Subcommentary on the Brahma Sūtras

Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Bरह्मसूत्र wइथ् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या, अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य

Subcommentary on the Brahma Sūtras

Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya

Bरह्मसूत्र wइथ् Gओविन्दानन्दऽस् Rअत्नप्रभाव्याख्या, अ सुब्चोम्मेन्तर्य् ओन् Śअंकरऽस् Śआरीरकमीमांसाभाष्य

Adhyāya 3

SK
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् | BBस्_३,१.१ |
SK
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् /
SK
वृत्तमनूद्य तृतीयाध्यायार्थमाह-द्वितीय इत्यादिना / अविरुद्धे वेदान्तार्थे तज्ज्ञानसाधनचिन्तावसर इत्यनयोर्हेतुहेतुमद्भावः / लिङ्गोपाधिसिद्धौ तदुपहितजीवसंसारचिन्तेति पादयोरपि तद्भावसङ्गतिः / अत्र प्रथमपादे वैराग्यम् / द्वितीये स्वप्नाद्यवस्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये / तृतीये वाक्यार्थस्तदर्थमुपासनाश्च विचार्यन्ते / चतुर्थपादार्थमाह-सम्यग्दर्शनादिति / दर्शनोपायाः संन्यासादयः / मुक्तिरूपफलस्य स्वर्गवत्तारतम्यनियमाभावः एकरूपत्वमिति यावत् / प्रसङ्गागतं देहात्मदूषणम् / पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्नित्वध्यानं पञ्चाग्निविद्या / यस्मात् कर्मणा गत्यागतिरूपो ऽनर्थस्तस्मात् कर्मफले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चाग्निविद्योपसंहारे श्रवणाद्वैराग्यार्थं प्रदर्श्यते इत्यन्वयः / शास्त्रादिसूत्रे नित्यानित्यविवेककृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्यागतिक्लेशभावनाकृतं तदुच्यत इत्यपौनरुक्त्यम् / अधिकरणविषयमाह-जीव इति / अविद्या प्रसिद्ध / विद्येति पाठे उपासना ग्राह्या / कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः / अथ मरणकाले प्राणा हृदये जीवेनैकीभवन्तीत्यर्थः / रूपं शरीरं, पञ्चीकृतभूतभागाः उत्तरदेहपरिणामिनो भूतसूक्ष्माः / वेदान्तार्थज्ञानसाधनविचारत्वात् सर्वाधिकरणानां, श्रुतिशास्त्राध्यायसङ्गतयः वैराग्यफलकत्वादेतत्पादसङ्गतिः / पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारो ऽत्र निरूप्यत इति फलफलिभावो ऽवान्तरसङ्गतिः / अत्र पूर्वपक्षे निराश्रयप्राणगत्यभावात्, न वैराग्यं, सिद्धान्ते भूताश्रयप्राणगतेर्वैराग्यमिति फलभेदः / तेजोमात्राश्चक्षुरादयः, पश्यति जिघ्रतीति वाक्यशेषात् / आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच ऽअसौ वाव लोके गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह ख्ल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमाख्यदिव्यदेहात्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरुषशब्दवाच्याः पुमात्मका भवन्तिऽइति निरूपणं कृतम् / नन्वेतद्देहं त्यक्त्वाद्भिः सह गतस्य पश्चाद्देहान्तरप्राप्तिरित्ययुक्तम् / यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवो देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुतिविरोधादिति शङ्कते-नन्वन्येति / इहैव कर्मायत्तभाविदेहं देवो ऽहमित्यादिभावनया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः, अतो न विरोध इति समाधत्ते-तत्रापीति / भावनाया दीर्घीभावो भाविदेहविषयत्वम् / घटाकाशवदुपहितो जीवः सूक्ष्मोपाधिगत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्विरोधादन्याः कल्पनाः सर्वा अनादर्तव्या इत्यन्वयः / साङ्ख्यकल्पनामाह-व्यापिनामिति / सुगतकल्पनामाह-केवललस्येति / निर्विकल्पकज्ञानसन्तानरूपस्यात्मनो देहान्तरे शब्दादिसविकल्पकज्ञानाख्यवृत्तिलाभो भवतीत्यर्थः / काणादकल्पनामाह-मन इति / देहान्तरं प्रति मनोमात्रं गच्छति, इन्द्रियाणि तु नूतनान्येवारभ्यन्ते / दिगम्बरकल्पनामाह-जीव इति
SK
END Bस्Rप्_३,१.१.१
SK
START Bस्Rप्_३,१.१.२ः
SK
त्र्यात्मकत्वात् तु भूयस्त्वात् | BBस्_३,१.२ |
SK
ननु पाकस्वेदगन्धरूपकार्यत्रयोपलब्धेस्त्र्यात्मको देह इत्ययुक्तम् / प्राणावकाशयोरप्युपलब्ध्या देहस्य पञ्चभूतात्मत्वादित्यरुच्या व्याख्यान्तरमाह-पुनश्चेति / देहधारकत्वाद्धातवस्तैस्त्रिधातुत्वात्र्यायात्मक इत्यन्वयः / देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः / पृथिवीतरभूतापेक्षयापां बाहुल्यम् / किञ्च देहनिमित्तानां कर्मणामब्बाहुल्यात्ताभिर्भूतान्तराण्युपलक्ष्यन्त इत्याह-कर्म चेत्यादिना
SK
END Bस्Rप्_३,१.१.२
SK
START Bस्Rप्_३,१.१.३ः
SK
प्राणगतेश् च | BBस्_३,१.३ |
SK
उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वज्जीवद्देहस्थप्राणवदित्याह-प्राणगतेश्चेति
SK
END Bस्Rप्_३,१.१.३
SK
START Bस्Rप्_३,१.१.४ः
SK
अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात् | BBस्_३,१.४ |
SK
प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति-अग्न्यादीति /
SK
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः / लोमान्यपियन्तीत्यर्थः //
SK
प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः
SK
END Bस्Rप्_३,१.१.४
SK
START Bस्Rप्_३,१.१.५ः
SK
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः | BBस्_३,१.५ |
SK
भूतान्तरयुक्तानामपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते-प्रथम इति / ननु प्रथमपदं व्यर्थमुत्तराग्निष्वप्यपामश्रवणादित्याशङ्क्य सोमवृष्ट्यन्नरेतसामब्रूपत्वादुत्तरत्र तासां श्रवणमस्ति, न प्रथम इत्याह-यदिनामेति / पञ्चाग्निष्वपामाहुतित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासामनाहुतित्वादिति शङ्कार्थः एवं हि श्रद्धाशब्देनापां ग्रहे सति प्रश्नोत्तरोपसंहाराणां संगानादेकार्थत्वादेकवाक्यतोपपद्यते, अग्रहे तु चतुर्ष्वग्निष्वेवापामाहुतित्वाच्चतुर्थ्यामाहुताविति वाच्यं, अतः प्रश्नोपसंहारयोः पञ्चम्यामिति श्रवणात्, प्रथमाग्नावप्याप एव ग्राह्या इति समाधानार्थः / अनपः अद्भ्यो ऽन्यतः / एतदेवेति / श्रद्धाशब्दस्याबर्थकत्वं दर्शयतीत्यर्थः / उपपत्तेरित्यस्यार्थान्तरमाह-श्रद्धाकार्यमिति / तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धासोमादीनां पूर्वपूर्वपरिणामत्वं श्रुतं ततो द्रवपरिणामत्वात् श्रद्धाया अप्त्वं प्रत्ययात्मकमुख्यश्रद्धाया आहुतित्वायोगाच्चेत्यर्थः / श्रद्धाशब्दस्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भिरेककर्मयोगित्वं हेतुत्वं वा संबन्धमाह-श्रद्धापूर्वकेति /
SK
अस्मै यजमानाय / स्नानाद्यर्थमापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः
SK
END Bस्Rप्_३,१.१.५
SK
START Bस्Rप्_३,१.१.६ः
SK
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः | BBस्_३,१.६ |
SK
अपां गतिमुपेत्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते-अथापीत्यादिना / द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभवतीत्युक्त्वा वाक्यशेषे धूमादिमार्गेण आकाशाच्चन्द्रमसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोमराजाशब्दसामान्यादिष्ट्यादिकारिणां जीवानां श्रद्धाशब्दिताद्भिः सह गतिरिह श्रद्धाहुतिवाक्ये प्रतीयत इत्यर्थः / तेषां सूक्ष्माभिर्द्रव्यापूर्वरूपाभिः पञ्चीकृताभिरद्भिः संबन्धं वदन् सहगतिं विवृणोति-तेषां चाग्निहोत्रेति / निधनं मरणं तन्निमित्तकमन्त्येष्टिविधानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः / हुतद्रव्यरूपाणामपां गमने श्रुत्यन्तरमाह-तथाचेति /
SK
अग्निहोत्रप्रकरणे जनकेन याज्ञवल्क्यं प्रति ऽनत्वेवैनयोः सायंप्रातराहुत्योस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थऽइति षट् प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव ऽते वा एते आहुती हुते उत्क्रामतः ते ऽन्तरिक्षद्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरुषरूपेणोत्तिष्ठतःऽइति वाक्यशेषेण कृतम्
SK
END Bस्Rप्_३,१.१.६
SK
START Bस्Rप्_३,१.१.७ः
SK
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति | BBस्_३,१.७ |
SK
संप्रत्युत्तरसूत्रव्यावर्त्यं शङ्कते-कथमित्यादिना / अत्र सोमाख्यचन्द्रस्यान्नत्वमुक्तं नेष्टादिकारिणामिति भ्रान्तिनिरासार्थं श्रुत्यन्तरमाह-ते चन्द्रमिति / यथा यज्ञे चमसस्थं सोममृत्विज आप्यायस्वेति क्रियावृत्तौ लोट् पुनः पुनराप्याय्य पुनः पुनरपक्षय्य भक्षयन्ति / एवमेनानिष्टादिकारिणो ऽन्नरूपान् भक्षयन्ति देवा इत्यर्थः / अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना / शास्त्रानर्थक्यवारणाय अन्नत्वं गोणमिति भावः / केन दोषेण तेषां देवभोग्यतेत्यत आह-अनात्मवित्त्वाच्चेति / यथा पशुर्भोग्य एवमज्ञः स भेदधीमान् देवानां भोग्य इत्यर्थः / आत्मशब्दस्य मुख्यत्वबलेन सूत्रांशं व्याख्याय प्रकृतपञ्चाग्नयः सूत्रकृतात्मत्वेनोपचरिता इति व्याख्यान्तरमाह-अनात्मेत्यादिना / विद्यास्तुत्यर्थमन्नत्वं न मुख्यमित्यत्र श्रुत्यन्तरार्थं सूत्रशेषं व्याचष्टे-तथाहीति /
SK
एवं गतिपर्यालोचनया वैराग्यमिति सिद्धम्
SK
END Bस्Rप्_३,१.१.७
SK
START Bस्Rप्_३,१.२.८ः
SK
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च | BBस्_३,१.८ |
SK
इदानीं गत्यन्तरभाविनीमागतिं निरूपपयति-कृतात्यय इति / भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः / यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावत्तावदाम्नायत इति योजना / अत्र यावत्संपातमिति विशेषणाद्रमणीयचरणा इति वाक्याच्च संशयमाह-तत्रेति / अनुशयः कर्म, अत्र पूर्वपक्षे कर्माभावेनागतेरनियमाद्वैराग्यादार्ढ्यं, सिद्धान्ते कर्मसत्त्वेनागतिनियमाद्वैराग्यदार्ढ्यमिति भेदः / तेषामिष्टादिकारिणां यदा तत्कर्म पर्यवैति विपरिक्षीणं भवति तदा पुनरावर्तन्त इति श्रुत्यन्तरेणापि कृत्स्रकर्मणश्चन्द्रलोके भुक्तत्वमुच्यत इत्यर्थः / यावत्पदसङ्कोचो न युक्तः श्रुत्यन्तरविरोधादित्याह-नैवमिति / अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य कर्मार्थं पुनरायातीति श्रुत्यर्थः / कर्माभावे श्रुतिमुक्त्वा युक्तिमाह-अपिचेति / अभिव्यक्तिः फलोन्मुखता, मरणेनाभिव्यक्तस्य सर्वस्य कर्मणः परलोकभोगस्यावश्यंभावात्कर्माभाव इत्यर्थः / चरणाख्यसीलमात्रादवरोह इति प्राप्ते सिद्धान्तप्रतिज्ञां व्याचष्टे-येनेत्यादिना / तत् तत्रावरोहतां जीवानां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणाः पुण्यकर्माणः पुण्ययोनिभाज इति यत् तत् अभ्याशो ह अवश्यं हीत्यर्थः / कपूयं पापम् / दृष्टशब्दस्य श्रुत्यर्थमुक्त्वार्थान्तरमाह-दृष्टश्चेति / ऽपुण्यो वै पुण्येन कर्म भवति पापः पापेनऽइत्यादिशास्त्रेण सुखदुःखयोर्धर्मार्धर्महेतुकत्वमवगतम् / ततश्च जन्मारब्य दृष्टो भोगः कर्महेतुकः भोगत्वात्, स्वर्गभोगवदित्यानुशयसिद्धिः, विपक्षे च हेत्वभावात् भोगस्याकस्मिकत्वप्रसङ्ग इत्यर्थः / स्मृतवाश्रमाः आश्रमिणः प्रेत्य मृत्वा लोकान्तरे कर्मफलं भुक्त्वा ततः शेषेण भुक्तादन्येन कर्मणा अनुशयाख्येन पुनर्जन्म प्रतिपद्यन्ते इति संबन्धः / विशिष्टा देशादयो मेधान्ता दश गुणा येषु ते तथोक्ताः / श्रुतं ज्ञानं, वृत्तं आचारः / स्वाभिमतानुशयं वक्तुं पृच्छति-कः पुनरिति / कृतस्य कर्मणः स्वर्गे भोगे सति भुक्तस्य कर्मणो लेशो ऽनुशयस्तद्वानवरोहति भाण्डे स्नेहलेशस्य दृष्टत्वात्, ततः शेषेणेति स्मृतेश्चेत्येकदेशिव्याख्यामाह-केचिदित्यादिना / रिच्यमानं स्नेहेन वियुज्यमानम् / ननु भोगनाश्यत्वात् कर्मणो लेशो न युक्तः इति शङ्कते-नन्विति / कृत्स्नकर्मणो भोगे जाते नाशः स्यात्, नतु भोगो जात इति परिहारार्थः / भोगो न जायत इत्ययुक्तमिति शङ्कते-नन्विति / भोगः सावशेषो जात इति समाधत्ते-बाढमित्यादिना / इदमेकदेशिव्याख्यानं दूषयति-नचेति / ऽस्वर्गकामो यजेतऽइत्यादिशास्त्रेण स्वर्गभोगार्थं कर्म चोदितं, तच्छेषस्य मर्त्यभोगहेतुत्वे शास्त्रविरोध इत्यर्थः / किञ्च स्वर्गहेतुकर्मशेषादवरोहे कपूययोन्यापत्तिश्रुतिविरोध इत्याह-अवश्यं चेति / स्वाभिमतमनुशयमाह-तस्मादिति / पूर्वपक्षबीजमनूद्य दूषयति-यदित्यादिना / क्षपयित्वा पुनरागच्छन्तीति प्राप्यन्तमिति वाक्येन गम्यत इति योजना / जन्मारभ्य दृष्टभोगलिङ्गानुगृहीतया रमणीयकपूयचरणश्रुत्यैहिकानुशयाक्यकर्मविशेषणपरया विरोधात्, यत्किञ्चेति यावत्संपातमिति च सामान्यशब्दयोरामुष्मिकविषयत्वेन सङ्कोचो न्याय्य इति भावः / मरणं कृत्स्नकर्माभिव्यञ्जकमित्ययुक्तम्, उक्तानुशयश्रुतिविरोधादित्याह-तदपीति // बलवदनारब्धकर्मप्रतिबन्धाच्च न कृत्स्नकर्माभिव्यक्तिरित्याह-अपिचेत्यादिना / तस्य कृतस्नकर्मव्यञ्जकत्वे हेतुर्नास्तीति भावः / प्रश्नं मत्वोत्तरं शङ्कते-आरब्धेति / आरब्धवदनारब्धस्यापि बलवतः प्रतिबन्धकत्वान्न सर्वकर्मणः फलदानायाभिव्यक्तिरिति समाधत्ते-यथेति / अनारशब्धफलत्वाविशेषात्सर्वकर्मणामभिव्यक्तिमाशङ्क्य मिथोविरुद्धस्वर्गनरकादिदेहफलानामेकदेहारम्भकत्वासंभव उक्तस्तं विवृणोति-नहीति / अस्तु तर्हि दुर्बलस्य कर्मणो नाश इत्यत आह-नापीति / नाभुक्तं क्षीयते कर्मेत्येकान्त उत्सर्गः स च प्रायश्चितब्रह्मज्ञानध्यानैर्बाध्यते न मरणमात्रणेत्यर्थः / मरणेन दुर्बलकर्माविनाशे मानमाह-स्मृतिरिति / कर्मनाशपक्षं निरस्य प्रकृतकृत्स्नकर्माभिव्यक्तिपक्षे दोषान्तरमाह-यदि चेति / ऽकृत्स्नकर्मणामेकस्मिन् देवादिजन्मनि भोगेन क्षयान्न जन्मान्तरं स्यात्, ज्ञानाभावान्न मुक्तिरित्यज्ञदेवस्य कष्टान्तरालदशा स्यादित्यर्थः / ऽश्वसूकरखरोष्ट्राणां गो ऽजाविमृगपक्षिणाम् / चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति / ऽइत्यादिस्मृतिविरोधाच्च न सर्वकर्मणामेकजन्मारम्भकत्वमित्याह-ब्रह्मेति / नन्वेकस्य कर्मणः कथमनेकजन्मफलकत्वम्, अदृष्टत्वादित्याह-नचेति / किञ्च व्यञ्जकत्वे ऽपि मरणस्य किं सर्वकर्मव्यञ्जकत्वं कल्प्यते उत यत्किञ्चित्कर्मव्यञ्जकत्वम् / नाद्यः, इह कृतकारीर्यादेरत्रैव फलहेतोर्मरणव्यज्यत्वासंभवादित्याह-नचेति / द्वितीयं निरस्यन् परोक्तं दृष्टान्तं विघटयति-प्रदीपेति / रूपाणां प्रदीपवत्, मरणं न कस्यचिदपि कर्मणो वयञ्जकं किन्तु प्रबलकर्मप्रतिबन्धाभावे दुर्बलं व्यज्यत इत्यर्थः / एवं मरणस्य व्यञ्जकत्वानङ्गीकारेण प्रदीपदृष्टान्तो निरस्तः,
SK
अङ्गीकारे ऽप्यनुकूलो दृष्टान्त इत्याह-स्थूलेति / सूक्ष्ममनुद्भूतरूपमिति मरणे सर्वकर्माभिव्यक्त्यसिद्धिरिति शेषः / एवं सर्वकर्मसङ्घ एकजन्मारम्भक इत्यैकभविकः कर्माशय इति मतनिरासमुपसंहरति-तस्मादिति / चरणश्रुत्या ऽततः शेषेणऽइत्यादिस्मृत्या ऽप्रबलप्रतिबन्धात्ऽइतिन्यायेन चानभिव्यक्तकर्मसद्भावादित्यर्थः / ननु मुक्त्यनुपपत्त्याङ्गीकार्य ऐकभविक इत्यत आह-शेषेति / सूत्रशेषं व्याचष्टे-ते चेत्यादिना /
SK
अवरोहमार्ग इत्थं श्रूयते-ऽतस्मिन् यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भूत्वा मेघो भवति भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्तेऽइति / धूमाद्यध्वना यथेतं यथागतं तथेतमध्वानं पुनरायन्तीत्युक्त्वा धूमादिरूपपितृमार्गस्थरात्र्यादिकं नोक्तमधिकं चाभ्रादिकमुक्तमिति मत्वा सूत्रकृतोक्तं यथेतमनेवं चेति / अवशिष्टश्रुत्यर्थो ऽग्ने स्फुटीभविष्यति
SK
END Bस्Rप्_३,१.२.८
SK
START Bस्Rप्_३,१.२.९ः
SK
चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः | BBस्_३,१.९ |
SK
संप्रति श्रुतिस्थचरणशब्दमाक्षेपपूर्वकं सूत्रकृद्व्याचष्टे-चरणादिति चेदिति /
SK
ऽअद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा / अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाःऽइति स्मृतावुक्तावद्रोहादयः शास्त्रार्थज्ञानरूपं शीलं सर्वकर्माङ्गमुक्तं तद्बोधकं चरणपदमङ्गिनः श्रौतादिकर्मणो लक्षकं, कर्मण एवोत्तरावस्था धर्माधर्माख्यापूर्वमिति कर्मलक्षणयैव तदभिन्नापूर्वाख्यानुशयसिद्धिरिति कार्ष्णाजिनिमतम्
SK
END Bस्Rप्_३,१.२.९
SK
START Bस्Rप्_३,१.२.१०ः
SK
आनर्थक्यम् इति चेन् न तदपेक्षत्वात् | BBस्_३,१.१० |
SK
तदेव शङ्कासमाधानाभ्यमाह-आनर्थक्यमिति चेदित्यादिना सूत्रेण / चरणशब्दवाच्यस्यैव ग्रहणसंभवान्न लक्षणा युक्तेति शङ्कित्वैव ब्रूते-नन्विति / प्रतिषिद्धं शीलं क्रोधानृतादिरूपम् / किञ्च शीलस्य निष्फलत्वायोगाच्छ्रुतयोन्यापत्तिस्तस्यैव फलं नानुशयस्येत्याह-अवश्यं चेति / वेदास्तदर्थकर्माण्याचारं विना न फलन्तीति स्मृत्या शीलस्य कर्माङ्गत्वान्न पृथक्फलापेक्षा, अङ्गिफलेनार्थवत्त्वात् / न चाङ्गमात्राद्योन्यापत्तिः फलमिति वाच्यम् / अङ्गस्य फलासंभवेन मुख्यार्थस्याचारस्य ग्रहणायोगाल्लक्षणा युक्तेति समाधानार्थः / यद्याचारस्य स्नानादिवत् पुरुषसंस्कारतया पुरुषार्थत्वं तदाप्यविरोध इत्याह-पुरुषार्थत्वे ऽपीति / अङ्गावबद्धोपास्तिवदाचारोर्ऽथवानित्यर्थः / अस्तु तर्हि शीलख्याचारादेव योन्यापत्तिरित्याशङ्क्य ऽपुण्यो वै पुण्येन कर्मणाऽइत्यादि श्रुत्या विरोधान्नैवमित्याह-कर्म चेति /
SK
पारयमाणः शक्तः
SK
END Bस्Rप्_३,१.२.१०
SK
START Bस्Rप्_३,१.३.११ः
SK
सुकृतदुष्कृते एवेति तु बादरिः | BBस्_३,१.११ |
SK
यद्यप्यक्रोधादिरूपं शीलं साधारणधर्मात्मकं विशेषरूपात् कर्मणो ऽभिन्नं तथापि चरणाचारशब्दौ कर्मवाचिनावेव न शीलवाचकाविति न लक्षणावसर इति बादरिमतं मुख्यसिद्धान्तमाह-सुकृतेति / चरणशब्दार्थमुपसंहरति-आचारो ऽपीति / कर्मण एवाचारत्वे यथाकारीत्यादिभेदोक्तिः कथमित्यत आह-भेदव्यपदेश इति /
SK
निरूपपदाचारशब्दात् सदाचाररूपो विशेषो भाति / अतस्तत्समभिव्याहृतः कर्मसामान्यवाचको यथाकारीति शब्दस्तदितरविशेषपरः एवमनवद्यानि कर्माणीति सामान्यतः, अस्माकं सुचरितानीति विशेष इति विवेकः / तस्मादनुशयबलादागत्यवश्यंभावानुसन्धानाद्वैराग्यमिति सिद्धम्
SK
END Bस्Rप्_३,१.३.११
SK
START Bस्Rप्_३,१.३.१२ः
SK
अनिष्टादिकारिणाम् अपि च श्रुतम् | BBस्_३,१.१२ |
SK
एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति-अनिष्टादिकारिणामपीति / ऽये वै के चऽइत्यविशेषश्रुतेः, ऽवैवस्वतं संगमनं जनानाम्ऽइति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्धनियमाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-तत्रेत्यादिना / यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः / पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति नियमाभावात् पुण्यवैयर्थ्यं पापाद्वैराग्यादार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्रलोकदर्शनमपि नास्तीति पुण्यार्थवत्त्वं वैराग्यदार्ढ्यं चेति फलम् / पञ्चमाग्नौ देहारम्भ इति नियमात्पापिनामपि प्रथमद्युलोकाग्निप्राप्तिर्वाच्येत्याह-देहारम्भ इति /
SK
पापिनां स्वर्गभोगाभावे ऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः
SK
END Bस्Rप्_३,१.३.१२
SK
START Bस्Rप्_३,१.३.१३ः
SK
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् | BBस्_३,१.१३ |
SK
सिद्धान्तसूत्रं व्याचष्टे-तुशब्द इत्यादिना / संयमने यमलोके यमकृता यातना अनुभूयावरोहन्तीत्येवमारोहावरोहाविति योजना सूत्रस्य ज्ञेया / प्रयतां मृत्वा गच्छताम् / सम्यक् परस्तात्प्राप्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति / स च बालो ऽयं स्त्रीवित्तादिलोको ऽस्ति न परलोको ऽस्तीति मानी / स मे मम यमस्य वशमाप्नोतीत्यर्थः / पापिनां यमवश्यतावादिविशेषश्रुतिस्मृतिबलात्ऽये वै के चऽइत्यविशेषश्रुतिरिष्टादिकारिविषयत्वेन व्याख्येयेति भावः
SK
END Bस्Rप्_३,१.३.१३
SK
START Bस्Rप्_३,१.३.१४ः
SK
स्मरन्ति च | BBस्_३,१.१४ |
SK
सूत्रत्रयस्य भाष्यं सुबोधम् //१४ // //१५
SK
END Bस्Rप्_३,१.३.१४
SK
START Bस्Rप्_३,१.३.१५ः
SK
अपि च सप्त | BBस्_३,१.१५ |
SK
END Bस्Rप्_३,१.३.१५
SK
START Bस्Rप्_३,१.३.१६ः
SK
तत्रापि च तद्व्यापारादविरोधः | BBस्_३,१.१६ |
SK
END Bस्Rप्_३,१.३.१६
SK
START Bस्Rप्_३,१.३.१७ः
SK
विद्याकर्मणोर् इति तु प्रकृतत्वात् | BBस्_३,१.१७ |
SK
यदुक्तं मार्गान्तराभावात् पापिनामपि चन्द्रगतिरिति / तन्न / तृतीयमार्गश्रुतेरित्याह-विद्याकर्मणोरिति / मार्गद्वितयोक्त्यनन्तरं तृतीयमार्गोक्तिप्रारम्भार्थः श्रुतावथशब्दः / एतयोर्विद्याकर्मणोः पथिद्वयसाधनयोरन्यतरेणापि साधनेन ये नरा न युक्तास्ते जन्ममरणावृत्तिरूपतृतीयमार्गस्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्रगत्यभावाच्चन्द्रलोको न संपूर्यत इति श्रुत्यर्थः / प्रतिपत्ताविति / प्राप्तिसाधने इत्यर्थः / अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत ऽअतश्च न संपूर्यतेऽइत्येतत्प्रतिवचनं विरुद्धं प्रसज्येतेत्यन्वयः / अवरोहादसंपूरणमश्रुतं न कल्प्यं श्रुतहान्यापत्तेरित्याह-न अश्रुतत्वादिति / अवरोह एव तृतीयं स्थानं श्रुत्युक्तमित्यत आह-अवरोहस्येति /
SK
इममध्वानं पुनर्निवर्तन्त इति इष्टादिकारिणामवरोहोक्तेरनिष्टादिकारिणामपि अवरोहस्यार्थसिद्धत्वात् पुनरुक्तिर्व्यर्थेत्यर्थः / अथैतयोरिति मार्गान्तरोपक्रमबाधस्तृतीयशब्दबाधश्चेत्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम्
SK
END Bस्Rप्_३,१.३.१७
SK
START Bस्Rप्_३,१.३.१८ः
SK
न तृतीये तथोपलब्धेः | BBस्_३,१.१८ |
SK
एवमविशेषश्रुतेर्मार्गान्तराभावाच्चेति पूर्वपक्षबीजद्वयं निरस्य तृतीयबीजनिरासार्थं सूत्रमादत्ते-यत्पुनरित्यादिना / विद्याकर्मशून्यानां कृमिकीटादिभावेन जायस्वेत्यादिश्रुत्या निरन्तरजन्ममरणोपलब्धेर्नाहुतिसंख्यादर इत्यर्थः / पुरुषशब्दाच्चैवमित्याह-अपिचेति / मनुष्यदेहस्यापि नाहुतिसङ्ख्यानियम इत्याह-अपिचेत्यादिना /
SK
विधिनिषेधरूपार्थद्वये वाक्यभेदः स्यादित्यर्थः
SK
END Bस्Rप्_३,१.३.१८
SK
START Bस्Rप्_३,१.३.१९ः
SK
स्मर्यते ऽपि च लोके | BBस्_३,१.१९ |
SK
अनियमे स्मृतिसंवादार्थं सूत्रम्-स्मर्यते ऽपीति / लोक्यते ऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह-बलाकेति
SK
END Bस्Rप्_३,१.३.१९
SK
START Bस्Rप्_३,१.३.२०ः
SK
दर्शनाच् च | BBस्_३,१.२० |
SK
ऽअण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च ऽइतिश्रुत्यवष्टम्भेन सूत्रं व्याचष्टे-अपिचेति /
SK
अन्यत्राप्यनिष्टादिकारिष्वित्यर्थः
SK
END Bस्Rप्_३,१.३.२०
SK
START Bस्Rप्_३,१.३.२१ः
SK
तृतीयशब्दावरोधः संशोकजस्य | BBस्_३,१.२१ |
SK
अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्येवेत्यवधारणविरोधादिति शङ्कोत्तरत्वेन सूत्रमादत्ते-नन्वित्यादिना /
SK
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः / संशोकः स्वेदः
SK
END Bस्Rप्_३,१.३.२१
SK
START Bस्Rप्_३,१.४.२२ः
SK
साभाव्यापत्तिरुपपत्तेः | BBस्_३,१.२२ |
SK
एवं पापिनां गत्यागती विचार्य संप्रतीष्टादिकारिणामवरोहे विशेषमाह-साभाव्यापत्तिरूपपत्तेः / यथेतमनेवं चेत्युक्तरीत्या यथागतं धूमाद्यध्वानं पुनर्निवर्तन्ते, निवृत्ताश्चानुशयिनः कर्मान्ते द्रुतदेहा आकाशं गता आकाशसदृशा भवन्ति / आकाशसादृश्यानन्तरं पिण्डीकृता अतिसूक्ष्मलिङ्गोपहिताः वायुनेतस्ततश्च नीयमाना वायुसमा भवन्ति / सो ऽनुशयी संघो वायुसमो भूत्वा धूमसंगतस्तत्समो भवति, धूमसमो भूत्वाभ्रसमो भवति / अपो बिभर्तीत्यभ्रं, मेहति सिञ्चतीति वृष्टिकर्ता मेघस्तत्समो भूत्वा वर्षधाराद्वारा पृथिवीं प्रविश्य व्रीहियवादिरूपो भवतीति सिद्धान्तगत्या श्रुत्यर्थः / पूर्वोत्तरयुक्तिद्वयं संश्यबीजं मन्तव्यं, पूर्वत्र मार्गद्वयमुक्त्वा तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षकत्वमिह तु दुग्धं दधि भवतीत्यादिप्रयोगे भवतिश्रुतेर्विकारस्वरूपापत्तौ मुख्यत्वात् सादृश्यापत्तिलक्षणाबीजं नास्तीति प्रत्युदाहरणसङ्गतिः / श्रुतिमुख्यत्वं फलमिति पूर्वपक्षः / अनुशयिनां पूर्वसिद्धाकाशादिस्वरूपापत्त्ययोगाल्लक्षणेति सिद्धान्तयति-एवमित्यादिना / समानो भावो धर्मो यस्य तद्भावः साभाव्यं साम्यमिति सूत्रपदार्थः / एवं ह्येतदिति / एतद्भवनमेवं सादृश्यरूपमेवोपपद्यत इत्यर्थः / अनुशयिनामाकाशादिभ्यो निर्गमनान्यथानुपपत्त्यापि सादृश्यलक्षणेत्याह-आकाशस्वरूपेति / संयोगलक्षणामाशङ्क्याह-विभुत्वादि ति / भवतिश्रुत्या संयोगलक्षणायामनुवादः स्यादित्यर्थः / विविधभूतसाम्यमवरोहे भवतीत्यनुसंधानाद्वैराग्यमुपसंहरति-अत इति
SK
END Bस्Rप्_३,१.४.२२
SK
START Bस्Rप्_३,१.५.२३ः
SK
नातिचिरेण विशेषात् | BBस्_३,१.२३ |
SK
नातिचिरेण /
SK
उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिराचिरगतिदर्शनात्संशयं वदन् पूर्वपक्षयति-तत्रेत्यादिना / अनियमात् कदाचिद्विलम्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहीयवादिभावादनुशयिनां विलम्बेन निर्गमनमिति विशेषादाकाशादिभावाच्छीघ्रं निर्गम इत्यविलम्बेन योन्यापत्तिरित्यनुसंधानाद्वैराग्यदार्ढ्यमिति विवेकः / नन्वाकाशादिष्वनुशयिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिराचिरनिर्गमनमित्यत आह-सुखदुःखताविशेषश्चायमिति /
SK
अवधिः कालः
SK
END Bस्Rप्_३,१.५.२३
SK
START Bस्Rप्_३,१.६.२४ः
SK
अन्याधिष्ठितेषु पूर्ववदभिलापात् | BBस्_३,१.२४ |
SK
अन्याभिलापात् /
SK
श्रुतिक्रमात् अर्थक्रमाच्चाधिकरणानां क्रमो बोध्यः / इह भूमौ वर्षधाराद्वारा पतितास्ते ऽनुशयिनो व्रीह्यादिसाम्येन जायन्त इति श्रुत्यर्थः / अत्र जायन्त इति श्रुतेः पूर्वत्राकाशादिवर्षान्तसादृश्योक्तेश्च संशयमाह-तत्रेति / अस्मिन्नवधौ वर्षसादृश्यानन्तरमित्यर्थः / दुर्निष्प्रपतरशब्देन चिरनिर्गलनलक्षणोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्यसंभवादित्याक्षेपसङ्गत्या पूर्वपक्षयति-किं तावदित्यादिना / अत्र पूर्वपक्षे स्थावरत्वनिवृत्तये ऽधिकारिणां यत्नगौरवं, सिद्धान्ते व्रीह्यादिसंश्लेषमात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः / ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यदेस्तु न देहत्वमित्यत आह-स्थावरभावस्येति / ऽस्थाणुमन्ये ऽनुसंयन्तिऽइत्याद्या श्रुतिः / ऽशरीरजैः कर्मदोषैर्याति स्थावरतां नरःऽइत्याद्या स्मृतिः / ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह-पश्विति / सोमाद्युच्छिष्टभक्षणसुराग्रहावादिशब्दार्थः / क्रत्वर्थहिंसादेरपि हिंसात्वादिसामान्येन प्रवृत्तेर्न हिंस्यादित्यादिशास्त्रनिषिद्धत्वाकारेण दुरितापूर्वकारित्वमविरुद्धमिति साङ्ख्या आहुः / श्रुतो ऽत्र व्रीह्यादिभावो ऽनुशयिनां न जन्यरूपः कर्मविशेषपरामर्शं विनात्रोक्तत्वात्, पूर्वोक्ताकाशादिभाववदिति सिद्धान्तयति-एवं प्राप्त इत्यादिना / पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्मविशेषपरामर्शकमुच्यते तज्जन्मेति व्यतिरेकदृष्टान्तमप्याह-यत्र त्विति / अपिच ऽयो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवतिऽइति वाक्यशेषे व्रीह्यादिषु प्रविष्टस्यानुशयिसंघस्यान्नद्वारा रेतःसिक्पुरुषयोगः श्रुतस्तदन्यथानुपपत्त्यापि जन्मश्रुतिर्न मुख्येत्याह-अपिचेत्यादिना / व्रीह्यादिरूपदेहनाशे देहिनामुक्तान्तेरवश्यंभावाद्रेतः सिग्योगो न स्यादित्यर्थः / एतेनेति / उक्तानुमानार्थापत्तिभ्याम् / जायत इति श्रुतेर्मुख्यार्थत्वमनुशयिभोगायतनत्वं च व्रीह्यादेः प्रतिब्रूयादित्यर्थः / ननु व्रीह्यादेर्भोगायतनत्वानङ्गीकारे पूर्वोक्तश्रुतिस्मृतिप्रसिद्धिबाध इत्यत आह-नचेति
SK
END Bस्Rप्_३,१.६.२४
SK
START Bस्Rप्_३,१.६.२५ः
SK
अशुद्धम् इति चेन् न शब्दात् | BBस्_३,१.२५ |
SK
वैदिकं कर्माशुद्धं न भवति शास्त्रविहितत्वादिति सूत्रार्थं प्रपञ्चयति-अयं धर्म इत्यादिना / शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः / ततः किं तत्राह-शास्त्राच्चेति / ननु या हिंसा सो ऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधो ऽत्र न युक्तः / नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषिद्धहिंसादेरपि क्रतूपकारकत्वाविरोधादिति, तत्राह-उत्सर्गापवादयोरिति / अयमर्थः-काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः / तथाच श्येनाख्ये कर्मणि निषेधे ऽपि रागप्राबल्यात् प्रवृत्तिः स्यात् क्रत्वङ्गहिंसादौ तु विधित एव प्रवृत्तिर्वाच्या / स च विधिर्यद्युत्सर्गप्राप्तमनर्थहेतुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः सावकाशमुत्सर्गमविहितहिंसादिषु स्थापयतीति / इदं च निषेधशास्त्रस्य हिंसात्वादिसामान्येन प्रवृत्तिमङ्गीकृत्योक्तम् / वस्तुतस्तस्य रागप्राप्तहिंसाविषयत्वाद्वैधहिंसायामप्रवृत्तेर्नाशुद्धत्वशङ्कावसर इति द्रष्टव्यम् / प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना / इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम्
SK
END Bस्Rप्_३,१.६.२५
SK
START Bस्Rप्_३,१.६.२६ः
SK
रेतःसिग्योगो ऽथ | BBस्_३,१.२६ |
SK
अथ व्रीह्यादिभावानन्तरं रेतः सिग्भावः श्रुतः / तत्रान्नस्थानुशयिनो रेतः सेककर्तृत्वायोगाद्योगमात्रं वाच्यं तद्वदुपक्रमे ऽपि योग एवास्थेयः, अन्यथोपक्रमोपसंहारयोर्विरोधः स्यादिति मत्वोक्तम्-इत्यविरोध इति
SK
END Bस्Rप्_३,१.६.२६
SK
START Bस्Rप्_३,१.६.२७ः
SK
योनेः शरीरम् | BBस्_३,१.२७ |
SK
योनेः शरीरश्रुतेर्न व्रीह्यादिशरीरत्वमनुशयिनामिति सूत्रार्थः / एवं कर्मिणां गत्यागतिसंसारो दुर्वार इत्यनुसन्धानात् कर्मफलाद्वैराग्यं तत्त्वज्ञानसाधनं सिद्धमिति पादार्थमुपसंहरति-इति सिद्धमिति
SK
END Bस्Rप्_३,१.६.२७
SK
इति श्रीमद्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्दभगवत्पादकृतौ शारीरकमीमांसाख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य प्रथमः पादः //
SK
तृतीयाध्याये द्वितीयः पादः /
SK
START Bस्Rप्_३,२.१.१ः
SK
सन्ध्ये सृष्टिराह हि | BBस्_३,२.१ |
SK
संध्ये सृष्टिराह हि /
SK
उक्तवैराग्यसाध्यस्तत्त्वंपदार्थविवेको वाक्यार्थज्ञानसाधनमस्मिन् पादे निरूप्यत इति पादयोर्हेतुसाध्यभावसंगतिमाह-अतिक्रान्त इति / साधनविचारत्वादेवास्य पादस्यास्मिन्नध्याये संगतिः / अस्मिन् पादे ऽन स्थानतो ऽपिऽइत्यतः प्रागुद्देश्यत्वेन प्रथमं जिज्ञासितत्वंपदार्थो ऽवस्थाद्वारा विविच्यते, तदारभ्यापादसमाप्तेर्विधेयतत्पदार्थविवेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथादिसृष्ट्युक्तेस्तदभावोक्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति-तत्र संशय इत्यादिना / स्वप्नरथादयो जाग्रद्रथादिवत् व्यावहारिकसत्ताका उत शुक्तिरजतवत् प्रातीतिका इति संशयार्थः / आरम्भणाधिकरणे प्रपञ्चस्य पारमार्थिकत्वनिषेधादिति मन्तव्यम् / अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः / सिद्धान्ते प्रातीतिकदृश्यसाक्षितया विवेकात् स्वयञ्ज्योतिष्ट्वसिद्धिरिति फलम् / मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवो सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाधृदये मनसा परलोकस्फूर्तिरूपः स्वप्नो भवति, सो ऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः / तथाच श्रुतिः-ऽतस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं चऽइति / अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबोधसंप्रसादसंधिभवत्वमुक्तम् / अन्येतु मर्त्यचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं परलोकलक्षणं, दैवचक्षुराद्यजन्यतद्वत्त्वं मर्त्यलोकलक्षणं च स्वप्ने ऽस्तीति लक्षणतो लोकद्वयस्पर्शित्वात् नित्यस्वप्नस्यैव लोकद्वयसंध्यत्वं ग्रामद्वयस्पर्शिमार्गस्य तत्संध्यत्ववदिति व्याचक्षते / न केवलं श्रुत्या स्वप्नार्थानां व्यावहारिकसत्यत्वं किन्तु सकर्तृकत्वादपीत्याह-स हि कर्तेति
SK
END Bस्Rप्_३,२.१.१
SK
START Bस्Rप्_३,२.१.२ः
SK
निर्मातारं चैके पुत्रादयश् च | BBस्_३,२.२ |
SK
किञ्च स्वप्नार्थाः सत्याः, प्राज्ञनिर्मितत्वात्, आकाशादिवदिति सूत्रार्थमाह-अपिचेत्यादिना / रूढिमाशङ्क्य प्रकरणान्निरस्यति-नन्वित्यादिना / यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः / स्वप्नस्य जाग्रदर्थैः / समानदेशत्वश्रुतेरभेदश्रुतेश्च सत्यत्वे तात्पर्यमित्याह-अथो खल्वाहुरिति
SK
END Bस्Rप्_३,२.१.२
SK
START Bस्Rप्_३,२.१.३ः
SK
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् | BBस्_३,२.३ |
SK
स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्टत्वाच्छुक्तिरूप्यादिवदिति सिद्धान्तयति-तुशब्द इत्यादिना / चिन्मात्रनिष्ठाविद्या चित्त्वावच्छेदेन जीवे ऽपि स्थिता रथाद्याकारा मायेति सूत्रभाष्ययोरुक्ता मायाविद्ययोरभेदज्ञापनाय मात्रपदेन तु सति प्रमातर्यबाध्यत्वरूपस्य व्यावहारिकसत्यत्वस्य निरास उक्तः / कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः / सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति-न तावादित्यादिना / संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विपर्येतुमागन्तुं, श्रावयति प्रबुद्धो जनः,
SK
पार्श्वस्थान्प्रतीति शेषः / एतत्स्वप्नं यथा स्यात्तथा / यत्र काले स्वप्न्यया वृत्त्या चरति तथा स्वशरीरे यथेष्टं चरतीत्यर्थः / बहिरिवेति / कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः / गुणमाह-यो हीति / देहाभिमानहीनत्वगुणेन बहिष्ठवद्देहस्थो ऽपि बहिरित्युक्त इत्यर्थः / एवं सति श्रुतियुक्तिभ्यां अन्तरेव स्वप्ने सतीत्यर्थः / विप्रलम्भो विभ्रमः योग्यदेशाभावमुक्त्वा कालाभावमाह-कालेति /
SK
अत्र रात्रिसमये ऽपि केतुमालादिवर्षान्तरे वासरो भवति इति भारत इत्युक्तम् / पूर्वक्षानुमानानां जाग्रदर्थदृष्टान्ते कॢप्तमग्रीजन्यत्वमबाधयोग्यत्वं चोपाधिरिति सूत्रतात्पर्यम्
SK
END Bस्Rप्_३,२.१.३
SK
START Bस्Rप्_३,२.१.४ः
SK
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः | BBस्_३,२.४ |
SK
स्वप्नस्य भ्रान्तिमात्रत्वे तत्सूचितो ऽप्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे-मायेत्यादिना / मन्त्रेण देवतानुग्रहेणौषधिसेवया वा स्वप्नः सत्यसूचकाश्चेत् सत्याः स्युरित्यत आह-तत्रापि भवतु नामेति / सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्यत्वादर्शनादिति भावः / यथा कृषिद्वारा लाङ्गलस्य गवादिजीवननिमित्तत्वं तथा स्वप्नभोक्तुरदृष्टद्वारा स्वप्नसृष्टिनिमित्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षाद् स्वप्नकर्तृत्वं सामग्र्यभावबाधयोरुक्तत्वादित्याह-यदुक्तमित्यादिना / तथाच स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः / श्रुतितात्पर्यविरोधाच्च न स्वप्नसत्यतेत्याह-अपिचेति / व्यतिकरः संकरः, श्रुत्यातत्परतयेत्यर्थः / जागरितादविशेषादिति भावः / फलितमाह-तस्मादिति / एतेनेति / भाक्तत्वेनेत्यर्थः / द्वितीयसूत्रोक्तप्राज्ञकर्तृकत्वहेतुरपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वेश्वरत्वात् सिद्धः, नाद्य इत्याह-यदप्युक्तमित्यादिना / स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्नमनुभवतीत्यर्थथः / न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठके ऽपीत्याह-इहापीति / जीवोक्तौ ब्रह्मप्रकरणविरोध इत्यत आह-तस्य त्विति / एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्वितीयमङ्गीकरोति-न चास्माभिरिति / तर्हि हेतुसिद्धेः स्वप्नस्य सत्यत्वमित्याशङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह-पारमार्थिकस्त्विति / द्वितीये दृष्टान्तस्य साध्यवैकल्यमित्याह-नचेति / कस्तर्हि स्वप्नस्य जाग्रतो विशेषो ऽत्र कथ्यत इत्याशङ्क्य प्रातिभासिकत्वमित्याह-प्रागिति
SK
END Bस्Rप्_३,२.१.४
SK
START Bस्Rप्_३,२.२.५ः
SK
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ | BBस्_३,२.५ |
SK
पूर्वं कॢप्तसामग्र्यभावात् स्वप्नो मायेत्युक्तमयुक्तं सत्यसङ्कल्पमात्रेणापि सत्यसृष्टिसंभवादिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे-अथपि स्यादित्यादिना / सत्यसंकल्पस्य हि संकल्पात्सृष्टिः सत्या भवति जीवस्य त्वसत्यसंकल्पत्वं प्रत्यक्षमिति परिहारार्थः / तर्हि विरुद्धधर्मवत्त्वाज्जीवस्येश्वरत्वं नास्त्येवेति शङ्कते-किमिति / नास्तीति न किन्त्वावृतमस्ति तत्पुनरीश्वरप्रसादाकस्यचिद्व्यज्यत इत्याह-न नास्तीति / विधूतध्वान्तस्य निष्पापस्य संसिद्धस्याणिमादिविशिष्टस्येत्यर्थः / ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिक्लेशानामपहानिरपक्षयस्तद्रूपो भवति / क्षीणैश्च क्लेशैस्तत्कार्यजन्ममरणात्मकबन्धध्वंस इति निर्गुणविद्याफलमुक्तम् / सगुणविद्याफलमाह-तस्येति /
SK
परस्याभिमुख्येनाहङ्ग्रहेण ध्यानाद्बन्धमोक्षापेक्षया मनेत्रोक्तहानिद्वयापेक्षया वा तृतीयं विश्वैश्वर्यमणिमादिरूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तदभोगानन्तरमात्मज्ञानात्केवलो द्वैतशून्य आप्तकामः प्राप्तस्वयञ्ज्योतिरानन्दो भवतीति क्रममुक्तिरित्यर्थः
SK
END Bस्Rप्_३,२.२.५
SK
START Bस्Rप्_३,२.२.६ः
SK
देहयोगाद्वा सो ऽपि | BBस्_३,२.६ |
SK
उक्तैश्वर्यतिरोभावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह-कस्मादिति / सत्यावरणं नास्तीत्यङ्गीकृत्य कल्पितावरणं साधयति-उच्यत इत्यादिना / जीवस्येश्वरत्वमङ्गीकृत्यावरणकल्पनातो वरमन्यत्वकल्पनेत्याशङ्कामुद्भाव्य श्रुत्या निरस्यति-नन्वित्यादिना /
SK
स्वप्ने ऽप्यालोकादेः सत्यत्वे जाग्रतीवात्मनःस्वप्रकाशत्वमस्फुटं स्यात्, प्रातिभासिकत्वे त्वालोकेन्द्रियाद्यसत्त्वे ऽप्यर्थापरोक्ष्यमात्मज्योतिष एवेति स्फुटं सिध्यति / तस्माद्देशादिसाम्यवचनं स्वप्नस्य जाग्रत्तुल्यभानाभिप्रायमित्यर्थः
SK
END Bस्Rप्_३,२.२.६
SK
START Bस्Rप्_३,२.२.७ः
SK
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च | BBस्_३,२.७ |
SK
एवं बाह्यकरणोपरमे सति मनोवासनोद्दीपिताविद्याविलासात्मकं स्वप्नमात्मनःसाक्षिणः स्वयञ्ज्योतिष्ट्वार्थं विचार्य प्रतियोग्यनुयोगिभावसङ्गत्या स्वप्नावस्थमनोलयात्मिकां सुषुप्तिं विचारयति-तदभावो नाडीषु तच्छुतेरात्मनि च / तदेतत्स्वपनं यथा स्यात्तथा / यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनोलयात्सम्यक्प्रसङ्ग इत्यर्थः / स्वापे नाडीस्थानमुक्त्वा नाडीपुरीततोर्नाडीपरमात्मनोश्च समुच्चयश्रुती आह-अन्यत्रेति / परमात्ममात्रश्रुतीराह-तथान्यत्रेत्यादिना / नाडीपुरीतब्रह्मसु सप्तमीश्रुतेः समुच्चयश्रुतेश्च संशयमाह-तत्रेति / पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समुच्च्यात् तन्निर्णय इति विवेकः / एकपुरोडाशार्थत्वं व्रीहियवयोर्दृष्टं नाड्यादीनामेकस्मिन् स्वापरूपार्थे निरपेक्षस्थानत्वं तु कुत इत्यत आह-नाड्यादीनां चेति / सति ब्रह्मणि तृतीयश्रुतेर्न सप्तमीति शङ्कार्थः / आयतनशब्दात्सप्तम्यर्थ आधारत्वं गम्यत इत्याह-नैष दोष इति / अन्यत्रावस्थाद्वये श्रान्तो जीवो विश्रान्तिस्थानं प्राणाख्यं सद्ब्रह्मोपसर्पति सुषुप्तावित्यर्थः / सप्तमीश्रुत्या निरपेक्षाधारत्वभानाद्विकल्प आस्थेयः कदाचित्समुच्चित्यापि नाड्यादीनां स्थानत्वमिति न समुच्चयश्रुतिविरोध इति पूर्वपक्षार्थः / सिद्धान्तयति-एवं प्राप्त इति / सूत्रे चकारः पुरीतत्समुच्चयार्थः / यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुतस्थानत्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह-विकल्पे ह्येषामिति / व्रीहियवयोस्त्वगत्या विकल्प इति भावः / यत्तु सप्तमीश्रुत्या नाड्यादीनामेकफलकत्वमिति, तन्नेत्याह-न ह्येकेति / प्रासादस्य पर्यङ्कधारणमर्थः / पर्यङ्कस्य तु शयनमिति फलभेदे ऽप्येकविभक्तिर्दृश्यते, व्यवधानाव्यवधानाभ्यां शयनसाधनत्वात् समुच्चयश्च, तथेहापि नाडीपुरीततोर्जीवस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः / नाडीनां प्राणस्य च एकेन वाक्येनोपादानान्मिथः समुच्चय इत्याह-एकवाक्येति / आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह-न चैवमपीति / समुच्चये ऽपीत्यर्थः / अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मिसंबन्धनाडीरूपमार्गस्तुत्यर्थत्वादित्याह-अपिचेति / पित्तेन विषयेक्षणाभावे सुखदुःखयोरभावात् तद्धेतुधर्मात्मकपाप्मास्पर्श इत्यर्थः / अपहतपाप्मब्रह्मसंपत्त्या वा पाप्मास्पर्श इत्याह-अथवेति / अस्मिन् व्याख्याने लाभमाह-एवं च सतीति / ऽतासु तदा भवत्यथास्मिन् प्राण एवैकधा भवतिऽइति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः / नाडीब्रह्मणोर्गुणप्रधानभावेन सुप्तौ समुच्चयवत्पुरीतद्ब्रह्मणोरपीत्याह-तथेत्यादिना / आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतमिति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह-तथा नाडीति / सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्तिस्थानानीत्यत आह-सत्प्राज्ञयोरिति / किञ्च प्रकृतदर्शादिसाधनैकपुरोडाशनिष्पत्तौ मिथो ऽनपेक्षतया समर्थत्वाद्युक्तो व्रीहियवयोर्विकल्पः, नाड्यादीनां तु ब्रह्मनिरपेक्षतया सुषुप्तजीवाधारत्वासामर्थ्यान्न विकल्प इत्याह-अपिच नाड्य इति / उपाधिलिङ्गाश्रयनाडीपुरीततोरुपहितजीवाश्रयत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपाधिलयादित्यर्थः / ननु ब्रह्मापि जीवस्य न मुख्यं स्थानं अभेदादित्यत आह-ब्रह्माधारत्वमिति / जीवस्य ब्रह्मण्यभेदेनावस्थानं नाडीपुरीततोस्तु लीनोपाधेर्जीवस्य स्थितिरेव न संभवतीत्येकार्थसामर्थ्याभावान्न विकल्प इत्यर्थः / सुषुप्तौ जीवस्य भेदकोपाधिलयाच्चौत्सर्गिकब्रह्माभेदस्य विकल्पो न युक्त इत्याह-अपिचेति / किञ्च नाड्यादीनामन्यतमस्थाने क्वचित्सुप्तिवादिनापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह-अपिच स्थानेति / भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडीपूरितद्रतस्य तु जीवस्य भेदावस्थत्वाद्भेदाविज्ञाने करणं नास्तीत्यर्थः / द्वैतावस्थास्यापि द्वैताज्ञाने हेतुं शङ्कते-ननु भेदेति / द्रष्टुर्दृश्याद्दूरस्थत्वं स्वाभाविकमौपाधिकं वा / तत्राद्यं सदृष्टान्तमनूद्य प्रत्याह-बाढमित्यादिना / द्वितीयमनूद्य दूषयति-उपाधिगतमेवेति / उपाधिसंभिन्नस्यैव नाड्यादौ स्वापे कतिपयसंनिकृष्टार्थज्ञानप्रसङ्गात् सुषुप्तिव्याघातः स्यात् / उपाधिलये त्वन्यत्र जीवस्य स्थित्ययोगाद्ब्रह्मण्येव स्वाप आस्थेय इत्यर्थः / एवं विकल्पं निरस्य नाडीपुरीततोर्ब्रह्मणा सह तुल्यवत्समुच्चयमफलत्वेन दूषयन् गुणप्रधानत्वेन समुच्चयमुपसंहरति-नच वयमित्यादिना
SK
END Bस्Rप्_३,२.२.७
SK
START Bस्Rप्_३,२.२.८ः
SK
अतः प्रबोधो ऽस्मात् | BBस्_३,२.८ |
SK
किञ्च ब्रह्मणः सकाशाज्जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्याह-सूत्रकारः-अतः प्रबोध इति /
SK
नाडीपुरीततोः क्वाप्युत्थानापादानत्वाश्रवणान्न सुषुप्तिस्थानत्वमित्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्माभेदादौपाधिक एव भेद इति विवेकद्वाक्यार्थाभेदसिद्धिरिति स्थितम्
SK
END Bस्Rप्_३,२.२.८
SK
START Bस्Rप्_३,२.३.९ः
SK
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः | BBस्_३,२.९ |
SK
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः /
SK
सुषुप्तौ उपाधिनाशात् कर्मानुस्मृत्यादेर्दर्शनाच्च संशये सत्यस्माद्ब्रह्मणो जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्युक्तमयुक्तम् / सुप्तादन्यस्याप्युत्थानसंभवेन सुषुप्तस्य नाड्यादिस्थानत्वसंभवादित्याक्षेपसंगत्या नियमकाभावादनियम इति पूर्वपक्षमाह-तस्याः पुनरित्यादिना / पूर्वपक्षे ज्ञानवैयर्थ्यं सुषुप्त्यैवापुनरावृत्तिरूपमुक्तिसिद्धेः, सिद्धान्ते तु अज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन पुनस्तस्यैवोत्थानावश्यंभावादज्ञाननाशाय ज्ञानापेक्षेति फलम् / ईश्वरो वेत्यनियमदार्ढ्यायोक्तम् / स वान्यो वेत्येव पूर्वपक्षः / ज्ञानं विना बुद्ध्याद्युपाधेरत्यन्तनाशाभावाद्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नानाकर्मानुभवसंस्कारवत्योपहित उत्तिष्ठतीति सिद्धान्तयति-स एव त्वित्यादिना / सामिकृतस्यार्धकृतस्य एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातो ऽतिप्रसङ्गः / स्मृतिमुक्त्वानुशब्दसूचितां प्रत्यभिज्ञामाह-सो ऽहमिति / अयनं गमनं आयः / योनिः तत्तदिन्द्रियस्थानम् / प्रतिनियतं गमनं यथा भवति तथा प्रतियोन्यागच्छति जागरणायेति श्रुत्यर्थः / न विन्दतीत्यज्ञानसत्त्वात्सुप्तस्योत्थाननियम उक्तः / इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः / विधिं व्याचष्टे-कर्मेति / स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः अत्रैवोत्सूत्रं युक्त्यन्तरमाह-अपिचेत्यादिना / अन्योत्थाने सुखादेर्न पूर्वकर्मकार्यतेत्यकृतसुखाद्यागमः पूर्वसुप्तजीवकृतकर्मनाशश्चेत्यर्थः / पूर्वपक्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति-यत्पुनरित्यादिना / अस्मदाद्यशक्यमपि विवेचनं प्राण्यदृष्टापेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह-दृश्यते चेति / ब्रह्माभेदाच्च जीवस्य जलबिन्दुवैषम्यमित्याह-अपिचेति / अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीवभेदाच्चिन्तेत्याह-एवं सतीति / सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्युपाधिभेदादेकजीवस्य व्यवहारो न स्यादित्यत आह-स एवायमिति /
SK
स्थूलसूक्ष्मात्मना तिष्ठत्येकोपाधिरित्यर्थः
SK
END Bस्Rप्_३,२.३.९
SK
START Bस्Rप्_३,२.४.१०ः
SK
मुग्धेर्ऽधसंपत्तिः परिशेषात् | BBस्_३,२.१० |
SK
अवस्थात्रयादात्मानं विविच्य मूर्च्छातो विवेचयति-मुग्धेर्ऽधसंपत्तिः परिशेषात् / मूर्च्छा प्रसिद्धावस्थान्तर्गता वा पञ्चमावस्था वेति / अवस्थाचतुष्टयसिद्धेर्मुग्धस्य तद्वैलक्षण्याच्च संशये सो ऽहमिति प्रत्यभिज्ञयोत्थितस्य सुप्ताभेदवद्विशेषज्ञानाभावाविशेषेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्यभिज्ञानात्सुषुप्त्यन्तर्गता मूर्च्छेति दृष्टान्तसंगत्या पूर्वपक्षमाह-तिस्रस्तावदिति / पूर्वपक्षे प्रसिद्धावस्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथग्यत्नध्रौव्यमिति भेदः परिशेषं दर्शयन् सिद्धान्तयति-न तावदित्यादिना / जाग्रदपि जागरावस्थो ऽपीत्यर्थः / ऐन्द्रियकमर्थज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति-नेत्यादिना / मूर्च्छाया जागराद्भेदमुक्त्वा स्वप्नमृतिभ्यां भेदमाह-नापीत्यादिना / आलभन्ते स्पृशन्ति / दिष्टं मरणम् / सुषुप्तिमूर्च्छयोः किञ्चित्सारूप्ये ऽपि बहुवैलक्षण्याद्भेद इत्याह-नेति / लक्षणभेदमुक्त्वा निमित्तभेदमाह-निमित्तेति / प्रत्यभिज्ञाप्यसिद्धेत्याह-नचेति / उक्तसारूप्यवैरूप्याभ्यामर्धसंपत्तिः सर्वैः सुषुप्तिधर्मैरसंपन्नो मुग्धः सुषुप्तो न भवति, सर्वैर्मरणावस्थाधर्मैरसंपत्तेर्मृतो ऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः / अत्र सूत्रे जीवस्य ब्रह्मणार्धसंपत्तिरुक्तेति भ्रान्तः शङ्कते-कथमिति / यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदुपाध्याभावाभिप्रायम् / उपाध्यभावश्च मुग्धस्यापि मम इति यतस्तस्मात् कृत्स्नसंपत्तिरेवेत्यर्थः / सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्कार्याभावात्तदसंबन्धोक्तिरित्याह-जीवे हीति / ब्रह्मणा कृत्स्नसंपत्तिमङ्गीकृत्य परिहरति-न ब्रूम इति / मुग्धत्वं हि सुषुप्तस्यार्धेन निःसंज्ञत्वादिधर्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संपन्नमित्यर्धसंपत्तिरित्यर्थः / इतो ऽपि सुषुप्तिवैषम्यमित्याह-द्वारं चेति / अप्रसिद्धिमङ्गीकृत्योक्तं प्रसिद्धिरप्यस्तीत्याह-प्रसिद्धा चेति / नायुर्वेदो वैद्यशास्त्रम् / प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्चमत्वेनाप्रसिद्धेरित्याह-अर्धेति /
SK
सुषुप्तिमृतिधर्मार्धसंपत्त्या तदन्तर्भावबुद्धिर्लोकानामित्यर्थः
SK
END Bस्Rप्_३,२.४.१०
SK
START Bस्Rप्_३,२.५.११ः
SK
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि | BBस्_३,२.११ |
SK
सर्वाभिरवस्थाभिरलिप्तस्त्वमर्थ इति निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह-न स्थानतो ऽपि परस्योभ्यलिङ्गं सर्वत्र हि / उद्देशयत्वम्पदार्थजिज्ञासोपरमानन्तरं तत्स्वरूपब्रह्मविचारस्यावसरसंगतिमाह-येनेति / निर्विशेषत्वंसव् इशेषत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः / यथा विरुद्धसुषुप्तिमरणोभयरूपं मुग्धत्वं तथा श्रुतिप्रामाण्यादुभयरूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः / निर्विशेषमेकरूपमेव ज्ञेयमिति सिद्धान्तयति-एवमिति / किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्वगन्धत्वादिविशेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति / तत्राद्य निरस्य द्वितीयमनूद्य दूषयति-अस्तु तर्हीति / स्थानमुपाधिः / ब्रह्मणि विशेषः, कल्पितः औपाधिकत्वात्स्फटिकलौहित्यवदित्यर्थः / उपाधेः सत्यत्वे ऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्यात्वात्तत्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह-उपाधीनामिति / तृतीयं निरस्यति-अतश्चेति / सर्वस्य विशेषस्य कल्पितत्वादेवेत्यर्थः / निषेधश्रुतेश्चैवमित्याह-सर्वत्र हीति
SK
END Bस्Rप्_३,२.५.११
SK
START Bस्Rप्_३,२.५.१२ः
SK
न भेदाद् इति चेन् न प्रत्येकमतद्वचनात् | BBस्_३,२.१२ |
SK
भिद्यत इति भेदो विशेषः, निर्विशेषत्वश्रुतावपि विशेषस्यापि श्रुतेरुभयरूपत्वं स्यादिति शङ्कां व्याचष्टे-अथापि स्यादिति / पूर्वोक्तं विरोधं स्मारयति-ननूक्तमिति / भेदश्रुतिप्रामाण्यार्थमौपाधिकरूपभेदस्वीकारादविरोध इति समाध्यर्थः / किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते ध्यानार्थमुतोपाधियोगात्सत्यविरुद्धरूपवत्तया ब्रह्मणो भेदो भवतीति / आद्ये ऽस्मादिष्टसिद्धिः, द्वितीयमभेदश्रुत्या दूषयति-नेति ब्रूम इति
SK
END Bस्Rप्_३,२.५.१२
SK
START Bस्Rप्_३,२.५.१३ः
SK
अपि चैवम् एके | BBस्_३,२.१३ |
SK
द्वैतनिन्दापूर्वकमद्वैतोक्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह-अपिचेति /
SK
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरितारमीश्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः
SK
END Bस्Rप्_३,२.५.१३
SK
START Bस्Rप्_३,२.५.१४ः
SK
अरूपवदेव हि तत्प्रधानत्वात् | BBस्_३,२.१४ |
SK
द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते-कथं पुनरिति / तत्परातपरविरोधे तत्परं बलवदिति न्यायो नियामक इत्याह-अरूपवदेवेति / उपासनापरवाक्येषु आकारे तात्पर्याभावे ऽपि देवताविग्रहादिवदाकारसिद्धिमाशङ्क्य निष्प्रपञ्चपरश्रुतिविरोधान्मैवमित्याह-तेष्वसतीति
SK
END Bस्Rप्_३,२.५.१४
SK
START Bस्Rप्_३,२.५.१५ः
SK
प्रकाशवच्चावैयर्थ्यात् | BBस्_३,२.१५ |
SK
कल्पितद्वैते सावकाशत्वाच्च सप्रपञ्चत्वश्रुतयो दुर्बला इत्याह-प्रकाशवच्चेति / नन्वाकारवाक्यानामुपाधिकल्पितसर्वगन्धत्वादिनाथ्रवत्त्वं किमिति वर्ण्यते वैयर्थ्यमेवोच्यताम्, तत्राह-नहि वेदवाक्यानामिति / नन्वेवमपीति / उक्तरीत्योभयरूपत्वाङ्गीकारेण श्रुतीनां व्यवस्थितत्वे ऽपीत्यर्थः / उपाधीनां कल्पितत्वादौपाधिकस्य सत्यत्वादुपपत्तेर्न सत्यमुभयरूपत्वमिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सविशेषत्वमित्युच्यत इत्युभयरूपत्वाङ्गीकारे ऽपि न पूर्वापरविरोध इत्याह-नेति ब्रूम इति / द्वैतस्य मिथ्यात्वे ज्ञानेन बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह-सत्यमिति
SK
END Bस्Rप्_३,२.५.१५
SK
START Bस्Rप्_३,२.५.१६ः
SK
आह च तन्मात्रम् | BBस्_३,२.१६ |
SK
यतः श्रुतिश्चिन्मात्रमाहातश्च विशेषो मिथ्येति सूत्रार्थमाह-आह चेति /
SK
सैन्धवघनो लवणपिण्डः
SK
END Bस्Rप्_३,२.५.१६
SK
START Bस्Rप्_३,२.५.१७ः
SK
दर्शयति चाथो अपि स्मर्यते | BBस्_३,२.१७ |
SK
किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मोपदेशान्निष्प्रपञ्चं ब्रह्मेत्याह-दर्शयति चेति / अथ द्वैतोक्त्यनन्तरं ज्ञानहेतुत्वान्नेति नेति उपदेशः क्रियत इत्यर्थः / अधि अन्यत् पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीयं तृतीयं च प्रश्ने तूष्णीभावं त्यक्त्वोवाच / उपशान्तो निरस्तद्वैतः / अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतोशब्दस्तथार्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् / सत् इन्द्रियवेद्यम् / असत् परोक्षं च न स्वप्रकाशत्वादित्यर्थः / सर्वभूतगुणैर्दिव्यगन्धादिभिर्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैतातीतत्वादित्यर्थः
SK
END Bस्Rप्_३,२.५.१७
SK
START Bस्Rप्_३,२.५.१८ः
SK
अत एव चोपमा सूर्यकादिवत् | BBस्_३,२.१८ |
SK
किञ्च यथा जलाद्युपाधिकल्पितः सूर्यचन्द्रादेर्भेदचलनादिर्धर्म एवमात्मन इति दृष्टान्तश्रुतेश्च निर्विशेषं तत्त्वमित्याह-अत एव चोपमेति /
SK
जलस्थप्रतिबिम्बत्वाकारेण सूर्यस्याभासत्वद्योतनाय सूर्यकेति कप्रत्ययः / यथायं ज्योतिर्मयो विवस्वान्स्वत एको ऽपि घटभेदेन भिन्नाः अपो ऽनुगच्छन् बहुधा क्रियते एवमजो ऽयमात्मा देवः स्वप्रकाश एको ऽप्युपाधिना मायया क्षेत्रेष्वनुगच्छन् भेदरूपः क्रियत इति योजना
SK
END Bस्Rप्_३,२.५.१८
SK
START Bस्Rप्_३,२.५.१९ः
SK
अम्बुवदग्रहणात् तु न तथात्वम् | BBस्_३,२.१९ |
SK
इहात्मन्युक्तदृष्टान्तवैषम्यशङ्कासूत्रम्-अम्बुवदिति /
SK
आत्मनो नीरूपत्वाद्दूरस्थोपाध्यभावाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः
SK
END Bस्Rप्_३,२.५.१९
SK
START Bस्Rप्_३,२.५.२०ः
SK
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् | BBस्_३,२.२० |
SK
उपाध्यन्तर्भावेन तत्कल्पितधर्मवत्त्वमत्र विवक्षितांशस्तेन साम्येन समाधानसूत्रम्-वृद्धिहासेति /
SK
दृष्टान्तसाम्ये ऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह-न चेदमिति / श्रूयते न कल्प्यत इत्यर्थः / श्रुतदृष्टान्तस्य ऽसूर्यकादिवत्ऽइत्युपन्यासेन किं फलमित्यत आह-शास्त्रेति /
SK
आत्मनो निर्विशेषत्वं फलमित्यर्थः / अविरोध इति न वैषम्यमित्यर्थः / आत्मा प्रतिबिम्बशून्यः, नीरूपद्रव्यत्वात्, वायुवदित्यनुमाने आकाशे व्यभिचारः / अल्पजले ऽविदूराकाशप्रतिबिम्बदर्शनादुपाधिदूरस्थत्वमपि क्वचिदनपेक्षतमिति भावः
SK
END Bस्Rप्_३,२.५.२०
SK
START Bस्Rप्_३,२.५.२१ः
SK
दर्शनाच् च | BBस्_३,२.२१ |
SK
प्रवेशश्रुतेश्चोक्तानुमानबाध इत्याह सूत्रकारः / दर्शनाच्चेति / द्विपदः पुरो मनुष्यादिदेहांश्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुरश्चक्षुराद्यभिव्यक्तेः पुरस्तात् स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टो ऽपि पुरुषः पूर्ण एवेत्यर्थः / तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् / एवं प्रतिबिम्बभावेन भेदादेः कल्पितत्वात् निर्विशेषं ब्रह्मेति स्वमतमुपसंहरति-तस्मादिति / एकदेशिव्याख्यामुत्थापयति-अत्रेति / न स्थानतो ऽपीत्याद्येकमधिकरणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रकाशवच्चेत्यादिद्वितीयमधिकरणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च / कुतः-अवैयर्थ्यात् / सत्यं ज्ञानं सदेव सोम्येत्युभयश्रुतेर्द्विरूपे ब्रह्मण्यर्थवत्त्वादिति पूर्वपक्षे सिद्धान्तः-आह च तन्मात्रम् / सन्मात्रं ब्रह्म श्रुतिराह, ऽज्ञानस्य सत्तानतिरेकात्ऽइति / इदं द्वितीयाधिकरणं दूषयति-अत्र वयमिति / द्वितीयाधिकरणस्य किं ब्रह्मणो ऽनेकरूपत्वनिरासः फलम्, उत बोधरूपत्वनिरास आहोस्वित्सत्तानिरास इति विकल्प्य सर्वथाप्यानर्थक्यं प्रपञ्चयन्नाद्ये गतार्थतामाह-यदि तावदिति / नहि द्वितीय इत्याह-नचेति / ब्रह्मणो बोधरूपत्वनिरासे जडत्वाज्जीवाभेदश्रुतिबाधश्च स्यादित्याह-कथं वेति / न तृतीय इत्याह-नापीति / सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह-कथमिति / नच बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् / सद्बोधपदयोर्वाच्यानतिरेके पर्यायत्वप्रसङ्गात् / एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति-नापीति / प्रसङ्गमेवाह-सत्तेति / व्यावृत्तत्वं भिन्नत्वम् / निष्प्रपञ्चैकरूपत्वसिद्धान्तविरोधात् भिन्नोभयरूपत्वपूर्वपक्षानुत्थानमित्यर्थः / उभयश्रुतिबलादुत्थानमिति शङ्कते-श्रुतत्वादिति / मेरुविन्ध्यवत्परस्परं भिन्नसत्ताबोधयोरेकब्रह्माभेदशङ्का श्रुतिशतेनापि न युक्तेत्याह-नेति / सद्बोधयोर्भेदो ऽस्ति न वा / आद्ये श्रुतेरपि विरुद्धार्थत्वानुपपत्तेर्न पूर्वपक्षोत्थानमित्युक्तम् / संप्रति द्वितीयं शङ्कते-अथ सत्तैवेति / सद्बोधपदयोर्वाच्यभेदे ऽपि लक्ष्यैक्योपपत्तिरखण्डार्थस्वीकारादित्यर्थः / अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सिद्धान्तत्वात् / किञ्चात्र संशये ऽप्ययुक्त इत्याह-तथापीति / एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह-सूत्राणीति / स्वपक्षे सूत्रसामञ्चस्यं चेत्याह-अपिचेति / अवश्यापेक्षितगत्यर्थत्वेनोत्तरसूत्राणां पूर्वैकवाक्यत्वान्नाधिकरणभेद इति भावः / आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रपञ्चविलयवादिनस्तु ऽमनोमयः प्राणशरीरः सत्यकामःऽइत्याद्याकारश्रुतीनां तदितराकारप्रविलयो गतिरित्याहुः / मनोमय इति कोर्ऽथः, मनो ऽतिरिक्तोपाधिशून्य इत्यर्थः / एवं प्राणशरीरपदेन प्राणातिरिक्तोपाधिनिषेधान्मनसो ऽप्यभावसिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति-यदपीत्यादिना / किं ज्ञेयब्रह्मप्रकरणस्थानामाकारशब्दानां निषेधपरत्वं उतोपासनाप्रकरणस्थानामपि / तत्राद्यमङ्गीकरोति-ये हीति / अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया हरणाद्दशेन्द्रियाणि प्राणिभेदापेक्षया शतानि सहस्राणि च तेषामीश्वराद्भेदमाशङ्क्याह-अयमिति / ईश्वर एव हरय इत्यर्थः / द्वितीयं दूषयति-ये पुनरिति / मनोमयादिशब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह-श्रुत्या चेति / किं चाकारानाकारश्रुतिद्वैविध्ये सति ब्रह्मनाकारमेवेत्यत्र किं विनिगमकमिति शङ्कोत्थानादस्थूलादिश्रुतीनां निराकारतात्पर्यं नियामकमिति कथनार्थमिदं सूत्रमर्थवद्भवति /
SK
सर्वश्रुतीनां निषेधार्थत्वे तु शङ्कानुत्थानान्नियामकसूत्रं व्यर्थं स्यादित्याह-सर्वेषां चेति / ननूपासनार्ऽथकवाक्यानां स्वार्थे फलाभावात् सफलनिषेधवाक्यशेषत्वमित्याशङ्क्य फलस्य श्रुतत्वान्नान्यशेषतेत्याह-फलमपीति / अर्थैक्याभावाच्च नैकवाक्यतेत्याह-कथं चेति / अर्थैक्यं शङ्कते-एकेति / यथा फलवत्परमापूर्वाख्यनियोगैक्यादङ्गप्रधानवाक्यानामेकवाक्यता तथा तत्त्वावबोधकामस्य प्रपञ्चप्रविलयविषयक एको नियोगरूपोर्ऽथो ऽस्तीत्याकारानाकारवाक्यानां सर्वेषामेकवाक्यतेत्यर्थः / नियोगासिद्या दूषयति-नेति / विषयं शङ्कते-ननु द्वैतेति / प्रत्यनीकं प्रतिबन्धकम् / ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह-ब्रह्मस्वभावो हि प्रपञ्च इति / कारणं हि कार्यस्य स्वरूपमतः कार्यनाशे ऽपि कारणस्य न लयः, घटनाशे ऽपि मृद्दर्शनादित्यर्थः / प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति-तत्र यदि तावदिति / सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्नद्वैतध्वंसायोगात् नभोग्रसनविधिवदशक्यविषयो ऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः / द्वितीयमनूद्य दूषयति-अथेत्यादिना / उपदेशजन्यज्ञानादेवाविद्यातज्जप्रपञ्चलयसिद्धेर्नियोगो वृथैवेत्यर्थः / किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा / नाद्यः, अशक्यत्वादित्याह-अनावेदिते त्विति / द्वितीयं शङ्कते-नन्विति / उपदेशादेव ज्ञाते ब्रह्मणि साक्षात्कारद्वैतबाधयोः सिद्धेर्विधिवैयर्थ्यं सिद्धस्य विधिना कर्तुमयोगादित्याह-नेति / एवंविषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावात्तदभावमाह-नियोज्यो ऽपि चेति / प्रपञ्चान्तर्भूतो ब्रह्म वेत्यर्थः / आद्ये जीवनाशाद्विध्ययोगः, द्वितीये नियोज्यासिद्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह-द्रष्टव्यादिशब्दा इति / ननु श्रुतं ज्ञानं त्यक्त्वा तत्साधनव्यापारविधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरुषकृत्यसाध्यत्वादित्याह-ज्ञेयाभिमुखस्यापीति / किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदान्तैर्ज्ञापनीयं विषयानवबोधे विधिबोधायोगात् / तथाच वेदान्तैरेव ज्ञानेत्पत्तेर्विध्यानर्थक्यमित्याह-तस्मादिति / तं ज्ञानार्थिनं प्रतीत्यर्थः / ननूत्पन्नं ज्ञानमन्यथाकर्तुं विधिरर्थवानिति, नेत्याह-नचेति / नन्वनग्निर्योषिदिति प्रत्यक्षप्रमाणादुत्पन्नमपि ज्ञानं तामग्निं ध्यायेदिति / विधिनान्यथाकृतं दृश्यत इत्यत आह-यदीति / अन्यथाधीः कृतिसाध्या चेत् क्रियैव, कृतिं विनैव चेद्भ्रान्तिरेवातो मानं विना विधितो ज्ञानासिद्धेर्मानवस्तुतन्त्रे ज्ञाने विधिर्मृषेत्यर्थः / वेदान्तेषु विधिवादिनो ऽन्यच्च दूषणमस्तीत्याह-किञ्चान्यदिति / ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति-अथेत्यादिना / किञ्च श्रुतं ब्रह्म न श्रुतो विधिर्वेदान्तेषु तत्कल्पने च कर्मजन्यत्वान्मोक्षस्यानित्यत्वसातिशयत्वादिप्रसङ्ग इत्याह-नियोगपरतायां चेति / फलितमाह-अतश्चेति / इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति-अभ्युपगम्यमाने ऽपीति / भिन्नक्रियावाचिशब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः / निर्गुणसगुणरूपभेदःप्रकरणभेदः मुक्त्यभ्युदयफलभेद इत्येतैः प्रमाणैर्निर्गुणज्ञानसगुणोपासनाविषयकनियोगभेद इत्यर्थः / कथं तर्ह्यङ्गाङ्गिवाक्येषु नियोगैक्यं, तत्राह-प्रयाजेति / एकस्यैव स्वर्गकामस्य साङ्गप्रधानाधिकारात्तत्साध्यफलापूर्वैक्यादेकवाक्यतेत्यर्थः / इहापि निर्गुणसगुणविद्ययोरेकाधिकारात् नियोगैक्यमस्तु, नेत्याह-न त्विहेति / मुक्त्यभ्युदयार्थिभेदान्मिथो विरुद्धार्थविद्ययोरङ्गाङ्गित्वायोगाच्च न वियोगैक्यम् / नच निर्गुणविद्यानियोग एक एव सगुणविद्यानङ्गीकारादिति वाच्यम् / अहो विपरीतं पाण्डित्यमायुष्मतः, विघ्न्ययोग्यविद्यायां विधिर्विधियोग्यायामविधिरिति, तस्मात्साकारवाक्यानामाकारलयद्वारा निर्गुणवाक्यैकवाक्यतागतिरसद्गतिरेव, किन्तु तेषां कल्पिताकारो गतिस्तदुपासनयाभ्युदयसिद्धेः, निर्गुणवाक्यानां तु परमार्थालम्बनत्वमित्यस्मदुक्त एव विभागः साधीयानित्युपसंहरति-तस्मादिति
SK
END Bस्Rप्_३,२.५.२१
SK
START Bस्Rप्_३,२.६.२२ः
SK
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः | BBस्_३,२.२२ |
SK
ब्रह्मणो निर्विशेषचिन्मात्रत्वमुक्त्वा सर्वनिषेधावधित्वेन सद्रूपत्वमाह-प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति / पृथिव्यप्तेजोभूतत्रयं मूर्तं वाय्वाकाशद्वयममूर्तमिति राशिद्वयमुक्त्वा भूतद्वयस्यामूर्तस्य सारः ऽकरणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणे ऽक्षिणि पुरुषःऽइत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि ऽतद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथेन्द्रगोपःऽइत्युपमाभिरुक्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि / केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्मपञ्चभूतान्यमूर्तानि पञ्चीकृतानि मूर्तानि ततश्चामूर्तरसत्वोक्त्या करणानां पाञ्चभौतिकत्वसिद्धिरिति व्याचक्षते / अथ सत्पदात्मकप्रपञ्चोक्त्यनन्तरं, अत उक्तारोपस्य निषेधार्थत्वान्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः / नेतिशब्दार्थमाह-नहीति / एतस्मादात्मनो ऽन्यन्नास्तीति नेतीत्युच्यत इत्यर्थः / शून्यतानिरासार्थं परं ब्रह्मास्तीत्युक्तमिति सिद्धान्तरीत्या श्रुत्यर्थः / अत्र निषेध्यविशेषानुपलम्भात्संशयमाह-तत्र को ऽस्येत्यादिना / नञ्प्रयोगस्य नाकारास्येतिशब्दोपस्थापितवस्तुनिषेधकत्वादित्यर्थः / इतिशब्दान्निषेध्यसामान्यसमर्पणे विशेषाकाङ्क्षायां प्रकरणाद्रूपद्वयस्य रूपिब्रह्मणश्च निषैध्यत्वभानात्संशयमुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्तीत्याक्षेपसङ्गत्या पूर्वपक्षयति-तत्र प्रकृतत्वेति / पूर्वपक्षे तत्पदार्थाभावाद्वाक्यार्थाभेदासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् / निरधिष्ठाननिषेधादर्शनात्सर्वनिषेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह-अथवेति / एकब्रह्मण एव निषेधे नकारद्वयस्य पौनरुक्त्यामित्यत आह-अभ्यासस्त्विति / उत्सूत्रमेव तावत्सिद्धान्तमुपक्रमते-एवमिति / शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह-किञ्चिद्धीति / तच्चेति प्रतिषेधनमित्यर्थः / अधिष्ठानानवशेषे तत्प्रमारूपहेत्वभावात् निषेधवाक्यार्थः प्रमा न स्यात् ऽइदमत्र नास्तिऽइति लोके निषेधस्य साधिष्ठानस्यैव प्रमितिदर्शनादित्यर्थः / किञ्च यद्भाति तत्सदित्युत्सर्गस्य भानार्थाभावाधिष्ठानप्रमितिरपवादस्तया पूर्वभानस्य भ्रमत्वनिश्चयेनार्थसत्त्वापलापात् / अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्यत्वापत्तेर्निषेधानुपपत्तिरित्याह-अपरिशिष्यमाणे चेति / अधिष्ठानसत्त्वं विना भ्रान्तिनिषेधयोरयोगाच्छून्यवादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति-नापीति / देहात्माभिमानवल्लौकिकमानप्राप्तद्वैतस्य निषेधो युक्तो न वेदान्तप्रमितब्रह्मण इति भावः यदुक्तं वाङ्मनसातीत्वात् निषेधार्हं ब्रह्म इति तत्राह-वाङ्मनसेति / ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत् किमर्थं तदुक्तिरित्यत आह-प्रतिपादनेति / उक्तार्थे सूत्रं योजयति-तदेतदित्यादिना / ऽद्वे वाव ब्रह्मणो रूपेऽइति रूपद्वयस्यैव प्राधान्येन प्रकृतत्वान्नेतीति निषेध इत्यर्थः / ननु ऽआदित्यमण्डले पुरुषऽइति ब्रह्माप्यत्र प्राधान्येनोक्तमित्याशङ्क्य पुरुषो लिङ्गात्मा अमूर्तरसत्वश्रुत्या भूतजनितत्वभानात् स्वप्नरूपत्वश्रुतेश्चेत्याह-तज्जनितमेवेति / रूपरूपिणोरभेद उक्तः ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह-अमूर्तरसस्येति / रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह-तदिति / प्रतियोगित्वेन समर्प्यत इत्यर्थः / न चार्थतः प्रधान्यद्ब्रह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राजनिषेधप्रसङ्गादिति भावः / किञ्चैत्र ब्रह्मणः प्रतिपाद्यत्वात् न निषेध इत्याह-प्रपञ्चिते चेति / ननु ब्रह्मणि निषिद्धस्याप्यन्यत्र स्थितिसंभवात् कथं कल्पितत्वमित्यत आह-तदास्पदमिति / उपादाने निषिद्धस्यान्यत्र न स्थितिरित्यर्थः / यत्तु द्वैतनिषेधे प्रत्यक्षादिविरोध इति, तत्राह-युक्तं चेति / स्थापितं हि आरम्भणाधिकरणे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः / ननु वस्तुत्वाद्वैतवद्ब्रह्मणो ऽपि निषेधो ऽस्तु, नेत्याह-नत्विति / द्वैतभावाभावसाक्षित्वादशक्यो निषेध इत्यर्थः / न चेत्यादि स्पष्टार्थम् / यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह-द्वौ चैताविति / उद्देश्यविधेयार्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः ऽयथासङ्ख्यमनुदेशः समानाम्ऽइति पाणिनिसूत्रसिद्धस्तेनात्र रूपद्वयोद्देशेन निषेधद्वयविधिरित्यर्थः / वीप्सापक्षे सर्वदृश्यनिषेधाज्जिज्ञासाशान्तिरिति विशेषमाह-परिगणितेति / मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः / सूत्रशेषं व्याचष्टे-इतश्चेति / प्रतिषेधानुपपत्त्या ब्रह्मास्तीत्यवगतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः / तच्चेति / अवशिष्टं ब्रह्मेत्यर्थः / स्पष्टमन्यत्
SK
END Bस्Rप्_३,२.६.२२
SK
START Bस्Rप्_३,२.६.२३ः
SK
तदव्यक्तमाह हि | BBस्_३,२.२३ |
SK
नन्वग्राह्यत्वाद्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे-यत्प्रतिषिद्धादिति /
SK
रूपाद्यभावादव्यक्तमिन्द्रियाग्राह्यं न त्वसत्त्वादित्यर्थः / अन्यैर्देवैरिन्द्रियान्तरैर्न गृह्यत इत्यन्वयः
SK
END Bस्Rप्_३,२.६.२३
SK
START Bस्Rप्_३,२.६.२४ः
SK
अपि च संराधने प्रत्यक्षानुमानाभ्याम् | BBस्_३,२.२४ |
SK
तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति-अपि चैनमिति / चस्त्वर्थः / इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्रसंस्कृतमनसेत्यर्थः / भक्तिध्यानाभ्यां प्रत्यगात्मनश्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानं /
SK
जपनमस्कारादिरादिशब्दार्थः / स्वयंभूरीश्वरः / स्वानीन्द्रियाणि / पराञ्चयनात्मग्राहकाणि कृत्वा व्यतृणत् नाशितवान् / स हि तेषां नाशो यदसदर्थग्राहितया सर्जनं तस्मात्तेषां तया सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् / कश्चित्तु धीरो धीमानावृत्तचक्षुर्निरुद्धेन्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षार्थीत्यर्थः / ततः कर्मणा विशुद्धचित्तो ज्ञानाख्यसत्त्वोत्कर्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः / विनिद्राः वितमस्काः, तत्र हेतुर्जितश्वासत्वं प्राणायामनिष्ठत्वं,
SK
युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा
SK
END Bस्Rप्_३,२.६.२४
SK
START Bस्Rप्_३,२.६.२५ः
SK
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् | BBस्_३,२.२५ |
SK
यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रकाशश्चिदात्मापि ध्यानादिकर्मण्युपाधो भिद्यते स्वतस्तस्यावैशेष्यमेकरसत्वमेव तत्त्वमसीत्यभ्यासादिति सूत्रयोजना
SK
END Bस्Rप्_३,२.६.२५
SK
START Bस्Rप्_३,२.६.२६ः
SK
अतो ऽनन्तेन तथा हि लिङ्गम् | BBस्_३,२.२६ |
SK
जीवस्य ब्रह्मात्मत्वफलश्रुतिरूपलिङ्गादपि भेद औपाधिक एवेत्याह सूत्रकारः-अतो ऽनन्तेनेति
SK
END Bस्Rप्_३,२.६.२६
SK
START Bस्Rप्_३,२.६.२७-२८ः
SK
उभयव्यपदेशात्त्वहिकुण्डलवत् | BBस्_३,२.२७ |
SK
प्रकाशाश्रयवद्वा तेजस्त्वात् | BBस्_३,२.२८ |
SK
भेदाभेदपूर्वपक्षसूत्रद्वयस्य संगतिमाह-तस्मिन्नेवेति / यथाहित्वेनाभेदः / कुण्डलाख्यस्य सर्पावस्थाविशेषस्य कुण्डलत्वेन भेदः / तथा जीवस्य ब्रह्मत्वेनाभेदो जीवत्वेन भेदः / यद्वा सूर्यप्रकाशयोरेकतेजस्त्वधर्मावच्छेदेन भेदाभेदवज्जीवपरयोरपि एकेनैवात्मत्वधर्मेण भेदाभेदौ श्रुतिबलात्स्वीकार्याविति सूत्रद्वयार्थः / कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घदण्डाकारत्वं उद्गतमुखत्वमादिशब्दार्थः //२७
SK
END Bस्Rप्_३,२.६.२७-२८
SK
START Bस्Rप्_३,२.६.२९-३०ः
SK
पूर्ववद्वा | BBस्_३,२.२९ |
SK
प्रतिषेधाच् च | BBस्_३,२.३० |
SK
सिद्धान्तसूत्रम्-पूर्ववद्धेति / धर्मभेदनैकधर्मेण वा भेदाभेदस्वीकारे भेदस्य सत्यत्वादभेदवदनिवृत्तिः स्यात् एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्पदलक्ष्यमस्तीति सिद्धम् //२९
SK
END Bस्Rप्_३,२.६.२९-३०
SK
START Bस्Rप्_३,२.७.३१ः
SK
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः | BBस्_३,२.३१ |
SK
यदुक्तं नेति नेतीत्यादिश्रुतिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् / सेत्वादिश्रुतिभिर्वस्त्वन्तरास्तित्वभानादित्याक्षिपति-परमत इति / यद्यपि द्युभ्वाद्यधिकरणे सेतुशब्दो विधारकत्वेन गौणो व्याख्यातस्तथाप्युन्मानादिश्रुतीनां गतिमजानतो ऽयं पूर्वपक्षः, तत्रोन्मानादिश्रुतीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ताद्वितीयतत्पदलक्ष्यसिद्धिरिति विवेकः / ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् / तीर्णत्वश्रुतेश्चेत्याह-सेतुं तीर्त्वेति / जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् / दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतुष्पाद्ब्रह्मेति पादानामर्धानि अष्टौ शफा अस्येत्यष्टाशफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः / षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परिमितत्वादित्यर्थः / संबन्धित्वाच्च नगरवदित्याह-तथा संबन्धेति / अन्यदमितमिति असङ्ख्यातमित्यर्थः / अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् / भेदेनोक्तत्वाच्च घटवदित्याह-भेदव्यपदेशश्चेति / अस्याक्षिस्थस्यामुनादित्यस्थेन सहेति यावत् /
SK
आधारतो ऽतिदेशतश्च भेदमुक्त्वावधितो ऽपि तमाह-सावधिकं चेति
SK
END Bस्Rप्_३,२.७.३१
SK
START Bस्Rप्_३,२.७.३२ः
SK
सामान्यात् तु | BBस्_३,२.३२ |
SK
सिद्धान्तसूत्रं व्याचष्टे-तुशब्देनेत्यादिना / यदन्यत्तत्किं साद्यनादि वा, नाद्यः मानाभावात् कार्यस्य ब्रह्मनन्यत्वनिर्गुणयाच्चेत्युक्त्वा न द्वितीयः प्रागुत्पत्तेरद्वयत्वावधारणादित्याह-नच ब्रह्मव्यतिरिक्तमिति / उक्तानुमानानामागमबाध इति भावः / उक्तं स्मारयित्वा हेतुनामसिद्धिमाह-ननु सेत्वित्यादिना / किं सेतुश्रुत्या परसिद्धिरर्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते-तत्र परस्मिन्निति / सेतुत्वलिङ्गेनाद्वितीयत्वश्रुतिबाधनमन्याय्यमित्याह-नचेत् इ / लिङ्गं चासिद्धमित्याह-अपिचेति / विधारकत्वं तु कल्पितद्वितीयापेक्षयापि युज्यत इति भावः / तीर्णत्वहेतुरप्यसिद्ध इत्याह-सेतुं तीर्त्वेति
SK
END Bस्Rप्_३,२.७.३२
SK
START Bस्Rप्_३,२.७.३३ः
SK
बुद्ध्यर्थः पादवत् | BBस्_३,२.३३ |
SK
परिमितत्वमप्यसिद्धमित्याह-बुद्ध्यर्थ इति / वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः / लौकिकं दृष्टान्तमाह-अथवेति / पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह-नहीति /
SK
कार्षापणस्य व्यवहाराय पादकल्पनावत् मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः
SK
END Bस्Rप्_३,२.७.३३
SK
START Bस्Rप्_३,२.७.३४ः
SK
स्थानविशेषात्प्रकाशादिवत् | BBस्_३,२.३४ |
SK
संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह-स्थानेति /
SK
स्थानमुपाधिबुद्ध्यादिः एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते / यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत् तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः
SK
END Bस्Rप्_३,२.७.३४
SK
START Bस्Rप्_३,२.७.३५ः
SK
उपपत्तेश् च | BBस्_३,२.३५ |
SK
मुख्यावेव संबन्धभेदौ किं न स्यातमित्यत्र सूत्रम्-उपपत्तेश्चेति
SK
END Bस्Rप्_३,२.७.३५
SK
START Bस्Rप्_३,२.७.३६ः
SK
तथान्यप्रतिषेधात् | BBस्_३,२.३६ |
SK
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात् तथा भेदो ऽपि न स्वत एकत्वश्रुतेरित्यर्थः
SK
END Bस्Rप्_३,२.७.३६
SK
START Bस्Rप्_३,२.७.३७ः
SK
अनेन सर्वगतत्वमायामशब्दादिभ्यः | BBस्_३,२.३७ |
SK
ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह-अनेन सर्वगतत्वमिति /
SK
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणो ऽल्पतास्यात् ऽयत्रान्यत्पश्यति तदल्पम्ऽइति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः
SK
END Bस्Rप्_३,२.७.३७
SK
START Bस्Rप्_३,२.८.३८ः
SK
फलमत उपपत्तेः | BBस्_३,२.३८ |
SK
एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह-फलमत उपपत्तेः / निर्विशेषत्वादन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् / अत्र कर्मेश्वरयोः फलहेतुत्वश्रुतेः संशयमाह-किमिति / अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः / पूर्वोक्तनिर्विशेषत्वमुपजीव्य फलदातृत्वमपीश्वरस्य नास्तीति पूर्वपक्षोत्थानात्संगतिः / यद्यपि सर्वगतत्ववत्फलदातृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्कानिरासेनोक्तलक्ष्यार्थनिर्वाहकवाच्यार्थनिर्णयार्थमस्याधिकरणस्यारम्भ इति मत्वा सिद्धान्तं तावदाह-तत्र तावदिति / स्वर्गादिकं विशिष्टदेशकालकर्माभिज्ञदातृकं, कर्मफलत्वात्, सेवाफलवदित्युपपत्तिः / यागादिक्रियाख्यं कर्म तावत् क्षणिकं तत्किं स्वनाशात् फलं जनयत्युत फलमुत्पाद्य नश्यति, आहोस्विदपूर्वात्फलसिद्धिः, नाद्य इत्याह-अभावादिति / द्वितीयं शङ्कते-स्यादिति /
SK
कर्मनाशक्षणमारभ्यामभिव्यक्तस्वर्गसुखादिसत्त्वे मानं नास्तीति-दूषयति-तदपीत्यादिना / तृतीयं शङ्कते-अथेति / अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह-तदपीति / द्वितीये त्वदृष्टानभिज्ञजीवस्याधिष्ठातृत्वायोगादीश्वरस्याधिष्ठातृत्वसिद्धिरिति भावः / प्रौढवादेनापूर्वं नास्तीत्याह-तदस्तित्व इति /
SK
क्षणिकयागादेः श्रुतस्वर्गादिहेतुत्वानुपपत्त्या स्थाय्यपूर्वसिद्धिरिति चेत् / न / कर्मभिराराधितादीश्वरादेव स्थायिनः फलसिद्धेरित्यर्थः / न केवलतर्केणापूर्वं सिध्यतीति भावः
SK
END Bस्Rप्_३,२.८.३८
SK
START Bस्Rप्_३,२.८.३९ः
SK
श्रुतत्वाच् च | BBस्_३,२.३९ |
SK
ऽकृतात्यये ऽनुशयवान्ऽइत्यत्रोदाहृताभिः ऽय इह रमणीयचरणाःऽइत्यादिश्रुतिस्मृतिभिरपूर्वसिद्धिश्चेत्ताभिरीश्वरस्यापि फलदातृत्वं स्वीकार्यमित्याह-श्रुतत्वाच्चेतिसूत्रकारः / अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणो ऽपूर्वस्य वा जडत्वेनोपकरणमात्रत्वात्स्वतन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः
SK
END Bस्Rप्_३,२.८.३९
SK
START Bस्Rप्_३,२.८.४०ः
SK
धर्मं जैमिनिरत एव | BBस्_३,२.४० |
SK
इदानीं पूर्वपक्षयति-धर्ममिति / विधिश्रुतिर्विध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गसाधनमिति गम्यते / यागस्येष्टसाधनत्वाभावे प्रेरणानुपपत्तेरित्यर्थः / अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति-ईश्वरस्त्विति / ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह-अविचित्रस्येत्यादिना /
SK
द्वितीये संवेष्टनसंस्कारमात्रात्कटादौ वेष्टनवत्कर्मापूर्वादेव फलसिद्धेः किमीश्वरेणेति भावः / अत्र वयं वदामः-चन्दनकण्डकादिदृष्टसंपत्त्यैव सुखादिसंभवे कृतं धर्माधर्माभ्यामिति श्रुतिस्मृतिबलात्तदपेक्षायामीश्वरेण किमपराद्धम् / अतः ईश्वरानपेक्षात्केवलात्कर्मणः फलमित्ययुक्तमिति
SK
END Bस्Rप्_३,२.८.४०
SK
START Bस्Rप्_३,२.८.४१ः
SK
पूर्वं तु बादरायणो हेतुव्यपदेशात् | BBस्_३,२.४१ |
SK
सिद्धान्तयति-पूर्वं त्विति /
SK
अचेतनस्य कर्मणः स्वतः प्रवृत्त्ययोगात्सेवादिदृष्टान्तानुसारिश्रुतेर्बलीयस्त्वात्सर्ववेदान्तेष्वीरश्वस्य जगद्धेतुत्वश्रुतेश्चेश्वराधिष्ठितात्कर्मणो जगदन्तःपातिफलसिद्धिरिति समुदायार्थः
SK
END Bस्Rप्_३,२.८.४१
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां तृतीयस्याध्यायस्य द्वितीयः पादः //
SK
// इति तृतीयाध्यायस्य तत्त्वंपदार्थपरिशोधनाख्यो द्वितीयः पादः //
SK
तृतीयाध्याये तृतीयः पादः /
SK
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे /
SK
विघ्नेशं विघ्नविध्वस्त्यै प्रणमामि मुहुर्मुहुः //
SK
START Bस्Rप्_३,३.१.१ः
SK
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् | BBस्_३,३.१ |
SK
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञानसाधनोपासनास्वरूपमाह-सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति / पादसंगतिमाह-व्याख्यातमिति / पूर्वपादे तत्त्वंपदार्थविवेकः कृतः / इह तत्फलं वाक्यार्थज्ञानमानन्दादयः प्रधानस्येति सूत्रेणापुनरुक्तापेक्षिततत्पदद्वाच्यार्थोपसंहारेण निर्धार्यत इति फलफलिभावः संगतिः / सगुणवाक्यार्थविद्याचिन्ता तु तद्विद्यानां चित्तैकाग्र्यद्वारा निर्गुणज्ञानसाधनत्वात्क्रियत इति मन्तव्यम् / संप्रतिः / निर्गुणज्ञानं भेदाभेदविचारविषयत्वेनोक्तमिति मन्वान आक्षिपति-नन्विति / वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्यस्यैक्यान्न चिन्तावसर इत्यर्थः / ब्रह्मैक्ये ऽपि धर्मभेदाच्चिन्तेत्यत आह-एकरूपत्वाच्चेति / निर्धर्मत्वादित्यर्थः / एकरूपे ऽपि ब्रह्मण्यनेकप्रकारसंभवाद्भेदशङ्का इत्यत आह-नचेत्यादिना / पूर्वपक्षे ज्ञानभेदशङ्कानुपपत्तिमुक्त्वा चोदनाद्यभेदाज्ज्ञानाभेद इति सिद्धान्तो ऽप्ययुक्त इत्याह-नाप्यस्येति / एवं पादारम्भमाक्षिप्य समाधत्ते-तदुच्यत इति / सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गुणविद्यायां त्वैक्यं सिद्धमिति वाच्यार्थरूपगुणोपसंहारमात्रं क्रियते वाक्यार्थनिर्णयायेति भावः / पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वानरादिविद्या मिथोभिन्ना इति ऽनानाशब्दादिभेदात्ऽइत्यत्र वक्ष्यते / अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामादिभेदाच्चोदनाद्यविशेषाच्च संशयः / पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः / पूर्वतन्त्रे शाखान्तराधिकरणपूर्वपक्षसूत्रं नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यादिति / तत्रोक्ता हेतवो नामादयो विद्याभेदार्थमिहोच्यन्ते ऽअथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतऽइत्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणाख्यगुणविधिमाशङ्क्य ज्योतिरितिपदस्य कर्मान्तरनामत्वसंभवे ज्योतिष्टोमलक्षकत्वायोगादथेति प्रकरणविच्छेदाच्च ज्योतिष्टोमात्कर्मान्तरं विशिष्टदक्षिणाकं विधीयत इति नाम्नः कर्मभेदकत्वमुक्तम / ज्योतिरादिष्वित्यादिपदेनाध्वर्यवं हौत्रमिति संज्ञाभेदात्कर्मभेदो ग्राह्यः / तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः, ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्यत्र वैश्वदेव्यामिक्षायागे वाजिनाख्यगुणविधिः वाजिभ्य इति विश्वेदेवानुवादादित्याशङ्क्यामिक्षां पर्युपसर्जनत्वेनोक्तविश्वदेवानां वाजिभ्य इत्यनुवादायोगादुत्पत्तिशिष्टामिक्षावरुद्धे कर्मणि वाजिनद्रव्यस्यानाकाङ्क्षितस्य विध्ययोगाद्वाजिदेवताको वाजिनयागः कर्मान्तरमिति द्रव्यदेवताख्यरूपभेदात्कर्मभेदः सिद्धान्तितः / आदिपदात् ऽऐन्द्रं दध्यैन्द्रं पयःऽइति द्रव्यभेदाद्यागभेदो ग्राह्यः / एवमिहापि पञ्चाग्निषडग्निरूपभेदाद्विद्याभेदो वाजिच्छन्दोगयोः / तथा रेतोन्यूना वागादयश्छान्दोग्ये तत्सहिता वाजिनामिति प्राणविद्याभेदः, कारीरिवाक्याध्ययने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषाञ्चिदुपाध्यायार्थमुदकाहरणं धर्मो नान्येषां, अश्वमेधाध्ययने ऽश्वघासानयनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्मविशेषमपेक्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्मविशेषाच्छाखान्तरे कर्मभेदः शङ्कितस्तथात्रापि मुण्डकाध्ययेन केषाञ्चिदेव शिरस्यङ्गारपात्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुनरुक्तिरभ्यासः / यथा ऽसमिधो यजति तनूनपातं यजतिऽइति यजत्यभ्यासात्प्रयाजानां भेद उक्तस्तथा शाखान्तरे ऽभ्यासाद्विद्याभेदः / आदिपदान्निन्दादिग्रहः, ऽप्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति ये ऽग्निहोत्रम्ऽइत्यनुदितहोमस्य ऽयदुदिते सूर्ये प्रातर्जुहुयाद्यथातिथये प्रद्रुताय शून्यायावसाथायाहार्यं हरन्ति तादृगेव तत्ऽइत्युदितहोमस्य च निन्दाश्रुतेर्भेदः, एकस्यैवोदिते ऽनुदिते चानुष्ठानायोगात्, तथोदितानुदितहोमातिक्रमकृतप्रायश्चित्तादप्यग्निहोत्रभेदः शङ्कितः / एते निन्दाप्रयश्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते / यथा सर्वशाखाविहितस्य कर्मणो ज्ञातुं कर्तुं चाशक्तेर्भेदस्तथा सर्ववेदान्ताध्ययनज्ञानाद्यशक्तेस्तत्तद्वेदान्तविद्याभेदः स्यात् तथा शाखानां सर्वासामेकरूपा समाप्तिर्नोच्यते किन्तु कस्याश्चित्क्वचित्कर्मणि समाप्तिरतः समाप्तिवचनभेदात्प्रतिशाखं कर्मभेदः शङ्कितः, तथा कस्यचिद्वेदान्तस्योङ्कारसार्वात्म्ये समाप्तिः कस्यचिदन्यत्रेति विद्याभेदः, अन्यार्थदर्शनमर्थवादस्तद्भेदात्कर्मभेदवद्विद्याभेद इति पूर्वपक्षसूत्रोक्ता हेतवो दर्शितास्ते केचित्सिद्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति / तथा शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजेद्दद्याज्जुहुयादिति प्रकृतिशब्दभेदेन धात्वर्थभेदात्तदवच्छिन्नभावनाख्यकर्मभेद उक्तस्तथात्र वेदोपास्त इत्यादिशब्दभेदाद्विद्याभेदः, ऽतिस्र आहुतीर्जुहोतिऽइति संख्यया कर्मभेदवत् ऽवायुप्राणौऽइति द्वित्वसंख्यया संवर्गविद्याभेदः स्यात् / नित्याग्निहोत्रप्रकरणात्प्रकरणान्तरे कुण्डपायिनामयने ऽमासमग्निहोत्रं जुह्वतिऽइति श्रुतमग्निहोत्रं प्रकरणान्तरस्थत्वात्कर्मान्तरमिति सिद्धान्तितम् / तथात्र वेदान्तभेदे प्रकरणभेदादुभास्तिभेद इति पूर्वपक्षः / सिद्धान्तयति-एवमिति / सर्वैर्वेदान्तैः प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि तैर्विहितानीत्यर्थः / उक्तनामादिभिरग्निहोत्रादिकर्मणां प्रतिशाखं भेदे प्राप्ते शाखान्तराधिकरणसिद्धान्तसूत्रं ऽएकं वा संयोगरूपचोदनाख्याविशेषात्ऽइति / तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा / तस्या अविशेषमाह-यथैकस्मिन्निति / एकधात्वर्थहोमावच्छिन्नप्रयत्नैक्यादुपास्तियत्नैक्यमित्यर्थः / यथा ज्येष्ठत्वादिगुणकप्राणविद्या सर्वशाखास्वेका तथा पञ्चाग्निविद्याप्येका फलसंयोगाद्यविशेषात्, तथान्यापि विद्याभिन्नेत्याह-एवं पञ्चाग्नीति / पूर्वपक्षहेतून्निराचष्टे-ये त्विति / काठकमित्यादिनाम्ना कर्मभेदो न युक्तः, कुतः अचोदनाभिधानत्वात्काठकादिशब्दानां ग्रन्थनामतया कर्मवाचित्वाभावादतो भिन्ननामकशाखाग्रन्थभेदे ऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदो ऽपि न कर्मैक्यविरोधी, धर्मविशेषस्त्वध्ययनाङ्गं न कर्माङ्गमतो न कर्मभेदकः शाखाभेदे पुनरुक्तिरसिद्धा,
SK
निन्दान्यार्थदर्शनयोरपि न भेदकत्वं तत्तद्विधिस्तुतिमात्रत्वाद्बहुशाखाध्ययनाशक्तावपि स्वशाखनुक्तविशेषस्यापेक्षितस्यान्यतो ग्रहणसंभवादशक्तिरभेदिका, एकस्मिन्नपि कर्मण्यङ्गलोपादिना प्रायश्चित्तं संभवति / एवं समाप्तिवचनभेदो ऽप्यप्रयोजक इत्यैवं कर्माभेदप्रमाणप्राबल्ये भेदहेतवः परिहृता इत्यर्थः
SK
END Bस्Rप्_३,३.१.१
SK
START Bस्Rप्_३,३.१.२ः
SK
भेदान् नेति चेन् नैकस्याम् अपि | BBस्_३,३.२ |
SK
तर्हि शाखान्तरन्यायेनैव कर्मैक्यवद्विद्यैक्यसिद्धैः पुनरुक्तिरित्यत आह-इहापीति / रूपस्योत्पत्तिशिष्टत्वं विशेषः / पञ्चाग्नीन्वेदेत्याद्युपासनोत्पत्तिविधिस्थपञ्चाग्न्यादिरूपभेदादुपासनाभेदः स्यादामिक्षावाजिनरूपभेदात्कर्मभेदवादित्यधिकाशङ्कानिरासार्थत्वान्न पौनरुक्त्यमस्याधिकरणस्येति मत्वा शङ्कां व्याचष्टे-स्यादित्यादिना / अस्य पृथक्शास्त्रत्वात्कर्मन्यायानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुनरुक्तिगन्धो ऽपि नास्तीति मन्तव्यम् / ननु तस्य मृतस्य दाहार्थमग्निरन्त्येष्टिगतः षष्ठो यः प्रसिद्धवद्वाजिभिरुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह-न चात्रेति / अस्तु प्रजननगुणवतो रेतसो वाजिनामावापश्छन्दोगानां च तस्योद्वापस्ततः किमित्यत आह-आवापेति / छान्दोग्ये षष्ठाग्न्यभावमङ्गीकृत्याल्परूपभेदो न विद्यैक्यविरोधीति परिहरति-नैष इत्यादिना / अङ्गीकारं त्यजति-पठ्यते ऽपीति / इतो ऽस्माल्लोकादिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः / ननु छान्दोग्ये ऽग्निमात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूपभेदस्तदवस्थः, तत्राह-वाजसनेयिनस्त्विति / षष्ठाग्नेस्तद्विशेषस्य चानुवादमात्रत्वेनानुपास्यत्वात्पञ्चाग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः / सविशेषस्य षष्ठाग्नेरूपास्यत्वे ऽपि न रूपभेद इत्याह-अथापीति / द्युलोकादीनां पञ्चानामनग्नीनामग्नित्वसंपत्तिविधिनैवार्थात्पञ्चत्वं संपत्तिकल्पिताग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः / छन्दोगैर्वाजिशाखास्थं रेत उपसंहर्तव्यमित्युक्त्वानुपसंहारे ऽपि न विद्याभेद इत्याह-न चावापेति
SK
END Bस्Rप्_३,३.१.२
SK
START Bस्Rप्_३,३.१.३ः
SK
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः | BBस्_३,३.३ |
SK
एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषो ऽपि न भेदक इत्याह-स्वाध्यायस्येति / गोदानवदध्ययनाङ्गत्वेन शिरोव्रतमाथर्वणिकानां सूत्रे विहितं न विद्याङ्गमित्यर्थः / अधिकाराच्चेति व्याचष्टे-नैतदिति / एतत्प्रकृतं मुण्डकमननुष्ठितशिरोव्रतो नरो नाधीत इति श्रुतेर्मुण्डकाध्ययनाङ्गमेव शिरोव्रतमित्यर्थः / ननु विद्याङ्गत्वेनापि इदं व्रतं श्रुतमिति शङ्कते-नन्विति / सर्वशाखासु ब्रह्मविद्यैकैव चेद्विद्यासंयुक्तं व्रतमपि सर्वत्र संबध्येत / नच संबध्यत इति विद्याभेद इत्यर्थः / प्रकृतग्रन्थवाच्यैतच्छब्दबलाद्ब्रह्मप्रकाशग्रन्थपरो ब्रह्मविद्याशब्द इति परिहरति-नेति /
SK
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः / सवा होमाः / अथर्वणैः स्वसूत्रे उदित एको ऽग्निरेकर्षिसंज्ञया प्रसिद्धस्तस्मिन्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः
SK
END Bस्Rप्_३,३.१.३
SK
START Bस्Rप्_३,३.१.४ः
SK
दर्शयति च | BBस्_३,३.४ |
SK
किञ्च वेद्यैक्येन निर्गुणब्रह्मविद्यैक्यं तावच्छ्रुतिर्दर्शयति, तत्संनिधिपाठात्सगुणविद्यानामपि सर्वशाखास्वैक्यसिद्धिरित्याह सूत्रकारः-दर्शयति चेति / सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह-तथेति / किञ्च शाखान्तरोक्तपादार्थस्य शाखान्तरे सिद्धवत्परामर्शो विद्यैक्यं दर्शयतीत्याह-तथा महद्भयमित्यादिना / एष नर एतस्मिन्नद्वये ऽल्पमप्यन्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मैवाहमित्यमन्वानस्येत्यर्थः / प्रादेशमात्रमुपास्त इति सिद्धवदुपासनं वैश्वानरविद्यैक्यं दर्शयतीत्याह-तथेति / किञ्च सर्वेषु वेदान्तेषूक्थादीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते-अन्यत्रोक्तानां तेषामन्यत्रोपास्त्यर्थमुपादानमिति / ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं बाहुल्येन सिध्यतीत्याह-तथेति /
SK
ब्रह्मविद्यैक्यवदुक्थादिविद्यैक्यमित्यर्थः
SK
END Bस्Rप्_३,३.१.४
SK
START Bस्Rप्_३,३.२.५ः
SK
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च | BBस्_३,३.५ |
SK
सर्वशाखासु विद्यैक्यचिन्तायाः फलमाह-उपसंहार इति / शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्ये ऽपि तत्र तत्रोक्तैरेव गुणैर्विद्योपकारसिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृतविद्यैक्यचिन्तानैष्फल्यमिति फलम् / सिद्धान्तत्वेन सूत्रं व्याचष्टे-स्थिते चेत्यादिना / गुणानां गुण्यविनाभावादेतच्छाखास्था विद्या शाखान्तरोक्ततद्विद्यागुणवती, तदभिन्नत्वात्, तद्विद्यावदित्यनुमानद्विद्यैक्ये गुणोपसंहारसिद्धिरित्यर्थः / प्रधानैक्ये तत्तदुपकारकाणमङ्गानामुपसंहारे दृष्टान्तमाह-विधिशेषवदिति / उक्तमेव व्यतिरेकमुखेनाह-यदिहीति / नन्वाग्नेययागावरुद्धानां गुणानां ततो ऽभिन्ने सौर्ये प्राप्तिवद्विद्यान्तरस्थगुणानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह-प्रकृतीति / प्रकृतिगुणानां विकारे प्राप्तिर्युक्ता विद्यानां तु प्रकृतिविकृतिभावासिद्धेर्न तत्प्राप्तिरित्यर्थः / नैवमिति गुणानुपसंहारो नेत्यर्थः / उत्तरसूत्राणामनेन सूत्रेण पौनरुक्त्यं वारयति-अस्यैवेति
SK
END Bस्Rप्_३,३.२.५
SK
START Bस्Rप्_३,३.३.६ः
SK
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् | BBस्_३,३.६ |
SK
पूर्वं चोदनाद्यविशेषादुत्सर्गतो विद्यैक्यमुक्तं तस्यापवादं वक्तुमाह-अन्यथात्वमिति / अत्र वाजिनामुद्रीयब्राह्मणं छन्दोगानामुद्गीथाध्यायं च विषयमाह-वाजेत्यादिना / ऽते ह देवाः सात्त्विकवृत्तयः प्राणा अन्योन्यमुचूर्हन्तेदानीमस्मिन्यज्ञे उद्गीथेनौद्गात्रेण कर्मणा रजस्तमोवृत्तिरूपानसुरानतीत्य देवत्वं गच्छामःऽइति ते चैवं निर्देषमुद्गीथकर्तारमुपास्यं निर्धारयितुं कृतसंवादाः प्रथमं वाच्यं परीक्षितवन्तस्त्वमौद्गात्रं नो ऽस्माकं कुर्विति तया त्वनृतं कृतं तथा घ्राणचक्षुःश्रोत्रमनांस्यपि कामेनासुरपाप्मना ग्रस्तानीति निन्दित्वा आसन्यमास्ये भवं मुखमध्यस्थं प्राणमुपास्यं निर्धारितवन्त इत्यर्थः / तत्तत्रान्योन्यभिभवात्मकयुद्धे प्रवृत्ते देवाः पूर्ववदुद्गीथमाहृतवन्तः अनेनोद्गीथेनैनानसुराञ्जयेमेत्यर्थः / भेदाभेदमानाभ्यां संशयमाह-तत्रेति / अत्र पूर्वाधिकरणसिद्धान्तन्यायेनोद्गीथविद्येति संज्ञैक्येन विद्यैक्यमिति पूर्वपक्षे मिथो गुणोपसंहारः फलं, सिद्धान्ते संज्ञैक्ये ऽपि विद्यैक्यापवादादनुपसंहार इति / एवं यत्र पूर्वन्यायेन पूर्वपक्षः तत्रापवादिकी संगतिरिति मन्तव्यम् / सूत्रस्थसिद्धान्तिशङ्काभागं व्याचष्टे-ननु न युक्तमिति / संपूर्णोद्गीथकर्मकर्ता प्राणो वाजिनामुपास्यः, उद्गायेति कर्तृशब्दाच्छन्दोगानां तूद्गीथावयव ओङ्कारः प्राणदृष्ट्योपास्यः, ॐमित्येतदक्षरमुद्गीथमित्युपक्रम्य प्राणमुद्गीथमिति कर्मरूपत्वशब्दात्, तथाच कर्तृकर्मणोरूपास्ययोर्भेदाद्विद्ययोरन्यथात्वं भेद इति शङ्कार्थः / उद्गीथत्वेनेति ओङ्कारत्वेनेत्यर्थः / अल्परूपभेदो न विद्यैक्यविरोधीत्युक्तन्यायेन पूर्वपक्षी परिहरति-नैष इति / असुरात्ययाभिप्रायः असुरजयार्थं संवादः, यथाश्मानं प्राप्य लोष्टो विध्वंसते तथा प्राणं हन्तुमागता असुरास्तस्य वीर्येण स्वयमेव ध्वस्ता इति श्रुतमुभयत्रेत्यर्थः / अल्परूपभेदमङ्गीकृत्यापि विद्यैक्यमुक्तं सो ऽपि नास्तीत्याह-वाजेति /
SK
उद्गीथकर्तृरूपत्वेन प्राणस्योभयत्र श्रुतत्वादेकत्र श्रुतं कर्तृत्वमप्युभयत्र द्रष्टव्यमित्यर्थः
SK
END Bस्Rप्_३,३.३.६
SK
START Bस्Rप्_३,३.३.७ः
SK
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् | BBस्_३,३.७ |
SK
बहुविरुद्धरूपभेदात् न विद्यैक्यमिति सिद्धान्तयति-न वेति / अक्षरं विशिनष्टि-उद्गीथमिति / तदवयवमित्यर्थः पृथिव्यादिरसानां रसतम ओङ्कारः, आप्तिः समृद्धिरिति गुणानुक्त्वा गुणवत्योङ्कारे प्राणदृष्टिविधानायाख्यायिका प्रस्तुतेत्याह-रसतमेति / ननु वाजिवाक्यैकवाक्यत्वार्थं छान्दोग्योपक्रमस्थमुद्गीथपदं संपूर्णसामभक्तिपरमस्तु, प्राणमुद्गीथमित्यत्राप्युद्गीथकर्ता प्राण उपास्य इति व्याख्यायतामित्यत आह-तत्र यद्युद्गीथेति / ओङ्कारोपास्त्युपक्रमसङ्ग उद्गीथपदे कर्तृलक्षणा चेति दोषद्वयं स्यादित्यर्थः / ननु सिद्धान्ते ऽपि तत्पदे ऽवयवलक्षणा स्वीकार्या ततो वरं कर्तृलक्षणा श्रुत्यन्तरानुग्रहात्तथा चोपसंहारे कर्तृप्राणोपास्तिनिश्चयादुपक्रमे ऽपि तन्निश्चय इत्यत आह-उपक्रमेति / संदिग्धोपक्रमो हि वाक्यशेषान्निश्चीयते / यथा ऽअक्ताः शर्कराःऽइत्यत्राञ्जनद्रव्यसंदेहे ऽतेजो घृतम्ऽइति शेषान्निश्चयः / इह तूपक्रमे ऽक्षरस्योपास्यत्वं निश्चितं, तत्समानाधिकारणोद्गीथपदस्यावयवलक्षणा च विनिश्चितेति प्राणमुद्गीथमित्युपसंहारस्तदेकार्थतया नेय इत्यर्थः / एवं छान्दोग्ये ओङ्कार उपास्य उक्त इतरत्र तु प्राण इत्युपास्यभेदाद्विद्याभेद इत्याह-वाजेति / यदुक्तं वाजिश्रुतावपि प्राणस्योद्गीथरूपत्वश्रुतेरूपास्यैक्यमिति तद्दूषयति-यदपीत्यादिना / तत्रोद्गीथ उपास्यतया नोक्तः किन्तु प्राणस्योपास्यस्य गुणतयेत्यर्थः / किञ्चोद्गीथ ओङ्कारश्छान्दोग्ये ऽत्र तु भक्तिरित्युपास्यभेद इत्याह-सकलेति / प्राणस्य जडत्वान्नोद्गातृत्वं किन्तूद्गीथत्वमेव वाजिभरपि ग्राह्यमित्यैक्यमाशङ्क्याह-नचेति / स उद्गाता वाग्विशिष्टप्राणेनौद्गात्रं कृतवानिति श्रुतेरसंभवो ऽपि नेत्यर्थः / यदुक्तं बहुतरार्थाविशेषाद्धि विद्यैक्यमिति, तत्राह-नचेति / एकत्रोद्गाता प्राण उपास्यो ऽन्यत्रोङ्कार इत्यन्तरङ्गोपास्यरूपभेदे स्पष्टे सति बहिरङ्गार्थवादसाम्यमात्रेण नोपासनैक्यं युक्तमित्यर्थः / वाक्यसाम्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह-तथाहीति / ऽवि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये ऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्ऽइत्यभ्युदयवाक्यम् / अस्यार्थः-यस्य यजमानस्य चतुर्दश्यामेवामावास्याभ्रान्त्यादर्शकर्मार्थं प्रवृत्तस्य पुरस्तात्पूर्वं हविस्तण्डुलदधिपयोरूपं निरुप्तं दर्शदेवताभ्यो ऽग्न्यादिभ्यः सङ्कल्पितं चन्द्रमाश्च पश्चादभ्युदेति तमेतं यजमानं कालव्यत्ययापराधात्तदेव निरुप्तं हविः प्रजादिनार्धयति वियोजयति शत्रुं चास्य वर्धयति यस्मात्कालभ्रान्तिमान्यजमानः, ये मध्यमादिभावेन त्रेधा भूतास्तण्डुला दध्यादिसहिता निरुप्तास्तान्विभजेदग्न्यादिभ्यो वियोजयद्वियोज्य च दातृत्वादिगुणकानग्न्यादिभ्यो दर्शदेवाभिन्नेभ्यो निर्वपेदिति दधन् दधनि स्थविष्ठतण्डुलचरुं शृते दुग्धे ऽणिष्ठचरुमित्यर्थः / अत्र कालापराधे देवान्तरयुक्तं प्रायश्चित्तरूपं दर्शाद्भिन्नं कर्म विधीयत इति प्राप्ते तण्डुलत्रेधात्वाद्यनुवादेन विभजेदिति हविषः प्रकृतदेववियोगेन तस्मिन्नेव दर्शकर्मणि देवतान्तरसंबन्धमात्रविधानं न कर्मान्तरमिति सिद्धान्तितम् / एवमभ्युदयवाक्ये कालापराधेनोपक्रमाद्दर्शकर्मण्येव हविषः पूर्वदेवताभ्यो ऽपनयो वियोगो ऽध्यवसितः, पशुकामवाक्ये तु यद्यपि ये स्थविष्ठास्तानग्नये सनिमते ऽष्टाकपालं निर्वपेद्ये मध्यमास्तान् विषणवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुमिति निर्देशो ऽभ्युदयवाक्येन समो ऽस्ति, तथापि यः पशुकामः स्यात्सो ऽमावास्यामिष्ट्वा वत्सानपाकुर्यादिति नित्यं दर्शकर्म समाप्य पुनर्देहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्य यागान्तरविधिरेव नाभ्युदयवाक्येनार्थैक्यमिति तथा प्रकृते ऽपि निर्देशसाम्यं न विद्यैक्यप्रयोजकमित्यर्थः / वत्सानापाकुर्यान्मातृदेशाद्देशान्तरं नयेदित्यर्थः / सूत्रोक्तं दृष्टान्तं व्याचष्टे-परोवरीयस्त्वादिवदिति /
SK
पर इति सकारान्तं परस्मात् परश्चासौ वराच्च वरतर इति परोवरीयानित्येकं पदम् / अनन्तश्च आकाशाख्यः परमात्मा तद्दृष्ट्यालम्बनत्वादुद्गीथस्तथोक्त इत्यर्थः / आकाशात्मना हिरण्यश्मश्रुपुरुषात्मना चोद्गीथोपास्तिसाम्ये ऽपि विद्याभेदवदिहापि भेद इत्यर्थः
SK
END Bस्Rप्_३,३.३.७
SK
START Bस्Rप्_३,३.३.८ः
SK
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि | BBस्_३,३.८ |
SK
संज्ञैक्यं पूर्वपक्षबीजमुद्भाव्य दूषयति-संज्ञात इति / उपास्यरूपभेदाद्विद्यानानात्वं यदुक्तं तच्छ्रुत्यक्षरानुगतं बलवत्, संज्ञा तु पौरुषेयी दुर्बलेत्यर्थः / संज्ञैक्यं कर्मैक्यव्यभिचारि चेत्याह-अस्ति चेति / किं संज्ञैक्यं सर्वत्राप्रमाणमेव नेत्याह-यत्र त्विति /
SK
असति बाधके संज्ञैक्यमपि मानं यथा संवर्गविद्येति संज्ञैक्यात्सर्वशाखासु तद्विद्यैक्यं, तथा पञ्चाग्न्यादिविद्यैक्यमित्याद्यसूत्रे दर्शितमित्यर्थः
SK
END Bस्Rप्_३,३.३.८
SK
START Bस्Rप्_३,३.४.९ः
SK
व्याप्तेश् च समञ्जसम् | BBस्_३,३.९ |
SK
व्याप्तेश्च समञ्जसम् /
SK
सामानाधिकरण्यं विषयीकृत्य संशयमाह-ओमित्येतदिति /
SK
अध्यासादिपदार्थान्व्याचष्टे-तत्राध्यास इत्यादिना / बुद्धिपूर्वकाभेदारोपो ऽध्यासः, बाधो ऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः / पूर्वमुद्गातृकर्मात्मकोद्गीथावयवत्वमोङ्कारस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येयभेदाद्विद्याभेदः सिद्धान्तितः स न युक्त इत्याक्षेपसंगत्या पूर्वपक्षयति-तत्रेति / अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे-चशब्द इत्यादिना / पक्षत्रयस्य दुष्टत्वं प्रतिज्ञायाध्यासपक्षे दोषमाह-तत्राध्यास इति / यस्योद्गीथस्य बुद्धिरोङ्कारे ऽध्यस्यते तद्वाचकोद्गीथशब्दस्योङ्कारे लक्षणा स्यात्तद्बुद्धिविषयत्वगुणपरत्वात्तथा संबन्धो ऽप्यसिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः / फलं न कल्प्यमिति शङ्कते-श्रूयत इति /
SK
आप्त्यादीति /
SK
ऽओङ्कार आप्तिः समृद्धिरितिऽ ऽय उपास्ते स कामानाप्नोतिऽइति श्रुतं फलं नाध्यासस्येत्यर्थः / उद्गीथोङ्कारयोरन्यतरबुद्यान्यतरबुद्यपवादमङ्गीकृत्यान्यतरमिथ्याबुद्धिनिवृत्तिवैफल्यमुक्तं संप्रत्यन्यतरबुद्धेरभ्रान्तित्वान्नापवाद इत्याह-नच कदाचिदपीति / भ्रान्तिश्चेत् निवर्तेत न तु निवर्तत इत्यभ्रन्तिरित्यर्थः / किञ्च तत्त्वबोधकाद्वाक्याद्भ्रान्त्यपवादो भवति नेदं वाक्यं तत्त्वपरमित्याह-नचेति / घटकुम्भशब्दयोरिवोङ्कारोद्गीयशब्दयोः पर्यायत्वपक्षं दूषयति-नापीति / पर्यायत्वमपि नास्तीत्याह-नचेति / परिशिष्टविशेषणपक्षे सूत्रं योजयति-व्याप्तेरिति /
SK
ऽओमित्यक्षरमुपासीतऽइत्युक्ते सर्ववेदव्याप्योङ्कार इहोपास्तौ प्रसज्येत तन्निरासार्थमुद्गीथावयवत्वं विशेषणं समञ्जसमित्यर्थः / अध्यासपक्षे तद्बुद्धिविषयत्वगुणयोगरूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा अवयवलक्षणा तु संनिकृष्टा अवयवावयविसंबन्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च / नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्मबुद्धिग्राह्यत्वगुणलक्षणाश्रिता तत्र प्रतीकोपास्तेर्विवक्षितत्वात् / इह तु प्रतीकोपास्तिविधिकल्पने आप्त्यादिगुणकोङ्कारे प्राणदृष्टिविधाने च वाक्यभेदः स्यादतः सर्ववेदव्याप्योङ्कारनिरासेनोङ्कारे प्राणदृष्टिविधानार्थं विशेषणमेव समञ्जसं कल्प्नालाघवादिति सिद्धम्
SK
END Bस्Rप्_३,३.४.९
SK
START Bस्Rप्_३,३.५.१०ः
SK
सर्वाभेदादन्यत्रेमे | BBस्_३,३.१० |
SK
सर्वाभेदादन्यत्रेमे /
SK
विषयं वक्तुं संमतमर्थमाह-वाजिनामिति / वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् / चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पादप्रतिष्ठादर्शनात् / श्रोत्रं संपद्गुणकं श्रवणात्सर्वार्थसंपत्तेः / मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्वभोग्याश्रयत्वात् / ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागादिभिस्तस्मिन्नर्पिता इति शाखाद्वयसंमतोर्ऽथः / विषयमाह-अन्येषामित्यादिना / निश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारमं प्रस्तूयतल इत्यर्थः / देवता वागादयो ऽहंश्रेयसे स्वश्रैष्ठ्यायेत्यर्थः / एवंशब्दाच्छैष्ठ्यगुणकप्राणप्रत्यभिज्ञानाच्च संशयमाह-तत्रेति / गुणानामनुपसंहारोपसंहारावेव पूर्वोत्तरपक्षयोः फलम् / उद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवत्प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तरिति दृष्टान्तेन पूर्वपक्षयति-तत्र प्राप्तमिति / यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः / एवं जातीयकविद्यैक्यात्प्राप्तमार्थिकं वसिष्ठत्वादिगुणजातमेवंशब्दो न गृह्णाति श्रुतावलम्बित्वादिति प्राप्ते सिद्धान्तयति-अस्येरन्निति / वाजसनेयिब्राह्मणे तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणविद्यासंबन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्यभिज्ञायते, तथाच गुणानां गुण्यविनाभावेनार्थतः प्राप्तानामपि श्रुतगुणैरविरोधात्सहैव श्रुतमार्थं च गुणजातं श्रुत्यर्थाभ्यां संनिहितत्वाविशेषात्कौषीतकिगतेनैवंशब्देन परामृश्यत इत्याह-तथापीति / कौषीतकिश्रुतिस्थः प्राणो वसिष्ठत्वादिगुणकः, श्रेष्ठप्राणत्वात्, वाजिश्रुतिस्थप्राणवदित्यश्रुतगुणानुमाने सति श्रुतहानिर्नास्ति, अविरोधादित्युक्तं, स्पष्टयति-न चैवं सतीति / अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह-नहीति / फलितमाह-तस्मादिति
SK
END Bस्Rप्_३,३.५.१०
SK
START Bस्Rप्_३,३.६.११ः
SK
आनन्दादयः प्रधानस्य | BBस्_३,३.११ |
SK
आनन्दादयः प्रधानस्य /
SK
ब्रह्मणो ज्ञेयस्यैक्यान्निर्विशेषत्वाच्च संशयमाह-तेषु संशय इति / पूर्वपक्षे सत्यादिपदानुपसंहाराद्वाक्यार्थानवधारणं, सिद्धान्ते त्ववधारणमिति फलम् / प्राणस्यसविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः, ब्रह्मणस्तु निर्विशेषत्वात्स्वशाखागतपदैरेव प्रमितिसिद्धेर्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः / सिद्धान्तमाह-इदमिति / आनन्दत्वसत्यत्वज्ञानत्वादिसामान्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्वशाखासूपसंहारो नाम तद्वाचकानन्दादिपदानामेकवाक्यतयोच्चारणं आनन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्धमद्वयमात्मेति / तानि च समानाधिकरणानि पदानि विरुद्धधर्मत्यागेन सर्वाधिष्ठानभूतामेकामखण्डव्यक्तिं क्षयन्ति / न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् / यद्यपि पदद्वये ऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःखत्वाल्पत्वभ्रन्तिनिरासे ऽप्यसत्त्वजडत्वादिभ्रमो भवेदतस्तन्निरासार्थं सत्यज्ञानादिपदानि प्रयोक्तव्यानि / नच भ्रमस्यानवधित्वाद्वाक्यमपर्यवसितं स्यादिति वाच्यम् / सच्चिदानन्दात्मकं सर्वधर्मशून्यमद्वयमविकल्पं ब्रह्माहमिति विशेषदर्शने सर्वभ्रमनिरासात् / तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदान्युपसंहर्तव्यानीति भावः
SK
END Bस्Rप्_३,३.६.११
SK
START Bस्Rप्_३,३.६.१२ः
SK
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे | BBस्_३,३.१२ |
SK
ब्रह्मैक्याच्चेदानन्दत्वादिधर्माणां सर्वत्र प्राप्तिस्तर्हि सगुणब्रह्मविद्यागतधर्मप्राप्तिरपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे-प्रियेति / पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषामब्रह्मस्वरूपाणां ब्रह्मज्ञानानुपयोगादिति भावः / तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह-न चैत इति / ब्रह्मणि चित्तावतारोपायत्वे ऽपि तेषां प्राप्तिः स्यादित्याशङ्क्याह-एवमपीति / अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्तिरित्यर्थः / किमर्थं तर्हि सूत्रमित्यत आह-ब्रह्मधर्मानिति / कृत्वाचिन्ताफलमाह-स चेति / ज्ञेये बाह्यधर्माणामनुपयोगादप्राप्तिरिति न्यायात्संयद्वामत्वादीनामप्राप्तिरिति सूत्रं व्याख्येयमित्यर्थः / ज्ञानानुपयोगे ऽपि ध्याने तेषां धर्माणामुपयोगादुपास्यब्रह्मैक्यात्प्राप्तिरन्योविद्यासु स्यादित्याशङ्क्याह-तेषु हीति /
SK
ध्यानविधिपरतन्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः
SK
END Bस्Rप्_३,३.६.१२
SK
START Bस्Rप्_३,३.७.१३ः
SK
इतरे त्वर्थसामान्यात् | BBस्_३,३.१३ |
SK
संयद्वामत्वादिधर्मेभ्य आनन्दादीनां वैषम्यं ज्ञानोपयोगित्वादितयाह-इतरे त्विति /
SK
सत्यज्ञानानन्दात्मब्रह्मशब्दाः पञ्च सर्वत्रोपसंहर्तव्या इति सिद्धम्
SK
END Bस्Rप्_३,३.७.१३
SK
START Bस्Rप्_३,३.८.१४ः
SK
आध्यानाय प्रयोजनाभावात् | BBस्_३,३.१४ |
SK
आध्यानाय वाक्यभेदाभेदानवधारणात्संशयमाह-तत्रेति / पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फलम् / पूर्वत्र ब्रह्मस्वभावानामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानफलोपायत्वमुक्तम्, अत्रत्वब्रह्मस्वभावस्यार्थादिपरत्वस्यानुपसंहार्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः तत्तत्परत्वविशिष्टत्वेनार्थादीनामपूर्वतया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः / उत्सूत्रसिद्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे-पुरुष एवेति / फलवत्त्वे सत्यपूर्वत्वात्पुरुषस्यैव प्राधान्येन प्रतिपाद्यत्वमफलार्थादीनां परत्वं तु तच्छेषत्वेनोच्यत इत्यर्थः / किञ्च ऽपुरुषान्न परं किञ्चित्सा काष्ठाऽइति वेदः परनिषेधलिङ्गेन सर्वबाधावधित्वलिङ्गेन च पुरुषे तात्पर्यं दर्शयन्पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिस्तदर्थेति दर्शयतीत्याह-अपिचेति / अर्थादीनामत्रोक्तिराध्यानाय तत्तत्परत्वाध्यानपूर्वकं पुरुषदर्शनायैव स्वतः प्रयोजनाभावादिति सूत्रं योजयति-आध्यानायेति
SK
END Bस्Rप्_३,३.८.१४
SK
START Bस्Rप्_३,३.७.१५ः
SK
आत्मशब्दाच् च | BBस्_३,३.१५ |
SK
आत्मत्वादिलिङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह-आत्मशब्दाच्चेति / किञ्च ऽतद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्ऽइत्युपक्रमोपसंहारयोरैकरूप्यात्कॢप्तफलवदेकपुरुषपरत्वेनैकवाक्यत्वनिश्चये सति वाक्यभेदफलभेदकल्पना न युक्ता गौरवादित्याह-अपिचेति
SK
END Bस्Rप्_३,३.७.१५
SK
START Bस्Rप्_३,३.८.१६ः
SK
आत्मगृहीतिर् इतरवद् उत्तरात् | BBस्_३,३.१६ |
SK
आत्मगृहीतिः /
SK
मिषत् चलत् / लोकानाह-अम्भ इति / अम्भः स्वर्गः, मरीचयो ऽन्तरिक्षलोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः / आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयोगात्संशयमाह-तत्रेति / अत्र पूर्वपक्षे वाक्यस्य सूत्रोपास्तिपरत्वात्परब्रह्मधर्माणामानन्दादीनामैतरेयके ऽनुपसंहारः, सिद्धान्ते ब्रह्मपरत्वादुपसंहार इति फलम् / पुरुषवाक्याद्भेदप्रसङ्गादर्थादिवाक्यानां नार्थादिप्रतिपादकत्वमित्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्वस्मात्प्रजापतिवाक्याद्भेदप्रसङ्गादात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति-न परमात्मेत्यादिना / वाक्यस्य प्रजापतौ तात्पर्यदर्शनादित्यर्थः / पूर्वपक्षमाक्षिप्य लोकस्रष्टृत्वलिङ्गान्न प्रजापतौ वाक्यान्वय इत्याह-नन्वित्यादिना / लोका एव महाभूतानीत्यत आह-लोकाश्चेति / लोकशब्दस्य महाभूतेष्वरूढात्वाद्भौतिका एव लोकाः / निर्वचनाच्चेत्याह-तथाचेति / अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्व्याचष्टे-परेण दिवं दिवः परस्ताद्दिवि प्रतिष्ठितश्चन्द्राम्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति / ननु लोकसृष्टिरपीश्वरादेवास्तु नेत्याह-लोकेति / पुरुषविधो नराकारः / आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्वमसृजतेत्यर्थः / भूतानां लोकानामित्यर्थः / प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह-ऐतरेयिणो ऽपीति / रेतः कार्यमिति यावत् / ब्रह्मलिङ्गानि प्रजापतौ योजयति-आत्मशब्दो ऽपीत्यादिना / किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामानयल्लोकस्रष्टा तथाश्वमानयत् / तास्तु गवाश्वप्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रुवंस्तृप्ताः स्म इति / अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह-अपिचेति / आत्मशब्दस्य चिदात्मनि मुख्यत्वान्मुख्यग्रहे बाधकाभावादुत्तरस्येक्षणादेरनुकूलत्वात्परमात्मग्रहणमिति सिद्धान्तयति-एवं प्राप्त इति /
SK
महाभूतसृष्टिपूर्वकं लोकानासृजतेति श्रुतिर्व्याख्येयेति भावः
SK
END Bस्Rप्_३,३.८.१६
SK
START Bस्Rप्_३,३.८.१७ः
SK
अन्वयाद् इति चेत् स्याद् अवधारणात् | BBस्_३,३.१७ |
SK
पूर्वपक्षबीजमनूद्य दूषयति-अन्वयादिति / ऽआत्मा वा इदमेक एवाग्र आसीत्ऽइति ऽप्रज्ञानं ब्रह्मऽइति चोपक्रमोपसंहारस्थात्मब्रह्मश्रुतिभ्यामेकत्वावधाराणात्प्रवेशादिलिङ्गैश्च लोकस्रष्टृत्वादिलिङ्गबाधेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः / स परमेश्वरः / एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्मरन्ध्राख्यया द्वारा लिङ्गविशिष्टः प्रविष्टवानित्यर्थः / मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतदेव शोधितमात्मानं ब्रह्म ततमं व्याप्ततममपश्यत् / तकारलोपश्छान्दसः / प्रज्ञा चिदात्मा नेत्रं नीयते ऽनेनेति नियामकं यस्य तत् प्रज्ञानेत्रं चिदात्मनियम्यमित्यर्थः / उक्तव्याख्याने गुणोपसंहारस्यास्फुटत्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह-अपरेति / उदर्क उपसंहारः / सच्छब्दस्यात्मानात्मसाधारण्यात्संशयमाह-तत्रेति / पूर्वपक्षे सत्तासामान्ये ब्रह्मात्मत्वसंपदुपास्तिश्छान्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदान्मिथोगुणानुपसंहारः / सिद्धान्ते तूभयत्र निर्गुणविद्यैक्यादुपसंहार इति फलभेदः / पदानां जातौ शक्तिग्रहात्सच्छब्दो ऽपि सत्ताजातिवाचीत्युपक्रमस्य निश्चितार्थत्वादसंजातविरोध्युपक्रमबलेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्वपक्षनिष्कर्षः / पूर्वत्र वाक्यैक्यादर्थादिपरत्वं त्यक्त्वा विद्यैक्यमुक्तमिह तु सदात्मशब्दाभ्यां जात्यात्मवाचिभ्यामुपक्रमभेदाद्वाक्यभेदे सति विद्याभेद इति प्रत्युदाहरणसंगतिः / न चात्मशब्दो जातिवाचकः, आत्मव्यक्त्यैक्याज्जात्यभावात्किन्तु सर्वान्तरवस्तुवाचकः / कल्पितजातिवाचित्वे ऽप्युपक्रमभेदः स्फुट एव सत्तात्मत्वयोर्भेदादिति मन्तव्यम् / सिद्धान्तयति-तथेत्यादिना / उपक्रमान्वयादिति / उपक्रमाधीनत्वादुपसंहारस्येत्यर्थः / तच्चावधारणं सत्पदेनात्मगृहीतौ सत्यां युज्यत इत्याह-तच्चेति / सदेकमेवेत्यवधारणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीवस्यात्मशब्देन परामर्शः / सुप्तौ जीवः सता संपन्नौ भवतीति कथनं / भूय एव मा भगवान् विज्ञापयत्विति परिचोदना / सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृवाचिशतृप्रत्ययान्तत्वात् / तथा चोपक्रमे सत्ताश्रयसामान्योक्तौ क आश्रय इत्याकाङ्क्षायां वाक्यशेषादात्मेति निश्चीयत इत्याह-नचेति / सच्छब्दस्यात्मानात्मसाधारण्यमुपेत्योक्तं तदपि नास्ति आत्मपदवत्सत्पदस्य व्यक्तिवाचित्वाद्व्यक्तिश्च बाधायोग्य चिदात्मैवेति न वाचिछन्दोगयोरूपक्रमवैषम्यमित्याह-सच्छब्देति / वैषम्यमुपेत्याप्याह-आम्नानेति / वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वमर्थपर्यन्तस्य प्रतिपादनमिति प्रकारभेदे ऽपि वाक्यार्थैक्याद्विद्यैक्यमिति फलितमाह-तस्मादिति
SK
END Bस्Rप्_३,३.८.१७
SK
START Bस्Rप्_३,३.९.१८ः
SK
कार्याख्यानादपूर्वम् | BBस्_३,३.१८ |
SK
कार्याख्यानादपूर्वम् /
SK
ऽमे किमन्नं किं वासःऽइति प्राणेन पृष्टा वागादयः ऊचुः, ऽयदिदं किं चाश्वभ्य आ कृमिभ्यस्तत्ते ऽन्नमापो वासःऽइति सर्वप्राणिभिर्भुज्यमानं यदिदं प्रसिद्धं श्वादिपर्यन्तमन्नं तत्प्राणस्य तवान्नमाप आच्छादनमित्युपासकेन चिन्तनीयमित्यर्थः / शाखाद्वये ऽप्यविशेषश्रुतिमुक्त्वा विशेशषश्रुतिभेदमाह-अनन्तरं चेति / तस्मादपां प्राणवस्त्रत्वादशिशष्यन्तो ऽशनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति / किं तत्, भोजनात्पूर्वमूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परिदधत्याच्छादयन्तीत्यर्थः / पूर्वोत्तराचमनसंबन्धिनीष्वप्सु प्राणवासस्त्वचिन्तनरूपमनग्नताध्यानं कार्यमिति भावः / तत् तस्मादित्युक्तार्थं यतः पूर्वे विद्वांसो ऽशनात्प्रागूर्ध्वं चाचामन्त एतमेवानां प्राणं तत्तेनाचमनेनानग्नमाच्छादितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मादेवंविदिदानीन्तनो ऽप्युपासक एवं कुर्यादिति वाजिश्रुत्यर्थः / अत्रोभयोरप्यपूर्वत्वात्संशयमाह-तत्किमिति / संदिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदाचामन्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्यशेषाद्विधित्वनिर्णय इति दृष्टान्तसंगत्या पूर्वपक्षमाह-किं तावदिति / ज्ञानसाधनोपासनाङ्गविधिविचारात्पादसङ्गतिर्बोध्या / पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वाचमनं विहितमन्यत्रोपसंहर्तव्यमिति फलं सिद्धान्ते तस्याविधेयत्वान्नाङ्गत्वेनोपसंहार इति विवेकः उभयविधाने वाक्यभेदः स्यादित्यरुच्यापक्षान्तरमाह-अथवेति / प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः / प्रसिद्धानुवादेनाप्रसिद्धं विधेयमिति न्यायेन सिद्धान्तयति-एवमिति / प्रयतस्य प्रयत्नवतो भावः प्रायत्यंशुद्धिस्तदर्थमित्यर्थः / स्मृत्या शुद्यर्थं कार्यत्वेन विहितसकलकर्माङ्गतया प्राप्ताचमनानुवादेनापूर्वमनग्नताध्यानमेव विधीयत इति सूत्रार्थः / स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं समृत्यानूद्यत इति शङ्कते-नन्विति / श्रुतिस्मृत्योरनयोर्न मूलमूलिभावो भिन्नविषयत्वादिति परिहरति-नेति / ऽद्विजो नित्यमुपस्पृशेत्ऽइत्याद्या स्मृतिः आचमनान्तरविधिमुपेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह-नचेयं श्रुतिरिति / अत एवेति आचमनविध्यभावादेवेत्यर्थः / अप्सु प्राणवासस्त्वध्यानाख्यः संकल्पः प्राणविद्याङ्गत्वेन विधीयत इत्याह-तस्मादिति / स्वयं चेति अपूर्वत्वादित्यर्थः / शुद्यर्थं विनियुक्तस्याचमनस्य प्राणाच्छादनार्थत्वं विरुद्धमित्याशङ्क्याह-न चैवं सतीति / आचमनस्याच्छादनार्थत्वमसिद्धमित्यर्थः / किञ्च यथा पूर्ववाक्ये प्राणस्यान्नध्यानमङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यानविधिरुत्तरत्र क्रियाविधिरित्यर्धवैशसं स्यादित्याह-अपिचेति / भक्षयेदिति शब्दाभावाच्छ्वाद्यन्नस्य सर्वस्य मनुष्वेणेपासकेन भोक्तुमशक्यत्वाच्च न पूर्ववाक्ये क्रियाविधिरित्यर्थः / इतश्चाचमनमत्र न विधेयमित्याह-अपिचेति / अनग्नं मन्यन्त इत्यत्र वासस्त्वध्यानमपि न विधेयं दोषसाम्यदिति शङ्कते-नन्विति / उभयोरप्यनुवादत्वे वैफल्यादवश्यमेकानुवादेनैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्यस्यानग्नत्वस्याख्यानादपूर्वत्वाच्चेति समाधानार्थः / पूर्ववदिति स्मृत्या प्राप्तमित्यर्थः / आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह-अत एवेति / तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति वाक्यस्याविधित्वे काण्वैरपठनं लिङ्गमित्यर्थः / तर्हि पाठबलान्माध्यन्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति-यो ऽपीति
SK
END Bस्Rप्_३,३.९.१८
SK
START Bस्Rप्_३,३.१०.१९ः
SK
समान एवं चाभेदात् | BBस्_३,३.१९ |
SK
समान एवञ्चाभेदात् /
SK
शाण्डिल्येन दृष्टा तन्नाम्नाङ्किता, अन्तर्हृदये व्रीह्यादिवत्सूक्ष्मस्तिष्ठतीत्यर्थः / अभ्यासप्रत्यभिज्ञाभ्यां संशयमाह-तत्रेति / गुणानुपसंहारोपसंहारौ पूर्वोत्तरपक्षयोः फलम् / पूर्वत्र प्राप्ताचमनानुवादेनानग्नताध्यानविधिरुक्तः / इह त्वेकशाखायां विप्रकृष्टदेशस्थवाक्ययोरेकस्य विधित्वमन्यस्यानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमिति प्रत्युदाहरणेन पूर्वपक्षयति-किं तावदिति /
SK
यत्पुनरुक्तं, तद्विद्यान्तरमिति न व्याप्तिः प्राणपञ्चाग्न्यादिविद्यासु व्यभिचारदित्याशङ्क्य शाखाभेदे पुनरुक्तिरसिद्धेत्युक्तमित्याह-भिन्नास्विति / यथाग्निहोत्रवाक्ये कर्मविधिः, ऽदध्ना जुहोतिऽइति वाक्ये गुणविधिस्तथात्राप्यस्तु न विद्यामेद इत्याशङ्क्याह-नचात्रैकमिति / उक्तगुणानां पुनरुक्तिर्वृथास्यादतो ऽभ्यासाद्विद्याभेदः प्रयाजभेदवदिति भावः / उक्तगुणोक्तिर्न वृथा कतिपयगुणविशिष्टोपास्याभेदप्रत्यभिज्ञानार्थत्वादत उपास्यरूपाभेदाद्भिन्नशाखास्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति-यथेति /
SK
सौत्रश्चकारो ऽप्यर्थो व्याख्यातः / यत्र बहवो गुणाः श्रुतास्तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति निश्चयादग्निरहस्ये प्रधानविधिवदुत्तरत्र गुणविधिरिति भावः
SK
END Bस्Rप्_३,३.१०.१९
SK
START Bस्Rप्_३,३.११.२०ः
SK
संबन्धादेवमन्यत्रापि | BBस्_३,३.२० |
SK
संबन्धादेवमन्यत्रापि /
SK
सद्भूतत्रयं त्यद्वाय्वाकाशात्मकं, सत्य परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत् स यो ऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवाध्यात्ममक्षिस्थानस्थ इत्युपदिश्य ऽतस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौऽइति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदो रहस्यदेवतानामनी उपदिश्येते तस्यादित्यमण्डलस्थस्याहरिति नाम प्रकाशकत्वात्तस्याक्षिस्थस्याहमिति नाम प्रत्यक्त्वादिति / इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एकत्वात्स्थानभेदोक्तेश्च संशयमाह-तत्रेति / पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं सिद्धान्ते यथाश्रुत्यैकैकनामानुष्ठानमिति फलम् / दृष्टान्तसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-यथेति / यथा विद्यैक्यादुपसंहार उक्त एवमन्यत्राप्येकाविद्यामुपसंहारो भवितुमर्हतीत्यर्थः / सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावक्ष्यादित्यपुरुषावन्योन्यस्मिन्प्रतिष्ठितौ, आदित्यरश्मीनां चक्षुष चक्षुषश्चादित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्लेषपाठस्ताभ्यां विद्यैक्यसिद्धिः / विद्यैक्ये ऽपि किं स्यात्तत्राह-कथमिति / विद्यैक्ये ऽपि स्थानभेदादुपनिषदोरसंकरः स्यादित्याशङ्कां दृष्टान्तेन परिहरति-यो हीति
SK
END Bस्Rप्_३,३.११.२०
SK
START Bस्Rप्_३,३.११.२१ः
SK
न वा विशेषात् | BBस्_३,३.२१ |
SK
नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षिस्थो ऽहरिति नामवान् सत्यब्रह्मत्वादादित्यस्थवदिति प्राप्ते सिद्धान्तसूत्रंयोजयति-नवेति / नाम्नोरूपासनस्थानविशिष्टसंबन्धित्वादित्यर्थः / तस्यो ऽपनिषदहरहमिति च वाक्यद्वयेन तच्छब्दपरामृष्टयोः संनिहितस्थानविशिष्टयोः पुरुषयोर्नामसंबन्धपरेणोपसंहारानुमानं बाध्यमिति भावः / विशेष्यैक्यान्नामसंकर इत्याशङ्क्य स्थानभेदेन विशिष्टपुरुषभेदान्नामव्यवस्थामाह-नन्वित्यादिना / विशिष्टसंबन्धे दृष्टान्तमाह-अस्तीति / प्रतिदृष्टान्तस्य स्वरूपसंबन्धित्वाद्विशिष्टे ध्येये प्रकृते दृष्टान्तं नास्तीत्याह-ग्रामेति
SK
END Bस्Rप्_३,३.११.२१
SK
START Bस्Rप्_३,३.११.२२ः
SK
दर्शयति च | BBस्_३,३.२२ |
SK
उक्तनामव्यवस्थायामतिदेशो लिङ्गमित्याह-दर्शयति चेति /
SK
विद्यैक्यादेवोपसंहारसिद्धावतिदेशो वृथा स्यात्तस्मादेकविद्यायामपि स्थानभेदेनोक्तगुणानां विनातिदेशमनुपसंहार इति सिद्धम्
SK
END Bस्Rप्_३,३.११.२२
SK
START Bस्Rप्_३,३.१२.२३ः
SK
संभृतिद्युव्याप्त्यपि चातः | BBस्_३,३.२३ |
SK
संभृतिद्युव्याप्त्यपि चातः /
SK
ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्ठानि, निलोपश्चान्दसः, वीर्याणि पराक्रमविशेषा आकाशोत्पादनादयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्नकर्तुरसत्त्वात् / तच्च ज्येष्ठं ब्रह्माग्ने देवाद्युत्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्वव्यापकमित्यर्थः / सर्वप्राथम्यं स्पर्धानर्हत्वमिति वाक्यशेषस्था गुणाः प्रभृतिपदग्राह्याः / खिलेष्विति विधिनिषेधशून्यवाक्येष्वित्यर्थः / ब्रह्मसंबन्धाद्विद्याभेदभानाच्च संशयमाह-तास्विति / अनारभ्याधीतब्रह्मविभूतीनां ब्रह्मसंबन्धेन सर्वब्रह्मविद्यासु प्रत्यभिज्ञानादुपसंहार इति पूर्वपक्षः / सिद्धान्तमाह-संभृतीति / संभृतिश्च द्युव्याप्तिश्च संभृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव व्यवस्थापकविशेषयोगादिति सूत्रयोजना / आध्यात्मिकायतनविशेषयुक्तासु विद्यास्वाधिदैविकविभूतीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्तिरित्युक्ते हेतुं शङ्कते-नन्वेतास्विति /
SK
आधिदैविकत्वसाम्यादाध्यात्मिकायतनहीनत्वसाम्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः / उक्तहेतुद्वयं न गुणप्रापकमाधिदैविकविद्यानां शाण्डिल्यदहरादीनामायतनहीनविद्यायां च मिथोगुणसांकर्यप्रसङ्गात्, तस्मात् कतिपयसमानगुणविशिष्टोपास्यरूपैक्यं विद्यैक्यमावहद्गुणप्राप्तिहेतुस्तदभावान्न प्राप्तिरिति परिहरति-सत्यमित्यादिना / स्थानविशिष्टभेदान्नाम्नोर्व्यवस्थावत्संभृत्याद् इगुणविशिष्टस्य ब्रह्मणः शाण्डिल्यादिविद्योक्तगुणविशिष्टब्रह्मणश्च मिथो भेदेन रूपभेदात्संभृत्यादीनां नोपसंहार इत्युक्तन्यायातिदेशत्वादस्य न संगत्याद्यपेक्षा यथैकस्मिन्नुद्गीथे परोवरीयस्त्वादिगुणोपास्तेर्हिरण्यश्मश्रुत्वाद्युपास्तिर्भिद्यते तथैकस्मिन्नपि ब्रह्मणि विद्याभेदोपपत्तेः ब्रह्मप्रत्यभिज्ञा न गुणप्रापिकेत्याह-परोवरीयस्त्वादिवदिति /
SK
तस्मात्संभृत्यादिगुणविशिष्टविद्यान्तरविधिरिति सिद्धम्
SK
END Bस्Rप्_३,३.१२.२३
SK
START Bस्Rप्_३,३.१३.२४ः
SK
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात् | BBस्_३,३.२४ |
SK
पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह-अस्तीति / ऽपुरुषो वाव यज्ञस्तस्य यानि चतुर्विशति वर्षाणि तत्प्रातः सवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम्ऽइति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितं, ऽस यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं यावदायुरनुसंतनुतेऽइत्याशीः ऽअक्षितमस्यच्युतमसि प्राणं संशितमसिऽइति मन्त्रत्रयप्रयोगः / षोडशाधिकशतवर्षजीवित्वं फलमिति दर्शितम् / संशयार्थं शाखान्तरीयपुरुषविद्यामाह-तैत्तिरीयका इति / अत्र विदुषो यज्ञस्येति षष्ठ्योःसामानाधिकरण्यवैयधिकरण्यानिश्चयात्संशयमाह-तत्रेति / उपसंहारानुपसंहारावेव फलम् / पूर्वत्रासाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः / इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिधानाद्वि द्यैक्यमिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति-नोपसंहर्तव्या इति / तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपो ऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्माऽइति बहुतरधर्मवैलक्षण्यान्न रूपैक्यप्रत्यभिज्ञेत्यर्थः / वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः / किञ्च छान्दोग्ये त्रिधाविभक्तायुषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह-यदपीति / यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह-यदपि किञ्चिदिति / गजोष्ट्रयोश्चतुष्पात्त्वसारूप्यवदिदं सारूप्यं नैक्यप्रयोजकमित्यर्थः / किञ्च छान्दोग्ये पुरुषयज्ञयोरैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह-नचेति / यद्यपि निषादस्थपतिन्यायेन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथाप्यप्रसिद्धैक्यकल्पनागौरवाद्यज्ञस्यात्मेति भेदोक्तेरेकस्यैव यज्ञत्वयजमानत्वविरोधादात्मविदो यो यज्ञः प्रसिद्धस्तस्येति वैयधिकरण्यमेव युक्तम् / किञ्च विद्वत्संबन्धियज्ञरूपविशेष्यानुवादेन विद्वदङ्गैरङ्गसंपद्विधावेकवाक्यता प्रतीयते तस्यां सत्यां विशेष्यस्याङागानां च पृथग्विधिवादिनस्तव वाक्यभेददोषः स्यादित्यर्थः / किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्याससाध्यात्मविद्यां पुरस्तात्प्राजापत्यानुवाके उपदिश्यानन्तरानुवाके तस्यैवं विदुष इत्युक्तात्मविद्यानुवादेन प्रशंसार्थत्वेन, तच्छेषतयायज्ञसंपत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वतन्त्रविद्याविधिरित्याह-अपिच ससंन्यासामिति / चिन्ताफलमाह-तस्मादिति
SK
END Bस्Rप्_३,३.१३.२४
SK
START Bस्Rप्_३,३.१३.२५ः
SK
वेधाद्यर्थभेदात् | BBस्_३,३.२५ |
SK
वेधाद्यर्थभेदात् /
SK
देवतामभिचारकर्ता प्रार्थयते-सर्वमिति / हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः / हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्वर्तयेत्यर्थः / उच्चैः श्रवाः श्वेतो ऽश्वो यस्येन्द्रस्य स त्वं हरितमणिवन्नीलो ऽसीत्यर्थः / नो ऽस्माकं शं सुखकरो भवत्वित्यर्थः / अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मोपयन्त्यनुतिष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमेणामृतत्वमाप्नुवन्तीति योजना / मन्त्रादिषु तत्तदुपनिषद्विद्याशेषत्वे प्रमाणभावाभ्यां संशयमाह-किमिति / फलं पूर्ववत् / ननु तेषां शेषत्वे मानाभावान्नोपसंहार इति शङ्कते-नन्वेषामिति / मन्त्रादयस्तत्तद्विद्याशेषाः फलवद्विद्यासंनिहितत्वात्तैत्तिरीयकगतपुरुषयज्ञवदिति समाधत्ते-बाढमिति / तथाच दृष्टान्तसंगतिः / सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह-नहीति / अफलमन्त्रादीनां फलवच्छेषत्वबोधनं संनिधेरर्थवत्त्वं तत्संभवे सत्यकस्मादर्थशून्यत्वेनासौ संनिधिराश्रयितुं नहि युक्त इत्यर्थः / नञ्पाठेत्वकस्माद्धेतुं विनासावर्थो नाश्रयितुं नहि युक्त इत्यर्थः / ननु मन्त्राणां विद्यासमवेतार्थप्रकाशनसामर्थ्याभावान्न विद्याशेषत्वमिति शङ्कते-नन्विति / पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्निष्टोमादेश्च तत्तद्वाक्येन स्वर्गाद्यर्थत्वमतो न विद्यार्थत्वमित्याह-कथं चेति / मन्त्राणां विद्यासमवेतहृदयनाड्यादिप्रकाशकत्वमस्तीत्याह-नैष इति / उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह-दृष्टश्चेति / पुत्रस्य दीर्घायुष्यार्थं छान्दोग्ये त्रैलोक्यस्य केशात्वेनोपास्तिरुक्ता तत्र पितुरयं प्रार्थनामन्त्रः / तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः / तत्तद्वाक्येनान्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह-वाजपेय इति / ऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽइति वाजपेयप्रकरणप्रकरणस्थ वाक्येन वाजपेयोत्तराङ्गतया विनियोगवदविरोध इत्यर्थः / यद्यप्येकेन वाक्येन प्रकरणान्तरस्थबृहस्पतिसवस्य प्रत्यभिज्ञानमङ्गत्वविधानं च कर्तुमयुक्तं वाक्यभेदप्रसङ्गादतो मासाग्निहोत्रवत्कर्मान्तरमेव बृहस्पतिसवाख्यमङ्गतया विधीयत इति न विनियुक्तस्य विनियोग इति भट्टगुरुतन्त्रद्वयसिद्धं, यथापि यथा नित्याग्निहोत्रस्याश्वमेधप्रकरणे वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्शपूर्णमासविकृतीष्टावाज्यभागौ यजतीत्येकस्मिन्वाक्ये प्रकृतिस्थाज्यभागयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्येनाङ्गताविधानं किं न स्यात् / नच साध्यभावार्थविधायकाख्यातपरतन्त्रं नामपदं न सिद्धकर्मप्रत्यभिज्ञाक्षममिति वाच्यं, सिद्धस्याप्यङ्गतया पुनः साध्यत्वसंभवे ऽन्यथासिद्धाख्यातस्यैव प्रसिद्धार्थकनामपारतन्त्र्योपपत्तेः / नचैवं सति कुण्डपायिसत्रे ऽप्यङ्गत्वेन नित्याग्निहोत्रस्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् / नच पूर्वतन्त्रविरोधः उत्तरतन्त्रस्य बलीयस्त्वात् / पूर्वतन्त्रस्य स्वतन्त्रपरतन्त्रभावनाभेदे तात्पर्याच्च / तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भगवत्पादतात्पर्यम् / अस्तिच विनियुक्तस्य विनियोगे सर्वसंमतमुदाहरणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफले ऽपि विनियोगात् / तथा मन्त्रकर्मणामन्यत्र विनियुक्तानां विद्याशेषत्वमिति प्राप्ते सिद्धान्तयति-नैषामित्यादिना / विद्यासु हृदयादिसंबन्धे ऽपि वेधाद्यर्थानामसंबन्धात्कृत्स्नमन्त्रार्थानामभिचारादिसंबन्धलिङ्गेन संनिधेर्बलीयसाभिचारादावेव मन्त्राणां विनियोग इत्यर्थः / ऽदेव सवितः प्रसुवऽइति प्रदक्षिणतो ऽग्निं पर्युक्षेदिति वाक्यादग्निपर्युक्षणे ऽसावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोतिऽइति वाक्याद्वाजपेये कर्मविशेषे संबन्धो ऽस्य मन्त्रस्येत्याह-तद्विशेषेति / उक्तन्यायं श्वेताश्व इत्यादिष्वतिदिशति-एवमन्येषामिति / प्रमाणान्तरं प्रकरणादिकम् / ननु लिङ्गादिभरन्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनियोगो ऽस्त्वविरोधादित्युक्तं, तत्राह-दुर्बलो हीति / समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थविप्रकर्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृत्तेरित्यर्थः / अयमाशयः-एकत्र विनियुक्तस्य निराकाङ्क्षत्वादन्यत्र विनियोगो विरुद्ध एव परन्तु विनियोजकप्रमाणयोः समबलत्वे ऽन्यतरविनियोगत्यागायोगादगत्याकाङ्क्षोत्पादनेन विनियुक्तविनियोगः स्वीक्रियते ऽयथा खादिरो यूपो भवतिऽऽखादिरं वीर्यकामस्य यूपं कुर्यात्ऽइति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः / यत्र तु प्रमाणयोरतुल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्बलविनियोगबाधात् / यथा ऽकदाचन स्तरीरसिऽइत्यस्या ऋच ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति तृतीयाविभक्तिश्रुत्यान्यनिरपेक्षतया गार्हपत्योपस्थानशेषत्वबोधिकयेन्द्रप्रकाशनसामार्थ्यरूपलिङ्गप्राप्तमिन्द्रशेषत्वं बाध्यते / लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्विन्द्रप्रकाशनमात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया,
SK
तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थबोधकश्रुत्या बाध्यम् / तथा लिङ्गेन वाक्यं बाध्यं यथा ऽस्यो ऽनं ते सदनं करोमि घृतस्य धारया कल्पयामिऽ, ऽतस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्रकाशनसामर्थ्यलिङ्गेन श्रुतिद्वारा विनियोगे सति प्रतीतमेकवाक्यत्वं बाध्यते, तस्य कृत्स्ने ऽपि मन्त्रे सदनकरणप्रकाशनसामर्थ्यं पुरो ऽडाशासादनप्रकाशनसामर्थ्यं च लिङ्गं कल्पयित्वा श्रुतिकल्पनयोभयत्र कृत्स्नमन्त्रविनियोगबोधने द्वाभ्यां लिङ्गश्रुतिभ्यां व्यवधानेन श्रुत्येकव्यवहितकॢप्तलिङ्गाद्दुर्बलत्वात् / नच सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते / तथा वाक्येन प्रकरणं बाध्यं यथा साह्नप्रकरणाम्नातद्वादशोपसदां द्वादशाहीनस्येति वाक्येनाहीनाङ्गत्व बोधकेन प्रकरणप्राप्तसाह्नाङ्गत्वबाधादुत्कर्षः / प्रधानस्याङ्गाकाङ्क्षारूपं प्रकरणं तस्याङ्गप्रधानवाक्यैकवाक्यतासामर्थ्यश्रुतिभिः कल्प्यमानाभिः स्वार्थविनियोगप्रमितौ व्यवधानेनाङ्गसामर्थ्यश्रुत्योर्द्वयोः कल्पकवाक्याद्दुर्बलत्वात् / तथा प्रकरणेन संनिधिर्बाध्यः / यथा राजसूयप्रकरणेन तदन्तर्गताभिषेचनीयाख्यसोमयागविशेषसंनिधिपाठप्राप्तं शुनः शेपोपाख्यानादेरभिषेचनीयशेषत्वं बाधित्वा कृत्स्नराजसूयशेषत्वमापादितं संनिधेः प्रकरणादिकल्पकत्वेन कॢप्तप्रकरणाद्दुर्बलत्वात् तथा संनिधिना समाख्या बाध्यते / तथाहि-पौरोडाशिकसमाख्याके काण्डे आग्नेयपुरोडाशादिकर्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधिपयोरूपसान्नाय्यसन्निधौ ऽशुन्धध्वं दैव्याय कर्मणेऽइति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरोडाशपात्रशुन्धनशेषत्वं प्राप्तं संनिधिना बाधित्वा सान्नाय्यपात्रशुन्धनशेषत्वमापाद्यते / पुरोडाशसंबन्धिकाण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डान्तर्गतमन्त्रस्य पुरोडाशसंबन्धसामान्यबोधकत्वे ऽपि शेषशेषिभावरूपविनियोगबोधकत्वे संनिध्याद्यपेक्षत्वेन दुर्बलत्वादिति / एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुतिलिङ्गसूत्रार्थः / तस्माल्लिङ्गादिनान्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् / तथा कर्मणामिति / कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चिन्नास्तीत्यर्थः / अपिचेत्युक्तार्थम् / ननु तर्हि वेधादिवाक्यानामुपनिषद्भिः सह पाठस्य का गतिस्तामाह-अरण्येति /
SK
तस्माद्वेधादिमन्त्रकर्मणां विद्यास्वनुपसंहार इति सिद्धम्
SK
END Bस्Rप्_३,३.१४.२५
SK
START Bस्Rप्_३,३.१५.२६ः
SK
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम् | BBस्_३,३.२६ |
SK
हानौ तूक्तम् /
SK
यथाश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्मलीकृतचित्तः सन् यथा वा राहुग्रस्तश्चन्द्रो राहुमुखात्प्रमुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहाभिमानान्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकं अभि प्रत्यक्त्वेन संभवामीत्यर्थः / यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः / तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः / उपायनं ग्रहणं तस्य त्यागपूर्वकत्वात्, अत्यक्तयोर्ग्रहणायोगात्त्यागोर्ऽथादायति / यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह-यत्र त्विति / अत्र पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् / यद्यपि ताण्ड्याथर्वणश्रुत्योर्निर्गुणविद्यार्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्यङ्कस्थसगुणब्रह्मविद्यायामुपायनं श्रुतमत्रोपसंहर्तव्यमित्याशङ्क्य विद्याभेदान्नोपसंहार इत्याह-विद्यान्तरेति / किञ्च यथा मन्त्रकर्मणामनावश्यकत्वाद्विद्यास्वनुपसंहार उक्तः तथा परैरुपादानं विनापि हानसंभवेनोपादनस्यानावश्यकत्वान्न प्राप्तिरिति दृष्टान्तसंगत्या प्राप्ते सिद्धान्तयति-हानौ त्वियादिना / उपायनशब्दस्य शेषत्वाद्धानशब्देनापेक्षितत्वादिति सूत्रार्थः / अश्वरोमदृष्टान्तेन विधूतयोः पुण्यपापयोः परत्रावस्थानसापेक्षत्वात्परैरूपादानं वाच्यमिति भावः /
SK
विद्याभेदे गुणानुपसंहार इति व्यवस्थानुष्ठानविषया न स्तुतिविषयेत्याह-यदुच्यत इति / मन्यते सूत्रकार इत्यर्थः / ननु श्रुतहानार्थवादेनापि स्तुतिसिद्धौ किमर्थमुपायनार्थवाद आनीयते, तत्राह-स्तुतिप्रकर्षलाभायेति / नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थवादान्तरेणेत्यत आह-प्रसिद्धा चेति / इतो भूलोकादित्यर्थः / हेमन्तशिशिरयोरैक्यात्पञ्चर्तवः / यज्ञस्य पुरुषरूपकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे, तत्र त्रिष्टुभश्छन्दोमात्रत्वात्कथमिन्द्रियत्वकल्पनेत्याकाङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः / नन्वमूर्तयोः पुण्यपापयोः उपादानस्यासंभवादनुपसंहार इत्यत आह-विद्यास्तुत्यर्थत्वाच्चेति / विद्वन्निष्ठयोरेव तयोः फलं परे प्राप्नुवन्ति विद्यासामर्थ्यादित्युपयन्तिपदेनोच्यत इत्यर्थः / नन्वन्यनिष्टकर्मणोरन्यत्र फलसंचारः कथम् / ननु वचनबलादिति चेत् / न / फलमुपयन्तीत्यश्रुतेः / नच यथा पुत्रकृतश्राद्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधिकरणफलत्वे ऽपि विदुषः कर्मकाले ऽनुद्दिष्टव्यधिकरणफलायोगात् / किञ्च विदुषो देहपाते कर्मणो ऽसत्त्वाद्यावज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह-नातीवाभिनिवेष्टव्यमिति / विद्वत्सेवाद्वेषाभ्यां विद्वन्निष्ठपुण्यपापतुल्ये पुण्यपापे सेवकद्वेषिणोर्जायेते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः / उपायनादेः स्तुतित्वे लिङ्गमाह-उपायनेति / उपायनविवक्षायामुपायनस्यैवोपसंहारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रूवन्स्तुतिं सूचयतीत्यर्थः / विद्याविचारात्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह-तस्मादिति / शाखान्तरस्थो विशेषः शाखान्तरे ऽपि ग्राह्य इत्यत्र दृष्टान्तमाह-कुशेति / कुशा उद्गातृणां स्तोत्रगणनार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना / अत्र ता इति स्त्रीलिङ्गनिर्देशादौदुम्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुशमित्यनुशासनात् / छन्दोदृष्टान्तं व्याचष्टे-यथाचेति / नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्यत्राविशेषप्राप्तौ पैङ्गिवाक्याद्विशेषग्रह इत्यर्थः / स्तुतिं विवृणोति-यथेति / आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दोगादीनामाकाङ्क्षायामुदयसमयाविष्टे सूर्ये षोडशिनः स्तोत्रमित्यार्चश्रुतेः कालविशेषग्रह इत्यर्थः / ऋचो ऽधीयत इत्यार्चाः / उपगानं विभजते-यथेति / ऽऋत्विज उपगायन्तिऽइत्यविशेषश्रुतेः ऽनाध्वर्युरूपगायतिऽइति श्रुत्यन्तरादध्वर्युभिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः / ननु कुशादिवाक्यानामपि किमिति विशेषश्रुत्यन्तरैकवाक्यताभ्युपगम्यते, तत्राह-श्रुत्यन्तरकृतं हीति / सामान्यविशेषयोरेकवाक्यतारूपायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषेधादविशेषश्रुतेश्चाध्वर्युरुपगायति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहियवयोस्त्वगत्या विकल्प आश्रित इत्यर्थः / विकल्पस्यान्याय्यत्वमष्टदोषदुष्टत्वात् / तथाहि-यदि व्रीहिवाक्यमाश्रीयते तदा यववाक्यस्येष्टप्रामाण्यत्यागः, अनिष्टाप्रामाण्यस्वीकारः, कदाचिद्यववाक्याश्रयणे त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यत्यागश्चेत्येकस्मिन्यववाक्ये चत्वारो दोषा भवन्ति / एवं व्रीहिवाक्येपि चत्वारो दोषा इत्येवं दुष्टविकल्पपरिहाराय भिन्नशाखश्रुत्योरप्येकवाक्यता जैमिनिसंमतेत्याह-तदुक्तमिति / ज्योतिष्टोमप्रकरणे ऽदीक्षितो न जुहोतिऽ, इति श्रुतं ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्वर्थत्वान्निषेधो ऽनुष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः / अपि तु यावज्जीववाक्यं प्रति नदीक्षितवाक्यस्य शेषत्वान्नकार इतरपर्युदासार्थकः स्याद्दीक्षितान्यलक्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहुयादित्येकवाक्यतेति नदीक्षिताधिकरणसिद्धान्तसूत्रार्थः / अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्युदासाधिकरणसिद्धान्तसूत्रं ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् / सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषेधकत्वे ऽप्यतिरात्रे षोडशिग्रहणाग्रहणयोरिवानुयाजेषु यज्ञत्वाविशेषात्प्रयोक्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्यान्याय्यत्वात् येयजामहविधेरेव नानुयाजवाक्यमेकदेशः स्यात्, पर्युदासवृत्त्या विधिवाक्यशेषः स्यादिति यावत् / तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयोक्तव्यमित्येकवाक्यतेति / वर्णकान्तरमाह-अथवेति / पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः / उभयत्र लक्षणासाम्यात्संशयमाह-किमिति / विधूननस्य हि फलद्वयमश्वरोमादिषु दृष्टं पूर्वस्वभावात् च्युतिरन्यत्र संक्रान्तिश्चेति / तत्र संक्रान्तिरूपहानिर्लक्षणीया किंवा च्युतिरिति संशयार्थः / तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् / तच्चामूर्तयोः पुण्यपापयोर्न संभवति / अतस्तयोर्यः स्वभावः फलदातृत्वशक्तिस्ततश्चालनं विद्यया प्रतिबन्धाच्च्युतिः सा लक्षणीया न हानिरमूर्तयोरन्यत्र संक्रान्त्ययोगादन्यसापेक्षत्वाच्चेति पूर्वपक्षार्थः / सिद्धान्तयति-हानावेवेति / यदि च्युतिमात्रं लक्ष्यं तदोपयन्तीत्यनन्वितं स्यात् / नच यत्र धुनोतेरूपायनशब्दसांनिध्यं तत्र हानिर्लक्ष्यते न केवलधुनोतेर्हानिश्चान्यत्र विदुषः सेवकादौ तुल्यकर्मसंक्रान्तिरिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्यार्थासंभवेनान्यत्र लक्ष्यतया बुद्धिस्थहानिलक्षणाया एव युक्तत्वादिति भावः / उपायनस्यामुख्यत्वान्न क्वापि हानिलक्षणाबीजत्वमिति शङ्कित्वा पुण्यपापयोः फलतः स्वीकारात्मकमुपायनं हानिं विनानुपपन्नं सल्लक्षणानिर्णायकमिति परिहरति-यद्यपीत्यादिना / यथान्यत्रश्रुतमौदुम्बरत्वादिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह-क्वचिदपीति / विधूननं मुख्यं किमिति नोच्यते, तत्राह-नचेति / तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्यसंबन्धादित्याह-अश्वश्चेति / अनुपपत्तिसंबन्धौ लक्षणाबीजरूपामुक्त्वा लक्षकं पदं निर्दिशति-अश्व इवेति / विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दार्ष्टान्तिके ऽपि हानलक्षकमित्यर्थः / यद्वा हानवाचकमेवास्तु नच धूञ् कम्पन इति धातुपाठविरोधस्तस्योपलक्षणार्थत्वादित्याह-अनेकेति /
SK
शाखान्तरस्थमुपायनं विधूननस्य हानत्वनिश्चायकमित्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्यातमित्यर्थः / एवं विधृननस्य हानित्विसिद्धेः केवलहानावुपायनोपसंहार इति सिद्धम्
SK
END Bस्Rप्_३,३.१५.२६
SK
START Bस्Rप्_३,३.१६.२७ः
SK
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये | BBस्_३,३.२७ |
SK
संपराये अन्ये /
SK
व्यध्वनि अर्धमार्गे / पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदीतरणानन्तर्यश्रुतेरश्वैव रोमाणि इत्यादौ देहत्यागात्प्राक्कालत्वश्रुतेश्च संशयमाह-तत्किमिति / ब्रह्मलोकमार्गमध्ये विरजाख्यां नदीमत्येति तत्सुकृतदुष्कृते विधूनुते, इत्यत्र तदितिसर्वनामश्रुत्यास्तेनेत्यर्थतया संनिहितनदीतरणस्य कर्महानिहेतुत्वोक्तेरर्धपथे कर्मक्षय इति पूर्वपक्षः / तत्र विद्यायाः कर्मक्षयहेतुत्वासिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति-सांपराय इति / मरणात्प्रागित्यर्थः / संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फलाभावाद्देवयानमार्गप्रवेशायोगाच्चादावेव क्षय इत्यर्थः / क्षयहेतोर्विद्याया मध्येमार्गमसत्त्वाच्चेत्याह-विद्याविरुद्धेति / नदीतरणानन्तरपाठस्तु बाध्यः, अर्थविरोधादित्याह-तस्मादिति /
SK
तदिति सर्वनाम्नापि प्रकृतविद्यैवोच्यत इति भावः
SK
END Bस्Rप्_३,३.१६.२७
SK
START Bस्Rप्_३,३.१६.२८ः
SK
छन्दत उभयाविरोधात् | BBस्_३,३.२८ |
SK
किञ्च मृतस्य छन्दतो यथाकामं विद्यानुष्ठानानुपपत्तेरुभ्योर्विद्याकर्मक्षययोः श्रुतो हेतुफलभावो विरुध्यते / किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायोपेतताण्ड्यादिश्रुतिविरोधस्तव स्यादस्मत्पक्षे त्वविरोध इत्याह-छन्दत इति /
SK
तस्मात्कर्महानस्य विद्याफलत्वात्केवलहानावुपायनोपसंहारो विद्यास्तुतय इति सिद्धम्
SK
END Bस्Rप्_३,३.१६.२८
SK
START Bस्Rप्_३,३.१७.२९ः
SK
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः | BBस्_३,३.२९ |
SK
गतेरर्थवत्त्वङ्क्वचित्सगुणविद्यायां मार्गः श्रूयते निर्गुणविद्यायां न श्रूयते / तत्र हानसंनिधौ मार्गस्य श्रुतत्वादनपेक्षितत्वाच्च संशये दृष्टान्तसंगत्या पूर्वपक्षमाह-यथा तावदिति /
SK
उपायनवन्मर्गस्यापि क्वचिच्छ्रुतत्वात्सर्वत्रोपसंहार इत्यर्थः / अत्र निर्गुणविदो ऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् / देशादिव्यवहितवस्तुप्राप्तौ मार्गस्यापेक्षेतिन्यायानुगृहीतश्रुतिविरोधान्नोपसंहार इति सिद्धान्तः / निरञ्जनो ऽसङ्गः, साम्यं ब्रह्म
SK
END Bस्Rप्_३,३.१७.२९
SK
START Bस्Rप्_३,३.१७.३०ः
SK
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् | BBस्_३,३.३० |
SK
ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह-उपपन्न इति /
SK
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः
SK
END Bस्Rप्_३,३.१७.३०
SK
START Bस्Rप्_३,३.१८.३१ः
SK
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम् | BBस्_३,३.३१ |
SK
अनियमः सर्वासां /
SK
अत्राप्यर्चिरादिमार्ग एव विषयस्तत्र विद्याविशेषप्रकरणादविशेषश्रुतेश्च संशये पूर्वपक्षमाह-किं तावदिति / सगुणनिर्गुणविद्यासु मार्गस्य भावाभावव्यवस्थावत्सगुणास्वपि व्यवस्थेति दृष्टान्तेन प्राप्तौ सिद्धान्ते व्यवस्थापवादाद्गतिनियमो ऽनियम उभयत्र फलम् / नियमे प्रकरणमुक्त्वा पुनरुक्तिं लिङ्गमाह-अपिचेति / एकत्रोक्तगतेरन्यत्र प्राप्तौ पुनरुक्तिर्वृथा स्यादित्यर्थः / सिद्धान्तयति-सर्वासामिति / अभ्युदयो ब्रह्मलोकः / अविशेषश्रुत्यादिना प्रकरणबाधो न दोष इत्याह-नैष इति / तत्तत्र अधिकृतानां मध्ये य इत्थं पञ्चाग्नीन्विदुर्ये चामी अरण्ये श्रद्धातप इत्युपासते श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति ते ऽर्चिषमभिसंभवन्तीत्यन्वयः / ननु श्रद्धातपोमात्रश्रुतेस्ताभ्यामेवार्चिरादिगमनं स्यान्न वैश्वानरादिविद्याशीलानामिति शङ्कते-कथं पुनरिति / अविदुषां गतिनिषेधाच्छ्रद्धातपःशब्दाभ्यां तत्साध्यब्रह्मविद्यालक्षणेति परिहरति-नैष दोष इति / तत् ब्रह्मलोकस्थानं, परागताः परावृत्ताः, कामक्रोधदोषा न सन्तीति यावत् / दक्षिणाः केवलकर्मिणस्तपस्विनो ऽप्यविद्वांसो न गच्छन्तीत्यर्थः / लक्षणादोषहीनं वाक्यमाह-वाजसनेयिनस्त्विति / किञ्च विद्याकर्मलक्षणमार्गद्वयभ्रष्टानामधोगतिश्रुतेः वैश्वानराद्युपासकानामर्चिरादिमार्गप्राप्तिरित्याह-अथ य एताविति / दन्दशूकः सर्पः / किञ्च ऽअग्निर्ज्योतिराह-शुक्लः षण्मासा उत्तरायणम् / तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःऽइत्यविशेषेणोपसकानामर्चिरादिगतिमुक्त्वोपसंहारस्मृतेश्च तेषां तत्प्राप्तिरित्याह-स्मृतिरिति / शुक्ल गतिरार्चिरादिका, कृष्णा धूमादिका, जगतो विद्याकर्माधिकृतस्य, शाश्वते ध्रुवे संमते / तत्रैकया शुक्लया पुनरावृत्तिवर्जं कार्यं ब्रह्म गच्छति अन्यया स्वर्गे गत्वा पुनरायातीत्यर्थः / पुनरुक्तिदोषं दूषयति-यत्पुनरिति /
SK
तत्र तत्र मार्गश्रुतिरन्वहं मार्गचिन्तनार्थं, प्रकरणेन मार्गध्यानस्य विद्याङ्गत्वावगमात् / तथाच वक्ष्यति सूत्रकारः-ऽतच्छेषगत्यनुस्मृतियोगाच्चऽइति / येषां न श्रुतो मार्गस्ते मार्गध्यानं विनापि विद्यासामर्थ्यान्मार्गं लभन्त इति ज्ञापनार्था पुनरुक्तिरित्यर्थः / तस्मात्सर्वोपासनासु प्रतीकभिन्नास्वर्चिरादिप्राप्तिरिति सिद्धम्
SK
END Bस्Rप्_३,३.१८.३१
SK
START Bस्Rप्_३,३.१९.३२ः
SK
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् | BBस्_३,३.३२ |
SK
यावदधिकारम् /
SK
निर्गुणविद्यायां गतिर्व्यर्था मुक्तिफलत्वात्, सगुणविद्यासु सर्वत्रार्थवती ब्रह्मलोकफलत्वादिति व्यवस्था कृता, सा न युक्ता, तत्त्वज्ञानिनामपीतिहासादौ पुनर्जन्मदर्शनेन ज्ञानस्य मुक्तिफलत्वाभावादित्याक्षेपात्संगतिः / ज्ञानिनां पुनर्जन्मदर्शनं संशयबीजं भाष्ये दर्शितम् / पूर्वपक्षे ज्ञानान्मुक्तिश्रुतीनां ज्ञानस्तुतिमात्रत्वेन ज्ञानस्य मुक्तिफलत्वाभावे सति ब्रह्मलोकफलत्वाविशेषादर्चिरादिमार्गोपसंहारः फलं, सिद्धान्ते तूक्तव्यवस्थासिद्धिरिति विवेकः / श्रुतावपीति / मेधातिर्थेर्मेषेतिमन्त्रे इन्द्रस्य मेषजन्मोपलभ्यते / वसिष्ठ उर्वशीपुत्रे जात इत्येवमर्थो बह्वृचार्थवाद इत्यर्थः / पाक्षिकमित्यापाततः / अहेतुत्वमेवेति पूर्वपक्षः / ज्ञानस्य मुक्त्यहेतुत्वं नेति सिद्धान्तयति-ते चेति / लोकव्यवस्थासु स्वामित्वमधिकारः, तत्प्रापकं प्रारब्धं यावदस्ति तावत्कालं जीवन्मुक्तत्वेनाधिकारिकाणामवस्थितिः, प्रारब्धक्षये प्रतिबन्धकाभावाद्विदेहकैवल्यमित्यत्र मानमाह-अथेति / अथ प्रारब्धक्षयानन्तरम् / ततः पश्चादूर्ध्वो विलक्षणः केवलः ब्रह्मस्वरूपः सन् उदेत्योद्गम्य देहं त्यक्त्वेति यावत् / एकल एव अद्वितीयः, मध्ये उदासीनात्मकस्वरूपे तिष्ठतीत्यर्थः / ननु ज्ञानिनामपि जन्मान्तरं चेत्कथं मुक्तिरित्यत आह-सकृत्प्रवृत्तमिति / यदि ज्ञानिनां प्रारब्धातिरिक्तकर्माधीनां जन्मान्तरं स्यात्तदा ज्ञानान्मुक्त्यभावः स्यात् / नैतदस्ति / किन्तु बहुजन्मफलाय सकृदुद्भूतं प्रारब्धं ते क्षपयन्ति, जन्मग्रहणे ऽपि ज्ञानयोगबलान्न शोचन्ति प्रारब्धसमाप्तौ मुच्यन्त इत्यर्थः / ज्ञानिनां जन्मान्तरस्य पूर्वजन्महेतुप्रारब्धाधीनतायामलुप्तस्मृतित्वं हेतुः / यो ह्यजातिस्मरत्वे सति कर्मान्तराधीनजन्मान्तरवान्, स लुप्तस्मृतिरिति व्याप्तेः / ज्ञानिषुव्यापकाभावाद्विशिष्टव्याप्याभावसिद्धिः / ननु तेषां जातिस्मरत्वादलुप्तस्मृतित्वमन्यथासिद्धिमित्यत आह-न चैत इति / तथाच तेषामजातिस्मरत्वरूपविशेषणे सति विशेष्याभावादेव विशिष्टाभावसिद्धिरित्यर्थः / पूर्वदेहेनामप्रत्यभिज्ञानहीनाः परतन्त्राः साभिमाना जातिस्मराः, आधिकारिकास्तु पूर्वनामानः स्वतन्त्रा निरभिमाना इति वैषम्यम् / तेन जनकेन सह व्युद्य विवादं कृत्वेत्यर्थः / विदुषः प्रारब्धातिरिक्तकर्माभावान्न बन्धः / निमित्ताभावे नैमित्तिकाभाव इति न्यायानुगृहीतानां ज्ञानान्मुक्तिश्रुतीनां न स्तुतिमात्रत्वमितिममर्थमुपपादयति-यदि ह्युपयुक्त इत्यादिना / श्रुतिस्मृत्युक्तार्थे युक्तिमप्याह-न चाविद्येति / विद्यया क्लेशदाहात्तत्कार्यकर्मक्षयश्चेत्तर्हि प्रारब्धस्य कथं स्थितिः, तत्राह-प्रवृत्तफलस्येति / विदुषो देहपातावधिश्रुतेरनुभवाच्च ज्ञानस्यावरकाज्ञानांशनिवर्तकस्य प्रारब्धविक्षेपस्थित्यनुकूलाज्ञानांशनिवर्तनसामर्थ्याभावसिद्धेर्भोगेनैव प्रारब्धक्षय इति भावः / ज्ञानिनामधिकारिकत्वं कथमित्याशङ्क्य ज्ञानात्प्राक्कृतोपासनादिवशादित्याह-ज्ञानान्तरेषु चेति / प्रतिसंचरो महाप्रलयः, परस्य हिरण्यगर्भस्य, अधिकारान्ते साक्षात्कृतात्मानो मुच्यन्ते इत्यर्थः / ब्रह्मभावफलस्यापि भावित्वमाशङ्क्य तत्त्वमसीति श्रुतिबाधमाह-नहीति /
SK
तस्मान्निर्गुणविद्यायां मार्गानुपसंहार इति सिद्धम्
SK
END Bस्Rप्_३,३.१९.३२
SK
START Bस्Rप्_३,३.२०.३३ः
SK
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् | BBस्_३,३.३३ |
SK
अक्षरधियाम् /
SK
अत्राक्षरब्रह्मप्रमापका निषेधशब्दा विषयाः, तेषु यत्र यावन्तः श्रुतास्तत्र तावतामशेषद्वैतनिषेधकत्वसंभवासंभवाभ्यां संशयमाह-तासामिति / यथा निर्गुणविद्यायां मार्गस्यानपेक्षितत्वादनुपसंहारस्तथा श्रुतनिषेधानामुपलक्षणतया सर्वद्वैतनिषेधसंभवाच्छाखान्तरीयनिषेधशब्दानामनपेक्षितत्वादनुपसंहार इति दृष्टान्तेन पूर्वपक्षस्तत्र लाघवं फलम् / सिद्धान्ते तु दोषद्वयाभावः फलम् / तथाहि-यदि श्रुतशब्दैरश्रुतनिषेधा लक्ष्यन्ते तदा लक्षणादोषः, यदि न लक्ष्यन्ते तदा सर्वद्वैतनिषेधासिद्धेर्निर्विशेषप्रमित्यभावदोष इति विवेकः / अक्षरे धर्मिणि द्वैतनिषेधधियो ऽक्षरधियस्तद्धेतवः शब्दा इति यावत्, तासामवरोध उपसंहार इति सूत्रयोजना / शेषिब्रह्मणाः सर्वशाखासु भावात्तत्प्रमितेः समानत्वाच्छेषाणामुसंहारः इति चेत्तर्हि न्यायसाम्यात्पुनरुक्तितावदवस्थ्यमित्यत आह-प्रपञ्चार्थ इति / आनन्दादीनां स्वरूपत्वादस्तूपसंहारः निषेधानामनात्मत्वादानन्त्याच्चानुपसंहार इत्यधिकारशङ्कायां तेषामनात्मवे ऽपि निर्विशेषब्रह्मप्रमित्यर्थत्वादविद्यातज्जनिषेधत्वेन संग्रहसिद्धेश्च निरपेक्षास्थूलानणुवाक्यस्थातया कॢप्तनिषेधशब्दानामन्यत्रश्रुतिनिषेधवाक्यैकवाक्यतयोपसंहार इति चिन्ता युक्तेत्यर्थः / अन्यत्रश्रुतशेषाणामन्यत्रस्थशेषिसंबन्धे दृष्टान्तं व्याचष्टे-यथेति / ऽजमदग्निः पुष्टिकामश्चतूरात्रेणायजतऽइत्युपक्रम्य विहितो जमदग्निना कृतो जामदग्न्यः, अहीनश्चतूरात्रः क्रतुस्तस्मिन्पुरोडाशिन्य उपसदो भवन्तीति पुरोडाशसाध्या इष्टयस्तैत्तिरीयके विहिताः, तासामध्वर्युकर्तृकत्वात्सामवेदोत्पन्नमन्त्राणां तात्सु विनियोगादध्वर्युणैव प्रयोगो नोद्गात्रेत्यर्थः / वेर्देवगणस्य होत्रं अध्वरं च कर्माग्नेस्त्वत्त एवेत्यग्न्यामन्त्रणमन्त्रार्थः / उत्पत्तिविधिर्गुणः फलापेक्षत्वादुत्पन्नस्य फले विनियोगविधिर्मुख्यः सफलत्वात् / तथाच मन्त्रणामुद्गातृवेदेत्पन्नत्वादुदेगात्रा प्रयोगः, विनियोगविधनाध्वर्युणा प्रयोग इति गुणमुख्ययोर्व्यतिक्रमे विरोध सति मुख्येन बलीयसा मन्त्रात्मकवेदस्याध्वर्युणा संप्रयोग उत्पत्तेर्विनियोगार्थत्वादिति जैमिनिसूत्रार्थः / यद्यपि शाबरभाष्ये वारवन्तीयादिसाम्नामुच्चैः स्वरकसामवेदोत्पन्नत्वादाधानाङ्गत्वेनोच्चैः स्वरप्रयोगः ऽय एवं विद्वान्वारवन्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायतिऽइत्याधाने तेषां विनियोगविधिना याजुषेण याजुषस्योपांशुस्वरस्य प्रयोग इति गुणमुख्ययोर्विरोधे सत्त्युत्पत्तेर्विनियोगार्थत्वान्मुख्यविनियोगबलेन साम्नां यजुर्वेदस्वरसंयोग इति सूत्रं व्याख्यातं, तथापि न्यायसाम्यादौपसदमन्त्राः सूत्रविषयत्वेनोदाहृता इत्यविरोधः
SK
END Bस्Rप्_३,३.२०.३३
SK
START Bस्Rप्_३,३.२१.३४ः
SK
इयदामननात् | BBस्_३,३.३४ |
SK
इयदामननात् /
SK
मन्त्रद्वये ऽपि प्रतिपादनप्रकारभेदात् ज्ञेयैक्यभानाच्च संशयमाह-किमत्रेति /
SK
ऋतपानवाक्ये ऽअक्षरं ब्रह्म यत्परम्ऽइति गुणाः श्रुताः, सुपर्णवाक्ये ऽनश्नत्वादयस्तेषां मिथो ऽनुपसंहार इति पूर्वपक्षफलं, सिद्धान्ते तूपसंहारे ब्रह्मस्वरूपवाक्यार्थैक्यादुपसंहार इति विवेकः / अस्तु वेद्यैक्यादक्षरधियामुपसंहारः / इह तु वेद्यभेदान्नोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः / नन्वयं गुणाधिकरणे निरस्त इति चेत्, सत्यं, किन्तु पिबत्पदस्य मुख्यार्थत्वाय स्वतः कल्पनया च पानकृत्याश्रयौ बुद्धिजीवौ पिबन्तौ ग्राह्यौ, सुपर्णौ तु जीवेश्वराविद्याधिकाशङ्कायां मन्त्रद्वये ऽपि द्विवचनशब्दसामान्यादौत्पत्तिकद्वित्वविशिष्टतया तुल्यवस्तुद्वयप्रत्यभिज्ञानस्य बाधकाभावात्प्रकरणाद्यनुग्रहाच्च जीवानुवादेनासंसारिब्रह्मणि मन्त्रद्वयतात्पर्यमिति प्रपञ्चार्थमिदं सूत्रमिति भावः
SK
END Bस्Rप्_३,३.२१.३४
SK
START Bस्Rप्_३,३.२२.३५ः
SK
अन्तरा भूतग्रामवत्सात्मनः | BBस्_३,३.३५ |
SK
अन्तरा भूतग्रामवत्स्वात्मनः /
SK
घटादिकं चिद्विषयत्वेनापरोक्षं, ब्रह्म तु साक्षादविषयत्वेनापरोक्षमिति / प्रथमार्थे पञ्चमि / अत्र श्रुतावात्मधर्मो ऽपरोक्षत्वं ब्रह्मणयुक्तं, ब्रह्मधर्मः सर्वान्तरत्वमात्मन्युक्तं, तेन तयोरैक्यं दृढीकृतं मन्तव्यं, तन्मे व्याचक्ष्वेत्युषस्तप्रश्ने याज्ञवल्क्येन प्राणादिप्रेरको दृष्ट्यादिसाक्षी प्रतिपादितः / तथैव ऽयदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्वऽइति कहोलप्रश्ने ऽशनायाद्यतीतः प्रतिपादितः / तत्र ब्राह्मणद्वये ऽपि प्रश्नादभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशये मन्त्रयोर्वेद्यैक्यादस्तु विद्यैक्यं, इह तु ब्राह्मण्योर्वेद्यैक्ये ऽपि अभ्यासाद्विद्याभेदः, यजत्यभ्यासात्प्रयाजभेदवदिति प्रत्युदाहरणेन पूर्वपक्षः, तत्र मिथो धर्मानुपसंहारः फलं, सिद्धान्ते तूपसंहार इति विवेकः / द्वयोः सर्वान्तरत्वानुपपत्त्या तावद्ब्रह्माणयोरेकवस्तुपरत्वं सिद्धम् / तथाच वेद्यैक्यान्निर्गुणविद्यैक्ये न विवादः
SK
END Bस्Rप्_३,३.२२.३५
SK
START Bस्Rप्_३,३.२२.३६ः
SK
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत् | BBस्_३,३.३६ |
SK
ननु अन्यथा विद्यैक्याङ्गीकारे अभ्यासानुपपत्तिरिति चेदुच्यते-स एवाभ्यासः कर्मभेदको यो निरर्थकः, इह तूषस्तब्राह्मणोक्तात्मन एवाशनायाद्यत्ययरूपविशेषकथनार्थत्वादभ्यासो ऽन्यथासिद्धो न विद्याभेदक इति समुदायार्थः
SK
END Bस्Rप्_३,३.२२.३६
SK
START Bस्Rप्_३,३.२३.३७ः
SK
व्यतिहारो विशिंषन्ति हीतरवत् | BBस्_३,३.३७ |
SK
व्यतिहारः /
SK
जीवेशयोर्मिथो विशेषणविशेष्यभावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृष्टदृष्टिर्निकृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यतिहारश्रुतिस्तु तस्या एव दृढीकरणार्थत्वेनाभ्यासवदन्यथासिद्धेति दृष्टान्तेन पूर्वपक्षः / तत्र लाघवं फलं लिद्धान्ते तु श्रुत्यर्थवत्त्वमिति विवेकः / एकेनैव त्वमहमस्मीत्युच्चारणेनैकत्वमतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः / उक्तदोषं स्मारयति-नन्विति / संदिग्धेर्ऽथे न्यायः सावकाशः, इह तु श्रुतत्वादन्योन्यात्मत्वं, ध्येयं, ब्रह्मणि मनोमयत्वादिवज्जीवात्मत्वस्य ध्यानार्थमारोपे ऽपि निकर्षप्रसक्त्यभावादिति परिहरति-नैष दोष इति / ब्रह्मणि निकर्षं हित्वा जीवतादात्म्यध्याने मदुक्तमेवागतमिति शङ्कते-नन्वेवमिति / मतेर्द्विरूपत्वं त्वदनुक्तमस्माभिरुच्यते ध्यानपरं वाक्यमिदमेकत्वं तु मानान्तराविरोधात्सिध्यतीति समाधत्ते-न वयमिति / अहङ्ग्रहोपास्तिष्वयं व्यतिहार उपसंहर्तव्य इत्याह-तस्मादिति
SK
END Bस्Rप्_३,३.२३.३७
SK
START Bस्Rप्_३,३.२४.३८ः
SK
सैव हि सत्यादयः | BBस्_३,३.३८ |
SK
सैव हि सत्यादयः /
SK
स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः / सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्यस्थमक्षरमनृतमुभयतः सत्येन संपुटितत्वात्सत्त्यप्रायमेव भवतीति नामाक्षरोपासना सत्यविद्याङ्गत्वेनोक्ता / यत्तत्पूर्वप्रकृतं हृदयाख्यं तत्संप्रत्युक्तयक्षत्वादिगुणकं, सो ऽसावादित्यमण्डले ऽक्षिणि च पुरुषस्तस्याहरित्यहमिति च नामद्वयज्ञानात्पापक्षयः फलमित्यर्थः / अत्र पूर्वोत्तरवाक्ययोः फलभेदश्रुतेः प्रकृताकर्षणाच्च संशयमाह-तत्रेति / पूर्वपक्षे गुणानां व्यवस्थयानुष्ठानं, सिद्धान्ते त्वनुष्ठानैक्यमिति फलम् / यथा जीवेशयोरन्येन्यात्मत्वश्रुतिभेदान्मतिद्वैरूप्यमुक्तं, तथात्र फलश्रुतिभेदाद्विद्याभेद इति दृष्टान्तेन पूर्वपक्षयति-द्वे इति / विशेष्यब्रह्ममात्राकर्षणमयुक्तं, तद्यत्तदिति सर्वनामभिः पूर्वोक्तगुणविशिष्टं ब्रह्म आकृष्यादित्याक्षिस्थानादिगुणविधानात्, तथाच वाक्यादेव विद्यैक्यसिद्धिरिति सिद्धान्तयति-एकैवेति / यथा दहरशाण्डिल्यविद्ययोर्ब्रह्मैक्यप्रत्यभिज्ञानमात्रं तथात्र नेत्याह-नैतदिति / कारणान्तरं प्रकरणभेदादिकम् / एवं विद्याभेदे ऽप्येतदुपास्यैक्यज्ञानं स्यादत्र तूभयथासंभवे विद्यैक्यनानात्वसंशये सत्यमित्युपास्यरूपैक्यज्ञानाद्विद्यैक्यनिश्चय इत्यक्षरार्थः / असत्यपवादकारणे रूपैक्याद्विद्यैक्योत्सर्गसिद्धिर्न च फलभेदादपवादः / अङ्गे फलश्रुतेः श्रुतिमात्रतया फलभेदासिद्धिरित्याह-यत्पुनरित्यादिना / किञ्च यत्र प्रधानविधावेवङ्काम इति फलं श्रुतं, तत्र प्रधानफलेनैवाङ्गानां फलाकाङ्क्षानिवृत्तेरङ्गे फलश्रुतेः स्तुतिमात्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधानविद्याविधिस्थत्वं लोकजयफलस्याभ्युपेत्यास्माभिर्नामरूपाङ्गस्य फलश्रुतेः स्तुतित्वमुक्तम् / वस्तुतस्तु प्रधानविधावप्येवङ्कामपदाभावाद्रात्रिसत्रन्यायेन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुतत्वाविशेषाज्जातेष्टिफलन्यायेन समुच्चित्यैकप्रधानफलत्वभेदो ऽसिद्ध इत्याह-अपिचेति / सूत्रं योजयति-तस्मादिति / एकदेशिव्याख्यामुद्भाव्य दूषयति-केचिदित्यादिना / छान्दोग्ये कर्माङ्गोद्गीथे हिरण्यमयपुरुषदृष्टिरित्यत्र लिङ्गमाह-तत्रेति / पृथिव्यग्न्यात्मना दृष्टे ऋक्सामे गेष्णौ, तस्मादृक्सामगेष्णत्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्मफलसमृद्धिसमर्थ इति श्रुत्यर्थः / सत्यविद्या तु न कर्माङ्गश्रितेत्याह-नैवमिति /
SK
अङ्गविद्यातः स्वतन्त्रहिरण्यगर्भविद्याया भेदान्न गुणोपसंहार इत्यर्थः
SK
END Bस्Rप्_३,३.२४.३८
SK
START Bस्Rप्_३,३.२५.३९ः
SK
कामादीतरत्र तत्र चायतनादिभ्यः | BBस्_३,३.३९ |
SK
कामादीतरत्र /
SK
सगुणनिर्गुणविद्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एकत्वाद्गुणसांकर्ये ऽप्यत्र विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान्निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्चानुपसंहार इति बहिरेव प्राप्ते सिद्धान्तयति-तत्रेदमित्यादिना / एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह-गुणवतस्त्विति /
SK
भिन्नाविद्यास्थानामपि गुणानामायतनादिसाम्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्यर्थमुपसंहारो युक्तः, ज्ञानस्तुतिप्रकर्षस्याकाङ्क्षितत्वात्, यत्र क्वचिद्दृष्टगुणैः स्तुतेः कर्तुं योग्यत्वात् / यद्यपि सगुणस्थसत्यकामादिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोपसंहारोक्तेर्वैयर्थ्यं निर्गुणस्तावकत्वेन श्रुतगुणानामन्यत्राप्यध्येयत्वमिति शङ्कनिरासेनान्तर्भावदार्ढ्यात्वादित्यनवद्यम्
SK
END Bस्Rप्_३,३.२५.३९
SK
START Bस्Rप्_३,३.२६.४०ः
SK
आदरादलोपः | BBस्_३,३.४० |
SK
आदरादलोपः /
SK
अत्र यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह-तत्रेदं विचार्यत इति / वैश्वानरोपासकेनातिथिभोजनात्प्राक्कार्यात्वेन विद्याङ्गप्राणाग्निहोत्रविचारात्पादसंगतिः / पूर्वपक्षे भोजनलोपे ऽपि द्रव्यान्तरेण प्राणाग्निहोत्रानुष्ठानं, सिद्धान्ते तल्लेप इति भेदः / ननु यद्भक्तमिति यच्छब्देन भोजनाक्षिप्तं भक्तमनूद्य यद्धोमीयमिति होमसंयोगविधिनादाक्षेपकभोजनलोपे तदाक्षिप्तभक्ताश्रितहोमलोप इति सिद्धान्ती शङ्कते-तद्यदिति / निर्गुणस्योपास्तिलोपे ऽपि स्तुत्यर्थगुणस्थैर्यवद्भोजनलोपे ऽपि प्राणाग्निहोत्रस्यादरेण स्तुतिनिर्वाहार्थमलोप इति दृष्टान्तेन पूर्वपक्षसूत्रेण परिहरति-एवं प्राप्त इति / एवं तदिति स्वयं प्राणाग्निहोत्रमकृत्वातिथीनां तत्करणमित्यर्थः / उक्तं स्मारयित्वा परिहरति-नन्वित्यादिना /
SK
यथा कुण्डपायिसत्रगते मासाग्निहोत्रे ऽग्निहोत्रशब्दाद्गौणान्नित्याग्निहोत्रवाचकान्नित्याग्निहोत्रधर्माणां पयोद्रव्यादीनां प्राप्तिस्तथेहापि प्राणाहुतिष्वग्निहोत्रशब्दवशात्पयोद्रव्यादीनामुत्सर्गतः प्राप्तौ सत्यां भोजनार्थभक्तद्रव्यविधिनापवादः कृतः, अतो भक्तविधेरपवादार्थत्वाद्भोजनलोपे भक्ताख्यगुणस्याङ्गस्य लोपे ऽपि न मुख्यस्याग्निहोत्रस्य लोपः, अपवादाभावे उत्सर्गप्राप्तपयादिना तस्य निष्पत्तिसंभवादिति प्राप्तमित्यर्थः / ऽगुणलोपे न मुख्यस्यऽइति जैमिनिसूत्रम् / आधाने सन्ति पवमानेष्ट्यस्तत्राग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदिति निर्वापः श्रुतस्तदङ्गत्वेनाग्निहोत्रहवण्यां हवींषि निर्वपेदिति दर्शपूर्णामासाख्यप्रकृतौ विहिताग्निहोत्र हवण्यतिदेशेन प्राप्त आधानकाले चाग्निहोत्राभावात्तस्या गुणभूताया लोपे ऽपि मुख्यस्य निर्वापस्य न लोप इत्यर्थः / आरब्धनित्यादिकर्मणो ऽवश्यानुष्ठेयत्वाच्छ्रुतद्रव्यालाभे प्रतिनिहितद्रव्येणापि कर्म कर्तव्यमिति प्रतिनिधिन्यायः
SK
END Bस्Rप्_३,३.२६.४०
SK
START Bस्Rप्_३,३.२६.४१ः
SK
उपस्थिते ऽतस्तद्वचनात् | BBस्_३,३.४१ |
SK
सिद्धान्तयति-उपस्थिते ऽतस्तद्वचनादिति / तद्धोमीयमिति तच्छब्देन भोजनार्थसिद्धभक्तमाश्रित्य होमविधानादित्यर्थः / सिद्धवद्भक्तोपनिपातः प्रकृतभक्तागमनं, तस्य तच्छब्देन परामर्शेनेत्यर्थः / आश्रित्य विहिताहुतीनामाश्रयलोपे लोप एव न द्रव्यान्तराक्षेपकत्वं, यथा क्रतुप्रयुक्तात्प्रणयनाश्रितस्य गोदोहनस्य क्रतुलोपे लोपे न त्वाश्रयान्तरप्रयोजकत्वं तथेति फलितमाह-ता इतियदुक्तमग्निहोत्रशब्दाद्द्रव्यान्तरप्राप्तिरिति, तत्राह-न चात्रेति / तद्वद्भावो नित्याग्निहोत्रसादृश्यमर्थवादस्थशब्दस्य स्तुतित्वेनोपपत्तेरित्यर्थः / धर्मप्रापकत्वे दोषमाह-तद्धर्मप्राप्तौ चेति / अव एवेति तद्धर्मप्राप्त्यभावादेवेत्यर्थः / प्राप्तौ संपादनं वृथा स्यादिति भावः / मुख्याग्निहोत्राङ्गानि संपाद्यन्ते चेत्कथं तदनङ्गं वेदिरत्र संपाद्यते तत्राह-वेदिश्रुतिश्चेति / मुख्याग्निहोत्रस्याग्न्युद्धरणवत्सायंप्रातःकालद्वयस्यापि न प्राप्तिरिति-भोजनेनेति / उपस्थानपरिस्तरणादयो ऽप्यग्न्यभावान्न प्राप्नुवन्तीत्याह-एवमिति / यस्मात्तद्धर्मप्राप्त्यभावस्तस्माद्भोजनद्रव्येणैव होम इत्युसंहारः / प्राणाय स्वाहा इत्यादयो मन्त्राः / ननु स्वामिभोजनस्योत्तरकालत्वं श्रुत्यादिविहितं कथं पूर्वो ऽतिधिभ्यो ऽश्नीयादितिवचने बाध्यते तत्राह-न ह्यस्तीति / उपासकान्यस्वामिविषयमुत्तरकालत्वविधानमित्यर्थः / न त्विति प्राथम्यमात्रेणेत्यर्थः / प्राणोपासकस्य प्राप्ते भोजने प्राथम्यार्थतयादरस्यान्यथासिद्धौ फलितमाह-तस्मादिति
SK
END Bस्Rप्_३,३.२६.४१
SK
START Bस्Rप्_३,३.२७.४२ः
SK
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् | BBस्_३,३.४२ |
SK
तन्निर्धारणा /
SK
उभयथा दृष्टान्तदर्शनात्संशयमाह-किं तानीति / यथानाराभ्याधीतपर्णमयीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथाङ्गाश्रितोपासनान्युद्रीथादिद्वाराङ्गतया नित्यानि, उत क्रत्वङ्गाप्प्रणयनश्रयो गोदोहनसंयोगः पशुफलार्थत्वादनित्यत्वेन यथा प्रयुज्यते यथा वा पश्वङ्गयूपाश्रयं बैल्वत्वमन्नाद्यफलत्वादनित्यं तथा कर्मसमृद्यादिफलकत्वादुपासनान्यनङ्गत्वेनानित्यानीति संशयार्थः / पूर्वपक्षे उपासनानां प्रयोगनित्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः / अनित्यभोजनाश्रयप्राणाग्निहोत्रस्यानित्यत्ववन्नित्यकर्माङ्गोपास्तीनां नित्यत्वमिति प्रत्युदाहरणदृष्टान्तेन पूर्वपक्षमाह-किं तावदिति / उपासनानि कर्माङ्गानि, अफलत्वे सति कर्माङ्गाश्रितत्वात्पर्णमयीत्वादिवत् / तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-यानीत्यादिना / उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्मयं रसतमत्वादिकं तन्निर्धारणान्युपासनानि यानि तानि कर्मसु नित्यपर्णमयीत्वादिवन्न नियम्येरन्नित्यर्थः / एषां कर्माङ्गत्वे तद्धीनस्याविदुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषो ऽपि कर्मकर्तृत्वश्रुतिलिङ्गैरङ्गत्वानुमानबाध इत्याह-तद्दृष्टेरिति / तस्यानियमस्य दर्शनादित्यर्थः / तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रायणेनर्त्विजामाक्षिप्तत्वादनुपासकानामपि कर्मप्रयोगो ऽस्तीत्याह-प्रस्तावादीति / उपास्तीनां कर्मफलात् पृथक्फलश्रुतेर्न कर्माङ्गत्वमित्याह-अपिचेति / तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तु विद्याविद्ययोर्नानात्वं भिन्नफलत्वम् / दृष्टं हि मणिविक्रये ज्ञानाज्ञानाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्ययोद्गीथाद्युपास्त्या श्रद्धयास्तिक्यबुद्ध्योपनिषदा रहस्यदेवताध्यानेन करोति तदेव कर्म फलातिशयवदित्यर्थः / कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः / साम्नि लोकादिदृष्ट्युपासनेषु कर्मसमृद्यतिरिक्तलोकादिफलश्रुतेश्च नाङ्गत्वमित्याह-तथेति / अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अधस्तनाश्चेत्यर्थः / तथाहि गुणवाद इति / फलश्रुतेरर्थवादमात्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् /
SK
प्रयाजानुयाजकर्मणां तु प्रकरणाद्दर्शाद्यङ्गत्वलाभाद्भातृव्याभिभूतिफलश्रुतेरगत्या स्तुतिलक्षकत्वं, यद्यपि पर्णमयीत्वादीनामङ्गत्वबोधकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषामक्रियात्वेन क्रियासंबन्धं विना फलहेतुत्वानुपपत्तेरतस्तेषां फलार्थं क्रियापेक्षित्वात्क्रतोश्च जुहूप्रकृतिद्रव्याकाङ्क्षित्वात् पर्णमयी जुहूरित्यादिवाक्येनैव प्रकृतिद्रव्यार्पकेण जुहूद्वारा संनिहितक्रत्वङ्गत्वसिद्धेर्युक्तं फलश्रुतेरर्थवादत्वमिति भावः / अक्रियात्मकगोदोहनादेरपि फलश्रुतिरर्थवादः स्यादत आह-गोदोहनादीनां हीति / यदपः प्रणयेत्तत् पशुकामस्य सतो गोदोहनेन ब्रह्मवर्चसकामस्य कंस्न्येति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्वनाकाङ्क्षितत्वेनाङ्गत्वाभावात्, चमसेन निराकाङ्क्षक्रियासंबन्धितया स्वफलसाधकत्वसंभवात् / तथा खादिरत्वेन निराकाङ्क्षक्रत्वङ्गयूपमाश्रित्य बैल्वमन्नाद्यकामस्य खादिरं वीर्यकामस्येति फलार्थविधिरेवार्थः / पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह-न त्विति / एवंविधो यूपादिवन्निराकाङ्क्ष इत्यर्थः / जुहुरेवाश्रय इत्यत आह-वाक्येनेति / जुह्वाः प्रकृतिद्रव्यापेक्षित्वादनेनैव वाक्येन क्रत्वङ्गतया जुहूप्रकृतिद्रव्यसंबन्धो विधेयः पश्चान्निराकाङ्क्षजुहूमाश्रित्य तस्यैव प्रकृतिद्रव्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः / पर्णतादिवैलक्षण्यमुपासनानामाह-उपासनानां त्विति /
SK
स्वयं क्रियात्वाद्यागादिवत्फलविशिष्टत्वेन विधानोपपत्तिरित्यर्थः / तस्मादिति अङ्गत्वावेदकमानाभावादित्यर्थः / अत एवेति अनङ्गत्वादेवेत्यर्थः / तस्मादङ्गोपास्त्यभावे ऽपि कर्माधिकार इति सिद्धम्
SK
END Bस्Rप्_३,३.२७.४२
SK
START Bस्Rप्_३,३.२८.४३ः
SK
प्रदानवदेव तदुक्तम् | BBस्_३,३.४३ |
SK
प्रदानवदेव तदुक्तम् /
SK
वायुप्राणयोर्भेदाभेदवाक्याभ्यां संशयमाह-तत्रेति / अस्तु कर्माङ्गानां तत्संबद्धोपास्तीनां च फलभेदान्नित्यत्वानित्यत्वरूपः प्रयोगभेदः, इह तु वायुप्राणयोः स्वरूपाभेदात्तत्स्वरूपप्राप्तिलक्षणफलैक्याच्च ध्यानप्रयोगैक्यमिति पूर्वपक्षयति-अपृथगिति / ऽअग्निर्वाग्भूत्वाऽइत्यारभ्यः ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽइत्यभेदं दर्शयतीत्यर्थः / ऽयतश्चोदेति सूर्यस्तं वदऽइति प्रश्ने सूत्रात्मकवायुर्वाच्यो वायुस्थाने प्राणं वदन्नेकत्वं तयोर्दर्शयतीत्याह-तथेति / किञ्च यदि वायुप्राणयोः पृथग्ध्यानं स्यात्तर्हि ध्यानाङ्गव्रतभेदो ऽपि स्यादिह तु प्राणापाननिरोधात्मकव्रतैक्यश्रुतेर्ध्यानैक्यमित्याह-तस्मादिति / व्रतैक्यस्य प्रशस्तत्वादित्यर्थः / किञ्च वायुप्राणो संवर्गौ भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गदेवैक्यश्रुतेः प्रयोगैक्यमित्याह-तथेति / महात्मन इति द्वितीयाबहुवचनम् / चतुरश्चतुः संख्याकानग्निसूर्योदकचन्द्रानपरांश्च वाक्चक्षुःश्रोत्रमनोरूपानेको देवः कः प्रजापतिः जगार गीर्णवानुपसंहृतवानित्यर्थः / न ब्रवीति भेदमिति शेषः / यथा ऽअग्निहोत्रं जुहोतिऽइत्युत्पन्नाग्निहोत्रस्यैकस्यैव दधितण्डुलादिगुणभेदेन सायंप्रातःकालभेदेन प्रयोगभेदस्तथा ऽअन्नादो भवति य एवं वेदऽइत्युत्पन्नायाः संवर्गविद्याया एकत्वे ऽप्युत्पन्नशिष्टवायुप्राणाख्यगुणभेदात्प्रयोगभेद इत्युत्सूत्रं सिद्धान्तयति-पृथगेवेति / ऽतौ वा एतौ द्वौ संवर्गौऽइत्युपास्यभेदवाक्यस्य प्रयोगभेदपरत्वाद्वाक्यादेव भेदसिद्धिरित्यर्थः / पूर्वपक्ष्युक्तमनूद्य प्रत्याह-ननूक्तमित्यादिना / उपास्यतया प्रधानभूतसंवर्गगुणविशिष्टोपास्यभेदवाक्यप्राणात्तावुक्तौ / ततो ऽध्यात्माधिदैवावस्थाभेदेनोक्तस्य ध्येयभेदस्य निरासे ऽयतश्चोदेतिऽइति श्लोकस्य न शक्तिरित्याह-श्लोकेति / असामर्थ्ये लिङ्गमाह-स यथेति / श्लोकोपन्यासवद्ब्रतैक्योपन्यासो ऽपि तत्त्वाभेदाभिप्रायेणेत्याह-एतेनेति / नन्वेवकाराद्वायुव्रतनिवृत्तेः प्राण एवैको ध्येयो भातीत्यत आह-एकमेवेति / वदनदर्शनादीनि वाक्चक्षुरादीनां व्रतानि श्रमरूपमृत्युना भग्नानीत्युक्त्वा प्राणस्याभग्नव्रतत्वं निर्धारितं, तथा ज्वलनतापादीन्यग्न्यादित्यादीनां व्रतानि भग्नानीत्युक्त्वा वायोरभग्नव्रतत्वं निर्धारितं, ऽस यथैषां प्राणानां मध्यमः प्राणः स्थिरव्रत एवमेतासां देवनां वायुर्लोचन्ति ह्यन्या देवता न वायुःसैषानस्तमिता देवता यद्वायिःऽइति श्रुतेः / अतो भग्नवतनिरासार्थ एवकारो न वायुव्रतनिवृत्त्यर्थ इत्यर्थः / अत्रैवार्थे लिङ्गमाह-एकमिति / उकारश्चार्थः / तेन व्रतेन वायोः सायुज्यं समानदेहत्वं सलोकतां च जयतीत्यर्थः / नन्वत्र वायुप्राप्तिर्न श्रुतेत्यत्राह-देवतेति / तस्मात्तत्त्वाभेददृष्ट्या व्रतैक्यमिति स्थितं, संप्रति पूर्वोक्तं पृथगुपदेशं विवृणोति-तथा तौ वा इति / सौत्रं दृष्टान्तं व्याचष्टे-प्रदानवदिति / त्रयः पुरोडाशा अस्यां सन्तीति त्रिपुरोडाशिनीष्टिस्तस्यां किं सहप्रदानमुत भेदेनेति संदेहे पूर्वपक्षमाह-सर्वेषामिति / सर्वेषां देवानामाभिमुख्येन प्राप्यन्हविरवद्यति गृह्णाति, अच्छंवट्कारं वषट्काराख्यदेवभागमित्यर्थः / यद्वा सर्वदेवार्थं युगपदवदानं कार्यमित्यत्र हेतुरच्छंवट्कारमिति अव्यर्थत्वायेत्यर्थः / एकार्थमवत्ते हविषि शेषो यागानर्हतया वृथा स्यादिति भावः / एवं सहावदानश्रुतेर्देवैक्याच्च पुरोडाशानां सहप्रक्षेपे प्राप्ते पृथक्प्रक्षेप इति सिद्धान्तमाह-राजेति / राजाधिराजस्वराजगुणभेदेन विशिष्टदेवताभेदादित्यर्थः / किञ्चाध्वर्युणा यजेति प्रैषे कृते होत्रा यो मन्त्रः पठ्यते सा याज्या, अनुब्रूहीति प्रैषानन्तरमन्त्रः पुरोनुवाक्येति भेदो ऽस्ति, तत्रास्यामिष्टौ प्रथमपुरोडाशप्रदाने या कॢप्ता याज्या स द्वितीयप्रदाने पुरोनुवाक्य, या च पूर्वमनुवाक्य, स पश्चाद्याज्येति व्यत्यासमन्वाहेति श्रुत्या विधानात्, यथाश्रुति प्रक्षेपपृथक्त्वमित्याह-याज्येति / संकर्षो देवताकाण्डम् / वाशब्दो ऽवधारणे, नानैव देवता राजादिगुणभेदेन भेदावगमादिति सूत्रार्थः / दृष्टान्ते देवताभेदात्कर्मभेदवद्विद्याभेदः स्यादित्यत आह-तत्र त्विति / कर्मोत्पत्तिवाक्यस्थदेवताभेदः कर्मभेदे हेतुरिह त्वन्नादो भवति य एवं वेदेत्युत्पत्तावेकत्वेन ज्ञातविद्यायाः पश्चाच्छ्रुतवायुप्राणभेदो न भेदकः, अग्निहोत्रस्येव दध्यादिद्रव्यभेद इत्यर्थः / तर्हि केनांशेन प्रदानस्य दृष्टान्तत्वमित्यत आह-विद्यैक्ये ऽपीति /
SK
अवस्थाभेदाद्देवताभेदः प्रयोगभेदश्चेत्यंशेनायं दृष्टान्त इत्यर्थः
SK
END Bस्Rप्_३,३.२८.४३
SK
START Bस्Rप्_३,३.२९.४४ः
SK
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि | BBस्_३,३.४४ |
SK
लिङ्गभूयस्त्वात् /
SK
उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनः सृष्टिमुक्त्वा तन्मन आत्मानमैक्षतेतीक्षणपूर्वकमग्नीनपश्यदिति मनो ऽधिकृत्य पठन्तीत्यर्थः / पुरुषायुष्ट्वेन कॢप्तशतवर्षान्तर्गतैः षट्रत्रिंशत्सहस्रैरहोरात्रैरवच्छिन्नतया मनोवृत्तीनामसङ्ख्येयानामपि षट्त्रिंशत्सहस्रत्वम् / ताभिरिष्टकात्वेन कल्पिताभिर्मनसैव संपादिता अग्नयो मनश्चितस्थानर्कान्पूज्यान्मनोवृत्तिषुसंपादितानात्मनः स्वस्य संबन्धित्वेन मनो ऽपश्यत्, तथा वाक्प्राणादयो ऽपि स्वस्ववृत्तिरूपानग्नीनपश्यन्नित्याह-तथेति / प्राणो घ्राणं कर्मेन्द्रियेण हस्तादिना चितः कर्मचितः अग्निस्त्वक् पूर्वत्राग्निचयनप्रकरणात्किमेते ऽग्नयः क्रत्वर्था उत प्राधान्यज्ञापकलिङ्गादिभूयस्त्वात्पुरुषार्था वेति संशयमाह-तेष्विति / केवलविद्यात्मकाः क्रियाङ्गत्वं विना भावनामया इत्यर्थः / एकप्रयोगासंभवाद्वायुप्राणयोर्ध्यानप्रयोगभेदो ऽस्तु, इह तु मनश्चिदाद्यग्नीनां प्रकरणात्कर्माङ्गत्वेनैकप्रयोगत्वमिति प्रापय्य सिद्धान्तमुपक्रमते-तत्रेत्यादिना / पूर्वपक्षे भावनाग्नीनां क्रत्वङ्गत्वमिष्टं तेषां क्रियाङ्गत्वं विकल्पः समुच्चयो वास्तु / सिद्धान्ते पुरुषार्थत्वमिति फलम् / तत्तत्र सर्वप्राणिमनोवृत्तिभिर्मम सदाग्नयः चीयन्त इति ध्यानदार्ढ्ये सति सर्वभूतानि यत्किञ्चित् मनसा संकल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येकं लिङ्गं, क्रियाङ्गस्य यत्किञ्चित्करणेन सिद्यदर्शनादित्याह-तद्यदिति /
SK
एवंविदे स्वपते जाग्रते ऽपि तदीयाग्नीन्भूतानि सर्वदा चिन्वन्तीति लिङ्गान्तरं, क्रियाङ्गस्य चोदितकालानुष्ठेयस्य सदा सर्वैरनुष्ठीयमानत्वायोगादित्यर्थः / षट्त्रिंशत्सहस्रसंख्याप्यनङ्गत्वे लिङ्गं एवञ्जातीयकपदेनोक्तम्
SK
END Bस्Rप्_३,३.२९.४४
SK
START Bस्Rप्_३,३.२९.४५ः
SK
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् | BBस्_३,३.४५ |
SK
एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति-पूर्वेति / पूर्वस्येष्टकाभिरग्निं चिनुत इत्युक्तस्य स एष त्विष्टकाग्निरिति संनिहितस्यायं विकल्पविशेषोपदेशः संकल्पमयत्वाख्यप्रकारभेदोपदेशः क्रियाग्निवत्सांकल्पिकाग्नयो ऽप्यङ्गमिति यावत् / किं विधिवाक्यस्थं लिङ्गं प्रकरणाद्बलीयः, अर्थवादस्थं वा / आद्यमङ्गीकरोति-सत्यमिति / न द्वितीय इत्याह-लिङ्गमिति / मानसाग्निविध्यर्थवादस्थलिङ्गानां स्वार्थप्रापकमानाभावाद्दौर्बल्यमित्यर्थः / सूत्रस्थक्रियापदं व्याचष्टे-तस्मादिति / ननु अक्रियारूपाग्नीनां ध्यानमयानां कथं क्रियाङ्गत्वं तत्राह-मानसवदिति / द्वादशाहस्याद्यन्ताहर्द्वयं त्यक्त्वा मध्यस्थदशरात्रस्यैव द्विरात्रादिषु प्रकृतित्वं, तद्धर्ममाणामेव तेष्वतिदेशात्तस्य मध्यदशरात्रस्य दशमे ऽहन्यर्थादेकादशे ऽहनि मानसग्रहः श्रूयते-ऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातिऽइति / अनया रसया पृथिव्या पात्रेण समुद्रं त्वां प्रजापतिदेवताकं मनोग्रहं गृह्यते इति ग्रहः सोमरसः, मनसा रसत्वेन भावितमध्वर्युर्गृह्णातीत्यर्थः / अत एवर्त्विजां ध्यायितया विविधवाक्योच्चारणाभावादविवाक्यसंज्ञा अह्नः प्राप्तः / ग्रहणं नाम सोमपात्रस्योपादानं, गृहीतस्य स्वस्थाने स्थापनमासादनं सोमस्य होमो हवनं हुतशेषादानमाहरणं शेषभक्षणायर्त्विजां मिथो ऽनुज्ञानकरणमुपह्वानं ततो भक्षणमित्येतानि मानसान्येवेत्यर्थः / स च मानसो ग्रहो द्वादशाहादहरन्तरं स्वतन्त्रमित्याशङड्क्य द्वादशाहसंज्ञाविरोधान्नाहरन्तरं किन्तु प्रकरणादविवाक्यस्याह्नो ऽङ्गमिति सिद्धान्तमाह-स चेति /
SK
कल्पः कल्पनाप्रकारः / केचित्त्वत्र भाष्ये दशरात्रशब्दो विकृतिपरः, तत्रापि दशमे ऽहन्यविवाक्यसंज्ञके मानसग्रहस्यातिदेशप्राप्ततयाङ्गत्वादित्याहुः
SK
END Bस्Rप्_३,३.२९.४५
SK
START Bस्Rप्_३,३.२९.४६ः
SK
अतिदेशाच् च | BBस्_३,३.४६ |
SK
मनश्चिदादीनां क्रियाङ्गत्वे प्रकरणमुक्त्वा लिङ्गमाह-अतिदेशाच्चेति /
SK
क्रियाङ्गत्वसादृश्यादतिदेश इत्यर्थः
SK
END Bस्Rप्_३,३.२९.४६
SK
START Bस्Rप्_३,३.२९.४७ः
SK
विद्यैव तु निर्धारणात् | BBस्_३,३.४७ |
SK
सिद्धान्तमाह-विद्येति
SK
END Bस्Rप्_३,३.२९.४७
SK
START Bस्Rप्_३,३.२९.४८ः
SK
दर्शनाच् च | BBस्_३,३.४८ |
SK
न श्रुतिलिङ्गवाक्यैः प्रकरणं बाध्यमिति सूत्रत्रयार्थः
SK
END Bस्Rप्_३,३.२९.४८
SK
START Bस्Rप्_३,३.२९.४९ः
SK
श्रुत्यादिबलीयस्त्वाच् च न बाधः | BBस्_३,३.४९ |
SK
तत्रावधारणश्रुतेरन्यथासिद्धिं शङ्कते-नन्वबाह्येति / विद्याचित इतिपदेनैवाबाह्यसाधनत्वस्य लब्धत्वादवधारणं व्यर्थमित्याह-नेति / तर्हि कथमस्यार्थवत्त्वं तत्राह-अबाह्येति / लिङ्गं व्यनक्ति-तथेति / अग्नीनां सर्वकालव्यापित्वेनानङ्गत्वे दृष्टान्तरमाह-तथेति / तदा ध्यानकाल इत्यर्थः / होमे यथा सातत्यमुच्यते तद्वदग्नीनां सातत्यदर्शनमित्यन्वयः / यदुक्तमर्थवादस्थत्वाल्लिङ्गं दुर्बलमिति तन्न / सर्वदा सर्वभूतानि मदर्थमग्नीन् चिन्वन्तीति ध्यायेदित्यपूर्वार्थतया विधिकल्पनात् / तथाच विधिवाक्यस्थत्वाल्लिङ्गं प्रकरणाद्बलवादित्याह-न चेदमित्यादिना / एतेनेति विधित्वेनेत्यर्थः / वाक्यं विवृषोति-तथेति
SK
END Bस्Rप्_३,३.२९.४९
SK
START Bस्Rप्_३,३.२९.५०ः
SK
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् | BBस्_३,३.५० |
SK
संपदुपास्त्यै मनोवृत्तिषु क्रियाङ्गानां योजनमनुबन्धः श्रुत्या क्रियते तदन्यथानुपपत्त्याप्यग्नीनां पुरुषार्थत्वं क्रत्वर्थत्वे ऽङ्गानां सिद्धत्वेन संपादनानुपपत्तेरित्याह-इतश्चेत्यादिना / ते अग्नयः, अधीयन्त तेषामाधानं मनसैव कुर्यादित्यर्थः / कालस्य छन्दस्यनियमात् / अचीयन्त इष्टकाश्चेतव्या इत्यर्थः / ग्रहाः पात्राणि, अस्तुवन्, उद्गातारः स्तुवन्ति, अशंसन् होतारः शंसन्ति, किं बहूक्त्या यत्किञ्चिद्यज्ञे कर्मारादुपकारकं यज्ञियं यज्ञस्वरूपोत्पादकं च तत्सर्वं मनोमयं कुर्यादिति श्रुत्यर्थः / वृत्तिष्वग्निध्यानस्य क्रियानङ्गत्वे ऽप्युद्गीथध्यानवत्क्रियाङ्गाश्रितत्वं स्यान्नेत्याह-न चात्रोद्गीथेति / अङ्गावबद्धश्रुतितो ऽस्याः श्रुतेर्वैरूप्यं स्फुटयति-नहीति / अनङ्गवृत्तिषु साङ्गक्रतुसंपादनं पुरुषस्य यज्ञत्वध्यानवत् स्वतन्त्रमित्यर्थः / अनादरार्थो ऽतिदेशो न भवति किन्तु विकल्पार्थ इत्यत आह-नचेति / एकस्मिन्माध्ये निरपेक्षसाधनयोर्विकल्पो भवति यथा व्रीहियवयोरत्र तु क्रियाग्नेर्ध्यानाग्नीनां साध्यभेदान्न विकल्प इत्यर्थः / अत एव समुच्चयो ऽपि निरस्तः / यदुक्तं क्रियाङ्गत्वसामान्येनातिदेश इति तन्नेत्याह-यत्त्विति / सूत्रे बहुवचनार्थमाह-श्रुत्यादीनि चेति / अनुबन्धातिदेशश्रुतिलिङ्गवाक्येभ्य इत्यर्थः / एवमिति / अर्थ इति शेषः मनश्चिदादीनां स्वातन्त्रये क्रियाप्रकरणादुत्कर्षः स्यादित्याशङ्क्य स इष्ट इत्याह-दृष्टश्चेति / एकादशे चिन्तितं ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति प्रकृत्यावेष्टिर्नाम काचिदिष्टिराम्नाता-ऽआग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणाऽ,बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणाऽ, ऽऐन्द्रमेकादशकपालमृषभो दक्षिणाऽइति / तस्यां वर्णभेदेन प्रयोगभेदः, श्रूयते-ऽयदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद्यदि वैश्यो वैश्वदेवं चरुं मध्ये निदध्याद्यदि राजन्यस्तदैन्द्रम्ऽइति / आग्नेयैन्द्रपुरोडाशयोर्मध्ये बार्हस्पत्यं चरुं निधायेत्यर्थः / तत्राग्नेयादिचरुषु अङ्गानां तन्त्रेण प्रयोगो भवति मध्येनिधानलिङ्गात्प्रयोगभेदे मध्ये निधानायोगादेतयान्नाद्यकामं याजयेदित्येकवचनाच्च / स च तन्त्रप्रयोगो राजसूयक्रतुबाह्यायामन्नाद्यकामवर्णत्रयकर्तृकायामेवावेष्टौ ज्ञेयो न तु क्रत्वन्तर्गतायाम् / ननु किमत्र नियामकं क्रत्वर्थायामप्यवेष्टौ तन्त्रप्रयोगः किं न स्यादिति चेत् / न / वर्णत्रयसंयुक्तानां काम्यायामेवाङ्गतन्त्रैक्यसाधकस्य मध्ये नधानादिलिङ्गस्य सत्त्वादतो लिङ्गैकवचनाभ्यां तन्त्रैक्ये सति हिरण्यादिका मिलितैकैवा दक्षिणाधेया, अन्यथा प्रयोगैक्यायोगात् / राजमात्रकर्तृकक्रत्वन्तर्गतेष्टौ तु वर्णत्रयसंयोगाभावान्मध्ये निधानादिलिङ्गं नास्ति ततश्च तन्त्रैक्यसाधकाभावाद्दक्षिणाभेदेन तन्त्रभेद इत्यङ्गानामावृत्तिरेव चरुष्विति सूत्रार्थः / अत्र चैकप्रयोगलिङ्गस्य क्रत्वर्थेष्टावसंभवं काम्येष्टौ च संभवं वदतानेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिविलक्षणत्वात्क्रतुप्रकरणादुत्कर्ष इति सूचितम् / स चोत्कर्षो युक्त एव, राजमात्रकर्तृकराजसूयक्रतौ वर्णत्रयकर्तृकेष्टेरन्तर्भावायोगादिति स्थितं, तथा मनश्चिदादीनामुत्कर्ष इति भावः
SK
END Bस्Rप्_३,३.२९.५०
SK
START Bस्Rप्_३,३.२९.५१ः
SK
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः | BBस्_३,३.५१ |
SK
एवं दृष्टान्तं विघटयति-न सामान्यादिति /
SK
क्रत्वर्थत्वपुरुषार्थत्ववैषम्ये ऽपि मानसत्वसामान्यं न विरुध्यते विषमयोरपि साम्यदर्शनादित्यर्थः
SK
END Bस्Rप्_३,३.२९.५१
SK
START Bस्Rप्_३,३.२९.५२ः
SK
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः | BBस्_३,३.५२ |
SK
किञ्च पूर्वोत्तरब्राह्मणयोः स्वतन्त्रविद्याविधानात्तन्मध्यस्थस्यापि ब्राह्मणस्य स्वतन्त्रविद्याविधिपरत्वमित्याह-परेण चेति / चिते ऽग्नौ लोकदृष्टिविधानं स्वतन्त्रमुत्तरत्र गम्यते पूर्वत्र मण्डलपुरुषोपास्तिस्तत्सांनिध्यान्मध्ये ऽपि मानसाग्नयः स्वतन्त्रा इत्यर्थः / तर्हि क्रियाग्निना सह पाठः किमर्थमित्यत आह-भूयांसस्त्विति
SK
END Bस्Rप्_३,३.२९.५२
SK
START Bस्Rप्_३,३.३०.५३ः
SK
एक आत्मनः शरीरे भावात् | BBस्_३,३.५३ |
SK
मनश्चिदादीनां पुरुषार्थत्वमुक्तं तदयुक्तं देहातिरिक्तपुरुषाभावादित्याक्षिपति-एक आत्मनः शरीरे भावात् / सिद्धान्तफलमाह-बन्धेति / पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षार्थविद्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह-न ह्यसतीति / व्यतिरिक्तात्मविचारस्य पूर्वतन्त्रे कृतत्वात्पौनरुक्त्यमित्याशङ्क्य तत्रत्यविचारस्यापीदमेव सूत्रं मूलं जैमिनिसूत्राभावादतः क्व पुनरुक्तिरित्याह-ननु शास्त्रेत्यादिना / ऽयज्ञायुधी यजमानः स्वर्गं लोकमेतिऽइत्यादिवाक्यस्य भोक्तुरभावादप्रामाण्यप्राप्तावित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह-अत एवेति / तत्र सूत्राभावादेवेत्यर्थः / उद्धार उपरमः / अस्याधिकरणस्यास्मिन्पादे प्रसङ्गसंगतिरित्याह-इह चेति / आमुष्मिकफलोपासनानिर्णयप्रसङ्गेन तदपेक्षितात्मास्तित्वमुच्यत इत्यर्थः / एतत्सिद्धवत्कृत्य प्रथमसूत्रे ऽथशब्देनाधिकारी चिन्तितस्तस्मादिदमधिकरणं सर्वशास्त्राङ्गमिति शास्त्रसंगतिमाह-कृत्स्नेति / आक्षेपलक्षणामवान्तरसंगतिमाह-अपिचेति / देहातिरिक्त आत्मास्ति न वेति वादिविप्रतिपत्तेः संशये पूर्वपक्षमाह-अत्रैक इति / यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञानाभावाद्व्यस्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूतेभ्यश्चैतन्यं संभावयन्तो मदशक्तिवद्विज्ञानं संघातजं तद्विशिष्टसंघात आत्मेत्याहुरित्यन्व्यः / यथा मादकद्रव्येषु ताम्बूलपत्रादिषु प्रत्येकमदृष्टापि मदशक्तिस्तत्संघाताज्जायते तद्वदित्यार्थः / ननु देहः स्वयं न चेतनः घटवद्भौतिकत्वात् किन्तु चेतनः कश्चित्स्वर्गादिभोक्तास्ति तत्सांनिध्याद्देहस्य चैतन्यविभ्रम इत्यत आह-न स्वर्गेति
SK
END Bस्Rप्_३,३.३०.५३
SK
START Bस्Rप्_३,३.३०.५४ः
SK
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् | BBस्_३,३.५४ |
SK
मनुष्यो ऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्यक्षत्वादात्मधर्मत्वेन प्रसिद्धानां धर्माणां देहान्व्यव्यतिरेकानुभवात्तदन्यात्मनि प्रत्यक्षाभावादप्रत्यक्षस्याप्रामाणिकत्वाद्देह एवात्मेति प्राप्ते सूत्रस्थनत्वितिपदेन सिद्धान्तं प्रतिजानीते-नत्वेतदिति / अनुमानस्य तावत्प्रामाण्यमनिच्छिताप्यास्थेयमन्यथा व्यवहारासिद्धेः / न ह्यनागतपाकादाविष्टसाधनतानुमितं विना प्रवृत्तिः संभवति / तथाच ज्ञानादयो देहव्यतिरिक्ताश्रया देहसत्त्वे ऽप्यसत्त्वाद्व्यतिरेकेण देहरूपादिवदित्याह-व्यतिरेक एवास्येति / नचादौ श्यामदेहस्य पश्चाद्रूपान्तरे व्यभिचारः, गुणत्वसाक्षाद्व्याप्यजात्यवच्छेदेन असत्त्वस्य विवक्षितत्वात् देहे ऽवस्थिते सदा रूपत्वावच्छिन्नमस्त्येव / ज्ञानत्वावच्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः / किञ्च एते न देहगुणाः परैरदृश्यत्वादित्याह-देहधर्माश्चेति / किञ्च देहव्यतिरिके तेषामभावस्य संदिग्धत्वान्न देहधर्मत्वनिश्चय इत्याह-अपिचेति / न चानुपलम्भात्तेषामभावनिश्चयस्तवानुपलब्धेरमानत्वात्, तद्धर्म्यात्मनो देहान्तरप्राप्त्याप्यनुपलम्भोपपत्तेश्चेति भावः / उपलब्धिवदिति सूत्रस्थं पदं व्याख्यातुमुपक्रमते-किमात्मकमिति / तत्किं भूतातिरिक्तं तत्त्वमुत रूपादिवद्भूतधर्मः / नाद्यः, अपसिद्धान्तादित्युक्त्वा द्वितीयमाशङ्क्य निषेधति-यदनुभवनमित्यादिना / देहात्मकभूतानां चैतन्यं प्रति विषयत्वात्कर्तृकर्मविरोधेन विषयस्य कर्तृत्वा योगान्न भूतकर्तृकत्वं चैतन्यस्येत्यर्थः / किञ्च ज्ञानस्य भूतधर्मत्वे रूपादिवज्जाड्यापत्तेर्न तद्धर्मत्वमित्याह-नहीति / फलितं सूत्रपदार्थमाह-अतश्चेति / या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादुपलब्धेरनित्यत्वादित्यत आह-नित्यत्वं चेति / घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्तेरभेदान्नित्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः / एवमात्मा देहाद्भिन्न उपलब्धिरूपत्वादुपलब्धिवदित्युक्तम् / किञ्च जाग्रत्स्वप्नयोर्देहभेदे ऽप्यात्मैकत्वप्रत्यभिज्ञानादात्मभेदे चान्यानुभूते ऽन्यस्य स्मृतीच्छानुपपत्तेः स्वप्नस्मृत्यादिमानात्मा देहाद्भिन्न इत्याह-अहमिति / निरस्तमप्यधिकाभिधित्सयानुवदति-यत्तूक्तमिति / उपलब्धेर्देहान्वयव्यतिरेकौ न देहधर्मत्वसाधकौ तन्निमित्तत्वेनान्यथासिद्धेरित्यधिकमाह-अपिचेति / उपलब्धिमात्रे देहस्य निमित्तत्वमप्यसिद्धमित्याह-न चात्यन्तमिति / स्वप्नोपलब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् / अत एव तन्वभावे ऽपि स्वप्नवद्योगिनां भोगं सूत्रकृद्वक्ष्यति / जाग्रदुपलब्धेर्देहजत्वमस्तीत्यत्यन्तमित्युक्तम् / तस्मादुक्तानुमानुगृहीतान्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति-तस्मादिति
SK
END Bस्Rप्_३,३.३०.५४
SK
START Bस्Rप्_३,३.३१.५५ः
SK
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् | BBस्_३,३.५५ |
SK
अङ्गावबद्धाः /
SK
उद्गीथावयवोङ्कारे प्राणदृष्टिः, ऽपृथिवी हिङ्कारे ऽग्निः प्रस्तावो ऽन्तरीक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम् / ऽइति हिङ्कारादिपञ्चविधे साम्नि पृथिव्यादिलोकदृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोकदृष्टिरित्येवं कर्माङ्गाश्रितोपास्तयः सन्ति, तासूद्गीथादिसाधारणश्रुत्या विशेषसंनिधिना च संशयः / ननूद्गीथादीनां सर्वशाखास्वेकत्वादुपास्तयः सर्वत्रेति वेद्यैक्यान्निश्चये कथं संशय इत्यत आह-प्रतिशाखं चेति / यथा देहात्मनोर्भेदादात्मधर्मा देहे न संभवन्ति तथा प्रतिवेदमुद्गीथादीनां भिन्नत्वादेकस्मिन्वेदे विहितोद्गीथाद्युपास्तयो वेदान्तरस्थोद्गीथादिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति-स्वशाखेति / उद्गीथमुपासीतेति विधिवाक्यस्थोद्गीथत्वासामान्यस्य व्यक्त्यपेक्षत्वास्त्वशाखासंनिहितव्यक्तिग्रह इत्यर्थः / सामान्यश्रुतेः संनिहितव्यक्तिग्रहाख्यसंकोचस्तत्र कर्तव्यो यत्र व्यक्तिमात्रग्रहो नोपपद्यते, यथा शुक्लं गामानयेत्यत्र गोश्रुतेः संनिहितशुक्लव्यक्तिपरतया संकोचः, अत्र नानुपपत्त्यभावाद्व्यक्तिमात्रसंबन्धसामान्यमुपास्यमिति सिद्धान्तयति-एवमित्यादिना
SK
END Bस्Rप्_३,३.३१.५५
SK
START Bस्Rप्_३,३.३१.५६ः
SK
मन्त्रादिवद्वाविरोधः | BBस्_३,३.५६ |
SK
पूर्वं शाखान्तरविहितोपास्तीनां शाखान्तरस्थाङ्गसंबन्धे यः प्रतीतो विरोधस्तमङ्गीकृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखान्तरविहिताङ्गानां शाखान्तरस्थाङ्गिसंबन्धवदुक्तसंबन्धोपपत्तेरित्याह-अथवेत्यादिना / यजुर्वेदिनां कुक्कुटो ऽसीति मन्त्रो ऽस्ति कुटरुरसीति नास्ति तथापि तण्डुलपेषणार्थाश्मादाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सो ऽपि प्राप्नोतीत्यर्थः / सूत्रस्थादिपदोपात्तकर्मणामुदाहरणमाह-येषामिति / मैत्रायणीयानामित्यर्थः / हेमन्तशिशिरयोरैक्यादृतवः पञ्च तद्वत्पञ्चसंख्याकाः प्रयाजाःप्ढ.द.१-समानदेशे / फ्समानत्रतुल्यकर्मस्थले होतव्या इति पञ्चत्वगुणविधानाद्गुणिनः शाखान्तरविहिताः संबध्यन्त इति भावः / गुणमुदाहरति-तथा येषामिति / यजुर्वेदिनामग्नीषोमीयः पशुः श्रुतो नाज इति जातिविशेषस्तथापि प्रैषमन्त्रलिङ्गाज्जातिविशेषसंग्रह इत्यर्थः / मन्त्राणमुदाहरणान्तरमाह-तथेति /
SK
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः / तथेति ऽस जनास इन्द्रऽइत्यनेनोपलक्षितं सूक्तं सजनीयं तस्य याजुषाध्वर्युकर्तृकप्रयोगे शंसनं दृष्टमित्यर्थः / यो जातो बाल एव प्रथमो गुणैः श्रोष्ठो मनस्वान्विवेकवान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः
SK
END Bस्Rप्_३,३.३१.५६
SK
START Bस्Rप्_३,३.३२.५७ः
SK
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति | BBस्_३,३.५७ |
SK
भूम्नः क्रतुवत् /
SK
द्युलोकादिषु प्रत्येकं वैश्वानरत्वोपास्तिर्व्यस्तोपास्तिस्तदवयव्युपास्तिः समस्तोपास्तिरिति भेदः / आख्यायिका पूर्वमेव व्याख्याता / अत्रोभयत्र विधिफलयोः श्रवणादेकवाक्यत्वोपपत्तेश्च संशयमाह-तत्रेति / ऽसैव हि सत्यादयःऽइत्यत्र तद्यत्तत्सत्यमिति प्रकृताकर्षाद्विद्यैक्यमुक्तं तद्वदत्रैक्यहेत्वभावादगतार्थत्वं मत्वा पूर्वत्रोद्गीथादिश्रुत्या संनिधिबाधेनोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारवद्व्यस्तोपास्तीनां विधिश्रुतेः फलश्रवणस्य च समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह-प्रत्यवयवमिति / फलानुक्तौ पूर्वोत्तरपक्षसिद्धिरेव फलं मन्तव्यम् / सुतं खण्डितं सोमद्रव्यं तस्यैव प्रस्तुत्वमासमन्तात् सुतत्वमवस्थाभेदः / सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् / आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्यप्रकरणाभ्यां व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकप्रधानफलतयोपसंहाराद्वाक्यभेदो न युक्त इति सिद्धान्त्याशयः / एकदेशिव्याख्यामनूद्य दूषयति-केचिदिति / यद्युभयथोपासनं सिद्धान्तस्तर्हि व्यस्तोपासमेवेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह-स्पष्टे चेति / कथं तर्हि सूत्रे ज्यायस्त्वोक्तिस्तत्राह-सौत्रस्योति /
SK
व्यस्तोपास्तीनामप्रामाणिकत्वद्योतनार्थं तदुक्तिरिति भावः
SK
END Bस्Rप्_३,३.३२.५७
SK
START Bस्Rप्_३,३.३३.५८ः
SK
नाना शब्दादिभेदात् | BBस्_३,३.५८ |
SK
नाना शब्दादिभेदात् /
SK
शाण्डिल्यादिब्रह्मविद्यैका नाना वा तथा संवर्गादि प्राणविद्यैका नाना वेति रूपैक्यभावाभावाभ्यां संशये दृष्टान्तसंगत्या पूर्वपक्षमाह-पूर्वस्मिन्निति / रूपैक्याच्च विद्यैक्यमित्याह-अपिचेति / विद्यैक्यं चेदेकश्रुत्युक्तविद्यायाः श्रुत्यन्तरे ऽप्युक्तिर्वृथेत्यत आह-श्रुतिनानात्वमपीति / पूर्वपक्षफलमाह-तस्मादिति / सिद्धान्ते तु गुणानुपसंहार इति मत्वा सूत्रं योजयति-वेद्याभेदे ऽपीति / ननु भिन्नभावार्थवाचकशब्दः शब्दान्तरं यथा ऽयजति ददाति जुहोतिऽइति तस्मिञ्शब्दभेदे कर्मशब्दितविध्यर्थभावानाया भेदो युक्तस्तस्याः कृतानुबन्धत्वाद्भेदेन स्वीकृतविषयत्वाद्भावार्थभेदादिति यावत् / प्रकृते तु वेदोपासीतेत्यादिशब्दार्थोपास्तेर्यागदानहोमवत्स्वतो भेदाभावात्सिद्धगुणकब्रह्मणा एकत्वेन विषयतो ऽपि भेदाभावात्कथमुपास्तिभेद इति शङ्कते-नन्विति / अत्र सूत्रे शब्दभेदो ऽभ्युच्चयमात्रतयोक्तः, विद्यानानात्वे सम्यग्घेतवस्त्वादिपदोपात्ता गुणादय एव / तथाहि सिद्धस्यापि गुणस्य कार्यान्वयितया कार्यत्वमस्ति / यथा आरुण्यादिगुणानां क्रयणभावनान्वयितया कार्यत्वं तथाच तत्तत्प्रकरणेषूत्पत्तिशिष्टैरुपास्तिभावनान्वयितया साध्यैस्तत्तद्गुणैर्विशिष्टतयोपास्यरूपाभेदादुपासनाभेदः / यथा छत्रचामरादिगुणभेदेन राजोपास्तिभेदः, यथावामिक्षावाजिनगुणभेदेन यागभेदस्तद्वत् / तथा प्रतिविद्यं फलसंयोगभेदाद्दहरशाण्डिल्यादिसमाख्याभेदाद्भेद इति समाधत्ते-नैष दोष इत्यादिना / यदुक्तं श्रुतिनानात्वं गुणान्तरविध्यर्थमिति तन्नेत्याह-न चात्रैक इति / किञ्च प्राप्तविद्यानुवादेनाप्राप्तानेकगुणविधाने वाक्यभेदः स्यादित्याह-अनेकत्वाच्चेति / किञ्च विद्यैक्यपक्षे गुणानां पुनरुक्तिर्वृथा, नच प्रत्यभिज्ञानार्था ब्रह्मैक्यादेव तत्सिद्धेः, विद्यानानात्वपक्षे तु गुणानामप्राप्तेः सा प्राप्यर्थेत्याह-न चास्मिन्पक्ष इति / फलभेदाच्चोदनैक्याभावात्सर्वगुणध्यानस्याशक्यत्वाच्च विद्या नानेत्याह-प्रतिप्रकरणं चेत्यादिना / दहरध्यातुः सर्वेषु लोकेषु कामचारो भवति वैश्वानरध्याता सर्वत्रान्नमत्तीत्यादिफलभेद इत्यर्थः / ननु विद्यानानात्वे सिद्धे पश्चाद्दहरादिविद्या प्रतिवेदान्तमेकानेका वेति चिन्तोचिता तत्कथमादौ सा कृतेत्यत आह-स्थिते चेति /
SK
विद्यानानात्वाधिकरणं पादादावेव संगतमत्र प्रासङ्गिकमिति भावः
SK
END Bस्Rप्_३,३.३३.५८
SK
START Bस्Rप्_३,३.३४.५९ः
SK
विकल्पो ऽविशिष्टफलत्वात् | BBस्_३,३.५९ |
SK
विकल्पः /
SK
विद्यानां स्वरूपमुक्त्वानुष्ठानप्रकारो ऽत्र निरूप्यत इत्युपजीव्यत्वसंगतिमाह-स्थित इति / विद्यास्त्रिविधाः अहङ्ग्रहास्तटस्था अङ्गाश्रिताश्चेति / तत्राहङ्ग्रहविद्यासु याथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यात्संशयमाह-किमिति / पूर्वपक्षे यथेच्छमनुष्ठानमित्यनियमः सिद्धान्ते विकल्पेनानुष्ठानमिति नियम इति फलभेदः तत्रानियमं साधयति-तत्र स्थितत्वादित्यादिना / एकपुरोडाशफलत्वाद्यथा व्रीहियवयोर्विकल्पस्तथा विकल्पनियम एवासां विद्यानां न्याय्यः, तुल्यफलत्वात् / नच फलभूयस्त्वार्थिनः काम्यकर्मसमुच्चयो ऽपि दृष्ट इति वाच्यम्, ईश्वरसाक्षात्कारात्परं फलभेदे ऽप्यासामहङ्ग्रहोपास्तीनां साक्षात्कारात्मकफलस्य तुल्यत्वात्, तस्य चैकयाकृतत्वे अन्यस्याः कृत्याभावाच्चित्तविक्षेपकतया तद्विघातकत्वाच्चेति सिद्धान्तभाष्यार्थः / मास्तु साक्षात्कार इत्यत आह-साक्षात्करणसाध्यं चेति / यस्य पुंसः, अद्धा ईश्वरो ऽहमिति साक्षात्कारः स्याद्विचिकित्सा च नास्ति अहमीश्वरो न वेति तस्यैवेश्वरप्राप्तिरित्यर्थः / जीवन्नेव भावनया देवत्वं साक्षात्कृत्य देहपातोत्तरकालं देवान्प्राप्नोतीति श्रुत्यन्तरार्थः /
SK
अहङ्ग्रहाणामनुष्ठानप्रकारमुपसंहरति-तस्मादिति
SK
END Bस्Rप्_३,३.३४.५९
SK
START Bस्Rप्_३,३.३५.६०ः
SK
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् | BBस्_३,३.६० |
SK
काम्यास्तु /
SK
तटस्थोपास्तयो ऽत्र विषयस्तासु किं विकल्प उत यथाकाममनुष्ठानमिति पूर्ववत्संशये सत्युपास्तित्वाविशेषादहङ्ग्रहवद्विकल्प इति प्राप्तावपवादं सिद्धान्तयति-अविशिष्टेति /
SK
स यः कश्चिदेतं वायुमेवं गोत्वेन कल्पितानां दिशां वत्सं वेदोपास्ते नासौ पुत्रमरणनिमित्तं रोदनं रोदिति लभते नित्यमेव जीवत्पुत्रो भवतीत्यर्थः / अहङ्ग्रहदृष्टान्ते साक्षात्कारद्वारत्वमुपाधिरिति भावः
SK
END Bस्Rप्_३,३.३५.६०
SK
START Bस्Rप्_३,३.३६.६१ः
SK
अङ्गेषु यथाश्रयभावः | BBस्_३,३.६१ |
SK
संप्रत्यङ्गावबद्धोपास्तीनामनुष्ठानक्रमं वक्तुं पूर्वपयति-अङ्गेष्विति / अङ्गाश्रितत्वात्सफलत्वाच्च संशयमाह-किमिति /
SK
यथा क्रत्वनुष्ठाने तदाश्रिताङ्गानां समुच्चित्यानुष्ठाननियमस्तथाङ्गानुष्ठाने तदाश्रितोपास्तीनां तन्नियम इति सूत्रार्थः / ननु तन्निर्धारणानियम इत्यत्राङ्गाश्रितानां गोदोहनवदनङ्गत्वमुक्तं तत्कथमनङ्गानामङ्गवत्समुच्चयशङ्केत्युच्यते / अङ्गान्यनुष्ठापयन्प्रयोगविधिर्यद्युपासनानि नानुष्ठापयेत्तर्हि तेषां तदाश्रितत्वं व्यर्थमिति मन्वानस्य शङ्केति भावः
SK
END Bस्Rप्_३,३.३६.६१
SK
START Bस्Rप्_३,३.३६.६२ः
SK
शिष्टेश् च | BBस्_३,३.६२ |
SK
तर्हि गोदोहनस्यापि समुच्चयः स्यादित्यत आह-शिष्टेश्चेति /
SK
शिष्टिः शासनं विधानमिति यावत् / विहितत्वाविशेषात्समुच्चयो ऽङ्गत्वादित्यर्थः / गोदोहनस्य तु नानुष्ठाननियमः, चमसस्थाने विहितत्वात्तन्नियमे चमसविधिवैयर्थ्यात् / उपासनानां तु न कस्यचिदङ्गस्य स्थाने विहितत्वमिति समुच्चयनियमो न विरुध्यत इति भावः
SK
END Bस्Rप्_३,३.३६.६२
SK
START Bस्Rप्_३,३.३६.६३ः
SK
समाहारात् | BBस्_३,३.६३ |
SK
समुच्चये लिङ्गम्-समाहारादिति / ऽऋग्वेदिनां यः प्रणवः स सामवेदिनामुद्गीथःऽइति छान्दोग्ये प्राणवोद्गीथयोरैक्यध्यानविधिरस्ति, तस्य फलार्थवादो होतृषदनादित्यादिः / होतुः शंसनस्थलवाचिना होतृषदनशब्देन शंसनं लक्ष्यते-उद्गाता स्वरादिप्रमादाद्दुष्टमप्युद्गीथं सम्यक्कृताद्धोतृशंसनादनुसमाहारत्येव निर्देषं करोत्येव किल, शंस्यमानप्रणवेन स्वीयोद्गीथस्यैक्यध्यानबलादित्यर्थः / ततः किं तत्राह-इति ब्रुवन्निति /
SK
सामवेदस्थोद्गीथध्यानस्य ऋग्वेदोक्तप्रणवसंबन्धो यो दृष्टः स एवाङ्गानां सर्ववेदान्तविहितोपास्तिसमुच्चये लिङ्गं प्रणवरूपपदार्थस्योपास्तीनां च वेदान्तरोक्तत्वसादृश्याद्वेदान्तरोक्ताङ्गसंबन्धस्यापि समानत्वादित्यर्थः
SK
END Bस्Rप्_३,३.३६.६३
SK
START Bस्Rप्_३,३.३६.६४ः
SK
गुणसाधारण्यश्रुतेश् च | BBस्_३,३.६४ |
SK
ओङ्कारस्य ध्येयस्य साधारण्यादपि तदाश्रितध्यानानां समुच्चित्यानुष्ठानं गम्यत इति लिङ्गान्तरमाह-गुणेति / तेनोङ्कारेण, वेदत्रयोक्तं कर्म प्रवर्तत इत्यर्थः अन्वयमुखेनोक्तमेवार्थं व्यतिरेकतो ऽपि व्याचष्टे-अथवेति
SK
END Bस्Rप्_३,३.३६.६४
SK
START Bस्Rप्_३,३.३६.६५ः
SK
न वा तत्सहभावाश्रुतेः | BBस्_३,३.६५ |
SK
फलेच्छाया अनियमादुपास्त्यनियम एव युक्तः, अङ्गत्समुच्चयनियमे मानाभावादिति सिद्धान्तयति-न वेति / प्रयोगविधिः खलु साङ्गप्रधानानुष्ठाननियामको न त्वनङ्गानां संग्रहक इत्याह-नेति ब्रूम इति / विमतोपास्तयः क्रतौ न समुच्चित्यानुष्ठोयाः, भिन्नफलत्वाद्गोदोहनवदिति भावः / शिष्टेश्चेत्युक्तं निरस्यति-अयमेवेति / समाहाराद्गुणसाधारण्यश्रुतेश्चेत्युक्तं लिङ्गद्वयमपि मानान्तरप्राप्तस्य द्योतकं न स्वयं साधकमर्थवादस्थत्वादित्याह-परं चेति / गुणसाधारण्यसूत्रस्य द्वितीयां व्याख्यां दूषयति-नचेति / तत्प्रयुक्तत्वाभावे तदाश्रितत्वं कथमित्यत आह-आश्रयेति /
SK
इदमेव तेषां अङ्गाश्रितत्वं यदङ्गाभावे सत्यसत्त्वं न त्वङ्गव्यापकत्वमित्यर्थः
SK
END Bस्Rप्_३,३.३६.६५
SK
START Bस्Rप्_३,३.३६.६६ः
SK
दर्शनाच् च | BBस्_३,३.६६ |
SK
किञ्च विदुषा ब्रह्मणान्येषामृत्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह-दर्शनाच्चेति /
SK
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मण इत्यर्थः
SK
END Bस्Rप्_३,३.३६.६६
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकव्याख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य तृतीयः पादः
SK
// इति तृतीयाध्यायस्य परापरब्रह्मविद्यागुणोपसंहाराख्यस्तृतीयः पादः //
SK
तृतीयाध्याये चतुर्थः पादः /
SK
START Bस्Rप्_३,४.१.१ः
SK
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः | BBस्_३,४.१ |
SK
कर्माङ्गविद्याप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्याह-पुरुषार्थो ऽतः शब्दादिति बादरायणः / पूर्वपादे परापरविद्यानां गुणोपसंहारोक्त्या स्वरूपं निश्चितमस्मिन्पादे तासां कर्मानङ्गतया पुरुषार्थहेतुत्वं निरूप्यते / ततो ऽङ्गाकाङ्क्षायां यज्ञादीनि बहिरङ्गानि शमाद्दीन्यन्तरङ्गानि च निरूप्यन्त इत्येकविद्याविषयत्वं पादयोः संगतिः तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादिविप्रतिपत्त्या संशयमाह-अथेति /
SK
पूर्वपक्षे ज्ञानकर्मणोरङ्गाङ्गित्वेन समुच्चयः / सिद्धान्ते केवलज्ञानान्मुक्तिरिति फलभेदः / ऽय आत्मेतिऽप्रजापत्युक्तब्रह्मविद्यायां लोकादिकं सगुणविद्याफलं मोक्षानन्दे ऽन्तर्भावाभिप्रायेणोक्तमिति मन्तव्यम्
SK
END Bस्Rप्_३,४.१.१
SK
START Bस्Rप्_३,४.१.२ः
SK
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः | BBस्_३,४.२ |
SK
एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति-शेषत्वादिति / सूत्रेर्ऽथवादपदमावर्तनीयम् / ज्ञानात्पुरुषार्थवादोर्ऽथवाद इत्यर्थः / ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मेशेषाश्रयत्वात्प्रोक्षणपर्णमयीत्वादिवदिति भावः / तत्त्वनिर्णयार्थं गुरुशिष्ययोः कथावादो ऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् / अङ्गिफलेनाङ्गभूत आत्मावगतप्रयोजनस्तदाश्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः-यथेति / पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः / वर्म कवचम् / आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते-कथमिति / पूर्वपक्ष्याह-कर्त्रिति / युक्तो ह्यनारभ्याधीतायाः पर्णताया जुहूद्वारेण वाक्यात्क्रत्वङ्गभावो जुह्वाः क्रतुव्याप्यतया क्रतूपस्थापकत्वात्, न तथात्मविज्ञानस्य ऽआत्मा द्रष्टव्यःऽइति वाक्यात्क्रतुसंबन्ध उपपद्यते, आत्मनः क्रतुव्याप्त्यभावादिति सिद्धान्ती दूषयति-नेति / देहभिन्नत्वेन ज्ञातात्मनः क्रतुव्याप्यत्वमस्तीति पूर्वपक्षी समाधत्ते-न व्यतिरेकेति / सर्वथेति / देहात्मत्वेनापीत्यर्थः / देहभिन्नकर्तृज्ञानस्याङ्गत्वे ऽप्यकर्तृब्रह्मात्मज्ञानस्य नाङ्गत्वमिति शङ्कते-नन्वपहतेति / यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचितभोक्तृभिन्नमकर्तृस्वरूपं नास्तीति समाध्यर्थः / जन्मादिसूत्रमारभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते-नन्विति / स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्वर्थत्वपुरुषार्थत्वविचारेण दार्ढ्यं क्रियत इत्याह-सत्यमिति
SK
END Bस्Rप्_३,४.१.२
SK
START Bस्Rप्_३,४.१.३ः
SK
आचारदर्शनात् | BBस्_३,४.३ |
SK
ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह-आचारेति / ईजे यागं कृतवानित्यर्थः / हे भगवन्त इति ब्राह्मणान्संबोध्य ब्रह्मवित्कैकेयराजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणो ऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः / अन्यपरेष्विति विद्याविधिपरेष्वित्यर्थः / अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह-अक्व इति / समीप इत्यर्थः //
SK
अर्क इति पाठे ऽप्ययमेवार्थः
SK
END Bस्Rप्_३,४.१.३
SK
START Bस्Rप्_३,४.१.४ः
SK
तच्छ्रुतेः | BBस्_३,४.४ |
SK
ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुतिरप्यस्तीत्याह-तच्छ्रुतेरिति
SK
END Bस्Rप्_३,४.१.४
SK
START Bस्Rप्_३,४.१.५ः
SK
समन्वारम्भणात् | BBस्_३,४.५ |
SK
लिङ्गान्तरमाह-समिति /
SK
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः
SK
END Bस्Rप्_३,४.१.५
SK
START Bस्Rप्_३,४.१.६ः
SK
तद्वतो विधानात् | BBस्_३,४.६ |
SK
गुरोः शुश्रूषारूपं कर्म कुर्वन्नतिशेषेणावशिष्टेन कालेन यथाविधानं वेदमधीत्यानन्तरमाचार्यस्य कुलाद्गृहात् / ब्रह्मचर्यादिति यावत् / अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्नन्यांश्च नित्यादिधर्माननुतिष्ठन्ब्रह्मलोकं प्राप्नोतीति श्रुत्यर्थः / यथावघातस्तुषविमोकपर्यन्त एवमध्ययनमर्थावबोधान्तम् / दृष्टेर्ऽथावबोधाख्ये फले संभवति अध्ययनस्यादृष्टार्थत्वायोगादिति पूर्वतन्त्रे स्थितम् / ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्मविधानमित्यर्थः
SK
END Bस्Rप्_३,४.१.६
SK
START Bस्Rप्_३,४.१.७ः
SK
नियमाच् च | BBस्_३,४.७ |
SK
यावज्जीवं कर्मनियमो ऽप्यत्र लिङ्गमित्याह-नियमाच्चेति /
SK
इह देहे कर्माणि कुर्वन्नेव शतं संवत्सराञ्जीवितुमिच्छेदेवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते / इतः कर्मणो ऽन्यथा नास्ति / कर्म विना श्रेयो नास्तीत्यर्थः / जरामर्यं जरामरणावधिकमित्यर्थः
SK
END Bस्Rप्_३,४.१.७
SK
START Bस्Rप्_३,४.१.८ः
SK
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् | BBस्_३,४.८ |
SK
कर्तुरधिकस्यासंसार्यात्मनः कर्मशेषत्वाभावात्तत्त्वज्ञानं कर्माङ्गं नेति सिद्धान्तयति-अधिकेति / अस्य महत इति वाक्यशेषात्प्रियसंसूचित आत्मा पर एव द्रष्टव्यः / यः प्राणादि प्रेरयति सो ऽप्यशनायाद्यत्ययवाक्यशेषात्पर एव / तथाक्षिपुरुषो ऽप्यवस्थासाक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः जीवानुकर्षणमभेदाभिप्रायमित्यङ्गीकारे न विरोध इति कथम्, अभेदे जीवत्वविरोधादित्यत आह-पारमेश्वरमिति /
SK
ज्ञानं कर्माङ्गमफलत्वे सति कर्मशेषाश्रयत्वादित्युक्तो हेतुरसिद्ध इति भावः
SK
END Bस्Rप्_३,४.१.८
SK
START Bस्Rप्_३,४.१.९-१०ः
SK
तुल्यं तु दर्शनम् | BBस्_३,४.९ |
SK
असार्वत्रिकी | BBस्_३,४.१० |
SK
ब्रह्मविदां कर्मवत्संन्यासस्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोकसंग्रहार्थत्वेनान्यथासिद्धमित्याह-तुल्यं त्विति / किञ्च यस्य कर्म स न ब्रह्मविदित्याह-अपिचेति / तर्हि वैश्वानरविद्यायाः कर्माङ्गत्वं स्यादित्यत आह-नत्विति / ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभिमानाभावेनानधिकारित्वादिति भावः //९
SK
END Bस्Rप्_३,४.१.९-१०
SK
START Bस्Rप्_३,४.१.११ः
SK
विभागः शतवत् | BBस्_३,४.११ |
SK
समन्वारम्भवचनस्य मुमुक्षुविषयत्वमङ्गीकृत्य विद्या अन्यं मुमुक्षुं मुक्तत्वेनान्वारभत इति विभाग उक्तः सूत्रकृताः वस्तुतस्तु तन्नास्तीत्याह-नचेदं समन्वारम्भवचनमिति / तत्र संसारिविषये तं विद्येत्यादिवाक्ये यथाप्राप्तानुवादिनि विद्यादिपदार्थमाह-तत्रेति /
SK
विहितोद्गीथादिविद्या प्रतिषिद्धा नग्निस्त्रीध्यानादिरूपा
SK
END Bस्Rप्_३,४.१.११
SK
START Bस्Rप्_३,४.१.१२-१३ः
SK
अध्ययनमात्रवतः | BBस्_३,४.१२ |
SK
नाविशेषात् | BBस्_३,४.१३ |
SK
यच्चैतदिति /
SK
उक्तमिति शेषः अविद्यत्वाद्वेदार्थज्ञानशून्यत्वादित्यर्थः / मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह-नैष दोष इति //१२
SK
END Bस्Rप्_३,४.१.१२-१३
SK
START Bस्Rप्_३,४.१.१४ः
SK
स्तुतये ऽनुमतिर्वा | BBस्_३,४.१४ |
SK
नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह-स्तुतय इति /
SK
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् / यतः कर्म न लिप्यते / अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः
SK
END Bस्Rप्_३,४.१.१४
SK
START Bस्Rप्_३,४.१.१५ः
SK
कामकारेण चैके | BBस्_३,४.१५ |
SK
स्वेच्छातः कर्मसाधनप्रजादित्यालिङ्गाच्च विद्या स्वतन्त्रफलेत्याह-कामेति / तदेतद्ब्रह्म येषां नो ऽस्माकं अयमपरोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः / नन्वयं लोक इति ज्ञानफलस्य प्रत्यक्षत्वोक्तिरयुक्ता कर्मफलवददृष्टत्वादित्यत आह-अनुभवेति
SK
END Bस्Rप्_३,४.१.१५
SK
START Bस्Rप्_३,४.१.१६ः
SK
उपमर्दं च | BBस्_३,४.१६ |
SK
न केवलमनुपयोगाज्ज्ञानस्य कर्मानङ्गत्वं किन्तु कर्मनाशकत्वाच्चेत्याह-उपमर्दं चेति
SK
END Bस्Rप्_३,४.१.१६
SK
START Bस्Rप्_३,४.१.१७ः
SK
ऊर्ध्वरेतस्सु च शब्दे हि | BBस्_३,४.१७ |
SK
किञ्च कर्मतत्त्वज्ञाने नाङ्गाङ्गिभूते भिन्नाधिकारिस्थत्वाद्राजसूयबृहस्पतिसववदित्याह-ऊर्ध्वेति / त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः / ऽब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणःऽइति श्रुतेः / ऽऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् / अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधःऽइति स्मृतेश्च प्राप्तगार्हस्थ्यस्यैव निरस्तर्णत्रयस्य पारिव्राज्यमित्यपि शङ्का न कार्या / ब्रह्मचर्यादेव प्रव्रजेदिति द्वितीयमाश्रममिच्छेत्तमावसेदिति च विधिश्रुतिस्मृतिविरोधेन अर्थवादश्रुतिस्मृत्योरविरक्तविषयत्वागमादित्याह-प्रतिपन्नेति /
SK
तस्मादि ति संन्यासनिष्ठत्वादित्यर्थः
SK
END Bस्Rप्_३,४.१.१७
SK
START Bस्Rप्_३,४.२.१८ः
SK
परामर्शं जैमिनिरचोदनाच्चापवदति हि | BBस्_३,४.१८ |
SK
संन्यासो नास्तीत्याक्षिपति-परामर्शं जैमिनिरिति / ऊर्ध्वरेतः शब्दितं पारिव्राज्यमनुष्ठेयं न वेति मानभ्रान्तिमूलत्वाभ्यां संदेहे भ्रान्तिमूलत्वान्नानुष्ठेयमित्याह-त्रय इति /
SK
आश्रमाणामवान्तरभेदापेक्षया बहुवचनम् / तथाच काण्वायनस्मृतिरर्थतो ऽनुक्रम्यते / गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारीचतुर्विधः / तत्रोपनयनादूर्ध्वं यस्त्रिरात्रमक्षारालवणाशी गायत्रीमधीते स गायत्रः / यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः / ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेदव्रतकृद्वटुर्वा प्राजापत्यः / आमरणं गुरुकुलवासी नैष्ठिको बृहन्नित्युच्यते / गृहस्थो ऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोरसंन्यसिकश्चेति / तत्र कृषिगोरक्षादिकया वैश्यादिवृत्त्या जीवन्नित्यादिक्रियापरो वार्ताकवृत्तिः / यायावरस्त्वयाचितवृत्तिर्याजनाध्यापनप्रतिग्रहविमुखः / शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी / उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्प्रत्यहं कृतोञ्छवृत्तिर्ग्रामवासी घोरसंन्यसिक इत्युच्यते, हिंसाविमुखत्वात् / वानप्रस्थो ऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति / तत्राकृष्टपच्यौषधीभिर्ग्रामबहिष्कृताभिरग्निहोत्रादिकुर्वन्वैखानस उच्यते / यस्तु प्रातरुथाय यां दिशं पश्यति तत्रत्यौदुम्बरबदरीनीवारश्यामाकैः कर्मपरः स औदुम्बरः / यस्तु जटावल्कलधारी अष्टौ प्रातसान्वृत्त्युपार्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः / फेनपास्तु शीर्णपर्णफलवृत्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति / तथा परिव्राजाकाश्चतुर्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति / तत्र स्वपुत्रगृहे भिक्षां चरन्तस्त्रिदण्डिनः कुटीचकाः / बहूदकास्तु त्रिदण्डिनः शिक्यजलपवित्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारास्तीर्थान्यटन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते /
SK
हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्यकमण्डलुपाणयः ग्रामैकरात्रवासिनः कृच्छ्रचान्द्रायणपराः / परमहंसास्त्वेकदण्डधरा मुण्डा अयज्ञोपवीतिनः त्यक्तसर्वकर्माण आत्मनिष्ठा इति / अत्र पूर्वपक्षे संन्यासाभावाञ्ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः सिद्धान्ते तद्भावात्तत्सिद्धिरिति फलभेदः / स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः / स्कन्धश्रुतावाश्रमा न विधीयन्ते किन्तु ब्रह्मसंस्थतास्तुर्थमनूद्यन्त इत्युक्ते शङ्कते-ननु परामर्शे ऽपीति / अनुवादापेक्षितपुरोवादात्प्रतीतिमङ्गीकरोति-सत्यमिति / प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादो ऽस्तु नानुवाद इत्यत आह-स्मृतीति / तयोरपि इयमेव श्रुतिर्मूलमस्तु / कॢप्तश्रुतौ विधिमात्रकल्पनालाघवात् / अस्या अनुवादत्वे तु मूलत्वेन साग्निकानग्निकाश्रमश्रुतिस्तत्र विधिश्चेति द्वयकल्पनागौरवादित्यत आह-अतश्चेति / स्मार्तत्वादाश्रमाः प्रत्यक्षयावज्जीवकर्मविधिश्रुत्यविरुद्धा ग्राह्याः / विरुद्धास्त्वनग्निकाश्रमा उपेक्ष्याः कर्मानधिकृतैरन्धादिभिर्वा अनुष्ठेया इत्यर्थः / यावज्जीवश्रुतिविरोधाल्लाघवं त्याज्यमिति भावः / स्कन्धश्रुतावनुवाद्यत्वाविशेषाद्गार्हस्थ्यवदितरेषामनुष्ठेयत्वमाशङ्क्य तस्य श्रौतत्वादनुष्ठानं नेतरेषामश्रौतत्वादतो ब्रह्मसंस्थतास्तुतिपरमिदं स्कन्धवाक्यमित्याह-नन्वित्यादिना / तन्तुं संततिम् / तथा ये चेति / ते ऽर्चिषमभिसंभवन्तीति वाक्यशेषादित्यर्थः / स्कन्धशब्दस्य आश्रमेष्वरूढत्वाच्चात्र नाश्रमिविधिरित्याह-संदिग्धं चेति / तर्हि प्रव्रजन्तीत्याश्रमविधिरीत्यत आह-तथैतमिति / आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुतिर्वर्तमानापदेशादित्यर्थः / संप्रति पूर्वपक्षमाक्षिप्येयं श्रुतिर्नास्तीतिकृत्वा चिन्त्यत इत्याह-नन्वित्यादिना
SK
END Bस्Rप्_३,४.२.१८
SK
START Bस्Rप्_३,४.२.१९ः
SK
अनुष्ठेयं बादरायणः साम्यश्रुतेः | BBस्_३,४.१९ |
SK
स्कन्धश्रुतावितराश्रमाः श्रुत्यन्तरविहिता अनूद्यन्ते एतद्वाक्यानुवाद्यत्वाद्गार्हस्थ्यवदिति सिद्धान्तयति-अनुष्ठेयमिति / अनुवादस्य क्वचिद्विधिपूर्वकत्वे दृष्टान्तमाह-यथाचेति / निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते / तत्स्तुतये द्वयमनूद्यते / मानुषक्रियासु देहार्धवस्त्रबन्धनाख्यनिवीतस्य सौकर्यार्ततया प्राप्तत्वात् पित्र्ये कर्मणि प्राचीनावीतस्यापि विध्यन्तरप्राप्तत्वादित्यर्थः / वाक्यान्तरे च साक्षादेव पारिव्राज्यविधिर्विधेयैः साहित्यादित्याह-तथैतमेवेति / अस्येति पारिव्राज्योक्तिः / विधेयवेदानुवचनादिसाहित्यात्पारिव्राज्यस्य विधेयतेत्यर्थः / वाक्यान्तरे ऽपि साम्यश्रुतिमाह-य चेति / अस्येति वानप्रस्थोक्तिः / विधेयपञ्चाग्निविद्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः / श्रुतत्रित्वान्यथानुपपत्त्या स्कन्धशब्दस्य आश्रमपरत्वनिश्चय इत्याह-यत्तूक्तमित्यादिना /
SK
उत्पत्तिभिन्ना इति /
SK
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः
SK
END Bस्Rप्_३,४.२.१९
SK
START Bस्Rप्_३,४.२.२०ः
SK
विधिर् वा धारणवत् | BBस्_३,४.२० |
SK
स्कन्धश्रुतेरनुवादकत्वमङ्गीकृत्य विध्यन्तरकल्पनेनाश्रमा अनुष्ठेया इत्युक्तम् / इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह-विधिर्वेति / यावज्जीवादिश्रुतेरविरक्तविषयत्वान्न लाघवबाधकत्वमिति भावः / अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतिपरमेकमिदं वाक्यं भाति / तत्राश्रमविधिचतुष्टयमयुक्तमिति शङ्कते-नन्विति / आश्रमाणां विध्यन्तरप्राप्त्यभावादनुवादायोगात् / स्तुतिलक्षणादोषाच्च वरं विस्पष्टाश्रमविधिभेदकल्पनमपूर्वत्वादित्याह-सत्यमित्यादिना / प्रतीतैकवाक्यत्वभङ्गेन भेदकल्पने दृष्टान्तमाह-धारणवदिति / महापितृयज्ञे प्रेताग्निहोत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हविषः ऽअधस्तात्समिधं धारयन्ननुद्रवेत्ऽइति विहिताधोधारणस्तावकतयोपरि हीत्यस्यैकवाक्यत्वभाने ऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधिरेवापूर्वत्वादिति वाक्यभेदस्तृतीयाध्याये जैमिन्याचार्येणोक्त इत्यर्थः / एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः / संप्रत्याश्रमत्रयानुवादेन पारिव्राज्यमेकमेव विधीयत इति पक्षान्तरमाह-यदापीत्यादिना / ब्रह्मसंस्थताविधौ कथं पारिव्राज्यविधिरित्याशङ्क्य विचारयति-सा चेति / ननु त्रय इति वाक्य आश्रमचतुष्टयस्याप्राप्तेर्निर्बीजो ऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्वपक्षप्राप्तिमाह-यदिचेति / नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह-अनाश्रमित्वेति / अनाश्रमी न तिष्ठेतेति निषेधादिति भावः / द्वितीये सिद्धान्प्राप्तिमाह-अथेति / एवं परामर्शतदभावाभ्यां संशयमुक्त्वा पूर्वपक्षयति-तत्रेति /
SK
वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् / तेनैकेन तपः शब्देनोभयग्रहणमन्याय्यं भिक्षोस्तपस्वित्वप्रसिद्ध्याभावाच्च //
SK
तथाच यज्ञाद्यसाधारणधर्मद्वारा गृहस्थाद्याश्रमत्रयवद्ब्रह्मसंस्थशब्देनैव ब्रह्मनिष्ठाप्रधानश्चतुर्थाश्रमो गृह्यते / स च स्तुतिसामर्थ्यात् सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति-तदयुक्तमित्यादिना / पृथग्व्यपदेशाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह-अपिचेति / नचावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् / कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञाधिक्यवत्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्मसंस्थानुपपत्तेः / कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्यस्मदिष्टसिद्धिरिति भावः / इममेवार्थं स्पष्टयितुं शङ्कते-कथं पुनरिति / यद्यपि ब्रह्मसंस्थशब्दः संन्यासाश्रमे न रूढस्तथापि योगात्तमेवोपस्थापयति / अन्याश्रमेषु यौगिकार्थासमवायादित्याह-अत्रोच्यत इति / सर्वकर्मत्यागिनः प्रणवार्थब्रह्मनिष्ठातिरेकेणानुष्ठेयं नास्तीत्यत्र मानमाह-तथाचेति / न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह-ब्रह्मा हीति / हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति / ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः / तद्बुद्धये ब्रह्मचित्तास्तदात्मानो ब्रह्मस्वरूपास्तन्निष्ठाः श्रवणादिपरास्तत्परायणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् / एवं ब्रह्मसंस्थशब्दस्य ज्ञानप्रधानाश्रमवाचित्वादमृतत्वकामस्त्वमुमाश्रममनुतिष्ठेदिति विधिः परिणम्यते / अतो न ज्ञानानर्थक्यदोष इत्युपसंहरति-तस्मादिति / संप्रति कृत्वाचिन्तामुद्धाटयति-अनपेक्ष्येति / शिष्यबुद्धिवैशद्यार्थं स्कन्धश्रुतिमादाय चिन्ता कृतेति भावः / यदिवेतरथेति / ब्रह्मचर्ये स्थितस्यैव पूर्वसुकृतपरिपाकाद्वैराग्यं यदि स्यादित्यर्थः / यदुक्तं कर्मानधिकृतान्धादिविषयः संन्यास इति तन्नेत्याह-नचेति / सामान्यश्रुतेः संकोचहेत्वभावादिति भावः / पृथगिति / संन्यासस्येति शेषः / व्रती गोदानादिवेदव्रतवान् / गुरुकुलान्निवृत्तिरूपस्नानानन्तरमकृतगार्हस्थ्यो गुरुसेवी स्नातकः उत्सन्नाग्निर्विधुरः अगृहीताग्निरनग्निकः प्रव्रजेदित्यन्वयः / सकलाङ्गानमेव कथञ्चित्कर्मानधिकृतानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञानप्रधानसंन्यासाधिकार इत्याह-ब्रह्मेति / दृष्टिपूतसंचारश्रवणादिकं विना ज्ञानानुत्पत्तेः / ऽशरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा / कर्णाभ्यां भूरिविश्रुवम्ऽइत्यङ्गसाकल्यप्रार्थनालिङ्गाच्च नान्धपङ्गुमूकबधिरदीनामधिकार इत्यर्थः / तच्चेति / पारिव्राज्यस्य ब्रह्मज्ञानाङ्गत्वं चेत्यर्थः / ब्रह्मभूयाय ब्रह्मसाक्षात्कारायेति यावत्
SK
END Bस्Rप्_३,४.२.२०
SK
START Bस्Rप्_३,४.३.२१ः
SK
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् | BBस्_३,४.२१ |
SK
स्तुतिमात्रं /
SK
पृथिव्यबोषधिपुरुषवागृक्साम्नां सप्तानां रसानां रसतमो ऽष्टम उद्गीथावयव ओङ्कारः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परार्ध्यं इत्यर्थः / आसु श्रुतीष्वङ्गोपादानादपूर्वार्थत्वाच्च संशयमाह-किमिति / यथानुष्ठेयगार्हस्थ्यसाम्यश्रुतेः पारिव्राज्यस्यानुष्ठेयत्वं तद्वदासां श्रुतीनां जुह्वादिस्तुतिश्रुतिसाम्यात्स्तुतित्वमिति पूर्वपक्षयति-स्तुत्यर्था इति / जुहूरियमेव पृथिवीति स्तूयते / चयनस्थः कूर्म आदित्य इति / आहवनीयः स्वर्गलोक इति स्तुतिः / तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः / स्तुतिलक्षणातो वरं विधिकल्पनमनुष्ठानफललाभादिति सिद्धान्तयति-नहि स्तुतीति / पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् / स्तावकत्वेनार्थवत्त्वं किं न स्यादित्यत आह-विधायकस्येति /
SK
युक्तमियमेव जुहूरित्यादिश्रुतीनां फलवज्जुह्वादिविधिप्रकरणस्थतया स्तावकत्वेनार्थवत्त्वं;रसतमादिश्रुतीनां तु क्रत्वङ्गविधिप्रकरणस्थत्वाभावात्फलवदपूर्वोपास्तिविधायकत्वमेव युक्तं क्रत्वन्तरश्रुतिवदिति भावः
SK
END Bस्Rप्_३,४.३.२१
SK
START Bस्Rप्_३,४.३.२२ः
SK
भावशब्दाच् च | BBस्_३,४.२२ |
SK
किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह-भावेति / न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् / विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः / देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह-तथाचेति / एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् / उपपदादिबाधके त्वन्यार्थपरमित्यर्थः / तदिदमाह-लिङादीति / नच श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् / क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् / यद्यपि डुकृञ् करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस् भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः / तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते / तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते / कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता / तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ / कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता / आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् / कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते / तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः / तथा दण्डी भवेत् भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् / तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् / अस्तेर्भूरादेशात् / एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते / धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदे ऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् / एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे-प्रतिप्रकरणं इति /
SK
एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः / एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति / आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः
SK
END Bस्Rप्_३,४.३.२२
SK
START Bस्Rप्_३,४.४.२३ः
SK
पारिप्लवार्था इति चेन् न विशेषितत्वात् | BBस्_३,४.२३ |
SK
पारिप्लवार्थाः /
SK
अश्वमेधे पुत्रादिपरिवृताय राज्ञे पारिप्लवमाचक्षीतेति नानाविधाख्यानकथनात्मकः पारिप्लवप्रयोगो विहितः / तथाच वेदान्तस्थकथानामाख्यानत्वसामान्याद्विद्यासंनिधानाच्च संशयमाह-किमिति / पूर्वं स्तुत्यपेक्षया विझिर्ज्यायाननुष्ठानलाभादित्युक्तम् / तथैव कथानां न विद्यास्तावकत्वं पारिप्लवानुष्ठानलाभादिति पूर्वपक्षः / तत्र फलमाह-ततश्चेति / यथा देवस्य त्वा सवितुरित्यादिमन्त्रे कस्यचित्पदस्य प्रयोगसमवेतार्थतया शेषस्य प्रयोगाङ्गत्वं तथा वेदान्तस्थकथानां प्रयोगशेषत्वम् / तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्याप्राधान्यमित्यर्थः / कथानां गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा संनिहितविद्याशेषत्वं सामर्ध्यलिङ्गादतो विद्याप्राधान्यमिति फलं मत्वा सिद्धान्तयति-तन्नेत्यादिना /
SK
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूयाद्द्वितीये ऽहनि यमो वैवस्वत इति तृतीये ऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशिष्योक्तत्वादुपक्रमस्य संकोचो युक्त इति भावः
SK
END Bस्Rप्_३,४.४.२३
SK
START Bस्Rप्_३,४.५.२४ः
SK
तथा चैकवाक्यतोपबन्धात् | BBस्_३,४.२४ |
SK
क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह-तथाचेति /
SK
प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदत् होमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम्
SK
END Bस्Rप्_३,४.५.२४
SK
START Bस्Rप्_३,४.५.२५ः
SK
अत एव चाग्नीन्धनाद्यनपेक्षा | BBस्_३,४.२५ |
SK
एवमाद्याधिकरणप्रमेयं विद्यास्वातन्त्र्यमधिकरणत्रयेण दृढीकृत्याद्याधिकरणस्य फलमाह-अत एव चेति / ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादिविवादात्संशये तेनैति ब्रह्मवित्पुण्यकृत्तैजस इत्यादिश्रुत्या ज्ञानकर्मसमुच्चयेन मोक्षप्राप्तिकथनादपेक्षत इति प्राप्ते विद्याया मुक्तिहेतुत्वादविद्यानिवृत्त्याख्यमुक्तौ न कर्मापेक्षेति सिद्धान्तयति-पुरुषार्थ इति / अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते / पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्मविद्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुतिर्व्याख्येयेति भावः / मुक्तावेव कर्मणामसामर्थ्यादनपेक्षा विद्यायां त्वस्ति चित्तशुद्धिद्वारा तेषामपेक्षेत्यधिकं वक्तुमयमुपसंहार इत्युपसंहारसूत्रस्य फलमाह-अधिकेति
SK
END Bस्Rप्_३,४.५.२५
SK
START Bस्Rप्_३,४.६.२६ः
SK
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् | BBस्_३,४.२६ |
SK
अधिकमाह-सर्वापेक्षा / यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः / तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः / फलं सिद्धान्ते तत्सिद्धिरिति भेदः / अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते / प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् / नच पारंपर्ये तृतीयाश्रुतिविरोधः / ज्वालाद्वारा पारंपर्ये ऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् / नच शुद्धेर्द्वारत्वे मानाभावः / ऽज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः / कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्ततेऽइति स्मृतेः / ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽइत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति-इदमिति / नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति / तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह-विविदिषासंयोगाच्चेति / इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः / कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह-अथेत्यादिना /
SK
कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते / कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् /
SK
स्पष्टमन्यत्
SK
END Bस्Rप्_३,४.६.२६
SK
START Bस्Rप्_३,४.६.२७ः
SK
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् | BBस्_३,४.२७ |
SK
एवं विद्योत्पत्तौ बहिरङ्गानि कर्माण्युक्त्वान्तरङ्गण्याह-शमेति / विद्यास्तुत्यर्थत्वेनैकवाक्यत्वसंभवे वर्तमानोक्तिभङ्गेन विधिकल्पनमयुक्तं विद्यावाक्याद्भेदप्रसङ्गात् / अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति पराभिप्रायमनूद्याङ्गीकरोति-तथापि त्विति / शमादेरावश्यकत्वान्न शब्दमात्रलभ्या विद्येत्यर्थः यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह-नेति ब्रूम इति / अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमादिविशिष्टश्रवणमत्र विधीयते / यदि तु ऽलोकमिच्छन्तः प्रव्रजन्तिऽ, ऽज्ञानं पुरस्कृत्य संन्यसेत्ऽइत्यादि श्रुतिस्मृतिषु फलवत्त्वेनोत्पन्नसंन्यासस्याङ्गत्वायोगात्, श्रोतव्य इति विहितश्रवणानुवादेनानेकशमादिविधाने वाक्यभेदापातात्, पश्येदिति च प्रकृत्या श्रवणलक्षणादोषाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्रागनुष्ठोयत्वे ऽपि श्रवणवज्ज्ञानार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमादिसमुच्चयविधिरित्यनवद्यम् / यः पूर्वं यज्ञादिश्रुतेः स्तुत्यर्थत्वाङ्गीकारः आपाततो गुडजिह्विकान्यायेन शमादिस्वीकारार्थं कृतस्तमिदानीं त्यजति-यज्ञादीन्यपीति / यज्ञादीनां विद्यासाधनत्वरूपसंयोगस्यापूर्वत्वादवान्तरवाक्यभेदेन विधिः स्वीक्रियत / ब्रह्मविद्यावाक्येन महावाक्यैकवाक्यता चेत्यर्थः / परमप्रकरणे ऽप्यवान्तरविधिरित्यत्र पूर्वतन्त्रसंमतिमाह-तस्मात्पूषेति / दर्शपूर्णमासप्रकरणे श्रुतं पूषा प्रपिष्टभाग इति / तत्र पूषा देवता पिष्टभागो वा दर्शपूर्ममासयोर्नास्ति / अतः समासात्प्रतीतस्य कालत्रयानवमृष्टस्य द्रव्यदेवतासंबन्धस्याविनाभावेन यागविध्युपस्थापकत्वात् प्रयोगज्ञानाय विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः / पौष्णं पेषणमिति सूत्रे विचारितमित्यर्थः / ऽस्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःऽइत्याद्याः स्मृत्यः / कर्मणां ज्ञानहेतुत्वे शमादिवद्यावज्ज्ञानोदयमनुवृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह-तत्रापीति /
SK
दृष्टविक्षेपनिवृत्तिद्वारा शमादीनां शानार्थत्वादनुवृत्तिर्न कर्मणामदृष्टद्वारा ज्ञानार्थत्वादिति भावः
SK
END Bस्Rप्_३,४.६.२७
SK
START Bस्Rप्_३,४.७.२८-२९ः
SK
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् | BBस्_३,४.२८ |
SK
अबाधाच् च | BBस्_३,४.२९ |
SK
सर्वान्नानुमतिःएवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः / जग्धं भक्षितम् / अपूर्वत्वाद्विध्यश्रुतेश्च संशयः / अपूर्वत्वाद्यज्ञादिवद्विधिः कल्प्य इति इति पूर्वपक्षयति-विधिरिति / अत्र भक्ष्याभक्ष्यनियमत्यागस्य विद्याङ्गत्वसिद्धिः फलं सिद्धान्ते तु विद्यास्तुतिरिति विवेकः / न कलञ्जं भक्ष्येदिति शास्त्रं प्राणविद्व्यतिरिक्तविषयम् / यथा ग्राम्यकर्मणि वामदेव्यसामोपासकव्यतिरिक्तविषयं परस्त्रीनिषेधशास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति-नेदमिति / प्राणविद्याविधिसंनिधेरशक्यत्वाच्च स्तुतिरेव न विधिः कल्प्यः निषेधशास्त्रविरोधात् कॢप्तो हि विधिः सामान्यशास्त्रबाधको नतु कल्प्य इति भावः / स्वस्थस्य प्राणविदो न सर्वान्नानुमतिरित्यत्र लिङ्गं वदन् सूत्रं योजयति-तद्दर्शयतीति / मटच्यो रक्तक्षुद्रपक्षिणस्तैर्हतेषु कुरुदेशस्थसस्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छन्निभ्याग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामिखादितानर्धभक्षितान् कुत्सितमाषान् याचयित्वा भक्षितवान् / इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच / अन्नांशे मम आपदस्ति / जलपानं तु स्वेच्छातस्तडागादौ लभ्यत इति माषान् खादित्वावशिष्टाञ्जायायै दत्तवान् / सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ / स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तोत्रादीनाक्षिप्य प्राणादिकां प्रास्तावादिदेवतामुपदीश्य धनं प्राप्य स्थित इति भावः / अत्रोच्छिष्टभक्षणजलत्यागात्मकशिष्टाचारलिङ्गाच्छ्रौतादनापदि विदुषाप्यभक्ष्यं न भक्षणीयमिति सूच्यत इति भावः //२८
SK
END Bस्Rप्_३,४.७.२८-२९
SK
START Bस्Rप्_३,४.७.३०ः
SK
अपि च स्मर्यते | BBस्_३,४.३० |
SK
सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह-तथा मद्यं नित्यं ब्रह्मण इति / वर्जयोदिति शेषः / कुत इत्याशङ्क्य मरणान्तप्रायश्चित्तविधानादित्याह-सुरापस्येति / उष्णामतितप्तां सुरामिति शेषः / इतश्च सा न पेयेत्याह-सुरापा इति
SK
END Bस्Rप्_३,४.७.३०
SK
START Bस्Rप्_३,४.७.३१ः
SK
शब्दश् चातो ऽकामकारे | BBस्_३,४.३१ |
SK
उदाहृतस्मृतीनां मूलश्रुतिमाह-शब्दश्चेति /
SK
कामकारो यथेष्टप्रवृत्तिः सो ऽपि निषेधो ऽपि उपपन्नतरो भवति / न ह वा एवंविदीत्यस्यार्थवादत्वात् / यद्ययमपि विधिः स्यात्तर्हि विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्सुरापाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः
SK
END Bस्Rप्_३,४.७.३१
SK
START Bस्Rप्_३,४.८.३२ः
SK
विहितत्वाच् चाश्रमकर्मापि | BBस्_३,४.३२ |
SK
विहितत्वाच्चाश्रमकर्मापि /
SK
नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह-तत्रेति /
SK
ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् / तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे / सिद्धान्ते तूभयथानुष्ठानं फलम्
SK
END Bस्Rप्_३,४.८.३२
SK
START Bस्Rप्_३,४.८.३३ः
SK
सहकारित्वेन च | BBस्_३,४.३३ |
SK
सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि / तेषां भावस्तत्वं तेनेत्यर्थः / विद्यया सह फलकारित्वं सहकारिपदात्प्राप्तं निरस्यति-नचेदमिति / विद्याया अविहितत्वान्नाङ्गपेक्षास्ति / अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्षस्यासाध्यत्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः / तुल्यबलश्रुतिद्वयेन विनियोगपृथक्त्वं संयोगभेदस्ततो न विरोधः / कामनाया अनित्यत्वे ऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् / सत्यां कामनायां काम्यप्रयोगेनैव नित्यत्वसिद्धेर्न कश्चिद्विरोधः / इदञ्च ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइति सूत्रे चिन्तितम् / यथा ऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति / अतः सति वाक्यद्वये विनियुक्तविनियोगो न विरुध्यत इत्यर्थः
SK
END Bस्Rप्_३,४.८.३३
SK
START Bस्Rप्_३,४.८.३४ः
SK
सर्वथापि त एवोभयलिङ्गात् | BBस्_३,४.३४ |
SK
ननु नित्याग्निहोत्रादिभ्यो भिन्ना एवापूयर्वज्ञादयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनियुक्तविनियोगस्तत्राह-सर्वथापीति / नित्यत्वे काम्यत्वे चेत्यर्थः / कुण्डपायिनामयने मासमग्निहोत्रं जुह्वतीत्याख्यातस्य साध्यहोमवाचित्वात्तदेकार्थकाग्निहोत्रपदस्य व्यवहितसिद्धाग्निहोत्रपरामर्शकत्वायोगान्मासगुणविशिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुबन्तानामाख्यातेनैकार्थत्वाभावात्सिद्धव्यवहितकर्मानुवादकत्वात्तेषामेव कर्मणां ज्ञानार्थत्वविधिरिति भावः / सिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि शुद्धाख्यसंस्कारद्वारा ज्ञानार्थककर्माभेदे लिङ्गमित्याह-यस्यैत इति
SK
END Bस्Rप्_३,४.८.३४
SK
START Bस्Rप्_३,४.८.३५ः
SK
अनभिभवं च दर्शयति | BBस्_३,४.३५ |
SK
ब्रह्मचर्यादिकर्मणां प्रतिबन्धध्वंसद्वारा विद्यार्थत्वे लिङ्गमाह-अनभिभवं चेति
SK
END Bस्Rप्_३,४.८.३५
SK
START Bस्Rप्_३,४.९.३६-३७ः
SK
अन्तरा चापि तु तद्दृष्टेः | BBस्_३,४.३६ |
SK
अपि च स्मर्यते | BBस्_३,४.३७ |
SK
अन्तरा चापि तु तद्दृष्टेः /
SK
अनाश्रमिणां जपादिकर्मसत्त्वान्निन्दितत्वाच्च संशये सति आश्रमकर्मणामेव विद्याहेतुत्वश्रुतेरनाश्रमस्य निन्दितत्वाच्चानधिकार इति पूर्वपक्षः / तत्रानाश्रमकर्मणां विद्याहेतुत्वासिद्धिः / सिद्धान्ते तत्सिद्धिरिति फलम् //३६
SK
END Bस्Rप्_३,४.९.३६-३७
SK
START Bस्Rप्_३,४.९.३८ः
SK
विशेषानुग्रहश् च | BBस्_३,४.३८ |
SK
रैक्वादीनां विद्यावत्त्वलिङ्गस्य जन्मान्तराश्रमकर्मणान्यथासिद्धेरनाश्रमकर्मणो विद्यार्थत्वप्रापकं मानान्तरं वाच्यमिति शङ्कते-ननु लिङ्गमिति / अनाश्रमित्वाविरुद्धानां वर्णमात्रप्राप्तधर्माणां विद्यार्थत्वे मानमाह-तथाचेति / मैत्रो दयावानित्यर्थः / नन्वनाश्रमिणां कर्म भवतु विद्याहेतुस्तथापि तेषां न श्रवणादावधिकारः संन्यासाभावादित्यत आह-दृष्टार्था चेति /
SK
बन्धकाज्ञानध्वस्तिफलकविद्याकामस्य श्रवणे ऽधिकारः / संन्यासो ऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्यनङ्गत्वादिति भावः
SK
END Bस्Rप्_३,४.९.३८
SK
START Bस्Rप्_३,४.९.३९ः
SK
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च | BBस्_३,४.३९ |
SK
तर्ह्याश्रमित्वं वृथेत्यत आह-अतस्त्विति / पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नोतीत्यर्थः //
SK
अत्र पुण्यकृत्त्वलिङ्गादाश्रमित्वं ज्यायः पुण्योपचये शीघ्रं विद्यालाभादनाश्रमस्य निन्दितत्वाच्चेति भावः
SK
END Bस्Rप्_३,४.९.३९
SK
START Bस्Rप्_३,४.१०.४०ः
SK
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः | BBस्_३,४.४० |
SK
तद्भूतस्य तु /
SK
उत्तमाश्रमात्पूर्वाश्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्याहेतुरनाश्रमिकर्मवदिति संगतिः, पूर्वपक्षफलं चैतत् / सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् / रागादिप्राबल्यात्प्रच्युतिनिषेधाच्च प्रच्युतिः प्रामाणिकी न वेति संशयमाहः / सिद्धान्तसूत्रे नियमं व्याचष्टे-तथाहीति / अत्यन्तमिति नैष्ठिकत्वनियमः / अरण्यमित्येकान्तोपलक्षितं पारिव्राज्यं गृह्यते / तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मात्पारिव्राज्यान्न पुनरेयान्न प्रच्यवेदिति उनिषद्रहस्यमित्यर्थः / अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे-यथाचेति / शिष्टाचाराभावमाह-नचैवमिति /
SK
ऽचण्डालाः प्रत्यवसिताःऽइति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः
SK
END Bस्Rप्_३,४.१०.४०
SK
START Bस्Rप्_३,४.११.४१ः
SK
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् | BBस्_३,४.४१ |
SK
नचाधिकारिकम् /
SK
अवकीर्येत व्यभिचरेदित्यर्थः / अवकीर्णं योनौ निषिक्तं रेतो ऽस्यास्तीत्यवकीर्णी / अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उपपातकत्वात्पतनस्मृतेश्च संशयः / प्रच्युतस्य यज्ञादिकं निष्फलमित्युक्तं तद्वत्प्रायश्चित्तमापि निष्फलमिति पूर्वपक्षयति-नेत्युच्यत इति /
SK
अत्र कृतप्रायश्चित्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः / यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः / दारसंबन्धोत्तरकालविहिताधानस्य संप्रत्यप्राप्तकालत्वेनाहवनीयाभावात्तद्वदवकीर्णिनो ब्रह्मचारिणः प्रायश्चित्तपशुर्गर्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्रायश्चित्तमाधिकारिकं तदुपकुर्वाणस्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति
SK
END Bस्Rप्_३,४.११.४१
SK
START Bस्Rप्_३,४.११.४२ः
SK
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम् | BBस्_३,४.४२ |
SK
उपपूर्वमिति /
SK
उपपदं पूर्वं यस्य पातकस्य तदुपपातकमित्यर्थः / ऽप्रायश्चित्तं न पश्यामिऽइति दर्शनाभावस्मृतेः प्रायश्चित्ताभावापरत्वं कल्पयित्वा तन्मूलश्रुतिकल्पनात्प्रागेव कॢप्तसाधारणश्रुत्या प्रायश्चित्तसद्भावसिद्धेः / कल्पनं नोदेति कॢप्तश्रुतिविरोधादिति भावः / प्रायश्चित्तस्य भावाभावसिद्ध्योः समत्वे ऽपि भावप्रसिद्धिः श्रुतिमूलत्वादादर्तव्येत्यत्र संमतिमाह-तदुक्तमिति / यवमयश्चरूरित्यत्र यवशब्दङ्केचिद्दीर्घशूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु / अतः कस्य चरुः कार्य इति संदेहे वृद्धप्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धान्तः-शास्त्रमूला प्रतिपत्तिर्ग्राह्या शास्त्रनिमित्तत्वाद्धर्मादिज्ञानस्य / तथाच ऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोदमानास्तिष्ठन्ति, इति शास्त्रमूलत्वाद्दीर्घशूकप्रयोगस्यैवादर इत्यर्थः / स्मृतेर्गतिमाह-प्रायश्चित्तेति / ब्रह्मचर्यरक्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भगवदत्रिणेत्यर्थः / नैष्ठिकवद्यतिवनस्थयोरपि प्रमादाद्ब्रह्मचर्यभङ्गे प्रायश्चित्तमस्तीत्याह-एवमिति / कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत / यतिस्तु सोमलतावर्जं वर्धयेत् / ऽसर्वपापप्रसक्तो ऽपि ध्यायन्निमिषमच्युतम् / भूयस्तपस्वी भवति पङ्क्तिपावन एव च / उपापातकसङ्घेषु पातकेषु महत्सु च / प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् //
SK
ऽइत्यादिस्वशास्त्रविहितध्यानप्राणायामादिसंस्कारो ऽपि भिक्षुणा कार्य इत्यर्थः /
SK
आदिपदात् ऽमनोवाक्कायजान्दोषानज्ञानोत्थान्प्रमादजान् / सर्वान्दहति योगाग्निस्तूलराशिमिवानलः / नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश / अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः / ऽइत्यादिवाक्यं ग्राह्यम्
SK
END Bस्Rप्_३,४.११.४२
SK
START Bस्Rप्_३,४.१२.४३ः
SK
बहिस् तूभयथापि स्मृतेर् आचाराच् च | BBस्_३,४.४३ |
SK
बहिस्तूभयथापि /
SK
कृतप्रायश्चित्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्धत्वात्साधनमिति प्राप्ते प्रायश्चित्तात्परलोके तेषां शुद्धत्वे ऽप्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति-यद्यूर्ध्वेति /
SK
सुगमं भाष्यम्
SK
END Bस्Rप्_३,४.१२.४३
SK
START Bस्Rप्_३,४.१३.४४ः
SK
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः | BBस्_३,४.४४ |
SK
स्वामिनः फलश्रुतेः /
SK
अङ्गाश्रितोपास्तिषूभयकर्तृकत्वसंभवात्संशयः / यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयस्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्युत्सर्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह-किमिति / अत्र कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यजमानगामिस्वतन्त्रफलाः किमु वाच्यं स्वनिष्ठब्रह्मविद्यायाः स्वातन्त्र्यमिति फलं विवेक्तव्यम् / अतः पादसंगतिः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चप्रकारे साम्नि वृष्टिध्यातुर्वर्षसमृद्धिः फलमिति श्रुत्यर्थः / श्रुतं फलं ऋत्विग्गतं किं न स्यादित्यत आह-तच्चेति / यथासाङ्गक्रत्वधिकृताधिकारत्वाद्गोदोहनस्य फलं क्रत्वधिकारिगतं तद्वदङ्गोपासनस्यापि फलं तद्गतमेवेत्यर्थः / अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह-फलं चेति / यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते-नन्विति /
SK
उद्गानेन साधयतीत्यर्थः / याजमानं फलमित्युत्सर्गस्यासति बाधकवचने सिद्धिरिति समाध्यर्थः / तस्मात्फलभोक्तृत्वादित्यर्थः
SK
END Bस्Rप्_३,४.१३.४४
SK
START Bस्Rप्_३,४.१३.४५-४६ः
SK
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते | BBस्_३,४.४५ |
SK
श्रुतेश्च | BBस्_३,४.४६ |
SK
उपासनमार्त्विज्यं ऋत्विक्कर्तृकमित्यत श्रौतं लिङ्गमाह-तथाचेति / तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यातवान्ध्यात्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः / यजमानेन स्वगामिफलकसाङ्गप्रयोगकरणायर्त्विजां क्रीतत्वात्कर्तृत्वे ऽपि न तत्फलभाक्त्वमुत्सर्गस्य बाधकाभावादित्युक्तत्वात् / क्रयणद्वारा कर्तृत्वभोक्तृत्वसामानाधिकरण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः //४५
SK
END Bस्Rप्_३,४.१३.४५-४६
SK
START Bस्Rप्_३,४.१४.४७ः
SK
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् | BBस्_३,४.४७ |
SK
सहकार्यन्तरविधिः /
SK
यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनो ऽपि ब्राह्मण आपातज्ञानरूपपण्डावान्पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मननेनासंभावनानिरासेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातुमिच्छेदेवं मननश्रवणे कृत्वादानन्तरं मुनिर्निदिध्यासनकृत्स्यादेवममौनं च मौनादन्यद्बाल्यपाण्डित्यद्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञानसामग्रीपौष्कल्यानन्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः / मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः / यथा तं ह बक इत्यादिवाक्यशेषादुद्गीथाद्युपासनस्यार्त्विज्यत्वनिर्णयस्तद्वदथ ब्राह्मण इति विधिहीनवाक्यशेषान्मौनस्याप्यविधेयत्वनिश्चय इति पूर्वपक्षमाह-न विधीयत इति / अत्र ध्यानस्याननुष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् / यदि मौनं पारिव्राज्यं तदा वाक्यान्तरप्राप्तमनूद्यते बाल्यविधिप्रशंसार्थम् / यदि ज्ञानं तदा पाण्डित्यशब्दात्प्राप्तमिति पूर्वपक्षग्रन्थार्थः / मुनिशब्दाद्विज्ञानातिशयः प्रतीयते तस्य ज्ञानमात्रवाचिपाण्डित्यशब्दान्न प्राप्तिः / नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयुज्यमानत्वात् / तस्मादप्राप्तं मौनमपूर्वत्वाद्विधिं कल्प्यतीति सिद्धान्तयति-एवमित्यादिना / आपस्तम्बप्रयोगस्य गतिमाह-इतराश्रमेति / किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह-निर्वेदनीयत्वेति / नच त्रयाणां विधाने वाक्यभेदो दोषः / उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः / कस्येदं ध्यानं विधीयत इत्याह-तद्वत इति / आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः / सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह-नन्वित्यादिना / ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्ये ऽङ्गविधिवदित्याह-विध्यादिवदिति /
SK
प्रधानमारभ्याङ्गपर्यन्तो विधिः / तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः / एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति / विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः
SK
END Bस्Rप्_३,४.१४.४७
SK
START Bस्Rप्_३,४.१४.४८ः
SK
कृत्स्नभावात् तु गृहिणोपसंहारः | BBस्_३,४.४८ |
SK
समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः / आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः
SK
END Bस्Rप्_३,४.१४.४८
SK
START Bस्Rप्_३,४.१४.४९ः
SK
मौनवद् इतरेषाम् अप्य् उपदेशात् | BBस्_३,४.४९ |
SK
संन्यासगार्हस्थ्यद्वयमत्र सूत्रकृतोक्तम् / ततो ऽन्यदाश्रमद्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति-मौनवदिति /
SK
आश्रमद्वयवदित्यर्थः / इतरयोरपीति वाच्ये बहूक्तिरवान्तरभेदमपेक्ष्य / स चास्माभिः प्राग्दर्शितः
SK
END Bस्Rप्_३,४.१४.४९
SK
START Bस्Rप्_३,४.१५.५०ः
SK
अनाविष्कुर्वन्न् अन्वयात् | BBस्_३,४.५० |
SK
अनाविष्कुर्वन्नन्वयात् /
SK
तत्र बाल्ये विषये तद्धितस्य भावार्थत्वासंभवात्कर्मार्थत्वं गृहीत्वा तिष्ठन्मूत्रत्वादिकर्मणो ऽप्ररूढेन्द्रियत्वादिरूपभावशुद्धेश्च बालकर्मत्वाविशेषात्संशयमाह-तत्रेति / पूर्वपक्षे विद्याङ्गत्वेन तिष्ठन्मूत्रत्वादेरप्यनुष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् / पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसिद्धत्वात् ध्यानं विधेयमित्युक्तम्, तद्वद्बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधिग्रहणमित्याह-किं ताविदिति / कामतश्चरणवदनभक्षणानि यस्य स कामचारवादभक्षणस्तस्य भावस्तत्तेत्यर्थः / यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्यविधिबलात्पातित्यशास्त्रमन्यविषयमिति भावः / ऽयस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः / न स तत्पदमाप्नोति संसारं चाधिगच्छतिऽइत्यादि शौचभिक्षादिनियमविधिशास्त्राविरुद्धस्य भावशुद्धाख्यबाल्यस्य विधिसंभवान्न यथेष्टचेष्टाविधिरिति सिद्धान्तयति-एवमिति / प्रधानविरोधित्वाच्च न तद्विधिरित्याह-प्रधानेति /
SK
भावशुद्धेर्विद्योपकारकत्वेनान्वयादनाविष्कुर्वन्भवेदिति बाल्यविध्यर्थ इति सूत्रयोजना
SK
END Bस्Rप्_३,४.१५.५०
SK
START Bस्Rप्_३,४.१६.५१ः
SK
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् | BBस्_३,४.५१ |
SK
ऐहिकमपि संन्यासादिबाल्यान्तं साधनजातमुक्त्वा तत्साध्यविद्याजन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फलसंभवात्संशयमाह-सर्वेत्यादिना / कारीरीष्टिवदैहिकफलत्वनियमः श्रवणादीनामिति पूर्वपक्षमाह-तिन्तावदिति / नन्वामुष्मिकफलकयज्ञादिसाध्यविद्यायाः कथमैहिकत्वनियम इत्यत आह-यज्ञादीन्यपीति / शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षाद्विद्याहेतुषु घटितेषु विद्याविलम्बो न युक्तः / दृश्यते च विलम्बः अतः श्रवणादेर्विद्याहेतुत्वमसिद्धमिति पूर्वपक्षे फलम् / प्रतिबन्धकवशाद्विलम्बे ऽपि हेतुत्वसिद्धिरिति सिद्धान्ते फलं मत्वा चित्रादिवदनियतफलं श्रवणादिकमिति सिद्धान्तयति-एवमिति / ननु प्रारब्धकर्मविशेषेण श्रवणादिफलप्रतिबन्धः किमिति क्रियते श्रवणादिनैव कर्मविपाकप्रतिबन्धः किं न स्यादित्यत आह-उपस्थितविपाकत्वं चेति / देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः / तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह-यानि चेति / विपाचकत्वं पलौन्मुख्यहेतुत्वम् / ननु तर्हि श्रवणादिविपाचकदेशादिकं कीदृशमित्यत आह-शास्त्रमपीति / फलबलाद्देशादिज्ञानमिति भावः / तथापि कर्मणैव श्रवणादिप्रतिबन्धो न वैपरीत्यमित्यत्र को हेतुस्तमाह-साधनेति / प्रतिबन्धकत्वशक्तिरपि फलबलाज्ज्ञातव्येति भावः / प्रतिबन्धकसद्भावे श्रौतं स्मार्तं च लिङ्गमाह-तथाचेत्यादिना /
SK
शृण्वन्तो ऽपि न विद्युरित्युक्तेः प्रतिबन्धसिद्धिः / आत्मनो यथावद्वक्ताप्याश्चर्यः अद्भुतवत् कश्चिदेव भवति / तिष्ठतु लब्धा साक्षात्कारवान्, परोक्षतो ज्ञाताप्याश्चर्यः / कुशलेनाचार्येणानुशिष्टो ऽपीत्यर्थः
SK
END Bस्Rप्_३,४.१६.५१
SK
START Bस्Rप्_३,४.१७.५२ः
SK
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः | BBस्_३,४.५२ |
SK
असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् / सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फले ऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह-एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः / मुक्तिरत्र विषयः / तस्यां विद्यावद्विशेषनियमो ऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह-यथेति / मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् / सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् / किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह-अपिच विद्यासाधनमिति / ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह-तद्धीति / विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः / अन्ये तु सा ब्रह्मानन्येत्याहुः / नच साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् / यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते / यथाच विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावो ऽनर्थरूपा अविद्यैवास्ति / अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् / तथाच विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते / विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् / संप्रति विद्यायामतिशयाङ्गीकार त्यजति-नचेति / एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः / कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह-तस्मादिति / सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः / तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह-नत्विति / वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बे ऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः / किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् /
SK
निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह-विद्याभेदेत्यादिना /
SK
स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः / तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम्
SK
END Bस्Rप्_३,४.१७.५२
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकव्याख्याया भाष्यरत्नप्रभाटीकायां तृतीयस्याध्यायस्य चतुर्थः पादः
SK
// इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचाराख्यश्चतुर्थः पादः //
SK
// इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये साधनाख्यस्तृतीयोध्यायः //
SK
अथ चतुर्थो ऽध्यायः /
SK
यज्ज्ञानाज्जीवतो मुक्तिरुक्रान्तिगतिवर्जिता / लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम्
SK
START Bस्Rप्_४,१.१.१ः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bādarāyaṇa: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya (sa_bAdarAyaNa-brahmasUtra-subcomm.htm).

Source