Scriptural Treatise
Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad)
गौडपादकारिका / आगमशास्त्रम्
SKज्ञानेनाकाशकल्पेन धर्मान् यो गगनोपमान् ज्ञेयाभिन्नेन संबुद्धस् तं वन्दे द्विपदां वरम् //
SKज्ञानेना अकाश-कल्पेन धर्मान् यो गगन-उपमान् ज्ञेय-अभिन्नेन संबुद्धस् तं वन्दे द्वि-पदां वरम् //
SKअस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः अविवादो अविरुद्धश् च देशितस् तं नमाम्य् अहम् //
SKअ-स्पर्श-योगो वै नाम सर्व-सत्त्व-सुखो हितः अ-विवादो अ-विरुद्धश् च देशितस् तं नमाम्य् अहम् //
SKभूतस्य जातिम् इच्छन्ति वादिनः केचिद् एव हि अभूतस्यापरे धीरा विवदन्तः परस्परम् //
SKभूतस्य जातिम् इच्छन्ति वादिनः के-चिद् एव हि अ-भूतस्य अपरे धीरा विवदन्तः परस्-परम् //
SKभूतं न जायते किंचिद् अभूतं नैव जायते विवदन्तो (द्वया [B:]अद्वया) ह्य् एवम् अजातिं ख्यापयन्ति ते //
SKभूतं न जायते किं-चिद् अ-भूतं न एव जायते विवदन्तो (द्वया [B:]अ-द्वया) ह्य् एवम् अ-जातिं ख्यापयन्ति ते //
SKख्याप्यमानाम् अजातिं तैर् अनुमोदामहे वयम् विवदामो न तैः सार्धम् अविवादं निबोधत //
SKख्याप्यमानाम् अ-जातिं तैर् अनुमोदामहे वयम् विवदामो न तैः स-अर्धम् अ-विवादं निबोधत //
SKअजातस्यैव धर्मस्य जातिम् इच्छन्ति वादिनः अजातो ह्य् अमृतो धर्मो मर्त्यतां कथम् एष्यति //
SKअ-जातस्य एव धर्मस्य जातिम् इच्छन्ति वादिनः अ-जातो ह्य् अ-मृतो धर्मो मर्त्यतां कथम् एष्यति //
SKन भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति //
SKन भवत्य् अ-मृतं मर्त्यं न मर्त्यम् अ-मृतं तथा प्रकृतेर् अन्यथा-भावो न कथं-चिद् भविष्यति //
SKस्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः //
SKस्व-भावेन अ-मृतो यस्य धर्मो गच्छति मर्त्यताम् कृतकेन अ-मृतस् तस्य कथं स्थास्यति निश्-चलः //
SKसांसिद्धिकी स्वाभाविकी (सहजा [B:]सहजाप्य्) अकृता च या प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या //
SKसांसिद्धिकी स्वाभाविकी (सह-जा [B:]सह-ज आप्य्) अ-कृता च या प्रकृतिः स ईति विज्ञेया स्व-भावं न जहाति या //
SKजरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः जरामरणम् इच्छन्तश् च्यवन्ते तन्मनीषया //
SKजरा-मरण-निर्मुक्ताः सर्वे धर्माः स्व-भावतः जरा-मरणम् इच्छन्तश् च्यवन्ते तन्-मनीषया //
SKकारणं यस्य वै कार्यं कारणं तस्य जायते जायमानं कथम् अजं भिन्नं नित्यं कथं च तत् //
SKकारणं यस्य वै कार्यं कारणं तस्य जायते जायमानं कथम् अ-जं भिन्नं नित्यं कथं च तत् //
SKकारणाद् (यद्य् [B:]यद्) अनन्यत्वम् अतः कार्यम् अजं (तव [B:]यदि) जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम् //
SKकारणाद् (यद्य् [B:]यद्) अन्-अन्यत्वम् अतः कार्यम् अ-जं (तव [B:]यदि) जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम् //
SKअजाद् वै जायते यस्य दृष्टान्तस् तस्य नास्ति वै जाताच् च जायमानस्य (न व्यवस्था [B:]नव्यवस्था) प्रसज्यते //
SKअ-जाद् वै जायते यस्य दृष्ट-अन्तस् तस्य न अस्ति वै जाताच् च जायमानस्य (न व्यवस्था [B:]न-व्यवस्था) प्रसज्यते //
SKहेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते //
SKहेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च हेतोः फलस्य च अन्-आदिः कथं तैर् उपवर्ण्यते //
SKहेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा //
SKहेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा //
SKसंभवे हेतुफलयोर् एषितव्यः क्रमस् त्वया युगपत् संभवे यस्माद् असंबन्धो विषाणवत् //
SKसंभवे हेतु-फलयोर् एषितव्यः क्रमस् त्वया युग-पत् संभवे यस्माद् अ-संबन्धो विषाणवत् //
SKफलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति //
SKफलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति अ-प्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति //
SKयदि हेतोः फलात् सिद्धिः फलसिद्धिश् च हेतुतः कतरत् (पूर्वनिष्पन्नं [B:]पूर्वम् उत्पन्नं) यस्य सिद्धिर् अपेक्षया //
SKयदि हेतोः फलात् सिद्धिः फल-सिद्धिश् च हेतुतः कतरत् (पूर्व-निष्पन्नं [B:]पूर्वम् उत्पन्नं) यस्य सिद्धिर् अपेक्षया //
SKअशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता //
SKअ-शक्तिर् अ-परिज्ञानं क्रम-कोपो ऽथ वा पुनः एवं हि सर्वथा बुद्धैर् अ-जातिः परिदीपिता //
SKबीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि (सः [B:]नः) न (हि [B:]च) साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते //
SKबीज-अङ्कुर-आख्यो दृष्ट-अन्तः सदा साध्य-समो हि (सः [B:]नः) न (हि [B:]च) साध्य-समो हेतुः सिद्धौ साध्यस्य युज्यते //
SKपूर्वापरापरिज्ञानम् अजातेः परिदीपकम् जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते //
SKपूर्व-अपर-अ-परिज्ञानम् अ-जातेः परिदीपकम् जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते //
SKस्वतो वा परतो वापि न किंचिद् वस्तु जायते सद् असत् सदसद् वापि न किंचिद् वस्तु जायते //
SKस्वतो वा परतो व आपि न किं-चिद् वस्तु जायते सद् अ-सत् सद्-अ-सद् व आपि न किं-चिद् वस्तु जायते //
SKहेतुर् न जायते (अनादेः [B:]अनादिः) फलं (चापि [B:]वापि) स्वभावतः आदिर् न विद्यते यस्य तस्य (ह्य् आदिर् [B:]जातिर्) न विद्यते //
SKहेतुर् न जायते (अन्-आदेः [B:]अन्-आदिः) फलं (च अपि [B:]व आपि) स्व-भावतः आदिर् न विद्यते यस्य तस्य (ह्य् आदिर् [B:]जातिर्) न विद्यते //
SKप्रज्ञप्तेः सनिमित्तत्वम् अन्यथा द्वयनाशतः संक्लेशस्योपलब्धेश् च परतन्त्रास्तिता मता //
SKप्रज्ञप्तेः स-निमित्तत्वम् अन्यथा द्वय-नाशतः संक्लेशस्य उपलब्धेश् च पर-तन्त्र-अस्तिता मता //
SKप्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात् निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात् //
SKप्रज्ञप्तेः स-निमित्तत्वम् इष्यते युक्ति-दर्शनात् निमित्तस्य अ-निमित्तत्वम् इष्यते भूत-दर्शनात् //
SKचित्तं न संस्पृशत्य् अर्थं नार्थाभासं तथैव च अभूतो हि यतश् चार्थो नार्थाभासस् ततः पृथक् //
SKचित्तं न संस्पृशत्य् अर्थं न अर्थ-आभासं तथ ऐव च अ-भूतो हि यतश् च अर्थो न अर्थ-आभासस् ततः पृथक् //
SKनिमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु अनिमित्तो विपर्यासः कथं तस्य भविष्यति //
SKनिमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु अ-निमित्तो विपर्यासः कथं तस्य भविष्यति //
SKतस्मान् न जायते चित्तं चित्तदृश्यं न जायते तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् //
SKतस्मान् न जायते चित्तं चित्त-दृश्यं न जायते तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् //
SKअजातं जायते यस्माद् अजातिः प्रकृतिस् ततः प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति //
SKअ-जातं जायते यस्माद् अ-जातिः प्रकृतिस् ततः प्रकृतेर् अन्यथा-भावो न कथं-चिद् भविष्यति //
SKअनादेर् अन्तवत्त्वं च संसारस्य न सेत्स्यते अनन्तता चादिमतो मोक्षस्य न भविष्यति //
SKअन्-आदेर् अन्तवत्त्वं च संसारस्य न सेत्स्यते अन्-अन्तता चा अदिमतो मोक्षस्य न भविष्यति //
SKआदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः //
SKआदाव् अन्ते च यन् न अस्ति वर्तमाने ऽपि तत् तथा वि-तथैः स-दृशाः सन्तो अ-वि-तथा इव लक्षिताः //
SKसप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः //
SKस-प्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) तस्माद् आद्य्-अन्तवत्त्वेन मिथ्य ऐव खलु ते स्मृताः //
SKसर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् संवृते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः //
SKसर्वे धर्मा मृषा स्वप्ने कायस्य अन्तर्-निदर्शनात् संवृते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः //
SKन युक्तं दर्शनं गत्वा कालस्यानियमाद् गतौ प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते //
SKन युक्तं दर्शनं गत्वा कालस्य अ-नियमाद् गतौ प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते //
SKमित्राद्यैः सह संमन्त्र्य (संबुद्धो [B:]प्रबुद्धो) न प्रपद्यते गृहीतं चापि यत् किंचित् प्रतिबुद्धो न पश्यति //
SKमित्र-आद्यैः सह संमन्त्र्य (संबुद्धो [B:]प्रबुद्धो) न प्रपद्यते गृहीतं च अपि यत् किं-चित् प्रतिबुद्धो न पश्यति //
SKस्वप्ने चावस्तुकः कायः पृथग् अन्यस्य दर्शनात् यथा कायस् तथा सर्वं चित्तदृश्यम् अवस्तुकम् //
SKस्वप्ने च अ-वस्तुकः कायः पृथग् अन्यस्य दर्शनात् यथा कायस् तथा सर्वं चित्त-दृश्यम् अ-वस्तुकम् //
SKग्रहणाज् जागरितवत् तद्धेतुः स्वप्ने इष्यते तद्(धेतुत्वात् तु [B:]धेतुत्वाच् च) तस्यैव सज् जागरितम् इष्यते //
SKग्रहणाज् जागरितवत् तद्-धेतुः स्वप्ने इष्यते तद्-(धेतुत्वात् तु [B:]धेतुत्वाच् च) तस्य एव सज् जागरितम् इष्यते //
SKउत्पादस्याप्रसिद्धत्वाद् अजं सर्वम् उदाहृतम् न च भूताद् अभूतस्य संभवो ऽस्ति कथंचन //
SKउत्पादस्य अ-प्रसिद्धत्वाद् अ-जं सर्वम् उदाहृतम् न च भूताद् अ-भूतस्य संभवो ऽस्ति कथं-चन //
SKअसज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः असत् स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति //
SKअ-सज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः अ-सत् स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति //
SKनास्त्य् असद्धेतुकम् असत् सद् असद्धेतुकं तथा सच् च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः //
SKन अस्त्य् अ-सद्-धेतुकम् अ-सत् सद् अ-सद्-धेतुकं तथा सच् च सद्-धेतुकं न अस्ति सद्-धेतुकम् अ-सत् कुतः //
SKविपर्यासाद् यथा जाग्रद् अचिन्त्यान् भूतवत् स्पृशेत् तथा स्वप्ने विपर्यासाद् धर्मांस् तत्रैव पश्यति //
SKविपर्यासाद् यथा जाग्रद् अ-चिन्त्यान् भूतवत् स्पृशेत् तथा स्वप्ने विपर्यासाद् धर्मांस् तत्र एव पश्यति //
SKउपलम्भात् समाचाराद् अस्तिवस्तुत्ववादिनाम् जातिस् तु देशिता बुद्धैर् अजातेस् त्रसतां सदा //
SKउपलम्भात् समाचाराद् अस्ति-वस्तुत्व-वादिनाम् जातिस् तु देशिता बुद्धैर् अ-जातेस् त्रसतां सदा //
SKअजातेस् त्रसतां तेषाम् उपलंभाद् वियन्ति ये जातिदोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति //
SKअ-जातेस् त्रसतां तेषाम् उपलंभाद् वियन्ति ये जाति-दोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति //
SKउपलम्भात् समाचारान् मायाहस्ती यथोच्यते उपलम्भात् समाचाराद् अस्ति वस्तु तथोच्यते //
SKउपलम्भात् समाचारान् माया-हस्ती यथ ऊच्यते उपलम्भात् समाचाराद् अस्ति वस्तु तथ ऊच्यते //
SKजात्याभासं चलाभासं वस्त्वाभासं तथैव च अजाचलम् अवस्तुत्वं विज्ञानं शान्तम् अद्वयम् //
SKजात्य्-आभासं चल-आभासं वस्त्व्-आभासं तथ ऐव च अ-ज-अ-चलम् अ-वस्तुत्वं विज्ञानं शान्तम् अ-द्वयम् //
SKएवं न जायते चित्तम् एवं धर्मा अजाः स्मृताः एवम् एव विजानन्तो न पतन्ति विपर्यये //
SKएवं न जायते चित्तम् एवं धर्मा अ-जाः स्मृताः एवम् एव विजानन्तो न पतन्ति विपर्यये //
SKऋजुवक्रादिकाभासम् (अलातस्पन्दितं [B:]अलातं स्पन्दितं) यथा ग्रहणग्राहकाभासं (विज्ञानस्पन्दितं [B:]विज्ञानं स्पन्दितं) तथा //
SKऋजु-वक्र-आदिक-आभासम् (अलात-स्पन्दितं [B:]अलातं स्पन्दितं) यथा ग्रहण-ग्राहक-आभासं (विज्ञान-स्पन्दितं [B:]विज्ञानं स्पन्दितं) तथा //
SKअस्पन्दमानम् (अलातम् [B:]आलातम्) अनाभासम् अजं यथा अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा //
SKअ-स्पन्दमानम् (अलातम् [B:]आलातम्) अन्-आभासम् अ-जं यथा अ-स्पन्दमानं विज्ञानम् अन्-आभासम् अ-जं तथा //
SKअलाते स्पन्दमाने वै नाभासा अन्यतोभुवः न ततो ऽन्यत्र निस्पन्दान् नालातं प्रविशन्ति ते //
SKअलाते स्पन्दमाने वै ना अभासा अन्यतो-भुवः न ततो ऽन्यत्र निस्पन्दान् न अलातं प्रविशन्ति ते //
SKन निर्गता अलातात् ते द्रव्यत्वाभावयोगतः विज्ञाने ऽपि तथैव स्युर् आभासस्याविशेषतः //
SKन निर्गता अलातात् ते द्रव्यत्व-अ-भाव-योगतः विज्ञाने ऽपि तथ ऐव स्युर् आभासस्य अ-विशेषतः //
SKविज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते //
SKविज्ञाने स्पन्दमाने वै ना अभासा अन्यतो-भुवः न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते //
SKन निर्गतास् ते विज्ञानाद् द्रव्यत्वाभावयोगतः कार्यकारणताभावाद् यतो ऽचिन्त्याः सदैव ते //
SKन निर्गतास् ते विज्ञानाद् द्रव्यत्व-अ-भाव-योगतः कार्य-कारणता-अ-भावाद् यतो ऽ-चिन्त्याः सद ऐव ते //
SKद्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य चैव हि द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते //
SKद्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य च एव हि द्रव्यत्वम् अन्य-भावो वा धर्माणां न उपपद्यते //
SKएवं न चित्तजा धर्माश् चित्तं वापि न धर्मजम् एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः //
SKएवं न चित्त-जा धर्माश् चित्तं व आपि न धर्म-जम् एवं हेतु-फल-अ-जातिं प्रविशन्ति मनीषिणः //
SKयावद् धेतुफलावेशस् तावद् धेतुफलोद्भवः क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः //
SKयावद् धेतु-फल-आवेशस् तावद् धेतु-फल-उद्भवः क्षीणे हेतु-फल-आवेशे न अस्ति हेतु-फल-उद्भवः //
SKयावद् धेतुफलावेशः संसारस् तावद् आयतः क्षीणे हेतुफलावेशे (संसारं न प्रपद्यते [B:]संसारो नोपपद्यते) //
SKयावद् धेतु-फल-आवेशः संसारस् तावद् आयतः क्षीणे हेतु-फल-आवेशे (संसारं न प्रपद्यते [B:]संसारो न उपपद्यते) //
SKसंवृत्या जायते सर्वं शाश्वतं (नास्ति तेन [B:]तेन नास्ति) वै (सद्[B:]स्व)भावेन ह्य् अजं सर्वम् उच्छेदस् तेन नास्ति वै //
SKसंवृत्या जायते सर्वं शाश्वतं (न अस्ति तेन [B:]तेन न अस्ति) वै (सद्-[B:]स्व-)भावेन ह्य् अ-जं सर्वम् उच्छेदस् तेन न अस्ति वै //
SKधर्मा ये इति जायन्ते (जायन्ते [B:]संवृत्या) ते न तत्त्वतः जन्म मायोपमं तेषां सा च माया न विद्यते //
SKधर्मा ये इति जायन्ते (जायन्ते [B:]संवृत्या) ते न तत्त्वतः जन्म माया-उपमं तेषां सा च माया न विद्यते //
SKयथा मायामयाद् बीजाज् जायते तन्मयो ऽङ्कुरः नासौ नित्यो न चोच्छेदी तद्वद् धर्मेषु योजना //
SKयथा मायामयाद् बीजाज् जायते तन्मयो ऽङ्कुरः न असौ नित्यो न च उच्छेदी तद्वद् धर्मेषु योजना //
SKनाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा यत्र वर्णा न वर्तन्ते विवेकस् तत्र नोच्यते //
SKन अ-जेषु सर्व-धर्मेषु शाश्वत-अ-शाश्वत-अभिधा यत्र वर्णा न वर्तन्ते विवेकस् तत्र न उच्यते //
SKयथा स्वप्ने द्वयाभासं चित्तं चलति मायया तथा जाग्रद् द्वयाभासं चित्तं चलति मायया //
SKयथा स्वप्ने द्वय-आभासं चित्तं चलति मायया तथा जाग्रद् द्वय-आभासं चित्तं चलति मायया //
SKअद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः अद्वयं च द्वयाभासं (तथा [B:]चित्तं) जाग्रन् न संशयः //
SKअ-द्वयं च द्वय-आभासं चित्तं स्वप्ने न संशयः अ-द्वयं च द्वय-आभासं (तथा [B:]चित्तं) जाग्रन् न संशयः //
SKस्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा //
SKस्वप्न-दृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् अण्ड-जान् स्वेद-जान् व आपि जीवान् पश्यति यान् सदा //
SKस्वप्नदृक्चित्तदृश्यास् ते न विद्यन्ते ततः पृथक् तथा तद्दृश्यम् एवेदं स्वप्नदृक्चित्तम् इष्यते //
SKस्वप्न-दृक्-चित्त-दृश्यास् ते न विद्यन्ते ततः पृथक् तथा तद्-दृश्यम् एव इदं स्वप्न-दृक्-चित्तम् इष्यते //
SKचरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा //
SKचरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् अण्ड-जान् स्वेद-जान् व आपि जीवान् पश्यति यान् सदा //
SKजाग्रच्चित्तेक्षणीयास् ते न विद्यन्ते ततः पृथक् तथा तद्दृश्यम् एवेदं जाग्रतश् चित्तम् इष्यते //
SKजाग्रच्-चित्त-ईक्षणीयास् ते न विद्यन्ते ततः पृथक् तथा तद्-दृश्यम् एव इदं जाग्रतश् चित्तम् इष्यते //
SKउभे ह्य् अन्योअन्यदृश्ये ते किं तद् अस्तीति चोच्यते लक्षणाशून्यम् उभयं तन्मतेनैव गृह्यते //
SKउभे ह्य् अन्यो-अन्य-दृश्ये ते किं तद् अस्ति इति च उच्यते लक्षणा-शून्यम् उभयं तन्-मतेन एव गृह्यते //
SKयथा स्वप्नमयो जीवो जायते म्रियते ऽपि च तथा जीवा अमी सर्वे भवन्ति न भवन्ति च //
SKयथा स्वप्नमयो जीवो जायते म्रियते ऽपि च तथा जीवा अमी सर्वे भवन्ति न भवन्ति च //
SKयथा मायामयो जीवो जायते म्रियते ऽपि च तथा जीवा अमी सर्वे भवन्ति न भवन्ति च //
SKयथा मायामयो जीवो जायते म्रियते ऽपि च तथा जीवा अमी सर्वे भवन्ति न भवन्ति च //
SKयथा निर्मितको जीवो जायते म्रियते ऽपि च तथा जीवा अमी सर्वे भवन्ति न भवन्ति च //
SKयथा निर्मितको जीवो जायते म्रियते ऽपि च तथा जीवा अमी सर्वे भवन्ति न भवन्ति च //
SKन कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते एतत् तद् उत्तमं सत्यं यत्र किंचिन् न जायते //
SKन कश्-चिज् जायते जीवः संभवो ऽस्य न विद्यते एतत् तद् उत्तमं सत्यं यत्र किं-चिन् न जायते //
SKचित्तस्पन्दितम् एवेदं ग्राह्यग्राहकवद् द्वयम् चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम् //
SKचित्त-स्पन्दितम् एव इदं ग्राह्य-ग्राहकवद् द्वयम् चित्तं निर्-विषयं नित्यम् अ-सङ्गं तेन कीर्तितम् //
SKयो ऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्य् असौ (परतन्त्राभिसंवृत्या [B:]परतन्त्रो ऽभिसंवृत्या) स्यान् नास्ति परमार्थतः //
SKयो ऽस्ति कल्पित-संवृत्या परम-अर्थेन न अस्त्य् असौ (पर-तन्त्र-अभिसंवृत्या [B:]पर-तन्त्रो ऽभिसंवृत्या) स्यान् न अस्ति परम-अर्थतः //
SKअजः कल्पितसंवृत्या परमार्थेन नाप्य् अजः (परतन्त्राभिनिष्पत्त्या [B:]परतन्त्रो ऽभिनिष्पत्त्या) संवृत्या जायते तु सः //
SKअ-जः कल्पित-संवृत्या परम-अर्थेन न अप्य् अ-जः (पर-तन्त्र-अभिनिष्पत्त्या [B:]पर-तन्त्रो ऽभिनिष्पत्त्या) संवृत्या जायते तु सः //
SKअभूताभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते //
SKअ-भूत-अभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते द्वय-अ-भावं स बुद्ध्व ऐव निर्-निमित्तो न जायते //
SKयदा न लभते हेतून् उत्तमाधममध्यमान् तदा न जायते चित्तं हेत्वभावे फलं कुतः //
SKयदा न लभते हेतून् उत्तम-अधम-मध्यमान् तदा न जायते चित्तं हेत्व्-अ-भावे फलं कुतः //
SKअनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया अजातस्यैव सर्वस्य चित्तदृश्यं हि तद् यतः //
SKअ-निमित्तस्य चित्तस्य य आन्-उत्पत्तिः सम आ-द्वया अ-जातस्य एव सर्वस्य चित्त-दृश्यं हि तद् यतः //
SKबुद्ध्वानिमित्ततां सत्यां हेतुं पृथग् अन्(आप्नुवन् [B:]आप्नुवत्) वीतशोकं (तथा[B:]तदा)कामम् अभयं पदम् अश्नुते //
SKबुद्ध्व आ-निमित्ततां सत्यां हेतुं पृथग् अन्-(आप्नुवन् [B:]आप्नुवत्) वीत-शोकं (तथ आ-[B:]तद आ-)कामम् अ-भयं पदम् अश्नुते //
SKअभूताभिनिवेशाद् धि सदृशे तत् प्रवर्तते वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते //
SKअ-भूत-अभिनिवेशाद् धि स-दृशे तत् प्रवर्तते वस्त्व्-अ-भावं स बुद्ध्व ऐव निः-सङ्गं विनिवर्तते //
SKनिवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः विषयः स हि बुद्धानां तत् साम्यम् अजम् अद्वयम् //
SKनिवृत्तस्य अ-प्रवृत्तस्य निश्-चला हि तदा स्थितिः विषयः स हि बुद्धानां तत् साम्यम् अ-जम् अ-द्वयम् //
SKअजम् अनिद्रम् अस्वप्नं प्रभातं भवति स्वयम् सकृद्विभातो ह्य् एवैष धर्मो (धातुस्वभावतः [B:]धातुः स्वभावतः) //
SKअ-जम् अ-निद्रम् अ-स्वप्नं प्रभातं भवति स्वयम् स-कृद्-विभातो ह्य् एव एष धर्मो (धातु-स्व-भावतः [B:]धातुः स्व-भावतः) //
SKसुखम् आव्रियते नित्यं दुःखं विव्रियते सदा यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ //
SKसुखम् आव्रियते नित्यं दुःखं विव्रियते सदा यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ //
SKअस्ति नास्त्य् अस्ति नास्तीति नास्ति नास्तीति वा पुनः चलस्थिरोभयाभावैर् आवृणोत्य् एव बालिशः //
SKअस्ति न अस्त्य् अस्ति न अस्ति इति न अस्ति न अस्ति इति वा पुनः चल-स्थिर-उभय-अ-भावैर् आवृणोत्य् एव बालिशः //
SKकोट्यश् चतस्र एतास् तु ग्रहैर् यासां (सदावृतः [K:]सहावृतः) भगवान् आभिर् अस्पृष्टो येन दृष्टः स सर्वदृक् //
SKकोट्यश् चतस्र एतास् तु ग्रहैर् यासां (सदा आवृतः [K:]सहा अवृतः) भगवान् आभिर् अ-स्पृष्टो येन दृष्टः स सर्व-दृक् //
SKप्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अद्वयम् अनापन्नादिमध्यान्तं किम् अतः परम् ईहते //
SKप्राप्य सर्व-ज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अ-द्वयम् अन्-आपन्न-आदि-मध्य-अन्तं किम् अतः परम् ईहते //
SKविप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते दमः प्रकृतिदान्तत्वाद् एवं विद्वाञ् शमं व्रजेत् //
SKविप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते दमः प्रकृति-दान्तत्वाद् एवं विद्वाञ् शमं व्रजेत् //
SKसवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते //
SKस-वस्तु स-उपलम्भं च द्वयं लौकिकम् इष्यते अ-वस्तु स-उपलम्भं च शुद्धं लौकिकम् इष्यते //
SKअवस्त्व् अनुपलम्भं च लोकोत्तरम् इति स्मृतम् ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् //
SKअ-वस्त्व् अन्-उपलम्भं च लोक-उत्तरम् इति स्मृतम् ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् //
SKज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् सर्वज्ञता हि सर्वत्र भवतीह महाधियः //
SKज्ञाने च त्रि-विधे ज्ञेये क्रमेण विदिते स्वयम् सर्व-ज्ञता हि सर्वत्र भवति इह महा-धियः //
SKहेयज्ञेयाप्यपाक्यानि विज्ञेयान्य् अग्र(याणतः [B:]यानतः) तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः //
SKहेय-ज्ञेय-आप्य-पाक्यानि विज्ञेयान्य् अग्र-(याणतः [B:]यानतः) तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः //
SKप्रकृत्याकाशवज् ज्ञेयाः सर्वे धर्मा अनादयः विद्यते न हि नानात्वं तेषां क्वचन किंचन //
SKप्रकृत्या आकाशवज् ज्ञेयाः सर्वे धर्मा अन्-आदयः विद्यते न हि नानात्वं तेषां क्व-चन किं-चन //
SKआदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः यस्यैवं भवति क्षान्तिः सो ऽमृतत्वाय कल्पते //
SKआदि-बुद्धाः प्रकृत्य ऐव सर्वे धर्माः सु-निश्चिताः यस्य एवं भवति क्षान्तिः सो ऽ-मृतत्वाय कल्पते //
SKआदिशान्ता ह्य् अनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् //
SKआदि-शान्ता ह्य् अन्-उत्पन्नाः प्रकृत्य ऐव सु-निर्वृताः सर्वे धर्माः सम-अ-भिन्ना अ-जं साम्यं विशारदम् //
SKवैशारद्यं तु वै नास्ति भेदे विचरतां सदा भेदनिम्नाः पृथग्वादास् तस्मात् ते कृपणाः स्मृताः //
SKवैशारद्यं तु वै न अस्ति भेदे विचरतां सदा भेद-निम्नाः पृथग्-वादास् तस्मात् ते कृपणाः स्मृताः //
SKअजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः ते हि लोके महाज्ञानास् तच् च लोको न गाहते //
SKअ-जे साम्ये तु ये के-चिद् भविष्यन्ति सु-निश्चिताः ते हि लोके महा-ज्ञानास् तच् च लोको न गाहते //
SKअजेष्व् अजम् असंक्रान्तं धर्मेषु ज्ञानम् इष्यते यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितम् //
SKअ-जेष्व् अ-जम् अ-संक्रान्तं धर्मेषु ज्ञानम् इष्यते यतो न क्रमते ज्ञानम् अ-सङ्गं तेन कीर्तितम् //
SKअणुमात्रे ऽपि वैधर्म्ये जायमाने ऽविपश्चितः असङ्गता सदा नास्ति किम् उतावरणच्युतिः //
SKअणु-मात्रे ऽपि वैधर्म्ये जायमाने ऽ-विपश्-चितः अ-सङ्गता सदा न अस्ति किम् उता अवरण-च्युतिः //
SKअलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः आदौ बुद्धास् तथा मुक्ता बुध्यन्ते इति नायकाः //
SKअ-लब्ध-आवरणाः सर्वे धर्माः प्रकृति-निर्-मलाः आदौ बुद्धास् तथा मुक्ता बुध्यन्ते इति नायकाः //
SKक्रमते न हि बुद्धस्य ज्ञानं धर्मेषु (तापिनः ([B,K:]तायिनः) (सर्वे धर्मास् [B:]सर्वधर्मास्) तथा ज्ञानं नैतद् बुद्धेन भाषितम् //
SKक्रमते न हि बुद्धस्य ज्ञानं धर्मेषु (तापिनः ([B,K:]तायिनः) (सर्वे धर्मास् [B:]सर्व-धर्मास्) तथा ज्ञानं न एतद् बुद्धेन भाषितम् //
SKदुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम् बुद्ध्वा पदम् अनानात्वं नमस् कुर्मो यथाबलम् //
SKदुर्-दर्शम् अति-गम्भीरम् अ-जं साम्यं विशारदम् बुद्ध्वा पदम् अ-नानात्वं नमस् कुर्मो यथा-बलम् //
SKइति (गौड-पादा३चार्य-कृता माण्डूक्यो१पनिषद्-कारिकाः संपूर्णाः [B:]गौडपादीये आगम-शास्त्रे ऽलात-शान्त्य्-आख्यं चतुर्थं प्रकरणं समाप्तम्)