Subcommentary on the Brahma Sūtras

Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Bरह्मसूत्र wइथ् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या, अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य

Subcommentary on the Brahma Sūtras

Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya

Bरह्मसूत्र wइथ् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या, अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य

Adhyāya 4

SK
आवृत्तिर् असकृदुपदेशात् | BBस्_४,१.१ |
SK
ॐ / आवृत्तिरसकृदुपदेशात् / साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हतुफलभावं संगतिमाह-तृतीय इति / फलप्रासङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह-प्रसङ्गेति / पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितं, संप्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक् चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः / आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह-आत्मा वा इति / श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसंगतय उक्ताः / तत्तत्पदार्थसंबन्धात्तत्तत्पादसङ्गतिः / मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसंगत्या पूर्वपक्षमाह-किं तावदिति / अत्र पूर्व पक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलं, सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः / असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते-नन्वसकृदिति / श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह-एवमपीति / सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह-सकृदिति / यद्यप्यसकृदुपदेश आवृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे संभवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह-न दर्शनपर्यवसानत्वादिति / ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह-अपिचेति / अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह-विद्युपास्त्योश्चेति / शब्दयोरेकार्थत्वमुदाहरति-क्वचिदिति /
SK
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्यो ऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनं, तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मे ऽनुशाधि मह्यमुपदिशेत्यर्थः / एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः
SK
END Bस्Rप्_४,१.१.१
SK
START Bस्Rप्_४,१.१.२ः
SK
लिङ्गाच् च | BBस्_४,१.२ |
SK
आदित्यस्यैकस्यैवोद्गीथे संपाद्योपासनान्मम त्वमेक एव पुत्रो ऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्यावर्तयतात् पृथगावर्तयस्वेत्यर्थः / तलोपश्छान्दसः / अत्र पर्यावृत्तिशब्दात्सिद्धवदुद्गीथध्यानस्यावृत्तिरुक्ता ततो ध्यानत्वसामान्यात्फलपर्यन्तत्वसामान्याद्वा लिङ्गात्सर्वत्र श्रवणमननध्यानेष्वावृत्तिसिद्धिरित्याह-लिङ्गाच्चेति / एवं तावत्सगुणनिर्गुणसाक्षात्कारसाधनेष्वावृत्तिरुक्ता तत्र सगुणध्यानादेरावृत्तिमङ्गीकृत्य निर्गुणश्रवणादिष्वावृत्तिमाक्षिपति-अत्राहेत्यादिना / वाक्यं निर्गुणसाक्षात्कारजनने शक्तं न वा, आद्ये सकृच्छ्रुतवाक्यात्साक्षात्कारसिद्धेरावृत्तिर्वृथेत्युक्त्वा द्वितीयं शङ्कते-सकृदिति / अशक्तस्यावृत्तावपि फलानुपपत्तिरित्याह-नेति / तथापीति स्वतो ऽशक्तस्य युक्तिसाहित्याच्छक्तावपीत्यर्थः / वाक्ययुक्तिभ्यां परोक्षज्ञाने जाते ऽप्यपरोक्षज्ञानार्थमावृत्तिरिति शङ्कते-अथापि स्यादिति / तयोः परोक्षज्ञानहेतुत्वस्वाभाव्यादावृत्तावपि न साक्षात्कारः स्यादिति परिहरति-नासकृदपीति / यदि तयोः साक्षात्कारसामर्थ्यं यदि वा परोक्षज्ञानसामर्थ्यमुभयथाप्यावृत्त्यनपेक्षेत्याह-तस्मादिति / प्रमातृवैचित्र्यादप्यावृत्त्यनियम इत्याह-नचेति / प्रमेयस्यानंशत्वाच्च तथेत्याह-अपिचेति / द्विविधो ह्यधिकारी स्यात्कश्चिज्जन्मान्तराभ्यासान्निरस्तसमस्तासंभावनादिप्रतिबन्धः कश्चित्तु प्रतिबन्धवानिति / तत्राद्यं प्रत्यावृत्तेरानर्थक्यमिष्टं, द्वितीयस्य तु प्रतिबन्धनिरासाय तदपेक्षेति समाधत्ते-अत्रोच्यत इति / आवृत्तेः प्रतिबन्धानिरासार्थत्वे लिङ्गमाह-तथाहीति / यथा षड्जादिस्वरभेदसाक्षात्कारशक्तमपि श्रोत्रमभ्यासमपेक्षते तथा ब्रह्मात्मसाक्षात्कारशक्तं वाक्यं तदपेक्षमित्यनुभवमाश्रित्याह-नहि दृष्टे ऽनुपपन्नं नामेति / तत्त्वंपदलक्ष्यार्थस्य दुर्बोधत्वादज्ञानप्रयुक्तसंशयादिप्रतिबन्धसंभवात्तद्ध्वंसायावृत्त् इरेष्टव्येति वाच्यलक्ष्यविवेकपूर्वकमाह-अपिचेत्यादिना / यदुक्तमनंशत्वात्प्रमेयस्यावृत्त्यानर्थक्यमिति, तत्राह-यद्यपीति / आरोपितांशनिरासाय न मे देहो नेन्द्रियमित्यभ्यासो युक्त इत्यर्थः / वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमाणज्ञानस्याभ्यासायोगाज्ज्ञानिनः श्रवणादिनियमायोगाच्चेत्यत आह-तत्त्विति / ज्ञानात्प्रागेव श्रवणादिव्यापारनियमनं क्रियत इत्यर्थः / अधिकं शङ्कितुमुक्तमनुवदति-येषामिति / अधिकं शङ्कते-सत्यमिति / दुःखित्वप्रत्यक्षविरोधाद्वाक्यादैक्यधीर्नोदेतीत्यर्थः / प्रत्यक्षस्य भ्रान्तित्वादविरोध इत्याह-नेत्यादिना / दुःखादयो नात्मधर्माः दृश्यत्वाद्देहादिवत्, नाप्यात्मस्वरूपाः आत्मनि सत्यप्यननुवृत्तित्वाद्व्यतिरेकेण चैतन्यवदित्यर्थः / निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्तित्वाद्वाक्यार्थानुभवो न विरुध्यत इत्याह-तस्मादिति / अनुभवे जाते ऽप्यावृत्त्याद्यनुष्ठानं किं न स्यादित्यत आह-न चैवमिति / रतिः कामः आत्मकामतया तृप्तिर्विषयतृष्णाक्षयः तेन संतोषे आत्मानन्दानुभव इति भेदः / नन्वावृत्तौ नियोगात्प्रवृत्तिर्वाच्या तथा च नियुक्तत्वबुद्धेरकर्त्रात्मधीर्न स्यादित्यत आह-तत्रापीति / आवृत्त्यभ्युपगमे ऽप्यकर्ताहमित्यनुभवात्प्रच्याव्य गुरुरन्यो वा नियोगान्न प्रवर्तयेदुक्तदोषादित्यर्थः / कथं तर्हि प्रवृत्तिरित्यत आह-यस्त्विति /
SK
अप्रतिभानादसंभावनादिनेत्यर्थः / शिष्यबुद्ध्यनुसारेण त्रोतव्यादिवचोभिः प्रधानसिद्ध्यर्थमावृत्त्यादौ प्रवर्तयेदित्यर्थः
SK
END Bस्Rप्_४,१.१.२
SK
START Bस्Rप्_४,१.२.३ः
SK
आत्मेति तूपगच्छन्ति ग्राहयन्ति च | BBस्_४,१.३ |
SK
आत्मेति तूपगच्छन्ति ग्राह्यन्ति च /
SK
पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह-य इति / शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति-कथमिति / भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह-उच्यत इति / अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलं, यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसंगतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह संगतिः / विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह-नाहमिति / किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति-ईश्वरस्य चेत्यादिना / एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते-अन्यत्वे ऽपीति / एकत्वध्यानमस्मदिष्टमेव / एकत्वं तु नास्तीत्याह-काममिति / अभेदश्रुतीनां फलवदपूर्वार्थतात्पर्येण गौणत्वायोगाद्भेदश्रुतीनां कल्पितभेदानुवादित्वात्प्रत्यक्षादेरपि तद्विषयत्वाद्विम्बप्रतिबिम्बयोरिव विरुद्धधर्माणां मिथ्यात्वान्मुख्यमैक्यमिति सिद्धान्ययति-एवमित्यादिना / ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीवस्येश्वरत्वम् / न चैवमधिकार्यभावः / एकत्वप्रबोधात्प्रागधिकारिभेदाङ्गीकारादित्याह-यत्पुनरुक्तमित्यादिना / वेद्ःअसत्यत्वश्रद्धालुः शङ्कते-प्रत्यक्षाद्यभाव इति / वर्णेषु क्रमस्वरयोरभावादुपलब्धध्वनिस्थयोरारोपो वाच्यस्तथा चारोपितक्रमस्वरविशिष्टवर्णात्मकवेदस्य मिथ्यात्वं दुर्वारं, वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह-नेति / अविद्यामाक्षिपति-कस्येति / प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धेस्त्वदाक्षेपानुपपत्तिरित्याह-यस्त्वमिति / अज्ञानमूलत्वात्प्रश्नादेरिति भावः / सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते-नन्विति / अभेदज्ञानात्प्राक् चिन्मात्रस्य तवैवाज्ञानाश्रयत्वमनुभवसिद्धाज्ञानस्यापलापायोगात् / ज्ञाने त्वनिर्वाच्यस्य तस्य बाधान्नाश्रयापेक्षेत्याह-यद्येवमिति / अनिर्षाच्यत्वेन दोषान्तरमपि निरस्तमित्याह-यो ऽपीति
SK
END Bस्Rप्_४,१.२.३
SK
START Bस्Rप्_४,१.३.४ः
SK
न प्रतीके न हि सः | BBस्_४,१.४ |
SK
न प्रतीके नहि सः /
SK
उभयथा ध्यानसंभवात्संशयः / यथा ब्रह्मण्यभेदसत्तवादहङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः / अत्र प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः / सिद्धान्ते तु विशेषसिद्धिरिति फलम् / एतदारभ्याधिकरणत्रयस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मैक्यध्यानप्रसङ्गागतत्वादिति विवेकः / किं प्रतीकेष्वात्मत्वानुभवबलादहङ्ग्रह उत वस्तुतो जीवाभेदसत्त्वात् / नाद्य इत्याह-नहि स इति / नानुभवतीत्यर्थः / द्वितीयमप्यसिद्ध्या दूषयति-यत्पुनरिति / विकारस्य ब्रह्मणा स्वरूपैक्यायोगाद्बाधेनैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः / किञ्च कर्तृत्वाद्यबाधेनोपास्तिविधिप्रवृत्तिर्वाच्या बाधे तदयोगात् / तथाच बाधमूलब्रह्मैक्यज्ञानं द्वारीकृत्य प्रतीकेष्वहङ्ग्रहोपास्तिकल्पना न युक्ता, बाधविरोधादित्याह-नच ब्रह्मण इति / अतो जीवप्रतीकयोः स्वरूपभेदादहङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह-अतश्चेति /
SK
यथा रुचकस्वस्तिकयोः सुवर्णात्मनैक्ये ऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मात्मनैक्ये ऽपि भेदः समः / यदिच धर्मिव्यतिरेकेण तयोरभावनिश्चयाद्वस्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः
SK
END Bस्Rप्_४,१.३.४
SK
START Bस्Rप्_४,१.४.५ः
SK
ब्रह्मदृष्टिर् उत्कर्षात् | BBस्_४,१.५ |
SK
ब्रह्मदृष्टिरुत्कर्षात् /
SK
एकविषयत्वं संगतिः / प्रश्नपूर्वकं संशयबीजमाह-कुत इत्यादिना / सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यं, ब्रह्मविकारयोर्गवाश्वयोरिवाभेदायोगात् / नापि प्रकृतिविकारभावनिबन्धनं, वाक्यस्य विकारबाधेन ब्रह्मपरत्वापातात् / न चेष्टापत्तिः / नाम ब्रह्मेत्युपासीतेति विधिश्रुतिविरोधात्, परिमितनामग्रहणानर्थक्यापाताच्च / ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् / अतः परिशेषादध्यास एव सामानाधिकरण्यकारणम् अध्यासे च नियामकाभावात्संशय इत्यर्थः / उत्कृष्टनिकृष्टयोर्निकृष्टमप्युपास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह-अथवेति / अत्र विकारदृष्टिभिर्ब्रह्मोपास्तिसिद्धिः फलं, सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फलवत्त्वासिद्धेर्विकारा एवोत्कृष्टब्रह्मदृष्ट्योपास्या इति फलम् / किञ्च लौकिकन्यायाविरुद्धार्थसंभवे विरुद्धार्थो न ग्राह्यः प्रत्यवायप्रसङ्गात् / किञ्च प्रथमश्रुतानामादित्यादिपदानामसंजातविरोधितया मुख्यार्थत्वग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टिलक्षणाग्रहः, तथा चादित्यादयो ब्रह्मदृष्ट्योपास्या इत्येव वाक्यार्थ इत्याह-प्राथम्याच्चेति / ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह-इतिपरत्वादिति / इतिशब्दशिरस्कः शब्दः समभिव्याहृतक्रियालक्षक इति लोके प्रसिद्धमित्यर्थः / द्वितीयाश्रुतेश्चादित्यादीनामेवोपास्तिकर्मत्वमित्याह-वाक्यशेषो ऽपीति / उत्कृष्टमेवोपास्यमिति न्यायमुक्तमनुवदति-यत्तूक्तमिति / द्वितीयेतिश्रुतिभ्यां लौकिकन्यायाच्चोक्तन्यायबाध इत्याह-तदिति / ब्रह्मणो ऽनुपास्यत्वे कथं फलदातृत्वं, तत्राह-फलं त्विति / किञ्च यद्दृष्ट्या विकारस्योत्कर्षः तस्य ब्रह्मणो विशेषणत्वे ऽप्युपास्यत्वं चातीत्याह-ईदृशं चेति
SK
END Bस्Rप्_४,१.४.५
SK
START Bस्Rप्_४,१.५.६ः
SK
आदित्यादिमतयश् चाङ्ग उपपत्तेः | BBस्_४,१.६ |
SK
आदित्यादि /
SK
पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशं, साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांश सामेति भेदः / अत विशेषाज्ञानात्संशयः / पूर्ववदुत्कर्षनवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह-तत्रेति / सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह-अथवेति / तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् / किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह-तथाचेयमेवेति / तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः / ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितं, तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह-क्षत्तरीति / अतः प्रयोगान्यथानुपपत्त्य पृथिव्यग्न्योरृसामदृष्टिरित्यर्थः / विषयसप्तम्या चैवमेवेत्याह-अपिचेति / गायत्रसंज्ञं साम / किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह-प्रथमेति / अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति-एवमिति / उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः / ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसंनिकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तये ऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते-भवत्विति / यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतो ऽङ्गानामेवोपास्यत्वमिति समाधत्ते-तेष्वपीति / उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति-फलात्मेति / उपक्रमबलाच्चाङ्गमुपास्यमित्याह-अपिचेति / रसतमत्वाद्ःइगुणाद्युपसंख्यानमित्यर्थः / द्वितीयं पूर्वपक्षं दूषयति-यत्तूक्तमित्यादिना / कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः / सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह-आदित्यादिभावेनेति / माणवके ऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः / प्रयोगानुपपत्तिमुक्तां निरस्यति-तदेतदिति / लक्षणाबीजं संबन्धमाह-लक्षणा चेति / गङ्गायां घोष इत्यत्र संनिकृष्टसंयोगसंबन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासंबन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षे ऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासंबन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः / ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते-तत्र यद्यपीति / तथापि ऋक्सामसंबन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसंनिधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तभेददार्ढ्यायेत्यर्थः / तर्हि क्षत्तृशब्दो ऽपि राजनि स्यादित्यत आह-क्षत्रिति / स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः / क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः / ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह-इयमिति / सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति-तथा लोकेष्विति / सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः / एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः / ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह-यत्रापीति / ऽसाम्न उपासनं साधुऽइत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा ऽइति तु पञ्चविधस्योपासनम्ऽइत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः / यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह-एतस्मादेवेति /
SK
यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः
SK
END Bस्Rप्_४,१.५.६
SK
START Bस्Rप्_४,१.६.७ः
SK
आसीनः संभवात् | BBस्_४,१.७ |
SK
आसीनः संभवात् /
SK
कर्मण उत्थितेनोपविष्टेन वानेकधानुष्ठानदर्शनात्संशयः कर्माङ्गाश्रितोपासनानामासननियमानपेक्षाणामनुष्ठानप्रकार उक्तस्तद्वदङ्गानाश्रितोपासनेष्वप्यनियम इति पूर्वपक्षयति-तत्रेति /
SK
अत्रासनाभ्यासासिद्धिः, सिद्धान्ते तु मनोदेहयोर्भिन्नत्वे ऽपि देहचाञ्चल्ये मनसो ऽनवस्थानस्य अनुभवसिद्धत्वान्मनोव्यापारेषूपासनेषु देहस्थैर्यार्थमासननियमापेक्षेति फलभेदः / तिष्ठत उत्थितस्य
SK
END Bस्Rप्_४,१.६.७
SK
START Bस्Rप्_४,१.६.८ः
SK
ध्यानाच् च | BBस्_४,१.८ |
SK
किञ्च ध्यातार आसीन एव स्युः ध्यायतिशब्दार्हत्वाद्बकादिवदित्याह-ध्यानाच्चेति
SK
END Bस्Rप्_४,१.६.८
SK
START Bस्Rप्_४,१.६.९ः
SK
अचलत्वं चापेक्ष्य | BBस्_४,१.९ |
SK
अत्रैव श्रौतं दृष्टान्तमाह-अचलत्वं चेति
SK
END Bस्Rप्_४,१.६.९
SK
START Bस्Rप्_४,१.६.१०ः
SK
स्मरन्ति च | BBस्_४,१.१० |
SK
ब्रह्मस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह-स्मरन्ति चेति
SK
END Bस्Rप्_४,१.६.१०
SK
START Bस्Rप्_४,१.७.११ः
SK
यत्रैकाग्रता तत्राविशेषात् | BBस्_४,१.११ |
SK
यत्रैकाग्रता तत्राविशेषात् /
SK
तेष्वेवाङ्गानाश्रितोपासनेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमो ऽस्ति न वेत्युभयथासंभवात्संशयः / एकविषयत्वं संगतिरूपास्तीनां विहितत्वाद्यागादिवदस्ति दिगादिनियम इति पूर्वपक्षः / अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः / ध्येये चित्तैकाग्र्यस्य प्राधान्यात्प्रधानाक्षिप्तदेशादिग्रहणस्योचितत्वादिविवेकः / अर्थलक्षण एवेति / ऐकाग्र्यफललिङ्गक एवेत्यर्थः / प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतो ऽनुमानमप्रयोजकमिति भावः / विशेषाश्रवणमसिद्धमिति शङ्कते-ननु विशेषमपीति / शर्कराः सूक्ष्मपाषाणाः / जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् / चक्षुःपीडनो मशकः / वाचनिकं समदेशादिनियममङ्गीकृत्य चित्तैकाग्र्यविरुद्धेषु देशादिगतेषु प्राचीनप्रवणत्वादिष्वनादर इति सुहृद्भावेन सूत्रकृदुपदिशति / देशाद्याग्रहे चित्तविक्षेपात्समाधिभङ्गः स्यात्स माभूदिति
SK
END Bस्Rप्_४,१.७.११
SK
START Bस्Rप्_४,१.८.१२ः
SK
आ प्रयाणात् तत्रापि हि दृष्टम् | BBस्_४,१.१२ |
SK
आप्रायणात् /
SK
व्यवहितेनास्य संबन्धमाह-आवृत्तिरिति / अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः / अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह-यानि पुनरिति / यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम्ःअ इति पूर्वपक्षः / मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति-एवमिति / उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह-सविज्ञान इति / भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः / यस्मिंल्लोके चित्तं संकल्पो ऽस्येति यच्चित्तस्तेन संकल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् / तेज उदानः / आत्मा जीवः / जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः / अस्त्विदमन्त्यफलं विज्ञानं कर्मणमिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह-प्रत्ययास्त्विति /
SK
उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानं, नत्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरपेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः / क्रतुर्ध्यानम् / उपासक एतन्त्रयम् ऽअक्षितमसिऽ, ऽअच्युतमसिऽ, ऽप्राणसंशितमसिऽइति मन्त्रत्रयं मरणकाले ऽपि स्मरेदित्यर्थः
SK
END Bस्Rप्_४,१.८.१२
SK
START Bस्Rप्_४,१.९.१३ः
SK
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् | BBस्_४,१.१३ |
SK
यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह-तदधिगम इति / ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्याये ऽपि साधनविचारः कृतः, संप्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह-गत इति / कर्मणां फलान्तत्वशास्त्राज्ज्ञाननाश्यत्वशास्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनो ऽपि संचितपापभोगानन्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पापनाशाज्जीवन्मुक्तिरिति फलम् / न हिंस्यादित्यादिनिषेधश्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता / ऽनाभुक्तं क्षीयते कर्मऽइति च स्मरन्ति / अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः / ननु तर्हि तन्नाशार्थं प्रायश्चित्तविधिर्न स्यादिति चेत् / न / यथा आहिताग्नेर्गृहदाहे निमित्ते सति ऽअग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्ऽइति इष्टिविधिस्तद्वद्दोषे निमित्तमात्रे सति प्रायश्चित्तविधेर्देषनाशार्थत्वासिद्धेः / ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्धत्वादयोग्यत्वाच्चाफलतया निमित्तमात्रत्वं दोषवान्प्रायश्चित्तं कुर्यादित्यत्र तु मलिनः स्नायादितिवद्दोषपदस्य निवृत्तिद्वारा फलपरत्वसंभवात् ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजतेऽइति प्रायश्चित्तात्पापनिवृत्तिश्रुतेश्चायुक्तं प्रायश्चित्तस्य नैमित्तिकत्वमित्यत आह-अपिचेति / ज्ञानस्य दोषनाशार्थतया विधानं नास्ति ऽक्षीयन्ते चास्य कर्माणिऽइत्यादेर्ज्ञानस्तावकमात्रत्वादित्यर्थः / कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्रप्रामाण्यादित्याह-नेत्युच्यत इति / ज्ञानात्कर्मक्षयस्यापूर्वत्वान्मानान्तरविरुद्धत्वाच्च तत्परानेकवाक्यानां स्तावकत्वायोगात्तस्यास्तित्वमिति सिद्धान्तयति-एवमित्यादिना / पापक्रियातो ऽपूर्वानुत्पत्तिरश्लेषः / सगुणब्रह्मविद्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह-अयमपर इति / परोक्तं दूषयति-यदुक्तमित्यादिना / विधिनिषेधशास्त्रं ऽनाभुक्तं क्षीयतेऽइत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुतश्चिन्नाशाङ्गीकारेण शास्त्रविरोध इत्यर्थः / तत्त्वज्ञानमात्मन्यशेषदुरितनाशकं तन्मूलध्यासबाधकत्वात्स्वप्नदुरितमूलकर्तृत्वाध्यासबाधकजाग्रद्बोध्ःअवदित्याह-तथाप्यकर्त्रात्मबोधादिति / श्रुतार्थमेव युक्त्या द्रढयति-अश्लेष इति चेति / मूलाध्यासानुत्पत्तेः पापस्याश्लेषः, तन्नाशात्तद्विनाश इत्यर्थः / अध्यासाभावे विद्वदनुभवमाह-पूर्वेति / मोक्षशास्त्रबलाच्च ज्ञानात्कर्मक्षयसिद्धिरित्याह-एवमेवेति / ज्ञानात्कर्मक्षये सत्येवेत्यर्थः / मोक्षस्य कर्मफलसाम्यमुक्तं निरस्यति-नचेति
SK
END Bस्Rप्_४,१.९.१३
SK
START Bस्Rप्_४,१.१०.१४ः
SK
इतरस्याप्य् एवम् असंश्लेषः पाते तु | BBस्_४,१.१४ |
SK
इतरस्यापि-तु /
SK
अतिदेशत्वान्न संगत्याद्यपेक्षा / ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्संदेहे ज्ञानं तु न पुण्यनाशकं शास्त्रीयत्वात्पुण्यवदित्यधिकाशङ्कामुक्त्वातिदेशं व्याचष्टे-धर्मस्येत्यादिना / ज्ञानं पुण्यनाशकं समूलविद्याघातित्वादिति न्यायोपेतागमबाधितमनुमानमिति भावः / ननु क्षीयन्ते चेत्यविशेषश्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशेषश्रुतेरित्यत आह-यत्रापि केवल इति / पापपुण्यक्षयपराधिकरणद्वयस्य फलमाह-पाते त्विति
SK
END Bस्Rप्_४,१.१०.१४
SK
START Bस्Rप्_४,१.११.१५ः
SK
अनारब्धकार्ये एव तु पूर्वे तदवधेः | BBस्_४,१.१५ |
SK
अनारब्धकार्ये एव तु /
SK
उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह-पूर्वयोरिति / जीवन्मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् / पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रारब्धान्यकर्मविषयेत्यपवादं सिद्धान्यति-एवमिति / सामिशब्दोर्ऽधवाचकः / प्रारब्धाद्यावन्न विमुच्यते तावानेव विलम्बस्तन्मोक्षे ब्रह्म संपद्यत इति श्रुत्यर्थः / देहपातावधिलिङ्गात्तत्त्वविदां याज्ञवल्क्यादीनां देहधारणश्रुतिस्मृतिलिङ्गाच्च प्रारब्धकर्मणस्तत्त्वज्ञानं प्रति हेतुत्वेनोपजीव्यत्वाच्च प्राबल्यसिद्धेस्तत्प्रतिबद्धं तत्त्वज्ञानं तत्सिद्ध्यर्थमविद्यांशं विक्षेपशक्त्याख्यं विहायावरकाविद्यांशं नाशयतीत्याह-उच्यते-न-तावदिति / विक्षेपकाविद्यालेश एव तत्संस्कारः / शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह-अपिच नैवेति
SK
END Bस्Rप्_४,१.११.१५
SK
START Bस्Rप्_४,१.१२.१६ः
SK
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् | BBस्_४,१.१६ |
SK
अग्निहोत्रादि तु /
SK
नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति संदेहे उभे पुण्यपापे तरतीत्यविशेषश्रुतेर्नश्यतीत्याशङ्क्योत्तरस्यापीत्युक्तातिदेशस्य नित्याद्यतिरिक्तकाम्यपुण्यविषयत्वेनात्रापवादं सिद्धान्तयति-पुण्यस्येत्यादिना / अत्र पूर्वपक्षे ज्ञानार्थं नित्याद्यनुष्ठानासिद्धिः पङ्कक्षालनन्यायात्, सिद्धान्ते तु ज्ञानेत्पत्त्यर्थत्वात्तत्सिद्धिरिति विवेकः / अत्र भाष्ये ज्ञानकर्मणोः साक्षादेककार्यत्वं परमतेनोक्त्वा साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् / अत एवेति ज्ञानादूर्ध्वं कर्माभावात्पूर्वकर्मविषयमित्यर्थः / निर्गुणविद्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितं, संप्रति सगुणविद्यापरत्वेन सूत्रस्याञ्जस्यमाह-सगुणास्विति
SK
END Bस्Rप्_४,१.१२.१६
SK
START Bस्Rप्_४,१.१२.१७ः
SK
अतो ऽन्यापि ह्य् एकेषाम् उभयोः | BBस्_४,१.१७ |
SK
उत्तरसूत्रार्थं गृह्णाति-किमित्यादिना /
SK
यत्प्रारब्धादन्यत्काम्यं पुण्यं पापं च तदेव विद्वत्सुहृद्द्विषतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञानान्नश्यतीति भावः
SK
END Bस्Rप्_४,१.१२.१७
SK
START Bस्Rप्_४,१.१३.१८ः
SK
यद् एव विद्ययेति हि | BBस्_४,१.१८ |
SK
यदेव विद्ययेति हि /
SK
उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह-विद्यासंयुक्तमेवेति / अत्र पूर्वपक्षे कर्माङ्गोपास्तिहीनकर्मणो ज्ञानार्थत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः / भवतु विद्याविशिष्टस्य कर्मणो ज्ञानं प्रति शीघ्रकारित्वाख्यः कश्चिदतिशयो विद्यासामर्थ्यात् / नैतावता केवलस्य वैयर्थ्यं विविदिषाश्रुतिविरोधात् / नच तत्र श्रुतौ यज्ञादिशब्दानां विद्योपेतकर्मपरतया संकोचो युक्तः / हि यतः / ऽयदेव विद्ययाऽइति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धान्तग्रन्थार्थः
SK
END Bस्Rप्_४,१.१३.१८
SK
START Bस्Rप्_४,१.१४.१९ः
SK
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते | BBस्_४,१.१९ |
SK
भोगेन त्वितरे क्षपयित्वा संपद्यते /
SK
तत्त्वविदत्र विषयः, स किं प्रारब्धक्षयानन्तरं संसरत्युत नेति निमित्तभावाभावाभ्यां संशये सिद्धान्तमुपक्रमते-अनारब्धेति / अनारब्धकर्मणः क्षयोक्तावारब्धस्य कथं क्षय इत्याकाङ्क्षायामस्योत्थानात्सङ्गतिः / पूर्वपक्षे विदेहकैवल्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः / देहपातोत्तरमपि तत्त्ववित्संसरति संसारयोग्यत्वाद्यथा देहपातात्पूर्वमित्यनारब्धाधिकरणदृष्टान्तेन पूर्वपक्षमाह-नन्विति / भोगनिमित्तकर्माभावाद्धेत्वसिद्धिः / यत्तु संचितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् / अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् / तदुक्तं योगशास्त्रे ऽक्लेशमूलः कर्माशयः सति मूले ताद्विपाकःऽइति / तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसारस्तस्माद्देहपाते कैवल्यमिति सिद्धम्
SK
END Bस्Rप्_४,१.१४.१९
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ भाष्यरत्नप्रभायां चतुर्थस्याध्यायस्य प्रथमः पादः
SK
// इति चतुर्थस्याध्याय जीवन्मुक्ति निरूपणाख्यः प्रथमः पादः //
SK
चतुर्थाध्याये द्वितीयः पादः /
SK
START Bस्Rप्_४,२.१.१ः
SK
वाङ्मनसि दर्शनाच् छब्दाच् च | BBस्_४,२.१ |
SK
वाङ्मनसि दर्शनाच्छब्धाच्च /
SK
ज्ञानफलोक्त्यनन्तरमुपासनफलं ब्रह्मलोकस्थं वक्तव्यं तच्चार्चिरादिमार्गप्राप्यं, मार्गप्राप्तिश्चोत्क्रान्तिसाध्या तस्मादुपास्तिफलक्षिप्तोत्क्रान्तिपादस्यास्त्याध्यायसंगतिः / युक्तं चास्य पूर्वपादानन्तर्यं ज्ञानफलोक्त्यनन्तरं वक्तव्योपास्तिफलेनाक्षिप्तत्वादित्याह-अथेति / ज्ञानिन इवोपासकस्याप्युत्क्रान्तिर्नेत्यत आह-समानेति / विद्वानुपासकः, तस्यानुपासकवदुत्क्रान्तिरस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः / प्रयतो म्रियमाणस्येत्यर्थः / वाक्पदस्य करणभावव्युत्पत्तिभ्यां करणतद्वृत्त्योर्लयभानात्संशयः / पूर्वपक्षे करणानां स्वरूपलयान्मृतमात्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः / अनुपादाने मनसि वाचस्तत्त्वलयायोगेन व्यापारमात्रोपशमादिति विवेकः / सूत्रे वृत्तिपदाध्याहारः कथमिति शङ्कते-कथमिति / उत्तरत्र हि सूत्रकृत्तत्त्वविद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्बलादिहाध्याहार उचितः / अज्ञस्यापि इन्द्रियलयसाम्ये वक्ष्यमाणविशेषोक्त्ययोगादिति समाध्यर्थः / प्रकृतावेव विकारलय इति न्यायविरुद्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति-अतत्प्रकृतित्वादिति /
SK
न्यायस्य निरवकाशत्वाद्बलीयस्त्वं शब्दस्य तूक्तिर्वागितिव्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दाच्चेत्युक्तम्
SK
END Bस्Rप्_४,२.१.१
SK
START Bस्Rप्_४,२.१.२ः
SK
अत एव च सर्वाण्यनु | BBस्_४,२.२ |
SK
वाच्युक्तं न्यायं चक्षुरादिष्वतिदिशति-एत एवेति / उपशान्तदेहौष्ण्यस्तस्मादुत्क्रमणादूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः / इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्तिपरतयोपपत्तेः / सर्वेन्द्रियवृत्तिलयश्चेदिष्टस्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह-सर्वेषां करणानामिति
SK
END Bस्Rप्_४,२.१.२
SK
START Bस्Rप्_४,२.२.३ः
SK
तन्मनः प्राण उत्तरात् | BBस्_४,२.३ |
SK
तन्मनः प्राण उत्तरात् /
SK
वाक्यक्रमादर्थक्रमाच्चाधिकरणक्रमः / श्रुतिन्यायाभ्यां संशयः पूर्वं प्रबलन्यायविरोधाद्वागिति श्रुतेर्बाधः / कृतः इह त्वबात्मकप्राणस्य अन्नात्मकमनःप्रकृतित्वेन प्रकृतौ विकारलय इति न्यायानुग्रहान्न मनःश्रुतिर्बाध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धान्तस्त्वबन्नयोः प्रकृतिविकृतिभावे ऽपि न तद्विकारयोः प्राणमनसोस्तद्भावो हिमघटयोरपि तद्भावप्रसङ्गादतो न्यायविरोधात्पूर्ववच्छ्रुतिर्बाध्येति विवेकः / आगृहीता बाह्येन्द्रियवृत्तयो येन तत्तथा लीनेन्द्रियवृत्तिकं मनो ऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः / एवमपीति / प्राणस्याब्विकारत्वपक्षे ऽपीत्यर्थः / तस्मादिति प्राणस्य साक्षान्मनःप्रकृतिभावान्मनःशब्दो वृत्तिं लक्षयतीत्यर्थः
SK
END Bस्Rप्_४,२.२.३
SK
START Bस्Rप्_४,२.३.४ः
SK
सो ऽध्यक्षे तदुपगमादिभ्यः | BBस्_४,२.४ |
SK
सो ऽध्यक्षे तदुपगमादिभ्यः /
SK
उक्तन्यायसिद्धं प्राणस्यापि वृत्तिलयमुपजीव्य ऽप्राणस्तेजसिऽइति श्रुतेरूपगमादिश्रुतेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसंभव इति पूर्वपक्षयति-स्थितमित्यादिना / अत्र तेजःशब्दस्य मुख्यत्वं, सिद्धान्ते तु भूतोपहित जीवलक्षकत्वमिति मत्वा सूत्रं योजयति-स प्रकृत इत्यादिना / अज्ञानकर्मवासनोपाधिक इत्यर्थः / तं जीवं प्रति प्राणानामुपगमानुगमनावस्थानश्रुतिभ्य इति हेत्वर्थः / यथा यात्रेच्छावन्तं राजानं भृत्या उपगच्छन्त्येवमेव परलोकं जिगमिषुं जीवं सर्वे प्राणा अभिमुख्येनायान्तीत्युपगमः श्रुतः / तमुत्क्रामन्तमित्यनुगमनं श्रुतम् / जीवे प्राणावस्थानश्रुतिमाह-सविज्ञान इति /
SK
जीवस्य प्राप्तव्यफलावगमाय हि विज्ञानसाहित्यश्रुत्याः मुख्यप्राणसहितकरणानां जीवे स्थितिर्भातीत्यर्थः
SK
END Bस्Rप्_४,२.३.४
SK
START Bस्Rप्_४,२.३.५ः
SK
भूतेषु तच्छ्रुतेः | BBस्_४,२.५ |
SK
यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुतस्तथाप्युभयश्रुत्यनुग्रहाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेजआदिभूतेष्विति श्रुत्यर्थस्फुटीकरणार्थं सूत्रं गृह्णाति-कथं तर्हीति / नच लयं विनापि जीवं प्रत्यिपगमादिसंभवात्तेजः श्रुतिर्मुख्यास्त्विति वाच्यं, जीवं प्रत्यागत्य प्राणस्य निर्व्यापारत्वेन स्थितेरेवात्र लयत्वादिति भावः / भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य ऽसो ऽध्यक्षेऽइति सूत्रोदाहृतश्रुतिबलादित्याह-नन्वित्यादिना / प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह-यो ऽपि हीति //
SK
END Bस्Rप्_४,२.३.५
SK
START Bस्Rप्_४,२.३.६ः
SK
नैकस्मिन् दर्शयतो हि | BBस्_४,२.६ |
SK
स्थूलदेहारम्भाय पञ्चीकृतभूतान्यावश्यकानीति रंहत्यधिकरणे व्याख्यातम् / अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः, प्राङ्मोक्षादविनाशिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् / जीवस्य भूताश्रयत्वं कर्माश्रयत्वश्रुतिविरुद्धमित्याशङ्क्य कर्म निमित्तत्वेनाश्रयः, भूतानि तु देहोपादानत्वेनेत्युभयमविरुद्धमित्याह-ननु चेत्यादिना /
SK
तौ याज्ञवल्क्यार्तभागौ यज्जीवाधारमूचतुस्तत्कर्मेति श्रुतेर्वचनम्
SK
END Bस्Rप्_४,२.३.६
SK
START Bस्Rप्_४,२.४.७ः
SK
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य | BBस्_४,२.७ |
SK
एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता / साच सर्वप्राणिषु तुल्येत्याह-समाना चानुपोष्य / ऽपुरुषस्य प्रयतो वाङ्मनसिऽइत्यविशेषश्रुतेः ऽविद्ययामृतमश्नुतेऽइति श्रुतेश्च संशयमाह-सेयमिति / विशयानानां संदिहानानामित्यर्थः / पूर्वपक्षे सगुणब्रह्मविदसंबन्धित्वमुत्क्रान्तेर्विशेषः साध्यते / ततो ऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलं, सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः / पूर्वपक्षमाक्षिप्य समाधत्ते-ननु विद्येत्यादिना /
SK
विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा / न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधो ऽपि तद्विषयः / अतः सगुणविदो ऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति-एवमिति / सृतिर्मार्गस्तस्योपक्रमो ऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः / यत्तु दहरोपासकस्यामृतत्वं श्रुतं ऽतयोर्ध्वमायन्नमृतत्वमेतिऽइति तदापेक्षिकमेव न मुख्यं ऽयं कामं कामयते सो ऽस्य संकल्पादेव समुत्तिष्ठतिऽइति भोगश्रवणादित्याह-अनुपोष्य चेदमिति /
SK
उष दाह इति धातोरिदं रूपम्
SK
END Bस्Rप्_४,२.४.७
SK
START Bस्Rप्_४,२.५.८ः
SK
तदापीतेः संसारव्यपदेशात् | BBस्_४,२.८ |
SK
तदापीतेः /
SK
पूर्वोदाहृतोत्क्रान्तिवाक्यशेषं व्याख्याय लिङ्गाश्रयपञ्चभूतानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लयस्योभयथादर्शनात्संशयमाह-कीदृशी पुनरियमिति /
SK
पूर्वत्रापेक्षिकममृतत्वमित्युक्तं तदयुक्तमित्याक्षेपात्संगतिः पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्मविद्याशास्त्रबलात्सावशेषलयसिद्धिरिति विवेकः
SK
END Bस्Rप्_४,२.५.८
SK
START Bस्Rप्_४,२.५.९ः
SK
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः | BBस्_४,२.९ |
SK
ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्मतमनाडीद्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह-सूक्ष्ममिति
SK
END Bस्Rप्_४,२.५.९
SK
START Bस्Rप्_४,२.५.१०ः
SK
नोपमर्देनातः | BBस्_४,२.१० |
SK
प्रमाणसौक्ष्म्याद्गतिरनुद्भूतस्पर्शरूपवत्त्वाख्यस्वच्छत्वादप्रतिघातानुपलब्धी इत्यर्थः
SK
END Bस्Rप्_४,२.५.१०
SK
START Bस्Rप्_४,२.६.११ः
SK
अस्यैव चोपपत्तेर् ऊष्मा | BBस्_४,२.११ |
SK
लिङ्गसद्भावे चौष्ण्यलिङ्गकानुमानमाह-अस्यैव चेति
SK
END Bस्Rप्_४,२.६.११
SK
START Bस्Rप्_४,२.६.१२ः
SK
प्रतिषेधाद् इति चेन् न शारीरात् | BBस्_४,२.१२ |
SK
प्रतिषेधादिति चेन्न शारीरात् /
SK
पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः / सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य संगतिरित्याह-अमृतत्वं चेति / सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थो ऽथशब्दः आत्मकामत्वात् पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो यो ऽकामयमानस्तस्येत्यन्वयः / ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां संदेहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति-नेत्यादिना
SK
END Bस्Rप्_४,२.६.१२
SK
START Bस्Rप्_४,२.६.१३-१४ः
SK
स्पष्टो ह्येकेषाम् | BBस्_४,२.१३ |
SK
स्मर्यते च | BBस्_४,२.१४ |
SK
काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य संबन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथाच जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनो ऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् / सिद्धान्ते तत्सार्थक्यमाह-स्पष्टो हीति / अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते / सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः / उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः / येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् / तत्सामान्यदुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना / इदानीं काण्वपाठस्यानुगुण्यमाह-येषां तु षष्ठीपाठ इति / संबन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषो ऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः / न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् / अतो विद्वत्संबन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नोवेत्युक्तदेहप्रदेशा एव ग्राह्यः / तथाचायमर्थः-तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति / एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् / अपिचेति स्पष्टार्थम् / सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना / समृत्यन्तरविरोधं शङ्कते-ननु गतिरपीति / सगुणविद्याबलेनैषा गतिरिति परिहरति-सशरीरस्येति / ननु तर्हि ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ, ऽस एवैतान्ब्रह्म गमयतिऽइत्यादिश्रुतीनां का गतिः, तत्राह-गतीति //१३
SK
END Bस्Rप्_४,२.६.१३-१४
SK
START Bस्Rप्_४,२.७.१५ः
SK
तानि परे तथा ह्य् आह | BBस्_४,२.१५ |
SK
तानि परे तथाह्याह /
SK
पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणादीनामत्रैव लय उक्तः / तमुपजीव्य स किं तत्तत्कलाप्रकृतिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुतिद्वयदर्शनात्संशयः कार्यः / तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया ऽगताः कलाःऽइति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह-तानीति / यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्मद्रष्टुरिमाः प्राणश्रद्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः / मनःप्राणयोरेकीकरणेन कलानां पञ्चदशत्वम् / प्रतिष्ठा इति द्वितीयाबहुवचनम् / स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः / वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालये ऽपि लोकदृष्ट्या प्रतिष्ठासु लयोक्तिरविरुद्धा / तथाच कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुतिद्वयतात्पर्यम्
SK
END Bस्Rप्_४,२.७.१५
SK
START Bस्Rप्_४,२.८.१६ः
SK
अविभागो वचनात् | BBस्_४,२.१६ |
SK
अविभागो वचनात् /
SK
उक्तलयमुपजीव्य लयस्य द्वेधादर्शनात्संशयमाह-स पुनरिति / मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् / अवशेषो मूलकारणे शक्त्यात्मना स्थितिः / पुनर्जन्मयोग्यतेति यावत् / विमतः कलालयः सावशेषः, कलालयत्वात्सुषुप्तिवदिति पूर्वपक्षः / विमतो निरवशेषः, विद्याकृतत्वाद्रज्ज्वा विद्यया सर्पलयवदिति युक्त्युपेतश्रुत्या सिद्धान्तयति-ब्रवीतीति /
SK
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः
SK
END Bस्Rप्_४,२.८.१६
SK
START Bस्Rप्_४,२.९.१७ः
SK
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया | BBस्_४,२.१७ |
SK
तदोकोग्रज्वलनम् /
SK
सृतेर्मार्गस्योपक्रमो नाडीप्रवेशनियमस्तं वक्तुं सूत्रभागव्याख्याद्वाराधिकरणविषयमाह-तस्येति / स मुमूर्षुस्तेजोमात्रा इन्द्रियाणि / तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् / चक्षुषो वेत्यनियमश्रुतेस्तयोर्घ्वमायन्निति विशेषश्रुतेश्च संशयः-किमुपासको ऽप्यनुपासकवद्येन केनचिद्द्वारेण निर्गच्छति उत मूर्धन्यनाड्यैवेति / अत्र पूर्वपक्षे विद्याकृतातिशयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः / वचनादविभागवदनियम इति प्राप्ते सिद्धान्तयति-आचष्ट इति /
SK
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्मलोकप्राप्तौ विद्यशेषत्वेन मार्गानुस्मृतिविधेः केवलादृष्टार्थत्वं स्यादतो ऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः / हार्दं ब्रह्म / विष्वङ् नानाविधा अन्या नाड्यो ऽन्येषामित्यर्थः / सुषुम्नाख्या नाडी हृदयात् निर्गता दक्षिणाक्षितालुकण्ठान्तस्तननासिकामध्याभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभिरेकीकृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम्
SK
END Bस्Rप्_४,२.९.१७
SK
START Bस्Rप्_४,२.१०.१८ः
SK
रश्म्यनुसारी | BBस्_४,२.१८ |
SK
रश्म्यनुसारी /
SK
प्रकरणशोधनपूर्वकमुपासकस्य रश्म्यनुसारित्वं विषयमाह-अस्तीत्यादिना / अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसंबद्धै रश्मिभिरुत्क्रामतीत्यर्थः / अत्र संबन्धस्य कालविशेषाश्रवणाद्रात्रौ रश्म्यभावाच्च संशयमाह-तत्किमिति / पूर्वोक्तनाडीसंबद्धरश्मीनामत्रोपजीव्यत्वात्संगतिः / पूर्वपक्षे रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते-अविशेषेणेति
SK
END Bस्Rप्_४,२.१०.१८
SK
START Bस्Rप्_४,२.१०.१९ः
SK
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च | BBस्_४,२.१९ |
SK
पूर्वपक्षबीजमुपन्यस्य दूषयति-निशीत्यादिना / शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति सृप्ताः संबद्धाः / श्रुतसंबन्धस्य रात्रौ सत्त्वे युक्तिमाह-निदाघेति / तर्हि हेमन्तादिरात्रिष्वौष्ण्योपलब्धिः स्यादित्यत आह-स्तोकेति /
SK
सविता रात्रावप्यहर्दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमेवेत्यर्थः / किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मिश्रुतेर्दिवामृतविषयतया संकोचः स्यादूर्ध्वगत्यभावे च विद्यायामप्रवृत्तिः स्यात् / नच प्रतीक्षयोर्ध्वगतिरिति वाच्यं, रश्म्युदयात्प्राग्देहदाहे आदित्यप्रतीक्षावैयर्ध्यापातादप्रतीक्षाश्रुतिविरोधाच्च / तस्माद्यदाकदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्मलोकप्राप्तिरिति
SK
END Bस्Rप्_४,२.१०.१९
SK
START Bस्Rप्_४,२.१०.२०ः
SK
अतश् चायने ऽपि दक्षिणे | BBस्_४,२.२० |
SK
एवं दक्षिणायने मृतो विद्वान्विद्याफलमाप्नोति न वेति विद्याया नित्यवत्फलश्रुतेरुत्तरायणप्राशस्त्यशास्त्राच्च संदेहे पूर्वोक्तहेतूनतिदिशति-अतश्चायने ऽपि दक्षिणे / पूर्वपक्षमाशङ्क्यापनुदति-उत्तरायणेत्यादिना /
SK
अज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवचनरूपाचारपरिपालनार्थं भीष्मस्य प्रतीक्षा / षण्मासानिति श्रुतिस्तूत्तरायणदेवतापरेति वक्ष्यते / तथाच देवतायाः सदा सत्त्वाद्विद्यया दक्षिणायनकाले ऽपि तत्प्राप्तिरविरुद्धेति भावः
SK
END Bस्Rप्_४,२.१०.२०
SK
START Bस्Rप्_४,२.११.२१ः
SK
योगिनः प्रति च स्मर्येते स्मार्ते चैते | BBस्_४,२.२१ |
SK
स्मृतिबलात्कालप्राधान्यं शङ्कते-ननु चेति / श्रौतदहराद्युपासकस्यास्माभिः कालानपेक्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह-योगिन इति / योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह-स्मार्ते चेति / भगवदाराधनबुद्ध्यानुष्ठितं कर्म योगः ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यः / स संन्यासी च योगी चऽइति स्मृतेः / धारणापूर्वको ऽकर्तृत्वानुभवः सांख्यं, ऽइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्ऽइति स्मृतेः / ननु श्रुतिस्मृत्योर्भिन्नार्थत्वमयुक्तं प्रत्यभिज्ञाविरोधादिति शङ्कते-नन्वग्निरिति /
SK
कालाग्रहिणं प्रति भिन्नार्थत्वमुक्तम् / यदि तु श्रौतार्थप्रत्यभिज्ञया कालशब्दो देवतापरस्तर्ह्यैकार्थ्यमेवेति समाध्यर्थः / तस्माद्विद्यासामर्थ्यात्सर्वदैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम्
SK
END Bस्Rप्_४,२.११.२१
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थध्यायस्य द्वितीयः पादः
SK
// इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः //
SK
चतुर्थे ऽध्याये तृतीयः पादः /
SK
START Bस्Rप्_४,३.१.१ः
SK
अर्चिरादिना तत्प्रथितेः | BBस्_४,३.१ |
SK
एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते-अर्चिरादिना तत्प्रथितेः / वृत्तानुवादपूर्वकमाद्याधिकरणस्य विषयं मार्गमाह-आसृतीति / विरजा विरजसः निष्पापा इत्यर्थ / श्रुतिविप्रतिपत्त्या संशयः / पूर्वं यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः / उपासनाभेदात्तच्छेषत्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च / किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः / उपासनाभेदे ऽप्युपास्यब्रह्मैक्यवन्मार्गैक्यविरुद्धमिति सिद्धान्तयति-एवमिति / तस्य मार्गस्य प्रसिद्धत्वादिति हेत्वर्थः / ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषययेति मार्गभेदं शङ्कते-स्यादेतदिति / एकस्यैव मार्गस्यानेकान्याग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः / प्रत्यभिज्ञानाच्चेति समाध्यर्थः / गन्तव्यैक्यं विवृणोति-तथाहीति / परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः / एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदो ऽप्रयोजक इत्युक्तं संप्रत्येवकारत्वरावचनयोर्गतिमाह-यत्त्वित्यादिना / रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः / यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः / मार्गैक्ये लिङ्गमाह-अपिचेति / शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः / उत्तरमार्गैक्ये ऽप्यर्चिरादिनेति / विशेषणे को हेतुरित्यत आह-भूयांसीति
SK
END Bस्Rप्_४,३.१.१
SK
START Bस्Rप्_४,३.२.२ः
SK
वायुम् अब्दाद् अविशेषविशेषाभ्याम् | BBस्_४,३.२ |
SK
उक्तं मार्गस्यैक्यमुपजीव्य पर्वक्रममाह-वायुमब्दात् / अर्चिरादिष्वस्मादयमनन्तर इति क्रमेण विशेषणविशेष्यभाव उच्यत इत्यधिकरणस्य तात्पर्यमुक्त्वा विषयमाह-स एतमिति / अत्राग्न्यनन्तरं पठितो वायुर्विषयः / स किं अर्चिरात्मकाग्नेरनन्तरमुत संवत्सरात्पर इति पाठाद्वक्ष्यमाणविशेषश्रुतेश्च संशये सिद्धान्तमेवोपक्रमते-उच्यत इति / पुरुषः उपासको ऽस्माल्लोकाद्देहात्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथचक्रछिद्रतुल्येन द्वारेणोर्ध्वमादित्यं गच्छतीति श्रुत्यर्थः / इदानीं पूर्वपक्षमाह-कस्मात्पुनरिति / पाठबलादर्चिषो ऽनन्तरो वायुरित्यर्थः / कौषीतकिनां पाठमात्रं, न क्रमविशेषवाची कश्चिच्छब्दो ऽस्ति / काण्वानां तु तेनेत्यूर्ध्वमिति च शब्दाभ्यां क्रमनिश्चयात्पाठबाध इति सिद्धान्तार्थः / अस्त्वर्चिरादिमार्गे छान्दोग्यस्थे संवत्सरपाठाद्वायोरब्दात्परत्वं, वाजिश्रुतिस्थे तु संवत्सरस्याश्रुतेः कथमब्दात्परो वायुरित्यत आह-वाजेति / तर्हि देवलोकाद्वायुमिति सूत्रं स्यादित्यत आह-वायुमब्दादिति त्विति /
SK
संवत्सरस्य मासावयवित्वान्मासानन्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः / तेनेति तृतीयाश्रुत्या वायोरादित्यपूर्वत्वावगमादिति, सूत्रे तु वायुपदं देवलोकपूर्वकवायुपरमिति स्थितम्
SK
END Bस्Rप्_४,३.२.२
SK
START Bस्Rप्_४,३.३.३ः
SK
तटितो ऽधि वरुणः संबन्धात् | BBस्_४,३.३ |
SK
एवं कौषीतकिभिरग्न्यनन्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरुणस्यार्चिरादिमार्गे स्थानमाह-तडितो ऽधि वरुणः संबन्धात् / पठितो वरुणादिर्मार्गपर्वत्वेन संबध्यते न वेति संदेहे ऽर्चिषो ऽहरित्यादि पञ्चम्यार्चिरादीनां क्रमेण मार्गपर्वतया बद्धत्वाद्वायोरिव स्थानविशेषश्रुत्यभावादलब्धस्थानो वरुणादिर्न संबध्यत इति प्राप्ते सिद्धान्तमाह-आदित्यादिति / अपां विद्युत्कार्यत्वेन संबन्धे मानमाह-विद्योतत इति /
SK
वरुणस्याब्द्वारा विद्युसंबन्धात् ऽआगन्तुकानामन्ते निवेशःऽइति न्यायाय्च्च विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रम इत्यर्थः
SK
END Bस्Rप्_४,३.३.३
SK
START Bस्Rप्_४,३.४.४ः
SK
आतिवाहिकास् तल्लिङ्गात् | BBस्_४,३.४ |
SK
एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति-आतिवाहिकास्तल्लिङ्गात् / चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः / आद्यपक्षद्वयं पूर्वपक्षः / अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति-एवमित्यादिना / यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते-तद्वचनमिति / पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतो ऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह-नेति / नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः / नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति-नन्विति
SK
END Bस्Rप्_४,३.४.४
SK
START Bस्Rप्_४,३.४.५ः
SK
उभयव्यामोहात् तत् सिद्धेः | BBस्_४,३.५ |
SK
यद्यनेतारो ऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेदमिति सूत्रार्थः / पूर्वपक्षद्वयं दूषयति-अनवस्थितत्वादित्यादिना / अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः / यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह-अर्चिषो ऽहरिति / चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह-अपिचेति / यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह-संपिण्डितेति / सूत्रान्तरं गृह्णाति-कथं पुनरिति
SK
END Bस्Rप्_४,३.४.५
SK
START Bस्Rप्_४,३.४.६ः
SK
वैद्युतेनैव ततस् तच्छ्रुतेः | BBस्_४,३.६ |
SK
आमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः / श्रुतौ वैद्युताल्लोकादित्यर्थः / श्रुत्या वरुणादीनां नेतृत्वाभावे ऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः
SK
END Bस्Rप्_४,३.४.६
SK
START Bस्Rप्_४,३.५.७ः
SK
कार्यं बादरिरस्य गत्युपपत्तेः | BBस्_४,३.७ |
SK
एवं मार्गं निरूप्य गन्तव्यं चिन्तयति-कार्यं बादरिरस्य गत्युपपत्तेः / परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह-तत्र कार्यमेवेति /
SK
सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं, दृष्टं, ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः
SK
END Bस्Rप्_४,३.५.७
SK
START Bस्Rप्_४,३.५.८ः
SK
विशेषितत्वाच् च | BBस्_४,३.८ |
SK
ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह-विशेषितत्वाच्चेति /
SK
परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः / नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहायः / न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः
SK
END Bस्Rप्_४,३.५.८
SK
START Bस्Rप्_४,३.५.९-१२ः
SK
सामीप्यात् तु तद्व्यपदेशः | BBस्_४,३.९ |
SK
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् | BBस्_४,३.१० |
SK
स्मृतेश् च | BBस्_४,३.११ |
SK
परं जैमिनिर् मुख्यत्वात् | BBस्_४,३.१२ |
SK
प्रतिसंचरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कुतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना / एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह-कं पुनरित्यादिना //९ // //१० // //११
SK
END Bस्Rप्_४,३.५.९-१२
SK
START Bस्Rप्_४,३.५.१३ः
SK
दर्शनाच् च | BBस्_४,३.१३ |
SK
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता
SK
END Bस्Rप्_४,३.५.१३
SK
START Bस्Rप्_४,३.५.१४ः
SK
न च कार्ये प्रतिपत्त्यभिसंधिः | BBस्_४,३.१४ |
SK
एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तं, संप्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसंकल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति-नच कार्य इति / परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः / यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसंकल्प एवायमित्यर्थः / अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह-सा चेति / तत्तत्र ब्रह्मलोके विद्याविधीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता / तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः / किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह-पदेरपीति / पूर्वपक्षमुपसंहरति-तस्मादिति / आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसंक्रमते-ताविति / ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्व्ःअं स्फुटयति-नहीति / गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः संकल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसंभवान्मुख्यार्थत्याग इत्यर्थः / यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्यःएव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् / यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह-परेति / यथा विद्यासंबद्धसुषुम्नास्तुत्यर्थं तदसंबद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणे ऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः / यदप्युक्तं प्राप्तिसंकल्पो ऽपि प्रकृतपरविषय इति तन्नेत्याह-प्रजापतेरिति / प्रजापतिसभावेश्मश्रुतिभिस्तत्संघातात्मकवाक्येन च प्रकरणं, बाध्यं, यशो ऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थ / स्वपक्षमुक्त्वा परमतं दूषयति-केचिदित्यादिना / सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते-नन्विति / यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् / ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह-सर्वशक्तीति / या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसो ऽपि कालान्तरे ऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः / अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह-नेत्यादिना / ऽअनादिमत्परं ब्रह्मऽइत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः / सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यं, निर्विशेषं तु नास्त्येवेति शङ्कते-जगदुत्पत्तीति / किं निर्विशेषस्यासत्त्वं मानभावात्सविशेषश्रुतिविरोधाद्वा / नाद्य इत्याह-नेति / द्वितीयं शङ्कते-उत्पत्त्यादीति / सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह-नेति / निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह-कस्मादिति / तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्संनिधावफलं तदङ्गमिति न्यायादित्याह-उच्यत इत्यादिना / न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह-प्रत्यक्षं त्विति / तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये / तथा तैत्तिरीयके ऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः / एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह-एवमिति / स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह-न तस्येति / एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति-गतिकल्पनायां चेत्यादिना / भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः / नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह-अत्यन्तेति / कल्पत्रये किं दूषणमिति पृच्छति-यद्येवमिति / कल्पद्वये ऽपि दोषान्तरमाह-विकारावयवपक्षयोश्चेति / विकारावयवरूपजीवविशिष्टस्यः ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् / नह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यथ्रः / अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः / तृतीयकल्पमनूद्य विकल्प्य दूषयति-अथेत्यादिना / अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह-विकारावयवयोरिति / भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति-नेति / किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् / नचास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशे ऽपि न नश्येदित्याह-सर्वेष्विति / ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति-यत्त्वित्यादिना / तदिति / एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः / तर्क एव मानमित्यत आह-न चैतत्तर्कयितुमिति / ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह-कर्मशेषसद्भावसिद्धिश्चेति / सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते-स्यादेतदिति / पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् / पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति संचितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह-तन्नेत्यादिना / क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह-नच नित्येति / प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः / तद्यथेति / निर्मिते आरोपिते सतीत्यर्थः / तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह-संशयितव्यं त्विति / ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः / ब्रह्मभिन्नस्य जीवस्यं कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह-नचेति / कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते-स्यादेतदिति / कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसंबद्धत्वान्मोक्षो न स्यादिति परिहरति-तच्चेत्यादिना /
SK
मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति-परस्मादित्यादिना / प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति-तदेवमिति / ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह-ब्रह्मविदाप्नोतीति / वैफल्याच्च गतेर्न परविषयत्वमित्याह-अपिचेति / अनुचिन्तनपक्षं प्रत्याह-नच नित्यसिद्धति / कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्तेत्याह-तत्र परापरेति / प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह-किं द्वे इत्यादिना / व्यापिनो जीवस्य कथं गतिस्तत्राह-सर्वगतत्वे ऽपीति
SK
END Bस्Rप्_४,३.५.१४
SK
START Bस्Rप्_४,३.६.१५ः
SK
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च | BBस्_४,३.१५ |
SK
एवं गन्तव्यं निरूप्य गन्तृन्निर्धारयति-अप्रतीकेति / ऽस एवैनान् ब्रह्म गमयतिऽइत्यविशेषश्रुतेः तत्क्रतुन्यायाच्च / संशयमाह-इदमिति / अनियमाधिकरणे तत्त्वविदो ऽन्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदानीमपतीकोपासकानामेव मार्गो न सर्वेषां विकारोपासकानामित्युभयथाभावोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मादुपासकमात्रस्योत्तरमार्गसिद्धिरिति पूर्वपक्षफलं, सिद्धान्ते तूभयथाभावसिद्धिः / अदोषादिति सूत्रे परच्छेदः, अविरोधादित्यर्थः / अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रतीकोपासकान्यपरत्वादिति भावः / यद्यपि प्रतीकध्यायिनां पितृयाणतृतीयस्थानयोरप्रवेशादर्चिरादिमार्गो वाच्यस्तथापि तेषां विद्युत्पर्यन्तमेव गमनमस्तु न ब्रह्मप्राप्तिर्ब्रह्मक्रतुत्वाभावात् / यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः / प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्मध्यायित्वमस्ति / अस्य च न्यायस्य पञ्चाग्निविद्यायामाहत्यवादात्प्रत्यक्षवचनाद्बाध इष्ट इति सूत्रभाष्यार्थः
SK
END Bस्Rप्_४,३.६.१५
SK
START Bस्Rप्_४,३.६.१६ः
SK
विशेषं च दर्शयति | BBस्_४,३.१६ |
SK
किञ्च प्रतीकतारतम्येन फलतारतम्यश्रुतेर्न प्रतीकध्यायिनां ब्रह्मप्राप्तिरित्याह-विशेषं चेति /
SK
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम्
SK
END Bस्Rप्_४,३.६.१६
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ भाष्यरत्नप्रभायां चतुर्थाध्यायस्य तृतीयः पादः
SK
// इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गामिधानाख्यस्तृतीयः पादः //
SK
चतुर्थे ऽध्याये चतुर्थः पादः /
SK
START Bस्Rप्_४,४.१.१ः
SK
संपद्याविर्भावः स्वेन शब्दात् | BBस्_४,४.१ |
SK
पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, संप्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह-संपद्याविर्भावः स्वेनशब्दात् / निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह-एवमिति / पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलं, तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह-किमित्यादिना / स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्वेवेति मत्वा सिद्धान्तयति-एवमिति /
SK
मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वे ऽत्वनर्थकानुवादः स्यादित्यर्थः
SK
END Bस्Rप्_४,४.१.१
SK
START Bस्Rप्_४,४.१.२ः
SK
मुक्तः प्रतिज्ञानात् | BBस्_४,४.२ |
SK
सूत्रान्तरं गृह्णाति-कः पुनरिति /
SK
जागरिते ह्यान्ध्यादिदेहधर्मवान्भवति स्वप्ने तु हत एव केनचित् / अपिच पुत्रादिनाशाद्रोदितीव भवति, सुषुप्तौ तु विशेषाज्ञानाद्विनष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्योतमानपूर्णानन्दात्मनावतिष्ठत इति महान् विशेष इत्यर्थः
SK
END Bस्Rप्_४,४.१.२
SK
START Bस्Rप्_४,४.१.३ः
SK
आत्मा प्रकरणात् | BBस्_४,४.३ |
SK
कार्यगोचरमिति /
SK
कार्यं ज्योतिःप्राप्तमित्यर्थः / कार्यं प्राप्तो ऽपि मुक्तः किं न स्यादित्यत आह-न चानतिवृत्त इति
SK
END Bस्Rप्_४,४.१.३
SK
START Bस्Rप्_४,४.२.४ः
SK
अविभागेन दृष्टत्वात् | BBस्_४,४.४ |
SK
अविभागेन दृष्टत्वात् /
SK
स्वरूपस्थितमुक्तमुपजीव्य वादिविवादात् ब्रह्मभेदाभेदसंशये सत्यत्यन्तभेदं पूर्वपक्षमुक्त्वा सिद्धान्तमाह-यस्येति
SK
END Bस्Rप्_४,४.२.४
SK
START Bस्Rप्_४,४.३.५ः
SK
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः | BBस्_४,४.५ |
SK
ब्राह्मेण जैमिनिःउक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रो ऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह-अधुनेत्यादिना /
SK
तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् / सो ऽन्वेष्टव्य इतिविध्यर्थ उद्देशो य आत्मेत्यादिरूपन्यासशब्दार्थः / आदिपदाद्विधिव्यपदेशग्रहः / तत्राज्ञातज्ञापको विधिस्तमाह-तथा स तत्रेति /
SK
सर्वज्ञ इत्यादिस्तु व्यपदेशो ऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः
SK
END Bस्Rप्_४,४.३.५
SK
START Bस्Rप्_४,४.३.६ः
SK
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः | BBस्_४,४.६ |
SK
सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह-चितितन्मात्रेणेति / चितिश्चैतन्यं, शब्दज्ञानाद्यो विकल्पो ऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् / अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह-सत्यकामेति / चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह-अत एव चेति /
SK
सर्वधर्मनिषेधादेवेत्यर्थः
SK
END Bस्Rप्_४,४.३.६
SK
START Bस्Rप्_४,४.३.७ः
SK
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः | BBस्_४,४.७ |
SK
धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् / अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति-एवमपीति / अत्र केचिन्मुह्यन्ति-अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः / ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति / नच मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यं, न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः / तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् / न / प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसंमत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति संक्षेपः
SK
END Bस्Rप्_४,४.३.७
SK
START Bस्Rप्_४,४.४.८ः
SK
संकल्पाद् एव तु तच्छ्रुतेः | BBस्_४,४.८ |
SK
एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति-संकल्पादेव तु तच्छ्रुतेः / एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य संकल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसंकल्पत्वादस्मदादिसंकल्पवत् / न चैवकारविरोधः संकल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः / अत्र लोकवृत्तानुसरणं फलं, सिद्धान्ते तु विद्याबलेन संकल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति बेदः / किञ्च यदि भोगसंकल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसंकल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसंकल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह-निमित्तान्तरमपि त्विति
SK
END Bस्Rप्_४,४.४.८
SK
START Bस्Rप्_४,४.४.९ः
SK
अत एव चानन्याधिपतिः | BBस्_४,४.९ |
SK
नन्वीश्वराधीनस्य विदुषः कथं संकल्पमात्राद्भोगसिद्धिस्तत्राह-अत एवेति /
SK
ईश्वरधर्म एव विदुष्याविर्भूत इति न संकल्पभङ्ग इति भावः
SK
END Bस्Rप्_४,४.४.९
SK
START Bस्Rप्_४,४.५.१०-११ः
SK
अभावं बादरिर् आह ह्य् एवम् | BBस्_४,४.१० |
SK
भावं जैमिनिर् विकल्पामननात् | BBस्_४,४.११ |
SK
एवकारवन्मनसेति विशेषणेनान्ययोगव्यवच्छेदाद्देहाद्यभाव इति पूर्वपक्षयति-अभावं बादरिराह ह्येवम् / अत्रापि वादिविवादात्संशयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः /
SK
कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः / फलं तु तत्तच्छ्रुतेर्मुख्यत्वमिति विवेकः //१०
SK
END Bस्Rप्_४,४.५.१० END Bस्Rप्_४,४.५.११
SK
START Bस्Rप्_४,४.५.१२-१४ः
SK
द्वादशाहवद् उभयविधं बादरायणो ऽतः | BBस्_४,४.१२ |
SK
तन्वभावे सन्ध्यवद् उपपत्तेः | BBस्_४,४.१३ |
SK
भावे जाग्रद्वत् | BBस्_४,४.१४ |
SK
द्वादशाहवदिति /
SK
य एवंविद्वांसः सत्रमुपयन्ति इत्युपायिचोदनागम्यत्वश्रुतेर्द्वादशाहस्य सत्रत्वं, आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः / तथा द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमेन द्विरात्रादिवदहीनत्वं चेत्यर्थः //१२ // //१३
SK
END Bस्Rप्_४,४.५.१२-१४
SK
START Bस्Rप्_४,४.५.१५ः
SK
प्रदीपवदावेशस् तथा हि दर्शयति | BBस्_४,४.१५ |
SK
प्रदीपवदावेशः /
SK
संकल्पमात्रान्निर्मितदेहानुपजीव्य तेषूभयथादर्शनात्संशयमाह-भावमिति / अनादिलिङ्गशरीरस्यैकस्मिन्नेव शरीरे भावान्निर्मितानेकदेहेषु भोगासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे-यथेत्यादिना / स एकधा त्रिधा पञ्चधेत्यादिश्रुत्या विदुष एवानेकधाभाव उक्तः / विद्वांस्तु न देहो नापि चिन्मात्रः / किन्तु लिङ्गोपहितात्मा / नच तस्य लिङ्गभेदं विनानेकत्वं संभवति / अतः श्रुतिबलादेकस्यैवानादिलिङ्गस्यानेकदेहेषु प्रवेशेन भेद एष्टव्यः / यद्यपि मूलप्रदीपस्य वर्त्यन्तरेषूत्पन्नदीपानां चात्यन्तभेदो ऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदुपहितजीवभेदादनुसंधानानुपपत्तेः / आगन्तुकानेकलिङ्गसृष्टावसत्कार्यवादापाताच्च / तथापि प्रदीपत्वजात्यैक्येन व्यक्तिष्वैक्यारोपात् दृष्टान्तदार्ष्टान्तिकयोः साम्यं दृष्टव्यम् / तथाच यथा प्रदीपो ऽनैकवर्तिषु प्रविशति एवं विद्यायोगबलाद्विद्वलिङ्गस्य व्यापित्वादनेकदेहेषु युगपदावेश इति सूत्रार्थः / विदुषो ऽनेकधात्वं श्रुतमन्यथा न घटत इत्याह-नैतदिति / इतश्च सात्मकत्वमित्याह-नच निरात्मकानामिति / यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थापि मनांसि भवन्ति तदवस्थानां तन्नियम्यत्वसंभवादिति / अत्र योगशास्त्रसंमतिमाह-एषैवेति /
SK
निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति हि भगवत्पतञ्जलिना सूत्रितम् / योगिनो ऽभिमानमात्रान्निर्माणचित्तानि निर्माणदेहेषु भवन्ति, तेषां नियामकमनादिचित्तमित्यर्थः
SK
END Bस्Rप्_४,४.५.१५
SK
START Bस्Rप्_४,४.६.१६ः
SK
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि | BBस्_४,४.१६ |
SK
उत्तरसूत्रव्यावर्त्यशङ्कामाह-कथं पुनरिति / सलिलवत्सलिलः, स्वच्छ इत्यर्थः / न तु तद्द्वितीयमस्तीति क्वचित्सुषुप्तिमधिकृत्योक्तं ऽतत्केन कम्ऽइत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् / एवं विशेषज्ञानाभाववचनं सुषुप्तिमुक्त्यन्यतरापेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्नविषयत्वादित्याह-स्वाप्ययेति /
SK
तत्रैव श्रुतौ तदधिकारवशात्सुषुप्त्यादिप्रकरणबलात्, उक्तवचनानामन्यतरापेक्षत्वमाविष्कृतं हि यतस्ततो ऽवगम्यत इत्यर्थः / अत्र समुत्थानादिवाक्यं मुक्तिविषयं यत्र सुप्ता इति सुप्तिविषयमिति विभागः
SK
END Bस्Rप्_४,४.६.१६
SK
START Bस्Rप्_४,४.७.१७ः
SK
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च | BBस्_४,४.१७ |
SK
जगद्व्यापारवर्जम् /
SK
संकल्पादेवेत्यादिनोक्तैश्वर्यस्य जगत्सृष्ट्यादिव्यतिरिक्तविषयत्वेनात्रापवादात्संगतिः / उभयथा दर्शनात्संशयः / ईश्वरनानात्वं पूर्वपक्षफलं, सिद्धान्ते तु विद्यायोगिनामीश्वरनियम्यत्वादेकस्य नित्यसिद्धस्येश्वरस्यैव जगत्कर्तृत्वसिद्धिरिति विवेकः / प्रलयात्सर्गसमये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव नियन्तृत्वादिर्जगद्व्यापारः / नद्ध्युपासकानां देहं विनेक्षणं संभवति / किञ्चेश्वरस्य नित्यसिद्धत्वाच्छब्दैकसमधिगम्यत्वाच्च जगत्स्रष्टृत्वं युक्तं, न तु तत्प्रसादलब्धसिद्धीनां जीवानामित्याह-नित्यशब्दनिबन्धनत्वाच्चेति / किञ्च विदुषां समप्राधान्ये मिथो विरोधः / एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह-समनस्कत्वादिति
SK
END Bस्Rप्_४,४.७.१७
SK
START Bस्Rप्_४,४.७.१८ः
SK
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः | BBस्_४,४.१८ |
SK
अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकः, स चासौ मण्डलस्थश्च तस्य प्राप्यत्वोक्तेरित्यर्थः / मनसस्पतिः सूर्यमण्डलान्तःस्थः परमात्मा ऽतत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि / धियो यो नः प्रचोदयात्ऽइति श्रुतेः / तथाच यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् / अतो भोगे स्वाराज्यं न जगज्जन्मादिष्विति भावः / वाक्पतित्वादिकमपीश्वराधीश्वराधीनमित्याह-तदनुसारेणेति / उक्तन्यायं कामचारादिवाक्येष्वतिदिशति-एवमिति
SK
END Bस्Rप्_४,४.७.१८
SK
START Bस्Rप्_४,४.७.१९ः
SK
विकारावर्ति च तथा हि स्थितिम् आह | BBस्_४,४.१९ |
SK
जगद्व्यापार उपासकप्राप्यः तदुपास्यनिष्ठत्वात्संकल्पसिद्ध्यादिवदित्याशङ्क्योपास्यस्थनिर्गुणस्वरूपे व्यभिचारमाह-विकारावर्ति चेति
SK
END Bस्Rप्_४,४.७.१९
SK
START Bस्Rप्_४,४.७.२०ः
SK
दर्शयतश् चैवं प्रत्यक्षानुमाने | BBस्_४,४.२० |
SK
निर्गुणस्वरूपे प्रमाणमाह-दर्शयतश्चेति /
SK
यथा ज्ञानाभावान्निर्गुणं न प्राप्तं तथा ध्यानाभावाज्जगत्स्रष्टृत्वादि न प्राप्यते / ध्यानाभावश्च विध्यभावादिति भावः
SK
END Bस्Rप्_४,४.७.२०
SK
START Bस्Rप्_४,४.७.२१ः
SK
भोगमात्रसाम्यलिङ्गाच् च | BBस्_४,४.२१ |
SK
तमुपासकं ब्रह्मलोकगतमाह-हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोको ऽमृतोदकलक्षण इत्यर्थः / श्रुत्यन्तरमाह-स यथेति /
SK
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः / तेनो इत्युशब्दो ऽप्यर्थः / सलोकतामपीत्यन्वयः / सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा
SK
END Bस्Rप्_४,४.७.२१
SK
START Bस्Rप्_४,४.७.२२ः
SK
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् | BBस्_४,४.२२ |
SK
शास्त्रसमाप्तिं सूचयन्त्सूत्रकारं पूजयति-भगवानिति / भगवत्त्वं सर्वज्ञत्वम् / सूत्रद्वारा शिष्याणामाचारे स्थापनादाचार्यत्वम् / बादरायणपदेन बदरिकाश्रमवासोक्त्या नित्यसर्वज्ञस्य परमगुरोर्नारायणस्य प्रसादद्योतनात्तप्रणीतशास्त्रे निरवद्यतां द्योतयति / सगुणविद्यायाः सातिशयफलत्वे ऽपि ततो निर्गुणविद्यानावृत्तिरित्याह-अनावृत्तिः शब्दादनावृत्तिः शब्दात् / ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति संबन्धः / लोकं विशिनष्टि-यस्मिन्निति / इतो ऽस्मात्पृथिवीलोकात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नर इति ण्य इति चार्णकतुल्यौ सुधाहृदावित्यर्थः / ऐरमन्नमयं, मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी / यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुतिष्विहेममिति विशेषणादस्मिन्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथापीश्वरोपास्तिं विना पञ्चागनिविद्याश्वमेधदृढब्रह्मचर्यादिसाधनैर्ये गतास्तेषां तत्त्वज्ञाननियमाभावादावृत्तिः स्यात्, ये तु दहरादीश्वरोपास्त्या गतास्तेषां सगुणविद्याफलक्षये ऽपि निरवग्रहेश्वरानुग्रहलब्धात्मज्ञानान्मुक्तिरिति नियम इत्यभिप्रेत्याह-अन्तवत्त्वे ऽपि त्विति / नन्वत्र सूत्रकृता सगुणविदामेवानावृत्तिक्रम उक्तो न निर्गुणविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह-सम्यगिति / तदाश्रयणेनेति / सगुणविदामावृत्तिप्राप्तौ सम्यग्दर्शनाश्रयणेनैवानावृत्तिः साधिता, अतः स्वत एव सम्यग्दर्शिनामावृत्तिशङ्का नेति किमु वाच्यमित्यर्थः / यत्राध्यायसमाप्तिस्तत्र पदमात्रस्याभ्यासो दर्शितः, इह सूत्रस्यैवाभ्यासाच्छास्त्रसमाप्तिर्द्येत्यत इत्याह-अनावृत्तिः शब्दादिति /
SK
एवं समन्वयोक्त्या ब्रह्मात्मैक्यस्य वेदान्तप्रमाणकत्वमवधारयितुं वाक्यार्थज्ञाने स्मृतितर्कादिसर्वप्रकारविरोधः परिहृतः, साधनसंपत्तिश्च दर्शिता, तस्माद्विवेकादिसाधनसंपन्नस्य श्रवणाद्यावृत्तिनिरस्तसमस्तप्रतिबन्धस्याखण्डात्मसंबोधात्समूलबन्धध्वंसे सत्याविर्भूतनिष्कलङ्कानन्तरस्वप्रकाशचिदानन्दात्मनावस्थानमिति सिद्धम्
SK
END Bस्Rप्_४,४.७.२२
SK
नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति / शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे
SK
अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः / अतो ऽत्र दोषो ऽशङ्क्यः स्यादेष ह्येवेतिशासनात्
SK
वक्षस्यक्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोदण्डदीक्षामभयवरयुतां वीक्ष्य रामाङ्गसङ्गः / स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्यरत्नप्रभाख्या, स्वात्मानन्दैकलुब्धा रघुवरचरणाम्भोजयुग्मं प्रपन्ना
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशि ष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः //
SK
// इति चतुर्थस्याध्यायस्य ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणाख्यश्चतुर्थः पादः //
SK
// इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये फलाख्यश्चतुर्थो ऽध्यायः //
SK
// ॐ तत्सत् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya (sa_bAdarAyaNa-brahmasUtra-subcomm.htm).

Source