SKॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः /
SKस्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः //
SKॐ शान्तिः !! शान्तिः !! शान्तिः !!!
SKस्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः /
SKस्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु //
SKॐ शान्तिः !! शान्तिः !! शान्तिः!!!
SKप्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर् व्याप्य लोकान् भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् / पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुङ् मायया भोजयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतो ऽस्मि
SKयो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्थविष्ठान् पश्चाच् चान्यान् स्वमतिविभवाञ् ज्योतिषा स्वेन सूक्ष्मान् / सर्वान् एतान् पुनर् अपि शनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः
SK_______________________________________________________________________
SKओमित्येतदक्षरमिदं सर्वम् / तस्योपव्याख्यानं वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतृष्टयमोमित्येतदक्षरमित्याद्यारभ्यते / अत एव न पृथक्सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि / यान्येव तु वेदान्ते सम्बन्धाभिधेय प्रयोजनानि तान्येवेह भवितुमर्हन्ति / तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानि /
SKतत्र प्रयोजनवत् साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसंबन्धाभिधेयप्रयोजनवद् भवति / किं पुनस् तत् प्रयोजनम् इत्य् उच्यते रोगार्तस्यैव रोगनिवृत्तौ स्वस्थता / तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता / अद्वैतभावः प्रयोजनम् /
SKद्वैतप्रपञ्चस्याविद्याकृतत्वाद् विद्यया तद् उपशमः स्याद् इति ब्रह्मविद्याप्रकाशनायास्य आरम्भः क्रियते /
SK᳚यत्र हि द्वैतम् इव भवति᳚(बृ.उ २ / ४ / १४) ᳚यत्र वान्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येद् अन्यो ऽन्यद् विजानीयात्᳚(बृ.उ ४ / ३ / ३१) ᳚यत्र वास्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् केन कं विजानीयात्᳚(बृ.उ २ / ४ / १४) इत्य् आदि श्रुतिभ्यो ऽस्यार्थस्य सिद्धिः /
SKतत्र तावद् ॐकारनिर्णयाय प्रथमं प्रकरणम् आगमप्रधानाम् आत्मतत्त्वप्रतिपत्त्य् उपायभूतम् / यस्य द्वैतप्रपञ्चस्योपशमे ऽद्वैतप्रतिपत्ती रज्ज्वाम् इव सर्पादिविकल्प उपशमे रज्जुतत्त्वप्रतिपत्तिस् तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् / तथाद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितस् तथात्वदर्शनाय तृतीयं प्रकरणम् / अद्वैतस्य तथात्वप्रतिपत्तिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषाम् अन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिर् एव निराकरणाय चतुर्थं प्रकरणम् /
SKकथं पुन ॐकारनिर्णय आत्मतत्त्वप्रतिपत्त्य् उपायत्वं प्रतिपद्यत इत्य् उच्यते᳚ॐ इत्य् एतत्᳚(क.उ १ / २ / १५) ᳚एतद् आलम्बनम्᳚(क.उ.१ / २ / १७) ᳚एतद् वै सत्यकाम᳚(प्र.उ.५ / २) ᳚ॐ इत्य् आत्मानं युञ्जीत᳚(मैत्र्यु.६ / ३) ᳚ॐ इति ब्रह्म᳚(तै.उ.१ / ८ / १) ᳚ॐकार एवेदं सर्वम्᳚ (छा.उ.२ / २३ / ३) इत्य् आदि श्रुतिभ्यः /
SKरज्जुर् आदिर् इव सर्पादिविकल्पस्यास्पदो ऽद्वय आत्मा परमार्थः सन्प्राणादिविकल्पस्यास्पदो यथा तथा सर्वो ऽपि वाक्प्रपञ्चः प्राणाद्य् आत्मविकल्पविषय ॐकार एव / स चात्मस्वरूपम् एव तदभिधायकत्वात् / ॐकारविकारशब्दाभिधेयश् च सर्वः प्राणादिर् आत्मविकल्पो ऽभिधानव्यतिरेकेण नास्ति / ᳚वाचारम्भणं विकारो नामधेयम्᳚(छा.उ.६ / १ / ४) ᳚तद् अस्येदं वाचा तन्त्या नामभिर् दामभिः सर्वं सितम्᳚ ᳚सर्वं हीदं नामानि᳚इत्य् आदि श्रुतिभ्यः /
SKॐ इत्य् एतद् अक्षरम् इदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यद् इति सर्वम् ॐकार एव | यच् चान्यत् त्रिकालातीतं तद् अप्य् ॐकार एव || Mअन्द्Uप्_१ ||
SKMअन्द्Uप्C_१ ॐ इत्य् एतद् अक्षरम् इदं सर्वम् इति / यद् इदम् अर्थजातम् अभिधेयभूतं तस्याभिधानाव्यतिरेकाद् अभिधानस्य च ॐकाराव्यतिरेकाद् ॐकार एवेदं सर्वम् / परं च ब्रह्माभिधानाभिधेय उपायपूर्वकम् एव गम्यत इत्य् ॐकार एव /
SKतस्यैतस्य परापर ब्रह्मरूपस्याक्षरस्य ॐ इत्य् एतस्योपव्याख्यानम्; ब्रह्मप्रतिपत्त्य् उपायत्वाद् ब्रह्मसमीपतया विस्पष्टं प्रकथनम् उपव्याख्यानं प्रस्तुतं वेदितव्यम् इति वाक्यशेषः /
SKभूतं भवद्भविष्यद् इति कालत्रयपरिच्छेद्यं यत् तद् अप्य् ॐकार एवोक्तन्यायतः / यच् चान्यत् त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यमव्याकृतादि तद् अप्य् ॐकार एव
SK_______________________________________________________________________
SKअभिधानाभिधेययोर् एकत्वे ऽप्य् अभिधानाप्राधान्येन निर्देशः कृतः / ॐ इत्य् एतद् अक्षरम् इदं सर्वम् इत्य् आद्य् अभिधानप्राधान्येन निर्दिष्टस्य पुनो ऽभिधेयप्राधान्येन निर्देशो ऽभिधानाभिधेययोर् एकत्वप्रतिपत्त्य् अर्थः / इतरो ऽथा ह्य् अभिधानतन्त्राभिधेयप्रतिपत्तिर् इत्य् अभिधेयस्याभिधानत्वं गौणाम् इत्य् आशङ्का स्यात् / एकत्वप्रतिपत्तेश् च प्रयोजनम् अभिधानाभिधेययोर् एकेनैव प्रयत्नेन युगपत्प्रविलापर्यस्तद्विलक्षणं ब्रह्म प्रतिपद्येत इति / तथा च वक्ष्यति᳚पादा मात्रा मात्राश् च पादाः᳚ (मा.उ.८) इति / तदाह
SKसर्वं ह्य् एतद् ब्रह्मायम् आत्मा ब्रह्म सो ऽयम् आत्मा चतुष्पात् || Mअन्द्Uप्_२ ||
SKMअन्द्Uप्C_२ सर्वं ह्य् एतद् ब्रह्मेति / सर्वं यद् उक्तम् ॐकारमात्रम् इति तदेतद् ब्रह्म / तच् च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशत्ययमात्मा ब्रह्मेति / अयम् इति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयम् आत्मेति / सो ऽयमात्म ॐकाराभिधेयः परापरत्वेन व्यवस्थितश् चतुष्पात्कार्षापणवन् न गौर् इवेति / त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतपत्तिर् इति करणसाधनः पादशब्दः / तुरीयस्य पद्यत इति कर्मसाधनः पादशब्दः
SK_______________________________________________________________________
SKकथं चतुष्पात्वम् इत्य् आह
SKजागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः || Mअन्द्Uप्_३ ||
SKMअन्द्Uप्C_३ जागरितं स्थानम् अस्येति जागरितस्थानः / बहिष्प्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा स बहिष्प्रज्ञो बहिर् विषय एव प्रज्ञाविद्याकृताव् अवभासत इत्य् अर्थः / तथा सप्ताङ्गान्यस्य᳚तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदोहो बहुलो वस्तिर् एव रयिः पृथिव्य् एव पादौ᳚ (छा.उ.५ / १८ / २) इत्य् अग्निहोत्रकल्पनाशेषत्वेनाहवनीयो ऽग्निर् अस्य मुखत्वेनोक्त इत्य् एवं सप्ताङ्गानि यस्य स सप्ताङ्गः /
SKतथैकोनविंशतिर् मुखान्य् अस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश् च प्राणादयःपञ्च मनो बुद्धिरहङ्कारच्चित्तम् इति मुखानीव मुखानि तान्य् उपलब्धिद्वाराणित्यर्थः स एवं विशिष्टो वैश्वानरो यथोक्तैर् द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक् / विश्वेषां नराणाम् अनेकधा नयनाद् वैश्वानरः / यद् वा विश्वश् चासौ नरश् चेति विश्वानरः / विश्वानर एव वैश्वानरः / सर्वपिण्डात्मनन्यत्वात् सः प्रथमः पादः / एतत् पूर्वकत्वाद् उत्तरपादाधिगमस्य प्राथम्यमस्य /
SKकथम् अयमात्मा ब्रह्मेति प्रत्यगात्मनो ऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वम् इति / नैष दोषः / सर्वस्यप्रपञ्चस्य साधिदैविकस्यानेन आत्मना चतुष्पात्त्वस्य विवक्षितत्वात् / एवं च सति सर्वप्रपञ्च उपशमे ऽद्वैतसिद्धिः / सर्वभूतस्थश् चात्मैको दृष्टः स्यात् सर्वभूतानि चात्मनि / ᳚यस् तु सर्वाणि भूतानि᳚(ई.उ.६) इत्य् आदिश्रुत्यर्थोपसंहृतश् चैवं स्यात् / अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यागात्मा सांख्यादिभिर् इव दृष्टः स्यात् तथा च सत्यद्वैतम् इति श्रुतिकृतो विशेषो न स्यात् सांख्यादिदर्शनेनाविशेषात् / इष्यते च सर्व उपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् / अतो युक्तम् एवास्याध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्य् अङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वम् अभिप्रेत्य सप्ताङ्गत्ववचनम् / ᳚मूर्धा ते व्यपतिष्यत्᳚(छा.उ ५ / १२ / २) इत्य् आदि लिङ्गदर्शनाच् च /
SKविराज एकत्वम् उपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः / उक्तं चैतन् मधुब्राह्मणे᳚यश् चायम् अस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यच् चायम् अध्यात्मम्᳚(बृ.उ.२ / ५ / १) इत्यादि / सुषुप्ताव्याकृतयः स त्व् एकत्वं सिद्धम् एव निर्विशेषत्वात् / एवं च सत्येतत् सिद्धं भविष्यति सर्वद्वैत उपशमे चाद्वैतम् इति
SK_______________________________________________________________________
SKस्वप्रस्थानो ऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः || Mअन्द्Uप्_४ ||
SK__________ Mअन्द्Uप्C_४ स्वप्नः स्थानस्य तैजसस्य स्वप्नस्थानः / जाग्रत्प्रज्ञानेकसाधना बहिर् विषय एवावभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते / तन् मनस् तथा संस्कृतं चित्रित इव पटो बाह्यसाधनान् अनपेक्षम् अविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते / तथा चोक्तम्᳚अस्य लोकस्य सर्वावतो मात्राम् अपादाय᳚(बृ.उ.४ / ३ / ९) इति / तथा᳚परे देवे मनस्य् एकीभवति᳚(प्र.उ.४ / २) इति प्रस्तुत्य᳚अत्रैष देवः स्वप्ने महिमानम् अनुभवति᳚(प्र.उ.४ / ५) इत्याथर्वणे /
SKइन्द्रियापेक्षयान्तःस्थत्वान् मनसस् तद् वासनारूपा च स्वप्ने प्रज्ञा यस्यात्यन्तःप्रज्ञः / विषयशून्यानां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः / विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् /
SKइह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति / समानमन्यत् / द्वितीयः पादस् तैजसः
SK_______________________________________________________________________
SKदर्शनादर्शनवृत्त्यस् तत्वाप्रबोधलक्षणस्य स्वापस्य तुल्यत्वात् सुषुप्तिग्रहणार्थं यत्र सुप्त इत्यादि विशेषणम् / अथ वा त्रिष्व् अपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापो ऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते
SKयत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् | सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवान्दमयो ह्य् आनन्दभुक्चेतोमुखः प्राज्ञः तृतीयः पादः || Mअन्द्Uप्_५ ||
SKMअन्द्Uप्C_५ यत्र यस्मिन् स्थाने काले वा सुप्तो न कञ्चन स्वप्नं पश्यति न कञ्चन कामं कामयते / न हि सुषुप्ते पूर्वयोर् इवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यने / तदेतत् सुषुप्तं स्थानम् अस्येति सुषुप्तस्थानः /
SKस्थानद्वयप्रविभक्तं मनः स्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतम् इत्य् उच्यते / अत एव स्वप्नजाग्रन् मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव सेयमवस्थाविवेकरूपत्वात् प्रज्ञानघनोच्यते / यथा रात्रौ नैशेन तमसा विभज्यमानं सर्वं घनम् इव तद्वत् प्रज्ञानघन एव / एव शब्दान् न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीतार्थः /
SKमनसो विषयीविषय्याकारस्पन्दनायासदुःखाभावादानन्दमय आनन्दप्रायो नानन्द एव / यथा लोके निरायासस्थितः सुख्यानन्दभुगुच्यते ऽत्यन्तानायासरूपा हीयं स्थितिरनेनानुभूयत इत्य् आनन्दभुक्᳚एषो ऽस्य परम आनन्दः᳚(बृ.उ.४ / ३ / ३२) इति श्रुतेः /
SKस्वप्नादिप्रतिबोधिचेतः प्रति द्वारीभूतत्वाच् चेतोमुखः / बोधलक्षणं वा चेतो द्वारं मुखम् अस्य स्वप्नाद्य् आगमनं प्रतीति चेतोमुखः / भूतभविष्यज् ज्ञातृत्वं सर्वविषयज्ञातृत्वम् अस्यैति प्राज्ञः / सुषुप्तो ऽपि हि भूतपूर्वगत्या प्राज्ञोच्यते / अथवा प्रज्ञप्तिमात्रम् अस्यैवासाधारणं रूपम् इति प्राज्ञ इतरयोर् विशिष्टम् अपि विज्ञानम् अस्ति / सो ऽयं प्राज्ञस् तृतीयः पादः
SK_______________________________________________________________________
SKएषः सर्वेश्वर एष सर्वज्ञ एषो ऽन्तर्याम्य् एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् || Mअन्द्Uप्_६ ||
SKMअन्द्Uप्C_६ एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज् जात्यन्तरभूतो ऽन्येषाम् इव / ᳚प्राणबन्धनं हि सोम्य मनः᳚(छा.उ.६ / ८ / २) इति श्रुतेः / अयम् एव हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञः / एषो ऽन्तर्याम्य् अन्तरनुप्रविश्य सर्वेषां भूतानां नियन्ताप्य् एष एव / अत एव यथोक्तं सभेदं जगत्प्रसूयत इत्य् एष योनिः सर्वस्य / यत एवं प्रभवश् चापि यश् च प्रभवाप्ययौ हि भूतानाम् एष एव
SK==========================================================================
SKअत्रैतस्मिन् यथोक्ते ऽर्थ एते श्लोका भवन्ति