Scriptural Treatise

Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad) · गौडपादकारिका / आगमशास्त्रम्

Scriptural Treatise

Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad)

गौडपादकारिका / आगमशास्त्रम्

Prakaraṇa 3

SK
उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते प्राग् उत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः //
SK
उपासना-आश्रितो धर्मो जाते ब्रह्मणि वर्तते प्राग् उत्पत्तेर् अ-जं सर्वं तेन असौ कृपणः स्मृतः //
SK
अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् यथा न जायते किंचिज् जायमानं समन्ततः //
SK
अतो वक्ष्याम्य् अ-कार्पण्यम् अ-जाति समतां गतम् यथा न जायते किं-चिज् जायमानं सम्-अन्ततः //
SK
आत्मा ह्य् आकाशवज् जीवैर् घटाकाशैर् इवोदितः घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम् //
SK
आत्मा ह्य् आकाशवज् जीवैर् घट-आकाशैर् इव उदितः घट-आदिवच् च संघातैर् जाताव् एतन् निदर्शनम् //
SK
घटादिषु प्रलीनेषु घटाकाशादयो यथा आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि //
SK
घट-आदिषु प्रलीनेषु घट-आकाश-आदयो यथा आकाशे संप्रलीयन्ते तद्वज् जीवा इहा अत्मनि //
SK
यथैकस्मिन् घटाकाशे रजोधूमादिभिर् युते न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः //
SK
यथ ऐकस्मिन् घट-आकाशे रजो-धूम-आदिभिर् युते न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुख-आदिभिः //
SK
रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः //
SK
रूप-कार्य-समाख्याश् च भिद्यन्ते तत्र तत्र वै आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः //
SK
नाकाशस्य घटाकाशो विकारावयवौ यथा नैवात्मनः सदा जीवो विकारावयवौ तथा //
SK
ना अकाशस्य घट-आकाशो विकार-अवयवौ यथा न एवा अत्मनः सदा जीवो विकार-अवयवौ तथा //
SK
यथा भवति बालानां गगनं मलिनं मलैः तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः //
SK
यथा भवति बालानां गगनं मलिनं मलैः तथा भवत्य् अ-बुद्धानाम् आत्म आपि मलिनो मलैः //
SK
मरणे संभवे चैव गत्यागमनयोर् अपि (स्थितौ [B:]स्थितः) सर्वशरीरेषु (आकाशेना[K,S:]चाकाशेना)विलक्षणः [CHECK!] //
SK
मरणे संभवे च एव गत्य्-आगमनयोर् अपि (स्थितौ [B:]स्थितः) सर्व-शरीरेषु (आकाशेन अ-[K,S:]चा अकाशेन अ-)विलक्षणः [CHECK!] //
SK
संघाताः स्वप्नवत् (सर्वे [K: ,S:]सर्वे) आत्ममायाविसर्जिताः [CHECK!] आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते //
SK
संघाताः स्वप्नवत् (सर्वे [K: ,S:]सर्वे) आत्म-माया-विसर्जिताः [CHECK!] आधिक्ये सर्व-साम्ये वा न उपपत्तिर् हि विद्यते //
SK
रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके तेषां आत्मा परो जीवः (खं यथा [B:]सयथा) संप्रकाशितः //
SK
रस-आदयो हि ये कोशा व्याख्यातास् तैत्तिरीयके तेषां आत्मा परो जीवः (खं यथा [B:]स-यथा) संप्रकाशितः //
SK
द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् पृथिव्याम् उदरे चैव यथाकाशः प्रकाशितः //
SK
द्वयोर् द्वयोर् मधु-ज्ञाने परं ब्रह्म प्रकाशितम् पृथिव्याम् उदरे च एव यथा आकाशः प्रकाशितः //
SK
जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् //
SK
जीव-आत्मनोर् अन्-अन्यत्वम् अ-भेदेन प्रशस्यते नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् //
SK
जीवात्मनोः पृथक्त्वं यत् प्राग् उत्पत्तेः प्रकीर्तितम् भविष्यद्वृत्त्या गौणं तन् मुख्यत्वं (हि न [B:]न हि) युज्यते //
SK
जीव-आत्मनोः पृथक्त्वं यत् प्राग् उत्पत्तेः प्रकीर्तितम् भविष्यद्-वृत्त्या गौणं तन् मुख्यत्वं (हि न [B:]न हि) युज्यते //
SK
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा उपायः सो ऽवताराय नास्ति भेदः कथंचन //
SK
मृल्-लोह-विस्फुलिङ्ग-आद्यैः सृष्टिर् या चोदित आन्यथा उपायः सो ऽवताराय न अस्ति भेदः कथं-चन //
SK
आश्रमास् त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः उपासनोपदिष्टेयं तदर्थम् अनुकम्पया //
SK
आश्रमास् त्रि-विधा हीनमध्यम-उत्कृष्ट-दृष्टयः उपासन ऊपदिष्ट ईयं तद्-अर्थम् अनुकम्पया //
SK
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् परस्परं विरुध्यन्ते तैर् अयं न विरुध्यते //
SK
स्व-सिद्ध-अन्त-व्यवस्थासु द्वैतिनो निश्चिता दृढम् परस्-परं विरुध्यन्ते तैर् अयं न विरुध्यते //
SK
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते तेषाम् उभयथा द्वैतं तेनायं न विरुध्यते //
SK
अ-द्वैतं परम-अर्थो हि द्वैतं तद्-भेद उच्यते तेषाम् उभयथा द्वैतं तेन अयं न विरुध्यते //
SK
मायया भिद्यते ह्य् एतन् नान्यथाजं कथंचन तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत् //
SK
मायया भिद्यते ह्य् एतन् न अन्यथ आ-जं कथं-चन तत्त्वतो भिद्यमाने हि मर्त्यताम् अ-मृतं व्रजेत् //
SK
अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति //
SK
अ-जातस्य एव भावस्य जातिम् इच्छन्ति वादिनः अ-जातो ह्य् अ-मृतो भावो मर्त्यतां कथम् एष्यति //
SK
न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा प्रकृतेर् अन्यथाभावो न कथंचिद् भविष्यति //
SK
न भवत्य् अ-मृतं मर्त्यं न मर्त्यम् अ-मृतं तथा प्रकृतेर् अन्यथा-भावो न कथं-चिद् भविष्यति //
SK
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः //
SK
स्व-भावेन अ-मृतो यस्य भावो गच्छति मर्त्यताम् कृतकेन अ-मृतस् तस्य कथं स्थास्यति निश्-चलः //
SK
भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत् //
SK
भूततो ऽ-भूततो व आपि सृज्यमाने समा श्रुतिः निश्चितं युक्ति-युक्तं च यत् तद् भवति न इतरत् //
SK
नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि अजायमानो बहुधा मायया जायते तु सः //
SK
न इह नान ईति चा अम्नायाद् इन्द्रो मायाभिर् इत्य् अपि अ-जायमानो बहुधा मायया जायते तु सः //
SK
संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते को (न्व् [K,B,S:]त्व्) एनं जनयेद् इति कारणं प्रतिषिध्यते [CHECK!] //
SK
संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते को (न्व् [K,B,S:]त्व्) एनं जनयेद् इति कारणं प्रतिषिध्यते [CHECK!] //
SK
स एष नेति नेतीति व्याख्यातं निह्नुते यतः सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते //
SK
स एष न इति न इति इति व्याख्यातं निह्नुते यतः सर्वम् अ-ग्राह्य-भावेन हेतुन आ-जं प्रकाशते //
SK
सतो हि मायया जन्म युज्यते न तु तत्त्वतः तत्त्वतो जायते यस्य जातं तस्य हि जायते //
SK
सतो हि मायया जन्म युज्यते न तु तत्त्वतः तत्त्वतो जायते यस्य जातं तस्य हि जायते //
SK
असतो मायया जन्म तत्त्वतो नैव युज्यते वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते //
SK
अ-सतो मायया जन्म तत्त्वतो न एव युज्यते वन्ध्या-पुत्रो न तत्त्वेन मायया व आपि जायते //
SK
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः //
SK
यथा स्वप्ने द्वय-आभासं स्पन्दते मायया मनः तथा जाग्रद्-द्वय-आभासं स्पन्दते मायया मनः //
SK
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः //
SK
अ-द्वयं च द्वय-आभासं मनः स्वप्ने न संशयः अ-द्वयं च द्वय-आभासं तथा जाग्रन् न संशयः //
SK
मनोदृश्यम् इदं द्वैतं यत् किंचित् सचराचरम् मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते //
SK
मनो-दृश्यम् इदं द्वैतं यत् किं-चित् स-चर-अ-चरम् मनसो ह्य् अ-मनी-भावे द्वैतं न एव उपलभ्यते //
SK
आत्मसत्यानुबोधेन न संकल्पयते यदा अमनस्तां तदा याति ग्राह्याभावे (तद् अग्रहम् [B:]तदग्रहात्) //
SK
आत्म-सत्य-अनुबोधेन न संकल्पयते यदा अ-मनस्तां तदा याति ग्राह्य-अ-भावे (तद् अ-ग्रहम् [B:]तद्-अ-ग्रहात्) //
SK
अकल्पकम् अजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते //
SK
अ-कल्पकम् अ-जं ज्ञानं ज्ञेय-अ-भिन्नं प्रचक्षते ब्रह्म ज्ञेयम् अ-जं नित्यम् अ-जेन अजं विबुध्यते //
SK
निगृहीतस्य मनसो निर्विकल्पस्य धीमतः प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः //
SK
निगृहीतस्य मनसो निर्-विकल्पस्य धीमतः प्रचारः स तु विज्ञेयः सु-षुप्ते ऽन्यो न तत्-समः //
SK
लीयते हि सुषुप्ते तन् निगृहीतं न लीयते तद् एव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः //
SK
लीयते हि सु-षुप्ते तन् निगृहीतं न लीयते तद् एव निर्-भयं ब्रह्म ज्ञान-आलोकं सम्-अन्ततः //
SK
अजम् अनिद्रम् अस्वप्नम् अनामकम् अरूपकम् सकृद्विभातं सर्वज्ञं नोपचारः कथंचन //
SK
अ-जम् अ-निद्रम् अ-स्वप्नम् अ-नामकम् अ-रूपकम् सकृद्-विभातं सर्व-ज्ञं न उपचारः कथं-चन //
SK
सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः //
SK
सर्व-अभिलाप-विगतः सर्व-चिन्ता-समुत्थितः सु-प्रशान्तः सकृज्-ज्योतिः समाधिर् अ-चलो ऽ-भयः //
SK
ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम् //
SK
ग्रहो न तत्र न उत्सर्गश् चिन्ता यत्र न विद्यते आत्म-संस्थं तदा ज्ञानम् अ-जाति समतां गतम् //
SK
अस्पर्शयोगो (वै नाम [B:]नामैष) दुर्दर्शः सर्वयोगिभिः योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः //
SK
अ-स्पर्श-योगो (वै नाम [B:]नाम एष) दुर्-दर्शः सर्व-योगिभिः योगिनो बिभ्यति ह्य् अस्माद् अ-भये भय-दर्शिनः //
SK
मनसो निग्रहायत्तम् अभयं सर्वयोगिणाम् दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च //
SK
मनसो निग्रह-आयत्तम् अ-भयं सर्व-योगिणाम् दुःख-क्षयः प्रबोधश् च अप्य् अ-क्षया शान्तिर् एव च //
SK
उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः //
SK
उत्सेक उद-धेर् यद्वत् कुश-अग्रेण एक-बिन्दुना मनसो निग्रहस् तद्वद् भवेद् अ-परिखेदतः //
SK
उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः सुप्रसन्नं लये चैव यथा कामो लयस् तथा //
SK
उपायेन निगृह्णीयाद् विक्षिप्तं काम-भोगयोः सु-प्रसन्नं लये च एव यथा कामो लयस् तथा //
SK
दुःखं सर्वम् अनुस्मृत्य (काम[S:]काय)भोगान् निवर्तयेत् अजं सर्वम् अनुस्मृत्य जातं नैव तु पश्यति //
SK
दुःखं सर्वम् अनुस्मृत्य (काम-[S:]काय-)भोगान् निवर्तयेत् अ-जं सर्वम् अनुस्मृत्य जातं न एव तु पश्यति //
SK
लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः सकषायं (विजानीयात् सम [B:]विजानीयाच् छम)प्राप्तं न चालयेत् //
SK
लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः सकषायं (विजानीयात् सम- [B:]विजानीयाच् छम-)प्राप्तं न चालयेत् //
SK
नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् निश्चलं निश्चरत् चित्तम् एकीकुर्यात् प्रयत्नतः //
SK
ना अस्वादयेत् सुखं तत्र निः-सङ्गः प्रज्ञया भवेत् निश्-चलं निश्चरत् चित्तम् एकी-कुर्यात् प्रयत्नतः //
SK
यदा न लीयते चित्तं न च विक्षिप्यते पुनः अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा //
SK
यदा न लीयते चित्तं न च विक्षिप्यते पुनः अन्-इङ्गनम् अन्-आभासं निष्पन्नं ब्रह्म तत् तदा //
SK
स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते //
SK
स्व-स्थं शान्तं स-निर्वाणम् अ-कथ्यं सुखम् उत्तमम् अ-जम् अ-जेन ज्ञेयेन सर्व-ज्ञं परिचक्षते //
SK
न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते एतत् तद् उत्तमं सत्यं यत्र किंचिन् न जायते //
SK
न कश्-चिज् जायते जीवः संभवो ऽस्य न विद्यते एतत् तद् उत्तमं सत्यं यत्र किं-चिन् न जायते //
SK
इति (गौडपादीय-कारिकायाम् अ-द्वैता३ख्यं [B:]गौडपादीये आगम-शास्त्रे ऽ-द्वैता३ख्यं) तृतीयं (प्रकरणम् || ॐ तत् सत् || [B:]प्रकरणं समाप्तम्)

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gauḍapāda-kārikā (Āgamaśāstra): corpustei HTML transform of the Āgamaśāstra.

Source