Scriptural Treatise
Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad)
गौडपादकारिका / आगमशास्त्रम्
SKवैतथ्यं सर्वभावानां स्वप्ने आहुर् मनीषिणः अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना //
SKवैतथ्यं सर्व-भावानां स्वप्ने आहुर् मनीषिणः अन्तः-स्थानात् तु भावानां संवृतत्वेन हेतुना //
SKअदीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते //
SKअ-दीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते //
SKअभावश् च रथादीनां श्रूयते न्यायपूर्वकम् वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम् //
SKअ-भावश् च रथ-आदीनां श्रूयते न्याय-पूर्वकम् वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम् //
SKअन्तःस्थानात् तु भेदानां (तस्माज् [B:]तथा) जागरिते स्मृतम् यथा तत्र तथा स्वप्ने (संवृतत्वेन [B:]संवृतत्वं न) भिद्यते //
SKअन्तः-स्थानात् तु भेदानां (तस्माज् [B:]तथा) जागरिते स्मृतम् यथा तत्र तथा स्वप्ने (संवृतत्वेन [B:]संवृतत्वं न) भिद्यते //
SK(स्वप्नजागरितस्थाने [B,S:]स्वप्नजागरिते स्थाने) ह्य् एकम् आहुर् मनीषिणः भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना //
SK(स्वप्न-जागरित-स्थाने [B,S:]स्वप्न-जागरिते स्थाने) ह्य् एकम् आहुर् मनीषिणः भेदानां हि समत्वेन प्रसिद्धेन एव हेतुना //
SKआदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः //
SKआदाव् अन्ते च यन् न अस्ति वर्तमाने ऽपि तत् तथा वि-तथैः स-दृशाः सन्तो अ-वि-तथा इव लक्षिताः //
SKसप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः //
SKस-प्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते [B:]अपि प्रतिपद्यते) तस्माद् आद्य्-अन्तवत्त्वेन मिथ्य ऐव खलु ते स्मृताः //
SK(अपूर्वं [B:]अपूर्वाः) स्थानि(धर्मो [B:]धर्मा) हि यथा स्वर्गनिवासिनाम् तान् अयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः //
SK(अ-पूर्वं [B:]अ-पूर्वाः) स्थानि-(धर्मो [B:]धर्मा) हि यथा स्वर्ग-निवासिनाम् तान् अयं प्रेक्षते गत्वा यथ ऐव इह सु-शिक्षितः //
SKस्वप्नवृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् बहिश् चेतोगृहीतं सद् दृष्टं वैतथ्यम् एतयोः //
SKस्वप्न-वृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् अ-सत् बहिश् चेतो-गृहीतं सद् दृष्टं वैतथ्यम् एतयोः //
SKजाग्रद्वृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् बहिश् चेतोगृहीतं सद् युक्तं वैतथ्यम् एतयोः //
SKजाग्रद्-वृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् अ-सत् बहिश् चेतो-गृहीतं सद् युक्तं वैतथ्यम् एतयोः //
SKउभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः //
SKउभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः //
SKकल्पयत्य् आत्मनात्मानम् आत्मा देवः स्वमायया स एव बुध्यते भेदान् इति वेदान्तनिश्चयः //
SKकल्पयत्य् आत्मना आत्मानम् आत्मा देवः स्व-मायया स एव बुध्यते भेदान् इति वेद-अन्त-निश्चयः //
SKविकरोत्य् अपरान् भावान् अन्तश् चित्ते (व्यवस्थितान् [B:]अव्यवस्थितान्) नियतांश् च बहिश् चित्ते एवं कल्पयते प्रभुः //
SKविकरोत्य् अपरान् भावान् अन्तश् चित्ते (व्यवस्थितान् [B:]अ-व्यवस्थितान्) नियतांश् च बहिश् चित्ते एवं कल्पयते प्रभुः //
SKचित्त(काला हि [B:]कालाश् च) ये ऽन्तस् तु द्वयकालाश् च ये बहिः कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः //
SKचित्त-(काला हि [B:]कालाश् च) ये ऽन्तस् तु द्वय-कालाश् च ये बहिः कल्पिता एव ते सर्वे विशेषो न अन्य-हेतुकः //
SKअव्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रियान्तरे //
SKअ-व्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रिय-अन्तरे //
SKजीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान् बाह्यान् आध्यात्मिकांश् चैव यथाविद्यस् तथास्मृतिः //
SKजीवं कल्पयते पूर्वं ततो भावान् पृथग्-विधान् बाह्यान् आध्यात्मिकांश् च एव यथा-विद्यस् तथा-स्मृतिः //
SKअनिश्चिता यथा रज्जुर् अन्धकारे विकल्पिता सर्पधारादिभिर् भावैस् तद्वद् आत्मा विकल्पितः //
SKअ-निश्चिता यथा रज्जुर् अन्ध-कारे विकल्पिता सर्प-धारा-आदिभिर् भावैस् तद्वद् आत्मा विकल्पितः //
SKनिश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते रज्जुर् एवेति चाद्वैतं तद्वद् आत्मविनिश्चयः //
SKनिश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते रज्जुर् एव इति च अ-द्वैतं तद्वद् आत्म-विनिश्चयः //
SKप्राणादिभिर् (अनन्तैश् च [B,S:]अनन्तैस् तु) भावैर् एतैर् विकल्पितः मायैषा तस्य देवस्य (यया संमोहितः [B,S:]ययायं मोहितः) स्वयम् //
SKप्राण-आदिभिर् (अन्-अन्तैश् च [B,S:]अन्-अन्तैस् तु) भावैर् एतैर् विकल्पितः माय ऐषा तस्य देवस्य (यया संमोहितः [B,S:]यय आयं मोहितः) स्वयम् //
SK(प्राण [B:]प्राणा) इति प्राणविदो भूतानीति च तद्विदः गुणा इति गुणविदस् तत्त्वानीति च तद्विदः //
SK(प्राण [B:]प्राणा) इति प्राण-विदो भूतानि इति च तद्-विदः गुणा इति गुण-विदस् तत्त्वानि इति च तद्-विदः //
SKपादा इति पादविदो विषया इति तद्विदः लोका इति लोकविदो देवा इति च तद्विदः //
SKपादा इति पाद-विदो विषया इति तद्-विदः लोका इति लोक-विदो देवा इति च तद्-विदः //
SKवेदा इति वेदविदो यज्ञा इति च तद्विदः भोक्तेति च भोक्तृविदो भोज्यम् इति च तद्विदः //
SKवेदा इति वेद-विदो यज्ञा इति च तद्-विदः भोक्त ईति च भोक्तृ-विदो भोज्यम् इति च तद्-विदः //
SKसूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः //
SKसूक्ष्म इति सूक्ष्म-विदः स्थूल इति च तद्-विदः मूर्त इति मूर्त-विदो अ-मूर्त इति च तद्-विदः //
SKकाल इति कालविदो दिश इति च तद्विदः वादा इति वादविदो भुवनानीति तद्विदः //
SKकाल इति काल-विदो दिश इति च तद्-विदः वादा इति वाद-विदो भुवनानि इति तद्-विदः //
SKमन इति मनोविदो बुद्धिर् इति च तद्विदः चित्तम् इति चित्तविदो धर्माधर्मौ च तद्विदः //
SKमन इति मनो-विदो बुद्धिर् इति च तद्-विदः चित्तम् इति चित्त-विदो धर्म-अ-धर्मौ च तद्-विदः //
SKपञ्चविंशक इत्य् एके षड्विंश इति चापरे एकत्रिंशक इत्य् आहुर् अनन्त इति चापरे //
SKपञ्च-विंशक इत्य् एके षड्-विंश इति च अपरे एक-त्रिंशक इत्य् आहुर् अन्-अन्त इति च अपरे //
SKलोकांल् लोकविदः प्राहुर् आश्रमा इति तद्विदः स्त्रीपुंनपुंसकं लैङ्गाः परापरम् अथापरे //
SKलोकांल् लोक-विदः प्राहुर् आश्रमा इति तद्-विदः स्त्री-पुं-न-पुंसकं लैङ्गाः पर-अपरम् अथ अपरे //
SKसृष्टिर् इति सृष्टिविदो लय इति च तद्विदः स्थितिर् इति स्थितिविदः (सर्वे [B:]सर्वं) चेह तु सर्वदा //
SKसृष्टिर् इति सृष्टि-विदो लय इति च तद्-विदः स्थितिर् इति स्थिति-विदः (सर्वे [B:]सर्वं) च इह तु सर्वदा //
SKयं भावं दर्शयेद् यस्य तं भावं स तु पश्यति तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् //
SKयं भावं दर्शयेद् यस्य तं भावं स तु पश्यति तं च अवति स भूत्व आसौ तद्-ग्रहः समुपैति तम् //
SKएतैर् एषो अपृथग्भावैः पृथग् एवेति लक्षितः एवं यो वेद तत्त्वेन कल्पयेत् सो ऽविशङ्कितः //
SKएतैर् एषो अ-पृथग्-भावैः पृथग् एव इति लक्षितः एवं यो वेद तत्त्वेन कल्पयेत् सो ऽ-विशङ्कितः //
SKस्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा तथा विश्वम् इदं दृष्टं वेदान्तेषु विचक्षणैः //
SKस्वप्न-माये यथा दृष्टे गन्धर्व-नगरं यथा तथा विश्वम् इदं दृष्टं वेद-अन्तेषु विचक्षणैः //
SKन निरोधो न चोत्पत्तिर् न बद्धो न च साधकः न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता //
SKन निरोधो न च उत्पत्तिर् न बद्धो न च साधकः न मुमुक्षुर् न वै मुक्त इत्य् एषा परम-अर्थता //
SKभावैर् असद्भिर् एवायम् अद्वयेन च कल्पितः भावा अप्य् अद्वयेनैव तस्माद् अद्वयता शिवा //
SKभावैर् अ-सद्भिर् एव अयम् अ-द्वयेन च कल्पितः भावा अप्य् अ-द्वयेन एव तस्माद् अ-द्वयता शिवा //
SK(नात्म[B:]नान्य)भावेन नानेदं न स्वेनापि कथंचन न पृथङ् नापृथक् किंचिद् इति तत्त्वविदो विदुः //
SK(ना अत्म-[B:]न अन्य-)भावेन नान ईदं न स्वेन अपि कथं-चन न पृथङ् न अ-पृथक् किं-चिद् इति तत्त्व-विदो विदुः //
SKवीतरागभयक्रोधैर् मुनिभिर् वेदपारगैः निर्विकल्पो ह्य् अयं दृष्टः प्रपञ्चोपशमो ऽद्वयः //
SKवीत-राग-भय-क्रोधैर् मुनिभिर् वेद-पार-गैः निर्-विकल्पो ह्य् अयं दृष्टः प्रपञ्च-उपशमो ऽ-द्वयः //
SKतस्माद् एवं विदित्वैनम् अद्वैते योजयेत् स्मृतिम् अद्वैतं समनुप्राप्य जडवल् लोकम् आचरेत् //
SKतस्माद् एवं विदित्व ऐनम् अ-द्वैते योजयेत् स्मृतिम् अ-द्वैतं समनुप्राप्य जडवल् लोकम् आचरेत् //
SKनिःस्तुतिर् निर्नमस्कारो निःस्वधाकार एव च चलाचलनिकेतश् च यतिर् यादृच्छिको भवेत् //
SKनिः-स्तुतिर् निर्-नमस्-कारो निः-स्वधा-कार एव च चलाचल-निकेतश् च यतिर् यादृच्छिको भवेत् //
SKतत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः तत्त्वीभूतस् तदारामस् तत्त्वाद् अप्रच्युतो भवेत् //
SKतत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः तत्त्वी-भूतस् तद्-आरामस् तत्त्वाद् अ-प्रच्युतो भवेत् //
SKअथ गौडपादीय-कारिकास्व् अ-द्वैता३ख्यं तृतीयं प्रकरणम् | ॐ