Subcommentary on the Brahma Sūtras

Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Bरह्मसूत्र wइथ् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या, अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य

Subcommentary on the Brahma Sūtras

Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya

Bरह्मसूत्र wइथ् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या, अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य

Adhyāya 2

SK
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् | BBस्_२,१.१ |
SK
ऽनामरूपे व्याकरवाणिऽइति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः / स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसंगतिं वक्तुं वृत्तं कीर्तयति-#प्रथमे ऽध्याय इति / जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितं, ऽशास्त्रदृष्ट्या तुऽइत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तं, ऽआनुमानिकम्ऽइत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः / एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः संक्षिप्य कथयति-#इदानीमिति / अत्र प्रथमपादे समन्वयस्य सांख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते / द्वितीयपादे सांख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते / तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते / चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः / अयमेवार्थः / सुखबोधार्थं श्लोकेन संगृहीतः-ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता / भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता //
SK
ऽइति / तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् / तत्र प्रथमाधिकरणतात्पर्यमाह-#प्रथममिति / श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसंगतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसंगतिः / अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः / तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः / स किं सांख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां संदेहे पूर्वपक्षमाह-#यदुक्तमिति / तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम्, अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः / तासामपि ब्रह्मार्थककत्वमस्तीत्यविरोध इत्यत आह-#तासु हीति / ननु सांख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रमाण्यं स्यादित्याह-#मन्वादीति / तर्हि सांख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह-#नैवमिति / तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितं, सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह-#तस्मादिति / श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते-#कथमिति / ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत्, सांख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह-#भवेदिति / तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह-#कपिलप्रभृतीनां चेति / ऽआदौ यो जायमानं च कपिलं जनयेदृषिम् / प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् //
SK
ऽइति श्रुतियोजना / यथा सांख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति-#तस्य समाधिरिति / तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् / सूक्ष्मात्मकं जगदिति यावत् / इतिहासवाक्यान्युक्त्वा पुराणसंमतिमाह-#अतश्चेति / प्रभवत्यस्मादिति प्रभवो जन्महेतुः / प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् / तस्मात् कर्तुरीश्वरात् काया ब्रह्मादयः प्रभवन्ति / स एव मूलमुपादानम् / किं परिणामि, न, शाश्वतिकः कूटस्थः / अतः स नित्य इत्यर्थः / ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह-#स्मृतिबलेनेति / स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह-#दर्शितं त्विति / श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः / स्मृतीनां का गतिरित्यत आह-#विप्रतिपत्तौ चेति / वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात् कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणं, इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः / कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यत्रः जैमिनीयन्यायमाह-#तदुक्तमिति / ऽऔदुम्बरीं स्पृष्ट्वोद्गायेत्ऽइति प्रत्यक्षश्रुतिविरुद्धा ऽसा सर्वा वेष्टयितव्याऽइति स्मृतिर्मानं न वेति संदेहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः-कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् / हेयमिति यावत् / हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात् सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः / अस्तु सांख्यस्मृतिः प्रत्यक्षमूलेत्यत आह-#न चेति / योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं संभावयितुं शक्यमिति शङ्क्यते-#शक्यमिति / कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः संपादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति-#न / सिद्धेरपीति / अतिशङ्कितुमिति / श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः / स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेत् न / अनीश्वरस्य स्वतःसिद्धौ मानाभावात् / अङ्गीकृत्याप्याह-#सिद्धेति / सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः / श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः / ननु मन्दमतेः सांख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह-#परतन्त्रेत्यादिना / ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह-#या त्विति / कपिलशब्दमात्रेण सांख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् / अत्र च सर्वज्ञानसंभृतत्वेन श्रुतः कपिलो वासुदेवांश एव / स हि सर्वात्मत्वज्ञानं वैदिकं सांख्यमुपदिशतीति सर्वज्ञ इति भावः / प्रतप्तुः प्रदाहकस्य / किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह-#अन्यार्थेति / द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह-#भवति चेति / इतिहासे ऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह-#महाभारते ऽपीति / पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः / बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञात्वादिगुणैः संपन्नं कथयिष्यामि / विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानो ऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् / एवं विश्वयुजत्वादियोजना / सर्वभूतेष्वेकश्चरत्यवगच्छति / सर्वत्र इत्यर्थः / स्वैरचारी स्वतन्त्रः / नास्य नियन्ता कश्चिदस्ति / सर्वेश्वर इत्यर्थः / #यथासुखमिति / विशोकानन्दस्वरूप इति यावत् / कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह-#श्रुतिश्चेति / यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति संबन्धः / स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह-#वेदस्य हीति / वेदस्य प्रमाण्यं स्वतःसिद्धमपौरुषेयत्वात् / पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रमाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः / श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः / समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् / इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः / #तस्मादिति / विशेषादित्यर्थः / भ्रान्तिमूलत्वसंभवादिति भावः
SK
END Bस्Rप्_२,१.१.१
SK
START Bस्Rप्_२,१.१.२ः
SK
इतरेषां चानुपलब्धेः | BBस्_२,१.२ |
SK
महदहङ्कारौ तावदप्रसिद्धौ, अहङ्कारप्रकृतिकत्वेन तन्मात्राण्यप्यप्रसिद्धानि स्मर्तुं न शक्यन्त इत्याह-#इतरेषां चेति / ननु ऽमहतः परमव्यक्तम्ऽइतिश्रुतिप्रसिद्धानि महदादीनीत्यत आह-#यदपीति / सूत्रतात्पर्यमाह-#कार्येति / सांख्यस्मृतेर्महदादिष्विव प्रधाने ऽपि प्रामाण्यं नेति निश्चीयत इत्यर्थः / सांख्यस्मृतेर्बाधे ऽपि तदुक्तयुक्तीनां कथं बाध इत्यत आह-#तर्केति
SK
END Bस्Rप्_२,१.१.२
SK
START Bस्Rप्_२,१.२.३ः
SK
एतेन योगः प्रत्युक्तः | BBस्_२,१.३ |
SK
ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति संदेहे पूर्वन्यायमतिदिशति-#एतेन योगः प्रत्युक्तः / अतिदेशत्वात्पूर्ववत्संगत्यादिकं द्रष्टव्यम् / पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह-#अस्तिह्यत्रेति / निदिध्यासनं योगः / त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तन्त्र्युन्नतम् त्रिरुन्नतमितिपाठश्चेच्छान्दसः / युञ्जीतेति शेषः / न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह-#लिङ्गानि चेति / तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते / उक्तामेतां ब्रह्मविद्यां योगिविधिं ध्यानप्रकारं च मृत्युप्रसादान्नचिकेता लब्धा ब्रह्म प्राप्त इति संबन्धः / योदस्मृतिः प्रधानादितत्त्वांशे ऽपि प्रमाणत्वेन स्वीकार्यां / संप्रतिपन्नः प्रामाणिकोर्ऽथैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः / ऽअष्टकाः कर्तव्याःऽ ऽगुरुरनुगन्तव्यःऽइत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे / एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशे ऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति-#इयमिति / ननु बौद्धादिस्मृतयो ऽत्र किमिति न निराकृता इत्यत आह-#सतीष्वपीति / तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः / #तत्कारणमिति / तेषां प्रकृतानां कामानां कारणं सांख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः / समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह-#निराकरणं त्विति / इति हेतोः / कृतमिति शेषः / #प्रत्यासत्तेरिति / श्रुतिस्थसांख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् / किं सर्वांशेषु स्मृत्यप्रामाण्यं, नेत्याह-#येन त्वंशेनेति / ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति-#एतेनेति / श्रुतिविरोधेनेत्यर्थः / उपकारकबाधो न युक्त इत्याशङ्क्य य्ॐऽश उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह-#तान्यपीति / तर्को ऽनुमानं,
SK
तदनुग्राहिको युक्तिरुपपत्तिः
SK
END Bस्Rप्_२,१.२.३
SK
START Bस्Rप्_२,१.३.४ः
SK
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् | BBस्_२,१.४ |
SK
स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह-#ब्रह्मास्येति / पूर्वपक्षमाक्षिपति-#कुतःपुनरिति / अनवकाशे हेतुमाह-#ननु धर्म इवेति / मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः / तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः / सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते-#भवेदयमिति / अवष्टम्भो दृष्टान्तः / नन्वेकविषयत्वेन विरोधे ऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह-#यथा चेति / प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः / किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् / शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह-#दृष्टेति / ऐतिह्यमात्रेण / परोक्षतयेति यावत् / अनुभवस्य प्राधान्यं दर्शयति-#अनुभवावसानं चेति / ऽनैषा तर्केण मतिःऽइत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह-#श्रुतिरपीति / एवं पूर्वपक्षं संभाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकं, कार्यद्रव्यत्वात्, घटवदिति सांख्ययोगन्यायेन विरुध्यते न वेति संदेहे स्मृतेर्मूलाभावाद्दुर्बलत्वे ऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति-#न विलक्षणत्वादिति / पूर्वोत्तरपक्षयोः समन्वयासिद्धि, तत्सिद्धिश्चेति पूर्ववत्फलम् / जगन्न ब्रह्मप्रकृतिकं, तद्विलक्षणत्वात्, यद्यद्विलक्षणं तन्न तत्प्रकृतिकं, यथा मृद्विलक्षणा रुचकादय इत्यर्थः / सुखदुःखमोहाः सत्त्वरजस्तमांसि / तथा च जगत् सुखदुःखमोहात्मकं सामान्यप्रकृतिकं, तदन्वितत्वात्, यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह-#मृदैवेति / विलक्षणत्वं साधयति-#ब्रह्मविलक्षणत्वं चेति / यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्ये ऽपि भावा द्रष्टव्याः / तत्र प्रीतिः सुखं, परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः / उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तं, स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते-#ननु चेतनमपीति / भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह-#नेत्यादिना / उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह-#निरतिशया इति / तस्मादुपकारकत्वात् / श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति-#यो ऽपीति / घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह-#अविभावनं त्विति / अन्तःकरणान्यपरिणामत्वात्सतो ऽपि चैतन्यस्यानुपलब्धिरित्यर्थ / अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः / वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः-#यथेति / आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह-#एतस्मादेवेति / साम्ये ऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः-#यथा चेति / चेतनाचेतनभेदः कथमित्यत आह-#प्रविभागेति /
SK
चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः / सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य सांख्यः परिहरति-#तेनापि कथञ्चिदिति / अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति-#न चेत्यादिना /
SK
इतरच्चेतनाचेतनत्वरूपम् / वैलक्षण्यं तथात्वशब्दार्थः / श्रुतार्थापत्तिः शब्देन बाध्येति भावः
SK
END Bस्Rप्_२,१.३.४
SK
START Bस्Rप्_२,१.३.५ः
SK
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् | BBस्_२,१.५ |
SK
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते-#नन्विति / मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात्, तथा ऽविज्ञानं चाविज्ञानं चऽइति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति सांख्यः समाधत्ते-#अभिमानीति / संवदनं विवादः / न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते / लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः / विशेषपदस्यार्थान्तरमाह-#अपि चेति / अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात् प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः / प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः / अनुगतिं बहुधा व्याचष्टे-#अनुगताश्चेति / तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् / तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः / यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः
SK
END Bस्Rप्_२,१.३.५
SK
START Bस्Rप्_२,१.३.६ः
SK
दृश्यते तु | BBस्_२,१.६ |
SK
किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा / आद्ये व्यभिचारमाह-#नायमेकान्तः / दृश्यते हीति / हेतोरसत्त्वान्न व्यभिचार इति शङ्कते-#नन्विति / यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह-#उच्यत इति / शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः / द्वितीये ऽपि तत्रैव व्यभिचारमाह-#महानिति / परिणामिकः / केशादीनां स्वगतपरिणामात्मक इत्यर्थः / किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति / आद्ये दोषमाह-#अत्यन्तेति / द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह-#अथेत्यादिना / विलक्षणत्वं विकल्प्य दूषणान्तरमाह-#विलक्षणत्वेनेत्यादिना / जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात्, तदसंगतमित्याह-#प्रथम इति / तृतीये तु दृष्टान्ताभाव इति / नच जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तो ऽस्तीति वाच्यं, अनादित्वस्योपाधित्वात् / नच ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति / संप्रति कल्पत्रयसाधारणं दोषमाह-#आगमेति / पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासंभवान्न तर्केणाक्षेप इत्याह-#यत्तूक्तमित्यादिना / लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः / ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः / एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न संपादनीया / यद्वा कुतर्केण न बाधनीया / कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति / हे प्रेष्ठ, प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् / इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को अद्धा साक्षाद्वेद / तिष्ठतु वेदनं, क इह लोके तं प्रवोचत् प्रावोचत् / छान्दसो दीर्घलोपः / यथावद्वक्तापि नास्तीत्यर्थः / प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् / मिषेण मननविधिव्याजेन / शुष्कः श्रुत्यनपेक्षः / श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात् पुरुषदोषस्यासंभावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः / तमाह-#स्वप्नान्तेति / जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसंभवि, द्वैतग्राहिप्रामाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासंभावनायां, तन्निरासाय सर्वस्वास्वस्थास्वात्मनो ऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे ब्रह्म्यौष्णावदात्मव्यभिचारायोगात् सुषुप्तौ प्रपञ्चभ्रान्त्यभावे ऽसता सोम्यऽइत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसंभवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः / इतो ऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः / ब्रह्मणि शुष्कतर्कस्याप्रवेशः / सूत्रसंमत इत्याह-#तर्काप्रतिष्ठानादिति / विप्रलम्भकत्वमप्रमापकत्वम् / यदुक्तं एकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं सांख्येन / तन्न / तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् / सांख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासंभवादित्याह-#यो ऽपीत्यादिना / सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह-#प्रत्युक्तत्वादिति / अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः
SK
END Bस्Rप्_२,१.३.६
SK
START Bस्Rप्_२,१.३.७ः
SK
असद् इति चेन् न प्रतिषेधमात्रत्वात् | BBस्_२,१.७ |
SK
कार्यमुत्पत्तेः प्रागसदेव स्यात्, स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रये ऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते-#असदितिचेदित्यादिना / असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः / कार्यसत्यत्वाभावे श्रुतिमाह-#सर्वं तमिति / मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति-#नन्वित्यादिना / विस्तरेण चैतदिति / मिथ्यात्वमित्यर्थः
SK
END Bस्Rप्_२,१.३.७
SK
START Bस्Rप्_२,१.३.८ः
SK
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् | BBस्_२,१.८ |
SK
सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे-#अत्राहेति / प्रतिसंसृज्यमानपदस्य व्याख्या-#कारणेति / यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः / सूत्रस्य योजनान्तरमाह-#अपिचेति / सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः / अर्थान्तरमाह-#अपिचेति / कर्मादीनामुत्पत्तिनिमित्तानां प्रलये ऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः / शङ्कापूर्वकं व्याख्यान्तरमाह-#अथेति / यदि लयकाले ऽपिकार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः
SK
END Bस्Rप्_२,१.३.८
SK
START Bस्Rप्_२,१.३.९ः
SK
न तु दृष्टान्तभावात् | BBस्_२,१.९ |
SK
अपीतौ जगत् स्वकारणं न दूषयति, कारणे लीनत्वात्, मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे-#नैवेत्यादिना / अपिगच्छत् लीयमानम् / विभागावस्था स्थितिकालः / #त्वत्पक्षस्येति / मधुरजलं लवणस्याकारणमित्यदृष्टान्तः / किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह-#अपीतिरेवेति / असति कार्ये तद्धर्मेण कारणस्य योगो न संभवति / धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः / ननु सत्कार्यवादे लये ऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह-#अनन्यत्वे ऽपीति / कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः / किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते-#अत्यल्पं चेति / परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे-#अस्ति चेति / मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह-#यथेति / अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह-#प्रबोधेति / जाग्रत्सुषुप्त्योः स्वप्नेनात्मनो ऽस्पर्शात् तत्काले ऽप्यस्पर्श इत्यर्थः / यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह-#एवमिति / यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् / तदसङ्गित्वे वृद्धसंमतिमाह-#अत्रोक्तमिति / यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः / फलितमाह-#तत्रेति / द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति-#यत्पुनरिति / सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह-#श्रुतिश्चेति / सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः / इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः / ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वे ऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह-#यथा हीति / यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागे ऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलये ऽपि मिथ्याभूताज्ञानसंबन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते / यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात् स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः / अज्ञानां जीवानां महाप्रलये ऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः / #एतेनेति / जन्मकारणज्ञानशक्त्यभावेनेत्यर्थः
SK
END Bस्Rप्_२,१.३.९
SK
START Bस्Rप्_२,१.३.१०ः
SK
स्वपक्षदोषाच् च | BBस्_२,१.१० |
SK
वैलक्षण्यादीनां सांख्यपक्षे ऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह-#स्वपक्षेति / सूत्रं व्याचष्टे-#स्वेति / प्रादुःष्युः प्रादुर्भवेयुः / #अत एवेति / सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात् सांख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् / ऽअपीतौऽइति सूत्रोक्तदोषचतुष्टयमाह-#तथापीताविति / कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः / इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः / बद्धमुक्तव्यवस्था च / यदि व्यवस्थार्थं मुक्तानां भेदाः संघातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्यते तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः
SK
END Bस्Rप्_२,१.३.१०
SK
START Bस्Rप्_२,१.३.११ः
SK
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः | BBस्_२,१.११ |
SK
किञ्च तर्कस्य संभावितदोषत्वात्तेन निर्देषवेदान्तसमन्वयो न बाध्य इत्याह-#तर्काप्रतिष्ठानादपीति / पुरुषमतीनां विचित्रत्वे ऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते-#अथेति / ऽकपिलो यदि सर्वज्ञः कणादो नेति का प्रमाऽइति न्यायेन परिहरति-#एवमपीति / सूत्रमध्यस्थशङ्काभागं व्याचष्टे-#अथोच्येतेति /
SK
विलक्षणत्वादितर्काणामप्रतिष्ठितत्वे ऽपि व्याप्तिपक्षधर्मतासंपन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः / ननु सो ऽप्यप्रतिष्ठितः तर्कजातीयत्वात् विलक्षणत्वादिवदित्यत आह-#नहीति / तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा / आद्ये ऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः / द्वितीये ऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसंधिमानाह-#एतदपीति / किञ्चानागतपाक इष्टसाधनं, पाकत्वात्, अतीतपाकवदित्यादिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह-#सर्वतर्केति / अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः / किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह-#श्रुत्यर्थेति / मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह-#मनुरिति / धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः / कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति-#अयमेवेति / सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः / पूर्वपक्षतर्कवत्सिद्धान्ततर्को ऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति-#नहीति / क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे-#यद्यपीत्यादिना / अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् / भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् / मुक्तिनिबन्धनं मुक्त्यालम्बनम् / ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति-#रूपादिति / अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह-#अपिचेत्यादिना / एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वे ऽपि तर्कजन्यत्वं किं न स्यादित्यत आह-#तत्रैवं सतीति / तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् / सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः / एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना / ननु सांख्यस्य श्रेष्ठत्वात्तञ्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह-#नच प्रधानेति / ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह-#नच शक्यन्त इति / तस्मात् तर्कोत्थज्ञानान्मुक्त्ययोगात् तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति-#अतो ऽन्यत्रेति / समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति-#अत आगमेति
SK
END Bस्Rप्_२,१.३.११
SK
START Bस्Rप्_२,१.४.१२ः
SK
एतेन शिष्टापरिग्रहा अपि व्याख्याताः | BBस्_२,१.१२ |
SK
ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः / स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति संदेहे सांख्यवृद्धानां तर्काकुशलमतित्वे ऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्ते ऽतिदिशति-#एतेनेति / फलं पूर्ववत् / ननु सांख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि संभवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह-#वैदिकस्येति /
SK
सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः / प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः / अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः / किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह-#तुल्यत्वादिति / कारणमेवाह-#तुल्यमिति / यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः / महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् / अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम्
SK
END Bस्Rप्_२,१.४.१२
SK
START Bस्Rप्_२,१.५.१३ः
SK
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् | BBस्_२,१.१३ |
SK
अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः / स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति संदेहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वे ऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति-#भोक्रापत्तेरिति / विरोधादद्वैतासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति भेदः / अनपेक्षश्रुत्यास्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते-#यद्यपीति / मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः / यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स ऽआदित्यो यूपःऽइत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणेरपह्रियत इति समाधत्ते-#तथापीति / अन्यपरत्वं गौणार्थकत्वम् / स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह-#तर्को ऽपीति / तर्कादेर्द्वैते प्रामाण्ये ऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते-#किमत इति / पूर्वपक्षी समाधत्ते-#अत इति / तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः / इयमर्थं शङ्कापूर्वकं स्फुटयति-#कथमित्यादिना / ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह-#तयोश्चेति / तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः / ततश्च भेदो बाध्येतेत्यर्थः / इष्टापत्तिं वारयति-#न चास्येति / श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः / ननु विभागस्याधुनिकत्वादनद्याद्वैतश्रुत्या बाध इत्यत आह-#यथेति / अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात्, वर्तमानकालवदित्यनुमानाद्विभागो ऽनाद्यनन्त इत्यर्थः / एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह-#स्याल्लोकवदिति / दृष्टान्ते ऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह-#नचेति / एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह-#एवमिहेति / जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते-#यद्यपीति / औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह-#तथापीति / विभागो जन्म / यद्वा तथापीतिशब्देनैवोक्तः परिहारः / ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह-#कार्यमनुप्रविष्टस्येति / औपाधिकविभागे फलितमुपसंहरति-#इत्यत इति / एकब्रह्मभिन्नत्वे ऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः
SK
END Bस्Rप्_२,१.५.१३
SK
START Bस्Rप्_२,१.६.१४ः
SK
तदनन्यत्वम् आरम्भणशब्दादिभ्यः | BBस्_२,१.१४ |
SK
पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह-#तदानन्यत्वमिति / समानविषयत्वं संगतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह-#अभ्युपगम्येति / प्रत्यक्षादीनाम उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, संप्रत्यङ्गीकृतं प्रामाण्यं, तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथाच मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः / एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति-#यस्मात्तयोरिति / स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह-#व्यतिरेकेणेति / कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः / वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति-#एतदुक्तमिति / आरम्भणशब्दार्थान्तरमाह-#पुनश्चेति / अपागादग्नित्वमपगतं कारणमात्रत्वात् / त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् / तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः / जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह-#न चान्यथेति / तयोरनन्यत्वे क्रमेण दृष्टान्तावाह-#तस्माद्यथेति / प्रतिज्ञाबलादित्यर्थः / दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः / शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति-#नन्विति / अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः / भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति-#नैवं स्यादिति / एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः / किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह-#स आत्मेति / एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह-#स्वयमिति / अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह-#अतश्चेति / स्वतः-सिद्धोपदेशादित्यर्थः / यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा / नाद्य इत्याह-#बाधिते चेति / स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः / ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः / न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः / यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह-#न चायमिति / संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात्, भेदाभेदयोरेकदैकत्र विरोधात् / अतो ऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारो ऽपि मिथ्यैवेत्यर्थः / किञ्च यथा लोके कश्चित् तस्करबुद्ध्या भटैर्गृहीतो ऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च / तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह-#तस्करेति / व्यवहारगोचरो नानात्वव्यवहाराश्रयः / नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह-#मृत्योरिति / किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात्, प्रमायाः प्रमान्तराबाध्यत्वादित्याह-#न चास्मिन्निति / वैपरीत्यस्यापि संभवादिति भावः / इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति-#नन्वित्यादिना / एकत्वस्यैकान्तः कैवल्यम् / व्याहन्येरन्नप्रमाणानि स्युः / उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः / ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह-#कथं चानृतेनेति / धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः / तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह-#अत्रोच्यत इत्यादिना / सत्यत्वं बाधाभावः / बाधो मिथ्यात्वनिश्चयः / वस्तुतो मिथ्यात्वे ऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति-#यथा सुप्तस्य प्राकृतस्येति / एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति-#कथं त्वसत्येनेति / किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न / आद्य इष्ट एव / नहि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः / अङ्गीकृत्यापि दृष्टान्तमाह-#नैष दोष इति / सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात् सत्यं न जायत इत्यनियम इत्यर्थः / दृष्टान्तान्तरमाह-#स्वप्नेति / असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः / यथाश्रुतमादाय शङ्कते-#तत्कार्यमपीति / उक्तमर्थं प्रकटयति-#तत्र ब्रूम इत्यादिना / अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः / प्रसङ्गाद्देहात्मवादो ऽपि निरस्त इत्याह-#एतेनेति / स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नो ऽवगत इत्यबाधितावगतिप्रतिसंधानं न स्यात् / अतो देहभेदे ऽप्यनुसंधानदर्शनाद्देहान्यो ऽनुसंधातेत्यर्थः / असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह-#तथाच श्रुतिरिति / नच स्त्रियो मिथ्यात्वे ऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृत्धेर्ज्ञानमिति वाच्यम्, विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृते ऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याञ्ज्ञानसंभवाच्चेति भावः / असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह-#तथेति / असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह-#तथाकारादीति / रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः / एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना / तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं संभवतीति तात्त्विकं प्रामाण्यमिति भावः / यदुक्तं एकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न / भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् / किञ्च यद्युभयोरेकदा व्यवहारः स्यात् तदा स्यादपि सत्यत्वम् / नैवमस्ति / एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात्, शुक्तिज्ञानेनेव रजतस्येत्याह-#अपि चान्त्यमिति / ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह-#न चेयमिति / तत् किलात्मतत्त्वमस्य पितुर्वाक्यात् श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः / व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यं, तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते / किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः / किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह-#न चेयमिति / ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्नऽपीत्युक्तस्वप्नदृष्टान्तं स्मारयति-#प्राक्चेति / व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसंगतमित्युपसंहरति-#तस्मादिति / नेदं कल्पितं, किन्तु श्रुतमिति शङ्कते-#नन्विति / कार्यकारणयोरनन्यत्वांशे ऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति-#नेत्युच्यत इति / सृष्टौ परिणामित्वं प्रलये तद्राहित्य च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते-#स्थितीति / कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह-#नेति / कूटस्थत्वासिद्धिमाशङ्क्याह-#कूटस्थस्येति / कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः / किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह-#नच यथेत्यादिना / ऽतं यथा यथोपासते तदेव भवतिऽइति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह-#नहि परिणामवत्त्वेति / ऽब्रह्मविदाप्नोति परम्ऽइति श्रुतकूटस्थनित्यमोक्षफलसंभवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः / ननु पूर्वं ऽजन्माद्यस्य यतःऽइति ईश्वरकारणप्रतिज्ञा कृता / अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते-#कूटस्थेति / कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतो ऽनन्यत्वमित्यविरोधमाह-#नेत्यादिना / अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः / संगृहीतार्थं विवृणोति-#तस्मादित्यादिना / तत्वान्यत्वाभ्यामिति / नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् / नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः / संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते-#मायेति / नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह-#ताभ्यामन्य इति / अन्यत्वे व्याकरणे च श्रुतिमाह-#आकाश इत्यादिना / अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वं, प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह-#स च स्वात्मभूतानिति / न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यं, बुद्ध्यादिसंघातभेदेन भेदोक्तेः / अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् / परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह-#तथा चेति / कथं तर्हि कर्तृत्वादिकमित्यत आह-#स्वभावस्त्विति / अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः / भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह-#नादत्त इति / न संहरतीत्यर्थः / तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति / उक्तार्थः सूत्रकारसंमत इत्याह-#सूत्रकारो ऽपीति / न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह-#परिणामप्रक्रियां चेति / तदुक्तम्-ऽकृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्ऽइति
SK
END Bस्Rप्_२,१.६.१४
SK
START Bस्Rप्_२,१.६.१५ः
SK
भावे चोपलब्धेः | BBस्_२,१.१५ |
SK
एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह-#भावे चेति / कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः / घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात् मृद्वत् / अन्यत्वे ऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति-#नचेति / मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः / गवश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः / अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह-#नच कुलालेति / न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावे ऽपि हेतुसत्त्वादन्यत्वे गवाश्वत्तद्भावायोगाच्चेति भावः / कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात्, कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः / यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते-#नन्विति / अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह-#नेति / अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमो ऽस्तीति व्यभिचार इत्याशङ्कते-#अथेति / तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह-#नैवमिति /
SK
आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् / आलोकाभावे ऽपि घटादिरूपसत्त्वान्न व्यभिचारः / उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः / तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः / यद्वा / तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः / मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः / अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे-#भावाच्चेति / पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः / न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणं, अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः / अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः / पटन्यायं तन्त्वादावतिदिशति-#तथेत्यादिना / प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः / यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नं, कार्यत्वात्, पटवदित्यनुमेयमित्याह-#अनयेति / कारणपरिशेषे प्रधानादिकं परिशिष्यतां, न ब्रह्मेत्यत आह-त#त्र सर्वेति / ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः
SK
END Bस्Rप्_२,१.६.१५
SK
START Bस्Rप्_२,१.६.१६ः
SK
सत्वाच् चापरस्य | BBस्_२,१.१६ |
SK
इदं जगत् सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतं, तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः#सत्त्वाच्चेति / श्रुत्यर्थे युक्तिमप्याह-#यच्च यदात्मनेति / घटादिकं प्राग् मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात् सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः / कारणवत्कार्यस्यापि सत्त्वात् सत्त्वभेदे मानाभावात् कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह-#यथा चेति / इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात् सत्त्वाव्यभिचारः / तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् / तदभेदेन सती मृत् सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः
SK
END Bस्Rप्_२,१.६.१६
SK
START Bस्Rप्_२,१.६.१६ः
SK
न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यं, वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् / तर्हि मृद्घटयोः को विशेषः / तादात्म्यमिति ब्रूमः / वस्तुतः सर्वत्र सत्तैक्ये ऽपि घटपटयोरभेदेन सत्ताया भिन्नत्वान्न तादात्म्यं, कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः
SK
END Bस्Rप्_२,१.६.१६
SK
START Bस्Rप्_२,१.६.१७ः
SK
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात् | BBस्_२,१.१७ |
SK
उक्तं कार्यस्य प्राक् कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते-#असदिति / ऽअक्ताः शर्करा उपदध्यात्ऽइत्युपक्रमे केनाक्ता इति संदेहे ऽतेजो वै घृतम्ऽइति वाक्यशेषाद्धृतेनेति यथा निश्चयः एवमत्रापि ऽतत्सत्ऽइति वाक्यशेषात्सन्निश्चय इत्यर्थः / आसीदित्यतीतकालसंबन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह-#असतश्च पूर्वापरेति / उक्तन्यायं वाक्यान्तरे ऽतिदिशति-#असद्वेति / क्रियमाणत्वविशेषणं शून्यस्यासंभवीति भावः
SK
END Bस्Rप्_२,१.६.१७
SK
START Bस्Rप्_२,१.६.१८ः
SK
युक्तेः शब्दान्तराच् च | BBस्_२,१.१८ |
SK
सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः-#युक्तेरिति / दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः / असतो ऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह-#अविशिष्टे हीति / असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः / तदुक्तं सांख्यवृद्धैः-ऽअसदकरणादुपादानग्रहणात्सर्वसंभवाभावात् / शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्ऽइति / शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतो ऽशक्यत्वात् / किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः / कार्यस्यासत्त्वे ऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते-#अथेति / अतिशयः कार्यधर्मः कारणधर्मो वा / आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह-#तर्ह्यतिशयवत्त्वादिति / द्वितीये ऽपि कार्यसत्त्वमायातीत्याह-#शक्तिश्चेति / कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् / तस्मात् कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यं, ततः सत्कार्यसिद्धिरित्यर्थः / किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह-#अपिचेति / तयोरन्यत्वे ऽपि समवायशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति-#समवायेति / समवायः समवायिभिः संबद्धोन न वा / आद्ये स संबन्धः किं समवायः उत स्वरूपम् / आद्ये समवायानवस्था / द्वितीये मृद्घटयोरपि स्वरूपसंबन्धादेवोपपत्तेः समवायासिद्धिः / असंबद्ध इति पक्षे दोषमाह-#अनभ्युपगम्यमान इति / द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः / असंबद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः / विशिष्टधीनियामको हि संबन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात्, अतः स्वपरनिर्वाहकः समवाय इति शङ्कते-#अथेति / संबध्यते / स्वस्य स्वसंबन्धिनश्च विशिष्टधियं करोतीत्यर्थः / प्रतिबन्द्या दूषयति-#संयोगो ऽपीति / यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न संबन्धत्वादिति, तन्न, धर्मत्वात्, समवायस्यापि संबन्धान्तरापत्तेरसंबद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् / किञ्च ऽनिष्पापत्वादयो गुणाःऽइति श्रुतिस्मृत्यादिषु ऽव्यवहारादिष्टधर्मो गुणःऽइति परिभाषया समायस्यापि गुणत्वाच्च / ऽजातिविशेषो गुणत्वम्ऽइति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् / अतः समवायसिद्धेः प्राक् संयोगस्य गुणत्वमसिद्धमिति दिक् / किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् / तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासंभवादित्याह-#तादात्म्येति / एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वं, स्वरूपेण तु मिथ्यात्मित्युक्तम् / वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह-#कथं चेति / तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति-#यदीत्यादिना / व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात् संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः / द्वितीयं शङ्कते-#अथेति / यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहे ऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसंभवे ऽप्यवयवानामनवस्था स्यादिति दूषयति-#तदापीति / आद्यद्वितीयमुद्भाव्य दूषयति-#अथ प्रत्यवयवमित्यादिना / एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात्, वृत्तावनेकत्वापत्तेरित्यर्थः / यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते-#गोत्वेति / जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति-#न / तथेति / दोषान्तरमाह-#प्रत्येकेति / अधिकारात्संबन्धात् / यथा देवदत्तः स्वकार्यमध्ययनं ग्रामे ऽरण्ये वा करोति, यथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः / एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् / संप्रत्यसत्कार्यवादे दोषान्तरमाह-#प्रागिति / यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते / अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् / कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः / जनेरनुभवसिद्धे ऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह-#उत्पत्तिश्चेति / असतो घटस्योत्पत्तौ कर्तृत्वासंभवे ऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह-#घटस्य चेति / घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति-#तथेति / शङ्कामनूद्य दोषमाह-#तथा चेति / अनुभवविरोधमित्यर्थः / उत्पत्तिर्भावस्याद्य विक्रियेति स्वमतेन कार्यसत्त्वमानीतं, संप्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते-#अथेति / तन्मतेनापि कार्यस्य सत्त्वमावश्यकं, असतः संबन्धित्वायोगादित्याह-#कथमिति / असतोर्वेति दृष्टान्तोक्तिः / ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक् ध्वंसानन्तरं चासत् मध्ये तु सदेवेति वैषम्यात्संबन्धित्वोपपत्तिरित्याशङ्क्याह-#अभावस्येति /
SK
अत्राभावब्दा असच्छब्दापरपर्याया व्याख्येयाः / असतः कालेनासंबन्धात्प्राक्त्वं न युक्तमित्यर्थः / ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह-#यदि चेति / कार्याभावो ऽसत्कार्यमित्यर्थ इत्युपापत्स्वत उपपन्नमभविष्यदित्यन्वयः / कस्तर्हि निर्णयः, तत्राह-#वयं त्विति / ऽनासतो विद्यते भावःऽइति स्मृतेरिति भावः / सत्कार्यवादे कारकवैयर्थ्यं शङ्कते-#नन्विति / सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह-#तदनन्यत्वाच्चेति / अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह-#नैष दोष इति / कार्यसत्यत्वमिच्छतां सांख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् / अद्वैतवादिनां त्वघटितघठनावभासनचतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् / विचार्यमाणे सर्वमयुक्तं, युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् / ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह-#कार्याकारो ऽपीति / अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः / ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते / तथाच घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात्, वृक्षवदित्यत आह-#नचेति / वस्तुतो ऽन्यत्वं सत्यो भेदः / हेतोर्व्यभिचारस्थलान्तरमाह-#तथा प्रतिदिनमिति / प्रत्यहं पित्रादिदेहस्यावस्थाभेदे ऽपि जन्मनाशयोरभावादभेदो युक्तः / दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते-#जन्मेति / कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति-#नेति / दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः / ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह-#अदृश्येति / तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः / अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततो ऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह-#तत्रेदृगिति / पितृदेहे ऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह-#पित्रादीति / एतेनेति / कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः / स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति-#यस्य पुनरिति / असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वे ऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते-#समवायीति / समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्पाद्यं निरस्यति-#नेत्यादिना / द्वितीयमाशङ्क्येष्टापत्तिमाह-#समवायीति / कार्याणामवान्तरकारणानन्यत्वमुपसंहरति-#तस्मादिति / परमकारणानन्यत्वं फलितमाह-#तथा मूलेति / असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह-#यदि तु प्रागुत्पत्तेरिति
SK
END Bस्Rप्_२,१.६.१८
SK
START Bस्Rप्_२,१.६.१९ः
SK
पटवच् च | BBस्_२,१.१९ |
SK
कार्यमुपादानद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात् ततो ऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम्-#पटवच्चेति / द्वितीयहेतोर्व्यभिचारं स्फुटयति-#यथा च संवेष्टनेति / आयामो दैर्घ्यम्
SK
END Bस्Rप्_२,१.६.१९
SK
START Bस्Rप्_२,१.६.२०ः
SK
यथा च प्राणादिः | BBस्_२,१.२० |
SK
तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात्, संमतवत् इति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः-#यथा च प्राणादीति / एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति-#अतश्च कृत्स्नस्येति
SK
END Bस्Rप्_२,१.६.२०
SK
START Bस्Rप्_२,१.७.२१ः
SK
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः | BBस्_२,१.२१ |
SK
जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः / स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत् स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति संदेहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे-#इतरव्यपदेशादित्यादिना / पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् / हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः / आदिपदोक्तं भ्रान्त्यादिकमापादयति-#नच स्वयमित्यादिना
SK
END Bस्Rप्_२,१.७.२१
SK
START Bस्Rप्_२,१.७.२२ः
SK
अधिकं तु भेदनिर्देशात् | BBस्_२,१.२२ |
SK
जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः / न चेष्टापत्तिः / जीवस्य स्वशरीरे ऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-#तुशब्द इत्यादिना / जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः / यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते नतु तं ब्रूम इत्यन्वयः / किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा / नाद्य इत्याह-#अपिचेति / उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति-#अविद्येति / कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति-#जन्मेति / द्वितीयं प्रत्याह-#अबाधिते त्विति / ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात् पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः
SK
END Bस्Rप्_२,१.७.२२
SK
START Bस्Rप्_२,१.७.२३ः
SK
अश्मादिवच् च तदनुपपत्तिः | BBस्_२,१.२३ |
SK
नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यं, कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः-#अश्मादिवच्चेति / किंपाको महातालफलम् / तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः / सूत्रस्थचकारार्थमाह-#श्रुतेश्चेति / ब्रह्म जीवगतदोषवत्, जीवाभिन्नत्वात्, जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् / किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः / यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात्, व्यतिरेकेण मृत्तन्त्वादिवदिति / तन्न / एकरूपे स्नप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः / तस्मात् प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम्
SK
END Bस्Rप्_२,१.७.२३
SK
START Bस्Rप्_२,१.८.२४ः
SK
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि | BBस्_२,१.२४ |
SK
#उपसंहारदर्शनात् / असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः / स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति संदेहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम्, संप्रति उपाधितो ऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे-#चेतनमित्यादिना / फलं पूर्ववत् / कारकाणामुपसंहारो मेलनम् / उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति-#नैष दोष इति / शुद्धस्य ब्रह्मणो ऽकारणत्वमिष्टमेव / विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह-#बाह्यमिति / क्षीरस्याप्यातञ्चनादिसहायो ऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावे ऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह-#नन्वित्यादिना / तर्हि सहायो व्यर्थः, तत्राह-#त्वार्यत इति / ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतो ऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात्, तत्राह-#यदि चेति / शक्तस्य सहायसंपदा किं कार्यमित्यत्राह-#साधनेति / सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः / तर्हि शक्तिव्यञ्जको ऽपि सहायो ब्रह्मणो वाच्यः, तत्राह-#परिपूर्णोति / निरपेक्षमायाशक्तिकमित्यर्थः / तादृशशक्तौ मानमाह-#श्रुतिश्चेति
SK
END Bस्Rप्_२,१.८.२४
SK
START Bस्Rप्_२,१.८.२५ः
SK
देवादिवद् अपि लोके | BBस्_२,१.२५ |
SK
ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह-#स्यदेतदिति / तस्यापि हेतोर्देवादौ व्यभिचार इत्याह-#देवादिवदिति / लोक्यते ज्ञायतेर्ऽथो ऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च / अभिध्यानं संकल्पः / ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायो ऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते-#स यदि ब्रूयादित्यादिना / व्यभिचारो ऽस्तीति परिहरति-#तं प्रति ब्रूयादिति /
SK
अयं दोषः दृष्टान्तवैषम्याख्यः / अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वं, तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः / असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वं, तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् / तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् / देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् / नरदेवादीनां कार्यारम्भे नारस्त्येकरूपा सामग्री / श्रूयते हि महाभारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः / अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम्
SK
END Bस्Rप्_२,१.८.२५
SK
START Bस्Rप्_२,१.९.२६ः
SK
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा | BBस्_२,१.२६ |
SK
#कृत्स्नप्रसक्तिः / क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं संगतिमाह-#चेतनमिति / निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः / स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति संदेहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे-#कृत्स्नेति / ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा / आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति-#यदि ब्रह्मेत्यादिना / पर्यणंस्यत् परिणतो ऽभविष्यत् / एकदेशश्चावास्थास्यदपरिणतो ऽभविष्यत् / उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह-#ततश्चेति / यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोर्ऽथशून्यः स्यादिति दोषान्तरमाह-#द्रष्टव्यतेति / ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे ऽअजो ऽमरःऽइति श्रुतिविरोधश्चेत्याह-#अजत्वादीति / सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति-#अथेत्यादिना
SK
END Bस्Rप्_२,१.९.२६
SK
START Bस्Rप्_२,१.९.२७ः
SK
श्रुतेस् तु शब्दमूलत्वात् | BBस्_२,१.२७ |
SK
परिणामपक्षो दुर्घट इति यदुक्तं तदस्मादिष्टमेवेति विवर्तवादेन सिद्धान्तयति-#श्रुतेरिति / स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति-#तुशब्देनेत्यादिना / ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात् पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह-#सेयं देवतेति / न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह-#तावानिति / इतश्चास्त्यविकृतं ब्रह्मेत्याह-#तथेति / ऽस वा एष आत्मा हृदिऽइति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म / ऽतदा ऽइति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः / लिङ्गान्तरमाह-#तथेन्द्रियेति / भ्रूम्यादेर्विकारस्येन्द्रियगोचरत्वात् ऽन चक्षुषा गृह्यतेऽइत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः / कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषो ऽपि नास्तीत्याह-#नचेति / ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत् सावयवत्वं दुर्वारं, निरवयवस्यैकस्य द्विधा सत्त्वायोगात्, अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति-#शब्दमूलं चेति / यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् / अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् / न तर्केण बाधनीयमित्यर्थः / प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः / आशयानवबोधेन शङ्कते-#ननु शब्देनापीति / यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति-#नन्विति / शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः / ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह-#क्रियेति / निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति-#नैष दोष इति / निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति / वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः / रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति-#नहीत्यादिना / कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति-#वाचारम्भणेति / ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वं, तत्राह-#न चेयमिति / निष्प्रपञ्चब्रह्माधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम्, अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति-#तस्मादिति
SK
END Bस्Rप्_२,१.९.२७
SK
START Bस्Rप्_२,१.९.२८ः
SK
आत्मनि चैवं विचित्राश् च हि | BBस्_२,१.२८ |
SK
पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः / पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः / तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः-#आत्मनि चेति / रथयोगाः अश्वाः
SK
END Bस्Rप्_२,१.९.२८
SK
START Bस्Rप्_२,१.९.२९ः
SK
स्वपक्षदोषाच् च | BBस्_२,१.२९ |
SK
किञ्च कृत्स्नप्रसक्त्यादीनां सांख्यादिपक्षे ऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वं, ऽयश्चोभयोः समो दोषःऽइति न्यायादित्याह सूत्रकारः-#स्वपक्षेति / प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते-#नन्विति / किं साम्यावस्था गुणानां विकारः, समुदायो वा / आद्ये तस्या न मूलप्रकृतित्वं, विकारत्वात् / द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् / अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत्, तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति-#नैवमित्यादिना / इति यतो ऽतःसमानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः / प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसंभवादिति शङ्कते-#तर्केति / एतद्दोषाभावे ऽपि दोषान्तरं स्यादिति परिहरति-#एवमपीति / ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणो ऽपि सावयवत्वं तुल्यमित्याह-#अथेत्यादिना / अणुवादे ऽपि दोषसाम्यमाह-#तथेति / सांख्यवद्दोषः समान इति संबन्धः / निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा / आद्ये तत्कार्यस्य द्व्यगुणकस्यैकपरमाणुमात्रत्वापत्तिः प्रथिम्नो ऽधिकपरिमाणस्यानुपपत्तेः / न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततो ऽधिकद्रव्यं संभवतिः द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः / ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह-#परिहृतस्त्विति / उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम्, अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम्
SK
END Bस्Rप्_२,१.९.२९
SK
START Bस्Rप्_२,१.१०.३०ः
SK
सर्वोपेता च तद्दर्शनात् | BBस्_२,१.३० |
SK
#सर्वोपेता / मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधो ऽस्ति न वेति संदेहे न्यायस्यानाभासत्वादस्तीति पूर्वपक्षे पूर्वोक्तशक्तिमत्त्वसमर्थनादेकविषयत्वं संगतिं वदन् सिद्धान्तसूत्रं व्याचष्टे-#एकस्येत्यादिना / पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमित्युक्तमेवापादसमाप्तेरवगन्तव्यम् / अभ्यात्तः अभितो व्याप्तः / अवाकी वागिन्द्रियशून्यः / अनादरो निष्कामः
SK
END Bस्Rप्_२,१.१०.३०
SK
START Bस्Rप्_२,१.१०.३१ः
SK
विकरणत्वान् नेति चेत् तद् उक्तम् | BBस्_२,१.३१ |
SK
पूर्वपक्षन्यायमनूद्य दूषयति-#विकरणत्वादिति / देवादिचेतनानां शक्तानामपि देहभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टं, अतो ब्रह्मणः शक्तत्वे ऽप्यदेहत्वान्न कर्तृत्वम् / नाप्यदेहस्य शक्तिः संभवतीति शङ्कार्थः / विकरणस्य जीवस्य कर्तृत्वासंभवे ऽपीश्वरस्य संभवतीति, ऽदेवादिवदपि लोकेऽइत्यत्रोक्तम् / तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः
SK
END Bस्Rप्_२,१.१०.३१
SK
START Bस्Rप्_२,१.११.३२ः
SK
न प्रयोजनवत्त्वात् | BBस्_२,१.३२ |
SK
#न प्रयोजनवत्त्वात् / परिवृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः / स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति संदेहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-#अन्यथेत्यादिना / ईश्वरस्य फलाभावे ऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह-#भवति चेति / या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः / नच दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः / किञ्च गुरुतरायासस्य फलं वाच्यमित्याह-#गुरुतरेति / तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह-#यदीयमपीति / अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः / ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह-#अथेत्यादिना / बुद्धेरपराधो विवेकाभावः
SK
END Bस्Rप्_२,१.११.३२
SK
START Bस्Rप्_२,१.११.३३ः
SK
लोकवत् तु लीलाकैवल्यम् | BBस्_२,१.३३ |
SK
उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे-#तुशब्देनेति / व्यतिरिक्तं / लीलातिरिक्तम् / क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः / कदाचिद्राजादीनां लीलाया अपि किञ्चित् फलं सुखोल्लासादिकं संभाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह-#यथा चेति / प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया / नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित्, कल्प्यतां, तत्राह-#नहीति / आप्तकामत्वव्याघातादित्यर्थः / नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह-#नच स्वभाव इति / कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः / यदुक्तं गुरुतरायासत्वात् फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह-#यद्यपीत्यादिना / अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह-#यदि नामेति / सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः / स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह-#न चेयमिति / नच निष्फलसृष्टिश्रुतीनामानर्थक्यं, सफलब्रह्मधीशेषत्वेनार्थवत्त्वादियुक्तं न विस्मर्तव्यमित्यर्थः
SK
END Bस्Rप्_२,१.११.३३
SK
START Bस्Rप्_२,१.१२.३४ः
SK
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति | BBस्_२,१.३४ |
SK
#वैषम्यनैर्घृण्ये न / निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः / स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसंगत्या पूर्वपक्षयति-#पुनश्चेत्यादिना / ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोर्ऽथः / पृथग्जनः पामरः, ऽनिरवद्यं निरञ्जनम्ऽइति श्रुतिः, ऽन मे द्वेष्यो ऽस्ति न प्रियःऽइति स्मृतिः / स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः / निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात्, न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति-#एवं प्राप्त इत्यादिना / नच सापेक्षत्वे अनीश्वरत्वं, सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् / ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह-#ईश्वरस्तु पर्जन्यवदिति / साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यं, अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः / यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः / नच कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यं, अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् / अतो ऽनवद्य ईश्वर इति भावः
SK
END Bस्Rप्_२,१.१२.३४
SK
START Bस्Rप्_२,१.१२.३५ः
SK
न कर्माविभागाद् इति चेन् नानादित्वाद् | BBस्_२,१.३५ |
SK
प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात्, तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः-#न कर्मेति / प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह-#सृष्ट्युत्तरेति / आद्या सृष्टिरित्युपलक्षणम् / आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् / परिहारः सुगमः
SK
END Bस्Rप्_२,१.१२.३५
SK
START Bस्Rप्_२,१.१२.३६ः
SK
उपपद्यते चाप्य् उपलभ्यते च | BBस्_२,१.३६ |
SK
प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति-#कथं पुनरिति / उपपत्तिसहतश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति-#उपपद्यत इति / हेतुं विनैव सार्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः / ननु सुखादिवैषम्ये ईश्वरो ऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति-#नचेश्वर इत्यादिना / कस्तर्हि हेतुः, तत्राह-#रागादीति / रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः / तस्मादविद्यासहकारिचत्वेन क्लेशकर्मणामनादिप्रवाहो ऽङ्गीकर्तव्य इति भावः / किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न संभवति, हेत्वभावात् / नच कर्म हेतुः, शरीरात्प्राक्कर्मासंभवात् / तस्मात् कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह-#नचेति / सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणो ऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह-#नच धारयिष्यतीति / ऽगृहस्थः सदृशीं भार्यामुपेयात्ऽइत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः / अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते / ज्ञानं विनान्तो ऽपि नास्ति / नाप्यादिरुपलभ्यते, असत्त्वादेव / नच संप्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः / संसारस्यानादित्वे ऽपि मिथ्यात्वात् ऽएकमेवाद्वितीयम्ऽइत्यवधारणमुपपन्नम् / तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम्
SK
END Bस्Rप्_२,१.१२.३६
SK
START Bस्Rप्_२,१.१३.३७ः
SK
सर्वधर्मोपपत्तेश् च | BBस्_२,१.३७ |
SK
#सर्वधर्मोपपत्तेश्च / निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति संदेहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात्, नतूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह-#चेतनमिति / विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धं, अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात्, सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः / यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम्, ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसंधायाह-#सर्वज्ञं सर्वशक्तीति / महामायमिति / कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् / तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम्
SK
END Bस्Rप्_२,१.१३.३७
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयस्याध्यायस्य प्रथमपादः समाप्तः
SK
#// इति द्वितीयाध्यायस्य सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः //
SK
#द्वितीयाध्याये द्वितीयः पादः //
SK
सांख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः / यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम्
SK
START Bस्Rप्_२,२.१.१ः
SK
रचनानुपपत्तेश् च नानुमानं | BBस्_२,२.१ |
SK
ब्रह्मणि सर्वधर्मोपपत्तिवत् प्रधाने ऽपि तदुपपत्तिमाशङ्क्य निराचष्टे-#रचनानुपपत्तेश्च नानुमानम् / ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितं, ततः परपक्षनिरासात्मको ऽयं पादो ऽस्मिन् शास्त्रे न संगतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति-#यद्यपीति / परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह-#तथापीति / तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह-#वेदान्तार्थेति / वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् / ननु रागद्वेषकरणत्वात् परमतनिराकरणं न कार्यमिति शङ्कते-#नन्विति / तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,
SK
तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादो ऽस्मिन् शास्त्रे संगतः, संगतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसंधायोक्ताङ्गीकारेण समाधत्ते-#बाढमित्यादिना / अपदेशेन व्याजेन / मन्दमतीनाम् तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः / स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ / नाप्ययं द्वेषः / परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्तवनिर्णयेच्छया कृत इति मन्तव्यम् / पौनरुक्त्यम् शङ्कते-#नन्वीक्षतेरिति / पूर्वं सांख्यादीनां श्रुत्यर्थानुग्राहकर्तकनिरासादश्रौतत्वमुक्तम्, संप्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह-#तदुच्यतैति / प्रधानमचेतनं जगदुपादानमिति सांख्यसिद्धान्तो ऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति संदेहे ऽसर्वधर्मोपपत्तेश्चऽइत्युक्तधर्माणां प्रधाने संभवात्तदेवोपादानमित्याक्षेपसंगत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह-#तत्र साख्याइति / स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात् पादयोःसंगतिः / परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसंगतिः / पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् / मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसंगतिरिति विवेकः / भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह-#यथेति / सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तदन्वितत्वात्, घटादिवदित्यनुमानमाह-#तथेति / किमर्थं प्रधानं परिणमते, तत्राह-#चेतनस्येति / अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केनचिच्चेतनेन प्रेर्यत इत्यर्थः / तदुक्तम्-ऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽइति / अनुमानान्तराणि तैरुक्तानि स्मारयति-#तथेति / उक्तं हि-ऽभेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च / कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य //
SK
ऽइति / अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् / शिष्टानि व्याख्यायन्ते / तथा हि-क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात्, घटवत् / न च दृष्टान्ते साध्यवैकल्यं, घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदो ऽप्यव्यक्तत्वात् / तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् / किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति / एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति / एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः / सिद्धान्तयति-#तत्र वदाम इति / किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा / आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् / द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह-#यदीति / स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् / ननु दृष्टः क्वचिदित्यन्वयः / स्वतन्त्रपदार्थमाह-#चेतनानधिष्टितमिति / परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह-#गेहेति / इदं जगद्च्चेतनाधिष्चिताचेतनप्रकृतिकं, कार्यत्वात्, गेहवदिति प्रयोगः / विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह-#तथेति / बाह्यं पृथिव्यादि भोग्यम्, आध्यात्मिकं शरीरादि च भोगाधिष्छानमिति विभागः / प्रतिनियतो ऽसाधारणो ऽवयवानां विन्यासो रचना यस्य तदित्यर्थः / इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् / न कथमपीत्यर्थः / यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह-#लोष्टेति / चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः / किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात्, मृदादिवदित्याह-#मृदिति / ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात्, नतु चेतनाधिष्ठितत्वं व्यापकं, तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात्, तथा च परिणामित्वे ऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्टितत्वेनेत्याशङ्क्य निषेधति-#नचेति / महानसदृष्टान्ते ऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः / किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात् प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह-#न चैवं सतीति / सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह-#अन्वयाद्यनुपपत्तेश्चेति / नानुमानं युक्तमित्यर्थः / आदिशब्दः परिमाणादिग्रहार्थः / श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च / नहि निमित्तनैमित्तिकयोरभेदेन योगो ऽस्ति, दण्डघटयोरदर्शनादित्यर्थः / किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात् तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् / न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह-#शब्दादीति / विषयस्यैकत्वे ऽपि पुरुषवासनावैचित्र्यात् कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यते ऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः / एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति-#तथेति / बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमामसि सिद्ध्यन्ति, एकस्मिन् संसर्गासंभवान्न ब्रह्मसिद्धिरिति सांख्यस्य भावः / किमिदं परिमितत्वं, न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः / नापि कालतः परिच्छेदः, सांख्यैः कालस्यानङ्गीकारात्,
SK
अविद्यागुणसंसर्गेण सिद्धसाधनाच्च / नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह-#सत्त्वेति / यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति / तन्न / ब्रह्मणि मायायां वा समाप्तिसंभवात् / नच यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्टानदर्शनादित्याह-#कार्येति / एतेनाविभागो ऽपि व्याख्यातः / यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरं, तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः / एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणानचेतनमेव प्रकृतिरिति निरस्तम् / चेतनाधिष्ठिताचेतनप्रकृतिकत्वे ऽपि सादृश्योपपत्तेः, ऽन विलक्षणत्वात्ऽइत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च / एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसंभवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः
SK
END Bस्Rप्_२,२.१.१
SK
START Bस्Rप्_२,२.१.२ः
SK
प्रवृत्तेश् च | BBस्_२,२.२ |
SK
स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यं, तस्य सृष्ट्यर्थं-#प्रवृत्तेःअनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् / रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह-#साम्येति / गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित् कार्यं भवति प्रलयाभावप्रसङ्गात् / किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः / गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदित्याह-#सापीति / विपक्षे स्वतन्त्रे प्रवृत्यनुपपत्तिरित्यर्थः / केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते / अस्यापि गुणेषु व्यभिचारः / कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति ऽप्रवृत्तेश्चऽइति सूत्रेण ज्ञापितम् / ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शने ऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह-#दृष्टाच्चेति / अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः / ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति सांख्यः शङ्कते-#नन्विति / शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति-#सत्यमिति / तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् / , तत्राह-#तथापीति / केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः संबन्धात्सृष्टिप्रवृत्तिरिति भावः / इमं वेदान्तसिद्धान्तं सांख्यो दूषयति-#न त्विति / सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा / न त्वचेतनसंबन्धेनापिचेतनस्य क्वचित्प्रवृत्तिर्दृष्टा / तस्मान्न चेतनात्सृष्टिरित्यर्थः / मतद्वयं श्रुत्वा मध्यस्थः पृच्छति-#किं #पुनरिति / यस्मिन्नचेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं सांख्यमतं साधु उत येन चेतनेनाश्वादिना प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः / सांख्य आह-#नन्विति / #उभयोः / प्रवृत्तितदाश्रययोरित्यर्थः / दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः / आत्मनो ऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह-#प्रवृत्तीति / जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः / जीवद्देहः सात्मकः प्राणादिमत्वात्, व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः / देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात्,
SK
रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम्,
SK
सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः / अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः / आत्मनो ऽप्रत्यक्षत्वे चार्वाकाणां भ्रमो ऽपि लिङ्गमित्याह-#अत एवेति / अप्रत्यक्षत्वादेवेत्यर्थः / देहान्यात्मनः प्रत्यक्षत्वे भ्रमासंभवादिति भावः / #दर्शनात् / प्रवृत्तिचैतन्ययोरिति शेषः / प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति-#तदभिधीयत इति / रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेको स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि संमतमित्याह-#लौकायतिकानामपीति / यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते-#नन्विति / मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति-#नेति / वस्तुत एकत्वे ऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह-#न / #अविद्येति / अविद्यकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः संबन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः
SK
END Bस्Rप्_२,२.१.२
SK
START Bस्Rप्_२,२.१.३ः
SK
पयो ऽम्बुवच् चेत् तत्रापि | BBस्_२,२.३ |
SK
अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदिति स्थितम् / तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे-#स्यादेतदित्यादिना / #साध्यपक्षेति / साध्यवता पक्षेणतुल्यत्वादित्यर्थः / #अनुपन्यासः / न व्यभिचारभूमिरिति यावत् / क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह-#चेतनायाश्चेति / #उपदर्शितम् / अनुमानागमाभ्यामिति शेषः / सूत्रकारस्य ऽक्षीरवद्धिऽ ऽतत्रापिऽइति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह-#उपसंहारेति
SK
END Bस्Rप्_२,२.१.३
SK
START Bस्Rप्_२,२.१.४ः
SK
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् | BBस्_२,२.४ |
SK
अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तं, तद्व्याचष्टे-#सांख्यानामित्यादिना / प्रधानव्यतिरेकेण कर्मणो ऽनवस्थितेः पुरुषस्योदासीनत्वात् कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः / कर्मणो ऽपि प्रधानात्मकस्याचेतनत्वात् सदासत्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः
SK
END Bस्Rप्_२,२.१.४
SK
START Bस्Rप्_२,२.१.५ः
SK
अन्यत्राभावाच् च न तृणादिवत् | BBस्_२,२.५ |
SK
पुनरपि दृष्टान्तबलात् प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः-#अन्यत्रेत्यादिना / पृच्छति-#कथमिति / उत्तरम्-#निमित्तान्तरेति / धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति-#अत्रोच्यत #इति / प्रहीणं नष्टम् / यदुक्तं क्षीरस्य स्वेच्छया संपादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह-#नच यथाकाममिति
SK
END Bस्Rप्_२,२.१.५
SK
START Bस्Rप्_२,२.१.६ः
SK
अभ्युपगमे ऽप्य् अर्थाभावात् | BBस्_२,२.६ |
SK
प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रभृत्यभ्युपगमे पुरुषार्थस्यापेक्षाभावप्रसङ्गादित्येकोर्ऽथः /
SK
तत्रेष्टापत्तिं निरस्यति-#इत्यतः प्रधानमिति / उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः / अर्थासंभवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह-#स यदीत्यादिना / प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह-#तथापीति / कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः / किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात् प्रवृत्तिवैयर्थ्यं, भोगाभावप्रसङ्गश्चेत्यर्थः / तृतीयं दूषयति-#उभयार्थतेति / मीयन्ते भुज्यन्त इति मात्रा भोग्याः / औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति-#नचेति / औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः / अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात्, अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात्, तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात् प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् / न / शक्त्योर्नित्यत्वात् सृष्टिनित्यत्वापत्तिरित्याह-#दृक्शक्तीति
SK
END Bस्Rप्_२,२.१.६
SK
START Bस्Rप्_२,२.१.७ः
SK
पुरुषाश्मवद् इति चेत् तथापि | BBस्_२,२.७ |
SK
पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति-#पुरुषाश्मवदिति चेत्तथापि / प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं सांख्यंप्रत्याह-#कथं चेति / पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् / प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः संनिधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसंनिधिश्चेति व्यापारो ऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः / ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः संबन्ध इत्यत आह-#योग्यतेति / चिज्जडत्वरूपाया योग्यताया नित्यत्वात्संबन्धनित्यत्वापत्तिरित्यर्थः / यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगो ऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षो ऽपि फलाभावेन दूषणीय इत्याह-#पूर्ववच्चेति / सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह-#परमात्मेति / सांख्यमते उभयं विरुद्धं सत्यत्वात् / अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः
SK
END Bस्Rप्_२,२.१.७
SK
START Bस्Rप्_२,२.१.८ः
SK
अङ्गित्वानुपपत्तेश् च | BBस्_२,२.८ |
SK
किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी / आद्ये दोषमाह-#तस्यामिति / अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात्, ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः / द्वितीयं दूषयति-#बाह्यस्येति / चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः
SK
END Bस्Rप्_२,२.१.८
SK
START Bस्Rप्_२,२.१.९ः
SK
अन्यथानुमितौ च ज्ञशक्तिवियोगात् | BBस्_२,२.९ |
SK
गुणानां मिथो ऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम्, तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति-#अन्यथेति / अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते / न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह-#चलं गुणवृत्तमिति /
SK
पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति-#एवमपीति / कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः / अङ्गीकारं त्यजति-#वैषम्येति
SK
END Bस्Rप्_२,२.१.९
SK
START Bस्Rप्_२,२.१.१०ः
SK
विप्रतिषेधाच् चासमञ्जसम् | BBस्_२,२.१० |
SK
सूत्रं व्याचष्टे-#परस्परेति / त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणं, पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्टमनश्चेत्येकादश / बुद्धिरहङ्कारो मन इति त्रीणि / एकमिति बुद्धिरेव / एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह-#प्रसिद्ध इति / तस्माद्भ्रान्तिमूलत्वात्सांख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् / स्वमतासामञ्जस्यमसहमानः सांख्यः प्रत्यवतिष्ठते-#अत्राहेति / तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः / विवृणोति-#एकं हीति / तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः / ननु तयोरुपादानैक्ये ऽपि मिथो भेदो ऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह-#यदि चेत्यादिना / ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह-#यो ऽपीति / किञ्च भेदाङ्गीकारे ऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह-#प्रसिद्धश्चेति / अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह-#यदीति / अर्थिनो ऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनो ऽसत्त्वादर्थत्वाभावःप्रसज्येतेत्याह-#तथार्थस्यापीति /
SK
प्रसङ्गस्येष्टत्वं निराकरोति-#न चैतदस्तीति / अर्थत्वं हि कामनाविषयत्वं, तच्च काम्यादन्यस्य कामयितुरसत्वान्न स्यात् / न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् / तस्माद्भेदो ऽङ्गीकार्य इत्यर्थः / इतश्च भेद इत्याह-#संबन्धीति / तथानर्थानर्थिनावपि भिन्नावित्यन्वयः / अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति-#अर्थिनो ऽनुकूल इति / अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह-#जात्यन्तरेति / तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः / यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते / तदुक्तम्-ऽसैव च बध्यते मुच्यते चऽइति / सिद्धान्तयति-#अत्रेति / किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा / नाद्य इत्याद्याह-#न / #एकत्वादेवेति / दोषत्वमिति शेषः / तस्या अदोषत्वं विवृणोति-#भवेदित्यादिना / एतत्त्वात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः / यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते-किं#न #पश्यसीति / देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते-#नन्विति / अचेतनस्यैव देहस्य तप्तिर्नेति वदता सांख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किंवा देहसंहतस्य, उत तप्तेः, आहोस्वित् सत्त्वस्य / नाद्य इत्याह-#उच्यत इति / न द्वितीयतृतीयवित्याह-#नापीत्यादिना / चतुर्थं शङ्कते-#सत्त्वमिति / सत्तवरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति-#न / #ताभ्यामिति / असङ्गत्वे ऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते-#सत्त्वेति / तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह-#परमार्थत इति / इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते-इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत् कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति-#न चेदिति / पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः / मिथ्यासादृश्यमेव दोष इति चेत्, नेत्याह-#नहीति / सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः / सांख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव संपन्नमित्यर्थः / यदि मिथ्यातप्यत्वाङ्गीकारे ऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् / अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्तयोगादित्याह-#अथेत्यादिना / किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह-#नित्यत्वेति / अत्र सांख्यः शङ्कते-#तप्येति / सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः / मोक्षस्तप्त्यभावः / निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति-#नेति / तमसो निवृत्त्यभावे ऽपिविवेकेनोपरमान्मोक्ष इत्यत आह-#गुणानां चेति / ऽचलं गुणवृत्तम्ऽइत्यङ्गीकारादिति भावः / परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति-#औपनिषदस्य त्विति / वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः / व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः
SK
END Bस्Rप्_२,२.१.१०
SK
START Bस्Rप्_२,२.२.११ः
SK
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् | BBस्_२,२.११ |
SK
वृत्तानुवादेन ऽमहद्दीर्घवत्ऽइति स्वमतस्थापनात्मकाधिकरणस्य संगतिमाह-#प्रधानेति / यद्यपि सांख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे संगतत्वात् तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तं, तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणो ऽपि नोपादानत्वमिति दोषो दृष्टान्तसंगतिलाभादत्र समाधीयत इत्यर्थः / चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः / स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति संदेहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे-#एषेत्यादिना / यद्यपि ऽन विलक्षणत्वात्ऽइत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता / प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह-#यदा द्वाविति / परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः / व्यभिचारस्थलान्तरमाह-#यदापि द्वे इति / द्वे द्वे इति शब्दद्वयं पठितव्यम्, एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् / प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः / सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः / यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते-#यदापि बहव इति / कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसंख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः / एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह-#तदेवमिति / परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् / नियतप्रक्रियामाश्रित्य व्यभिचारमाह-#यथा वेति / अणुह्रस्वेभ्यो द्व्यणुकेभ्यो ऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः / सूत्रे वाशब्दश्चार्थो ऽनुक्ताणुसमुच्चयार्थः / तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना / तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः / दृष्चान्तवैषम्यं शङ्कते-#अथ मन्यस इति / अचेतनैव विरोधिगुण इत्यत आह-#न ह्यचेतनेति / कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह-#मैवमिति / अङ्गीकारं त्यजति-#नचेति / उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः / ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह-#आरब्धमपीति / सहोत्पत्तावपसिद्धान्तः / अतो विरोध्यभावः सिद्ध इति भावः / अणुत्वाद्यारम्भे व्यग्रत्वात् पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति-#नचेति / व्यग्रत्वमन्यथासिद्धम् / तत्र हेतुः-#परिमाणन्तरस्येति / अन्यहेतुकत्वे सूत्राण्युदाहरति-#कारणेति / कारणानां द्व्यणुकानां बहुत्वात् त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वं, द्वितूलपिण्डारब्धे ऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः / महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसंख्यया द्व्यणुके भवतीत्याह-#तदिति / यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायि कारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति-#एतेनेति / अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वसिद्धमिति भावः / तेषां संनिधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह-#नचेति / पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः / तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसंनिधिर्वा न हेतुरित्युक्तिफलमाह-#तस्मादिति / यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारे ऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दं, चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषुविजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् / तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् / तत्रोदाहणान्तरमाह-#संयोगाच्चेति / ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यं, तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम्, न संयोगस्य गुणस्योदाहरणमिति शङ्कते-#द्रव्य इति / गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशे ऽयं दृष्टान्त इति परिहरति-#नेति / अनियमः कणादसंमत इत्याह-#सूत्रकारो ऽपीति / एतावता कथमनियमः, तत्राह-#एतदुक्तमिति / नविलक्षणत्वन्यायेन पुनरुक्त्यभावे ऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते-#नन्वतिदेश इति / समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह-#सत्यमिति / तस्यैवातिदेशस्येत्यर्थः
SK
END Bस्Rप्_२,२.२.११
SK
START Bस्Rप्_२,२.३.१२ः
SK
उभयथापि न कर्मातस्तदभावः | BBस्_२,२.१२ |
SK
वैशेषिकमतपरीक्षामारभते-#उभयथापि न कर्मातस्तदभावः / नास्य प्रासङ्गिकेन पूर्वाधिकरणेन संगतिरपेक्षितेति मन्वानः प्रधानस्येश्वरानधिष्ठितस्याकारणत्वे ऽपि परमाणूनां तदधिष्ठितानां कारणत्वमस्त्विति प्रत्युदाहरणसंगत्या सांख्याधिकरणानन्तर्यमस्य वदंस्तात्पर्यमाह-#इतानीमिति / द्व्यणुकादिक्रमेण परमाणुभिर्जगदारभ्यत इति वैशेषिकराद्धान्तो ऽत्र विषयः / स किं मानमूलो भ्रान्तिमूलो वेति संदेहे पूर्वपक्षयति-#स चेति / तैः पटादिभिः सामान्यं क्षित्यादेः कार्यर्द्रव्यत्वं तेनेत्यर्थः / विमतं सावयवं क्षित्यादिकं स्वन्यूनपरिमाणसंयोगसचिवानेकद्रव्यारब्धं, कार्यद्रव्यत्वात्, पटादिवदिति प्रयोगः / स्वेष्टपरमाणुसिद्ध्यर्थानि साध्यविशेषणानि / नन्वेतावता कथं परमाणुसिद्धिः, तत्राह-#स चायमिति / विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यूनपरिमाणस्यापकर्षस्य पर्यन्तत्वेनावसानभूमित्वेनावगतः परमाणुरित्यर्थः / यावत्सावयवमनुमानप्रवृत्तेः द्व्यणुकन्यूनद्र्यं निरवयवं सिद्ध्यतीति भावः / जगन्नित्यत्ववादात् कार्यद्रव्यत्वहेत्वसिद्धिरिति वदन्तं प्रत्याह-#सर्वं चेति / विमतमाद्यन्तवत्, सावयवत्वात्, पटवदित्यर्थः / हेतोरसिद्धिं निरस्याप्रयोजकत्वं निरस्यति-#नचेति / ते कतिविधा इत्याकाङ्क्षायांमाह-#तानीति / प्रलये चैषामपि नाशान्न जगत्कारणत्वमित्याशङ्क्याह-#तेषां चेति / अवयवानां विभागान्नाशान्नावयविनो नाशः / परमाणूनां निरवयवत्वेनावयवविभागादेर्नाशहेतोरसंभवान्न नाश इत्यर्थः / तेषां नित्यत्वे फलितं सृष्टिक्रममाह-#तत इति / एवं काणादमतस्य मानमूलत्वात्तेन वेदान्तसमन्वयस्य विरोधादसिद्धिरिति पूर्वपक्षे फलम् / तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति-#तत्रेदमिति / प्रलये विभक्तानां परमाणूनामन्यतरकर्मणो ऽभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टं, यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनं, हस्तनोदनादिष्वादिगमनं, तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा / द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म संभवति / अतः कर्मासंभवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः / स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषो ऽभिघातः स एव चलस्य नोदनमिति भेदः / दृष्टनिमित्ताभावे ऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते-#अथादृष्टमिति / विकल्पपुरःसरं दूषयति-#तत्पुनरिति / जडात्मवदणोराश्रयत्वं कि न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् / अत्रापि सूत्रं योजयति-#उभयथेति / जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह-#आत्मनश्चेति / अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः / भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते / अचेतनत्वमदृष्टस्यकर्मनिमित्तत्वाभावे हेतुरुक्तः /
SK
हेत्वन्तरमाह-#आत्मसमवायित्वेति / गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते-#अदृष्टवदेति / विभुसंयोगस्याणुषु सदा सत्त्वात् क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति-#संबन्धेति / कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगे ऽपीश्वरान्नियम इत्यत आह-#नियामकान्तरेति / यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वे ऽपि सदा सत्त्वान्न नियामकत्वमिति भावः / सूत्रार्थं निगमयति-#तदेवमिति / संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति-#संयोगश्चाणोरिति / संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात् सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः / किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह-#दृष्टेति / परमाणोः संयोग एकदेशेन चेदिति संबन्धः / दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः / काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासे ऽपि सूत्रं योजयति-#था चेति / परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःकशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः संभवति / तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना
SK
END Bस्Rप्_२,२.३.१२
SK
START Bस्Rप्_२,२.३.१३ः
SK
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः | BBस्_२,२.१३ |
SK
#समवायाभ्युपगमाच्च तदभावः / अणुवादासंभव इति योग्यतया संबध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः / नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न संबन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसंबद्धत्वादिति शङ्कते-#नन्विहेति /
SK
संयोगस्यापि स्वरूपसंबन्धोपपत्तेः समवायो न स्यादिति दूषयति-#नेति / संबन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या / #गुणपरिभाषायाश्चेति / गुणत्वाभावे ऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् / नापि व्याप्यं, गुणस्यापि समवायवत्स्वरूपसंबन्धसंभवेन व्याप्त्यनुकूलतर्काभावात् / तस्मात् संबन्धिभिन्नत्वमेव संबन्धान्तरापेक्षायां कारणं, तस्य समवाये ऽपि तुल्यत्वादनवस्था दुर्वारा / सा च मूलक्षयकारी / तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः
SK
END Bस्Rप्_२,२.३.१३
SK
START Bस्Rप्_२,२.३.१४ः
SK
नित्यम् एव च भावात् | BBस्_२,२.१४ |
SK
सूत्रं व्याचष्टे-#अपिचेति / अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसंनिहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः
SK
END Bस्Rप्_२,२.३.१४
SK
START Bस्Rप्_२,२.३.१५ः
SK
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् | BBस्_२,२.१५ |
SK
किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात् स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह-#सावयवानामित्यादिना /
SK
नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् / न / वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् / न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् / नच तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावे ऽपि सिद्धसाधनता स्यादिति वाच्यं, यत्र स्पर्शस्तत्कारणं, यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः / परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् / आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति-#यच्च नित्यत्व इति / सत्त्वं भावत्वं प्रागभावनिरासार्थम् / नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात्, घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात् कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति-#यदपीति / कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता / वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारयोगादित्याह-#नच शब्देति / यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः / एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति-#यदपीति / सतामणूनां दृश्यमानसथूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् / तन्न द्व्यणुके व्यभिचारादित्यर्थः / यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह-#अथेत्यादिना / परमाणवो नित्याः, नाशकानुपलम्भात्, आत्मवदिति सूत्रार्थमाशङ्कते-#अथापीति / तन्त्वाद्यवयवानां विभागान्नाशाद्वा पठादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः / परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्संभवतीति परिहरति-#नेति / अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारंभ इति यदि मतं स्यात्, तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् / नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् / अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् / तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते / यथाग्निसंपर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् / नच काठिन्यस्य संयोगविशेषणत्वेन गुणत्वाद्रव्यनाशे ऽनुदाहरणत्वमिति शङ्क्यं, गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात्, गुणपरिभाषायाश्चातन्त्रत्वात् / वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् / नच द्रव्यत्वे ऽप्यवयवविभागादेव तस्य नाश इति वाच्यं, घृतस्य परिणामिन एकत्वेन विभागासंभवात्, परमाणुकाठिन्यनाशे तदसंभवाच्चेति भावः / किञ्च प्रलये नासीद्रजो नान्यत् किञ्चनेत्यणूनां नाशसिद्धिः / तस्मान्न तेषां परमकारणत्वमित्युपसंहरति-#तस्मादिति
SK
END Bस्Rप्_२,२.३.१५
SK
START Bस्Rप्_२,२.३.१६ः
SK
उभयथा च दोषात् | BBस्_२,२.१६ |
SK
यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति-#तद्वदिति / पार्थिवः परमाणूरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा / आद्ये दोषमाह-#कल्प्यमान इति / मूर्त्युपचयात् स्थौल्यादित्यर्थः / पार्थिवो ऽणुराप्यात् स्थूलः, अधिकगुणत्वात्, घटवदित्येवं प्रयोक्तव्यः / अप्रयोजकत्वं निरस्यति-#न चान्तरेणेति / दृष्टविरोधः स्यादिति भावः / नेति पक्षे सर्वेषामाणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा / उभयथापि दोषमाह-#अकल्प्यमाने त्वित्यादिना
SK
END Bस्Rप्_२,२.३.१६
SK
START Bस्Rप्_२,२.३.१७ः
SK
अपरिग्रहाच् चात्यन्तम् अनपेक्षा | BBस्_२,२.१७ |
SK
न केवलमणुवादस्यायुक्तत्वादुपेक्षा किन्तु शिष्टबहिष्कृतत्वाद्ग्रन्थतोर्ऽथतश्चाग्राह्यत्वमित्याह-#अपरिग्रहाच्चेति / चकारार्थं प्रपञ्चयितुमुपक्रमते-#अपि चेति / अत्यन्तभेदज्ञापकमाह-#भिन्नलक्षणानिति / द्रव्यगुणकर्मणां द्रव्यगुणत्वकर्मत्वजातयो लक्षणानि, गुणाश्रयत्वाद्युपाधयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम्, संयोगविभागयोर्निरपेक्षकारणं कर्म, नित्यमेकमनेकसमवेतं सामान्यम्, नित्यद्रव्यवृत्तयो विशेषाः, नित्यः संबन्धः समवाय इति भिन्नानि लक्षणानि / तैर्मिथो ऽत्यन्तभेदसिद्धिरित्यर्थः / #तथात्वमत्यन्तभिन्नत्वम् / तेन विरुद्धो यो धर्मधर्मिभावः / गुणादयो नद्रव्यधर्माः स्युः, ततो ऽत्यन्तभिन्नत्वात्, शशकुशादिवदित्यर्थः / भेदाबाधकत्वमुपन्यस्याभेदमाह-#अथ भवतीति / गुणादिषु तदधीनत्वं तावदन्वयव्यतिरेकसिद्धं, तथा च गुणादयो द्रव्याभिन्नाः, द्रव्याधीनत्वात्, यद्यस्माद्भिन्नं तन्न तदधीनं, यथा शशभिन्नः कुश इत्यर्थः / अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथं, तत्राह-#द्रव्यमिति / कल्पितभेदो ऽप्यस्तीत्याशयः / अन्यथात्यन्तभेदवदत्यन्ताभेदे ऽपि धर्मधर्मित्वायोगादिति मन्तव्यम् / अस्तु गुणादीनां द्रव्यतादात्म्यमिति वदन्तं तार्किकमन्यं प्रत्याह-#तथा सतीति / सांख्यो ऽत्र वेदान्ती ग्राह्यः / यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् / यद्यपि तदधीनत्वं तद्धर्मत्वं, तच्च धूमे नास्ति, अग्निं विनापि भावात्, तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते-#नन्विति / कार्यत्वमन्यत्वं चाङ्गीकरोति-#सत्यमिति / तथापि तादात्म्येन प्रतीयमानत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याशयः / अस्य हेतोरन्यथासिद्धिमाशङ्कते-#गुणादीनामिति / गुणादीनां द्रव्येणाभेदाभावे ऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः / दूषयितुं विकल्पयति-#तत्पुनरिति / शौक्ल्यस्य पटनिष्ठत्वात् पटस्य तन्तुदेशत्वात् पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति-#अपृथग्देशत्व #इति / काणादसूत्रद्वयं व्याचष्टे-#तन्तवो हीति / स्वभावो हि स्वरूपं तस्यापृथक्त्वे ऽस्मदिष्टाभेदसिद्धिरित्याह-#अपृथक्त्वभावत्व इति / अभेदे युक्तिमाह-#तस्येति-गुणस्येत्यर्थः / एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तो ऽनुभवविरोधेन दूषितः / सिद्धान्तान्तरं दूषयति-#युतेति / अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य / नाद्य इत्याह-#प्रागिति / द्वितीयमाशङ्क्य दूषयति-#अथेत्यादिना / कारणस्य पृथक्सिद्धत्वे ऽकार्यमपृथक्सिद्धमित्युक्तमुपेत्य संबन्धो ऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं द्वितीयं शङ्कते-#सिद्धं भूत्वेति / सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः / सद्योजातपटस्य क्रियाभावात् कथं संयोगः, तत्राह-#यथेति / किञ्च संबन्धस्यापि संबन्धे ऽनवस्थानादसंबद्धस्यानियामकत्वात् संबन्धो ऽपि दुर्निरूप इत्याह-#नापीति / संबन्धः संबन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात्, वस्त्वन्तरवदिति शङ्कते-#संबन्धीति / कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते-#न / एकत्वे ऽपीति / स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, नच भिद्यत इति व्यभिचार इत्यर्थः / फलितमाह-#इत्युपलब्धीति / विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन-लक्षणेन सिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः संबन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः / न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते / समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः / संबन्धस्य संबन्ध्यभेदे संबन्धिनः सदा सत्त्वात्सर्वदा संबन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति-#नापीति / परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च संबन्धिधीः न स्वत इत्युक्तमित्यर्थः / पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, संप्रत्यदृष्टवदात्मनाणूनां संयोगो ऽणुषु क्रियाहेतुः आत्ममनोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते-#तथाण्वात्मेति / निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति-#कल्पिता इति / कल्पनमूहः / ऊहितार्थाः सन्तो ऽसन्तो वा / द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् / आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् / प्रभूतत्वं निरवधित्वं तत्संभवाच्चेत्यर्थः / यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह-#न चेत्यादिना / संयोगं दूषयित्वा समवायं दूषयति-#किञ्चान्यदिति / तन्मते दूषणान्तरमुच्यत इत्यर्थः / संश्लेषः संग्रहः / यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः / द्व्यणुकं निरवयवासमवेतं, सावयवत्वात्, आकाशासमवेतभूमिवदिति भावः / ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात्, संबन्धं विना तदयोगात् / नच संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते-#कार्येति / प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति-#नेति / भेदात्तद्भाव इति वदन्तं प्रत्याह-#इतरेतराश्रयत्वादिति / कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह-#कारणस्यैवेति / परमाणूनां निरवयवत्वमप्ययुक्तमित्याह-#किञ्चेति / परमाणवः सावयवाः, अल्पत्वात्, घटवत् / विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः / ननुपरमाण्वपेक्षया यो ऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन ये ऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्ते ऽपि सावयवाश्चेत् तदवयवा एवेति एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कति-#यांस्त्वमिति / परिहरति-#न / #स्थूलेति / अयमर्थः-यत्सवात्मनाविभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात्, तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् / यदि पृथिव्यादिजातीयो ऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वं, विनाशित्वात्, घटवत् / नच हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात्, घटवदिति साधनादिति / संप्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति-#विनश्यन्त इत्यादिना / ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् / निमित्तादृष्टादिनाशाद्विनाशः प्रलये संभवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसंभव इति भावः / यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह-#तथा कार्यारम्भो ऽपीति / कैवल्यं प्रधान्यम् /
SK
कार्यद्रव्यस्थितावपि हेत्वात्संयोगस्य क्षीरारंभकसंयोगाद्दध्यारम्भकं न संयोगान्तरं, तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः / किञ्च यत्कार्यद्रव्यं तद्द्रव्यारम्भमित्येव व्याप्तिरस्तु लाघवात्, न तु संयोगसचिवस्वन्यूनपरिमाणेनेकद्रव्यारम्भमिति, गौरवात्, दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च / नच रज्जुर्न द्रव्यान्तरमिति वाच्यम्, अवयविमात्रविप्लवापातात् / किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः / यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति / तन्न / त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः / नच त एव त्रुटिनामानो जगद्धतेव इति वाच्यम्, पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् / न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम्, मायायां ब्रह्मणि वावयवत्वविश्रान्तिसंभवात् / अतो न किञ्चिदणुसद्भावे प्रमाणम् / निरवयवानां संयोगसमवाययोरसंभवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव / संप्रति ऽअपरिग्रहाच्चऽइति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति-#तदेवमिति / तस्माद्भ्रान्तिमूलेन वैशेषिकमतेनवेदान्ततात्पर्यस्याविरोध इति सिद्धम्
SK
END Bस्Rप्_२,२.३.१७
SK
START Bस्Rप्_२,२.४.१८ः
SK
समुदाय उभयहेतुके ऽपि तदप्राप्तिः | BBस्_२,२.१८ |
SK
वैशेषिकं निरस्य वैनाशिकं निरस्यति-#समुदाय इति / परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसंगतिमाह-#वैशेषिकेति / ऽनाभाव उपलब्धेःऽइति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते-#स चेति / ननु सुगतप्रोक्तागमस्यैक्यात् कुतो बहुप्रकारता, तत्राह-#प्रतिपत्तीति / एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन वुद्धिभेदात्, मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः /
SK
तानेव प्रकारानाह-#तत्रेति / सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः / तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादे ऽप्यस्तित्वसंप्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह-#तत्र ये सर्वास्तित्वेति / भूतं भौतिकं बाह्यं, चित्तं चैत्तं च कामाद्यान्तरमिति विभागः / तत्र संदिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति / तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति-#तत्र भूतमिति / स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलं, सिद्धान्ते तदविरोध इति ज्ञेयम् / पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते-#चतुष्टये चेति / चतुर्विधा इत्यर्थः / खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति / बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह-#तथेति / सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वे ऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम्, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः / तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते / अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां संघात आध्यात्मिकः / सकललोकयात्रानिर्वाहक इत्यर्थः / अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत् तत्क्षणिकं, यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलो ऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति-#यो ऽयमिति / सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसंघातस्तावन्न संभवति, अचेतनत्वात् / नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, संघाते देहाकारे जाते विज्ञानं विज्ञाने जाते संघात इत्यन्योन्याश्रयात् / नच क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः संघातकर्ता भवेत् / नच कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव संघातार्थं प्रवर्तन्त इति वाच्यम्, अनिर्मोक्षप्रसङ्गात् / नन्वालयविज्ञानसंतानः संहन्तास्त्वित्यत आह-#आशयस्येति / आशेरते ऽस्मिन् रागादय इत्याशयः संतानः, स किं संतानिभ्यो ऽन्यो विज्ञानिभ्यो ऽन्यो ऽनन्यो वा / आद्ये ऽपि स्थिरः क्षणिको वा / नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् / द्वितीये दोषमाह-#क्षणिकत्वेति / क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना / क्षणिकत्वव्याघात्दित्यर्थः / एतेनानन्यः संतान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः / तस्मात् संहन्तुरसत्त्वात् संघातानुपपत्तिरित्यर्थः
SK
END Bस्Rप्_२,२.४.१८
SK
START Bस्Rप्_२,२.४.१९ः
SK
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात् | BBस्_२,२.१९ |
SK
संहन्तुरभावे ऽपि संघातोपपत्तिमाशङ्क्य निषेधति-#इतरेति / कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् / अविद्यादिभिरेवार्थात् संघातसिद्धौ व्यवहारोपपत्तिरित्यर्थः / अविद्यादीनाह-#ते चेति / क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात् पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति / ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते / गर्भस्य कलकलबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः / विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत् षडायतनं, नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानं, तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् / जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखं, तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसंग्रहार्थः / न केवलं सुगतानामेवाविद्यादयः संमताः, किन्तु सर्ववादिनामपीत्याह-#सर्वेषामिति / अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्संघातसिद्धिरिति शङ्कामुपसंहरति-#तदेवमिति / सिद्धान्तभागं व्याचष्टे-#तन्नेति / अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य संघातहेत्वभावात् संघातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति-#नन्विति / किमविद्यादयः संघातस्य गमका उतोत्पादका इति विकल्प्याद्ये संघातस्योत्पादकं किञ्चिद्वाच्यं, तन्नास्तीत्याह-#अत्रोच्यते, यदीति / आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् / अदृष्टाश्रयेष्वित्यर्थः / यदा स्थिरेष्वणुषु संघातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्संघातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह-#किमिति /
SK
आश्रयाश्रयः संघातकर्ता तच्छून्येष्वित्यर्थः / ऽआश्रयाश्रयिशून्येषुऽइति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः / द्वितीयं शङ्कते-#अथायमिति / संघातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति-#कथमिति / स्वाभाविकः खल्वयं संघातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसंघाताश्रया अविद्यादय उत्तरसंघातप्रवर्तका इति नान्योन्याश्रयदोषो ऽपीत्याशङ्कते-#अथ मन्यस इति / स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः / पूर्यते गलति चेति पुद्गलो देहः / किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारो ऽपि दुर्घट इत्याह-#अपि चेति / यो यदिच्छति स तत्काले नास्ति चेदिच्छाव्यर्था, अस्ति चेत् क्षणिकत्वभङ्ग इत्यर्थः / प्रकृतं संघातनिरासमुपसंहरति-#तस्मादिति
SK
END Bस्Rप्_२,२.४.१९
SK
START Bस्Rप्_२,२.४.२०ः
SK
उत्तरोत्पादे च पूर्वनिरोधात् | BBस्_२,२.२० |
SK
द्विविधो हि कार्यसमुत्पादः सुगतसंमतो हेत्वधीनः कारणसमुदायाधीनश्चेति / तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः / तत्राद्यमङ्गीकृत्य द्वितीयः संघातकर्त्रभावेन दूषितः / संप्रत्याद्यं दूषयति सूत्रकारः-#उत्तरेति / क्षणिकोर्ऽथः क्षणिक इत्युच्यते / निरुध्यमानत्वं विनाशकसांनिध्यं, निरुद्धत्वमतीतत्वम् / ननु कार्यकाले विनाशव्याप्तत्वे ऽपि पूर्वक्षणे सत्त्वात् क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते-#अयं भावेति / सद्रूप इत्यर्थः / किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा / नाद्य इत्युक्त्या द्वितीयं शङ्कते-#अथेति / भाव उत्पत्तिः / उक्तं हि ऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतऽइति / येषां क्षणिकाभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः / नष्टस्यापि निमित्तत्त्वं स्यान्वोपादानत्वं, तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः / सत्त्वे च क्षणिकत्वहानिरिति परिहरति-#तथापीत्यादिना / प्रथमपक्षेक्तदोषं द्रढयति-#विनैवेति / वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह-#अपि चेति / तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनो ऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् / द्वितीयं शङ्कते-#अथास्तीति / विशेषमेवाह-#उत्पादेति / दूषयति-#एवमपीति / ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् / संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति-#अथात्यन्तेति
SK
END Bस्Rप्_२,२.४.२०
SK
START Bस्Rप्_२,२.४.२१ः
SK
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा | BBस्_२,२.२१ |
SK
सूत्रं व्याख्यातुं वृत्तं स्मारयति-#क्षणभङ्गेति / किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा / आद्ये प्रतिज्ञाहानिरित्याह-#अथासत्येवेत्यादिना / विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः / यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः / प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह-#निर्हेतुकायां चेति / सहेतुकत्वपक्षे ऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे-#अथोत्तरक्षणेत्यादिना / सम्यक् क्रियन्त इति संस्काराः / आद्यन्तवन्तो भावा इत्यर्थः
SK
END Bस्Rप्_२,२.४.२१
SK
START Bस्Rप्_२,२.४.२२ः
SK
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् | BBस्_२,२.२२ |
SK
एवमाद्यसूत्राभ्यां समुदायो निरस्तः / उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते / संप्रति तदभिमतं द्विविधं विनाशं दूषयति-#प्रतिसंख्येति / संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रं, त्रयात्तुच्छरूपादन्यदित्यर्थः / किं तत्रयं, तदाह-#तदपीति / निरुपाख्यं निःस्वरूपम् / प्रतीपा प्रतिकूला संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या, तया निरोधः कस्यचिद्भावस्य भवति /
SK
अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह-#तद्विपरीत इति / परक्रियामुक्त्वा सूत्रं व्याचष्टे-#तेषामिति / भावाः संतानिनः / संतानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् संताने चरमक्षणः क्षणान्तरं करोति वा न वा / आद्ये चरमत्वव्याघातः, संतानाविच्छेदात् / द्वितीये चरमस्यासत्त्वप्रसंगः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात्, चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् / तस्मात् संतानस्य विच्छेदासंभवान्निरोधाप्राप्तिरित्याह-#न तावदिति / न द्वितीय इत्याह-#नापीति / घटकपालचूर्णाद्यवस्थासुसेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः / बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह-#अस्पष्टेति / अङ्कुरादयो ऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात्पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः / यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षण(?)निरोधासंभव इत्युपसंहारः
SK
END Bस्Rप्_२,२.४.२२
SK
START Bस्Rप्_२,२.४.२३ः
SK
उभयथा च दोषात् | BBस्_२,२.२३ |
SK
अविद्यादीनां प्रतिसंख्यानिरोधं तदभिमतं दूषयति-#उभयथेति / यमनियमादयः परिकराः / सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः
SK
END Bस्Rप्_२,२.४.२३
SK
START Bस्Rप्_२,२.४.२४ः
SK
आकाशे चाविशेषात् | BBस्_२,२.२४ |
SK
#आगमप्रामाण्यादिति / तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः / नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह-#विप्रतिपन्नानिति / शब्दो वस्तुनिष्ठः गुणत्वात्, गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति / पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः / आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति-#अपि चेति / यथैकघटसत्त्वे ऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वे ऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसंचारो न स्यादित्यर्थः / देशविशेषावच्छेदेनावरणाभावो ऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह-#यत्रेत्यादिना / पतिष्यति / पक्षी संचरिष्यतीत्यर्थः / आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह-#अपि चेति / किं सम्यक् निश्रय आश्रयो ऽस्या इति किंसंनिश्रया / अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति / व्याघातान्तरमाह-#अपिचेति / ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति संभवति / धर्मिणो ऽसत्त्वव्याघातादित्यर्थः
SK
END Bस्Rप्_२,२.४.२४
SK
START Bस्Rप्_२,२.४.२५ः
SK
अनुस्मृतेश् च | BBस्_२,२.२५ |
SK
आत्मनः क्षणिकत्वं दूषयति-#अनुस्मृतेरिति / अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः / क्षणिकत्वे ज्ञानद्वयानुसंधानं च न स्यादित्याह-#कथं ह्यहमिति / पूर्वदर्शनकर्तुरद्राक्षमितिस्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह-#अपि चेति / यो ऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः / #इदं पश्यामीति ज्ञानान्तरसंबन्धकथनं, यो ऽहमद्राक्षं सो ऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् / विपक्षे बाधकमाह-#यदि हीति / द्रष्टृस्मर्त्रोर्भेदे ऽहं स्मरामि अन्यो ऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह-#यत्रैवमिति / प्रत्ययमाह-#स्मरामीति / स्मराम्यहमन्यो ऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोको ऽवगच्छतीत्यविवादमित्यर्थः / प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह-#इह त्वहमद इति / यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात् प्रत्यभिज्ञा प्रमेत्युक्तं भवति / तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह-#तत्रैवं सतीति / क्षणद्वयसंबन्धे ऽप्यात्मनस्तृतीयक्षणे भङ्गो ऽस्त्विति वदन्तं प्रत्याह-#तथेति / वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्चावर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः#प्रतिसंदधानःसन्निति योजना / दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते-#स इति / सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात् स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं संभवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति-#तमित्यादिना / स्यादेतत् / न सादृश्यप्रत्ययः पूर्वोत्तरवस्तूदयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते-#तेनेदमिति / अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति / नेति वदतः स्वानुभवविरोधः / किञ्चार्थभेदाभावात् पदत्रयप्रयोगो न स्यात् / तस्मात् पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति-#न तेनेति / अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् / न / त्रयाणामेकप्रत्ययाभेदे मिथो ऽप्यभेदापत्तेः / इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह-#यदा हीति / वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसंभवात् स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदो ऽङ्गीकार्यः / तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः / ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति-#एवमेवेति / यत् प्रमाणसिद्धं तदेव वक्तव्यम् / न हि क्षणिकत्वे किञ्चित् प्रमाणमस्ति / न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्वरूपे क्षणिकत्वे मानमिति वाच्यम्, तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः / नच यत्सत् तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् / नच स्थायिनमनुमातारमन्तरेणानुमानं संभवति / तस्मादमानसिद्धार्थवक्ता तथागतो ऽश्रद्धेयवचन इत्यर्थः / किञ्च सादृश्यं प्रत्यभिज्ञायां दोषयता निमित्तं विषयतया वा / आद्ये ऽपि स्वरूपसत् ज्ञातं वा / नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञाने ऽपि रूप्याभेदभ्रमापत्तेः / न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासंभवस्योक्तत्वात् / नापि विषयतया निमित्तमित्याह-#नचेति / सो ऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः / सो ऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति-#भवेदिति / जडार्थे प्रत्यभिज्ञाते ऽपि बाधसंभावनया संशयः कदाचित् स्यान्नात्मनीत्यर्थः / असंदिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासंगतमित्युपसंहरति-#तस्मादिति
SK
END Bस्Rप्_२,२.४.२५
SK
START Bस्Rप्_२,२.४.२६ः
SK
नासतो ऽदृष्टत्वात् | BBस्_२,२.२६ |
SK
अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति-#नासत इति / न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च / द्वौ नञौ प्रकृतार्थं गमयतः / मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह-#विनष्टादिति / कारणविनाशात् कार्यजन्मेत्यत्र युक्तिमाह-#कूटस्थादिति / विनाशशून्यात् / नित्यादित्यर्थः / नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः / नच सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् / अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् / अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् / तस्मान्न स्थायिभवात् कार्यजन्मेत्यर्थः / क्षणिकभावस्य हेतुत्वम् ऽउत्तरोत्पादे चऽइत्यत्र निरस्तम् / अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे-#तत्रेदमिति / यदि बीजाभावस्याभावान्तराद्विशेषः स्यात्, तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोर्ऽथवान्स्यात्, न सो ऽस्तीत्याह-#येनेति / सूत्रं योजयति-#निर्विशेषस्येति / शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः / अस्त्वभावस्यापि विशेष इत्यत आह-#यदीति / अभावस्य हेतुत्वे ऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह-#नापीति / अभावो न हेतुः, असत्त्वात् / संमतवदित्यर्थः / अभावो न प्रकृतिः, कार्यानन्वितत्वात्, यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह-#अभावाच्चेति / अतो ऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह-#मृदिति / स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति-#यत्तूक्तमित्यादिना / अनुभवबलात्स्थिरस्वभावानामेव सहकारिसंनिधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् / नच शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यं, यतो ऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् / ततः स्वर्णादौ स्वतो ऽतिशयशून्ये ऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः / न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यं, पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या / यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति / तन्न / अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः / न ह्यर्थक्रियाकारित्वमेव सत्त्वम्, असतस्तदयोगेन सत्त्वस्य ततो भेदात् / सते ह्यर्थक्रियाकारित्वं नासतः / अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव / तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः / पूर्वापरविरोधमप्याह-#अपिचेति
SK
END Bस्Rप्_२,२.४.२६
SK
START Bस्Rप्_२,२.४.२७ः
SK
उदासीनानाम् अपि चैवं सिद्धिः | BBस्_२,२.२७ |
SK
अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् / अतिप्रसङ्गान्तरमाह-#उदासीनानामिति / #अनीहमानानां प्रयत्नशून्यानाम् / #अमत्रं घटादिपात्रम् / #तन्वानस्यव्यापारयतः / तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम्
SK
END Bस्Rप्_२,२.४.२७
SK
START Bस्Rप्_२,२.५.२८ः
SK
नाभाव उपलब्धेः | BBस्_२,२.२८ |
SK
#नाभाव उपलब्धेः / अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततो ऽन्योर्ऽथो ऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह-#एवमित्यादिना / पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् / नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह-#केषाञ्चिदिति / उक्तं च धर्मकीर्तिना-ऽदेशना लोकनाथानां सत्त्वाशयवशानुगाःऽइति / सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः / नन्वसति बाह्यार्थे मानमेयव्यवहारः कथं, तत्राह-#तस्मिन्निति / विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम्, अवभासात्मना मानफलं, शक्त्यात्मना मानं, शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः / मुख्य एव भेदः किं न स्यादत आह-#सत्यपीति / नहि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारो ऽस्ति / अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः / बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति-#कथमित्यादिना / ज्ञेयं ज्ञानातिरेकेणासत्, तदतिरेकेणासंभवात्, नरशृङ्गवदित्याह-#तदसंभवादिति / असंभवं विवृणोति-#स हीति / परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् / समूहस्त्वसन्नित्यर्थः / अवयव्यभावे ऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह-#एवमिति / जातिगुणकर्मणां धर्मिणः सकाशादभेदे ऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः / भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः / किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसंबन्धाभावे सर्वविषयत्वापत्तेर्विशेषो ऽङ्गीकार्यः, तथाच ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह-#अपिचेति / पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः / किञ्च ज्ञेयं ज्ञानाभिन्नं, ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात्, ज्ञानवदित्याह-#अपिचेति / ज्ञानार्थयोवास्तवभेदे ऽपि सहोपलम्भनं स्यात्, ग्रैह्यग्राहकभावादित्यत आह-#न चैतदिति / क्षणिकज्ञानस्यार्थेन संबन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः / किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनं, विज्ञानत्वात्, स्वप्नादिज्ञानवदित्याह-#स्वप्नेति / विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते-#कथमिति / अन्यथोपपत्त्या परिहरति-#वासनेति / अनादिसंतानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधाने ऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः / उभयवादिसंमतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह-#अपिचेति / क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-#नाभाव इत्यादिना / किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः / नाद्य इत्युक्त#मुपलब्धेरिति / द्वितीयं शङ्कते-#ननु नाहमिति / ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह-#बाढमित्यादिना / त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह-#अतश्चेति / बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात्, दृष्टान्तत्वात्संभवाच्च बहिर्वच्छब्दो न स्यादित्याह-#इतरथेति / अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह-#तस्मादिति / ज्ञेयार्थो ज्ञानातिरेकेणासन्नसंभवादित्युक्तबाधाद्वत्करणमिति शङ्कते-#नन्विति / को ऽसावसंभवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसंभवस्याभावो वा / नाद्यः, साध्याभेदात् / न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासंभवासिद्धरित्याह-#नायं साधुरिति / संभवः सत्तानिश्चयः प्रमाणाधीनः / असंभवो ऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति-#यद्धीति / उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः संभवं वदन्नेव तृतीयं दूषयति-#इहेति / प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षे ऽप्ययुक्तत्वस्य तुल्यत्वात् / न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकप्रसङ्गात् / न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः / तस्मादयुक्तत्वे ऽपि यथानुभवं व्यवहारयोग्योर्ऽथः स्वीकार्यः / न चतुर्थः, निश्चिते तादृशसंभवस्यानुपयोगात् / तस्य क्वचित् प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः / यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह-#नचेति / यत्तु गौरवमुक्तं, तन्न दूषणं, प्रामाणिकत्वादित्याह-#वहिरिति / यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमो ऽपि नाभेदसाधक इत्याह-#अत एवेति / यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वे ऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदे ऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः / नच ज्ञानस्य क्षणिकत्वात् स्वभिन्नग्राह्यसंबन्धायोगः, स्थायित्वादिति भावः / विज्ञानमनेकार्थेभ्यो भिन्नम्, एकत्वात्, गोत्ववदिति सत्प्रतिपक्षमाह-#अपि चेति / नच हेत्वसिद्धः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् / नच सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह-#नविशेष्यस्येति / घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह-#तथेति / घटो द्वाभ्यां भिन्नः एकत्वात्, क्षीरवदित्यर्थः / ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह-#अपि चेति / क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च / तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् / तथाच तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः / एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता / सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम्, अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेणवा दुर्ज्ञानत्वात् उत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् / किचाविद्योपप्लवो ऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् / अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या / आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशो ऽनेकज्ञानसाध्यो गृहीतः / तस्मात् प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदो ऽङ्गीकार्य इत्यर्थः / ज्ञानार्थयोभेदे युक्तयन्तरमस्तीत्याह-#किञ्चान्यदिति / ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः / स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते-#अथ विज्ञानमिति / विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह-#अत्यन्तेति / ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितं, वस्तुतः स्ववेद्यत्वमयुक्तमित्याह-#नचेति / कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः / नच स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम्, अभेदे विषयविषयित्वस्याप्यसंभवादिति भावः / ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते-#नन्विति / अनवस्था च साम्यं चेति दोषद्वयं परिहरति-#तदुभयमपीति / अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था / नापि साम्यम् / चिज्जडत्ववैषम्यादित्यर्थः / साक्षी क्वेत्यत आह-#स्वयंसिद्धस्येति / निरपेक्षस्य साक्षिणो ऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सो ऽङ्गीकार्य इत्यर्थः / अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह-#किञ्चेति / विज्ञानं ज्ञानान्तरापेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात्, स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्ता स्यात्, तथाच ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् / अतस्तत्साक्ष्येष्टव्य इत्यर्थः / विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यं, स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते-#बाढमिति / अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति-#नेति / विमतं विज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात्, देहवदित्यर्थः / अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा / आद्ये ऽनवस्था / द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते-#साक्षिण इति / त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते / अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितं, कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति-#न / #विज्ञानस्येति
SK
END Bस्Rप्_२,२.५.२८
SK
START Bस्Rप्_२,२.५.२९ः
SK
वैधर्म्याच् च न स्वप्नादिवत् | BBस्_२,२.२९ |
SK
एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् / संप्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति-#वैधर्म्याच्चेति / किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम्, अथवा व्यावहारिकविषयशून्यत्वम् / नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् / न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः / तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह-#बाध्यते हीत्यादिना / #निद्राग्लानमिति / करणदोषोक्तिः / साधनव्यापकत्वनिरासायाह-#नचैवमिति / किञ्च प्रमाणजानुभव उपलब्धिः पक्षो ऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् / परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह-#अपि चेति / स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह-#अर्थविप्रयोरेति / असंबन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत्, न संप्रयुक्तवर्यमानार्तमात्रग्राहिण्या उपलब्धेरिति भावः / पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह-#तत्रैवंसतीति / वैधर्म्ये सतीत्यर्थः / अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः / वैधर्म्यासिद्धिं निरस्यति-#नचेति / बाधमप्याह-#अपिचेति / वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो दि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतो ऽपि वक्तुं शक्यत्वात् / नहि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् / यदि न वस्तुतो धर्मो ऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् / अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः / उक्तोपाधिरपि न विस्मर्तव्य इत्याह-#दर्शितं त्विति
SK
END Bस्Rप्_२,२.५.२९
SK
START Bस्Rप्_२,२.५.३०ः
SK
न भावो ऽनुपलब्धेः | BBस्_२,२.३० |
SK
सूत्रव्यावर्त्यं स्मारयित्वा दूषयति-#यदप्युक्तमित्यादिना / भाव उत्पत्तिः सत्ता वा / ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह-#अनादित्वे ऽपीति / बीजादङ्कुरो दृष्ट इत्यदृष्टे ऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः / ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह-#याविति / वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः / कार्यत्वग्राहकं व्यतिरेकमाह-#विनेति / अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् / अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह-#अपिचेति / यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह-#अपिचेति
SK
END Bस्Rप्_२,२.५.३०
SK
START Bस्Rप्_२,२.५.३१ः
SK
क्षणिकत्वाच् च | BBस्_२,२.३१ |
SK
अस्त्वालयविज्ञानमाश्रय इत्यत आह-#क्षणिकत्वाच्चेति / सूत्रं व्याचष्टे-#यदपीति / सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात्, पौर्वापर्ये चाधेयक्षणे ऽसत आधारत्वायोगात्, सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः / अस्तु तर्ह्यालयविज्ञानसंतानाश्रया वासनेत्यत आह-#नहीति / सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा संतानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न संभवतीत्यर्थः / यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह-#स्थिरेति / सूत्रमतिदेशार्थत्वेनापि व्याचष्टे-#अपिचेति / मतद्वयनिरासमुपसंहरति-#एवमिति / ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्कय सूत्रकारः किमिति न निराचकारेत्यत आह-#शून्येति / आदरः पृथक्सूत्रारम्भो न क्रियते / एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः / तथाहि-ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः / ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात्, सुषुप्तिवदित्यत आह-ऽवैधर्म्याच्च न स्वप्नादिवत्ऽ / स्वप्न आदिर्यस्याः सुषुप्तेस्तदन्नेतरावस्थयोः शून्यत्वम्, उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् / सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः / किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यं, तस्य त्वन्ते न भावः / मानतो ऽनुपलब्धेरित्याह-ऽन भावो ऽनुपलब्धेःऽ / तदर्थमाह-#न ह्ययमिति / यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् / बाधाभावादित्यर्थः / नच सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् / मिथ्यात्वसंभवादिति भावः / ऽक्षणिकत्वाच्चऽइति सूत्रं ऽक्षणिकत्वोपदेशाच्चऽइति पठनीयम् / शून्यत्वविरुद्धक्षणिकत्वोपदेशादसंगतप्रलापी सुगत इत्यर्थः
SK
END Bस्Rप्_२,२.५.३१
SK
START Bस्Rप्_२,२.५.३२ः
SK
सर्वथानुपपत्तेश् च | BBस्_२,२.३२ |
SK
सुगतमतासांगत्यमुपसंहरति-#सर्वथेति / सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह-#प्रद्वेषो वेति / वेदबाह्या अत्र प्रजा ग्राह्याः / अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम्
SK
END Bस्Rप्_२,२.५.३२
SK
START Bस्Rप्_२,२.६.३३ः
SK
नैकस्मिन्न् असंभवात् | BBस्_२,२.३३ |
SK
#नैकस्मिन्नसंभवात् / मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह-#निरस्त इति / एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधो ऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां संदेहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसंधायतन्मतमुपन्यस्यति-#सप्त चेति / जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् / नन्वास्त्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह-#संक्षेपतस्त्विति / संक्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह-#तयोरिति / अस्तिकायशब्दः सांकेतिकः पदार्थवाची / जीवश्चासावस्तिकायश्चेत्येवं विग्रहः / पूर्यन्ते ग्लन्तीति पुद्गलाः परमाणुसंघाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः / पञ्चपदार्थानामवान्तरभेदमाह-#सर्वेषामिति / अयमर्थः-जीवास्तिकायस्त्रिविधः-कश्चिज्जीवो नित्यसिद्धोर्ऽहन्मुख्यः, केचित्सांप्रतिकमुक्ताः, केचिद्बद्धा इति / पुद्गलास्तिकायः षोढा-पृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति / प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ / आकाशास्तिकायो द्विविधः-लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति / बन्धाख्यं कर्माष्टविधम्-चत्वारि घातिकर्माणि चत्वार्यघातीनि / तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि / तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानम् द्वितीयं, बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं, मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम्, इमानि चत्वारि श्रेयोहन्तृत्वाघातिकर्माणि / अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति / मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम्, एतन्नामाहमस्मीत्यभिमानो नामिकम्, अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टो ऽस्मीत्यभिमानो गोत्रिकम्, शरीरस्थित्यर्थं कर्म आयुष्कम् / अथवा शुक्रशोणितमिश्रितमायुष्कं, तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकं, शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकं, सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयं, तत्त्ववेदनानुकूलत्वात् / तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वाघातीनि / तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति / इयं प्रक्रिया मान्यशून्येति द्योतयति-#स्वसमयपरिकल्पितानिति / स्वीयतन्त्रसंकेतमात्रकल्पितानित्यर्थः पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह-#सर्वत्रेति / अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति / सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः / घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् / अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः / के ते सप्तभङ्गाः, तानाह-#स्यादस्तीति / स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् / स्यादस्ति / कथञ्चिदस्तीत्यर्थः / एवमग्ने ऽपि / तत्र वस्तुनो ऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते / नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः / क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः / युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात् स्यादवक्तव्य इति चतुर्थो भङ्गः / आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः / द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः / तृतीयचतुर्थेच्छायां स्यादस्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः / एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादेको ऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेको ऽवक्तव्यः स्यादेको ऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् / एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः संभवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात्, तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति-#अत्रेति / यदस्ति तत् सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा / न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम्, अप्राप्तिभ्रान्त्या यत्नसंभवात् / यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि / प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः / तथाहि-किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण / द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव / नहि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामो ऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः / अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् / नाद्य इत्याह-#नायमिति / ननु विमतमनैकात्मकं, वस्तुत्वात्, नारसिंहवदिति चेत् / न / घट इदानीमस्त्येवेत्यनुभवबाधात् / किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् / आद्ये व्यभिचार इत्याह-#य इति / द्वितीये पदार्थनिश्चयो न स्यादित्याह-#इतरथेति / अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते-#नन्विति / तस्य निश्चयरूपत्वं नियतमनियतं वा / आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः / द्वितीये तस्य संशयत्वं स्यादित्याह-#नेति ब्रूम इति / प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति-#एवमिति / निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः / इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह-#एवंसतीति / अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह-#तथा पञ्चानामिति / यदुक्तमवक्तव्यत्वं तत् किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् / नाद्यः, व्याघातादित्याह-#न चैषामिति / उच्यन्ते च / अवक्तव्यादिपदैरिति शेषः / न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात्, शेषस्यापि मुखभेदात् / न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यं, तादृशवाञ्छाया एवानुत्पत्तिरिति / किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह-#उच्यमानाश्चेत्यादिना / इति च प्रलपन्नित्यन्वयः / अर्हन्निति शेषः / अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः /
SK
इतश्चासंगतो ऽनैकान्तवाद इत्याह-#स्वर्गेति / किञ्चानादिसिद्धोर्ऽहन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमो ऽपि न स्यादित्याह-#अनादीति / प्रपञ्चितं सूत्रार्थं निगमयति-#एवमिति / #एतेनेति / सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः / परमाणुसंघाताः पृथिव्यादय इति / दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह-#यत्त्विति
SK
END Bस्Rप्_२,२.६.३५
SK
START Bस्Rप्_२,२.६.३४ः
SK
एवं चात्माकार्त्स्न्यम् | BBस्_२,२.३४ |
SK
जीवस्य देहपरिमाणतां दूषयति-#एवं चेति / अकार्त्स्न्यं मध्यमपरिमाणत्वम् / तेनानित्यत्वं स्यादित्यर्थः / अर्थान्तरमाह-#शरीराणां चेति / विपाकः कर्मणामभिव्यक्तिः / जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् / शरीरैकदेशो निर्जीवः स्यादित्यर्थः / पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् / देहाद्बहिरपि जीवः स्यादित्यर्थः / किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित् स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह-#समान इति / यथा दीपावयवानां घटे संकोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते-#स्यादिति / दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्ये ऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति-#तेषामित्यादिना / दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् / द्वितीयं दूषयति-#अप्रतिघात इति / अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह-#अपिचेति
SK
END Bस्Rप्_२,२.६.३४
SK
START Bस्Rप्_२,२.६.३५ः
SK
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः | BBस्_२,२.३५ |
SK
एवं जीवावयवा नित्या इतिमते देहमानत्वं निरस्तम् / संप्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते-#अथेति / बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः / सूत्रेण परिहरति-#नचेति / आगमापायौ पर्यायः / किमागमापायिनामवयवानामात्मत्वमस्ति न वा / आद्ये आह-#विकारादिदोषेति / को ऽसौ बन्धमोक्षाभ्युपगम इत्यत आह-#कर्माष्टकेति / व्याख्यातमेतत् / आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति-#किञ्चेति / अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः / यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह-#किञ्चेति / सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः / किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तो ऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह-#किञ्चेति / अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम्, अवयवसमूहत्वे चासत्त्वं, आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापाये ऽपि सद्यः शरीरस्याचेतनत्वं, गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति-#अत इति / सूत्रस्यार्थान्तरमाह-#अथवेति / स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्संतानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः / पर्यायेणेत्यस्य व्याख्या#स्रोत इति / देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि / स्रोतः प्रवाहः /
SK
तदात्मकस्यात्मव्यक्तिसंतानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह-#यथेति / सिग् वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः / पर्यायात् संतानादप्यात्मनित्यत्वस्याविरोध इति न च / कुतः / विकारादिभ्यः / संतानस्यावस्तुनः आत्मत्वे शून्यवादः, संतानस्य वस्तुत्वे संतान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात् संतानात्मपक्षो ऽनुपपन्न इति सूत्रार्थः
SK
END Bस्Rप्_२,२.६.३५
SK
START Bस्Rप्_२,२.६.३६ः
SK
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः | BBस्_२,२.३६ |
SK
यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति-#अन्त्येति / अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना / आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात्, अन्त्यपरिमाणवत् / न चाप्रयोजकता, परिमाणनाशे सत्यात्मनो ऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः / परिमाणत्रयसाम्यापादानफलमाह-#एकेति / अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरारप्राप्तावात्मनःस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः / पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् / संप्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् प्रागसतो नित्यत्वायोगात्, तथा चाविशेषः कालत्रये ऽपि जीवपरिमाणाभेद इत्याह-#अथवेति / तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम्
SK
END Bस्Rप्_२,२.६.३६
SK
START Bस्Rप्_२,२.७.३७ः
SK
पत्युर् असामञ्जस्यात् | BBस्_२,२.३७ |
SK
#पत्युरसामञ्जस्यात् / लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसंगतिमाह-#इदानीमिति / सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते-#तदिति / स्वोक्तिविरोधान्मैवमित्याह-#प्रकृतिश्चेत्यादिना / प्रतिष्ठापितत्वात् केवलनिमित्तेश्वरप्रतिषेधो ऽवगम्यत इत्यन्वयः / व्याहतोविरुद्धो ऽभिव्याहार उक्तिर्यस्य स तथा / अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो नप्रकृतिरिति शैवादिमतेन विरोधो ऽस्ति न वेति संदेहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्तद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्वासत्वयोरेकत्रासंभववत् कर्तृत्वोपादानत्वयोरप्येकत्रासंभवात् कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह-#सा चेति / सेश्वरः सांख्याः सांख्यशब्दार्थः / चत्वारो मादेश्वराः-शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति / सर्वो ऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते / कार्यं महदादिकं, कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः / पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः / पाशुपतागमप्रमाण्यात् पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह-#तथेति / विमतं सकर्तृकं, कार्यत्वात्, घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति / कर्मफलं सपरिकराभिज्ञदातृकं, कालान्तरभाविफलत्वात्, सेवाफलवदिति गौतमा दिगम्बराश्च / ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात्, परिमाणवदिति सांख्यसौगतपातञ्जला इति मत्वोक्तम्-#केचित्कथञ्चिदिति / सिद्धान्तयति-#अत इति / आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह-#किमिति / न तावत् स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् / नच सर्वज्ञानं मूलं, तत्र मानाभावात् / न चागम एव मानम्, आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् / नच पुरुषवचसां स्वतोमानत्वं युक्तं, मिथो विरोधेन तत्त्वाव्यवस्थानाच्च / नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः संभवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् / तथाच लोके यादृशाः कर्तारो दृष्टान्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः / यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शने ऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यतां, कर्तुरेवोपादानत्वेन लाघवात्, अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् / अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् / अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्देषेश्वरनिर्णयः / निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यं, तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह-#हीनेति / यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् / न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्देषत्वादावुदासीनत्वात् / न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात्, दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च / दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः / यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवो ऽपि स्यादिति / न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः / ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते-#प्राणीति / जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह-#नेति / न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह-#कर्मेति / अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते-#नानादित्वादिति / अतीतकर्मणो ऽपि जडत्वान्नेश्वरप्रेरकता / नच तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् / ततो ऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयति चेत् / न / मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् / अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः / यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति / तन्न / विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात्, पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् / अस्माकं तु ऽएष ह्येव साध्वसाधु कारयतिऽइति, ऽनिरवद्यम्ऽइति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् / किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह-#अपिचेति / प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथाचेश्वरः स्वार्थे रागादिमान्, प्रवर्तकत्वात्, संमतवत् / नच कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः / उदासीनः प्रवर्तक इति च व्याहृतमिति योगान्प्रत्याह-#पुरुषेति
SK
END Bस्Rप्_२,२.७.३७
SK
START Bस्Rप्_२,२.७.३८ः
SK
संबन्धानुपपत्तेश् च | BBस्_२,२.३८ |
SK
प्रधानवादे दोषान्तरमाह सूत्रकारः-#संबन्धेति / ईश्वरेणासंबद्धस्य प्रधानादेः प्रेर्यत्वायोगात्संबन्धो वाच्यः / स च संयेगः समवायो वा नास्तीत्यर्थः / कार्यबलात् प्रेरणयोग्यात्वाख्यः संबन्धः कल्प्यतामित्यत आह-#नाप्यन्य इति /
SK
ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत् संबन्धकल्पना स्यात् / तच्चाद्याप्यसिद्धमित्यर्थः / मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसंबन्धः, ऽदेवात्मशक्तिम्ऽइति श्रुतेः / किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसंबन्धो वैदिकेनानुसर्तव्यः / आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह-#अपिचेति / सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् / न ह्यमनस्कस्य ज्ञानं संभवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः / प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह-#एवमन्यास्वपीति
SK
END Bस्Rप्_२,२.७.३८
SK
START Bस्Rप्_२,२.७.३९ः
SK
अधिष्ठानानुपपत्तेश् च | BBस्_२,२.३९ |
SK
ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः-#अधिष्ठानेति / प्रधानादिकं चेतनस्यानधिष्ठेयं, अप्रत्यक्षत्वात्, ईश्वरवत्, व्यतिरेकेण मृगादिवच्चेत्यर्थः
SK
END Bस्Rप्_२,२.७.३९
SK
START Bस्Rप्_२,२.७.४०ः
SK
करणवच् चेन् न भोगादिभ्यः | BBस्_२,२.४० |
SK
चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति-#करणवदिति / रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति-#रूपेति / स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह-#तथापीति / भोगः सुखदुःखानुभवः / आदिपदाद्विषयानुभवग्रहः / नच यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यं, भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात्, करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् / नच विशेष्यवैयर्थ्यं, परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् / नच प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः / जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः / विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति-#करणेति / प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् / अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः / सूत्रद्वयस्यार्थान्तरमाह-#अन्यथा वेति / यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह-#इतश्चेति / किमतं सेश्वरं, कार्यत्वात्, राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् / तत्रेष्टापत्तिं निरस्यति-#नच तद्वर्णयितुमिति / नच नित्यं शरीरं सर्गात्प्रागपि संभवतीति वाच्यं, शरीरस्य भौतिकत्वनियमादित्यर्थः / अस्त्वशरीर एवेश्वर इत्यत आह-#निरधिष्ठानत्वे #चेति / जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति-#करणवदिति / करणान्यत्र सन्तीति करणवच्छरीरम् / इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम्
SK
END Bस्Rप्_२,२.७.४०
SK
START Bस्Rप्_२,२.७.४१ः
SK
अन्तवत्त्वम् असर्वज्ञता वा | BBस्_२,२.४१ |
SK
एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयो ऽपि न संभवतीत्याह सूत्रकारः-#अन्तवत्वमिति / प्रधानपुरुषेश्वरत्रयमनित्यं, इयत्तापरिच्छिन्नत्वात् घटवदित्याह-#पूर्वस्मिन्निति / संख्या वा परिमाणं वेयत्ता / तथाच निश्चितसंख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् / यद्यपि संख्यावत्वमात्रं हेतुः संभवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् / तत्राद्यहेतोरसिद्धिर्नास्तीत्याह-#संख्यापरिमाणमिति / संख्यास्वरूपमित्यर्थः / द्वितीयहेतुं साधयति-#स्वरूपेति / प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात्, घटवदित्यर्थः / ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञाते ऽपि जीवानामानन्त्यात्कथं संख्यानिश्चयः, तत्राह-#पुरुषेति / जीवसंख्यापीश्वरेण निश्चीयते / अनिश्चये सर्वज्ञत्वायोगादित्यर्थः / हेतुसिद्धेः फलमाह-#ततश्चेति / माषराशिवत्केषाञ्चिज्जीवानां संघस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः / नित्यस्यानवशेषादिति भावः / ननु ईश्वरः शिष्यतामिति चेत् / न / तस्यापि भिन्नित्वेनान्तवत्त्वात् / किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह-#प्रधानमिति / दोषान्तरमाह-#प्रधानेति / इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते-#अथेति / इयत्ता नास्ति न निश्चीयते चेत्यर्थः / प्रदानादयः संख्यापरिमाणवन्तः, द्रव्यत्वात्, माषादिवदित्यनुमानादादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति-#तत इति / तस्मात् केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न तर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम्
SK
END Bस्Rप्_२,२.७.४१
SK
START Bस्Rप्_२,२.८.४२ः
SK
उत्पत्त्यसंभवात् | BBस्_२,२.४२ |
SK
पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति-#उत्पत्त्यसंभवात् / अधिकरणतात्पर्यमाह-#येषामिति / अधिकरणारम्भमाक्षिपति-#नन्विति / वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह-#उच्यत इति / अत्र भागवतपञ्चरात्रागमो विषयः / स किं जीवोत्पत्त्याद्यंशे मानं नवेति संदेहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति-#तत्रेति / पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः / सावयवत्वं निरस्यति-#निरञ्जनेति / कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह-#स इति / व्यूहो मूर्तिः / सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह-#तमित्थंभूतमिति / यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् / वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् / पूजाद्रव्याणामर्जनमुपादानम् / इज्या पूजा / स्वाध्यायो ऽष्टाक्षरादि जपः / योगो ध्यानम् / तत्राविरुद्धांशमुपादत्ते-#तत्रेति / ऽसमाहितः श्रद्धावित्तो भूत्वाऽइति, ऽतं यथा यथोपासतेऽइत्याद्या च श्रुतिः / ऽमत्कर्मकृन्मत्परमःऽइत्याद्या स्मृतिः / विरुद्धांशमनूद्य दूषयति-#यत्पुनरिति / कृतहान्यादिदोष आदिशब्दार्थः / न्यायोपेतया ऽअज आत्माऽइत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः
SK
END Bस्Rप्_२,२.८.४२
SK
START Bस्Rप्_२,२.८.४३ः
SK
न च कर्तुः करणम् | BBस्_२,२.४३ |
SK
जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति-#नच कर्तुरिति / यस्मात् कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसंगता कल्पनेत्यन्वयः / सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः / वर्णनं निर्मूलमित्याह-#नवेति / ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् / सत्यम् / शिल्प्नो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तं, जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् / विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः
SK
END Bस्Rप्_२,२.८.४३
SK
START Bस्Rप्_२,२.८.४४ः
SK
विज्ञानादिभावे वा तदप्रतिषेधः | BBस्_२,२.४४ |
SK
संकर्षणादीनामुत्पत्त्यसंभवे ऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते-#अथापि स्यादिति / ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यं, बलं शरीरसामर्थ्यं, वीर्यं शौर्यं, तेजः प्रागल्भ्यमेतैरन्विता यस्मात्संकर्षणादयस्तस्मादीश्वरा एवेत्यर्थः / सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह-#वासुदेवा एवेति / निर्देषा रागादिशून्याः / निरधिष्ठानाः प्रकृत्यजन्याः / निरवद्या नाशादिरहिता इत्यर्थः / ईश्वरत्वाज्जन्मासंभवो गुण एवेत्याह-#तस्मादिति / सूत्रेण सिद्धान्तयति-#अत्रेति / एवमपि / चतुर्णामीश्वरत्वेन विज्ञानशक्यादिभावे ऽपीत्यर्थः / प्रकारान्तरं पृच्छति-#कथमिति / किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः / आद्यमनूद्य दूषयति-#यदीत्यादिना / द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा / आद्यमुत्थाप्य निषेधति-#अथेत्यादिना / न्यूनत्वपक्षे ऽपसिद्धान्तमाह-#नच पञ्चेति / यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह-#नचैत इति
SK
END Bस्Rप्_२,२.८.४४
SK
START Bस्Rप्_२,२.८.४५ः
SK
विप्रतिषेधाच् च | BBस्_२,२.४५ |
SK
इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः-#विप्रतिषेधाच्चेति / स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् / आदिपदात् प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः / पूर्वापरविरोधादसांगत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह-#वेदेति / एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्यो ऽधिक इति निन्दादिपदार्थः / तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम्
SK
END Bस्Rप्_२,२.८.४५
SK
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य द्वितीयः पादः
SK
#इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयः पादः
SK
#द्वितीयाध्याये तृतीयः पादः /
SK
वियदादिविधातारं सीतास्याब्जमधुव्रतम् / नित्यचिद्धिवश्वकर्त्रात्माभिन्नं सर्वेश्वरं भजे
SK
START Bस्Rप्_२,३.१.१ः
SK
न वियदश्रुतेः | BBस्_२,३.१ |
SK
जीवस्यानुत्पत्तिप्रसङ्गेनाकाशस्याप्युत्पत्त्यसंभवमाशङ्क्य परिहरन्नादावेकदेशितमाह-#न वियदश्रुतेः / वियत्प्राणापादयोरर्थं संक्षिपन् पूर्वपादेन संगतिमाह-#वेदान्तेष्विति / भिन्नोपक्रमत्वमेवाह-#केचिदित्यादिना / भूतभोक्तृश्रुतीनां मिथोविरोधशङ्कानिरासो वियत्पादार्थः / लिङ्गशरीरश्रुतीनां तन्निरासः प्राणपदार्थः / यथा मिथोविरोधात् पूर्वापरविरोधाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षो ऽपि उपेक्ष्य इति शङ्कोत्थाने पादद्वयस्यारम्भात् पूर्वपादेन दृष्टान्तसंगतिरिति समुदायार्थः / आकाशवाय्वोरुत्पत्तिमामनन्ति तैत्तिरीयकाः / नामनन्ति छन्दोगाः / जीवस्य प्राणानां चोत्पत्तिं ऽसर्व एत आत्मनो व्युच्चरन्तिऽइति वाजिनः / ऽएतस्माज्जायते प्राणःऽइत्याथर्वणिकाश्चामनन्ति नान्ये / एवमाकाशपूर्विका क्वचिच्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः / आदिपदात् ऽस इमांल्लोकानसृजतऽइत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचिदष्टावित्यादि संख्याद्वारकश्च विरोधो ग्राह्यः / प्रपञ्चः पादद्वयम् / तथाच पादद्वयस्य श्रुतीनां मिथोविरोधनिरासार्थत्वाच्छ्रुतिशास्त्राध्यायसंगतयः सिद्धाः / अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधो ऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां संदेहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिक्षमेकदेशि गृह्णातीत्याह-#तत्र तावदिति / उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसंधिः
SK
END Bस्Rप्_२,३.१.१
SK
START Bस्Rप्_२,३.१.२ः
SK
अस्ति तु | BBस्_२,३.२ |
SK
संप्रति पूर्वपक्षयति सूत्रकारः-#अस्ति त्विति / एकवाक्यत्वेन प्रामाण्यसंभवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते-#नन्वेकवाक्यतेति / एकवाक्यत्वासंभवादप्रामाण्यं युक्तमित्याह-#सत्यमित्यादिना / एकस्य युगपत्कार्यद्वयासंबन्धे ऽपि क्रमेण संबन्धसंभवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते-#ननु सकृदिति / अप्रामाण्यवादी दूषयति-#नैवमिति / क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः / एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह-#नचेति / वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः / छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह-#एतेनेति / एतत्पदार्थमाह-#तस्मादिति / छान्दोग्ये ऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः / किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह-#वायोरिति
SK
END Bस्Rप्_२,३.१.२
SK
START Bस्Rप्_२,३.१.३ः
SK
गौण्यसंभवात् | BBस्_२,३.३ |
SK
एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह-#अस्मिन्निति / एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् / तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्ययोगाद्वियदुत्पत्त्यसंभवरूपतक्रानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति-#नास्तीत्यादिना / आकाशो नोत्पद्यते सामग्रीशून्यत्वात्, आत्मवत् / न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च / संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः / प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह-#उत्पत्तिमतां चेति / प्रकाशश्चाक्षुषानुभवः /
SK
आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् / मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यं, तच्च प्रलये ऽप्यस्ति परमाण्वाश्रयत्वात् / अतो न प्रागभाव इत्यर्थः / प्रागभावसत्त्वं स्फुटयति-#किं हीति / स्थूलाश्रयो ऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः / किञ्चात्मवदाकाशो न जायते, विभुत्वात्, अस्पर्शद्रव्यत्वाच्चेत्याह-#पृथिव्यादीति / तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः / भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह-#वेदे ऽप्यारण्यानिति / आकाशेष्विति भेदव्यपदेशो गौण इति संबन्धः
SK
END Bस्Rप्_२,३.१.३
SK
START Bस्Rप्_२,३.१.४ः
SK
शब्दाच्च | BBस्_२,३.४ |
SK
न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितो ऽपीत्याह-सूत्रकारः-#शब्दाच्चेति / नित्यभावस्यानादित्वादिति / भावः / आत्मेति च शब्द इहोदाहरणमित्यन्वयः / आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः
SK
END Bस्Rप्_२,३.१.४
SK
START Bस्Rप्_२,३.१.५ः
SK
स्याच् चैकस्य ब्रह्मशब्दवत् | BBस्_२,३.५ |
SK
#पदोत्तरमिति / शङ्कोत्तरमिति यावत् / तान्येव शङ्कापदानि पठति-#स्यादेतदिति / अधिकारे प्रकरणे / यथैकस्मिन्ब्रह्मप्रकरणे ऽअन्नं ब्रह्मऽऽआनन्दो ब्रह्मऽइति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि संभूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह-#स्याच्चेति / उदाहरणान्तरमाह-#यथा चेति / अभेदोपचारो भक्तिः / मुख्यसिद्धान्त्याक्षिपति-#कथं पुनरिति / स एवाक्षेपद्वयं स्पष्टयति-#नन्विति / अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः / प्रथमाक्षेपं दृष्टान्तेन परिहरति-#एकमेवेति / कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यार्थ इत्यर्थः / कुले गृहे / अमत्राणि घटादीनि पात्राणि / एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह-#अद्वितीयश्रुतिरिति / आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसंकोचः कृतः, तदपि नास्तीत्याह-#नच नभसापीति / धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह-#सर्गकाले त्विति / धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह-#तथा चाकशेति / द्वितीयमाक्षेपं परिहरति-#अत एवेति / अभेदोपचारादेवेत्यर्थः / नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह-#अपिचेति
SK
END Bस्Rप्_२,३.१.५
SK
START Bस्Rप्_२,३.१.६ः
SK
प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः | BBस्_२,३.६ |
SK
एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति-#प्रतिज्ञेति / अहानिरबाधः / सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः / #न काचनेति /
SK
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः / ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात्, किमुत्पत्त्येत्यत आह-#शब्देभ्यश्चेति / अव्यतिरेक एव न्यायस्तेनेत्यर्थः / अयं भावः-जीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः / अज्ञानतत्संबन्धयोः कल्पितत्वेनाव्यतिरेकः / स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् / तथाहुर्न्यायविदः-ऽनित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानिऽइति / तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह-#तथा हीति / तेन तेन दृष्टान्तेनेति / यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः / यजुषि प्रतिज्ञासाधका ऽइदं सर्वम्ऽइतिशब्दाः, आथर्वणे ऽब्रह्मैवेदम्ऽइति शब्दा इति भावः / एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति-#सत्यं दर्शितमिति / मुख्यसिद्धान्त्याह-#न / एकेति / ऽतत्तेजो ऽसृजतऽइति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्संबन्धे तित्तिरिक्रमबाधात्, क्रमेणाकाशं सृष्ट्वा तेजो ऽसृजतेति संबन्धे तेजःप्राथम्यभङ्गप्रसङ्गात्, वस्तुनि विकल्पासंभवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात्, नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति-#नैष दोष इति / अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनं, तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यं, बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् / छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् / तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः / यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् / किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुच्पत्तिश्चेत्युभयपरा / आद्ये न तद्वारणमित्याह-#नहीति / अविरोधादित्यर्थः / न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह-#एकस्येति / नन्वेकस्य स्रष्टुरनेकार्थसंबन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आ-#स्रष्टा त्विति / एकस्य कर्तुरनेकार्थसंबन्धो दृष्टः / न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् / नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव / आनयनस्य जलक्षीराभ्यां पृथक्संबन्धादित्यर्थः / फलितमाह-#इत्येकेति / एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसंबन्धार्थमावृत्तिदोषः स्यादित्यत आह-#नचेति / छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकं, तेजोजन्मत्वात्, तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे ऽतदाकाशमसृजतऽइति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः / श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह-#यथाचेति / सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते-#नन्वित्यादिना / तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम्, आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह-#नेत्युच्यत इति / किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह-#नहीति / किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् / नाद्य इत्याह-#अपिचेति / द्वितीयमनूद्य दूषयति-#अर्थात्त्विति / यदुक्तं वस्तुनि विकल्पासंभवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति,
SK
नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह-#विकल्पेति / न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह-#अपिचेति / वियदुपसंग्राह्यमित्यन्वयः / वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति-#यच्चोक्तमित्यादिना / प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः / उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः / मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसंभवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह-#नच वेदस्येति / माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् / आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते / प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह-#सावधारणेति / सर्वद्वैतनिषेधपरेत्यर्थः / उभयगौणत्वे ऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह-#नचेत्यादिना
SK
END Bस्Rप्_२,३.१.६
SK
START Bस्Rप्_२,३.१.७ः
SK
यावद्विकारं तु विभागो लोकवत् | BBस्_२,३.७ |
SK
कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह-#यत्पुनरित्यादिना / यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह-#न त्वविकृतमिति / दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह-#एतेनेति / विभक्तत्वेनेत्यर्थः / आत्मनि व्यभिचारं शङ्कते-#नन्विति / धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह-#नेति / अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम्, अतो नाज्ञानतत्संबन्धादौ व्यभिचारः / नन्वात्मा कार्यः, विभक्तत्वात्, वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वं, नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह-#आत्मन इति / इष्टप्रसङ्ग इति वदन्तं प्रत्याह-#आत्मात्वादिति / आत्माभावः केनचिज्ज्ञायते न वा / आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता / द्वितीये ऽपि न शून्यता मानाभावादित्यर्थः / किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम्, आत्मा त्वकार्थो निरपेक्षत्वान्न बाधयोग्य इत्याह-#नह्यात्मेत्यादिना / कस्यचित्कारणस्यागन्तुकः कार्यो न हि / सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः / तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति-#नहीति / यदुक्तं सुरेश्वराचार्यैः-ऽप्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा / यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते / ऽइति / यथा श्रुतिराह-ऽपुरुषः स्वयं ज्योतिःऽ, ऽतस्य भासा सर्वमिदं विभातिऽइति च / नन्वात्मनः स्वतः सिद्धो प्रमाणवैयर्थ्यं, तत्राह-#तस्येति / ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह-#नहीति / अतो न प्रमाणवैयर्थ्यमिति भावः / आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह-#आत्मा त्विति / अयमर्थः-निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकं, गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् / ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् / नापि ज्ञानान्तरात् अनवस्थानात् / अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः / तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् / अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति / स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह-#नचेति / जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपं, तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात्, स्वस्य च स्वनिराकर्तृत्वायोगात् / नहि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः / एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह-#तथाहमेवेति / ज्ञानज्ञेययोः सत्ताव्यभिचारे ऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः / मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह-#तथेति / उच्छेदो विनाशः / अन्यथास्वभावत्वं मिथ्यात्वं वा संभावयितुमपि न शक्यम्, अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः / एवमात्मनः शून्यत्वविरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तं, ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह-#एवमिति / अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यदृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह-#कार्यत्वं चेति / आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति-#यत्त्वित्यादिना / किं कारणमात्रस्य साजात्यनियम उत समवायिनः / तत्राद्यं निरस्य द्वितीयं शङ्कते-#स्यादेतदिति / किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना / नाद्य इत्याह-#तदपीति / नच रज्जवादि न द्रव्यान्तरमिति वाच्यं, पटादेरपि तथात्वापातात् / द्वितीयो ऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह-#सत्त्वेति / उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति-#नापीत्यादिना / किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य / नाद्य इत्याह-#अण्विति / द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म / यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह-#एकैको हीति / द्रव्यान्तरैः / समवायिभिरित्यर्थः / द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति-#द्रव्येत्यादिना / न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः / यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति / तन्न / क्षीरनाशे मानाभावात्, रसवद्दध्नो ऽप्येकद्रव्यारभ्यत्वसंभवाच्च, द्रव्यगुणसंकेतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः / लोके कर्तु- सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह-#तथाचोक्तमिति / प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह-#यच्चोक्तमित्यादिना / शब्दाश्रयत्वं विशेषः / शब्दादिमानाकाशः प्रलये नास्ति, ऽनासीद्रजो नो व्योमऽइति श्रुतेः / नन्वाकाशाभावे काठिन्यं स्यादिति चेत् / सुशिक्षितो ऽयं नैयायिकतनयः / न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तसंयोगविशेषो वा काठिन्यं, तच्च प्रलये नास्तीति भावः / ऽआकाशशरीरं ब्रह्मऽइति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह-#यथाचेति / विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः / विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह-#यदपीत्यादिना / धर्मिविकारभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् / गुणाश्रयत्वमेव हेतुः / तच्च स्वसमानसत्ताकगुणवत्त्वम्, अतो निर्गुणात्मनि न व्यभिचारः / भूतत्वमादिशब्दर्थः /
SK
स्वरूपासिद्धिमप्याह-#विभुत्वादीनां चेति / सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति / संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च / स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समं, ऽज्यायानाकाशात्ऽइति श्रुतेः / क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसंबन्धेन व्यपदिश्यते / असक्तत्वेन वा / पञ्चीकरणादस्पर्शत्वमसिद्धं, कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धं, द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः / नित्य इत्यंशेन साम्यं न विवक्षितम् / ननु ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्माऽइति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते,
SK
नेत्याह-#एतेनेति / आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः / श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः / न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह-#ज्यायानिति / मुख्योपमानासत्त्वे श्रुतिः-ऽन तस्यऽइति / तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः / अनित्यत्वेनासत्त्वे श्रुतिमाह-#अतो ऽन्यदिति / यत्त्वेकस्यैव संभूतशब्दस्य गौणत्वं मुख्यत्वं चेति / तन्न / आकाशे ऽपि तस्य मुख्यत्वसंभवादित्याह-#तपसीति / बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति-#तस्मादिति
SK
END Bस्Rप्_२,३.१.७
SK
START Bस्Rप्_२,३.२.८ः
SK
एतेन मातरिश्वा व्याख्यातः | BBस्_२,३.८ |
SK
#एतेन मातरिश्वा व्याख्यातः / अतिदेशत्वान्न पृथक्संगत्याद्यपेक्षा / ऽतत्तेजो ऽसृजतऽइति श्रुतेः / ऽआकाशाद्वायुःऽइति श्रुत्या विरोधो ऽस्ति न वेति एकवाक्यत्वभावाभावभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति-#तत्रापीत्यादिना / पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितं, तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह-#ततश्चेति / अस्तमयप्रतिषेधो मुख्योत्पत्त्यसंभवे लिङ्गम् / ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽइति तस्यैव लिङ्गस्याभ्यासः / ऽवायुरेव व्यष्टिः समष्टिश्चऽइति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः / तथा संवर्गविद्यायां ऽवायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरतिऽइति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् / एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथाचाकाशं वायुं च सृष्ट्वा तेजो ऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः / लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह-#प्रतिज्ञेत्यादिना / कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा / अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कमाह-#नन्वित्यादिना / ऽवायुर्ह्येवैतान्सवार्न्संवृङ्क्तेऽइत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् / तामेव शङ्कामाह-#संवर्गेति / व्यष्टिसमष्ट्युपास्तिः ऽवायुं दिशां वत्सं वेदऽइत्युपास्तिश्चादिशब्दार्थः
SK
END Bस्Rप्_२,३.२.८
SK
START Bस्Rप्_२,३.३.९ः
SK
असंभवस् तु सतो ऽनुपपत्तेः | BBस्_२,३.९ |
SK
असंभवस्तु सतो ऽनुपपत्तेः / ऽअनाद्यनन्तं महतः परं ध्रुवम्ऽ, ऽन चास्य कश्चिज्जनिताऽइत्यादि ब्रह्मानादित्वश्रुतीनां ऽत्वं जातो भवसि विश्वतोमुखःऽइत्युत्पत्तिश्रुत्या विरोधो ऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां संदेहे ऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसंगत्या एकदेशिपक्षं प्रापयति-#वियदिति / ब्रह्म कुतश्चिज्जायते, कारणत्वात्, आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह-#तथेति / न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः / तथाच दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह-#तामिति / ब्रह्म न च जायते, कारणशून्यत्वात्, नरविषाणवत्, व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षेचाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् / न हेत्वसिद्धिः, कारणस्यानिरूपणात् / तथाहि-किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा / न त्रेधापीत्याह-#सन्मात्रं हीत्यादिना / दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् / वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभ्यां च वैषम्यम् / कारणत्वलिङ्गस्याप्रामाणिकानवस्था / तर्केणापि बाधमाह-#नच विकारेभ्य इत्यादिना / कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमे ऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः
SK
END Bस्Rप्_२,३.३.९
SK
START Bस्Rप्_२,३.४.१०ः
SK
तेजो ऽतस् तथा ह्य् आह | BBस्_२,३.१० |
SK
#तेजो ऽतस्तथाह्याह / ऽतत्तेजो ऽसृजतऽइति ऽवायोरग्निःऽइति च श्रुत्योर्विरोधो ऽस्ति न वेति संदेहे सामान्यात्सामान्योत्पत्त्यसंभवे ऽपि ब्रह्मवाय्वोः सामान्योस्तेजोरूपविशेषोपादानत्वसंभवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः / सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासंभवासंभवौ संशयबीजम् / पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलं, सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् / एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति-#प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना / श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् / तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते / सिद्धान्तयति-#एवं प्राप्त इति / कदर्थिता / बाधितार्थेति यावत् / वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितं, नच कल्पितस्योपादानत्वासंभवः, अधिष्ठानत्वासंभवे ऽपि मृदादिवत्परिणामित्वसंभवात्, स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् / नच ऽबहु स्याम्ऽइति कार्याभेदे क्षणिलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् / नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः / #इहाधिकारादिति / वायोरग्निः संभूत इति वाक्ये संबन्धादित्यर्थः / तदधिकारे संभूत्यधिकारे / निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह-#अपिचेति / ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः / प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति / विशेषतो ऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः / पारम्पर्यजत्वमेवाह-#यदापीति / तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः / दधिसंसृष्टं कठिनक्षीरमामिक्षा / ब्रह्मणे वायुभावे मानमाह-#दर्शयति चेति / पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह-#तथाचेति / अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह-#यद्यपीत्यादिना / प्रनाड्या परंपरयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः /
SK
एतत्पदार्थमाह-#तासामिति / ऽतज्जलान्ऽइत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः / अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजः-कारणे ब्रह्मणि इति सिद्धम्
SK
END Bस्Rप्_२,३.४.१०
SK
START Bस्Rप्_२,३.५.११ः
SK
आपः | BBस्_२,३.११ |
SK
#आपः / अतिदेशो ऽयम् / तथा ह्याथर्वणे मुण्डकग्रन्थे ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच / खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽइति मन्त्रे ऽपां ब्रह्मजत्वं श्रुतम् / ऽअग्नेरापःऽइति श्रुत्या तस्य विरोधो ऽस्ति न वेति संदेहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासंभवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्क्यामुक्तेजोन्यायमतिदिश्य व्याचष्टे-#अत इति / प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह-#सति वचन इति / त्रिवृत्कृतयोरप्तेजसोर्विरोधे ऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः / न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूचतोत्पत्तिक्रमनिर्णयार्थं चेत्याह-#तेजसस्त्विति / तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम्
SK
END Bस्Rप्_२,३.५.११
SK
START Bस्Rप्_२,३.६.१२ः
SK
पृथिव्य् अधिकाररूपशब्दान्तरेभ्यः | BBस्_२,३.१२ |
SK
#पृथिव्यधिकाररूपशब्दान्तरेभ्यः / विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह-#ता इति / अभ्यवहार्यं भक्ष्यम् / अत्र श्रुतौ यद्यन्नमोदनादिकं तदा ऽअद्भ्यः पृथिवीऽइति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् / अत्पृथिव्योः कार्यकारणभावादधिकरणसंगतिः / अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः / तदेव तत्रैवेति श्रुत्यर्थः / तथाच क्वचिदन्नं क्वचिदद्भयः पृथिवी ततो ऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति-#एवं प्राप्त इति / अधिकारः प्रकरणम् / रूपं लिङ्गम् / पयः क्षीरं तद्वत्पाण्डुरं श्वेतम्, अङ्गारवद्रोहितं रक्तम् / शब्दान्तरशब्दितं स्थानं व्याचष्टे-#श्रुत्यन्तरमपीति / अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः / तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्धनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः / व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह-#पृथिव्यास्त्विति / पञ्चमीयम् / वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह-#वाक्यशेषो ऽपीति / प्रबलदुर्बलप्रमाणसंनिपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते / ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः / अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते / पृथिव्यब्जा, पृथिवीत्वात्, अन्नवदित्यनुमानादित्यक्षरार्थः / एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम्
SK
END Bस्Rप्_२,३.६.१२
SK
START Bस्Rप्_२,३.७.१३ः
SK
तदभिध्यानाद् एव तु तल्लिङ्गात् सः | BBस्_२,३.१३ |
SK
संप्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसंगत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति-#तदभिध्यानादेव तु तल्लिङ्गात्सः / उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति-#किमिमानीत्यादिना / संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् / नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा / नाद्यः, ऽरचनानुपपत्तेःऽइत्यादिन्यायविरोधादिति शङ्कते-#नन्विति / न द्वितीयः, अचेतनत्वादिति भावः / यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा ऽआकाशाद्वायुःऽइत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः / एवं ऽतदात्मानं स्वयमकुरुतऽइति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणो ऽन्यानपेक्षसर्वकर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं श्रुतम् / तथाच मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह-#नैष दोष इति / भूतानां तदभिमानिदेवतानामित्यर्थः / यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः / स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः / मुख्यसिद्धान्तमाह-#एवं प्राप्त इति / आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात् पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात्, तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् / यद्यपि देवतानां कर्तृत्वं संभवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यं, किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम्-#तल्लिङ्गादिति / तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वे ऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः / प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह-#तथेति / पूर्वोक्तमनूद्य निरस्यति-#यत्त्विति / परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः / अनेन ऽतदभिध्यानात्ऽइति पदं व्याख्यातम् / इत्थं सूत्रयोजना-स ईश्वरस्तत्तदात्मना स्थितो ऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् / जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति / तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह-#नान्य इति / तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम्
SK
END Bस्Rप्_२,३.७.१३
SK
START Bस्Rप्_२,३.८.१४ः
SK
विपर्ययेण तु क्रमो ऽत उपपद्यते च | BBस्_२,३.१४ |
SK
#विपर्ययेण तु / यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसंगतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसंगती इति मत्वाह-#भूतानामिति / अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलेम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलं, पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः / सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह-#त्रयो ऽपीति / अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः / सति कारणे कार्यं नश्यतीति लोके दृश्यते / तथाच श्रौतो ऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च / कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् / न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकिकक्रमावरोधेन निराकाङ्क्षात्वादिति सिद्धान्तयति-#ततो ब्रूम इत्यादिना / क्रमेण परम्परया सर्वकार्यलयाधारत्वं ब्रह्मणः किमित्याश्रीयते, साक्षादेव तत्किं न स्यादित्यत आह-#नहि स्वकारणव्यतिक्रमेणेति / घटनाशे मृदनुपलब्धिप्रसङ्गादित्यर्थः / ऽवायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयतेऽइति स्मृतिशेष आदिपदार्थः / ऽयोग्यताधीनः संबन्धःऽइति न्यायादयोग्यक्रबाध इति सिद्धम्
SK
END Bस्Rप्_२,३.८.१४
SK
START Bस्Rप्_२,३.९.१५ः
SK
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् | BBस्_२,३.१५ |
SK
#अन्तराविशेषात् / उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां संदेहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह-#भूतानामित्यादिना / करणान्येव न सन्तीति वदन्तं प्रत्याह-#सेन्द्रियस्येति / ऽमनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सःऽ, ऽश्रोत्रादीनीन्द्रियाण्यन्येऽइति स्मृतिर्द्रष्टव्या / अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते / करणानां क्रमाकाङ्क्षामाह-#तयोरिति / आकाङ्क्षायांश्रुतिसिद्धः क्रमो ग्राह्य इत्याह-#अपिचेति / विज्ञायते ऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः / आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् ऽएतस्माज्जायते प्राणो मनःऽइत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते / तथाच करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः / नच करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यं, तेषां भौतिकत्वे मानाभावात् / तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् / सिद्धान्तयति-#नेति / ऽआत्मन आकाशःऽइत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति / न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः / किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह-#यदीति / नच प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यं, करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् / प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशेन वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः / यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः / ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक् तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह-#व्यपदेशो ऽपीति / प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह-#अथ त्विति / करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः / न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः / तर्हि कथं क्रमनिर्णयः, तत्राह-#तथेति / इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मासीत् अत्र सूक्ष्मभूतात्मकप्रजापत्तिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः / एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति-#तस्मादिति
SK
END Bस्Rप्_२,३.९.१५
SK
START Bस्Rप्_२,३.१०.१६ः
SK
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् | BBस्_२,३.१६ |
SK
#चराचरभावित्वात् / एवं तावत्तत्पदवाच्यकारणनिर्णयाय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पादमाप्तेस्त्वंपदार्थशुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते / इह जीवो ऽन जायते म्रियतेऽइत्यादिश्रुतेर्जातेष्टिश्राद्धशास्त्रेण विरोधो ऽस्ति न वेति संदेहे विरोधो ऽस्तीति प्राप्ते लौकिकजन्मादिव्यपदेशसहायाज्जातेष्ट्यादिशास्त्रेण जीवाजत्वादिश्रुतिर्बाध्यत इति पूर्वपक्षयति-#स्त इति / तथाच करणोत्पत्तिक्रमेण भूतक्रमस्य बाधाभावे ऽपि जीवोत्पत्तिक्रमेण बाधः स्यादिति प्रत्युदाहरणसंगतिः / पूर्वपक्षे जीवब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः / चेतनजन्माद्युद्देशेन चेतनस्य तस्य जन्मान्तरीयफलसाधनं जातकर्मादिसंस्कारो विधीयते / तथा चोद्देश्यविधेययोर्मिथोविरोधे सति ऽविधेयाविरोधेनोद्देश्यं नेयम्ऽइति न्यायाज्जन्मादिकं देहोपाधिकं न स्वत इति सिद्धान्तयति-#तामित्यादिना / जीवापेतं जीवेन त्यक्तमिदं शरीरम् / जन्मादिव्यपदेशश्चराचरदेहविषयो मुख्यः / जीवे तु भाक्तो गौण औपाधिकजन्मादिविषयः स्यादुपाधिजन्मभावे भावादसत्यभावादिति सूत्रार्थः / जीवस्यौपाधिकजन्ममृत्यौ श्रुतिमप्याह-#स वा इति / जायमानपदार्थमाह-#शरीरमिति / म्रियमाणत्वं व्याचष्टे-#उत्क्रामन्निति / ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह-#जीवस्येति / तदेवं जातेष्ट्यादिशास्त्रस्यौपाधिकजन्मादिविषयत्वान्न जीवाद्यजन्यत्वश्रुतिविरोध इति सिद्धम्
SK
END Bस्Rप्_२,३.१०.१६
SK
START Bस्Rप्_२,३.११.१७ः
SK
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः | BBस्_२,३.१७ |
SK
#नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः / अग्नेर्विस्फुलिङ्गवदेतस्मापरमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ ऽअज आत्माऽइत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसंभवात्, कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्संभवादिति प्रत्युदाहरणेन पूर्वपक्षमाह-#तत्र प्राप्तं तावदिति / फलं पूर्ववत् / उपरोधो बाधः / नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह-#नचेति / जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः / #सरूपेति / दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते / ननु ऽआत्मन आकाशः संभूतःऽइत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह-#न चेति / एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः / अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद, घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति-#एवमिति / धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा / नाद्यः, असिद्धेरित्याह-#अत्रोच्यते नास्येति / द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह-#बुद्ध्यादीति / औपाधिकभेदे मानमाह-#तथाचेति / मयटो विकारार्थत्वमाशङ्क्याह-#तन्मयत्वं चेति / जाल्मः कामजडः स्त्रीपरतन्त्रः / स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः / लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह-#यदपीति / जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह-#तथेति / एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति / प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः / ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह-#तथेति / उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः / अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः / मुनिराह-#न वा इति / मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मो ऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः / तर्हि न प्रेत्य संज्ञेति कथमुक्तं, तत्राह-#मात्रेति / मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः / बिम्बप्रतिबिम्बयोरिव विरुद्धाधर्मभेदो ऽध्यस्त इत्यत्र हेतुमाह-#अत ऊर्ध्वमिति / जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डनार्थमिति च वक्तव्यं, तथाच फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम्
SK
END Bस्Rप्_२,३.११.१७
SK
START Bस्Rप्_२,३.१२.१८ः
SK
ज्ञो ऽत एव | BBस्_२,३.१८ |
SK
#ज्ञो ऽत एव / ऽआत्मैवास्य ज्योतिःऽइत्याद्यात्मस्वप्रकाशत्वश्रुतीनां ऽपश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्ऽइत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधो ऽत्र निरस्यते / अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः / प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः संगतिः / अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति / न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् / तथाच पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् / इष्टापत्तिं निराचष्टे-#ते पृष्टा इति / साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह-#अतः कादाचित्केति / यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् / अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति-#एवमिति / चेच्छब्दो निश्चयार्थः / न केवल स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितो ऽपीत्याह-#विज्ञानमयेति / यो ऽयं विज्ञानमय इति प्रकरण इत्यर्थः / असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति / सुप्तार्थान्पश्यतीति यावत् / अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः /
SK
घ्राणादिजन्यगन्धादिज्ञानानुसंधानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह-#अथेति / आत्मनो नित्यचिद्रूपत्वे ऽपि स्वतो ऽसङ्गतया गन्धाद्यसंबन्धात्तत्संबन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह-#न गन्धेति / परिच्छेदो वृत्तिः / गन्धाय तद्गोचरान्तः-करणवृत्तये इत्यर्थः / सुप्ताद्यवस्थात्मसत्त्वे ऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति-#यत्विति / तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः-#नहीति / नाशायोग्यत्वादित्यर्थः / किमिति न पश्यतीत्यत आह-#न त्विति / वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् / साधनवैयर्थ्यतर्को ऽपि निरस्तः / शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् / आत्मा न ज्ञानं, द्रव्यत्वात्, इत्यादितर्काश्चागमबाधिताः / फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् / किञ्च निरवयवात्मनो मनः-संयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च / किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या ऽकामः संकल्पःऽइत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम्
SK
END Bस्Rप्_२,३.१२.१८
SK
START Bस्Rप्_२,३.१३.१९ः
SK
उत्क्रान्तिगत्यागतीनाम् | BBस्_२,३.१९ |
SK
स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा संगत्या विचारयति-#उत्क्रान्तिगत्यागतीनाम् / विषयसंशयौ दर्शयति-#इदानीमिति / नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह-#नन्वित्यादिना / न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनो ऽणुत्वं किन्त्वेषो ऽणुरात्मेति श्रुत्यापीत्याह-#स्वशब्देनेति / पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह-#तत्र प्राप्तमित्यादिना / श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् / उत्क्रान्तिः श्रूयत इति शेषः / स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः
SK
END Bस्Rप्_२,३.१३.१९
SK
START Bस्Rप्_२,३.१३.२०ः
SK
स्वात्मना चोत्तरयोः | BBस्_२,३.२० |
SK
उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात् किन्तु स्वामित्वनिवृत्तिरिति केचित् / तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह-#स्वात्मनेति / उत्क्रान्तेरुत्तरयोर्गत्यागत्ययोः स्वात्मना कर्त्रा संबन्धादणुत्वमिति सूत्रयोजना / पाकानाश्रयस्य पक्तृत्ववद्रत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह-#गमेरिति / गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्क्रर्त्राश्रितत्वं लोकसिद्धमित्यर्थः / जीवो ऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह-#अमध्यमेति / अङ्गीकारं त्यजति-#सत्योश्चेति / न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः / देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह-#देहप्रदेशानामिति / अपादानत्वमवधित्वम् / अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः / किञ्च देहमध्ये ऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह-#स इति / इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः
SK
END Bस्Rप्_२,३.१३.२०
SK
START Bस्Rप्_२,३.१३.२१ः
SK
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् | BBस्_२,३.२१ |
SK
#इतराधिकारात् / ब्रह्मप्रकरणात् / ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह-#परस्येति / या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह-#विरज इति / निर्देष इत्यर्थः / विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते-#नन्विति / अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह-#शास्त्रेति
SK
END Bस्Rप्_२,३.१३.२१
SK
START Bस्Rप्_२,३.१३.२२ः
SK
स्वशब्दोन्मानाभ्यां च | BBस्_२,३.२२ |
SK
एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितं, तत्र श्रुतिमप्याह-#स्वशब्देति / बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः / बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् / तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा
SK
END Bस्Rप्_२,३.१३.२२
SK
START Bस्Rप्_२,३.१३.२३ः
SK
अविरोधश् चन्दनवत् | BBस्_२,३.२३ |
SK
आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् / #त्वगात्मनोरिति / संबन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः
SK
END Bस्Rप्_२,३.१३.२३
SK
START Bस्Rप्_२,३.१३.२४ः
SK
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि | BBस्_२,३.२४ |
SK
#सिद्धे हीति / नतु सिद्धमित्यतुल्यतेत्यर्थः / विशेष एव वैशेष्यम् / चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे संदेहाद्ध्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् / व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः / आत्माल्पः, व्यापिकार्यकारित्वात्, चन्दनबिन्दुवदित्यनुमानमयुक्तं, त्वगादौ व्यभिचारादित्याह-#न चात्रानुमानमिति / पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह-#अत्रोच्यत इति
SK
END Bस्Rप्_२,३.१३.२४
SK
START Bस्Rप्_२,३.१३.२५ः
SK
गुणाद्वा लोकवत् | BBस्_२,३.२५ |
SK
आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह-#गुणाद्वेति / वाशब्देन चन्दनदृष्टान्तापरितेषः सूचितस्तमाह-#स्यादिति
SK
END Bस्Rप्_२,३.१३.२५
SK
START Bस्Rप्_२,३.१३.२६ः
SK
व्यतिरेको गन्धवत् | BBस्_२,३.२६ |
SK
उत्तरसूत्रव्यावर्त्यं शङ्कते-#कथमिति / ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात्, रूपवत्, नच प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह-#अत उत्तरमिति / गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः / ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह-#अक्षीयामाणमपीति / अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्रव्यमनुमीयत इत्यर्थः / विमतमविश्लिष्टावयवं, पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात्, संमतवदिति भावः / शङ्कते-#स्यादेतदिति / विश्लिष्टानामल्पत्वादित्युपलक्षणं, अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् / विशेषो ऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथाच गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः / आगच्छन्तो ऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति-#नेति / द्वितीयं प्रत्याह-#स्फुटेति /
SK
त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः / अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः / गन्धो न गुणिविश्लिष्टः गुणत्वात्, रूपवदिति शङ्कते-#रूपेति / विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह-#नेति
SK
END Bस्Rप्_२,३.१३.२५
SK
START Bस्Rप्_२,३.१३.२७ः
SK
तथा च दर्शयति | BBस्_२,३.२७ |
SK
आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः-#तथाच दर्शयतीति / तद्व्याचष्टे-#हृदयेति
SK
END Bस्Rप्_२,३.१३.२७
SK
START Bस्Rप्_२,३.१३.२८ः
SK
पृथगुपदेशात् | BBस्_२,३.२८ |
SK
तत्रैव श्रुत्यन्तरार्थं सूत्रम्-#पृथगिति / विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः / एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम्
SK
END Bस्Rप्_२,३.१३.२८
SK
START Bस्Rप्_२,३.१३.२९ः
SK
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् | BBस्_२,३.२९ |
SK
तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः / तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे-#तुशब्द इत्यादिना / तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहिते श्रुतिस्मृति आह-#तथाच स वा एष इति / नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः / एतेन जीवस्य ब्रह्मबेदज्ञाने ऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् / प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् / ऽगुणे त्वन्याय्यकल्पनाऽइति न्यायादिति भावः / किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयो ऽध्यस्ताणुत्ववि षयत्वेन कथञ्चिदर्थवादा नेयाः / लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह-#न चाणोरिति / शङ्कते-#त्वगिति / यद्यण्वात्मसंबन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति-#नेति / प्रसङ्गस्येष्ठत्वं निरस्यति-#पादतल एवेति / तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात्, तथाचाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः / नच सिद्धान्ते त्वगात्मसंबन्धस्य व्यापित्वात्कण्टकसंबन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् / यावती विषयसंबद्धा त्वक् तावद्व्याप्यात्मसंबन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् / न चैवं विषयत्वक्संबन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् / वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं संभवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः / न चैषां व्यापकत्वमसिद्धं, सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् / यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह-#न चाणोरिति / गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात्, रूपवदित्यत्रागममाह-#तथा चोक्तमिति / नच प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वे ऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसंभवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः / पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तं, संप्रति तस्य गुणत्वमसिद्धमित्याह-#यदि च चैतन्यमिति / उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे-#कथमित्यादिना / ऽअन्तरा विज्ञानमनसी हृदि हिऽइति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते / बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह-#तथाचेति / अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सो ऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः / उक्तं चैतदङ्गुष्ठाधिकरणे ऽप्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्ऽइति / बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् / तत्राद्यं निरस्य द्वितीयं निरस्यति-#तथेतरस्मिन्नपीति / बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणो ऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः / ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा / ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानःऽइत्युक्त्वा ऽएषो ऽणुरात्माऽइत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह-#जीवस्यापीति / यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह-#तथा प्रज्ञयेति / बुद्धिः प्रज्ञेत्यर्थः / यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह-#व्यपदेशमात्रं वेति / ननु चैतन्यं गुण इति भेदो मुख्यो ऽस्तु, नेत्याह-#न ह्यत्रेति / निर्गुणत्वश्रुतेरित्यर्थः / अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह-#हृदयेत्यादिना / सौत्रं दृष्टान्तं विवृणोति-#यथेति / असत्त्वमित्यापाततः / असंसारित्वमापाद्यम् / शेषं सुबोधम्
SK
END Bस्Rप्_२,३.१३.२९
SK
START Bस्Rप्_२,३.१३.३०ः
SK
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् | BBस्_२,३.३० |
SK
ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह-#यावदेव चायमिति / समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारो ऽणुरित्यर्थः / किं न स्यादित्यत आह-#प्रदेशान्तर इति / विज्ञानमयो बुद्धिप्रचुर इत्यर्थः /
SK
केन समान इत्याकाङ्क्षायामिति शेषः / श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तं, सति मूले कार्यस्य वियोगासंभवाच्चेति युक्त्याप्याह-#अपिच मिथ्येति / सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह-#दर्शयतीति / मृत्युमत्येतीत्यन्वयः / आदित्यवर्णं स्वप्रकाशम् / तमसः परस्तादज्ञानास्पृष्टमित्यर्थः
SK
END Bस्Rप्_२,३.१३.३०
SK
START Bस्Rप्_२,३.१३.३१ः
SK
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् | BBस्_२,३.३१ |
SK
यावदात्मभावित्वस्यासिद्धिं शङ्कते-#नन्विति / सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसंपत्तिर्न स्यात् / प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः / स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह-#पुंस्त्वेति / पुंस्त्वं रेतः / आदिपदेन श्मश्वादिग्रहः / अस्य बुद्धिसंबन्धस्येत्यर्थः / स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधे ऽभिव्यक्तिरित्यत्र श्रुतिमाह-#दर्शयतीति / न विदुरित्यविद्यात्मकबीजसद्भावोक्तः / ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः
SK
END Bस्Rप्_२,३.१३.३१
SK
START Bस्Rप्_२,३.१३.३२ः
SK
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा | BBस्_२,३.३२ |
SK
बुद्धिसद्भावे मानमाह सूत्रकारः-#नित्येति / ऽमनसा ह्येव पश्यति, ऽबुद्धिश्च न विचेष्टति,ऽ
SK
ऽविज्ञानं यज्ञं तनुते,ऽ ऽचेतसा वेदितव्यः,ऽ ऽचित्तं च चेतयितव्यम्ऽइति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः / कथमेकस्यानेकधोक्तिः, तत्राह-#क्वचिच्चेति / गर्ववृत्तिको ऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् / यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति-#तच्चेत्यादिना / सूत्रं योजयति-#अन्यथेति / पञ्चेन्द्रियाणां पञ्चविषयसंबन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनो ऽतिरिक्तसामग्र्याः सत्त्वात् / यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः / अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः / ननु सत्यपि कारग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे-#अथवेति / सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनपिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः / अस्तु प्रतिबन्ध इत्यत आह-#नचेति / न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् / प्रतिबन्धकाभावात् / नच दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् / नच व्यासङ्गः, प्रतिबन्धकमनो ऽसत्त्वे तस्यासंभवात् / तथाहि-रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनो ऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः / एतदभिप्रेत्योपसंहरति-#तस्मादिति / अवधानं बुभुत्सा / न चानिच्छतो ऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम्, अनेकविषयसंनिधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् / तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् / इच्छादिधर्मिणेवात्मना व्यासङ्गोपपत्तेः / संप्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह-#तथाचेति / न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह-#कामादयश्चेति / बुद्धेः प्रामाणिक्तवोक्तिफलमाह-#तस्मादिति
SK
END Bस्Rप्_२,३.१३.३२
SK
START Bस्Rप्_२,३.१४.३३ः
SK
कर्ता शास्त्रार्थवत्त्वात् | BBस्_२,३.३३ |
SK
एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् / संप्रति ततो बहिष्ठं कर्तृत्वं साधयति-#कर्ता शास्त्रार्थवत्त्वात् / स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति सांख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य सांख्यपक्षनिरासार्थमात्मनिकर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह-#तद्गुणेति / अधिकारः प्रसङ्गः / वस्तुतो ऽसङ्गत्वम् / अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसंगतिः / श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् / यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलं, सिद्धान्ते कर्तृत्वादिसंबन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः / ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह-#तद्धि कर्तुः सत इति / मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः / किं च भोक्तुरात्मन एव कर्तृता वाच्या ऽशास्त्रफलं प्रयोक्तरिऽइति न्यायादिति भावः
SK
END Bस्Rप्_२,३.१४.३३
SK
START Bस्Rप्_२,३.१४.३४ः
SK
विहारोपदेशात् | BBस्_२,३.३४ |
SK
संध्यं स्थानं स्वप्नः / अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात्, आत्मा कर्ता
SK
END Bस्Rप्_२,३.१४.३४
SK
START Bस्Rप्_२,३.१४.३५ः
SK
उपादानात् | BBस्_२,३.३५ |
SK
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः
SK
END Bस्Rप्_२,३.१४.३५
SK
START Bस्Rप्_२,३.१४.३६ः
SK
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः | BBस्_२,३.३६ |
SK
विज्ञानशब्दो जीवस्य निर्देशो न चेत् तदा प्रथमानिर्देशाद्विपर्ययः / करणद्योतितृतीयया निर्देशः स्यात् / तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः
SK
END Bस्Rप्_२,३.१४.३६
SK
START Bस्Rप्_२,३.१४.३७ः
SK
उपलब्धिवदनियमः | BBस्_२,३.३७ |
SK
सूत्रान्तरमवतारयति-#अत्राहेति / जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, ऽस्वतन्त्रः कर्ताऽइति न्यायादित्यर्थः / सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति-#यथेति / दृष्टान्तासंप्रतिपत्त्या शङ्कते-#उपलब्धावपीति / चक्षुरादीनां चैतन्येन विषयसंबन्धार्थत्वात्स्वसंबन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह-#नेति / नन्वात्मा विषयसंबन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह-#अपिचेति / स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम्, ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् / किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रो ऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः
SK
END Bस्Rप्_२,३.१४.३७
SK
START Bस्Rप्_२,३.१४.३८ः
SK
शक्तिविपर्ययात् | BBस्_२,३.३८ |
SK
जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम्-#शक्तीति / बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः / ततः किं, तत्राह-#सत्यां च बुद्धेरिति / यो ऽहन्धीगम्यः / स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीवकर्तृत्वसिद्धिरिति भावः
SK
END Bस्Rप्_२,३.१४.३८
SK
START Bस्Rप्_२,३.१४.३९ः
SK
समाध्यभावाच् च | BBस्_२,३.३९ |
SK
ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह-#समाधीति / मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम्, अन्यथात्मनो ऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः
SK
END Bस्Rप्_२,३.१४.३९
SK
START Bस्Rप्_२,३.१५.४०ः
SK
यथा च तक्षोभयथा | BBस्_२,३.४० |
SK
#यथा च तक्षोभयथा / उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह-#एवं तावदित्यादिना / सांख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात् तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः / न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति-#न स्वाभाविकमिति / यदुक्तं बाधकाभावादिति तदसिद्धमित्याह-#अनिर्मोक्षेति / ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते-#ननु स्थितायामिति / सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह-#तत्परिहारश्चेति / मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात्, शक्याभावे शक्त्ययोगात् / अस्ति हि प्रलये ऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यं, तथाच शक्त्या धर्मादिनिमित्तेः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति-#न निमित्तानामपीति / सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या संबन्धान्नमित्तानामपि परम्परया शक्तिसंबन्धित्वमुक्तं मन्तव्यम् / संबन्धेन संबन्धिनेत्यर्थः / यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः संबन्धस्तेनेति व्यधिकरणे तृतीये / ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते-#नन्विति / ज्ञानादकर्तृत्वाख्यमोक्षत्कर्तृत्वमाविद्यकं स्वाद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् / यदि कर्मणा मोक्षः. तत्राह-#नेति / आत्मनः स्वाभाविकं कर्तृत्वमभयुपगम्यानिर्मोक्ष उक्तः / संप्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह-#अपिचेति / नचाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तं, न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनो ऽध्यासत्वेनाप्युपपत्तेरित्यर्थः / कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह-#तथाचेति / विद्वदनुभवबाधितं च कर्तृत्वमित्याह-#नहीति / बुद्ध्यादिसंघाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टं, परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते-#पर एवेति / न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिविम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः / कल्पितभेदो ऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति-#नाविद्येति / अविद्योपहितो बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह-#तथाचेति / कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह-#तथा स्वप्नेति / आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामं, आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह-#शोकेति / शोकान्तरं दुःखास्पृष्टमित्यर्थः / तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह-#एष इति //
SK
गतिः प्राप्यं, संपदैश्वर्यं लोको बोग्यं सुखं, चैतस्मादन्यत्रास्तीत्यर्थः / आत्मा स्वतो ऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः / तत्रार्थे सूत्रं योजयति-#तदेतदाहेत्यादिना / संप्रसादः सुषुप्तिः / यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् / नच तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तं, करणत्वात् कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताब्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसंमतिश्चेति भावः / ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह-#तक्षदृष्टान्तश्चेति /
SK
शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह-#नच स्वाभाविकमिति / उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते-#ननु संध्य इति / किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् / न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह-#तथेति / स्वप्नविहारे तावदुपाध्यभावो ऽसिद्ध इत्याह-#न तावत्संध्य इति / विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह-#विहारो ऽपीति / जक्षत् भुञ्जान इव / कणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात्, न करणविभक्तिरित्युक्तं प्रत्याह-#भवति च लोक इति / कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् / अस्ति च कर्तृत्वप्रयोगः, ऽविज्ञानं यज्ञं तनुतेऽइत्यादाविति भावः / उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् / इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह-#अपिचेति / पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, संप्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते / तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह-#यस्त्विति / ऽयो ऽयं विज्ञानमयःऽइत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः / तत्रैव लिङ्गान्तरमाह-#विज्ञानं देवा इति / ऽमहद्यक्षं प्रथमजम्ऽइत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः / यक्षं पूज्यम् / किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह-#स एष इति / चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः / यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति / तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह-#नचेति / तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह-#उपलब्धीति / यथा काष्ठानां स्वव्यापारे कर्तृत्वे ऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसंकल्पादिक्रियाकर्तृत्वे ऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः / ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह-#सा चेति / तर्हि तस्यामात्मा केवलः कर्ता स्यात्, यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह-#नचेति / उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते-अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथाच विषयावच्छिन्नचैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, नच बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः / यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयं, तथाच नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति-#अहङ्कारेति / सांख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् / एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः / अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः / एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वे ऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् / तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम्
SK
END Bस्Rप्_२,३.१५.४०
SK
START Bस्Rप्_२,३.१६.४१ः
SK
परात् तु तच्छ्रुतेः | BBस्_२,३.४१ |
SK
#परात्तु तच्छ्रुतेः / यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात्, तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् / तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसंपन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह-#यदिदमिति / अत्र ऽएष ह्येवऽइत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसंगतिः / कर्ममीमांसकमतेन पूर्वपक्षयति-#तत्रेत्यादिना / बुद्ध्यादिकारकसंपत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः / किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह-#क्लेशात्मकेन चेति / दत्तोत्तरमिदं चोद्यमिति शङ्कते-#नन्विति / पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं संप्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न संभवतीत्युच्यत इत्याह-#सत्यमिति / अस्तु कर्मानपेक्षस्य प्रवर्तकत्वं, तत्राह-#अकृतेति / अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत्, कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरुति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् / तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यं, तथाच कारयितृत्वश्रुतिविरोधः / ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति-#एतामिति / यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरिके सुखव्यतिरेकग्रहाभावे ऽपि ऽपुण्यो वै पुण्येन कर्मणा भवतिऽइत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः
SK
END Bस्Rप्_२,३.१६.४१
SK
START Bस्Rप्_२,३.१६.४२ः
SK
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः | BBस्_२,३.४२ |
SK
धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् / यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह-#पर्जन्यवदिति / दृष्टान्तं विवृणोति-#यथेति / अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः / किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा / नाद्य इत्याह-#नैष दोष इति / अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः / चक्रकं निरस्यति-#अपिचेति / अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः / ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति-#कथमित्यादिना / एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति-#ईश्वर इति / तयोः स्थाने स एव नियुज्येत अभिषिच्येत / तयोः कार्यं स एव कुर्यादिति यावत् / तथाच जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति संबन्धः / पुरुषकारः प्रयत्नः / आदिशब्दार्थमाह-#तथेति / पूर्वोक्तदेषो ऽकृताभ्यागमादिः / तस्मात् कर्मसापेक्षेश्वरस्य कारयितृत्वात् ऽएष ह्येवऽइत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम्
SK
END Bस्Rप्_२,३.१६.४२
SK
START Bस्Rप्_२,३.१७.४३ः
SK
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके | BBस्_२,३.४३ |
SK
#अंश-एके / नित्यः स्वप्रकाशो ऽनणुरकर्ता जीवऽइति शोधितत्वंपदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसंगतिः / पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः / पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः संबन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह-#ततश्चेति / प्रसिद्धस्वस्वामित्वसंबन्धसंभवाद्यः कश्चित् संबन्ध इत्यनियमो न युक्त इत्यरुचेराह-#अथवेति / अनेन ऽय आत्मनि तिष्ठन्ऽइत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता / एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथाच भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति संबन्धानिश्चयात्संबन्धापेक्षस्य पूर्वोक्तोपकार्यापकारकभावस्यासिद्धिरित्याक्षेपात्संगतिः / लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धन्ॐऽशांशिभावः संबन्ध इति सिद्धान्तयति-#अत इत्यादिना / अग्नेः सांशत्वे ऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह-#अंश इवेति / जीव इत्यनुषङ्गः / भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते-#ननु चेति / अभेदस्यापि सत्त्वादंशांशिभाव इत्याह-#अत इति / वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः / श्रुतिसिद्धाभेदे युक्तिमाह-#चैतन्यं चेति / जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः
SK
END Bस्Rप्_२,३.१७.४३
SK
START Bस्Rप्_२,३.१७.४४ः
SK
मन्त्रवर्णाच् च | BBस्_२,३.४४ |
SK
अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात्प्रपञ्चात् ज्यायान्महत्तरः / भूतानि देहिनो जीवा इत्यत्र नियामकमाह-#अहिंसन्निति / तीर्थानि शास्त्रोक्तकर्माणि, तेभ्यो ऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः / अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रे ऽपि तथेति भावः / भूतानां पादत्वे ऽप्यंशत्वं कुतः, तत्राह-#अंशः पाद इति
SK
END Bस्Rप्_२,३.१७.४४
SK
START Bस्Rप्_२,३.१७.४५ः
SK
अपि च स्मर्यते | BBस्_२,३.४५ |
SK
जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः-#अपिचेति / अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह-#यत्त्वित्यादिना / औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह-#निरतिशयेति / नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः / तदुक्तं सुरेश्वराचार्यैः-ऽईशेशितव्यसंबन्धः प्रत्यगज्ञानहेतुजः / सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः //
SK
ऽइति
SK
END Bस्Rप्_२,३.१७.४५
SK
START Bस्Rप्_२,३.१७.४६ः
SK
प्रकाशादिवन् नैवं परः | BBस्_२,३.४६ |
SK
उत्तरसूत्रमवतारयति-#अत्राहेति / ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात्, देवदत्तवदित्यर्थः / ततः किं, तत्राह-#ततश्चेति / ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः / नैवंपर इति प्रतिज्ञानं विभजते-#यथा जीव इति / देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः / उक्तं चैतदभेदे ऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः / दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति-#जीवस्यापीत्यादिना / भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह-#व्यतिरेकेति / इतरेष्वभिमानशून्येष्वित्यर्थः / जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह-#अतश्चेति / एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा य्ॐऽशी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति-#प्रकाशादिवदिति / वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह-#जीवस्येति / कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् / किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह-#तथाचेति / दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः
SK
END Bस्Rप्_२,३.१७.४६
SK
START Bस्Rप्_२,३.१७.४७ः
SK
स्मरन्ति च | BBस्_२,३.४७ |
SK
स्मृत्याप्यनुमानं बाध्यमित्याह-#स्मरन्ति चेति / सूत्रं व्याचष्टे-#स्मारन्तीति / तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः / दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् / सूत्रे चशब्दः / श्रुतिसमुच्चयार्थ इत्याह-#चशब्दादिति / यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः / यतो बाह्यो ऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति-#अत्राहेत्यादिना / कथं तर्हि इत्यन्वयः / तद्भेदादंशभेदात् / निरवयवब्रह्मणो मुख्यांशो न संभवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः / न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः / तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्ति रिति सूत्रेण समाधत्ते-#तामित्यादिना
SK
END Bस्Rप्_२,३.१७.४७
SK
START Bस्Rप्_२,३.१७.४८ः
SK
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् | BBस्_२,३.४८ |
SK
ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह-#न ह्यस्या इत्यादिना / प्रतता संतता, विशेषो भेदः / अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह-#न तस्येति / नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः / नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः / तथाच ब्रह्मविन्नियोज्यः, विवेकित्वात्, कर्माधिकारिवदिति शङ्कते-#शरीरव्यतिरेकेति / परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मि णो देहाभेदभ्रमो ऽस्ति, तथाच भ्रम उपाधिरिति परिहरति-#नेत्यादिना / यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः / ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात्, सुषुप्तवदित्याह-#नहीति / देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् / अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः / अनियोज्यत्वे बाधकमाशङ्क्य परिहरति-#नचेति / विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः / तदुक्तं भगवता ऽरसो ऽप्यस्य परं दृष्ट्वा निवर्ततेऽइति / एवमनुज्ञादिप्रसङ्गेनानियोज्यं, विदुष उक्त्वा प्रकृतिमुपसंहरति-#तस्मादिति / एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह-#ज्योतिरिति / क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः
SK
END Bस्Rप्_२,३.१७.४८
SK
START Bस्Rप्_२,३.१७.४९ः
SK
असन्ततेश् चाव्यतिकरः | BBस्_२,३.४९ |
SK
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे-#स्यातामित्यादिना / यद्यपि स्थूलदेहसंबन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः सांकर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् / तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः / भवेत्तदा सांकर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् / न त्वेतदस्ति / ऽतद्गुणसारत्वात्ऽइत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात्, तथाच बुद्धेः परदेहासंबन्धात्तदुपहितजीवस्य नास्ति परदेहसंबन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसांकर्यमिति समाधानार्थः
SK
END Bस्Rप्_२,३.१७.४९
SK
START Bस्Rप्_२,३.१७.५०ः
SK
आभास एव च | BBस्_२,३.५० |
SK
अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेतबुद्ध्योक्तं, संप्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् ऽरूपं रूपं प्रतिरूपो बभूवऽइत्यादिश्रुतिसिद्धंप्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः-#आभास एव चेति / परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् / नापि ततो भिन्नः, ऽस एष इह प्रविष्टःऽइत्याद्यभेदश्रुतिस्मृतिविरोधात् / तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः / अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह-#अतश्चेत्यादिना / यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः / यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् / अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते / एवं स्वमते स्वरूपैक्ये ऽप्युपहितजीवभेदादसांकर्यमुक्तं, संप्रति सूत्रे चकारसूचितं परेषां, सांकर्यं वक्तुमुपक्रमते-#येषमित्यादिना / बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधम्रभावना नवात्मविशेषगुणाः, संनिधानादीत्यादिपदादौदासीन्यमुक्तम् / सांख्यः स्वाभिप्रायं शङ्कते-#स्यादेतदिति / सर्वेषां पुंसां प्रकृतिसांनिध्याद्यविशेषे ऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः / जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह-#नैतदिति / यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः / तार्किकमते ऽपि भोगादिसांकर्यमित्याह-#काणादानामिति / हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते-#स्यादेतदिति / सूत्रेण परिहरति-#नेत्याहेति
SK
END Bस्Rप्_२,३.१७.५०
SK
START Bस्Rप्_२,३.१७.५१ः
SK
अदृष्टानियमात् | BBस्_२,३.५१ |
SK
#पूर्ववत्मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः / रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति-#स्यादेतदित्यादिना
SK
END Bस्Rप्_२,३.१७.५१
SK
START Bस्Rप्_२,३.१७.५२ः
SK
अभिसन्ध्यादिष्व् अपि चैवम् | BBस्_२,३.५२ |
SK
अनियम उक्तदोषः / आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः
SK
END Bस्Rप्_२,३.१७.५२
SK
START Bस्Rप्_२,३.१७.५३ः
SK
प्रदेशाद् इति चेन् नान्तर्भावात् | BBस्_२,३.५३ |
SK
किं मनसा संयुक्तात्मैवात्मनः प्रदेशः / उत कल्पितः / आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था / द्वितीयं दूषयति-#तत्र न वैशेषिकैरिति / सर्वात्मसांनिध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः / नियामकभावादित्यर्थः / प्रदेशकल्पनामङ्गीकृत्याप्याह-#कल्प्येति / कार्यमभिसंध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह-#शरीरमपीति / प्रदेशपक्षे दोषान्तरमाह-#प्रदेशेति / यस्मिन्नात्मप्रदेशे ऽदृष्टोत्पत्तिः स किं चलः स्थितो वा / नाद्यः, अचलेंऽशिन्यंशस्य चलनविभागयोरसंभवादण्वात्मवादापाताच्च / द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः / यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसांकर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च / किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः / यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति / तन्न / भोगशरीरद्दूरस्थादृष्टे मानाभावादिति भावः / यदपि केचिदाहुः-मनस एकत्वे ऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसांकर्यमिति / तन्न / संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः / तथाच सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् / किञ्च बहूनां विभुत्वमङ्गीकृत्य सांकर्यमुक्तं, संप्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह-#सर्वगतत्वानुपपत्तिश्चेति / किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यं, तच्चायुक्तमदृष्टत्वादित्याह-#वदेति / ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत्, नायमस्मत्संमतो दृष्टान्तः / रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् / किञ्चात्मनां बहुत्वमप्यसिद्धं,
SK
आत्मत्वरूपलक्षणस्याभेदात्, तथाच देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात्, यज्ञदत्तात्मवत् / अत्र वैशेषिकः शङ्कते-अन्त्यविशेषेति / नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते / तथाच विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः / न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः / नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः / नच विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः / यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सो ऽप्यसंमत इत्याह-#आकाशादीनामिति / विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः / यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदे ऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति-#तस्मादिति / एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम्
SK
END Bस्Rप्_२,३.१७.५३
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः
SK
#इति द्वितीयाध्यायस्य पञ्चमहाभूत-जीवश्रुतीनां विरोधपरिहाराख्यस्तृतीयः पादः //
SK
#द्वितीयाध्याये चतुर्थः पादः /
SK
START Bस्Rप्_२,४.१.१ः
SK
तथा प्राणाः | BBस्_२,४.१ |
SK
पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति-#तथा प्राणाः / भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः संगतिमाह-#वियदादीति / तमेव विप्रतिषेधमाह-#तत्रेत्यादिना / यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् / अत्र प्राणा विषयाः / ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलं, तत्र गौणवादी समाधानमाह-#अथवेति / प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः / अप्रमाणपक्षवद्गौणपक्षो ऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् / मुख्यसिद्धान्त्याह-#अत इति / तथाशब्दमाक्षिपति-#कथमिति / आनुलोम्यमाञ्जस्यमित्यर्थः / साम्यं स्फुटयति-#यथादृष्टस्येति / दूषणवत्प्राणा इत्यनन्वितम् / यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् / जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः / समाधत्ते-#न / उदाहरणेति / दृष्टान्तो दार्ष्टान्तिकसंनिहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सांनिध्यमुक्तम् / संप्रति नायं नियमः / जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह-#अथवेति / अस्ति तृतीयाध्याये ऽश्वप्रतिग्रहेष्ट्यधिकरणं, तस्येदं विषयवाक्यं, ऽयावतो ऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्ऽइत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये ऽप्रतिगृह्णीयात्ऽइति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य ऽप्रजापतिर्वरुणायाश्वमनयत्ऽइत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् / ऽयो ऽश्वदाता स वारुणीमिष्टिं कुर्यात्ऽइति वाक्यार्थे स्थिते चिन्ता-अश्वदाननिमित्तेयमिष्टिः किं लौकिके ऽश्वदाने वैदिके वेति / तत्र ऽन केसरिणो ददातिऽ, इति निषिद्धलौकिकाश्वदाने दोषसंभवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः-ऽअत्र हि वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातिऽइति दातुर्देषं संकीर्त्येष्टिर्विहिता / वरुणशब्दो जलोदराख्यरोगे रूढः / नच लौकिके ऽश्वदाने ऽयं रोगो भवति इति प्रसिद्धम् / नचानेनैव वाक्येन प्रसिद्धिः / दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोर्ऽथभेदे वाक्यभेदात् / नच वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तं, रूढित्यागापातात् / तत्त्यागे च वैदिके ऽपि दाने ऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुं, तस्मात्प्राप्तानुवाद्यर्थवादो ऽयमिति यज्ञसंबन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम्-#पानव्यापच्च तद्वदिति / सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा ऽएतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्ऽइति श्रूयते / तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने ऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य ऽइन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमतिऽइत्यनुवादादिति पूर्वपक्षसूत्रार्थः / वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमने ऽपिन दोष इति सिद्धान्तः / लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता / वेदे तु ऽमा मे वाङ्नाभिमतिगाःऽइति साम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता / तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः
SK
END Bस्Rप्_२,४.१.१
SK
START Bस्Rप्_२,४.१.२ः
SK
गौण्यसंभवात् | BBस्_२,४.२ |
SK
ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह-#तथाच प्रतिज्ञातार्थमिति / उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः / मुण्डकवच्छ्रुत्यन्तरे ऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह-#तथेति / एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः / इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह-#कथमित्यादिना / नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः / ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनं, तत्राह-#स्वविकारेति / स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः / ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् ऽएतस्माज्जायते प्राणःऽइत्यादि प्रबलजन्मश्रुतिबलादिति वदामः / ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह-#व्याकृतेति / ऽहिरण्यगर्भेः समवर्तताग्रेऽइत्यादिश्रुतौ ऽआदिकर्ता स भूतानांऽइत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति / पूर्वापेक्षया / विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः / केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति-#वियदिति
SK
END Bस्Rप्_२,४.१.२
SK
START Bस्Rप्_२,४.१.३ः
SK
तत्प्राक्श्रुतेश् च | BBस्_२,४.३ |
SK
तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना-#तत्सामान्यादिति / तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः / एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति-#यत्रापि पश्चाच्छ्रुत इति
SK
END Bस्Rप्_२,४.१.३
SK
START Bस्Rप्_२,४.१.४ः
SK
तत्पूर्वकत्वाद् वाचः | BBस्_२,४.४ |
SK
यच्चोक्तं छान्दोग्ये ऽपि प्राणानामुत्पत्तिर्न श्रूयत इति, तत्राह-#तत्पूर्वकत्वाद्वाच इति / अत्र सूत्रे वाक्पदं प्राणमनसोरुपलक्षणम् / वाक्प्राणमनसां तेजोबत्रपूर्वकत्वोक्तेरश्रवणमसिद्धमिति योजना / तैर्वागादिभिश्चक्षुरादीनां सामान्यं करणत्वं तत्सामान्यादित्यर्थः / अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्मविकारत्वात् / यदि प्राणस्य वायोर्जलविकारत्वायोगात्तदधीनस्थितिकत्वमात्रेण भक्तस्तथापि प्राणानां विकारत्वे भूताधीनस्थितिकत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं ऽस प्राणमसृजतऽइत्यादिश्रुत्यन्तरे स्पष्टं ब्रह्मकार्यत्वोक्तेश्च / तस्मात्प्राणानामुत्पत्तिश्रुतीनां सद्भावश्रुत्यविरोधात्कारणे ब्रह्मणि समन्वय इति सिद्धम् / लिङ्गशरीरविचारात्मकाधिकरणानां लिङ्गात्त्वंपदार्थभेदधीः फलमिति द्रष्टव्यम्
SK
END Bस्Rप्_२,४.१.४
SK
START Bस्Rप्_२,४.२.५ः
SK
सप्त गतेर् विशेषितत्वाच् च | BBस्_२,४.५ |
SK
एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसंगत्या सांख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति-#सप्तगतेर्विशेषितत्वाच्च / विशयः संशयः / इन्द्रियाण्यत्र विषयः / पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ / ग्रहत्वं बन्धकत्वं / गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः / द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता / एत एव हृदयाख्यया बुद्ध्या सहद्वादश / अहङ्कारेण सह त्रयोदश / श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसंख्यया सप्तैव प्राणा इति सूत्रयोजना / सप्तत्वं वीप्साविरुद्धमिति शङ्कते-#नन्विति / गुहायां हृदये शेरत इति गुहाशयाः / स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः / चित्तेन चतुर्दशत्वं मन्तव्यम् / पूर्वपक्षी परिहरति-#नैष दोष इति
SK
END Bस्Rप्_२,४.२.५
SK
START Bस्Rप्_२,४.२.६ः
SK
हस्तादयस् तु स्थिते ऽतो नैवम् | BBस्_२,४.६ |
SK
सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मको ऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसंख्यान्तर्भावनीया / ततो वरं प्राथमिकसप्तत्वे ऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति-#अत्रेति / आदानेन कर्मणा गृहीत संबद्धः / संबन्धमेवाह-#हस्ताभ्यामिति / अतो ऽधिकसंख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः / तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह-#उत्तरेति / ऽश्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसीऽइति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसंधायाह-#सत्यमिति / एकादशकार्यलिङ्गान्याह-#शब्देति / त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति / इन्द्रियान्तराणां वर्तमानमात्रग्राहित्वादतीतादिज्ञानाय मनो ऽङ्गीकार्यमित्यर्थः / विशेषितत्वादित्युक्तं निरस्यति-#अपिच सप्तेति / नच तावतामिति / आदानादीनां श्रोत्रादिभ्यो ऽत्यन्तवैजात्यादित्यर्थ / तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः / कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह-#मुख्यस्य त्विति / ऽसप्त प्राणाः प्रभवन्तिऽइत्युपासनार्थम् / ऽअष्टौ ग्रहाऽइति श्रुतिस्तूपलक्षणार्था / पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् / नन्विदं सूत्रव्याख्यानमसंगतं पञ्चधीन्द्रियावाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसंख्यादोषाच्चेत्यरुचेराह-#इयमपरेति / इन्द्रियाणि कतीति संदेहे पूर्वपक्षसूत्रं योजयति-#सप्तेति / तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः / विपन्नावस्थायामेव चाक्षुपश्चक्षुषि स्थितो ऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ् पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्ये प्रतिगच्छति / अथ तदानीमयं मुमूर्षुररूपज्ञो भवति / देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः / आदिपदात् ऽन जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानातिऽइति गृह्यते / सप्तानामेव जीवेन सह गतिरित्यसिद्धं, ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति-#एवमित्यादिना / हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह-#पुर्यष्टकेनेति / प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति संभवे सर्वश्रुतिसंकोचो न युक्त इत्याह-#सर्वशब्दो ऽपीति / तस्मात्संख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम्
SK
END Bस्Rप्_२,४.२.६
SK
START Bस्Rप्_२,४.३.७ः
SK
अणवश् च | BBस्_२,४.७ |
SK
#अणवश्च / ऽप्राणाः सर्वे ऽनन्ताःऽइति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति सांख्यानामाक्षेपः, तत्संगत्या प्राणाः किंपरिमाणा इति संदेहे सिद्धान्तयति-#अधुनेत्यादिना / उत्पत्तिसंख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः / अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् / परिच्छेदो ऽल्पत्वम् / बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनो ऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह-#तद्गुणसारत्वमिति / उक्ताक्षेपमनूद्य निरस्यति-#सर्वगतानामिति / आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम्
SK
END Bस्Rप्_२,४.३.७
SK
START Bस्Rप्_२,४.४.८ः
SK
श्रेष्ठश् च | BBस्_२,४.८ |
SK
#श्रेष्ठश्च / अतिदेशत्वान्न संगत्याद्यपेक्षा / ऽतथा प्राणाःऽइत्युक्तन्यायो ऽत्रातिदिश्यते / ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याक्षिपति-#किमर्थ इति / निश्चितमहाप्रलये प्राणसद्भावश्रुत्याधिकां शङ्कामाह-#नासदासीये हीति / ऽनासदासीत्ऽइत्यारभ्याधीत इत्यर्थः / तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं च देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्तां, स्वधया सहेत्यन्वयः / पितृभ्यो देयमन्नं स्वधा / यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मानीदासीदिति परमार्थः / अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः / तस्माद्ब्रह्मणः परः परमुत्कृष्टमन्यच्च किमपि न बभूवेत्यर्थः / परिहारः सुबोधः ननु श्रेष्ठशब्दस्य प्राणे प्रसिद्ध्यभावात्कथं सूत्रमिति, तत्राह-#श्रेष्ठ इति चेति / श्रुतिं व्याचष्टे-#ज्येष्ठश्च प्राण इत्यादिना / पूयेत पूयं भवेत् / न संभवेत्तद्गर्भो न भवेदित्यर्थः / वागादिजीवनहेतुत्वं प्राणस्य गुणः / एवमानीच्छ्रुत्यविरोधात्प्राणोत्पत्तिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम्
SK
END Bस्Rप्_२,४.४.८
SK
START Bस्Rप्_२,४.५.९ः
SK
न वायुक्रिये पृथगुपदेशात् | BBस्_२,४.९ |
SK
इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा / संप्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति-#न वायुक्रिये पृथगुपदेशात् / मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह-#तत्रेति / द्वितीयं सांख्यपूर्वपक्षमाह-#अथवेति / सिद्धान्तत्वेन सूत्रमादत्ते-#अत्रोच्यत इति / मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तं, तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति / कार्यक्षमो भवतीत्यर्थः / श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्यो ऽपि भिन्नत्वमित्याह-#तथेति / प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति-#नच समस्तानामिति / या चक्षुः-साध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् / नच समुदायस्य वृत्तिः संभवति तस्यासत्त्वादित्यर्थः / प्राणाभावादिति / श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात्, श्रवणादीनामपरिस्पन्दत्वेन विजातीयानां, परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः / किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यं, नैतदस्तीत्याह-#तथा प्राणस्येति / यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात्, तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह-#उच्यत इति / देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः
SK
END Bस्Rप्_२,४.५.९
SK
START Bस्Rप्_२,४.५.१०ः
SK
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः | BBस्_२,४.१० |
SK
प्राणस्य करणवृत्तित्वाभावे जीववद्भोक्तृत्वं स्यादिति शङ्कते-#स्यादेतदिति / प्राणो न भोक्ता, भोगोपकरणत्वात्, चक्षुरादिवदिति सूत्रार्थमाह-#तुशब्द इत्यादिना / यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः / किञ्च प्राणो न भोक्ता, सावयवत्वात्, जडत्वाद्भौतिकत्वाच्च, देहवत्
SK
END Bस्Rप्_२,४.५.१०
SK
START Bस्Rप्_२,४.५.११ः
SK
अकरणत्वाच् च न दोषस् तथा हि दर्शयति | BBस्_२,४.११ |
SK
ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकं, प्राणस्य तु निर्विषयत्वादसाधारणकार्यभावाच्च नोपकरणत्वमिति शङ्कते-#स्यादेतदिति / उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति-#न तावदित्यादिना / अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् / व्यूदिरे विवादं चक्रिरे-#तद्वृत्तिमात्रहीनमिति / मूकादिभावेन स्थितमित्यर्थः / अवरं नीचं, कुलायं देहाख्यं गृहं, प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः-#तदैव तदानीमेव / तेन प्राणेन यदश्नाति जीवस्त्वेन प्राणकृताशनेनेति यावत् / एवंश्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम्
SK
END Bस्Rप्_२,४.५.११
SK
START Bस्Rप्_२,४.५.१२ः
SK
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते | BBस्_२,४.१२ |
SK
तत्रैव हेत्वन्तरार्थे सूत्रं व्याचष्टे-#इतश्चेत्यादिना / वृत्तिरवस्था / अग्निमन्थनादिकं वीर्यवत्कर्म / कामादिवृत्तिवज्ज्ञाने ऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति-#नन्वत्रापीत्यादिना /
SK
प्रमाणं प्रमितिः विपर्ययो भ्रमः / शशविषाणादिज्ञानं विकल्पः / तामसी वृत्तिर्निद्रा / स्मृतिः प्रसिद्धा / भ्रमन्द्रियोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह-#बह्विति / सूत्रस्यार्थान्तरमाह-#जीवेति / तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम्
SK
END Bस्Rप्_२,४.५.१२
SK
START Bस्Rप्_२,४.६.१३ः
SK
अणुश् च | BBस्_२,४.१३ |
SK
एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसंदेहे ऽणुत्वमुपदिशति-#अणुश्चेति / अधिकाशङ्कामाह-#ननु विभुत्वमपीति / प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते / नागो हस्ती / प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाती, समो ऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते-#तदुच्यत इति / किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् / समो ऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह-#अपिचेति / अणवश्चेत्यत्र सर्वे ऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम्, अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् / अन्ये तु प्रसङ्गात्तत्र सांख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः
SK
END Bस्Rप्_२,४.६.१३
SK
START Bस्Rप्_२,४.७.१४ः
SK
ज्योतिराद्यधिष्ठानं तु तदामननात् | BBस्_२,४.१४ |
SK
पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह-#ज्योतिराद्यधिष्ठानं तु तदामननात् / ऽवाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यतिऽइति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् ऽअग्निर्वाग्भूत्वाऽइत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा / नच स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यं, जीवस्याधिष्ठातृत्वात् / किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात्, तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः / सिद्धान्तयति-#एवं प्राप्त इत्यादिना / अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावो ऽत्राग्र्यादिदेवताधिष्ठेयत्वरूप एव संबन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वात्संभवादित्याह-#अग्नेश्चायमिति / वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह-#तथेति / भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः /
SK
एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह-#स वै वाचमिति / स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः / किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसंबन्धं द्योतयतीत्याह-#सर्वत्रेति / ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासंभवे कथं निश्चयः, तत्राह-#उभयथोपपत्तौ चेति / उक्तदोषान्तरनिरासाय सूत्रमवतारयति-#यदपीति
SK
END Bस्Rप्_२,४.७.१४
SK
START Bस्Rप्_२,४.७.१५ः
SK
प्राणवता शब्दात् | BBस्_२,४.१५ |
SK
#शारीरेणैवेति / भोक्त्रेति शेषः / संबन्धो भोक्तृभोग्यभावः / अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः यद्यप्यात्मा करणान्येपक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तये ऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः / किञ्च यो ऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसंधानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह-#अपिचेति
SK
END Bस्Rप्_२,४.७.१५
SK
START Bस्Rप्_२,४.७.१६ः
SK
तस्य च नित्यत्वात् | BBस्_२,४.१६ |
SK
कदाचिद्देवानामत्रभोक्तृत्वं कदाचिज्जीवस्येत्यनियमो ऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह-सूत्रकारः-#तस्य चेति / उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह-#शारीरेणैव च नित्य इति / यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः / जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वं, देवानां तु करणोपकाराभिज्ञातया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः / देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु ऽन ह वै देवान् पापं गच्छतिऽइत्युक्तश्रुतिबाधितम् / तस्मात् ऽचक्षुषा हि रूपाणि पश्यतिऽइति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम्
SK
END Bस्Rप्_२,४.७.१६
SK
START Bस्Rप्_२,४.८.१७ः
SK
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् | BBस्_२,४.१७ |
SK
सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह-#त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् / प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति-#मुख्यश्चेत्यादिना / हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति संकल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः / ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात्, प्राणवदित्याह-#प्राणेति / ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे-#तत्त्वान्तराण्येवेति / तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति / प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति-#क इत्यादिना / सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् / एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् / शब्दभेदाद्वस्तुभेदसाधने ऽतिप्रसङ्गं शङ्कते-#नन्विति / प्राणवन्मनसो ऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः / अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः / स च ऽमनः षष्ठानीन्द्रियाणिऽइत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते-#सत्यमित्यादिना / मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया / सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् / किञ्च ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽइति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह-#व्यपदेशभेदश्चायमिति / एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः
SK
END Bस्Rप्_२,४.८.१७
SK
START Bस्Rप्_२,४.८.१८ः
SK
भेदश्रुतेः | BBस्_२,४.१८ |
SK
एवं भेदेनापर्यायसंज्ञाभ्यामुक्तेः पृथग्जनोक्तेश्चेति तद्व्यपदेशादिति हेतुर्व्याख्यातः / भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् / ते ह देवाः शास्त्रीयेन्द्रियमनोवृत्तिरूपा असुराणां पापवृत्तिरूपाणां जयार्थमुद्गीथकर्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गायासुरनाशार्थमिति तथास्त्वित्यङ्गीकृत्योद्गायन्तीं वाचमनृतादिदोषेण विध्वंसितवन्तोसुरा इत्येवं क्रमेण सर्वेष्विन्द्रियेषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणेनोदगात्रा निर्विषयतया सङ्गदोषशून्येनासुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्यप्राणस्योक्तेर्भेदसिद्धिरित्याह-#ते हेति / तानि त्रीण्यन्यान्यात्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः
SK
END Bस्Rप्_२,४.८.१८
SK
START Bस्Rप्_२,४.८.१९ः
SK
वैलक्षण्याच् च | BBस्_२,४.१९ |
SK
विरुद्धधर्मवत्त्वाच्च भेद इत्याह-#वैलक्षण्याच्चेति / मृत्युरासङ्गदोषः / वाग्दध्रे व्रतं धृतवतीत्यर्थः / बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् / एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ ऽतस्मादेत एतेनाख्यायन्तऽइति परामृष्टम्, इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम्
SK
END Bस्Rप्_२,४.८.१९
SK
START Bस्Rप्_२,४.९.२०ः
SK
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् | BBस्_२,४.२० |
SK
उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयैन निरस्तः,
SK
संप्रत्युत्पादनश्रुतिविरोधो निरस्यते / तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नं, स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह-#संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् / नामरूपभेदात्करणभिन्नः प्राण इत्युक्तं, तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसंगतिः / प्रक्रिया प्रकरणं / ईक्षणमेवाह-#हन्तेत्यादिना / हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति संबन्धः / तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था / छान्दोग्ये ऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् / एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् / जीवेनेतिपदस्य व्याकरवाणीत्यनेन संबन्धसंभवासंभवाभ्यां संशयमाह-#तत्रेति / पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् / जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन संबन्ध इति पूर्वपक्षमाह-#तत्र प्राप्तमिति / परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह-#यथा लोक इति / सिद्धान्तयति-#तुशब्देनेत्यादिना / प्रत्याकृति / प्रतिजातीत्यर्थः / अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् / तथाच पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः / न तु जीवेन व्याकरवाणीति / ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात् कृत्वाप्रत्ययो न स्यादित्यत आह-#नच जीवो नामेति / वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशे ऽपीश्वर एव कर्तेति कृत्वाश्रुतिर्युक्तेति बोध्यम् / नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह-#परमेश्वर इति / प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थीलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह-#त्रिवृत्करणपूर्वकमिति / ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह-#तच्चेति / इदानीं नामरूपव्याकरणे क्रममाह-#तत्राग्निरिति / यद्यपि ऽअतः प्रभवात्ऽइत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसंबन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः / नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणद्भूजलयोसत्र्यात्मकत्वं न विवक्षितमित्यत आह-#अनेन चेति / उपक्रमे तासां मध्य इति शेषः / यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः
SK
END Bस्Rप्_२,४.९.२०
SK
START Bस्Rप्_२,४.९.२१ः
SK
मांसादि भौमं यथाशब्दमितरयोश् च | BBस्_२,४.२१ |
SK
बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं तदन्नुत्तरसूत्रमवतारयति-#तासामित्यादिना / पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः / उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः / नन्वन्नमयं मांसादि कथं भौममित्यत आह-#त्रिवृत्कृता भूमिरेवेति / प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम्
SK
END Bस्Rप्_२,४.९.२१
SK
START Bस्Rप्_२,४.९.२२ः
SK
वैशेष्यात् तु तद्वादस् तद्वादः | BBस्_२,४.२२ |
SK
एवं विषयमुक्त्वा दोषं शङ्कते-#अत्राहेति / तदुत्तरत्वेन सूत्रं व्याचष्टे-#तुशब्देनेति / स्वभावाधिक्यं वैशेष्यं किमर्थे कृतमित्यत आह-#व्यवहारप्रसिद्ध्यर्थमिति / एवं स्मृतिन्यायमतान्तरश्रुतिभिरविरोधो ब्रह्मणि वेदान्ततात्पर्यस्येति सिद्धम्
SK
END Bस्Rप्_२,४.९.२२
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य चतुर्थः पादः
SK
#इति लिङ्गशरीरश्रुतीनां विरोधपरिहाराख्यश्चतुर्थः पादः //
SK
#इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः //
SK
अथ तृतीयो ऽध्यायः /
SK
यं हि वैराग्यसंपन्नास्तत्त्वमर्थविवेकिनः / लभन्ते साधनैर्दान्तास्तं सीतानायकं भजे
SK
START Bस्Rप्_३,१.१.१ः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya (sa_bAdarAyaNa-brahmasUtra-subcomm.htm).

Source