3.1 SK उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते / प्रागुत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः // Mअन्द्Uप्K_३.१ //
3.1 SK Mअन्द्Uप्KC_३.१ उपासनाश्रित उपासनामात्मनो मोक्षसाधनत्वेन गत उपासको ऽहं ममोपास्यं ब्रह्म / तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानो ऽजं ब्रह्म शरीरपातादूर्ध्वं प्रतपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च / यदात्मको ऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्य इत्येवमुपासनाश्रितो धर्मः साधको येनैवं क्षुद्रब्रह्मवित्तेनासौ कारणेन कृपणो दीनो ऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिरित्यभिप्रायः / ᳚यद्वाचानभ्युदितं येन वागभ्युद्यते / तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते᳚(के.उ.१ / ४) इत्यादिश्रुतेस्तलवकारणाम्
4 SK सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन्नविद्यया दीनमात्मानं मन्यमानो जातो ऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्य इत्येवं प्रतिपन्नः कृपणो भवति यस्मात्-
3.2 SK अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् / यथा न जायते किञ्चिज् जायमानं समन्ततः // Mअन्द्Uप्K_३.२ //
3.2 SK Mअन्द्Uप्KC_३.२ अतो वक्ष्याम्यकार्पण्यकृपणभावमजं ब्रह्म / तद्धि कार्पण्यास्पदम्᳚यत्रान्यो ऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं मर्त्यमसत्᳚(छा.उ.७ / २४ / १) इत्यादिश्रुतिभ्यः / तद्विपरीतं सबाह्याभ्यन्तरमजकार्पण्यं भूमाख्यं ब्रह्म / यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिस्तत्कार्पण्यं वक्ष्यामीत्यर्थः /
2 SK तदजाति, अविद्यमाना जातिरस्य समतां गतं सर्वसाम्यं गतम् / कस्मात्? अवयववैषम्याभावात् / यद्धि सावयवं वस्तु तदवयववैषम्यं गच्छज्जायत इत्युच्यते / इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटत्यतोजात्यकार्पण्यम् / समन्ततः समन्ताद्यथा न जायते किञ्चिदल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतो ऽजमेव ब्रह्म भवति तथा तं प्रकारं शृण्वित्यर्थः
9 SK अजाति ब्रह्मकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् / तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह-
3.3 SK आत्मा ह्य् आकाशवज्जीवैर् घटाकाशैर् इवोदितः / घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम् // Mअन्द्Uप्K_३.३ //
3.3 SK Mअन्द्Uप्KC_३.३ आत्मा परो हि यस्मादाकाशवत्सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तो जीवैः क्षेत्रज्ञैर्घटाकाशैरिव घटाकाशतुल्य उदित उक्तः स एवाकाशसमः पर आत्मा /
12 SK अथ वा घटाकाशैर्यथाकाश उदित उत्पन्नस्तथा परो जीवात्मभिरुत्पन्नः / जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु सा महाकाशाद्घटाकाशोत्पत्तिसमा न परमार्थ इत्यभिप्रायः /
3 SK तस्मादेवाकाशाद्घटादयः संघाता यथेत्पद्यन्त एवमाकाशस्थानीयात्परमात्मनः पृथिव्यादिभूतसंघाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते / अत उच्यते घटादिवच्च संघातैरुदित इति / यदा मन्दबुद्धिप्रतिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदिताकाशवदित्यादिः
3.4 SK घटादिषु प्रलीनेषु घटाकाशादयो यथा / आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि // Mअन्द्Uप्K_३.४ //
3.4 SK Mअन्द्Uप्KC_३.४ यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः; यथा वा घटादिप्रलये घटाकाशादिप्रलयस्तद्वद्देहादिसंघातोत्पत्त्या जीवोत्पत्तिस्तत्प्रलये च जीवानामिहात्मनि प्रलयो न स्वत इत्यर्थः
18 SK सर्वदेहेष्वात्मैकत्व एकस्मिञ्जननमरणसुखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति य आहुर्द्वैतिनस्तान्प्रतीदमुच्यते-
3.5 SK यथैकस्मिन् घाटाकाशे रजोधूमादिभिर् युते / न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः // Mअन्द्Uप्K_३.५ //
3.5 SK Mअन्द्Uप्KC_३.५ यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते संयुक्ते न सर्वे घटाकाशादयस्तद्रजोधूमादिभिः संयुज्यन्ते तद्वज्जीवाः सुखादिभिः / नन्वेक एवात्मा? बाढम्; ननु न श्रुतं त्वयाकाशवत्सर्वसंघातेष्वेक एवात्मेति? यद्येक एवात्मा तर्हि सर्वत्र सुखी दुःखी च स्यात्? न चेदं साख्यचोद्यं सम्भवति / न हि सांख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् / न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति / भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत्; न प्रधानकृतस्यार्थस्यात्मन्यसमवायात् / यदि हि प्रधाकृतो बन्धो मोक्षो वार्थः पुरुषेषु भेदेन समवैति ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना / न च साख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतो ऽभ्युपगम्यते / निर्विशेषाश्च चेतनमात्रा आत्मानो ऽभ्युपगम्यन्ते / अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धं न तु पुरुषभेदप्रयुक्तमिति / अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः /
21 SK न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साख्यानाम् / परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् / परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुर्नकेनचिद्विशेषेणेति केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च /
22 SK ये त्वाहुर्वैशेषिकादय इच्छादय आत्मसमवायिन इति, तदप्यसत् / स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् / आत्ममनः संयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्ति / युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः /
23 SK न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मन आदिभिः संबन्धो युक्तः / न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति परेषाम् / यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युरिच्छादयश्चात्मनस्तथा च सति द्रव्येण तेषां सम्बन्दानुपपत्तिः /
24 SK अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत्, न / इच्छादिभ्यो ऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः / आत्मनायुतसिद्धत्वे चेच्छादीनामात्मगतमहत्ववन्नित्यत्वप्रसङ्गः / स चानिष्टः / आत्मनो ऽनिर्मोक्षप्रसङ्गात् /
25 SK समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यं यथा द्रव्यगुणयोः / समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत्तथा च समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्ति / अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ट्यर्थानुपपत्तिः /
5 SK इच्छाद्युपजनापायवद्गुणत्वे चात्मनो ऽनित्यत्वप्रसङ्गः / देहफलादिवत्सावयवत्वं विक्रियावत्वं च देहादिवदेवेति दोषावपरिहार्यौ / यथा त्वाकाशस्याविद्याध्यारोपितरजोधूममलवत्वादिदोषवत्वं तथात्मनो ऽविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्वे बन्धमोक्षादयो व्यवहारिका न विरुध्यन्ते / सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात्परमार्थानभ्युपगमाच्च / तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति
28 SK कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते-
3.6 SK रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै / आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः // Mअन्द्Uप्K_३.६ //
3.6 SK Mअन्द्Uप्KC_३.६ यथेहाकाश एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्वादिरूपाणि भिद्यन्ते तथा कार्यमुदकाहरणधारणशयनादिसमाख्याश्च घटाकाशकरकाकाश इत्याद्यास्तत्कृताश्च भिन्ना दृश्यन्ते / तत्र तत्र वै व्यवहारविषय इत्यर्थः / सर्वो ऽयमाकाशो रूपादिभेदकृतो व्यवहारो न परमार्थ एव / परमार्थतस्त्वाकाशस्य न भेदोस्ति / न चाकाशभेदनिमित्तो व्यवहारो ऽस्त्यन्तरेण परोपाधिकृतं द्वारम् / यथैतत्तद्वेद्दहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतो बुद्धिमद्भिर्निर्णयो निश्चय इत्यर्थः
32 SK ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति? नैतदस्ति, यस्मात्
3.7 SK नाकाशस्य घटाकाशो विकारावयवौ यथा / नैवात्मनः सदा जीवो विकारावयवौ तथा // Mअन्द्Uप्K_३.७ //
3.7 SK Mअन्द्Uप्KC_३.७ परमार्थाकाशस्य घटाकाशो न विकारः; यथा सुवर्णस्य रुचकादिर्यथा वापां फेनबुद्बुदहिमादिः; नाप्यवयवो यथा वृक्षस्य शाखादिः / न तथा०काशस्य घटाकाशो विकारावयवौ यथा तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारो नाप्यवयवः / अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः
36 SK यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारस्तथा देहोबाधिजीवभेदकृतो जन्ममरणादिव्यवहारः / तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्वमात्मनो न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह-
3.8 SK यथा भवति बालानां गगनं मलिनं मलैः / तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः // Mअन्द्Uप्K_३.८ //
3.8 SK Mअन्द्Uप्KC_३.८ यथा भवति लोके बालानामविवेकिनां गगनमाकाशं घनरजोधूमादिमलार्मलिनं मलवन्न गगनं मलवद्याथात्म्यविवेकिनाम्, तथा भवत्यात्मा परो ऽपि यो विज्ञाता प्रत्यक्क्लेशकर्मफलमलैर्मलिनो ऽबुद्धानां प्रत्यगात्मविवकेरहितानां नात्मविवेकवताम् / नह्यूषरदेशस्तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमांस्तथा नात्माबुधारोपितक्लेशादिमलैर्मलिनो भवतीत्यर्थः
40 SK पुनरप्युक्तमेवार्थं प्रपञ्चयति-
3.9 SK मरणे संभवे चैव गत्यागमनयोर् अपि / स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः // Mअन्द्Uप्K_३.९ //
3.9 SK Mअन्द्Uप्KC_३.९ घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः
43 SK START Mअन्द्Uप्K ३.१०
3.10 SK संघाताः स्वप्नवत् सर्वे आत्ममायाविसर्जिताः / आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते // Mअन्द्Uप्K_३.१० //
3.10 SK Mअन्द्Uप्KC_३.१० घटादिस्थानीयास्तु देहादिसंघाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्चात्ममायाविसर्जिताः; आत्मनो मायाविद्या तया प्रत्युपस्थापिता न परमार्थतः सन्तीत्यर्थः / यद्याधिक्यमधिकभावस्तिर्ग्देहाद्यपेक्षया देवादिकार्यकरणसंघातानां यदि वा सर्वेषां समतैव नैषामुपपत्तिः सम्भवः सद्भाप्रतिपादको हेतुर्विद्यते नास्ति, हि यस्मात्तस्मादविद्याकृता एव न परमार्थतः सन्तीत्यर्थः
46 SK START Mअन्द्Uप्K ३.११ उत्पत्त्यादिवर्जितस्याद्वयस्यात्मतत्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते-
3.11 SK रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके / तेषाम् आत्मा परो जीवः खं यथा संप्रकाशितः // Mअन्द्Uप्K_३.११ //
3.11 SK Mअन्द्Uप्KC_३.११ रसादयो ऽन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिर्भावात्पूर्वपूर्वस्य व्याख्याता विस्पष्टमाख्यातास्तैत्तिरीयके तैत्तिरीयकशाखोपनिषद्वल्ल्यां तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्मवन्तो ऽन्तरतमेन, स हि सर्वेषां जीवननिमित्तत्वाज्जीवः / को ऽसावित्याह-पर एवात्मा यः पूर्वम्᳚सत्यं ज्ञानमनन्तं ब्रह्म᳚(तै.उ.२ / १) इति प्रकृतः / यस्मादात्मनः स्पप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः संघाता आत्ममायाविसर्जिता इत्युक्तम् / स आत्मास्माभिर्यथा खं तथेति संप्रकाशितः᳚आत्मा ह्याकाशवत्᳚(अद्वैत.३) इत्यादिश्लौकैः / न तार्किकपरिकल्पितात्मवत्पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः
49 SK START Mअन्द्Uप्K ३.१२
3.12 SK द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् / पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः // Mअन्द्Uप्K_३.१२ //
3.12 SK Mअन्द्Uप्KC_३.१२ किं चाधिदैवमध्यात्मं च तेजोमयो ऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोराद्वैतक्षयात्परं ब्रह्म प्रकाशितम् / क्वेत्याह- ब्रह्मविद्याख्यं मध्वमृतममृतत्वं मोदनहेतुत्वाद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणं तस्मिन्नित्यर्थः / किमिवेत्याह-पृथिव्यामुदरे चैव यथैक आकाशो ऽनुमानेन प्रकाशितो लोके तद्वदित्यर्थः
3.13 SK START Mअन्द्Uप्K ३.१३ जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते / नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् // Mअन्द्Uप्K_३.१३ //
3.13 SK Mअन्द्Uप्KC_३.१३ यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनो जीवात्मनोरन्यत्वमभेदेन प्रशस्यते स्तूयतेशास्त्रेण व्यासादिभिश्च / यच्च सर्वप्राणिसाधारणं स्वाबाविकं शास्त्रबहिष्कृतैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते᳚न तु तद्द्वीतीयमस्ति᳚(बृ.उ.४ / ३ / २३) ᳚द्वितीयाद्वै भयं भवति᳚(बृ.उ.१ / ४ / २) ᳚उदरमन्तरं कुरुते, अत तस्य भयं भवति᳚(तै.उ.२ / ७ / १) ᳚इदं सर्वं यदयमात्मा᳚(बृ.उ.२ / ४ / ६, ४ / ५ / ७) ᳚मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति᳚(क.उ.२ / १ / १०) इत्यादिवाक्यैश्चान्यैश्च ब्रह्मविद्भिः / यच्चैतत्तदेवं हि समञ्जसमृज्ववबोधं न्याय्यमित्यर्थः / यास्तु तार्किकपरिकल्पिताः कुदृष्टयस्ता अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः
54 SK START Mअन्द्Uप्K ३.१४
3.14 SK जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितम् / भविष्यद्वृत्या गौणं तन् मुख्यत्वं हि न युज्यते // Mअन्द्Uप्K_३.१४ //
3.14 SK Mअन्द्Uप्KC_३.१४ ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेरुत्पत्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे ऽनेकशः कामभेदत इदङ्कामो ऽदःकाम इति; परश्च᳚स दाधार पृथिवीं द्याम्᳚(ऋ.सं.१० / १२ / १) इत्यादिमन्त्रवर्णैः; तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति?
57 SK अत्रोच्यते-᳚यतो वे९मानि भूतानि जायन्ते᳚(तै.उ.३ / १) ᳚यथाग्नेः क्षुद्रा विस्फुलिङ्गाः᳚(बृ.उ.२ / १ / १०) ᳚तस्माद्वै९तस्मादात्मन आकाशः संभूतः᳚(तै.उ.२ / १ / २) ᳚तदैक्षत᳚(छा.उ.६ / २ / ३) ᳚तत्तेजोसृजत᳚(छा.उ.६ / २ / ३) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितिं यत्तन्न परमार्थम् / किं तर्हि? गौणं महाकाशघटाकाशादिभेदवत् / यथौदनं पचतीति भविष्यद्वृत्त्या यद्वत् / न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थत्वमुपपद्यते / स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् /
58 SK इव चोपानिषत्सूत्पत्तिप्रलयादिवाक्यैर्जीवपरमात्मनोरेकत्वमेव प्रतिपिपादयिषितम्᳚तत्त्वमसि᳚ (छा.उ.६ / ८ -१६)᳚अन्यो ऽसावन्यो ऽहमस्मीति न स वेद᳚(बृ.उ.१ / ४ / १०) इत्यादिभिः / अत उपनिषत्स्व् एकत्वं श्रुत्या प्रतिपादयिषितं भविष्यतीति भाविनीमेकवृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः /
14 SK अथ वा᳚तदैक्षत᳚ (छा.उ.६ / २ / ३) ᳚तत्तोजो ऽसृजत᳚(छा.उ.६ / २ / ३) इत्याद्युत्पत्तेः प्राक्᳚एकमेवाद्वितीयम्᳚(छा.उ.६ / २ / २) इत्येकत्वं प्रकीर्तितम् / तदेव च᳚तत्सत्यं स आत्मा तत्त्वमसि᳚(छा.उ.६ / ८ -१६) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानं तद्गौणम्, यथोदनं पचतीति तद्वत्
60 SK START Mअन्द्Uप्K ३.१५
61 SK ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयं तथाप्युत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति, मैवम्; अन्यार्थत्वादुत्पत्तिश्रुतीनाम् / पूर्वमपि परिहृत्य एवायं दोषः स्वप्नवदात्ममायाविसर्जिताः संघाता घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति / इत एवोत्पत्तिभेदादिश्रुतिभ्य आकृष्ये७ह पुनरुत्पत्तिश्रुतीनामैदंपर्यप्रतिपिपादयिषयोपन्यासः-
3.15 SK मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा / उपायः सो ऽवताराय नास्ति भेदः कथञ्चन // Mअन्द्Uप्K_३.१५ //
3.15 SK Mअन्द्Uप्KC_३.१५ मृल्लोकविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिर्या चोदिता प्रकाशितान्यथान्यथा च स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारयोपायो ऽस्माकम् / यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय / तदप्यसिद्धमिति चेत् / न; शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् / यदि हि संवादः परमार्थ एवाभूदेकरूप एव संवादः सर्वशाखास्वश्रोष्यत विरुद्धानेकप्रकारेण नाश्रोष्यत / श्रूयते तु; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् / तथोत्पत्तिवाक्यानि प्रत्येतव्यानि / कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत्? न; निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण / न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् / तथात्वप्रतिपत्तये ध्यानार्थमिति चेन्न; कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् / तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव नान्यार्थाः कल्पयितुं युक्ताः / अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन
64 SK START Mअन्द्Uप्K ३.१६
65 SK यदि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थः सन्᳚एकमेवाद्वितीयम्᳚ (छा.उ.६ / २ / २) इत्यादिश्रुतिभ्यो ऽसदन्यत्किमर्थेयमुपासनोपदिष्टा᳚आत्मा वा९रे द्रष्टव्यः᳚(बृ.उ.२ / ४ / ५) ᳚य आत्मापहतपाप्मा᳚(छा.उ.८ / ७ / १,३) ᳚स क्रतुं कुर्वीत᳚(छा.उ.३ / १४ / १) ᳚आत्मेत्येवोपासीत᳚(बृ.उ.१ / ४ / ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि? शृणु तत्र कारणम्-
3.16 SK आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः / उपासनोपदिष्टेयं तदर्थम् अनुकम्पया // Mअन्द्Uप्K_३.१६ //
3.16 SK Mअन्द्Uप्KC_३.१६ उपासनोपदिष्टेयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च, न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थं दयालुना वेदेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति / ᳚यन्मनसा न मनुते येनाहुर्मनो मतम् / तदेव ब्र्हम त्वं विद्धि नेदं यदिदमुपासते᳚(के.उ.१ / ४) ᳚तत्त्वमसि᳚(छा.उ.६ / ८ -१६)᳚आत्मैवेदं सर्वम्᳚(छा.उ.७ / २५ / ३) इत्यादिश्रुतिभ्यः
68 SK START Mअन्द्Uप्K ३.१७
69 SK शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्शनं तद्बाह्यत्वान्मिथ्यादर्शनमन्यत् / इतश्च मिथ्यादर्थनं द्वैतीनां रागद्वेषादिदोषास्पदत्वात् / कथम्?
3.17 SK स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् / परस्परं विरुध्यन्ते तैरयं न विरुध्यते // Mअन्द्Uप्K_३.१७ //
3.17 SK Mअन्द्Uप्KC_३.१७ स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धर्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः / एवमेवैष परमार्थो नान्यथेति तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तम् एव परस्परमन्योन्यं विरुध्यन्ते /
17 SK तैरन्योन्यविरोधिभिरस्मदीयो ऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते यथा स्वहस्तपादादिभिः / एवं रागद्वेषादिदोषानास्पदात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः
73 SK START Mअन्द्Uप्K ३.१८
74 SK केन हेतुना तैर्न विरुध्यत इत्युच्यते-
3.18 SK अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते / तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते // Mअन्द्Uप्K_३.१८ //
3.18 SK Mअन्द्Uप्KC_३.१८ अद्वैतं परमार्थो हि यस्मादद्वैतं नानात्वं तस्याद्वैतस्य भेदस्तद्भेदस्तस्य कार्यमित्यर्थः / ᳚एकमेवाद्वितीयम्᳚(छा.उ.६ / २ / २) ᳚तत्तेजो ऽसृजत᳚(छा.उ.६ / २ / ३) इति श्रुतेरूपपत्तेश्च स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ चाभावात् / अतस्तद्भेद उच्यते द्वैतम् /
77 SK द्वैतिनां तु तेषां परमार्थतश्चापरमार्थतश्चोभयथापि द्वैतमेव / यदि च तेषां भ्रान्तानां द्वैतदृष्टिरस्माकमद्वैतदृष्टिरभ्रान्तानाम्, तेनायं हेतुनास्मत्पक्षे न विरुध्यते तैः / ᳚इन्द्रो मायाभिः षुरुरूप ईयते᳚ (बृ.उ.२ / ५ / ११) ᳚न तु तद्द्वितीयमस्ति᳚(बृ.उ.४ / ३ / २३) इति श्रुतेः /
28 SK यथा मत्तगजारूढ उन्मत्तं भूमिष्ठं प्रति गजारूढोहं गजं वाहय मां प्रतीति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वत् / ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् / तेनायं हेतुनास्मत्पक्षो न विरुद्ध्यते तैः
79 SK START Mअन्द्Uप्K ३.१९
80 SK द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात् कस्यचिदाशङ्केत्यत आह-
3.19 SK मायया भिद्यते ह्य् एतन् नान्यथाजं कथञ्चन / तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत् // Mअन्द्Uप्K_३.१९ //
3.19 SK Mअन्द्Uप्KC_३.१९ यत्परमार्थसदद्वैतं मायया भिद्यते ह्येतचैमिरिकानेकचन्द्रवद्रज्जुः सर्पधारादिभिर्भेदैरिव न परमार्थतो निरवयवत्वादात्मनः / सावयवं ह्यवयवान्यथात्वेन भिद्यते / यथा मृद् घटादिभेदैः / तस्मान्निरवयवमजं नान्पथा कथञ्चन केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः /
19 SK तत्त्वतो भिद्यमाने ह्यमृतमजमद्वयं स्वभावतः सन्मर्त्यतां व्रजेत्; यथाग्निः शीतताम् / तच्चानिष्टं स्वभाववैपरीत्यगमनम्, सर्वप्रमाणविरोधात् / अजमव्ययमात्मतत्त्वं माययैव भिद्यते न परमार्थतः / तस्मान्न परमार्थसदद्वैतम्
84 SK START Mअन्द्Uप्K ३.२०
3.20 SK अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः / अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति // Mअन्द्Uप्K_३.२० //
20 SK ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूका अजातस्यैवात्मतत्त्वस्य अमृतस्य स्वभावतो जातिम् उत्पत्तिमिच्छन्ति परमार्थत एव तेषां जातं चेत्तदेव मर्त्यतामेष्यत्यवश्यम् / स चाजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः
87 SK START Mअन्द्Uप्K ३.२१
3.21 SK न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा / प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति // Mअन्द्Uप्K_३.२१ //
21 SK न भवत्यमृतं लोकेनापि मर्त्यममृतं तथा / ततः प्रकृतेः स्वभावस्यान्यथाभावः स्वतः प्रच्युतिर्न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य
91 SK START Mअन्द्Uप्K ३.२२
3.22 SK स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् / कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः // Mअन्द्Uप्K_३.२२ //
22 SK यस्य पुनर्वादिनः स्वभावेनामृतो भावो मर्त्यतां गच्छति परमार्थतो जायते तस्य प्रागुत्पत्तेः स भावः स्वभावतो ऽमृत इति प्रतिज्ञा मृषैव / कथं तर्हि कृतकेनामृतस्तस्य भावः? कृतकेनामृतः स कथं स्थास्यति निश्चलो ऽमृतस्वभावस्तथा न कथञ्चित्स्थास्यत्यात्मजातिवादिनः सर्वदाजं नाम नास्त्येव; सर्वमेतन्मर्त्यम् / अतो ऽनिर्मोक्षप्रसङ्ग इत्यभिप्रायः
94 SK START Mअन्द्Uप्K ३.२३
95 SK नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न संगच्छते प्रामाण्यम्? बाढं विद्यते सृष्टिप्रतिपादिका श्रुतिः; सा त्वन्यपरा / उपायः स अवतारायेत्यवोचाम / इदानीमुक्ते ऽपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधाशङ्कामात्रपरिहारार्थौ-
3.23 SK भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः / निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत् // Mअन्द्Uप्K_३.२३ //
3.23 SK Mअन्द्Uप्KC_३.२३ भूततः परमार्थतः सृज्यमाने वस्तुन्यभूततो मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः / ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतपत्तिर्युक्ता / न, अन्यथा सृष्टेरप्रसिद्धत्वान्निष्प्रयोजनत्वाच्चेत्यवोचाम / अविद्यासृष्टविषयैव सर्वा गौणी मुख्या च सृष्टिर्न परमार्थतः᳚सबाह्याभ्यन्तरो ह्यजः᳚(मु.उ.२ / १ / २) इति श्रुतेः /
23 SK तस्माच्छ्रुत्या निश्चितं यदेकमेवाद्वितीयमजममृतमिति युक्तियुक्तं च युक्त्या च सम्पन्नं तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः / तदेव श्रुत्यर्थो भवति नेतरत्कदाचिदपि
99 SK START Mअन्द्Uप्K ३.२४
100 SK कथं श्रुतुनिश्चयः? इत्याह-
3.24 SK नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि / अजायमानो बहुधा मायया जायते तु सः // Mअन्द्Uप्K_३.२४ //
3.24 SK Mअन्द्Uप्KC_३.२४ यदि हि भूतत एव सृष्टिः स्यात्ततः सत्यमेव नाना वस्त्विति तदभावप्रदर्शनार्थमाम्नायो न स्यात् / अस्ति च᳚नेह नानास्ति किञ्चन᳚(क.उ.२ / १ / ११) इत्यादिराम्नायो द्वैतभावप्रतिषेधार्थः / तस्मादात्मैकत्वप्रतिपत्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् / ᳚इन्द्रो मायाभिः᳚ (बृ.उ.३ / ५ / १९) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् / ननु प्रज्ञावचनो मायाशब्दः / सत्यम्; इन्द्रियप्रज्ञाया अवद्यामयत्वेन मायात्वभ्युपगमाददोषः / मायाभिरिन्द्रियप्रज्ञाभिर् अविद्यारूपाभिरित्यर्थः᳚अजायमानो बहुधा विजायते᳚इति श्रुतेः, तस्मान्माययैव जायते तु स / तु शब्दो ऽवधारणार्थः- माययैवेति / न ह्यजायमानत्वं बहुधा जन्मचैकत्र सम्भवति, अग्नाविव शैत्यमोष्ण्यं च / फलवत्वाच्चात्मैकत्वदर्शनमेव श्रुतिनिश्चितोर्ऽथः᳚तत्र को मोहः कः शोक एकत्वमनुपश्यतः᳚(ई.उ.७) इत्यादिमन्त्रवर्णात्;᳚मृत्योः स मृत्युमाप्नोति᳚(क.उ.२ / १ / १०) इति निन्दितत्वाच्च सृष्ट्यादिभेददृष्टेः
103 SK START Mअन्द्Uप्K ३.२५
3.25 SK संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते / को न्व् एनं जनयेद् इति कारणं प्रतिषिध्यते // Mअन्द्Uप्K_३.२५ //
3.25 SK Mअन्द्Uप्KC_३.२५ ᳚अन्धं तमः प्रविशति ये सम्भूतिमुपासते᳚(ई.उ.१२) इति संभूतेरुपास्यत्वापवादात्संभवः प्रतिषिध्यते / न हि परमार्थतः संभूतायां संभूतौ तदपवाद उपपद्यते /
106 SK ननु विनाशेन संभूतेः समुच्चयविध्यर्थः संभूत्यपवादः / यथा᳚अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते᳚(ई.उ.९) इति /
107 SK सत्यमेव देवतादर्शनस्य संभूतिविषयस्य विनाशशब्दवाच्यस्य कर्मणः समुच्चयविधानार्थः संभूत्यपवादः /
108 SK तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्वम् / एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यादतो मृत्योरतितरणार्थादेवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या /
109 SK एवमेव एषणालक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयकी परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्यामृतत्वसाधनैकेन पुरुषेण सम्बध्यमानाविद्यया समुच्चीयत इत्युच्यते / अतो ऽन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपोक्ष्य निन्दार्थं एव भवति संभूत्यपवादः / यद्यप्यशुद्धिवियोगहेतुर् अतन्निष्ठत्वात् / अत एव संभूतेर् अपवादात्संभूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः संभवः प्रतिषिध्यते /
25 SK एवं मायानिर्मितस्यैव जीवस्याविद्यया प्रत्युपस्थापितस्याविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् / न हि रज्ज्वामविद्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् / तथा न कश्चिदेनं जनयेदिति को न्वित्याक्षेपार्थत्वात्कारणं प्रितषिध्यते / अविद्योद्भूतस्य नष्टस्य जनयितृकारणं न किञ्चिदस्तीत्यभिप्रायः᳚नायं कुतश्चिन्न बभूव कश्चित्᳚(क.उ.१ / २ / १८) इति श्रुतेः
111 SK START Mअन्द्Uप्K ३.२६
3.26 SK स एष नेति नेतीति व्याख्यातं निह्नुते यतः / सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते // Mअन्द्Uप्K_३.२६ //
3.26 SK Mअन्द्Uप्KC_३.२६ सर्वविशेषप्रतिषेधेन᳚अथात आदेशो नेति नेति᳚(बृ.उ.२ / ३ / ६) इति प्रतिपादितस्यात्मनो दुर्बोध्यत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्व्याख्यातं तत्सर्वं निह्नते, ग्राह्यं जनिमद्बुद्धिविषयमपलपति / अर्थात्᳚स एष नेति नेति᳚(बृ.उ.३ / १ / २६) इत्यात्मनो ऽदृश्यतां दर्शयन्ती श्रुतिः
26 SK उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्योपेयवद्ग्राह्यता मा भूदित्यग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः / ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्यसबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव
115 SK START Mअन्द्Uप्K ३.२७
116 SK एवं हि श्रुतिवाक्यशतैः सबाह्याभ्यन्तरमजमात्मतत्त्वमद्वयं न ततो ऽन्यदस्तीति निश्चितमेतत् / युक्त्या चा७धुनैतदेव पुनर्निर्धार्यत इत्याह-
3.27 SK सतो हि मायया जन्म युज्यते न तु तत्त्वतः / तत्त्वतो जायते यस्य जातं तस्य हि जायते // Mअन्द्Uप्K_३.२७ //
3.27 SK Mअन्द्Uप्KC_३.२७ तत्रैतत्स्यात्सदाग्राह्यमेव चेदसदेवात्मतत्त्वमिति / तन्न, कार्यग्रहणात् / यथा सतो मायाविनो मायया जन्म कार्यम् / एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तम् आत्मानं जगज्जन्ममायास्पदम् अवगमयति / यस्मात्सतो हि विद्यमानात्कारणान्मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते नासतः कारणात् / न तु तत्त्वत एवात्मनो जन्म युज्यते /
119 SK अथ वा सतो विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवन् मायया जन्म युज्यते न तु तत्त्वतो यथा तथाग्राह्यस्यापि सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते / न तु तत्त्वत एवाजस्यात्मनो जन्म /
27 SK यस्य पुनः परमार्थसदजमात्मतत्त्वं जगद्रूपेण जायते वादिनो नहि तस्याजं जायत इति शक्यं वक्तुं विरोधात् / ततस्तस्यार्थाज्जातं जायत इत्यापन्नं ततश्चानवस्था जाताज्जायमानत्वेन / तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम्
121 SK START Mअन्द्Uप्K ३.२८
3.28 SK असतो मायया जन्म तत्त्वतो नैव युज्यते / वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते // Mअन्द्Uप्K_३.२८ //
3.28 SK Mअन्द्Uप्KC_३.२८ असद्वादिनामसतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् / न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते तस्मादत्रासद्वादो दूरत एवानुपपन्ने७त्यर्थः
124 SK START Mअन्द्Uप्K ३.२९
125 SK कथं पुनः सतो माययैव जन्मेत्युच्यते-
3.29 SK यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः / तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः // Mअन्द्Uप्K_३.२९ //
3.29 SK Mअन्द्Uप्KC_३.२९ यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन्नेवं मनः परमार्थविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सद् ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः / तथा तद्वदेव जाग्रज्जागरिते स्पन्दते मायया मनः स्पन्दत इवेत्यर्थः
128 SK START Mअन्द्Uप्K ३.३०
3.30 SK अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः / अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः // Mअन्द्Uप्K_३.३० //
3.30 SK Mअन्द्Uप्KC_३.३० रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेणाद्वयं सद्द्वयाभासं मनः स्वप्ने न संशयः / न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादिद्वयं विज्ञानव्यतिरेकेणास्ति / जाग्रदपि तथैवेत्यर्थः /
30 SK परमार्थसद्विज्ञानमात्राविशेषात्
132 SK START Mअन्द्Uप्K ३.३१
133 SK रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् / तत्र किं प्रमाणमित्यन्वयव्यतिरेकलक्षणमनुमानमाह / कथम्-
3.31 SK मनोदृश्यम् इदं द्वैतं यत् किञ्चित् सचराचरम् / मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते // Mअन्द्Uप्K_३.३१ //
3.31 SK Mअन्द्Uप्KC_३.३१ तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यमिदं द्वैतं सर्वं मन इति प्रतिज्ञा / तद्भावे भावात्तदभावे ऽभावात् / मनसो ह्यमनीभावे निरोधे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इत्यभावात्सिद्धं द्वैतस्यासत्वमित्यर्थः
136 SK START Mअन्द्Uप्K ३.३२
137 SK कथं पुनरमनीभावः? इत्य् उच्यते-
3.32 SK आत्मसत्यानुबोधेन न संकल्पयते यदा / अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् // Mअन्द्Uप्K_३.३२ //
3.32 SK Mअन्द्Uप्KC_३.३२ आत्मैव सत्यमात्मसत्यं मृत्तिकावत्᳚वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्᳚(छा.उ.६ / १ / ४) इति श्रुतेस् तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः / तेन संकल्प्याभावतया न संकल्प्यते, दाह्याभावे ज्वलनमिवाग्नेः, यदा यस्मिन्काले तदा तस्मिन्काले ऽमनस्ताममनोभावं याति; ग्राह्याभावे तन्मनो ऽग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः
140 SK START Mअन्द्Uप्K ३.३३
141 SK यद्यसदिदं द्वैतं केन स्वमजमात्मतत्त्वं विबुध्यते? इत्य् उच्यते-
3.33 SK अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते / ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते // Mअन्द्Uप्K_३.३३ //
3.33 SK Mअन्द्Uप्KC_३.३३ अकल्पकं सर्वकल्पनावर्जितमत एवाजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणाभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः / न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ऽग्न्युष्णवत्᳚विज्ञानमानन्दं ब्रह्म᳚(बृ.उ.३ / ९ / २८) ᳚सत्यं ज्ञानमनन्तं ब्रह्म᳚(तै.उ.२ / १) इत्यादिश्रुतिभ्यः /
33 SK तस्यैव विशेषणं ब्रह्म ज्ञेयं यस्य स्वस्य तदिदं ब्रह्मज्ञेयमौष्ण्यस्येवाग्निवदभिन्नम् / तेनात्मस्वरूपेणाजेन ज्ञानेनाजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यते ऽवगच्छति / नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः
145 SK START Mअन्द्Uप्K ३.३४
146 SK आत्मसत्यानुबोधेन सङ्कल्पमकुर्वद्बाह्यविषयाभावे निरिन्धनाग्निवत्प्रशान्तं निगृहीतं निरुद्धं मनो भवतीत्युक्तम् / एवं च मनसो ह्यमनीभावे द्वैताभावश्चोक्तः / तस्यैवम्-
3.34 SK निगृहीतस्य मनसो निर्विकल्पस्य धीमतः / प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः // Mअन्द्Uप्K_३.३४ //
3.34 SK Mअन्द्Uप्KC_३.३४ निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतो विवेकवतः प्रचारो यः स तु प्रचारो विशेषेण ज्ञेयो योगिभिः / ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तस्थस्य मनसः प्रचारस्तादृश एव निरुद्धस्यापि प्रत्ययाभावाविशेषात्किं तत्र विज्ञेयमिति / अत्रोच्यते- नैवम्; यस्मात्सुषुप्ते ऽन्यः प्रचारो ऽविद्यामोहतमोग्रस्तस्यान्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनस आत्मसत्यानुबोधहुताशविप्लुष्टाविद्यानर्थप्रवृत्तिबीजस्य निरुद्धस्यान्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः / अतो न तत्समः / तस्माद्युक्तः स विज्ञातुमित्यभिप्रायः
149 SK START Mअन्द्Uप्K ३.३५
3.35 SK लीयते हि सुषुप्ते तन् निगृहीतं न लीयते / तद् एव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः // Mअन्द्Uप्K_३.३५ //
3.35 SK Mअन्द्Uप्KC_३.३५ लीयते सुषुप्तो हि यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपमविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निरुद्धं निगृहीतं सन्न लीयते तमोबीजभावं नापद्यते / तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः /
153 SK यथा ग्राह्यग्राहकाविद्याकृतमलद्वयवर्जितं तदा परमद्वयं ब्रह्मैव तत्संवृत्तमित्यतस्तदेव निर्भयं द्वैतग्रहणस्य भयनिमित्तस्याभावत् / शान्तमभयं ब्रह्म, यद्विद्वान्न बिभेति कुतश्चन /
35 SK तदेव विशेष्यते ज्ञाप्तिर्ज्ञानमात्मस्वभावचैतन्यं तदेव ज्ञानमालोकः प्राकाशो यस्य तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः / समन्ततः समन्तासर्वतो व्योमवन्नैरन्तर्येण व्यापकमित्यर्थः
155 SK START Mअन्द्Uप्K ३.३६
3.36 SK अजम् अनिन्द्रम् अस्वप्नम् अनामकम् अरूपकम् / सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन // Mअन्द्Uप्K_३.३६ //
3.36 SK Mअन्द्Uप्KC_३.३६ जन्मनिमित्ताभावात्सबाह्याभ्यन्तरमजम् / अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम / सा चाविद्यात्मसत्यानुबोधेन निरुद्धा यतो ऽजमत एवानिद्रम् / अविद्यालक्षणानादिर्माया निद्रा / स्वापात्प्रबुद्धौऽद्वैयस्वरूपेणात्मनातो ऽस्वप्नम् / अप्रबोधकृते ह्यस्यनामरूपे / प्रबोधाच्च ते रज्जुसर्पवद्विनष्ठ इति न नाम्नाभिधीयते ब्रह्म रूप्यते वा न केनचित्प्रकारेणेत्यनामकरूपकं च तत् / ᳚यतो वाचो निवर्तन्ते᳚(तै.उ.२ / ४ / १) इत्यादिश्रुतेः /
36 SK किं च सकृद्विभातं सदैव विभातं सदा भारूपमग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् / ग्रहणाग्रहणे हि रात्र्यहनी तमश्चाविद्यालक्षणं सदाप्रभातत्वे कारणम् / तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति / अत एव सर्वं च तज्ज्ञस्वरूपं चेति सर्वज्ञम् / नेह ब्रह्मण्येवंविध उपचरणमुपचारः कर्तव्यः / यथान्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः / नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसंभवो ऽविद्यानाश इत्यर्थः
159 SK START Mअन्द्Uप्K ३.३७
160 SK अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह-
3.37 SK सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः / सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः // Mअन्द्Uप्K_३.३७ //
3.37 SK Mअन्द्Uप्KC_३.३७ अभिलप्यते ऽनेनेत्यभिलापो वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः / वागत्रोपलक्षणार्था सर्वब्रह्मकरणवर्जित इत्येतत् / तथा सर्वचिन्तासमुत्थितः / चिन्त्यते ऽनयेति चिन्ता बुद्धिस्तस्याः समुत्थितो ऽन्तः करणवर्जित इत्यर्थः᳚अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः᳚ (मु.उ.२ / १ / २) इत्यादिश्रुतेः / यस्मात्सर्वविषयवर्जितो ऽतः सुप्रशान्तः, सकृज्ज्योतिः सदैव ज्योतिरात्मचैन्यस्वरूपेण, समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात्, समाधीयते ऽस्मिन्निति वा समाधिः, अचलो ऽविक्रियः, अत एवाभयो विक्रियाभावात्
163 SK START Mअन्द्Uप्K ३.३८
164 SK यस्माद्ब्रह्मैव समाधिरचलो ऽभय इत्युक्तः-
3.38 SK ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते / आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम् // Mअन्द्Uप्K_३.३८ //
3.38 SK Mअन्द्Uप्KC_३.३८ न तत्र तस्मिन्ब्रह्मणि ग्रहो ग्रहणमुपादानम्, नोत्सर्ग उत्सर्जनं हानं वा विद्यते / यत्र हि विक्रिया तद्विषयत्वं वा तत्र हानोपादाने स्यातां न तद्द्वयमिह ब्रह्मणि संभवति / विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च / अतो न तत्र हानोपादान इत्यर्थः / चिन्ता यत्र न विद्यते / सर्वप्रकारैव चिन्ता न संभवति यत्रामनस्त्वात्कुतस्तत्र हानोपादान इत्यर्थः / यदैवात्मसत्यानुबोधो जातस्तदैवात्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम्, अजाति जातिवर्जितम्, समतां गतं परं साम्यमापन्नं भवति / यदादौ प्रतिज्ञातमतो वक्ष्याम्यकार्पण्यमजाति समतां गतमितीदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते, अजाति समतां गतमिति / एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत्᳚यो वै९तदक्षरं गार्ग्यविदित्वास्माल्लौकात्प्रैति स कृपणः᳚(बृ.उ.३ / ८ / १०) इति श्रुतेः / प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः
167 SK START Mअन्द्Uप्K ३.३९
168 SK यद्यपीदमित्थं परमार्थतत्त्वम्-
3.39 SK अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः / योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः // Mअन्द्Uप्K_३.३९ //
3.39 SK Mअन्द्Uप्KC_३.३९ अस्पर्शयोगो नामायं सर्वसंबन्धाख्यस्पर्शवर्जितत्वादस्पर्शयोगो नाम वै स्मर्यते प्रसिद्धमुपनिषत्सु / दुःखेन दृश्यत इति दुर्दर्शः सर्वैर्योगिभिर् वेदान्तविहितविज्ञानरहितैः सर्वयोगिभिः / आत्मसत्यानुबोधायासलभ्य एवेत्यर्थः /
39 SK योगिनो बिभ्यति ह्यस्मात्सर्वभयवर्जितादप्यात्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्त्य् अभये ऽस्मिन्भयदर्शिनो भयनिमित्तात्मनाशदर्शनशीला अविवेकिन इत्यर्थः
172 SK START Mअन्द्Uप्K ३.४०
173 SK येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत् कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या चाक्षया शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नोपचारः कथञ्चनेत्यवोचाम / ये त्वतो ऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनो ऽन्यदात्मव्यतिरिक्तमात्संबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानाम्-
3.40 SK मनसो निग्रहायत्तम् अभयं सर्वयोगिनाम् / दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च // Mअन्द्Uप्K_३.४० //
3.40 SK Mअन्द्Uप्KC_३.४० मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् / किं च दुःखक्षयो ऽपि, न ह्यात्मसंबन्धिनि मनसि प्रचलिते दुःखक्षयो ऽस्त्य् अविवेकिनाम् / किं चात्मप्रबोधो ऽपि मनोनिग्रहायत्त एव / तथाक्षयापि मोक्षाख्या शान्तिस् तेषां मनोनिग्रहायत्तैव
176 SK START Mअन्द्Uप्K ३.४१
3.41 SK उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना / मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः // Mअन्द्Uप्K_३.४१ //
3.41 SK Mअन्द्Uप्KC_३.४१ मनोनिग्रहो ऽपि तेषामुदधेः कुशाग्रेणैकबिन्दुनो९त्सेचनेन शोषणव्यवसायवद्व्यवसायवतामनवसन्नान्तः करणानामनिर्वेदादपरिखेदतो भवतीत्यर्थः
179 SK START Mअन्द्Uप्K ३.४२
180 SK किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रह उपायः? न, इत्युच्यते /
3.42 SK उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः / सुप्रसन्नं लये चैव यथा कामो लयस् तथा // Mअन्द्Uप्K_३.४२ //
3.42 SK Mअन्द्Uप्KC_३.४२ अपरिखिन्नव्यवसायवान्सन् वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः / किं च लीयते ऽस्मिन्निति सुषुप्तो लयस्तस्मिंल्लये च सुप्रसन्नम् आयासवर्जितं अपी७त्येतत्, निगृह्णीयादित्यनुवर्तते /
42 SK सुप्रसन्नं चेत्कस्मान्निगृह्यत इत्युच्यते / यस्माद्यथा कामो ऽनर्थहेतुस्तथा लयो ऽपि / अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यमित्यर्थः
184 SK START Mअन्द्Uप्K ३.४३
185 SK कः स उपायः? इत्युच्यते-
3.43 SK दुःखं सर्वम् अनुस्मृत्य कामभोगान् निवर्तयेत् / अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति // Mअन्द्Uप्K_३.४३ //
3.43 SK Mअन्द्Uप्KC_३.४३ सर्वं द्वैतमविद्याविजृम्भितं दुःखमेवेत्यनुस्मृत्य कामभोगात्कामनिमित्तो भोग इच्छाविषयस्तस्माद्विप्रसृतं मनो निवर्तयेद्वैराग्यभावनयेत्यर्थः / अजं ब्रह्मसर्वमित्येतच्छास्त्राचार्योपदेशतो ऽनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति, अभावात्
188 SK START Mअन्द्Uप्K ३.४४
3.44 SK लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः / सकषायं विजानीयात् समप्राप्तं न चालयेत् // Mअन्द्Uप्K_३.४४ //
3.44 SK Mअन्द्Uप्KC_३.४४ एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं संबोधयेन्मन आत्मविवेकदर्शनेन योजयेत् / चित्तं मन इत्यनर्थान्तरम् / विक्षिप्तं च कामभोगेषु शमयेत्पुनः / एव पुनः पुनरभ्यस्यतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितं नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् / ततो ऽपि यत्नतः साम्यमापादयेत् / यदा तु समप्राप्तं भवति समप्राप्त्यभिमुखीभवतीत्यर्थः, ततस्तन्न विचालयेद्विषयाभिमुखं न कुर्यादित्यर्थः
191 SK START Mअन्द्Uप्K ३.४५
3.45 SK नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् / निश्चलं निश्चरच् चित्तम् एकीकुर्यात् प्रयत्नतः // Mअन्द्Uप्K_३.४५ //
3.45 SK Mअन्द्Uप्KC_३.४५ समाधित्सतो योगिनो यत्सुखं जायते तन्नाखादयेत्, तत्र न रज्येतेत्यर्थः / कथं तर्हि? निःसङ्गो निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखं तदविद्यापरिकल्पितं मृषैवेति विभावयेत् / ततो ऽपि सुखरागान्निगृह्णीयादित्यर्थः /
45 SK यथा पुनः सुखरागान्निवृत्तं निश्चलस्वभावं सन्निश्चरद्बहिर्निर्गच्छद्भवति चित्तं ततस्ततो नियम्योक्तोपायेनात्मन्येवैकीकुर्यात्प्रयत्नतः / चित्तस्वरूपसत्तामात्रमेवापादयेदित्यर्थः
195 SK START Mअन्द्Uप्K ३.४६
3.46 SK यदा न लीयते चित्तं न च विक्षिप्यते पुनः / अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा // Mअन्द्Uप्K_३.४६ //
3.46 SK Mअन्द्Uप्KC_३.४६ यथोक्तोपायेन निगृहीतं चित्तं यदा सुषुöए न Öईयतेन च पुनर्विषयेषुविक्षिप्यते, अनिङ्गनमचलं निवातप्रदीपकल्पम्, अनाभासं न केनचित्कल्पितेन विषयभावेनावभासत इति, यदैवंलक्षणं चित्तं तदा निष्पन्नं ब्रह्म बह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः
198 SK START Mअन्द्Uप्K ३.४७
3.47 SK स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् / अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते // Mअन्द्Uप्K_३.४७ //
3.47 SK Mअन्द्Uप्KC_३.४७ यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वात्मनि स्थितम्, शान्तं सर्वानर्थोपशमरूपम्, सनिर्वाणं निर्वृतिनिर्माणं कैवल्यं सह निर्वाणेन वर्तते, तच्चाकथ्यं न शक्यते कथयितुम्, अत्यन्तासाधारणविषयत्वात्, सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव / न जातमित्यजं यथा विषयविषयम् / अजेनानुत्पन्नेन ज्ञेयेनाव्यतिरिक्तं सत्स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः
201 SK START Mअन्द्Uप्K ३.४८
202 SK सर्वो ऽप्ययं मनोनिग्रहादिर्मृल्लोहादिवत्सृष्टिरुपासना चोक्ता परमार्थस्वरूपप्रतिपत्युपायत्वेन न परमार्थसत्येति / परमार्थसत्यं तु
3.48 SK न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते / एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते // Mअन्द्Uप्K_३.४८ //
3.48 SK Mअन्द्Uप्KC_३.४८ न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्पद्यते केनचिदपि प्रकारेण / अतः स्वभावतो ऽजस्यास्यैकस्यात्मनः संभवः कारणं न विद्यते नास्ति / यस्मान्न विद्यते ऽस्य कारणं तस्मान्न कश्चिज्जायते जीव इत्येतत् / पूर्वेषूपायत्वेनोक्तानां सत्यानामेतत्तदुत्तमं सत्यं यस्मिन्सत्यस्वरूपे ब्रह्मण्यणुमात्रमपि किञ्चिन्न जायत इति
205 SK ॐकारनिर्णयद्वारेणागमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याच्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्यैतदुत्तमं सत्यमित्युपसंहारः कृतो ऽन्ते / तस्यैतत्यागमार्थस्याद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च तेषां चान्योन्यविरोदाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् / क्लेशानास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनं स्तूयते / तदिह विस्तरेणान्योन्यविरुद्धतयासम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेनाद्वैतदर्शनसिद्धिरुपसंहर्तव्यावीतन्यायेनेत्यलातशान्द् इरारभ्यते /
206 SK START Mअन्द्Uप्K ४.१
207 SK तत्राद्वैतदर्शनसम्प्रदायकर्तुर् अद्वैतस्वरूपेणैव नमस्कारार्थो ऽयमाद्यश्लोकः / आचार्यपूजा ह्यभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Māṇḍūkya Upaniṣad with commentary: corpustei HTML transform of the Māṇḍūkya with commentary.
Source