Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · माण्डूक्योपनिषद् (सटीका)

Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya

माण्डूक्योपनिषद् (सटीका)

Prakaraṇa 1

SK
बहिःप्रज्ञो विभुः विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः / घनप्रज्ञः तथा प्राज्ञ एक एव त्रिधा स्मृतः // Mअन्द्Uप्K_१.१ //
SK
Mअन्द्Uप्KC_१.१ बहिःप्रज्ञ इति / पर्यायेण त्रिस्थानत्वात् स अहम् इति स्मृत्या प्रतिसन्धानाच् च स्थानत्रयव्यतिरिक्तमेकत्वं शुद्धत्वम् असङ्गत्वं च सिद्धम् इत्य् अभिप्रायः / महामत्स्यादिदृष्टान्तश्रुतेः
SK
START Mअन्द्Uप्K १.२
SK
जागरितावस्थायाम् एव विश्वादीनां त्रयाणाम् अनुभवप्रदर्शनार्थो ऽयं श्लोकः
SK
दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः / आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः // Mअन्द्Uप्K_१.२ //
SK
Mअन्द्Uप्KC_१.२ दक्षिणम् अक्ष्येव मुखं तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्वो ऽनुभूयते᳚इन्धो ह वै नामैष यो ऽयं दक्षिणे ऽक्षन् पुरुषः᳚ / इति श्रुतेः / इन्धो दीप्तिगुणो वैश्वानरः / आदित्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः /
SK
नन्व् अयो हिरण्यगर्भः क्षेत्रज्ञो दक्षिणो ऽक्षि(क्ष)ण्यक्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी /
SK
न स्वतो भेदानभ्युपगमात् / ᳚एको देवः सर्वभूतेषु गूढः᳚(श्वे.उ.६ / ११) इति श्रुतेः / ᳚क्षेत्रज्ञं चापि मां विद्धिं सर्वक्षेत्रेषु भारत᳚ / (गीता १३ / २) ᳚आविभक्तं च भूतेषु विभक्तमिव च स्थितम्᳚ / (गीता १३ / १६) इति स्मृतेः / ᳚सर्वेषु करणेष्व् अविशेषे ऽपि दक्षिणाक्षण्य् उपलब्धिपाटवदर्शनात् तत्र विशेषेण निर्देशो विश्वस्य /
SK
दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षस् तदेव स्मरन् मनस्यन्तः स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति / यथात्र तथा स्वप्ने / अतो मनस्यन्तस् तु तैजसो ऽपि विश्व एव /
SK
आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति मनोव्यापाराभावात् / दर्शनस्मरण एव हि मनःस्पन्दिते तदभावे हृद्येवाविशेषेण प्राणात्मनावस्थानम् / ᳚प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्ते᳚(छा.४ / ३ / ३) इति श्रुतेः / तैजसो हिरण्यगर्भो मनःस्थत्वात् / ᳚लिङ्गं मनः᳚(बृ.उ४.४.६) / ᳚मनोमयो ऽयं पुरुषः᳚ (बृ.उ५ / ३ / १) इत्यादिश्रुतिभ्यः /
SK
ननु व्याकृतः प्राणः सुषुप्ते / तदात्मकानि करणानि भवन्ति / कथम् अव्याकृतता?
SK
नैष दोषो ऽव्याकृतस्य देशकालविशेषाभावात् / यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणोभवतीत्यव्याकृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् /
SK
यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणो ऽव्याकृतस् तथा प्राणाभिमानिनो ऽप्य् अविशेषापत्तावव्याकृतता समाना प्रसवबीजात्मकत्वं च तदध्यक्षश् चैको ऽव्याकृतावस्थः / परिच्छिन्नाभिमानिनाम् अध्यक्षाणां च तेन एकत्वम् इति पूर्वोक्तं विशेषणमेकीभूत प्रज्ञानघन इत्याद्युपपन्तम् / तस्मिन्न् उक्तहेतुत्वाच् च /
SK
कथं प्राणशब्दत्वम् अव्याकृतस्य /
SK
᳚प्राणबन्धनं हि सोम्य मनः᳚(छा.उ६ / ८ / २) इति श्रुतेः /
SK
ननु तत्र᳚सदेव सोम्य᳚(छा.उ६ / २ / १) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् /
SK
नैष दोषो बीजात्मकत्वाभ्युपगमात्सतः / यद्य् अपि तद्ब्रह्म प्राणशब्दवाच्यं तत्र तथापि जीवप्रसवबीजात्मकत्वम् अपिरत्यज्य एव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च / यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत्᳚नेति नेति᳚(बृ.उ.४.४.२.२४.५.१५)᳚यतो वाचो निवर्तन्ते᳚(तै.उ.२.९)᳚अन्यदेव तद्विदिताद् अथाविदितात्᳚(के.उ१.३) इत्यवक्ष्यत᳚न सत्तन्नासदुच्यते᳚(गीता.१३.१२) इति स्मृतेः /
SK
निर्बीजतयैव चेत् सति लीनानां सुषुप्तप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् / मुक्तानां च पुनरुत्पत्तिप्रसङ्गो बीजाभावाविशेषात् / ज्ञानदाह्यबीजाभावे च ज्ञानानर्थक्यप्रसङ्गः / तस्मात् स बीजत्वाभ्युपगमेन एव सतः प्राणत्वव्यपदेशः सर्वश्रुतिषु च कारणत्वव्यपदेशः /
SK
अत एव᳚अक्षरात्परतः परः᳚(मु.उ२.१.२) / ᳚सबाह्याभ्यान्तरो ह्य् अजः᳚ (मु.उ२.१.२) / ᳚यतो वाचो निवर्तन्ते᳚(तै.उ२.९) / ᳚नेति नेति᳚(बृ.उ४.४.१२) इत्यादिना बीजवत्वापनयनेन व्यपदेशः / तां बीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसंबन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति / बीजावस्थापि न किञ्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनाद्देहे ऽनुभूयत एवेति त्रिधा देहे व्यवस्थितेत्य् उच्यते
SK
START Mअन्द्Uप्K १.३-४
SK
विश्वः हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् / आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत // Mअन्द्Uप्K_१.३ //
SK
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् / आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत // Mअन्द्Uप्K_१.४ //
SK
Mअन्द्Uप्KC_१.३-४ उक्तार्थौ श्लोकौ //३-४ //
SK
START Mअन्द्Uप्K १.५
SK
त्रिषु धामसु यद्भोज्यं भोक्ता यश् च प्रकीर्तितः / वदैतदुभयं यस् तु स भुञ्जानो न लिप्यते // Mअन्द्Uप्K_१.५ //
SK
Mअन्द्Uप्KC_१.५ त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं भोज्यम् एकं त्रिधाभूतम् / यश् च विश्वतैजसप्राज्ञाख्यो भोक्तैकः स अहम् इत्येकत्वेनप्रतिसंधानाद्द्रष्टुत्वाविशेषाच् च प्रकीर्तितः / यो वेदैतदुभयं भोज्यभोक्तृतयानेकधा भिन्नं स भुञ्जानो न लिप्यते / भोज्यस्य सर्वस्यैकस्य भोक्तुर् भोज्यत्वात् / न हि यस्य यो विषयः स तेन हीयते वर्धते वा न ह्य् अग्निः स्वविषयं दग्ध्वा काष्ठादि तद्वत्
SK
START Mअन्द्Uप्K १.६
SK
प्रभवः सर्वभावानां सताम् इति विनिश्चयः / सर्वं जनयति प्राणश् चेतो ऽंशून् पुरुषः पृथक् // Mअन्द्Uप्K_१.६ //
SK
Mअन्द्Uप्KC_१.६ सतां विद्यमानानां स्वेनाविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभवोत्पत्तिः / वक्ष्यति च᳚वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते᳚इति / यदि ह्य् असताम् एव जन्म स्याद् ब्रह्मणो ऽव्यवहार्यस्य ग्रहणद्वाराभावादसत्वप्रसङ्गः / दृष्टं च रज्जुसर्पादीनाम् अविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्य् आत्मना सत्वम् / न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिद् उपलभ्यन्ते केनचित् / यथा रज्ज्वां प्राक्सर्पोत्पत्ते रज्ज्वात्मनां सर्पः सन्नेव आसीद् एवं सर्वभावानाम् उत्पत्तेः प्राक्प्राणबीजात्मनैव सत्वम् / इत्यतः श्रुतिर् अपि वक्ति᳚ब्रह्मैवेदम्᳚(मु.उ२.२.११)᳚आत्मैवेदम् अग्र आसीत्᳚(बृ.उ.१.४.१) इति /
SK
सर्वं जनयति प्राणश्चेत्ॐऽशूनंशव इव रवेश् चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवतिर्यगादिदेहभेदेषु विभाव्यमानाश् चेत्ॐशवोयेतान् पुरुषः पृथग् विषयभावविलक्षणान् अग्निविष्फुलिङ्गवत् सलक्षणाञ्जलार्कवच् च जीवलक्षणांस्त्वितरान् सर्वभावान् प्राणो बीजात्मा जनयति᳚यथोर्णनाभिः᳚(मु.उ.१.१.७)᳚यथाग्नेः क्षुद्रार्विस्फुलिङ्गाः᳚(बृ.उ.२.१.२०) इत्यादिश्रुतेः
SK
START Mअन्द्Uप्K १.७
SK
विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः / स्वप्नमायासरूपेति सृष्टिर् अन्यैः विकल्पिता // Mअन्द्Uप्K_१.७ //
SK
Mअन्द्Uप्KC_१.७ विभूतिर् विस्तारेश्वरस्य सृष्टिर् इति सृष्टिचिन्तका मन्यन्ते न तु परमार्थचिन्तकानां सृष्टव् आदर इत्य् अर्थः / ᳚इन्द्रो मायाभिः पुरुरूपेयते᳚ (बृ.उ.२.५.१९) इति श्रुतेः / न हि मायाविनं सूत्रम् आकाशे निक्षिप्य तेन सायुधम् आरुह्य चक्षुर्गोचरताम् अतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत् कृतं मायादिसतत्वचिन्तायाम् आदरो भवति / तथैवायं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वप्नादिविकासस्तदारूढमयाविसमश् च तत्स्थः प्राज्ञतैजसादिः / सूत्रतदारूढाभ्यामन्यः परमार्थमायावी स एव भूमिष्ठो मायाछन्नो ऽदृश्यमान एव स्थितो यथा तथा तुरीयाख्यं परमार्थतत्त्वम् / अतस् तच् चिन्तायाम् एवादरो मुमुक्षूणामार्याणां न निष्प्रयोजनायां सृष्टव् आदर इत्यतः सृष्टिचिन्तकानाम् एवैते विकल्पेत्य् आह स्वप्नमायासरूपेति / स्वप्नरूपा मायासरूपा चेति
SK
START Mअन्द्Uप्K १.८
SK
इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः / कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः // Mअन्द्Uप्K_१.८ //
SK
Mअन्द्Uप्KC_१.८ इच्छामात्रं प्रभोः सत्यसंकल्पत्वात् सृष्टिर् घटादिः संकल्पनामात्रं न संकल्पनातिरिक्तम् / कालाद् एव सृष्टिर् इति केचित्
SK
START Mअन्द्Uप्K १.९
SK
भोगार्थं सृष्टिर् इति अन्ये क्रीडार्थम् इति चापरे / देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा // Mअन्द्Uप्K_१.९ //
SK
Mअन्द्Uप्KC_१.९ भोगार्थं क्रीडार्थम् इति चान्ये सृष्टिं मन्यन्ते / अनयोः पक्षयोर् दूषणं देवस्यैष स्वभावो ऽयम् इति देवस्य स्वभावपक्षम् आश्रित्य सर्वेषां वा पक्षाणाम् आप्तकामस्य का स्पृहेति / न हि रज्ज्वादीनाम् अविद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम्
SK
_______________________________________________________________________
SK
START Mअन्द्Uप् ७
SK
चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्य् आहनान्तःप्रज्ञम् इत्यादिना / सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात् तस्य शब्दानभिधेयत्वम् इति विशेषप्रतिषेधेन एव च तुरीयं निर्दिदिक्षति /
SK
शून्यम् एव तर्हि तत् /
SK
न मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेर् न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणुर् ऊषरादि व्यतिरेकेणावस्त्वास्पदाः शक्याः कल्पयितुम् /
SK
एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात् तुरीयस्य शब्दवाच्यत्वम् इति न प्रतिषेधैः प्रत्याय्यत्वम् / उदकाधारादेर् इव घटादेः /
SK
न प्राणादिविकल्पस्यासत्वाच् छुक्तिकादिष्व् इव रजतादेः / न हि सदसतोः संबन्धः शब्दप्रवृत्तिनिमित्तभागवस्तुत्वात् / नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवद् आत्मनो निरुपाधिकत्वाद् / गवादिवन् नापि जातिमत्वमद्वितीयत्वेन सामान्यविशेषाभावात् / नापि क्रियावत्वं पाचकादिवदविक्रियत्वात् / नापि गुणवत्वं नीलादिवन् निर्गुणत्वात् / अतो नाभिधानेन निर्देशम् अर्हति /
SK
शशविषाणादिसमत्वान् निरर्थकत्वं तर्हि /
SK
नात्मत्वावगमे तुरीयस्यानात्मतृष्णाव्यावृत्तिहेतुत्वाच् छुक्तिकावगम इव रजततृष्णायाः / न हि तुरीयस्यात्मत्वावगमे सत्यविद्यातृष्णादिदोषाणां सम्भवो ऽस्ति / न च तुरीयस्याऽत्मत्वानवगमे कारणमस्ति सर्वोपनिषदां तादर्थ्येनोपक्षयात् / ᳚तत्वमसि᳚(छा.उ.६.८.१६)᳚अयमात्मा ब्रह्म᳚(बृ.उ.२.५.१९)᳚तत्सत्यं स आत्मा᳚(छा.उ.६.८.१६)᳚यत्साक्षादषरोक्षाद्ब्रह्म᳚(बृ.उ.३.४.१)᳚सबाह्याभ्यन्तरो ह्यजः᳚(मु.उ.२.१.२) / ᳚आत्मैवेदं सर्वम्᳚(छा.उ.७.२५.२) इत्यादीनाम् /
SK
सो ऽयम् आत्मा परमार्थापरमार्थरूपश् चतुष्पाद इत्य् उक्तस् तस्यापरमार्थरूपम् अविद्याकृतं रज्जुसर्पादिसमम् उक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् / अथेदानीं बीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयानिराकरणेनाह नान्तः प्रज्ञमित्यादि /
SK
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् | अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवम् अद्वैतं चतुर्थं मन्यन्ते | स आत्मा स विज्ञेयः || Mअन्द्Uप्_७ ||
SK
__________
SK
Mअन्द्Uप्C_७ नन्व् आत्मनश् चतुष्पात्वं प्रतिज्ञाय प्रादत्रयकथनेन एव चतुर्थस्यान्तः प्रज्ञादिभ्यो अन्यत्वे सिद्धे नान्तः प्रज्ञ इत्यादि प्रतिषेधो ऽनर्थकः / न सर्पादिविकल्पप्रतिषेधेन एव रज्जुस्वरूपप्रतिपत्तिवत्त्र्यवस्थस्य एवात्मनस् तुरीयत्वेन प्रतिपिपादयिषितत्वात् / ᳚तत्त्वमसि᳚(छा.उ.६.८.१६) इतिवत् / यदि हि त्र्यवस्थात्मविलक्षणं तुरीयम् अन्यत् तत्प्रतिपत्तिद्वाराभावाच्छास्त्रोपदेशानर्थक्यं शून्यतापत्तिर् वा / रज्जुर् इव सर्पादिभिर्विकल्प्यमाना स्थानत्रये ऽप्य् आत्मैक एवान्तः प्रज्ञादित्वेन विकल्प्यते यदा तदान्तः प्रज्ञत्वादिप्रतिषेधविज्ञानप्रमाणसमकालमेवात्मन्य् अनर्थप्रपञ्चनिवृत्तिलक्षणफलं परिसमाप्तम् इति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा म मृग्यम् / रज्जुसर्पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगयस्य / येषां पुनस् तमो ऽपनयव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेणान्य् अन्यतरावयवे ऽपिच्छिदिर्व्या प्रियत इत्य् उक्तं स्यात् / यदा पुनर्घटतमसो विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिवच्छेद्यावयवसंबन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना तथा नान्तरीयकं घटविज्ञानं न तत् प्रमाणफलम् / न च तद्वद् अप्य् आत्मन्य् अध्यारोपितान्तः प्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्यानुपादित्सितान्तः प्रज्ञत्वदिनिवृत्तिव्यतिरेकेण तुरीये व्यापार उपपत्तिः / अन्तः प्रज्ञत्वादिनिवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः / तथा च वक्ष्यति᳚ज्ञाते द्वैतं न विद्यते᳚(माण्डू.का.१.१८) इति / ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् / अवस्थाने चानवस्थाप्रसङ्गाद् द्वैतानिवृत्तिः / तस्मात् प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैर् वात्मन्य् अध्यारोपितान्तः प्रज्ञत्वाद्यनर्थानिवृत्तिर् इति सिद्धम् /
SK
नान्तः प्रज्ञम् इति तैजसप्रतिषेधो न बहिष्प्रज्ञम् इति विश्वप्रतिषेधः / न उभयतः प्रज्ञम् इति जाग्रत्स्वप्रयोरन्तरालावस्थाप्रतिषेधः / न प्रज्ञानघनम् इति सुषुप्तावस्थाप्रतिषेधो बीजभावाविवेकरूपत्वात् / न प्रज्ञम् इति युगपत्सर्वविषप्रज्ञातृत्वप्रतिषेधः / नाप्रज्ञम् इति चैतन्यप्रतिषेधः /
SK
कथं पुनरन्तः प्रज्ञत्वादीनाम् आत्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत् प्रतिषेधादसत्वं गम्यत इत्य् उच्यते / ज्ञस्वरूपाविशेषे ऽपीतरेतरव्यभिचाराद्रज्ज्वादाव् इव सर्पधारादिविकल्पित भेदवत् सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् /
SK
सुषुप्ते व्यभिचरतीति चेन् न / सुषुप्तस्यानुभूयमानत्वात्᳚न हि विज्ञातुर् विज्ञातेर् विपरलोपो विद्यते᳚(बृ.उ.४.३.३०) इति श्रुतेः /
SK
अत एवादृष्टम् / यस्माद् अदृष्टं तस्माद् अव्यवहार्यम् / अग्राह्यं कर्मेन्द्रियैः / अलक्षणमलिङ्गम् इत्य् एतद् अननुमेय् इत्य् अर्थः / अत एवाचिन्त्यम् / अत एवाव्यपदेश्यं शब्दैः / एकात्मप्रत्ययसारं जाग्रदादिस्थानेष्व् एको ऽयम् आत्मेत्यव्यभिचारी यः प्रत्ययस्तेनानुसरणीयम् / अथवैक आत्मप्रत्ययः सारं प्रमाणं यस्य तुरीयस्याधिगमे तत् तुरीयमेकात्मप्रत्ययसारम् / ᳚आत्मेत्येवोपासीत᳚(बृ.उ.१.४.७) इति श्रुतेः /
SK
अन्तः प्रज्ञत्वादिस्थानिधर्मः प्रतिषेधः कृतः / प्रपञ्च उपशमम् इति जाग्रदादिस्थानधर्माभावोच्यते / अत एव शान्तमविक्रियं शिवं यतो ऽद्वैतं भेदविकल्परहितम् / चतुर्थं तुरीयं मन्यन्ते प्रतीयमानपादत्रयरूपवैलक्षण्यात् / स आत्मा स विज्ञेय इति प्रतीयमानसर्पभूछिद्रदण्डादिव्यतिरिक्ता यथा रज्जुस् तथा तत्त्वमसीत्यादिवाक्यार्थ आत्मा᳚अदृष्टो द्रष्टा᳚(बृ.उ.३.७.२३)᳚न हि द्रष्टुर् दृष्टेविपरिलोपो विद्यते᳚(बृ.उ.४.३.२३) इत्यादिभिरुक्तो यः / स विज्ञेय इति भूतपूर्वगत्या ज्ञाते द्वैताभावः
SK
START Mअन्द्Uप्K १.१०
SK
अत्रैते श्लोका भवन्ति
SK
निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः / अद्वैतः सर्वभावानां देवास् तुर्यो विभुः स्मृतः // Mअन्द्Uप्K_१.१० //
SK
Mअन्द्Uप्KC_१.१० प्राज्ञतैजसविश्वलक्षणानां सर्वदुःखानां निवृत्ते ईशानस् तुरीय आत्मा / ईशान इत्य् अस्य व्याख्यानं प्रभुर् इति / दुःखनिवृत्तिं प्रति प्रभुर् भवतीत्य् अर्थः / तद् विज्ञाननिमित्तत्वाद् दुःखनिवृत्तेः /
SK
अव्ययो न व्येति स्वरूपान् न व्यभिचरतीति यावत् / एतत् कुतः / यस्माद् अद्वैतः सर्वभावानां रज्जुसर्पवन्मृषात्वात् स एष देवो द्योतनात् तुरीयश् चतुर्थो विभुव्यापी स्मृतः
SK
START Mअन्द्Uप्K १.११ विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्यावधारणार्थम्
SK
कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ / प्राज्ञः कारणबद्धस् तु द्वौ तौ तुर्ये न सिध्यतः // Mअन्द्Uप्K_१.११ //
SK
Mअन्द्Uप्KC_१.११ कार्यं क्रियत इति फलभावः / कारणं करोतीति बीजभावः / तत्त्वाग्रहणान् यथाग्रहणाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ संगृहीताविष्येते / प्राज्ञस् तु बीजभावेनैव बद्धः / तत्त्वाप्रतिबोधमात्रम् एव हि बीजं प्राज्ञत्वे निमित्तम् / ततो द्वौ तौ बीजफलभावौ तत्वाग्रहणान् यथा ग्रहणे तुर्ये न सिध्यतो न विद्येते न सम्भवत इत्य् अर्थः
SK
START Mअन्द्Uप्K १.१२
SK
कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रहणान् यथाग्रहणलक्षणौ बन्धौ न सिध्यत इति / यस्मात्
SK
नात्मानं न पराश् चैव न सत्यं न अपि चानृतम् / प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा // Mअन्द्Uप्K_१.१२ //
SK
Mअन्द्Uप्KC_१.१२ आत्मविलक्षणम् अविद्याबीजप्रसूतं बाह्यं द्वैतं प्राज्ञो न किञ्चन संवेत्ति तथा विश्वतैजसौ / ततश् चासौ तत्त्वाग्रहणेन तमसान्यथा ग्रहणबीजभूतेन बद्धो भवति / यस्मात् तुरीयं तत्सर्वदृक्सदा तुरीयादन्यस्याभावात् सर्वदा सदैवैति सर्वं च तद्द्दृक्चेति सर्वदृक् तस्मान् न तत्त्वाग्रहणलक्षणं बीजं तत्र / तत् प्रसूतस्यान्यथाग्रहणस्याप्यतैवाभावो न हि सवितरि सदा प्राकाशात्मके तद् विरुद्धम् अप्रकाशनम् अन्यथा प्रकाशनं वा सम्भवति / ᳚न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते᳚
SK
(बृ.उ.४ / ३ / २३) इति श्रुतेः /
SK
अथ वा जाग्रत्स्वप्नयोः सर्वभूतावस्थः सर्ववस्तुदृगाभासस् तुरीयैवेति सर्वदृक्सदा᳚नान्यद् अतो ऽस्ति द्रष्टृ᳚(बृ.उ.३.८.११) इत्यादि श्रुतेः
SK
START Mअन्द्Uप्K १.१३
SK
द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः / बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते // Mअन्द्Uप्K_१.१३ //
SK
Mअन्द्Uप्KC_१.१३ निमित्तान्तरप्राप्ताशङ्कानिवृत्यर्थो ऽयं श्लोकः / कथं द्वैताग्रहणस्य तुल्यत्वात् कारणबद्धत्वं प्राज्ञस्य एव न तुरीयस्येति प्राप्ताशङ्का निवर्त्यते /
SK
यस्माद्बीजनिद्रायुतस् तत्त्वाप्रतिबोधो निद्रा / स एव च विशेषप्रतिबोधप्रसवस्य बीजं सा बीजनिद्रा तया युतः प्राज्ञः / सदा दृक्स्वभावत्वात् तत्त्वाप्रतिबोधलक्षणा निद्रा तुरीये न विद्यते ऽतो न कारणबन्धस्तस्मिन्नित्याभिप्रायः
SK
START Mअन्द्Uप्K १.१४
SK
स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया / न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चितः // Mअन्द्Uप्K_१.१४ //
SK
Mअन्द्Uप्KC_१.१४ स्वप्नो ऽन्यथाग्रहणं सर्प इव रज्ज्वाम् / निद्रोक्ता तत्त्वाप्रतिबोधलक्षणं तम इति / ताभ्यां स्वप्ननिद्राभ्यां युक्तौ विश्वतैजसौ / अतस् तौ कार्यकारणबद्धाव् इत्य् उक्तौ / प्राज्ञस् तु स्वप्नवर्जितकेवलैव निद्रया युत इति कारणबद्ध इत्य् उक्तम् / नोभयं पश्यन्ति तुरीये निश्चिता ब्रह्मविदो विरुद्धत्वात् सवितरीव तमः / अतो न कार्यकारणबद्ध इत्य् उक्तस् तुरीयः
SK
START Mअन्द्Uप्K १.१५
SK
कदा तुरीये निश्चितो भवतीत्युच्यते
SK
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः / विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते // Mअन्द्Uप्K_१.१५ //
SK
Mअन्द्Uप्KC_१.१५ स्वप्नजागरितयोरन्यथा रज्वां सर्प इव गृह्णतस्तत्त्वं स्वप्नो भवति / निद्रा तत्त्वम् अजानतस् तिसृष्ववस्थासु तुल्या / स्वप्ननिद्रयोस् तुल्यत्वाद् विश्वतैजसयोर् एकराशित्वम् / अन्यथाग्रहणप्राधान्याच् च गुणभूता निद्रेति तस्मिन् विपर्यासः स्वप्नः / तृतीये तु स्थानेतत्त्वाज्ञानलक्षणा निद्रैव केवला विपर्यासः /
SK
अतस् तयोः कार्यकारणस्थानयोर् अन्यथाग्रहणाग्रहणलक्षणविपर्यासे कार्यकारणबन्धरूपे परमार्थतत्वप्रितबोधतः क्षीणे तुरीयं पदम् अश्नुते / तदोभयलक्षणं बन्धरूपं तत्रापश्यंस् तुरीये निश्चितो भवतीत्य् अर्थः
SK
START Mअन्द्Uप्K १.१६
SK
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते / अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा // Mअन्द्Uप्K_१.१६ //
SK
Mअन्द्Uप्KC_१.१६ यो ऽयं संसारी जीवः सोभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मनान्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वप्नेन ममायं पिता पुत्रो ऽयं नप्ता क्षेत्रं पशवो ऽहम् एषां स्वामी सुखी दुःखी क्षयितो ऽहम् अनेन वर्धितश् चानेन इत्य् एवंप्रकारान् स्वप्नान् स्थानद्वये ऽपि पश्यन् सुप्तः / यदा वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा नास्यैवं त्वं हेतुफलात्मकः किं तु तत्त्वम् असीति प्रतिबोध्यमानस् तदैवं प्रतिबुध्यते कथम्? नास्मिन् बाह्यम् आभ्यन्तरं वा जन्मादिभावविकारो ऽस्त्य् अतो ऽजं सबाह्याभ्यन्तरसर्वभाविकारवर्जितम् इत्यर्थः / यस्माज् जन्मादिकारणभूतं नास्मिन्न् अविद्यातमोबीजं निद्रा विद्यत इत्य् अनिद्रम् / अनिद्रं हि तत् तुरीयमत एवास्वप्नं तन् निमित्तत्वाद् अन्यथाग्रहणस्य / यस्माच् चानिद्रम् अस्वप्नं तस्माद् अजम् अद्वैतं तुरीयम् आत्मानं बुध्यते तदा
SK
START Mअन्द्Uप्K १.१७
SK
प्रपञ्चनिवृत्या चेत् प्रतिबुध्यते ऽनिवृत्ते प्रपञ्चे कथम् अद्वैतम् इत्य् उच्यते
SK
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः / मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः // Mअन्द्Uप्K_१.१७ //
SK
Mअन्द्Uप्KC_१.१७ सत्यम् अवं स्यात् प्रपञ्चो यदि विद्येत रज्ज्वां सर्प इव कल्पितत्वान् न तु स विद्यते / विद्यमानश् चेन् निवर्तेत न संशयः / न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः / नैव माया मायाविना प्रयुक्ता तद् दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता / तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवन् मायाविवच्चद्वैतं परमार्थतस् तस्मान् न कश्चित् प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीतीत्य् अभिप्रायः
SK
START Mअन्द्Uप्K १.१८ ननु शास्ता शास्त्रं शिष्य इति विकल्पः कथं निवर्तत इत्य् उच्यते
SK
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् / उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते // Mअन्द्Uप्K_१.१८ //
SK
Mअन्द्Uप्KC_१.१८ विकल्पो विनिवर्तेत यदि केनचित् कल्पितः स्यात् / यथायं प्रपञ्चो मायारज्जुसर्पवत् तथायं शिष्यादि भेदविकल्पो ऽपि प्राक् प्रतिबोधादेवोपदेशनिमित्तो ऽतोपदेशादयं वादः शिष्यः शास्ता शास्त्रम् इति / उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्वे द्वैतं न विद्यते
SK
_______________________________________________________________________
SK
START Mअन्द्Uप् ८ अभिधेयप्रधान ॐकारश् चतुष्पादात्मेति व्याख्यातो यः
SK
सो ऽयम् आत्माध्यक्षरम् ॐकारः | अधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति || Mअन्द्Uप्_८ ||
SK
__________
SK
Mअन्द्Uप्C_८ सो ऽयम् आत्माध्यक्षरमक्षरम् अधिकृत्याभिधानप्राधान्येन वर्ण्यमानो ऽध्यक्षरम् / किं पुनस् तदक्षरम् इत्य् आह ॐकारः / सो ऽयम् ॐकारः पादशः प्रविभज्यमानो ऽधिमात्रं मात्राम् अधिकृत्य वर्तत इत्य् अधिमात्रम् / कथम्? आत्मनो ये पादास्त ॐकारस्य मात्राः / कास् ताः? अकारोकारो मकार इति
SK
_______________________________________________________________________
SK
START Mअन्द्Uप् ९
SK
तत्र विशेषनियमः क्रियते
SK
जागरितस्थानो वैश्वानरः अकारः प्रथमा मात्राप्तेरादिमत्त्वाद् वा | आप्नोति ह वै सर्वान् कामान् आदिश् च भवति य एवं वेद || Mअन्द्Uप्_९ ||
SK
__________
SK
Mअन्द्Uप्C_९ जागरितस्थानो वैश्वानरो यः स ॐकारस्याकारः प्रथमा मात्रा / केन सामान्येनेत्य् आह आप्तेराप्तिर्व्याप्तिकारेण सर्वा वाग् व्याप्ता / ᳚अकारो वै सर्वा वाक्᳚(ऐ.आ.२ / ३ / ६) इति श्रुतेः / तथा वैश्वानरेण जगत्᳚तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः᳚(छा.उ.५ / १८ / २) इत्यादि श्रुतेः / अभिधानाभिधेययरेकत्वं चावोचाम / आदिरस्य विद्यत इत्यादि मद्यथैवादिमदकाराख्यमक्षरं तथैव वैश्वानरस् तस्माद् वा सामान्याद् अकारत्वं वैश्वानरस्य / तद् एकत्वविदः फलम् आह आप्नोति ह वै सर्वान् कामानादिः प्रथमश् च भवति महतां य एवं वेद यदोक्तम् एकत्वं वेदेत्य् अर्थः
SK
_______________________________________________________________________
SK
START Mअन्द्Uप् १०
SK
स्वप्नस्थानस् तैजस उकारो द्वितीया मात्रोत्कर्षाद् उभयत्वाद् वा | उत्कर्षति ह वै ज्ञानसंततिं | समानश् च भवति | नास्याब्रह्मवित् कुले भवति य एवं वेद || Mअन्द्Uप्_१० ||
SK
__________
SK
Mअन्द्Uप्C_१० स्वप्नस्थानस् तैजसो यः स ॐकारस्योकारो द्वितीया मात्रा / केन सामान्येत्य् आहोत्कर्षात् / अकाराद् उत्कृष्ट इव ह्य् उकारस् तथा तैजसो विश्वाद् उभयत्वाद् अकारमकारयोर् मध्यस्योकारस् तथा विश्वप्राज्ञयोर् मध्ये तैजसो ऽतोभयभाक्त्वसामान्यात् /
SK
विद्वत्फलमुच्यते उत्कर्षति ह वै ज्ञानसंततिम् / विज्ञानसंततिं वर्धयतीत्य् अर्थः / समानस् तुल्यश् च मित्रपक्षस्यैव शत्रुपक्षाणाम् अप्य् अप्रद्वेष्यो भवति / अब्रह्मविदस्य कुले न भवति य एवं वेद
SK
_______________________________________________________________________
SK
START Mअन्द्Uप् ११
SK
सुषुप्तस्थानः प्राज्ञो मकारः तृतीया मात्रा मितेर् अपीतेर् वा | मिनोति ह वा इदं सर्वम् अपीतिश् च भवति य एवं वेद || Mअन्द्Uप्_११ ||
SK
__________
SK
सुषुप्तस्थानः प्राज्ञो यः स ॐकारस्य मकारस् तृतीया मात्रा / केन सामान्येनेत्य् आह सामान्यमिदम् अत्र मितो ऽमितिर्मानं मीयत इव विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः / प्रवेशनिर्गमाभ्यां प्रस्थेनेत यवास् तथौंकारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इवाकार्ॐकारौ मकारे /
SK
अपीतेर् वा / अपीत्य् अप्य् अय एकीभावः / ॐकार उच्चारणे ह्य् अन्त्याक्षर एकीभूताविवाकार ॐकारौ / तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे / अतो वा सामान्याद् एकत्वं प्राज्ञम् अकारयोः /
SK
विद्वत्फलम् आह मिनोति ह वेदं सर्वं जगद् याथात्म्यं जानातीत्य् अर्थः / अपीतिश् च जगत् कारणात्मा भवतीत्य् अर्थः / अत्राव् अत्रावान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम्
SK
START Mअन्द्Uप्K १.१९
SK
अत्रैते श्लोका भवन्ति
SK
विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कृष्टम् / मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च // Mअन्द्Uप्K_१.१९ //
SK
Mअन्द्Uप्KC_१.१९ विश्वस्यात्वमकारमात्रत्वं यदा विवक्ष्यते तदादित्वसामान्यमुक्तन्यायेनोत्कटमुद्भृतं दृश्यत इत्य् अर्थः / अत्वविवक्षायामित्य् अस्य व्याख्यानं मात्रासंप्रतिपत्ताव् इति / विश्वस्याकारमात्रत्वं यदा संप्रतिपद्यत इत्य् अर्थः / आप्तिसामान्यम् एव चोत्कटम् इत्य् अनुवर्तते च शब्दात्
SK
START Mअन्द्Uप्K १.२०
SK
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् / मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथा विधम् // Mअन्द्Uप्K_१.२० //
SK
Mअन्द्Uप्KC_१.२० तैजसस्यात्वविज्ञानोकारत्वविवक्षायामुत्कर्षो दृश्यते स्फुटं स्पष्ट इत्य् अर्थ उभयत्वं च स्फुटम् एवेति / पूर्ववत् सर्वम्
SK
START Mअन्द्Uप्K १.२१
SK
मकारभावे प्राज्ञस्य मानसाम् अन्यम् उत्कटम् / मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च // Mअन्द्Uप्K_१.२१ //
SK
Mअन्द्Uप्KC_१.२१ मकारत्वे प्राज्ञस्य मितिलयावुत्कृष्टे सामान्य इत्य् अर्थः
SK
START Mअन्द्Uप्K १.२२
SK
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितः / स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः // Mअन्द्Uप्K_१.२२ //
SK
Mअन्द्Uप्KC_१.२२ यथोक्तस्थानत्रये यस्तुल्यम् उक्तं सामान्यं वेत्यवम् एवैतद् इति निश्चितो यः स पूज्यो वन्द्यश् च ब्रह्मविल्लोके भवति
SK
START Mअन्द्Uप्K १.२३ यथोक्तैः सामान्यैर् आत्मपादानां मात्राभिः सहैकत्वं कृत्वा यथोक्तम् ॐकारं प्रतिपद्य यो ध्यायति तम्
SK
अकारो नयते विश्वम् उकारश् चापि तैजसम् / मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः // Mअन्द्Uप्K_१.२३ //
SK
Mअन्द्Uप्KC_१.२३ अकारो नयते विश्वं प्रापयति / अकारालम्बनम् ॐकारं विद्वान् वैश्वानरो भवतीत्य् अर्थः / तथाकारस् तैजसम् / मकारश् चापि पुनः प्राज्ञम् / च शब्दान् नयत इत्य् अनुवर्तते / क्षीणे तु मकारे बीजभावक्षयादमात्र ॐकारे गतिर् न विद्यते क्वचिद् इत्य् अर्थः
SK
_______________________________________________________________________
SK
START Mअन्द्Uप् १२
SK
अमात्रश् चतुर्थो ऽव्यवहार्यः प्रपञ्चोपशमः शिवो ऽद्वैतः | एवम् ॐकार आत्मैव | संविशत्य् आत्मनात्मानं य एवं वेद || Mअन्द्Uप्_१२ ||
SK
__________
SK
Mअन्द्Uप्C_१२ अमात्रो मात्रा यस्य नास्ति स अमात्र ॐकारश् चतुर्थस् तुरीय आत्मैव केवलो ऽभिधानाभिधेयरूपयोर् अवाङ्मनसयोः क्षीणत्वाद् अव्यवहार्यः / प्रपञ्च उपशमः शिवो ऽद्वैतः संवृत्त एवं यथोक्त विज्ञानवता प्रयुक्त ॐकारस् त्रिमात्रस् त्रिपाद आत्मैव / संविशत्य् आत्मना स्वेनैव / स्वं पारमार्थिकम् आत्मानं य एवं वेद / परमार्थदर्शी ब्रह्मवित् तृतीयं बीजभावं दग्ध्वात्मानं प्रविष्ट इति न पुनो जायते तुरीयस्याबीजत्वात् /
SK
न हि रज्जुसर्पयोर् विवेके रज्ज्वां प्रविष्टः सर्पो बुद्धिसंस्कारात् पुनः पूर्ववत्तद् विवेकिनाम् उत्थास्यति / मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च कॢप्तसामान्यविदां यथावद् उपास्यमान ॐकारो ब्रह्मप्रतिपत्तय आलम्बनी भवति तथा च वक्ष्यतिऽआश्रमास् त्रिविधाःऽ(मा.का.३.१६) इत्यादि
SK
(इति माण्डूक्यमूलमन्त्रभाष्यम्)
SK
START Mअन्द्Uप्K १.२४
SK
पूर्ववद् अत्रैते श्लोका भवन्ति
SK
ॐकारं पादशो विद्यात् पादा मात्रा न संशयः / ॐकारं पादशो ज्ञात्वा न किञ्चिद् अपि चिन्तयेत् // Mअन्द्Uप्K_१.२४ //
SK
Mअन्द्Uप्KC_१.२४ यथोक्तैः सामान्यैः पादैव मात्रा मात्राश् च पादास् तस्माद् ॐङ्कारं पादशो विद्याद् इत्यर्थः / एवम् ॐकारे ज्ञाते दृष्टार्थम् अदृष्टार्थं वा न किञ्चित् प्रयोजनं चिन्तयेत् कृतार्थत्वाद् इत्यर्थः
SK
START Mअन्द्Uप्K १.२५
SK
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् / प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् // Mअन्द्Uप्K_१.२५ //
SK
Mअन्द्Uप्KC_१.२५ युञ्जीत समादध्याद्यथाव्याख्याते परमार्थरूपे प्रणवे चेतो मनः / यस्मात् प्रणवो ब्रह्म निर्भयम् / न हि तत्र सदा युक्तस्य भयं विद्यते क्वचित् ऽविद्वान् न बिभेति कुतश्चनऽ(तै.उ.२.९) इति श्रुतेः
SK
START Mअन्द्Uप्K १.२६
SK
प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परः स्मृतः / अपूर्वो ऽनन्तरो ऽबाह्यो ऽनपरः प्रणवो ऽव्ययः // Mअन्द्Uप्K_१.२६ //
SK
Mअन्द्Uप्KC_१.२६ परापरे ब्रह्माणि प्रणवः / परमार्थता क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्मेति न पूर्वं कारणम् अस्य विद्यत इत्य् अपूर्वः / नास्यान्तरं भिन्नजातीयं किञ्चिद् विद्यत इत्य् अनन्तरः / तथा बाह्यम् अन्यन् न विद्यत इत्य् अबाह्यः / अपरं कार्यम् अस्य न विद्यत इत्य् अनपरः / सबाह्याभ्यान्तरो ह्य् अजः सैन्धवघनवत् प्रज्ञानघन इत्यर्थः
SK
START Mअन्द्Uप्K १.२७
SK
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च / एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम् // Mअन्द्Uप्K_१.२७ //
SK
Mअन्द्Uप्KC_१.२७ आदिमध्यान्तोत्पत्तिस्थितिप्रलयाः सर्वस्यैव / मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवद् उत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्यादयः / एवं हि प्रणवमात्मानं मायाव्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तद् आत्मभावं व्यश्नुत इत्य् अर्थः
SK
START Mअन्द्Uप्K १.२८
SK
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् / सर्वव्यापिनम् ॐकारं मत्वा धीरो न शोचति // Mअन्द्Uप्K_१.२८ //
SK
Mअन्द्Uप्KC_१.२८ सर्वप्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितम् ईश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवद् ॐकारम् आत्मानम् असंसारिणं धीरो बुद्धिमान् मत्वा न शोचति / शोकनिमित्तान् अनुपपत्तेः / ᳚तरति शोकम् आत्मवित्᳚(छा.उ.७ / १ / ३) इत्यादि श्रुतिभ्यः
SK
START Mअन्द्Uप्K १.२९
SK
अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः / ॐकारो विदितो येन स मुनिर् नेतारो जनः // Mअन्द्Uप्K_१.२९ //
SK
Mअन्द्Uप्KC_१.२९ अमात्रस् तुरीय ॐकारः / मीयते ऽनयेति मात्रा परिच्छित्तिः सानन्ता यस्य स अनन्तमात्रः / नैतावत्वम् अस्य परिच्छेत्तुं शक्यत इत्यर्थः / सर्वद्वैत उपशमत्वाद् एव शिवः / ॐकरो यथा व्याख्यातो विदितो येन स परमार्थतत्वस्य मननान् मुनिः / नेतरो जनः शास्त्रविदपीत्यर्थः
SK
START Mअन्द्Uप्K २.१
SK
ज्ञाते द्वैतं न विद्यत इत्युक्तम्,᳚एकमेवाद्वितीयम्᳚(छा.उ.६ / २ / १) इत्यादि श्रुतिभ्यः / आगममात्रं तत् / तत्रोपपत्त्यापि द्वैतस्य वैतथ्यं शक्यते ऽवधारयितुम् इति द्वितीयं प्रकरणम् आरभ्यते

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Māṇḍūkya Upaniṣad with commentary: corpustei HTML transform of the Māṇḍūkya with commentary.

Source