Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · माण्डूक्योपनिषद् (सटीका)

Māṇḍūkya Upaniṣad with commentary

Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya

माण्डूक्योपनिषद् (सटीका)

Prakaraṇa 2

SK
वैतथ्यं सर्वभावानां स्वप्न आहुर् मनीषिणः / अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना // Mअन्द्Uप्K_२.१ //
SK
Mअन्द्Uप्KC_२.१ वितथस्य भावो वैतथ्यम्, असत्यत्वम् इत्यर्थः / कस्य? सर्वेषां बाह्याध्यात्मिकानां भावानां पदार्थानां स्वप्न उपलभ्यमानानाम्, आहुः कथयन्ति, मनीषिणः प्रमाणकुशलाः / वैतथ्ये हेतुमाहान्तःस्थानात्, अन्तः शरीरस्य मध्ये स्थानं येषाम् / तत्र हि भावोपलभ्यन्ते पर्वतहस्त्यादयो न बहिः शरीरात् / तस्मात् ते वितथा भवितुम् अर्हन्ति / नन्वपवरकाद्यन्तरुपलभ्यमानैर् घटादिभिरनैकान्तिको हेतुर् इत्याशङ्क्याह संवृतत्वेन हेतुन इति / अन्तः संवृतस्थानाद् इत्यर्थः / न ह्य् अन्तः संवृते देहेन्तो नाडीषु पर्वतहस्त्यादीनां संभवो ऽस्ति, न हि देहे पर्वतः, अस्ति
SK
START Mअन्द्Uप्K २.२
SK
स्वप्नदृश्यानां भावानामन्तः संवृतस्थानमित्येतद् असिद्धम्, यस्मात् प्राच्येषु सुप्त उदक्षु स्वप्नान् पश्यन्न् इव दृश्यत इत्येतद् आशङ्क्याह
SK
अदीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति / प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते // Mअन्द्Uप्K_२.२ //
SK
Mअन्द्Uप्KC_२.२ न देहाद्बर्हिदेशान्तरं गत्वा स्वप्नान् पश्यति / यस्मात् सुप्तमात्र एव देहदेशाद् योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान् पश्यन्न् इव दृश्यते / न च तद् देशप्राप्तेर् आगमनस्य दीर्घः कालो ऽस्ति / अतो दार्घत्वाच् च कालस्य न स्वप्नदृग्देशान्तरं गच्छति /
SK
किं च प्रतिबुद्धश् च वै सर्वः स्वप्नदृक्स्वप्नदर्शनदेशे न विद्यते / यदि च स्वप्ने देशान्तरं गच्छेद् यस्मिन् देशे स्वप्नान् पश्येत् तत्रैव प्रतिबुध्येत / न चैतद् अस्ति / रात्रौ सुप्तो ऽहनीव भावान् पश्यति, बहुभिः संगतो भवति, यश् च संगतः तैर् गृह्येत / न च गृह्यते, गृहीतश्चेत्वाम् अद्य तत्रोपलब्धवन्तो वयम् इति वयमिति ब्रूयुः / न चैतद् अस्ति तस्मान् न देशान्तरं गच्छति स्वप्ने
SK
START Mअन्द्Uप्K २.३
SK
इतश् च स्वप्नदृश्या भावा वितथा यतः
SK
अभावश् च रथादीनां श्रूयते न्यायपूर्वकम् / वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् // Mअन्द्Uप्K_२.३ //
SK
Mअन्द्Uप्KC_२.३ अभावश् चैव रथादीनां स्वप्नदृश्यानां श्रूयते न्यायपूर्वकं युक्तितः श्रुतौ᳚न तत्र रथाः᳚(बृ.उ.४ / ३ / १०) इत्य् अत्र / देहान्तः स्थानसंवृतत्वादिहेतुना प्राप्तं वैकथ्यं तद् अनुवादिन्या श्रुत्या स्वप्ने स्वयञ्ज्योतिष्ट्वप्रतिपादनपरया प्रकाशितमाहुर् ब्रह्मविदः
SK
START Mअन्द्Uप्K २.४
SK
अन्तस्थानात् तु भेदानां तस्माज् जागरिते स्मृतम् / यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते // Mअन्द्Uप्K_२.४ //
SK
Mअन्द्Uप्KC_२.४ जाग्रद् दृश्यानां भावानां वैतथ्यम् इति प्रतिज्ञा / दृश्यत्वाद् इति हेतुः स्वप्नदृश्यभाववद् इति दृष्टान्तः / यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यं तथा जागरिते ऽपि दृश्यत्वम् अविशिष्टम् इति हेतूपनयः / तस्माज् जागरिते ऽपि वैतथ्यं स्मृतम् इति निगमनम् / अन्तःस्थानात् संवृतत्वेन च स्वप्नदृश्यानां भावानां जाग्रद् दृश्येभ्यः भेदः / दृश्यत्वम् असत्यत्वं चाविशिष्टम् उभयत्र
SK
START Mअन्द्Uप्K २.५
SK
स्वप्नजागरितस्थाने ह्य् एकम् आहुर् मनीषिणः / भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना // Mअन्द्Uप्K_२.५ //
SK
Mअन्द्Uप्KC_२.५ प्रसिद्धेनैव भेदानां ग्राह्यग्राहकत्वेन हेतुना समत्वेन स्वप्नजागरितस्थानयोर् एकत्वमाहुर्विवेकिन इति पूर्वप्रमाणसिद्धस्यैव फलम्
SK
START Mअन्द्Uप्K २.६
SK
इतश् च वैतथ्यं जाग्रद् दृश्यानां भेदानाम् आद्यन्तयोर् अभावात् /
SK
आदावन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा / वितथैः सदृशाः सन्तो ऽवितथा इव लक्षिताः // Mअन्द्Uप्K_२.६ //
SK
Mअन्द्Uप्KC_२.६ यदादाव् अन्ते च नास्ति वस्तु मृगतृष्णिकादि तन्मध्ये ऽपि नास्त्य् अति निश्चितं लोके तथेमे जाग्रद् दृश्या भेदाः / आद्यन्तयोर् अभावाद् वितथैर् एव मृगतृष्णिकादिभिः सदृशत्वाद् वितथा एव तथापि वितथा इव लक्षिता मूढैर् अनात्मविद्भिः
SK
START Mअन्द्Uप्K २.७
SK
स्वप्नदृश्यवज्जागरितदृश्यानाम् अपि सत्वम् इति यद् उक्तं तद् अयुक्तम् / यस्माज् जाग्रद् दृश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्वन्तो गमनागमनादिकार्यं च सप्रयोजाना दृष्टाः / न तु स्वप्नदृश्यानां तद् अस्ति / तस्मात् स्वप्नदृश्यवद् जाग्रद् दृश्यानाम् असत्वं मनोरथमात्रम् इति /
SK
तन् न / कस्मात्? यस्मात्
SK
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते / तस्माद् आद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः // Mअन्द्Uप्K_२.७ //
SK
Mअन्द्Uप्KC_२.७ सप्रयोजनता दृष्टा या अन्नपानादीनां सा स्वप्ने विप्रतिपद्यते / जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तिततृट्सुप्तमात्र एव क्षुत्पिपासाद्यार्तम् अहोरात्रोषितं भुक्तवन्तम् आत्मानं मन्यते / यथा स्पप्ने भुक्त्वा पीत्वा च तृप्त उत्थितस् तथा / तस्माद् जाग्रद् दृश्यानां स्वप्ने विप्रतिपत्तिर् दृष्टा / अतो मन्यामहे तेषाम् अप्य् असत्वं स्पप्नदृश्यवदनाशङ्कनीयम् इति / तस्माद् आद्यन्तवत्वमुभयत्र समानम् इति मिथ्या इव खलु ते स्मृताः
SK
START Mअन्द्Uप्K २.८
SK
स्वप्नजाग्रद्भेदयोः समत्वाज् जाग्रद्भेदानाम् असत्वम् इति यद् उक्तं तदसत् / कस्मात्? दृष्टान्तस्यासिद्धत्वात् / कथम्? न हि जाग्रद् दृष्टा एवैते भेदाः स्वप्ने दृश्यन्ते / किं तर्हि? अपूर्वं स्वप्ने पश्यति, चतुर्दन्तगजमारूठमष्टभुजमात्मानं मन्यते / अन्यद् अप्य् एवंप्रकारम् अपूर्वं पश्यति स्वप्ने / तन् नान्येना असता समम् इति सदेव / अतो दृष्टान्तो ऽसिद्धः / तस्मात्स्वप्नवज्जागरितस्यासत्वमित्य् अयुक्तम् /
SK
तन् न, स्वप्ने दृष्टम् अपूर्वं यन् मन्यसे न तत्स्वतः सिद्धम् / किं तर्हि?
SK
अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् / तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः // Mअन्द्Uप्K_२.८ //
SK
Mअन्द्Uप्KC_२.८ अपूर्वं स्थानिधर्मो हि स्थानिनो द्रष्टुर् एव हि स्वप्नस्थानवतो धर्मः / यथा स्वर्गनिवासिनामिन्द्रादीनां सहस्राक्षत्वादि तथा स्वप्नदृशो ऽपूर्वो ऽयं धर्मः / न स्वतः सिद्धो द्रष्टुः स्वरूपवत् / तानेवंप्रकारानपूर्वान्स्वचित्तविकल्पानयं स्थानी स्वप्नदृक्स्वप्नस्थाने गत्वा प्रेक्षते / यथैवेह लोके सुशिक्षितो देशान्तरमार्गस्तने मार्गेण देशान्तरं गत्वा तान्पदार्थान्पश्यति तद्वत् / तस्माद्यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादीनामसत्वं तथा स्वप्नदृष्यानामपूर्वाणां स्थानिधर्मत्वमेवेत्यसत्त्वमतो न स्वप्नदृष्टान्तस्यासिद्धत्वम्
SK
START Mअन्द्Uप्K २.९
SK
अपूर्वत्वाशङ्का निराकृता स्वप्नदृष्टान्तस्य पुनः स्वप्नतुल्यतां जाग्रद्भेदानां प्रपञ्चयन्नाह
SK
स्वप्नवृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् / बहिश् चेतोगृहीतं सद् दृष्टं वैतथ्यम् एतयोः // Mअन्द्Uप्K_२.९ //
SK
Mअन्द्Uप्KC_२.९ स्वप्नवृत्ताव् अपि स्वप्नस्थाने ऽप्य् अन्तश् चेतसा मनोरथसङ्कल्पितम् असत् / सङ्कल्पानन्तरसमकालम् एवादर्शनात् तत्रैव स्वप्ने बहिश् चेतसा गृहीतं चक्षुरादिद्वारेणोपलब्धं घटादि सत् / इत्य् एव सत्यम् इति निश्चिते ऽपि सदसद्विभागो दृष्टः / उभयोरप्यन्तर्बहिश्चेतः कल्पितयोर्वैतथ्यमेव दृष्टम्
SK
START Mअन्द्Uप्K २.१०
SK
जाग्रद्वृत्तावपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् / बहिश्चेतोगृहीतं सद् युक्तं वैतथ्यम् एतयोः // Mअन्द्Uप्K_२.१० //
SK
Mअन्द्Uप्KC_२.१० सदसतोर्वैतथ्यं युक्तम्, अन्तर्बहिश्चेतःकल्पितत्वाविशेषादिति व्याख्यातमन्यत्
SK
START Mअन्द्Uप्K २.११
SK
चोदक आह
SK
उभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि / क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः // Mअन्द्Uप्K_२.११ //
SK
Mअन्द्Uप्KC_२.११ स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यं क एतानर्बहिश्चेतःकल्पितान्बुध्यते / को वै तेषां विकल्पकः / स्मृतिज्ञानयोः क आलम्बनमित्यभिप्रायः, न चेन्निरात्मवाद इष्टः
SK
START Mअन्द्Uप्K २.१२
SK
कल्पयत्य् आत्मनात्मानम् आत्मा देवः स्वमायया / स एव बुध्यते भेदान् इति वेदान्तनिश्चयः // Mअन्द्Uप्K_२.१२ //
SK
Mअन्द्Uप्KC_२.१२ स्वयं स्वमायया स्वमात्मानमात्सा देव आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन् स्वयमेव त तान्बुध्यते भेदांस्तद्वदेवेत्येवं वेदान्तनिश्चयः / नान्यो ऽस्ति ज्ञानस्मृत्याश्रयो न च निरास्पद एव ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः
SK
START Mअन्द्Uप्K २.१३
SK
सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते
SK
विकरोत्य् अपरान् भावान् अन्तश्चित्ते व्यवस्थितान् / नियतांश् च बहिश्चित्त एवं कल्पयते प्रभुः // Mअन्द्Uप्K_२.१३ //
SK
Mअन्द्Uप्KC_२.१३ विकरोति नाना करोत्यपरांल् लौकिकान् भावान् पदार्थाञ् शब्दादीनन्यांश्चान्तश्चित्ते वासनारूपेण व्यवस्थितानव्याकृतान् नियतांश्च पृथ्व्यादीननियतांश्च कल्पनाकालान्बहिश्चित्तः संस्तथान्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति प्रभुरीश्वर आत्मेत्यर्थः
SK
START Mअन्द्Uप्K २.१४
SK
स्वप्नवच्चित्तपरिकल्पितं सर्वमित्येतदाशङ्क्यते / यस्माच्चित्तपरिकल्पितैर्मनोरथादिलक्षणैश्चित्तपरिच्छेद्यैवैलक्षण्यं बाह्यानामन्योन्यपरिच्छेद्यत्वमिति //
SK
सा न युक्ताशङ्का /
SK
चित्तकाला हि ये ऽन्तस् तु द्वयकालाश् च ये बहिः / कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः // Mअन्द्Uप्K_२.१४ //
SK
Mअन्द्Uप्KC_२.१४ चित्तकाला हि ये ऽन्तस्तु चित्तपरिच्छेद्याः, नान्यश्चित्तकालव्यतिरेकेण परिच्छेदकः कालो येषां ते चित्तकालाः / कल्पनाकाल एवोपलभ्यन्त इत्यर्थः / द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः / यथागोदोहनमास्ते, यावदास्ते तावद्गां दोग्धि यावद्गां दोग्धि तावदास्ते / तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकत्वं बाह्यानां भेदानां ते द्वयकला अन्तश्चित्तकाला बाह्याश्च द्वयकालाः कल्पिता एव ते सर्वे / न बाह्यो द्वयकालत्वविशेषः कल्पितत्वव्यतिरेकेणान्यहेतुकः / अत्रापि हि स्वप्नदृष्टान्तो भवत्येव
SK
START Mअन्द्Uप्K २.१५
SK
अव्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः / कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रियान्तरे // Mअन्द्Uप्K_२.१५ //
SK
Mअन्द्Uप्KC_२.१५ यदप्यन्तरव्यक्तत्वं भावानां मनोवासनामात्राभिव्यक्तानां स्फुटत्वं वा बहिश्चक्षुरादीन्द्रियान्तरे विशेषो नासौ भेदानामस्तित्वकृतः स्वप्ने ऽपि तथा दर्शनात् / किन्तर्हि? इन्द्रियान्तरकृत एव / अतः कल्पिता एव जाग्तद्भावा अपि स्वप्नभाववदिति सिद्धम्
SK
START Mअन्द्Uप्K २.१६
SK
बाह्याध्यात्मिकानां भावानामितरेतरनिमित्तनैमित्तिकतया कल्पनायां किं मूलमित्युच्यते
SK
जीवं कल्पयते पूर्वं वचो भावान् पृथग्विधान् / बाह्यान् आध्यात्मिकांश् चैव यथाविद्यस् तथास्मृतिः // Mअन्द्Uप्K_२.१६ //
SK
Mअन्द्Uप्KC_२.१६ जीवं हेतुफलात्मकम्, अहं करोमि मम सुखदुःखे इत्येवं लक्षणम्, अनेवंलक्षण एव शुद्ध आत्मनि रज्जाविव सर्पं कल्पयते पूर्वम् / ततस्तादर्थ्येन क्रियाकारकफलभेदेन प्राणादीन्नानाविधान्भावान्बाह्यानाध्यात्मिकांश्चैव कल्पते / तत्र कल्पनायां को हेतुरित्युच्यते / यो ऽसौस्वयङ्कल्पितो जीवः सर्वकल्पनायामधिकृतः स यथाविद्यः, यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथाविधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति / अतो हेतुकल्पनाविज्ञानात्फलविज्ञानं ततो हेतिफलस्मृतिस्ततस्तद्विज्ञानं तदर्थक्रियाकारकतत्फलभेदविज्ञानानि तेभ्यस्तत्स्मृतिस्तत्स्मृतेश्च पुनस्तद्विज्ञानानीत्येवं बाह्यानाध्यात्मिकांश्चेतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते
SK
START Mअन्द्Uप्K २.१७
SK
तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तं सैव जीवकल्पना किंनिमित्तेति दृष्टान्तेन प्रतिपादयति
SK
अनिश्चिता यथा रज्जुर् अन्धकारे विकल्पिता / सर्पधारादिभिर् भावैस् तद्वद् आत्मा विकल्पितः // Mअन्द्Uप्K_२.१७ //
SK
Mअन्द्Uप्KC_२.१७ यथा लोके स्वेन रूपेणानिश्चितानवधारितैवमेवेति रज्जुर्मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वानेकधा विकल्पिता भवति पूर्वं स्वरूपानिश्चयनिमित्तं यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता स्यात्, न सर्पादिविकल्पो ऽभविष्यद् यथा स्वहस्ताङ्गुल्यादिषु, एष दृष्टान्तः / तद्वद्धेतुफलादिसंसारधर्मानर्थविलक्षणतया स्वेन विशुद्धविज्ञप्तिमात्रसत्ताद्वयरूपेणानिश्चितत्वाज्जीवप्राणाद्यनन्तभावभेदैरात्मविकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः
SK
START Mअन्द्Uप्K २.१८
SK
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते / रज्जुर् एवेति चाद्वैतं तद्वद् आत्मविनिश्चयः // Mअन्द्Uप्K_२.१८ //
SK
Mअन्द्Uप्KC_२.१८ रज्जुरेवेति निश्चये सर्वविकल्पनिवृत्तौ रज्जुरेवेति चाद्वैतं यथा तथा ऽनेति नेतिऽ(बृ.उ.४.४.२२) इति सर्वसंसारधर्मशून्यप्रतिपादकशास्त्रजनितविज्ञानसूर्यालककृतात्मविनिश्चयः ऽआत्मैवेदं सर्वम्ऽ (छा.उ.७.२५.२) ऽअपूर्वमनपरमनन्तरमबाह्यम्ऽ (बृ.उ.२.५.१९) ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु.उ.२.१.२) ऽअजरो ऽमरो ऽमृतो ऽभयःऽ(बृ.उ.४.४.२५) ऽएक एवाद्वयःऽ इति
SK
START Mअन्द्Uप्K २.१९
SK
यद्यात्मैक एवेति निश्चयः कथं प्राणादिभिरनन्तैर्भावैरेतैः संसारलक्षणैर्विकल्पित इत्य् उच्यते, शृणु
SK
प्राणादिभिर् अनन्तैश् च भावैर् एतैर् विकल्पितः / मायैषा तस्य देवस्य यया संमोहितः स्वयम् // Mअन्द्Uप्K_२.१९ //
SK
Mअन्द्Uप्KC_२.१९ मायैषा तस्यात्मनो देवस्य / यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति तथेयमपि देवस्य माया ययायं स्वयमपि मोहित इव मोहितो भवति / ऽमम माया दुरत्ययाऽ(गीता ७.१४) इत्युक्तम्
SK
START Mअन्द्Uप्K २.२०-२८
SK
प्राण इति प्राणविदो भूतानीति च तद्विदः / गुणा इति गुणविदस् तत्त्वानीति च तद्विदः // Mअन्द्Uप्K_२.२० //
SK
पादा इति पादविदो विषया इति च तद्विदः / लोका इति लोकविदो देवा इति च तद्विदः // Mअन्द्Uप्K_२.२१ //
SK
वेदा इति वेदविदो यज्ञा इति च तद्विदः / भोक्तेति च भोक्तृविदो भोज्यम् इति च तद्विदः // Mअन्द्Uप्K_२. २२ //
SK
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः / मूर्त इति मूर्तविदो ऽमूर्त इति च तद्विदः // Mअन्द्Uप्K_२.२३ //
SK
काल इति कालविदो दिश इति च तद्विदः / वादा इति वादविदो भुवनानीति तद्विदः // Mअन्द्Uप्K_२.२४ //
SK
मन इति मनोविदो बुद्धिर् इति च तद्विदः / चित्तम् इति चित्तविदो धर्माधर्मौ च तद्विदः // Mअन्द्Uप्K_२.२५ //
SK
पञ्चविंशक इत्य् एके षड्विश इति चापरे / एकत्रिंशक इत्य् आहुर् अनन्त इति चापरे // Mअन्द्Uप्K_२.२६ //
SK
लोकांल् लोकविदः प्राहुर् आश्रमा इति तद्विदः / स्त्रीपुंनपुंसकं लैङ्गाः परापरम् अथापरे // Mअन्द्Uप्K_२.२७ //
SK
सृष्टिर् इति सृष्टिविदो लय इति च तद्विदः / स्थितिर् इति स्थितिविदः सर्वे चेह तु सर्वदा // Mअन्द्Uप्K_२.२८ //
SK
Mअन्द्Uप्KC_२.२८ प्राणः प्राज्ञो बीजात्मा तत्कार्यभेदा हीतरे स्थत्यन्ताः / अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिता भेदा रज्ज्वामिव सर्पादयस् तच्छून्य आत्मन्यात्मस्वरूपानिश्चयहेतोरविद्यया कल्पिता इति पिण्डीकृतोर्ऽथः / प्राणादिश्लोकानां प्रत्येकं पदार्थव्याख्याने फल्गुप्रयोजनत्वात्सिद्धपदार्थत्वाच्च यत्नो न कृतः
SK
START Mअन्द्Uप्K २.२९
SK
किं बहुना
SK
यं भावं दर्शयेद् यस्य तं भावं स तु पश्यति / तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् // Mअन्द्Uप्K_२.२९ //
SK
Mअन्द्Uप्KC_२.२९ प्राणादीनामन्यतममुक्तमनुक्तं वान्यं भावं पदार्थं दर्शयेद्यस्याचार्यो ऽन्यो वाप्त इदमेव तत्त्वमिति स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा / तं च द्रष्टारं स भावो ऽवति यो दर्शितो भावो ऽसौ भूत्वा रक्षति / स्वेनात्मना सर्वतो निरुणद्धि / तस्मिन्ग्रहस्तद्ग्रहस्तदभिनिवेशः / इदमेव तत्त्वमिति स तं ग्रहीतारमुपैति / तस्यात्मभावं निगच्छतीत्यर्थः
SK
START Mअन्द्Uप्K २.३०
SK
एतैर् एषो ऽपृथग्भावैः पृथग् एवेति लक्षितः / एवं यो वेद तत्त्वेन कल्पयेत् सो ऽविशङ्कितः // Mअन्द्Uप्K_२.३० //
SK
Mअन्द्Uप्KC_२.३० एतैः प्राणादिभिरात्मनो ऽपृथग्भूतैरपृथग्भावैरेष आत्मा रज्जुरिव सर्पादि विकलप्नारूपैः पृथगेवेति लक्षितो ऽभिलक्षितो निश्चितो मूढैरित्यर्थः / विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तीत्यभिप्राय इदं सर्वं यदयमात्मा (बृ.उ.२.४.६, ४.५.७) इति श्रुतेः /
SK
एवमात्मव्यतिरेकेणासत्वं रज्जुसर्पवदात्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च स अविशङ्कितो वेदार्थं विभागतः कल्पयेत्कल्पयतीत्यर्थः इदमेवंपरं वाक्यमदो ऽन्यपरमिति /
SK
न ह्यनध्यात्मविद्वेदाञ्ज्ञातुं शक्नोति तत्त्वतः / ऽनह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुतेऽ (मनु.६ / ८२) इति हि मानवं वचनम्
SK
START Mअन्द्Uप्K २.३१
SK
यदेत्द्वैतस्यासत्त्वमुक्तं युक्तितस्तदेतद्वेदान्तप्रमाणावगतमित्याह
SK
स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा / तथा विश्वम् इदं दृष्टं वेदान्तेषु विचक्षणैः // Mअन्द्Uप्K_२.३१ //
SK
Mअन्द्Uप्KC_२.३१ स्वप्नश्च माया च स्वप्नमाये ऽसद्वस्त्वात्मिके ऽसत्यौ सद्वस्त्वात्मिक इव लक्ष्येते ऽविवेकिभिः / यथा च प्रसारितपण्या पणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सदकस्मादभावतां गतं दृष्टम्, यथा च स्वप्नमाये दृष्टे ऽसद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् /
SK
क्वेत्याह वेदान्तेषु / ᳚नेह नानास्ति किञ्चन᳚(क.उ.२ / १ / ११, बृ.उ.४ / ४ / १९) ᳚इन्द्रो मायाभिः᳚(बृ.उ.२ / ५ / १९) ᳚आत्मैवेदमग्र आसीत्᳚ (बृ.उ.१ / ४ / १७) ᳚ब्रह्म वेदमग्र आसीत्᳚(बृ.उ.१ / ४ / १०) ᳚द्वितीयाद्वै भयं भवति᳚(बृ.उ.१ / ४ / २) ᳚न तु तद्द्वितीयस्ति᳚(बृ.उ.४ / ३ / २३) ᳚यत्र स्वस्य सर्वमात्मैवाभूत्᳚(बृ.उ.४ / ५ / १५) इत्यादिषु विचक्षणैर्निपुणतरवस्तुदर्शिभि पण्डितैरित्यर्थः /
SK
᳚तमःश्वभ्रनिभं दृष्टं वर्षबुद्बुदसन्निभम् / नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्᳚इति व्यासस्मृतेः
SK
START Mअन्द्Uप्K २.३२
SK
प्रकरणार्थोपसंहारार्थो ऽयं श्लौकः / यदा वितथं द्वैतमात्मैवैकः परमार्थतः संस्तदेदं निष्पन्नं भवति सर्वो ऽयं लौकिको वैदिकश्च व्यवहारो ऽविद्याविषय एवेति /
SK
तदा
SK
न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः / न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता // Mअन्द्Uप्K_२.३२ //
SK
Mअन्द्Uप्KC_२.३२ न निरोधः निरोधनं निरोधः प्रलयः, उत्पत्तिर्जननम्, बद्धः संसारी जीवः, साधको माधनवान्मोक्षस्य, मुमुक्षुर्मोचनार्थी, मुक्तो विमुक्तबन्धः / उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता /
SK
कथमुत्पत्तिप्रलयोरभावः, इत्युच्यते, द्वैतस्यासत्वात् / यत्र हि द्वैतमिव भवति᳚(बृ.उ.२ / ४ / १४) ᳚य इह नानेव पश्यति᳚(क.उ.२ / १ / १०,११) ᳚आत्मैवेदं सर्वम्᳚(छा.उ.७ / २५ / २) ᳚ब्रह्मैवेदं सर्वम्᳚(नृसिंहोत्तर.७)᳚एकमेवाद्वितीयं᳚(छा.उ.६ / २ / १) ᳚इदं सर्वं यदयमात्मा᳚(बृ.उ.२ / ४ / ६,४ / ५ / ७) इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्वं सिद्धम् /
SK
सतो ह्युत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादे / नाप्यद्वैतमुत्पद्यते लीयते वा / अद्वयं चोत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् /
SK
यस्तु पुनर्द्वैतसंव्यवहारः स रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् / न हि मनोविकल्पनाया रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा / न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा न चोभयतो वा / तथा मानसत्वाविशेषाद्द्वैतस्य / न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते /
SK
अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् / तस्माद्सूक्तं द्वैतस्यासत्वान्निरोधाद्यभावः परमार्थतेति /
SK
यद्येवं द्वैताभावे शास्त्रव्यापारो नाद्वैते विरोधात् / तथा च सत्यद्वैतस्य वस्तुत्वे प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् / न; रज्जुसर्पादिविकल्पनाया निरास्पदत्वानुपपत्तिरिति प्रत्युक्तमेतत्कथमुज्जीवयसीत्याह रज्जुरपि सर्पविकल्पस्यास्पद भूता विकल्पितैवेति दृष्टान्तानुपपत्तिः /
SK
न; विकल्पनाक्षये ऽविकल्पितस्याविकल्पितत्वादेव सत्तोपत्तेः / रज्जुसर्पवदसत्त्वमिति चेत्? न, एकान्तेनाविकल्पितत्वादविकल्पितरज्ज्वंशवत्प्राक् सर्पाभावविज्ञानात् / विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादसत्वानुपपत्तिः /
SK
कथं पुनः स्वरूपेव्यापाराभावे शास्त्रस्य द्वैतविज्ञाननिवर्तकत्वम्?
SK
नैष दोषः / रज्ज्वां सर्पादिवदात्मनि द्वैतस्याविद्याध्यस्तत्वात् / कथम्? सुख्यहं दुःखी मूढो जातो मृतो जीर्णो देहवान् पश्यामि व्यक्तो ऽव्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोहं ममैत इत्येवमादयः सर्व आत्मन्यध्यारोप्यन्ते / आत्मैतेष्वनुगतः सर्वत्राव्यभिचारात् / यथा सर्पधारादिभेदेषु रज्जुः /
SK
यदा चैवं विशेष्यस्वरूपप्रत्ययस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण / अकृतकर्तृ च शास्त्रं कृतानुकारित्वे ऽप्रामाणम् / यतो ऽविद्याध्यारोपितसुखित्वादिविशेषप्रतिबन्धादेवात्मनः स्वरूपेणानवस्थानं स्वरूपावस्थानं च श्रेय इति सुखित्वादिनिवर्तकं शास्त्रम् आत्मन्यसुखित्वादिप्रत्ययकरणेन नेति नेत्यस्थूलादिवाक्यैः / आत्मस्वरूपवदसुखित्वाद्यपि सुखित्वादिभेदेषु नानुवृत्तो ऽस्ति धर्मः / यद्यनुवृत्तः स्यान्नाध्यारोपितसुखित्वादिलक्षणो विशेषः / यथोष्णत्वगुणविशेषवत्यग्नौ शीतता / तस्मान्निर्विशेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः / यत्त्वसुखित्वादिशास्त्रमात्मनस्तत्सुखित्वादि विशेषनिवृत्यर्थमेवेति सिद्धम् / ᳚सिद्धं तु निवर्तकत्वात्᳚इत्यागमविदां सूत्रम्
SK
START Mअन्द्Uप्K २.३३
SK
पूर्वश्लोकार्थस्य हेतुमाह
SK
भावैर् असद्भिर् एवायम् अद्वयेन च कल्पितः / भावा अप्य् अद्वयेनैव तस्माद् अद्वयता शिवा // Mअन्द्Uप्K_२.३३ //
SK
Mअन्द्Uप्KC_२.३३ यथा रज्ज्वामसद्भिः सप्रधारादिभिरद्वयेन च रज्जुद्रव्येण सतायं सर्प इयं धारा दण्डो ऽयमिति वा रज्जुद्रव्यमेव कल्प्यत एवं प्राणादिभिरनन्तैरसद्भिरेवाविद्यमानैः, न परमार्थतः न ह्यप्रचलिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित्; न चात्मनः प्रचलनमस्ति; प्रचलितस्यैवोपलभ्यमाना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः अतो ऽसद्भिरेव प्राणादभावैरद्वयेन च परमार्थसतात्मना रज्जुवत्तर्वविकल्पास्पदभूतेनायं स्वयमेवात्मा कल्पितः; सदैकस्वभावो ऽपि सन् /
SK
ते च प्राणादिभावां अप्यद्वयेनैव सतात्मना विकल्पिताः / न हि निरास्पदा काचित्कल्पनोपलभ्यते; अतः सर्वकल्पनास्पदत्वात्स्वेनात्नाद्वयस्याव्यभिचारात्कल्पनावस्थायामप्यद्वयता शिवा / कल्पना एव त्वंशिवाः / रज्जुसर्पादिवत्त्रासादिकारिण्यो हि ताः / अद्वयताभयातः सैव शिवा
SK
START Mअन्द्Uप्K २.३४
SK
कुतश्चाद्वयता शिवा? नानाभूतं / पृथक्त्वमन्यस्यान्यस्माद्यत्र दृष्टं तत्राशिवं भवेत् /
SK
नात्मभावेन नानेदं न स्वेनापि कथञ्चन / न पृथङ् नापृथक् किञ्चिद् इति तत्त्वविदो विदुः // Mअन्द्Uप्K_२.३४ //
SK
Mअन्द्Uप्KC_२.३४ न ह्यत्राद्वये परमार्थसत्यात्मनि प्राणादिसंसारजातमिदं जगदात्मभावेन परमार्थस्वरूपेण निरीप्यमाणं नाना वस्त्वन्तरभूतं भवति / यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पो ऽस्ति तद्वत् / नापि स्वेन प्राणाद्यात्मनेदं विद्यते / कदाचिदपि रज्जुसर्पवत्कल्पितत्वादेव /
SK
तथान्योन्यं न पृथक्प्राणादि वस्तु यथाश्वान्महिषः पृथग्विद्यत एवम् / अतो ऽस्त्वान्नापृथग्विद्यते ऽन्योन्यं परेण वा किञ्चिदित्य् एवं परमार्थतत्त्वमातविदो ब्राह्मणा विदुः / अतो ऽशिवहेतुत्वाभावादद्वयतैव शिवेत्यभिप्रायः
SK
START Mअन्द्Uप्K २.३५
SK
तदेतत्सम्यग्दर्शनं स्तूयते
SK
वीतरागभयक्रोधैर् मुनिभिर् वेदपारगैः / निर्विकल्पो ह्य् अयं दृष्टः प्रपञ्चोपशमो ऽद्वयः // Mअन्द्Uप्K_२.३५ //
SK
Mअन्द्Uप्KC_२.३५ विगतरागभयद्वेषक्रोधादिसर्वदैषैः सर्वदा मुनिभिर्मननशीलैर्विवेकिभिर्वेदपारगैरवगतवेदार्थतत्त्वैर्ज्ञानिभिर्नि र्विकल्पः सर्वविकल्पः शून्यो ऽमात्मा दृष्ट उपलब्धो वेदान्तार्थतत्परैः प्रपञ्चोपशमः प्रपञ्चो द्वैतभेदविस्तारस्तस्योपशमो ऽभावो यस्मिन्स आत्मा प्रपञ्चोपशमो ऽत एवाद्वयो विगतदोषैरेव पण्डितैर्वेदान्तार्थतत्परैः संन्यसिभिः परमात्मा द्रष्टुं शक्यः, नान्यै रागादिकलुषितचेतोभिः स्वपक्षपातिदर्शनैस्तार्किकादिभिरित्याभिप्रायः
SK
START Mअन्द्Uप्K २.३६
SK
यस्मात्सर्वानर्थप्रशमरूपत्वादद्वयं शिवमभयम्
SK
तस्माद् एवं विदित्वैनम् अद्वैते योजयेत् स्मृतिम् / अद्वैतं समनुप्राप्य जडवल्लोकम् आचरेत् // Mअन्द्Uप्K_२.३६ //
SK
Mअन्द्Uप्KC_२.३६ अत एवं विदित्वैनमद्वैते स्मृतिं योजयेत् / अद्वैतावगमायैव स्मृतिं कुर्यादित्यर्थः / तच्चाद्वैतमवगम्याहमस्मि परं ब्रह्मेति विदित्वाशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यवहारातीतं जडवल्लोकमाचरेत् / अप्रख्यापयन्नात्मानमहमेवंविध इत्यभिप्रायः
SK
START Mअन्द्Uप्K २.३७
SK
कया चर्यया लोकमाचरेदित्याह
SK
निःस्तुतिर् निर्नमस्कारो निःस्वधाकार एव च / चलाचलनिकेतश् च यतिर् यादृच्छिको भवेत् // Mअन्द्Uप्K_२.३७ //
SK
Mअन्द्Uप्KC_२.३७ स्तुतिनमस्कारादिसर्वकर्मवर्जितस्त्यक्तसर्वबाह्यैषणः प्रतिपन्नपरमहंसपारिव्राज्य इत्यभिप्रायः᳚एतं वै तमात्मानं विदित्वा᳚(बृ.उ.३ / ५ / १) इत्यादिश्रुतेः;᳚तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः᳚(गीता ५ / १७) इत्यादिस्मृतेश्च चलं शरीरं प्रतिक्षणमन्यथाभावात्, अचलमात्मतत्त्वम्, यदाकदाचिद्भोजनादिव्यवहारनिमित्तमाकाशवदचलं स्वरूपमात्मतत्त्वमात्मनो निकेतमाश्रयमात्मस्थितिं विस्मृत्याहमिति मन्यते यदा तदा चलो देहो निकेतो यस्य स अयमेवं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रयः; स च यादृच्छिको भवेद् यदृच्छाप्राप्तकौपीनच्छादनग्रासमात्रदेहस्थितिरित्यर्थः
SK
START Mअन्द्Uप्K २.३८
SK
तत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः / तत्त्वीभूतस् तदारामस् तत्त्वाद् अप्रच्युतो भवेत् // Mअन्द्Uप्K_२.३८ //
SK
Mअन्द्Uप्KC_२.३८ बाह्यं पृथिव्यादितत्वं आध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत्᳚वाचारम्भणं विकारो नामधेयम्᳚ (छा.उ.६ / १ / ४) इत्यादिश्रुतेः / आत्मा च सबाह्याभ्यन्तरो ह्यजो ऽपूर्वो ऽनन्तरो ऽबाह्यः कृत्स्न आकाशवत्सर्वगतः सूक्ष्मो ऽचलो निर्गुणो निष्कलो निष्क्रियः᳚तत्सत्यं स आत्मा तत्त्वमसि᳚(छा.उ.६ / ८ / १६) इति श्रुतेः / इत्येवं तत्त्वं दृष्ट्वा तत्त्वीभूतस्तदारामो न बाह्यरमणो यथातत्त्वदर्शी कश्चिच्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनुचलितमात्मानं मन्यमानस्ततत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतो ऽहमात्मतत्त्वादिदानीमिति; समाहिते चु मनसि कदाचित्तत्त्वभूतं प्रसन्नात्मानं मन्यत इदानीमस्मि तत्त्वीभूत इति; न तदात्मविद्भवेत् / आत्मन एकरूपत्त्वात्स्वरूपप्रच्यवनासम्भवाच्च / सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात्सदाप्रच्युतात्मतत्त्वदर्शनो भवेदित्यभिप्रायः᳚शुनि चैव श्वपाके च पण्डिताः समदर्शिनः᳚(गीता १२ / १८) ᳚समं सर्वेषु भूतेषु᳚(गीता १३ / १७) इत्यादि स्मृतेः
SK
START Mअन्द्Uप्K ३.१
SK
ॐकारनिर्णय उक्तः प्रपञ्चोपशमः शिवोद्वैत आत्मेति प्रतिज्ञामात्रेण / ज्ञाते द्वैतं न विद्यत इति च / तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादिता / अद्वैतं किमागममात्रेण प्रतिपत्तव्यमाहोस्वित्तर्केणापीत्यत आह- शक्यते तर्केणापि ज्ञातुम्; तत्कथमित्यद्वैतप्रकरणमारभ्यत उपास्योपासानादिभेदजातं सर्वं वितथं केवलश्चात्माद्वयः परमार्थ इति स्थितमतीते प्रकरणे; यतः-

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Māṇḍūkya Upaniṣad with commentary: corpustei HTML transform of the Māṇḍūkya with commentary.

Source