Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · माण्डूक्योपनिषद् (सटीका)

Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya

माण्डूक्योपनिषद् (सटीका)

Prakaraṇa 3

SK
उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते / प्रागुत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः // Mअन्द्Uप्K_३.१ //
SK
Mअन्द्Uप्KC_३.१ उपासनाश्रित उपासनामात्मनो मोक्षसाधनत्वेन गत उपासको ऽहं ममोपास्यं ब्रह्म / तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानो ऽजं ब्रह्म शरीरपातादूर्ध्वं प्रतपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च / यदात्मको ऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्य इत्येवमुपासनाश्रितो धर्मः साधको येनैवं क्षुद्रब्रह्मवित्तेनासौ कारणेन कृपणो दीनो ऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिरित्यभिप्रायः / ᳚यद्वाचानभ्युदितं येन वागभ्युद्यते / तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते᳚(के.उ.१ / ४) इत्यादिश्रुतेस्तलवकारणाम्
SK
START Mअन्द्Uप्K ३.२
SK
सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन्नविद्यया दीनमात्मानं मन्यमानो जातो ऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्य इत्येवं प्रतिपन्नः कृपणो भवति यस्मात्-
SK
अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् / यथा न जायते किञ्चिज् जायमानं समन्ततः // Mअन्द्Uप्K_३.२ //
SK
Mअन्द्Uप्KC_३.२ अतो वक्ष्याम्यकार्पण्यकृपणभावमजं ब्रह्म / तद्धि कार्पण्यास्पदम्᳚यत्रान्यो ऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं मर्त्यमसत्᳚(छा.उ.७ / २४ / १) इत्यादिश्रुतिभ्यः / तद्विपरीतं सबाह्याभ्यन्तरमजकार्पण्यं भूमाख्यं ब्रह्म / यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिस्तत्कार्पण्यं वक्ष्यामीत्यर्थः /
SK
तदजाति, अविद्यमाना जातिरस्य समतां गतं सर्वसाम्यं गतम् / कस्मात्? अवयववैषम्याभावात् / यद्धि सावयवं वस्तु तदवयववैषम्यं गच्छज्जायत इत्युच्यते / इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटत्यतोजात्यकार्पण्यम् / समन्ततः समन्ताद्यथा न जायते किञ्चिदल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतो ऽजमेव ब्रह्म भवति तथा तं प्रकारं शृण्वित्यर्थः
SK
START Mअन्द्Uप्K ३.३
SK
अजाति ब्रह्मकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् / तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह-
SK
आत्मा ह्य् आकाशवज्जीवैर् घटाकाशैर् इवोदितः / घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम् // Mअन्द्Uप्K_३.३ //
SK
Mअन्द्Uप्KC_३.३ आत्मा परो हि यस्मादाकाशवत्सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तो जीवैः क्षेत्रज्ञैर्घटाकाशैरिव घटाकाशतुल्य उदित उक्तः स एवाकाशसमः पर आत्मा /
SK
अथ वा घटाकाशैर्यथाकाश उदित उत्पन्नस्तथा परो जीवात्मभिरुत्पन्नः / जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु सा महाकाशाद्घटाकाशोत्पत्तिसमा न परमार्थ इत्यभिप्रायः /
SK
तस्मादेवाकाशाद्घटादयः संघाता यथेत्पद्यन्त एवमाकाशस्थानीयात्परमात्मनः पृथिव्यादिभूतसंघाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते / अत उच्यते घटादिवच्च संघातैरुदित इति / यदा मन्दबुद्धिप्रतिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदिताकाशवदित्यादिः
SK
START Mअन्द्Uप्K ३.४
SK
घटादिषु प्रलीनेषु घटाकाशादयो यथा / आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि // Mअन्द्Uप्K_३.४ //
SK
Mअन्द्Uप्KC_३.४ यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः; यथा वा घटादिप्रलये घटाकाशादिप्रलयस्तद्वद्देहादिसंघातोत्पत्त्या जीवोत्पत्तिस्तत्प्रलये च जीवानामिहात्मनि प्रलयो न स्वत इत्यर्थः
SK
START Mअन्द्Uप्K ३.५
SK
सर्वदेहेष्वात्मैकत्व एकस्मिञ्जननमरणसुखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति य आहुर्द्वैतिनस्तान्प्रतीदमुच्यते-
SK
यथैकस्मिन् घाटाकाशे रजोधूमादिभिर् युते / न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः // Mअन्द्Uप्K_३.५ //
SK
Mअन्द्Uप्KC_३.५ यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते संयुक्ते न सर्वे घटाकाशादयस्तद्रजोधूमादिभिः संयुज्यन्ते तद्वज्जीवाः सुखादिभिः / नन्वेक एवात्मा? बाढम्; ननु न श्रुतं त्वयाकाशवत्सर्वसंघातेष्वेक एवात्मेति? यद्येक एवात्मा तर्हि सर्वत्र सुखी दुःखी च स्यात्? न चेदं साख्यचोद्यं सम्भवति / न हि सांख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् / न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति / भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत्; न प्रधानकृतस्यार्थस्यात्मन्यसमवायात् / यदि हि प्रधाकृतो बन्धो मोक्षो वार्थः पुरुषेषु भेदेन समवैति ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना / न च साख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतो ऽभ्युपगम्यते / निर्विशेषाश्च चेतनमात्रा आत्मानो ऽभ्युपगम्यन्ते / अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धं न तु पुरुषभेदप्रयुक्तमिति / अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः /
SK
न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साख्यानाम् / परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् / परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुर्नकेनचिद्विशेषेणेति केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च /
SK
ये त्वाहुर्वैशेषिकादय इच्छादय आत्मसमवायिन इति, तदप्यसत् / स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् / आत्ममनः संयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्ति / युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः /
SK
न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मन आदिभिः संबन्धो युक्तः / न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति परेषाम् / यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युरिच्छादयश्चात्मनस्तथा च सति द्रव्येण तेषां सम्बन्दानुपपत्तिः /
SK
अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत्, न / इच्छादिभ्यो ऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः / आत्मनायुतसिद्धत्वे चेच्छादीनामात्मगतमहत्ववन्नित्यत्वप्रसङ्गः / स चानिष्टः / आत्मनो ऽनिर्मोक्षप्रसङ्गात् /
SK
समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यं यथा द्रव्यगुणयोः / समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत्तथा च समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्ति / अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ट्यर्थानुपपत्तिः /
SK
इच्छाद्युपजनापायवद्गुणत्वे चात्मनो ऽनित्यत्वप्रसङ्गः / देहफलादिवत्सावयवत्वं विक्रियावत्वं च देहादिवदेवेति दोषावपरिहार्यौ / यथा त्वाकाशस्याविद्याध्यारोपितरजोधूममलवत्वादिदोषवत्वं तथात्मनो ऽविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्वे बन्धमोक्षादयो व्यवहारिका न विरुध्यन्ते / सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात्परमार्थानभ्युपगमाच्च / तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति
SK
START Mअन्द्Uप्K ३.६
SK
कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते-
SK
रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै / आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः // Mअन्द्Uप्K_३.६ //
SK
Mअन्द्Uप्KC_३.६ यथेहाकाश एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्वादिरूपाणि भिद्यन्ते तथा कार्यमुदकाहरणधारणशयनादिसमाख्याश्च घटाकाशकरकाकाश इत्याद्यास्तत्कृताश्च भिन्ना दृश्यन्ते / तत्र तत्र वै व्यवहारविषय इत्यर्थः / सर्वो ऽयमाकाशो रूपादिभेदकृतो व्यवहारो न परमार्थ एव / परमार्थतस्त्वाकाशस्य न भेदोस्ति / न चाकाशभेदनिमित्तो व्यवहारो ऽस्त्यन्तरेण परोपाधिकृतं द्वारम् / यथैतत्तद्वेद्दहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतो बुद्धिमद्भिर्निर्णयो निश्चय इत्यर्थः
SK
START Mअन्द्Uप्K ३.७
SK
ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति? नैतदस्ति, यस्मात्
SK
नाकाशस्य घटाकाशो विकारावयवौ यथा / नैवात्मनः सदा जीवो विकारावयवौ तथा // Mअन्द्Uप्K_३.७ //
SK
Mअन्द्Uप्KC_३.७ परमार्थाकाशस्य घटाकाशो न विकारः; यथा सुवर्णस्य रुचकादिर्यथा वापां फेनबुद्बुदहिमादिः; नाप्यवयवो यथा वृक्षस्य शाखादिः / न तथा०काशस्य घटाकाशो विकारावयवौ यथा तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारो नाप्यवयवः / अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः
SK
START Mअन्द्Uप्K ३.८
SK
यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारस्तथा देहोबाधिजीवभेदकृतो जन्ममरणादिव्यवहारः / तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्वमात्मनो न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह-
SK
यथा भवति बालानां गगनं मलिनं मलैः / तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः // Mअन्द्Uप्K_३.८ //
SK
Mअन्द्Uप्KC_३.८ यथा भवति लोके बालानामविवेकिनां गगनमाकाशं घनरजोधूमादिमलार्मलिनं मलवन्न गगनं मलवद्याथात्म्यविवेकिनाम्, तथा भवत्यात्मा परो ऽपि यो विज्ञाता प्रत्यक्क्लेशकर्मफलमलैर्मलिनो ऽबुद्धानां प्रत्यगात्मविवकेरहितानां नात्मविवेकवताम् / नह्यूषरदेशस्तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमांस्तथा नात्माबुधारोपितक्लेशादिमलैर्मलिनो भवतीत्यर्थः
SK
START Mअन्द्Uप्K ३.९
SK
पुनरप्युक्तमेवार्थं प्रपञ्चयति-
SK
मरणे संभवे चैव गत्यागमनयोर् अपि / स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः // Mअन्द्Uप्K_३.९ //
SK
Mअन्द्Uप्KC_३.९ घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः
SK
START Mअन्द्Uप्K ३.१०
SK
संघाताः स्वप्नवत् सर्वे आत्ममायाविसर्जिताः / आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते // Mअन्द्Uप्K_३.१० //
SK
Mअन्द्Uप्KC_३.१० घटादिस्थानीयास्तु देहादिसंघाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्चात्ममायाविसर्जिताः; आत्मनो मायाविद्या तया प्रत्युपस्थापिता न परमार्थतः सन्तीत्यर्थः / यद्याधिक्यमधिकभावस्तिर्ग्देहाद्यपेक्षया देवादिकार्यकरणसंघातानां यदि वा सर्वेषां समतैव नैषामुपपत्तिः सम्भवः सद्भाप्रतिपादको हेतुर्विद्यते नास्ति, हि यस्मात्तस्मादविद्याकृता एव न परमार्थतः सन्तीत्यर्थः
SK
START Mअन्द्Uप्K ३.११ उत्पत्त्यादिवर्जितस्याद्वयस्यात्मतत्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते-
SK
रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके / तेषाम् आत्मा परो जीवः खं यथा संप्रकाशितः // Mअन्द्Uप्K_३.११ //
SK
Mअन्द्Uप्KC_३.११ रसादयो ऽन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिर्भावात्पूर्वपूर्वस्य व्याख्याता विस्पष्टमाख्यातास्तैत्तिरीयके तैत्तिरीयकशाखोपनिषद्वल्ल्यां तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्मवन्तो ऽन्तरतमेन, स हि सर्वेषां जीवननिमित्तत्वाज्जीवः / को ऽसावित्याह-पर एवात्मा यः पूर्वम्᳚सत्यं ज्ञानमनन्तं ब्रह्म᳚(तै.उ.२ / १) इति प्रकृतः / यस्मादात्मनः स्पप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः संघाता आत्ममायाविसर्जिता इत्युक्तम् / स आत्मास्माभिर्यथा खं तथेति संप्रकाशितः᳚आत्मा ह्याकाशवत्᳚(अद्वैत.३) इत्यादिश्लौकैः / न तार्किकपरिकल्पितात्मवत्पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः
SK
START Mअन्द्Uप्K ३.१२
SK
द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् / पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः // Mअन्द्Uप्K_३.१२ //
SK
Mअन्द्Uप्KC_३.१२ किं चाधिदैवमध्यात्मं च तेजोमयो ऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोराद्वैतक्षयात्परं ब्रह्म प्रकाशितम् / क्वेत्याह- ब्रह्मविद्याख्यं मध्वमृतममृतत्वं मोदनहेतुत्वाद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणं तस्मिन्नित्यर्थः / किमिवेत्याह-पृथिव्यामुदरे चैव यथैक आकाशो ऽनुमानेन प्रकाशितो लोके तद्वदित्यर्थः
SK
START Mअन्द्Uप्K ३.१३ जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते / नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् // Mअन्द्Uप्K_३.१३ //
SK
Mअन्द्Uप्KC_३.१३ यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनो जीवात्मनोरन्यत्वमभेदेन प्रशस्यते स्तूयतेशास्त्रेण व्यासादिभिश्च / यच्च सर्वप्राणिसाधारणं स्वाबाविकं शास्त्रबहिष्कृतैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते᳚न तु तद्द्वीतीयमस्ति᳚(बृ.उ.४ / ३ / २३) ᳚द्वितीयाद्वै भयं भवति᳚(बृ.उ.१ / ४ / २) ᳚उदरमन्तरं कुरुते, अत तस्य भयं भवति᳚(तै.उ.२ / ७ / १) ᳚इदं सर्वं यदयमात्मा᳚(बृ.उ.२ / ४ / ६, ४ / ५ / ७) ᳚मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति᳚(क.उ.२ / १ / १०) इत्यादिवाक्यैश्चान्यैश्च ब्रह्मविद्भिः / यच्चैतत्तदेवं हि समञ्जसमृज्ववबोधं न्याय्यमित्यर्थः / यास्तु तार्किकपरिकल्पिताः कुदृष्टयस्ता अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः
SK
START Mअन्द्Uप्K ३.१४
SK
जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितम् / भविष्यद्वृत्या गौणं तन् मुख्यत्वं हि न युज्यते // Mअन्द्Uप्K_३.१४ //
SK
Mअन्द्Uप्KC_३.१४ ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेरुत्पत्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे ऽनेकशः कामभेदत इदङ्कामो ऽदःकाम इति; परश्च᳚स दाधार पृथिवीं द्याम्᳚(ऋ.सं.१० / १२ / १) इत्यादिमन्त्रवर्णैः; तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति?
SK
अत्रोच्यते-᳚यतो वे९मानि भूतानि जायन्ते᳚(तै.उ.३ / १) ᳚यथाग्नेः क्षुद्रा विस्फुलिङ्गाः᳚(बृ.उ.२ / १ / १०) ᳚तस्माद्वै९तस्मादात्मन आकाशः संभूतः᳚(तै.उ.२ / १ / २) ᳚तदैक्षत᳚(छा.उ.६ / २ / ३) ᳚तत्तेजोसृजत᳚(छा.उ.६ / २ / ३) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितिं यत्तन्न परमार्थम् / किं तर्हि? गौणं महाकाशघटाकाशादिभेदवत् / यथौदनं पचतीति भविष्यद्वृत्त्या यद्वत् / न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थत्वमुपपद्यते / स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् /
SK
इव चोपानिषत्सूत्पत्तिप्रलयादिवाक्यैर्जीवपरमात्मनोरेकत्वमेव प्रतिपिपादयिषितम्᳚तत्त्वमसि᳚ (छा.उ.६ / ८ -१६)᳚अन्यो ऽसावन्यो ऽहमस्मीति न स वेद᳚(बृ.उ.१ / ४ / १०) इत्यादिभिः / अत उपनिषत्स्व् एकत्वं श्रुत्या प्रतिपादयिषितं भविष्यतीति भाविनीमेकवृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः /
SK
अथ वा᳚तदैक्षत᳚ (छा.उ.६ / २ / ३) ᳚तत्तोजो ऽसृजत᳚(छा.उ.६ / २ / ३) इत्याद्युत्पत्तेः प्राक्᳚एकमेवाद्वितीयम्᳚(छा.उ.६ / २ / २) इत्येकत्वं प्रकीर्तितम् / तदेव च᳚तत्सत्यं स आत्मा तत्त्वमसि᳚(छा.उ.६ / ८ -१६) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानं तद्गौणम्, यथोदनं पचतीति तद्वत्
SK
START Mअन्द्Uप्K ३.१५
SK
ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयं तथाप्युत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति, मैवम्; अन्यार्थत्वादुत्पत्तिश्रुतीनाम् / पूर्वमपि परिहृत्य एवायं दोषः स्वप्नवदात्ममायाविसर्जिताः संघाता घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति / इत एवोत्पत्तिभेदादिश्रुतिभ्य आकृष्ये७ह पुनरुत्पत्तिश्रुतीनामैदंपर्यप्रतिपिपादयिषयोपन्यासः-
SK
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा / उपायः सो ऽवताराय नास्ति भेदः कथञ्चन // Mअन्द्Uप्K_३.१५ //
SK
Mअन्द्Uप्KC_३.१५ मृल्लोकविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिर्या चोदिता प्रकाशितान्यथान्यथा च स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारयोपायो ऽस्माकम् / यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय / तदप्यसिद्धमिति चेत् / न; शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् / यदि हि संवादः परमार्थ एवाभूदेकरूप एव संवादः सर्वशाखास्वश्रोष्यत विरुद्धानेकप्रकारेण नाश्रोष्यत / श्रूयते तु; तस्मान्न तादर्थ्यं संवादश्रुतीनाम् / तथोत्पत्तिवाक्यानि प्रत्येतव्यानि / कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत्? न; निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण / न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् / तथात्वप्रतिपत्तये ध्यानार्थमिति चेन्न; कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् / तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव नान्यार्थाः कल्पयितुं युक्ताः / अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन
SK
START Mअन्द्Uप्K ३.१६
SK
यदि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थः सन्᳚एकमेवाद्वितीयम्᳚ (छा.उ.६ / २ / २) इत्यादिश्रुतिभ्यो ऽसदन्यत्किमर्थेयमुपासनोपदिष्टा᳚आत्मा वा९रे द्रष्टव्यः᳚(बृ.उ.२ / ४ / ५) ᳚य आत्मापहतपाप्मा᳚(छा.उ.८ / ७ / १,३) ᳚स क्रतुं कुर्वीत᳚(छा.उ.३ / १४ / १) ᳚आत्मेत्येवोपासीत᳚(बृ.उ.१ / ४ / ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि? शृणु तत्र कारणम्-
SK
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः / उपासनोपदिष्टेयं तदर्थम् अनुकम्पया // Mअन्द्Uप्K_३.१६ //
SK
Mअन्द्Uप्KC_३.१६ उपासनोपदिष्टेयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च, न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थं दयालुना वेदेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति / ᳚यन्मनसा न मनुते येनाहुर्मनो मतम् / तदेव ब्र्हम त्वं विद्धि नेदं यदिदमुपासते᳚(के.उ.१ / ४) ᳚तत्त्वमसि᳚(छा.उ.६ / ८ -१६)᳚आत्मैवेदं सर्वम्᳚(छा.उ.७ / २५ / ३) इत्यादिश्रुतिभ्यः
SK
START Mअन्द्Uप्K ३.१७
SK
शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्शनं तद्बाह्यत्वान्मिथ्यादर्शनमन्यत् / इतश्च मिथ्यादर्थनं द्वैतीनां रागद्वेषादिदोषास्पदत्वात् / कथम्?
SK
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् / परस्परं विरुध्यन्ते तैरयं न विरुध्यते // Mअन्द्Uप्K_३.१७ //
SK
Mअन्द्Uप्KC_३.१७ स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धर्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः / एवमेवैष परमार्थो नान्यथेति तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तम् एव परस्परमन्योन्यं विरुध्यन्ते /
SK
तैरन्योन्यविरोधिभिरस्मदीयो ऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते यथा स्वहस्तपादादिभिः / एवं रागद्वेषादिदोषानास्पदात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः
SK
START Mअन्द्Uप्K ३.१८
SK
केन हेतुना तैर्न विरुध्यत इत्युच्यते-
SK
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते / तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते // Mअन्द्Uप्K_३.१८ //
SK
Mअन्द्Uप्KC_३.१८ अद्वैतं परमार्थो हि यस्मादद्वैतं नानात्वं तस्याद्वैतस्य भेदस्तद्भेदस्तस्य कार्यमित्यर्थः / ᳚एकमेवाद्वितीयम्᳚(छा.उ.६ / २ / २) ᳚तत्तेजो ऽसृजत᳚(छा.उ.६ / २ / ३) इति श्रुतेरूपपत्तेश्च स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ चाभावात् / अतस्तद्भेद उच्यते द्वैतम् /
SK
द्वैतिनां तु तेषां परमार्थतश्चापरमार्थतश्चोभयथापि द्वैतमेव / यदि च तेषां भ्रान्तानां द्वैतदृष्टिरस्माकमद्वैतदृष्टिरभ्रान्तानाम्, तेनायं हेतुनास्मत्पक्षे न विरुध्यते तैः / ᳚इन्द्रो मायाभिः षुरुरूप ईयते᳚ (बृ.उ.२ / ५ / ११) ᳚न तु तद्द्वितीयमस्ति᳚(बृ.उ.४ / ३ / २३) इति श्रुतेः /
SK
यथा मत्तगजारूढ उन्मत्तं भूमिष्ठं प्रति गजारूढोहं गजं वाहय मां प्रतीति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वत् / ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् / तेनायं हेतुनास्मत्पक्षो न विरुद्ध्यते तैः
SK
START Mअन्द्Uप्K ३.१९
SK
द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात् कस्यचिदाशङ्केत्यत आह-
SK
मायया भिद्यते ह्य् एतन् नान्यथाजं कथञ्चन / तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत् // Mअन्द्Uप्K_३.१९ //
SK
Mअन्द्Uप्KC_३.१९ यत्परमार्थसदद्वैतं मायया भिद्यते ह्येतचैमिरिकानेकचन्द्रवद्रज्जुः सर्पधारादिभिर्भेदैरिव न परमार्थतो निरवयवत्वादात्मनः / सावयवं ह्यवयवान्यथात्वेन भिद्यते / यथा मृद् घटादिभेदैः / तस्मान्निरवयवमजं नान्पथा कथञ्चन केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः /
SK
तत्त्वतो भिद्यमाने ह्यमृतमजमद्वयं स्वभावतः सन्मर्त्यतां व्रजेत्; यथाग्निः शीतताम् / तच्चानिष्टं स्वभाववैपरीत्यगमनम्, सर्वप्रमाणविरोधात् / अजमव्ययमात्मतत्त्वं माययैव भिद्यते न परमार्थतः / तस्मान्न परमार्थसदद्वैतम्
SK
START Mअन्द्Uप्K ३.२०
SK
अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः / अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति // Mअन्द्Uप्K_३.२० //
SK
ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूका अजातस्यैवात्मतत्त्वस्य अमृतस्य स्वभावतो जातिम् उत्पत्तिमिच्छन्ति परमार्थत एव तेषां जातं चेत्तदेव मर्त्यतामेष्यत्यवश्यम् / स चाजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः
SK
START Mअन्द्Uप्K ३.२१
SK
यस्मात्-
SK
न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा / प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति // Mअन्द्Uप्K_३.२१ //
SK
न भवत्यमृतं लोकेनापि मर्त्यममृतं तथा / ततः प्रकृतेः स्वभावस्यान्यथाभावः स्वतः प्रच्युतिर्न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य
SK
START Mअन्द्Uप्K ३.२२
SK
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् / कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः // Mअन्द्Uप्K_३.२२ //
SK
यस्य पुनर्वादिनः स्वभावेनामृतो भावो मर्त्यतां गच्छति परमार्थतो जायते तस्य प्रागुत्पत्तेः स भावः स्वभावतो ऽमृत इति प्रतिज्ञा मृषैव / कथं तर्हि कृतकेनामृतस्तस्य भावः? कृतकेनामृतः स कथं स्थास्यति निश्चलो ऽमृतस्वभावस्तथा न कथञ्चित्स्थास्यत्यात्मजातिवादिनः सर्वदाजं नाम नास्त्येव; सर्वमेतन्मर्त्यम् / अतो ऽनिर्मोक्षप्रसङ्ग इत्यभिप्रायः
SK
START Mअन्द्Uप्K ३.२३
SK
नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न संगच्छते प्रामाण्यम्? बाढं विद्यते सृष्टिप्रतिपादिका श्रुतिः; सा त्वन्यपरा / उपायः स अवतारायेत्यवोचाम / इदानीमुक्ते ऽपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधाशङ्कामात्रपरिहारार्थौ-
SK
भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः / निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत् // Mअन्द्Uप्K_३.२३ //
SK
Mअन्द्Uप्KC_३.२३ भूततः परमार्थतः सृज्यमाने वस्तुन्यभूततो मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः / ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतपत्तिर्युक्ता / न, अन्यथा सृष्टेरप्रसिद्धत्वान्निष्प्रयोजनत्वाच्चेत्यवोचाम / अविद्यासृष्टविषयैव सर्वा गौणी मुख्या च सृष्टिर्न परमार्थतः᳚सबाह्याभ्यन्तरो ह्यजः᳚(मु.उ.२ / १ / २) इति श्रुतेः /
SK
तस्माच्छ्रुत्या निश्चितं यदेकमेवाद्वितीयमजममृतमिति युक्तियुक्तं च युक्त्या च सम्पन्नं तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः / तदेव श्रुत्यर्थो भवति नेतरत्कदाचिदपि
SK
START Mअन्द्Uप्K ३.२४
SK
कथं श्रुतुनिश्चयः? इत्याह-
SK
नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि / अजायमानो बहुधा मायया जायते तु सः // Mअन्द्Uप्K_३.२४ //
SK
Mअन्द्Uप्KC_३.२४ यदि हि भूतत एव सृष्टिः स्यात्ततः सत्यमेव नाना वस्त्विति तदभावप्रदर्शनार्थमाम्नायो न स्यात् / अस्ति च᳚नेह नानास्ति किञ्चन᳚(क.उ.२ / १ / ११) इत्यादिराम्नायो द्वैतभावप्रतिषेधार्थः / तस्मादात्मैकत्वप्रतिपत्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् / ᳚इन्द्रो मायाभिः᳚ (बृ.उ.३ / ५ / १९) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् / ननु प्रज्ञावचनो मायाशब्दः / सत्यम्; इन्द्रियप्रज्ञाया अवद्यामयत्वेन मायात्वभ्युपगमाददोषः / मायाभिरिन्द्रियप्रज्ञाभिर् अविद्यारूपाभिरित्यर्थः᳚अजायमानो बहुधा विजायते᳚इति श्रुतेः, तस्मान्माययैव जायते तु स / तु शब्दो ऽवधारणार्थः- माययैवेति / न ह्यजायमानत्वं बहुधा जन्मचैकत्र सम्भवति, अग्नाविव शैत्यमोष्ण्यं च / फलवत्वाच्चात्मैकत्वदर्शनमेव श्रुतिनिश्चितोर्ऽथः᳚तत्र को मोहः कः शोक एकत्वमनुपश्यतः᳚(ई.उ.७) इत्यादिमन्त्रवर्णात्;᳚मृत्योः स मृत्युमाप्नोति᳚(क.उ.२ / १ / १०) इति निन्दितत्वाच्च सृष्ट्यादिभेददृष्टेः
SK
START Mअन्द्Uप्K ३.२५
SK
संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते / को न्व् एनं जनयेद् इति कारणं प्रतिषिध्यते // Mअन्द्Uप्K_३.२५ //
SK
Mअन्द्Uप्KC_३.२५ ᳚अन्धं तमः प्रविशति ये सम्भूतिमुपासते᳚(ई.उ.१२) इति संभूतेरुपास्यत्वापवादात्संभवः प्रतिषिध्यते / न हि परमार्थतः संभूतायां संभूतौ तदपवाद उपपद्यते /
SK
ननु विनाशेन संभूतेः समुच्चयविध्यर्थः संभूत्यपवादः / यथा᳚अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते᳚(ई.उ.९) इति /
SK
सत्यमेव देवतादर्शनस्य संभूतिविषयस्य विनाशशब्दवाच्यस्य कर्मणः समुच्चयविधानार्थः संभूत्यपवादः /
SK
तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्वम् / एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यादतो मृत्योरतितरणार्थादेवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या /
SK
एवमेव एषणालक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयकी परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्यामृतत्वसाधनैकेन पुरुषेण सम्बध्यमानाविद्यया समुच्चीयत इत्युच्यते / अतो ऽन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपोक्ष्य निन्दार्थं एव भवति संभूत्यपवादः / यद्यप्यशुद्धिवियोगहेतुर् अतन्निष्ठत्वात् / अत एव संभूतेर् अपवादात्संभूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः संभवः प्रतिषिध्यते /
SK
एवं मायानिर्मितस्यैव जीवस्याविद्यया प्रत्युपस्थापितस्याविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् / न हि रज्ज्वामविद्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् / तथा न कश्चिदेनं जनयेदिति को न्वित्याक्षेपार्थत्वात्कारणं प्रितषिध्यते / अविद्योद्भूतस्य नष्टस्य जनयितृकारणं न किञ्चिदस्तीत्यभिप्रायः᳚नायं कुतश्चिन्न बभूव कश्चित्᳚(क.उ.१ / २ / १८) इति श्रुतेः
SK
START Mअन्द्Uप्K ३.२६
SK
स एष नेति नेतीति व्याख्यातं निह्नुते यतः / सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते // Mअन्द्Uप्K_३.२६ //
SK
Mअन्द्Uप्KC_३.२६ सर्वविशेषप्रतिषेधेन᳚अथात आदेशो नेति नेति᳚(बृ.उ.२ / ३ / ६) इति प्रतिपादितस्यात्मनो दुर्बोध्यत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्व्याख्यातं तत्सर्वं निह्नते, ग्राह्यं जनिमद्बुद्धिविषयमपलपति / अर्थात्᳚स एष नेति नेति᳚(बृ.उ.३ / १ / २६) इत्यात्मनो ऽदृश्यतां दर्शयन्ती श्रुतिः
SK
उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्योपेयवद्ग्राह्यता मा भूदित्यग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः / ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्यसबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव
SK
START Mअन्द्Uप्K ३.२७
SK
एवं हि श्रुतिवाक्यशतैः सबाह्याभ्यन्तरमजमात्मतत्त्वमद्वयं न ततो ऽन्यदस्तीति निश्चितमेतत् / युक्त्या चा७धुनैतदेव पुनर्निर्धार्यत इत्याह-
SK
सतो हि मायया जन्म युज्यते न तु तत्त्वतः / तत्त्वतो जायते यस्य जातं तस्य हि जायते // Mअन्द्Uप्K_३.२७ //
SK
Mअन्द्Uप्KC_३.२७ तत्रैतत्स्यात्सदाग्राह्यमेव चेदसदेवात्मतत्त्वमिति / तन्न, कार्यग्रहणात् / यथा सतो मायाविनो मायया जन्म कार्यम् / एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तम् आत्मानं जगज्जन्ममायास्पदम् अवगमयति / यस्मात्सतो हि विद्यमानात्कारणान्मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते नासतः कारणात् / न तु तत्त्वत एवात्मनो जन्म युज्यते /
SK
अथ वा सतो विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवन् मायया जन्म युज्यते न तु तत्त्वतो यथा तथाग्राह्यस्यापि सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते / न तु तत्त्वत एवाजस्यात्मनो जन्म /
SK
यस्य पुनः परमार्थसदजमात्मतत्त्वं जगद्रूपेण जायते वादिनो नहि तस्याजं जायत इति शक्यं वक्तुं विरोधात् / ततस्तस्यार्थाज्जातं जायत इत्यापन्नं ततश्चानवस्था जाताज्जायमानत्वेन / तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम्
SK
START Mअन्द्Uप्K ३.२८
SK
असतो मायया जन्म तत्त्वतो नैव युज्यते / वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते // Mअन्द्Uप्K_३.२८ //
SK
Mअन्द्Uप्KC_३.२८ असद्वादिनामसतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् / न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते तस्मादत्रासद्वादो दूरत एवानुपपन्ने७त्यर्थः
SK
START Mअन्द्Uप्K ३.२९
SK
कथं पुनः सतो माययैव जन्मेत्युच्यते-
SK
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः / तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः // Mअन्द्Uप्K_३.२९ //
SK
Mअन्द्Uप्KC_३.२९ यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन्नेवं मनः परमार्थविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सद् ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः / तथा तद्वदेव जाग्रज्जागरिते स्पन्दते मायया मनः स्पन्दत इवेत्यर्थः
SK
START Mअन्द्Uप्K ३.३०
SK
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः / अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः // Mअन्द्Uप्K_३.३० //
SK
Mअन्द्Uप्KC_३.३० रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेणाद्वयं सद्द्वयाभासं मनः स्वप्ने न संशयः / न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादिद्वयं विज्ञानव्यतिरेकेणास्ति / जाग्रदपि तथैवेत्यर्थः /
SK
परमार्थसद्विज्ञानमात्राविशेषात्
SK
START Mअन्द्Uप्K ३.३१
SK
रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् / तत्र किं प्रमाणमित्यन्वयव्यतिरेकलक्षणमनुमानमाह / कथम्-
SK
मनोदृश्यम् इदं द्वैतं यत् किञ्चित् सचराचरम् / मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते // Mअन्द्Uप्K_३.३१ //
SK
Mअन्द्Uप्KC_३.३१ तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यमिदं द्वैतं सर्वं मन इति प्रतिज्ञा / तद्भावे भावात्तदभावे ऽभावात् / मनसो ह्यमनीभावे निरोधे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इत्यभावात्सिद्धं द्वैतस्यासत्वमित्यर्थः
SK
START Mअन्द्Uप्K ३.३२
SK
कथं पुनरमनीभावः? इत्य् उच्यते-
SK
आत्मसत्यानुबोधेन न संकल्पयते यदा / अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् // Mअन्द्Uप्K_३.३२ //
SK
Mअन्द्Uप्KC_३.३२ आत्मैव सत्यमात्मसत्यं मृत्तिकावत्᳚वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्᳚(छा.उ.६ / १ / ४) इति श्रुतेस् तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः / तेन संकल्प्याभावतया न संकल्प्यते, दाह्याभावे ज्वलनमिवाग्नेः, यदा यस्मिन्काले तदा तस्मिन्काले ऽमनस्ताममनोभावं याति; ग्राह्याभावे तन्मनो ऽग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः
SK
START Mअन्द्Uप्K ३.३३
SK
यद्यसदिदं द्वैतं केन स्वमजमात्मतत्त्वं विबुध्यते? इत्य् उच्यते-
SK
अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते / ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते // Mअन्द्Uप्K_३.३३ //
SK
Mअन्द्Uप्KC_३.३३ अकल्पकं सर्वकल्पनावर्जितमत एवाजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणाभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः / न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ऽग्न्युष्णवत्᳚विज्ञानमानन्दं ब्रह्म᳚(बृ.उ.३ / ९ / २८) ᳚सत्यं ज्ञानमनन्तं ब्रह्म᳚(तै.उ.२ / १) इत्यादिश्रुतिभ्यः /
SK
तस्यैव विशेषणं ब्रह्म ज्ञेयं यस्य स्वस्य तदिदं ब्रह्मज्ञेयमौष्ण्यस्येवाग्निवदभिन्नम् / तेनात्मस्वरूपेणाजेन ज्ञानेनाजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यते ऽवगच्छति / नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः
SK
START Mअन्द्Uप्K ३.३४
SK
आत्मसत्यानुबोधेन सङ्कल्पमकुर्वद्बाह्यविषयाभावे निरिन्धनाग्निवत्प्रशान्तं निगृहीतं निरुद्धं मनो भवतीत्युक्तम् / एवं च मनसो ह्यमनीभावे द्वैताभावश्चोक्तः / तस्यैवम्-
SK
निगृहीतस्य मनसो निर्विकल्पस्य धीमतः / प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः // Mअन्द्Uप्K_३.३४ //
SK
Mअन्द्Uप्KC_३.३४ निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतो विवेकवतः प्रचारो यः स तु प्रचारो विशेषेण ज्ञेयो योगिभिः / ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तस्थस्य मनसः प्रचारस्तादृश एव निरुद्धस्यापि प्रत्ययाभावाविशेषात्किं तत्र विज्ञेयमिति / अत्रोच्यते- नैवम्; यस्मात्सुषुप्ते ऽन्यः प्रचारो ऽविद्यामोहतमोग्रस्तस्यान्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनस आत्मसत्यानुबोधहुताशविप्लुष्टाविद्यानर्थप्रवृत्तिबीजस्य निरुद्धस्यान्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः / अतो न तत्समः / तस्माद्युक्तः स विज्ञातुमित्यभिप्रायः
SK
START Mअन्द्Uप्K ३.३५
SK
प्रचारभेदे हेतुमाह-
SK
लीयते हि सुषुप्ते तन् निगृहीतं न लीयते / तद् एव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः // Mअन्द्Uप्K_३.३५ //
SK
Mअन्द्Uप्KC_३.३५ लीयते सुषुप्तो हि यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपमविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निरुद्धं निगृहीतं सन्न लीयते तमोबीजभावं नापद्यते / तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः /
SK
यथा ग्राह्यग्राहकाविद्याकृतमलद्वयवर्जितं तदा परमद्वयं ब्रह्मैव तत्संवृत्तमित्यतस्तदेव निर्भयं द्वैतग्रहणस्य भयनिमित्तस्याभावत् / शान्तमभयं ब्रह्म, यद्विद्वान्न बिभेति कुतश्चन /
SK
तदेव विशेष्यते ज्ञाप्तिर्ज्ञानमात्मस्वभावचैतन्यं तदेव ज्ञानमालोकः प्राकाशो यस्य तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः / समन्ततः समन्तासर्वतो व्योमवन्नैरन्तर्येण व्यापकमित्यर्थः
SK
START Mअन्द्Uप्K ३.३६
SK
अजम् अनिन्द्रम् अस्वप्नम् अनामकम् अरूपकम् / सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन // Mअन्द्Uप्K_३.३६ //
SK
Mअन्द्Uप्KC_३.३६ जन्मनिमित्ताभावात्सबाह्याभ्यन्तरमजम् / अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम / सा चाविद्यात्मसत्यानुबोधेन निरुद्धा यतो ऽजमत एवानिद्रम् / अविद्यालक्षणानादिर्माया निद्रा / स्वापात्प्रबुद्धौऽद्वैयस्वरूपेणात्मनातो ऽस्वप्नम् / अप्रबोधकृते ह्यस्यनामरूपे / प्रबोधाच्च ते रज्जुसर्पवद्विनष्ठ इति न नाम्नाभिधीयते ब्रह्म रूप्यते वा न केनचित्प्रकारेणेत्यनामकरूपकं च तत् / ᳚यतो वाचो निवर्तन्ते᳚(तै.उ.२ / ४ / १) इत्यादिश्रुतेः /
SK
किं च सकृद्विभातं सदैव विभातं सदा भारूपमग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् / ग्रहणाग्रहणे हि रात्र्यहनी तमश्चाविद्यालक्षणं सदाप्रभातत्वे कारणम् / तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति / अत एव सर्वं च तज्ज्ञस्वरूपं चेति सर्वज्ञम् / नेह ब्रह्मण्येवंविध उपचरणमुपचारः कर्तव्यः / यथान्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः / नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसंभवो ऽविद्यानाश इत्यर्थः
SK
START Mअन्द्Uप्K ३.३७
SK
अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह-
SK
सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः / सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः // Mअन्द्Uप्K_३.३७ //
SK
Mअन्द्Uप्KC_३.३७ अभिलप्यते ऽनेनेत्यभिलापो वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः / वागत्रोपलक्षणार्था सर्वब्रह्मकरणवर्जित इत्येतत् / तथा सर्वचिन्तासमुत्थितः / चिन्त्यते ऽनयेति चिन्ता बुद्धिस्तस्याः समुत्थितो ऽन्तः करणवर्जित इत्यर्थः᳚अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः᳚ (मु.उ.२ / १ / २) इत्यादिश्रुतेः / यस्मात्सर्वविषयवर्जितो ऽतः सुप्रशान्तः, सकृज्ज्योतिः सदैव ज्योतिरात्मचैन्यस्वरूपेण, समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात्, समाधीयते ऽस्मिन्निति वा समाधिः, अचलो ऽविक्रियः, अत एवाभयो विक्रियाभावात्
SK
START Mअन्द्Uप्K ३.३८
SK
यस्माद्ब्रह्मैव समाधिरचलो ऽभय इत्युक्तः-
SK
ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते / आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम् // Mअन्द्Uप्K_३.३८ //
SK
Mअन्द्Uप्KC_३.३८ न तत्र तस्मिन्ब्रह्मणि ग्रहो ग्रहणमुपादानम्, नोत्सर्ग उत्सर्जनं हानं वा विद्यते / यत्र हि विक्रिया तद्विषयत्वं वा तत्र हानोपादाने स्यातां न तद्द्वयमिह ब्रह्मणि संभवति / विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च / अतो न तत्र हानोपादान इत्यर्थः / चिन्ता यत्र न विद्यते / सर्वप्रकारैव चिन्ता न संभवति यत्रामनस्त्वात्कुतस्तत्र हानोपादान इत्यर्थः / यदैवात्मसत्यानुबोधो जातस्तदैवात्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम्, अजाति जातिवर्जितम्, समतां गतं परं साम्यमापन्नं भवति / यदादौ प्रतिज्ञातमतो वक्ष्याम्यकार्पण्यमजाति समतां गतमितीदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते, अजाति समतां गतमिति / एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत्᳚यो वै९तदक्षरं गार्ग्यविदित्वास्माल्लौकात्प्रैति स कृपणः᳚(बृ.उ.३ / ८ / १०) इति श्रुतेः / प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः
SK
START Mअन्द्Uप्K ३.३९
SK
यद्यपीदमित्थं परमार्थतत्त्वम्-
SK
अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः / योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः // Mअन्द्Uप्K_३.३९ //
SK
Mअन्द्Uप्KC_३.३९ अस्पर्शयोगो नामायं सर्वसंबन्धाख्यस्पर्शवर्जितत्वादस्पर्शयोगो नाम वै स्मर्यते प्रसिद्धमुपनिषत्सु / दुःखेन दृश्यत इति दुर्दर्शः सर्वैर्योगिभिर् वेदान्तविहितविज्ञानरहितैः सर्वयोगिभिः / आत्मसत्यानुबोधायासलभ्य एवेत्यर्थः /
SK
योगिनो बिभ्यति ह्यस्मात्सर्वभयवर्जितादप्यात्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्त्य् अभये ऽस्मिन्भयदर्शिनो भयनिमित्तात्मनाशदर्शनशीला अविवेकिन इत्यर्थः
SK
START Mअन्द्Uप्K ३.४०
SK
येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत् कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या चाक्षया शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नोपचारः कथञ्चनेत्यवोचाम / ये त्वतो ऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनो ऽन्यदात्मव्यतिरिक्तमात्संबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानाम्-
SK
मनसो निग्रहायत्तम् अभयं सर्वयोगिनाम् / दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च // Mअन्द्Uप्K_३.४० //
SK
Mअन्द्Uप्KC_३.४० मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् / किं च दुःखक्षयो ऽपि, न ह्यात्मसंबन्धिनि मनसि प्रचलिते दुःखक्षयो ऽस्त्य् अविवेकिनाम् / किं चात्मप्रबोधो ऽपि मनोनिग्रहायत्त एव / तथाक्षयापि मोक्षाख्या शान्तिस् तेषां मनोनिग्रहायत्तैव
SK
START Mअन्द्Uप्K ३.४१
SK
उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना / मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः // Mअन्द्Uप्K_३.४१ //
SK
Mअन्द्Uप्KC_३.४१ मनोनिग्रहो ऽपि तेषामुदधेः कुशाग्रेणैकबिन्दुनो९त्सेचनेन शोषणव्यवसायवद्व्यवसायवतामनवसन्नान्तः करणानामनिर्वेदादपरिखेदतो भवतीत्यर्थः
SK
START Mअन्द्Uप्K ३.४२
SK
किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रह उपायः? न, इत्युच्यते /
SK
उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः / सुप्रसन्नं लये चैव यथा कामो लयस् तथा // Mअन्द्Uप्K_३.४२ //
SK
Mअन्द्Uप्KC_३.४२ अपरिखिन्नव्यवसायवान्सन् वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः / किं च लीयते ऽस्मिन्निति सुषुप्तो लयस्तस्मिंल्लये च सुप्रसन्नम् आयासवर्जितं अपी७त्येतत्, निगृह्णीयादित्यनुवर्तते /
SK
सुप्रसन्नं चेत्कस्मान्निगृह्यत इत्युच्यते / यस्माद्यथा कामो ऽनर्थहेतुस्तथा लयो ऽपि / अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यमित्यर्थः
SK
START Mअन्द्Uप्K ३.४३
SK
कः स उपायः? इत्युच्यते-
SK
दुःखं सर्वम् अनुस्मृत्य कामभोगान् निवर्तयेत् / अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति // Mअन्द्Uप्K_३.४३ //
SK
Mअन्द्Uप्KC_३.४३ सर्वं द्वैतमविद्याविजृम्भितं दुःखमेवेत्यनुस्मृत्य कामभोगात्कामनिमित्तो भोग इच्छाविषयस्तस्माद्विप्रसृतं मनो निवर्तयेद्वैराग्यभावनयेत्यर्थः / अजं ब्रह्मसर्वमित्येतच्छास्त्राचार्योपदेशतो ऽनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति, अभावात्
SK
START Mअन्द्Uप्K ३.४४
SK
लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः / सकषायं विजानीयात् समप्राप्तं न चालयेत् // Mअन्द्Uप्K_३.४४ //
SK
Mअन्द्Uप्KC_३.४४ एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं संबोधयेन्मन आत्मविवेकदर्शनेन योजयेत् / चित्तं मन इत्यनर्थान्तरम् / विक्षिप्तं च कामभोगेषु शमयेत्पुनः / एव पुनः पुनरभ्यस्यतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितं नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् / ततो ऽपि यत्नतः साम्यमापादयेत् / यदा तु समप्राप्तं भवति समप्राप्त्यभिमुखीभवतीत्यर्थः, ततस्तन्न विचालयेद्विषयाभिमुखं न कुर्यादित्यर्थः
SK
START Mअन्द्Uप्K ३.४५
SK
नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् / निश्चलं निश्चरच् चित्तम् एकीकुर्यात् प्रयत्नतः // Mअन्द्Uप्K_३.४५ //
SK
Mअन्द्Uप्KC_३.४५ समाधित्सतो योगिनो यत्सुखं जायते तन्नाखादयेत्, तत्र न रज्येतेत्यर्थः / कथं तर्हि? निःसङ्गो निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखं तदविद्यापरिकल्पितं मृषैवेति विभावयेत् / ततो ऽपि सुखरागान्निगृह्णीयादित्यर्थः /
SK
यथा पुनः सुखरागान्निवृत्तं निश्चलस्वभावं सन्निश्चरद्बहिर्निर्गच्छद्भवति चित्तं ततस्ततो नियम्योक्तोपायेनात्मन्येवैकीकुर्यात्प्रयत्नतः / चित्तस्वरूपसत्तामात्रमेवापादयेदित्यर्थः
SK
START Mअन्द्Uप्K ३.४६
SK
यदा न लीयते चित्तं न च विक्षिप्यते पुनः / अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा // Mअन्द्Uप्K_३.४६ //
SK
Mअन्द्Uप्KC_३.४६ यथोक्तोपायेन निगृहीतं चित्तं यदा सुषुöए न Öईयतेन च पुनर्विषयेषुविक्षिप्यते, अनिङ्गनमचलं निवातप्रदीपकल्पम्, अनाभासं न केनचित्कल्पितेन विषयभावेनावभासत इति, यदैवंलक्षणं चित्तं तदा निष्पन्नं ब्रह्म बह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः
SK
START Mअन्द्Uप्K ३.४७
SK
स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् / अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते // Mअन्द्Uप्K_३.४७ //
SK
Mअन्द्Uप्KC_३.४७ यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वात्मनि स्थितम्, शान्तं सर्वानर्थोपशमरूपम्, सनिर्वाणं निर्वृतिनिर्माणं कैवल्यं सह निर्वाणेन वर्तते, तच्चाकथ्यं न शक्यते कथयितुम्, अत्यन्तासाधारणविषयत्वात्, सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव / न जातमित्यजं यथा विषयविषयम् / अजेनानुत्पन्नेन ज्ञेयेनाव्यतिरिक्तं सत्स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः
SK
START Mअन्द्Uप्K ३.४८
SK
सर्वो ऽप्ययं मनोनिग्रहादिर्मृल्लोहादिवत्सृष्टिरुपासना चोक्ता परमार्थस्वरूपप्रतिपत्युपायत्वेन न परमार्थसत्येति / परमार्थसत्यं तु
SK
न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते / एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते // Mअन्द्Uप्K_३.४८ //
SK
Mअन्द्Uप्KC_३.४८ न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्पद्यते केनचिदपि प्रकारेण / अतः स्वभावतो ऽजस्यास्यैकस्यात्मनः संभवः कारणं न विद्यते नास्ति / यस्मान्न विद्यते ऽस्य कारणं तस्मान्न कश्चिज्जायते जीव इत्येतत् / पूर्वेषूपायत्वेनोक्तानां सत्यानामेतत्तदुत्तमं सत्यं यस्मिन्सत्यस्वरूपे ब्रह्मण्यणुमात्रमपि किञ्चिन्न जायत इति
SK
ॐकारनिर्णयद्वारेणागमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याच्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्यैतदुत्तमं सत्यमित्युपसंहारः कृतो ऽन्ते / तस्यैतत्यागमार्थस्याद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च तेषां चान्योन्यविरोदाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् / क्लेशानास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनं स्तूयते / तदिह विस्तरेणान्योन्यविरुद्धतयासम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेनाद्वैतदर्शनसिद्धिरुपसंहर्तव्यावीतन्यायेनेत्यलातशान्द् इरारभ्यते /
SK
START Mअन्द्Uप्K ४.१
SK
तत्राद्वैतदर्शनसम्प्रदायकर्तुर् अद्वैतस्वरूपेणैव नमस्कारार्थो ऽयमाद्यश्लोकः / आचार्यपूजा ह्यभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Māṇḍūkya Upaniṣad with commentary: corpustei HTML transform of the Māṇḍūkya with commentary.

Source