K_४.७१ //
SK
Mअन्द्Uप्KC_४.७१ व्यवहारसत्यविषये जीवानां जन्ममरणादीः स्वप्नादि जीववदित्युक्तम् / उत्तमं तु परमार्थसत्यं न कश्चिज्जायते जीव इति / उक्तार्थमन्यत्
SK
START Mअन्द्Uप्K ४.७२
SK
चित्तस्पन्दिकम् एवेदं ग्राह्यग्राहकवद् द्वयम् / चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम् // Mअन्द्Uप्K_४.७२ //
SK
Mअन्द्Uप्KC_४.७२ सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयं चित्तं परमार्थत आत्मैवेति निर्विषयं तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तितम् / ᳚असङ्गो ह्ययं पुरुषः᳚(बृ.उ. ४ / ३ / १५,१६) इति श्रुतेः / सविषयस्य हि विषये सङ्गः / निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः
SK
START Mअन्द्Uप्K ४.७३
SK
ननु निर्विषयत्वेन चेदसङ्गत्वं चित्तस्य न निःसङ्गता भवति यस्माच्छास्ता शास्त्रं शिष्यश्चेत्येवमादेर्विषयस्य विद्यमानत्वात् /
SK
नैष दोषः ; कस्मात्-
SK
यो ऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्य् असौ / परतन्त्राभिसंवृत्या स्यान् नास्ति परमार्थतः // Mअन्द्Uप्K_४.७३ //
SK
Mअन्द्Uप्KC_४.७३ यः पदार्थः शास्त्रादिर्विद्यते स कल्पितसंवृत्या; कल्पिता च सा परमार्थप्रतिपत्युपायत्वेन संवृतिश्च सा, तया यो ऽस्ति परमार्थेन नास्त्यसौ न विद्यते / ज्ञाते द्वैतं न विद्यत इत्युक्तम् /
SK
यश्च परतन्त्राभिसंवृत्या परशास्त्रव्यवहारेण स्यात्पदार्थः स परमार्थतो निरूप्यमाणो नास्त्येव / तेन युक्तमुक्तमसङ्गं तेन कीर्तिमिति
SK
START Mअन्द्Uप्K ४.७४
SK
ननु शास्त्रादीनां संवृतित्वे ऽज इतीयमपि कल्पनां संवृतिः स्यात्?
SK
सत्यमेवम्-
SK
अजः कल्पितसंवृत्या परमार्थेन नाप्य् अजः / परतन्त्रादिनिष्पत्त्या संवृत्या जायते तु सः // Mअन्द्Uप्K_४.७४ //
SK
Mअन्द्Uप्KC_४.७४ शास्त्रादिकल्पितसंवृत्यैवाज इत्युच्यते / परमार्थेन नाप्यजो यस्मात्परतन्त्राभिनिष्पत्त्या परशास्त्रसिद्धिमपेक्ष्य यो ऽज इत्युक्तः स संवृत्या जायते / अतो ऽज इतीयमपि कल्पना परमार्थविषये नैव क्रमत इत्यर्थः
SK
START Mअन्द्Uप्K ४.७५
SK
यस्मादसद्विषयस्तस्मात्-
SK
अभूताभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते / द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते // Mअन्द्Uप्K_४.७५ //
SK
Mअन्द्Uप्KC_४.७५ असत्यभूते द्वैते ऽभिनिवेशो ऽस्ति केवलम् / अभिनिवेश आग्रहमात्रम् / द्वयं तत्र न विद्यते / मिथ्याभिनिवेशमात्रं च जन्मनः कारणं यस्मात्तस्माद्द्वयाभावं बुद्ध्वा निर्निमित्तो निवृत्तमिथ्याद्वयाभिनिवेशो यः स न जायते
SK
START Mअन्द्Uप्K ४.७६
SK
यदा न लभते हेतून् उत्तमाधममध्यमान् / तदा न जायते चित्तं हेत्वभावे फलं कुतः // Mअन्द्Uप्K_४.७६ //
SK
Mअन्द्Uप्KC_४.७६ जात्याश्रमविहिता अशीर्वर्जितैरनुष्ठीयमाना धर्मा देवत्वादिप्राप्तिहेतव उत्तमाः केवलाश्च धर्माः / अधर्मव्यामिश्रा मनुष्यत्वादिप्राप्त्यर्था मध्यमाः / तिर्यगादिप्राप्तिनिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्चाधमाः / तानुत्तममध्यमाधमानविद्यापरिकल्पितान्यदैकमेवाद्वितीयमात्मतत्त्वं सर्वकल्पनावर्जितं जानन्न लभते न पश्यति यथा बालैर्दृश्यमानं गगने मलं विवेकी न पश्यति तद्वत्तदा न जायते नोत्पद्यते चित्तं देवाद्याकारैरुत्तमाधममध्यमफलरूपेण न ह्यसति हेतौ फलमुत्पद्यते बीजाद्यभाव इव सस्यादि
SK
START Mअन्द्Uप्K ४.७७
SK
हेत्वभावे चित्तं नोत्पद्यत इति ह्युक्तम् / स पुनरनुत्पत्तिश्चित्तस्य कीदृशीत्युच्यते-
SK
अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया / अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः // Mअन्द्Uप्K_४.७७ //
SK
Mअन्द्Uप्KC_४.७७ परमार्थदर्शनेन निरस्तधर्माधर्माख्योत्पत्तिनिमित्तस्यानिमित्तस्य चित्तस्येति या मोक्षाख्यानुत्पत्तिः सा सर्वदा सर्वावस्थासु समा निर्विशेषाद्वया च / पूर्वमप्यजातस्यैवानुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्येत्यर्थः / यस्मात्प्रागपु विज्ञानाच्चित्तदृश्यं तदद्वयं जन्म च तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समाद्वयैवानुत्पत्तिर्न पुनः कदाचिद्भवति कदाचिद्वा न भवति / सर्वदैकरूपैवेत्यर्थः
SK
START Mअन्द्Uप्K ४.७८
SK
यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्याभावात्-
SK
बुद्ध्वा निमित्ततां सत्यां हेतुं पृथग् अनाप्नुवन् / वीतशोकं तथाकामम् अभयं पदम् अश्नुते // Mअन्द्Uप्K_४.७८ //
SK
Mअन्द्Uप्KC_४.७८ अनिमित्ततां च सत्यां परमार्थरूपां बुद्ध्वा हेतुं धर्मादिकारणं देवादियोनिप्राप्तये पृथगनाप्नुवन्ननुपाददानस्त्यक्तबाह्यैषणः सन्कामशोकादिवर्जितमविद्यादिरहितमभयं पदमश्नुते पुनर्न जायत इत्यर्थः
SK
START Mअन्द्Uप्K ४.७९
SK
अभूताभिनिवेशाद् धि सदृशे तत् प्रवर्तते / वस्त्वभावं स बुध्वैव निःसङ्गं विनिवर्तते // Mअन्द्Uप्K_४.७९ //
SK
Mअन्द्Uप्KC_४.७९ यस्माद् भूताभिनिवेशादसति द्वये द्वयास्तित्वनिश्चयो ऽभूताभिनिवेशस्तस्मादविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तच्चित्तं प्रवर्तते / तस्य द्वयस्य वस्तुनो ऽभावं यदा बुद्धवांस्तदा तस्मान्निःसङ्गो निरपेक्षं सद्विनिवर्तते ऽभूताभिनिवेशविषयात्
SK
START Mअन्द्Uप्K ४.८०
SK
निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः / विषयः स हि बुद्धानां तत् साम्यम् अजम् अद्वयम् // Mअन्द्Uप्K_४.८० //
SK
Mअन्द्Uप्KC_४.८० निवृतस्य द्वैतविषयाद्विषयान्तरे चाप्रवृत्तस्याभावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थितिः / यैषा ब्रह्मस्वरूपा स्थितिश्चित्तस्याद्वयविज्ञानैकरसघनलक्षणा, स हि यस्माद्विषयो गोचरः परमार्थदर्शिनां बुद्धानां तस्मात्तत्साम्यं परं निर्विशेषमजमद्वयं च
SK
START Mअन्द्Uप्K ४.८१
SK
पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह-
SK
अजम् अनिद्रम् अस्वप्नं प्रभातं भवति स्वयम् / सकृद्विभातो ह्य् एवैष धर्म धातुस्वभावतः // Mअन्द्Uप्K_४.८१ //
SK
Mअन्द्Uप्KC_४.८१ स्वयमेव तत्प्रभातं भवति, नादित्यपाद्यपेक्षम्; स्ययञ्ज्योतिः स्वभावमित्यर्थः / सकृद्विभातः सदैव विभात इत्येतदेष एवंलक्षण आत्माख्यो धर्मो धातुस्वभावतो वस्तुस्वभावत इत्यर्थः
SK
START Mअन्द्Uप्K ४.८२
SK
एवमुच्यमानमपि परमार्थतत्त्वं कस्माल्लौकिकैर्न गृह्यत इत्युच्यते-
SK
सुखम् आव्रियते नित्यं दुःखं विव्रियते सदा / यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ // Mअन्द्Uप्K_४.८२ //
SK
Mअन्द्Uप्KC_४.८२ यस्माद्यस्य कस्यचिद्द्वयवस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिथ्याभिनिविष्टतया सुखमाव्रियते ऽनायासेनाच्छाद्यत इत्यर्थः / द्वयोपलब्धिनिमित्तं हि तत्रावरणं न यत्नान्तरमपेक्ष्यते / दुःखं च विव्रियते प्रकटीक्रियते, परमार्थज्ञानस्य दुर्लभत्वात् / भगवानसावात्मद्वयो देव इत्यर्थः, अतो वेदान्तैराचार्यैश्च बहुश उच्यमानो ऽपि नैव ज्ञातुं शक्य इत्यर्थः / ᳚आश्चर्यो वक्ता कुशलो ऽस्य लब्धा᳚(क.उ.१ / २ / ७) इति श्रुतेः
SK
START Mअन्द्Uप्K ४.८३
SK
अस्ति नास्तीत्यादिसूक्ष्मविषया अपि पण्डितानां ग्रहा भगवतः परमात्मन आवरण एव किमुत मूढजनानां बुद्धिलक्षणा इत्येवमर्थं प्रदर्शयन्नाह-
SK
अस्ति नास्त्य् अस्ति नास्तीति नास्ति नास्तीति वा पुनः / चलस्थिरोभयाभावैर् आवृणोत्ये व बालिशः // Mअन्द्Uप्K_४.८३ //
SK
Mअन्द्Uप्KC_४.८३ अस्त्यात्मेति वादी कश्चित्प्रतिपद्यते / नास्तीत्यपरो वैनाशिको ऽस्ति नास्तीत्यपरोर्ऽधवैनाशिकः सदसद्वादी दिग्वासाः / नास्ति नास्तीत्यत्यन्तशून्यवादी / तत्रास्तिभावश्चलः, घटाद्यनित्यविलक्षणत्वात् / नास्तिभावः स्थिरः सदाविशेषत्वात् / उभयं चलस्थिरविषयत्वात्सदसद्भावो ऽभावो ऽत्यन्ताभावः /
SK
प्रकारचतुष्टयस्यापि तैरतैश्चलिस्थिरोभयाभावैः सदसदादिवादी सर्वो ऽपि भगवन्तमावृणोत्येव बालिशो ऽविवेकी / यद्यपि पण्डितो बालिश एव परमार्थतत्त्वानवबोधाच्किमु स्वभावमूढो जन इत्यभिप्रायः
SK
START Mअन्द्Uप्K ४.८४
SK
कीदृक्पुनः परमार्थतत्त्वं यदवबोधादबालिशः पण्डितो भवतीत्याह-
SK
कोठ्यश् चतस्र एतास् तु ग्रहैर् यासां सदा वृतः / भगवान् आभिर् अस्पृष्टो येन दृष्टः स सर्वदृक् // Mअन्द्Uप्K_४.८४ //
SK
Mअन्द्Uप्KC_४.८४ कोठ्यः प्रावादुकशास्त्रनिर्णयान्ता एता उक्ता अस्ति नास्तीत्याद्याश्चतस्रो यासां कोटीनां ग्रहैर्ग्रहणैरूपलब्धिनिश्चयैः सदा सर्वदावृत आच्छादितस्तेषामेव प्रावादुकानां यः स भगवानाभिरस्तिनास्तीत्यादिकोटिभिश्चतसृभिरप्यस्पृष्टो ऽस्त्यादिविकल्पनावर्जित इत्येतद्येन मुनिना दृष्टो ज्ञातो वेदान्तेष्वौपनिषदः पुरुषः स सर्वदृक्सर्वज्ञः परमार्थपण्डित इत्यर्थः
SK
START Mअन्द्Uप्K ४.८५
SK
प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अद्वयम् / अनापन्नादिमध्यान्तं किम् अतः परम् ईहते // Mअन्द्Uप्K_४.८५ //
SK
Mअन्द्Uप्KC_४.८५ प्राप्यैतां यथोक्तां कृत्स्नां समस्तां सर्वज्ञतां ब्राह्मण्यं पदं᳚स ब्राह्मणः᳚(बृ.उ.३ / ८ / १०) ᳚एष नित्यो महिमा ब्राह्मणस्य᳚ (बृ.उ.४ / ४ / २३) इति श्रुतेः ; आदिमध्यान्ता उत्पत्तिस्थितिलया अनापन्ना अप्राप्ता यस्याद्वयस्य पदस्य न विद्यन्ते तदनापन्नादिमध्यान्तं ब्राह्मण्यं पदम्, तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वमीहते चेष्टते निष्प्रयोजनमित्यर्थः / ᳚नैव तस्य कृतेनार्थः᳚(गीता ३ / १८) इत्यादिस्मृतेः
SK
START Mअन्द्Uप्K ४.८६
SK
विप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते / दमः प्रकृतिदान्तत्वाद् एवं विद्वाञ् शमं व्रजेत् // Mअन्द्Uप्K_४.८६ //
SK
Mअन्द्Uप्KC_४.८६ विप्राणां ब्राह्मणानां विनयो विनीतत्वं स्वाभाविकं यदेतात्मस्वरूपेणावस्थानम् / एष विनयः शमो ऽप्येष एव प्राकृतः स्वाभाविको ऽकृतक उच्यते / दमो ऽप्येष एव प्रकृतिदान्तत्वात्स्वभावत एव चोपशान्तरूपत्वाद्ब्रह्मणः / एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वाञ्शममुपशान्तिं स्वाभाविकीं ब्रह्मस्वरूपां व्रजेद् ब्रह्मस्वरूपेणावतिष्ठत इत्यर्थः
SK
START Mअन्द्Uप्K ४.८७
SK
एवमन्योन्यविरुद्धत्वात्संसारकारणानि रागद्वेषदोषास्पदानि प्रावादुकानां दर्शनानि / अतो मिथ्यादर्शनानि तानीति तद्युक्तिभिरेव दर्शयित्वा चतुष्कोटिवर्जितत्वाद्राहादिदोषानास्पदं स्वभावशान्तमद्वैतदर्शनमेव सम्यग्दर्शमित्युपसंहृतम् / अथेदानीं स्वप्रक्रियाप्रदर्शनार्थ आरम्भः-
SK
सवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते / अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते // Mअन्द्Uप्K_४.८७ //
SK
Mअन्द्Uप्KC_४.८७ सवस्तु संवृतिसता वस्तुना सह वर्तत इति सवस्तु, तथा चोपलब्धिरुपलम्भस्तेन सह वर्तत इति सोपल्भं च शास्त्रादिसर्वव्यवहारास्पदं ग्राह्यग्राहकलक्षणं द्वयं लौकिकं लोकादनपेतं लोकिकं जागरितमित्येतत् / एवं लक्षणं जागरितमिष्यते वेदान्तेषु /
SK
अवस्तु संवृतेरप्यभावात् / सोपलम्भं वस्तुवदुपलम्भनमुपलम्भो ऽसत्यपि वस्तुनि तेन सह वर्तत इति सोपलम्भं च / शुद्धं केवलं प्रविभक्तं जागरितात्स्थूलाल्लौकिकं सर्वप्राणिसाधारणत्वादिष्यते स्वप्न इत्यर्थः
SK
START Mअन्द्Uप्K ४.८८
SK
अवस्त्व् अनुपलम्भं च लोकोत्तरम् इति स्मृतम् / ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् // Mअन्द्Uप्K_४.८८ //
SK
Mअन्द्Uप्KC_४.८८ अवस्त्वनुपलम्भं च ग्राह्यग्रहणवर्जितमित्येतत्, लोकोत्तरम् अत एव लोकातीतम् / ग्राह्यग्रहणविषयो हि लोकस्तदभावात्सर्वप्रवृत्तिबीजं सुषुप्तमित्येतदेवं स्मृतम् /
SK
सोपायं परमार्थतत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञायते तज्ज्ञानम् / ज्ञेयमेतान्येव त्रीणि / एतद्व्यतिरेकेण ज्ञेयानुपपत्तेः सर्वप्रावादुककल्पितवस्तुनो ऽत्रैवान्तर्भावात् / विज्ञेयं परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः / सदा सर्वदै९तल्लौकिकादिविज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मविद्भिः प्रकीर्तितम्
SK
START Mअन्द्Uप्K ४.८९
SK
ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् / सर्वज्ञता हि सर्वत्र भवतीह महाधियः // Mअन्द्Uप्K_४.८९ //
SK
Mअन्द्Uप्KC_४.८९ ज्ञाने च लौकिकादिविषये, ज्ञेये च लौकिकादौ त्रिविधे- पूर्वं लौकिकं स्थूलम्, तदभावेन पश्चाच्छुद्धं लौकिकम्, तथाभावेन लोकोत्तरमित्येवं क्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्ये ऽद्वये ऽजे ऽभये विदिते स्वयमेवात्मस्वरूपमेव सर्वज्ञता सर्वश्चासौ ज्ञश्च सर्वज्ञस्तद्भावः सर्वज्ञता, इहास्मिंल्लोके भवति महाधियो महाबुद्धेः / सर्वलोकातिशयवस्तुविषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति / सकृद्विदिते स्वरूपे व्यभिचाराभावादित्यर्थः / न हि परमार्थविदो ज्ञानोद्भवाभिभवौ स्तो यथान्येषां प्रावादुकानाम्
SK
START Mअन्द्Uप्K ४.९०
SK
लौकिकादीनां क्रमेण ज्ञेयत्वेन निर्देशादस्तित्वाशङ्का परमार्थतो मा भूदित्याह-
SK
हेयज्ञेयाप्यपाक्यानि विज्ञेयान्य् अग्रयाणतः / तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः // Mअन्द्Uप्K_४.९० //
SK
Mअन्द्Uप्KC_४.९० हेयानि च लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तान्यात्मन्यसत्त्वेन रज्ज्वां सर्पवद्धातव्यानीत्यर्थः / ज्ञेयमिह चतुष्कोटिवर्जितं परमार्थतत्त्वम् / आप्यान्याप्तव्यानि त्यक्तबाह्यैषणात्रयेण भिक्षुणा पाण्डित्यबाल्यमौनाख्यानि साधनानि / पाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि / सर्वाण्येतानि हेयज्ञेयाप्यपाक्यानि विज्ञेयानि भिक्षुणोपायत्वेनेत्यर्थः, अग्रयाणातः प्रथमतः /
SK
तेषां हेयादीनामन्यत्र विज्ञेयात्परमार्थसत्यं विज्ञेयं ब्रह्मैकं वर्जयित्वा, उपल्भनमुपलम्भो ऽविद्याकल्पनामात्रम् / हेयाप्यापक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिर्न परमार्थसत्यता त्रयाणामित्यर्थः
SK
START Mअन्द्Uप्K ४.९१
SK
परमार्थतस्तु-
SK
प्रकृत्याकाशवज् ज्ञेयाः सर्वे धर्मा अनादयः / विद्यते न हि नानात्वं तेषां क्वचन किञ्चनः // Mअन्द्Uप्K_४.९१ //
SK
Mअन्द्Uप्KC_४.९१ प्रकृत्या स्वभावत आकाशवदाकाशतुल्याः सूक्ष्मनिरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मानो ज्ञेयां मुमुक्षुभिरनादयो नित्याः / बहुवचनकृतभेदाशङ्कां निराकुर्वन्नाह- क्वचन किञ्चन किन्दिदणुमात्रमपि तेषां न विद्यते नानात्वमिति
SK
START Mअन्द्Uप्K ४.९२
SK
ज्ञेयतापि धर्माणां संवृत्यैव न परमार्थत इत्याह-
SK
आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः / यस्यैवं भवति क्षान्तिः सो ऽमृतत्वाय कल्पते // Mअन्द्Uप्K_४.९२ //
SK
Mअन्द्Uप्KC_४.९२ यस्मादादौ बुद्धा आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपः सवितैवं नित्यबोधस्वरूपा इत्यर्थः सर्वे धर्माः सर्व आत्मानः / न च तेषां निश्चयः कर्तव्यो नित्यनिश्चितस्वरूपा इत्यर्थः / न संदिह्यमानस्वरूपा एवं नैवं चेति /
SK
यस्य मुमुक्षोरेवं यथोक्तप्रकारेण सर्वदा बोधनिश्चयनिरपेक्षतात्मार्थं परार्थं वा यथा सविता नित्यं प्रकाशान्तरनिरपेक्षः स्वार्थं परमार्थं चेत्येवं भवति क्षान्तिर्बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि स अमृतत्वायामृतभावाय कल्पते मोक्षाय समर्थो भवतीत्यर्थः
SK
START Mअन्द्Uप्K ४.९३
SK
तथा नापि शान्तिकर्तव्यतात्मनीत्याह-
SK
आदिशान्ता ह्य् अनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः / सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् // Mअन्द्Uप्K_४.९३ //
SK
Mअन्द्Uप्KC_४.९३ यस्मादादिशान्ता नित्यमेव शान्ता अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्ठूपरतस्वभावा इत्यर्थः, सर्वे धर्माः समाश्चाभिन्नाश्च समाभिन्नाः, अजं साम्यं विशारदं विशुद्धमात्मतत्वं यस्मात्तस्माच्छान्तिर्मोक्षो वा नास्ति कर्तव्य इत्यर्थः, न हि नित्यैकस्वभावस्य कृतं किञ्चिदर्थवत्स्यात्
SK
START Mअन्द्Uप्K ४.९४
SK
ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नास्त एवाकृपणा लोके कृपणा एवान्य इत्याह-
SK
वैशारद्यं तु वै नास्ति भेदे विचरतां सदा / भेदनिम्नाः पृथग्वादास् तस्मात् ते कृपणाः स्मृताः // Mअन्द्Uप्K_४.९४ //
SK
Mअन्द्Uप्KC_४.९४ यस्माद्भेदनिम्ना भेदानुयायिनः संसारानुगा इत्यर्थः ; के? पृदग्वादाः पृथङ्नाना वस्त्वित्येवं वदनं येषां ते पृथग्वादा द्वैतिन इत्यर्थः, तस्मात्ते कृपणाः क्षुद्राः स्मृताः; यस्माद्वैशारद्यं विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैतमार्गे ऽविद्याकल्पिते सर्वदा वर्तमानानामित्यर्थः / अतो युक्तमेव तेषां कार्पण्यमित्यभिप्रायः
SK
START Mअन्द्Uप्K ४.९५
SK
यदिदं परमार्थतत्त्वममहात्मभिरपण्डितैर्वेदान्तबहिःष्ठैः क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह-
SK
अजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः / ते हि लोके महाज्ञानास् तच् च लोको न गाहते // Mअन्द्Uप्K_४.९५ //
SK
Mअन्द्Uप्KC_४.९५ अजे साम्ये परमार्थतत्त्व एवमेवेति ये केचित्स्त्रायदयो ऽपि सुनिश्चिता भविष्यन्ति चेत्त एव हि लोके महाज्ञाना निरतिशय तत्त्वविषयज्ञाना इत्यर्थः /
SK
तच्च तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिरन्यो लोको न गाहते नावतरिति न विषयीकरोतीत्यर्थः / सर्वाभूतात्मभूतस्य सर्वभूतहितस्य च / देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः / ᳚शकुनीनामिवाकाशे गतिर्नैवोपलभ्यते᳚(महा.शा.२३९ / २३,२४) इत्यादिस्मरणात्
SK
START Mअन्द्Uप्K ४.९६
SK
कथं महाज्ञानत्वमित्याह-
SK
अजेष्व् अजम् असंक्रान्तं धर्मेषु ज्ञानम् इष्यते / यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितम् // Mअन्द्Uप्K_४.९६ //
SK
Mअन्द्Uप्KC_४.९६ अजेष्वनुत्पन्नेष्वचलेषु धर्मेष्वात्मस्वजमचलं च ज्ञानमिष्यते सवितरीवौष्ण्यं प्रकाशश्च यतस्तस्मादसंक्रान्तमर्थान्तरे ज्ञानमजमिष्यते / यस्मान्न क्रमतेर्ऽथान्तरे ज्ञानं तेन कारणेनासङ्गं तत्कीर्तितमाकाशकल्पमित्युक्तम्
SK
START Mअन्द्Uप्K ४.९७
SK
अणुमात्रे ऽपि वैधर्म्ये जायमाने ऽविपश्चितः / असङ्गता सदा नास्ति किमुतावरणच्युतिः // Mअन्द्Uप्K_४.९७ //
SK
Mअन्द्Uप्KC_४.९७ इतो ऽन्येषां वादिनामणुमात्रे ऽपि वैधर्म्ये वस्तुनि बहिरन्तर्वा जायमान उत्पाद्यमाने ऽविपश्चितो ऽविवेकिनो ऽसङ्गता असङ्गत्वं सदा नास्ति किमुत वक्तयव्यमावरणच्युतिर्बन्धनाशो नास्तीति
SK
START Mअन्द्Uप्K ४.९८
SK
तेषामावरणच्युतिर्नास्तीति ब्रुवतां स्वसिद्धान्ते ऽभ्युपगतं तर्हि धर्माणामावरणम् / नेत्युच्यते /
SK
अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः / आदौ बुद्धास् तथा मुक्ता बुध्यन्त इति नायकाः // Mअन्द्Uप्K_४.९८ //
SK
Mअन्द्Uप्KC_४.९८ अलब्धावरणाः- अलब्धमप्राप्तमावरणमविद्यादिबन्धनं येषां ते धर्मा अलब्धावरणा बन्धनरहिता इत्यर्थः, प्रकृतिनिर्मलाः स्वभावशुद्धा आदौ बुद्धास्तथा मुक्ता यस्मान्नित्यशुद्धबुद्धमुक्तस्वभावाः / यद्येवं कथं तर्हि बुध्यन्त इत्युच्यते? नायकाः स्वामिनः समर्था बोद्धुं बोधशक्तिमत्स्वभावा इत्यर्थः, यथा नित्यप्रकाशस्वरूपो ऽपि सविता प्रकाशत इत्युच्यते यथा वा नित्यनिवृत्तगतयो ऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्यते तद्वत्
SK
START Mअन्द्Uप्K ४.९९
SK
क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः / सर्वे धर्मास् तथा ज्ञानं नैतद् बुद्धेन भाषितम् // Mअन्द्Uप्K_४.९९ //
SK
Mअन्द्Uप्KC_४.९९ यस्मान्न हि क्रमते बुद्धस्य परमार्थदर्शिनो ज्ञानं विषयान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा, तायिनस् तायो ऽस्यास्तीति तायी, संतानवतो निरन्तरस्याकाशकल्पस्येत्यर्थः, पूजावतो वा प्रज्ञावतो वा, सर्वे धर्मा आत्मानो ऽपि तथा ज्ञानवदेवाकाशकल्पत्वान्न क्रमन्ते क्वचिदप्यर्थान्तर इत्यर्थः /
SK
यदादावुपन्यस्तं ज्ञानेनाकाशकल्पेनेत्यादि तदिदमाकाशकल्पस्य तायिनो बुद्धस्य तदनन्यत्वादाकाशकल्पं ज्ञानं न क्रमये क्वचिदप्यर्थान्तरे / तथा धर्मा इति / आकाशमिवाचलमविक्रियं निरवयवं नित्यमद्वितीयमसङ्गमदृश्यमग्राह्यमशनायाद्यतीतं ब्रह्मात्मतत्त्वम् / ᳚न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते᳚(बृ.उ.४ / ३ / २३) इति श्रुतेः /
SK
ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वमद्वयम् एतन्न बुद्धेन भाषितम् / यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना चाद्वयवस्तुसामीप्यमुक्तम् / इदं तु परमार्थतत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयमित्यर्थः
SK
START Mअन्द्Uप्K ४.१००
SK
शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थं नमस्कार उच्यते-
SK
दुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम् / बुद्ध्वा पदम् अनानात्वं नमस्कुर्मो यथाबलम् // Mअन्द्Uप्K_४.१०० //
SK
Mअन्द्Uप्KC_४.१०० दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शम्, अस्ति नास्तीति चतुष्कोटिवर्जिततत्वाद्दुर्विज्ञेयमित्यर्थः / अत एवातिगम्भीरं दुष्पर्वेशं महासमुद्रवदकृतप्रज्ञैः, अजं साम्यं विशारदम् ईदृक्पदमनानात्वं नानात्ववर्जितं बुद्ध्वावगम्य तद्भूताः सन्तो नमस्कुर्मस्तस्मै पदाय, अव्यवहार्यमपि व्यवहारगोचरमापाद्य यथाबलं यथाशक्तीत्यर्थः
SK
इति शङ्करभगवतः कृतौ गौडपादीयागमशास्त्रविवरणे ऽलातशान्त्याख्यं चतुर्थं प्रकरणम् //
SK
ॐ शन्तिः! शान्तिः!! शान्तिः!!!

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Māṇḍūkya Upaniṣad with commentary: corpustei HTML transform of the Māṇḍūkya with commentary.

Source