Scriptural Treatise

Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad) · गौडपादकारिका / आगमशास्त्रम्

Scriptural Treatise

Āgamaśāstra (= Gauḍapādakārikā, Gauḍapādīyakārikā, a verse commentary on the Māṇḍūkya-Upaniṣad)

गौडपादकारिका / आगमशास्त्रम्

Prakaraṇa 1

SK
(बहिष्[S:]बहिः)प्रज्ञो विभुर् विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः घनप्रज्ञस् तथा प्राज्ञ एक एव त्रिधा (स्मृतः [B:]स्थितः) //
SK
(बहिष्-[S:]बहिः-)प्रज्ञो विभुर् विश्वो ह्य् अन्तः-प्रज्ञस् तु तैजसः घन-प्रज्ञस् तथा प्राज्ञ एक एव त्रिधा (स्मृतः [B:]स्थितः) //
SK
दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः //
SK
दक्षिण-अक्षि-मुखे विश्वो मनस्य् अन्तस् तु तैजसः आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः //
SK
विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् आनन्दभुक् तथा प्राज्ञस् त्रिधा भोगं निबोधत //
SK
विश्वो हि स्थूल-भुङ् नित्यं तैजसः प्रविविक्त-भुक् आनन्द-भुक् तथा प्राज्ञस् त्रिधा भोगं निबोधत //
SK
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत //
SK
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत //
SK
त्रिषु धामसु यद् भोज्यं भोक्ता यश् च प्रकीर्तितः वेदैतद् उभयं यस् तु स भुञ्जानो न लिप्यते //
SK
त्रिषु धामसु यद् भोज्यं भोक्ता यश् च प्रकीर्तितः वेद एतद् उभयं यस् तु स भुञ्जानो न लिप्यते //
SK
प्रभवः सर्व(भावानां [B:]भूतानां) सताम् इति विनिश्चयः सर्वं जनयति प्राणश् चेतोअंशून् पुरुषः पृथक् //
SK
प्रभवः सर्व-(भावानां [B:]भूतानां) सताम् इति विनिश्चयः सर्वं जनयति प्राणश् चेतो-अंशून् पुरुषः पृथक् //
SK
विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः स्वप्नमाया(स[B:]स्व)रूपेति सृष्टिर् अन्यैर् विकल्पिता //
SK
विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टि-चिन्तकाः स्वप्न-माया-(स-[B:]स्व-)रूप ईति सृष्टिर् अन्यैर् विकल्पिता //
SK
इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः //
SK
इच्छा-मात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः कालात् प्रसूतिं भूतानां मन्यन्ते काल-चिन्तकाः //
SK
भोगार्थं सृष्तिर् इत्य् अन्ये क्रीडार्थम् इति चापरे देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा //
SK
भोग-अर्थं सृष्तिर् इत्य् अन्ये क्रीडा-अर्थम् इति च अपरे देवस्य एष स्व-भावो ऽयम् आप्त-कामस्य का स्पृहा //
SK
निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः अद्वैतः सर्वभावानां देवस् तुर्यो विभुः स्मृतः //
SK
निवृत्तेः सर्व-दुःखानाम् ईशानः प्रभुर् अ-व्ययः अ-द्वैतः सर्व-भावानां देवस् तुर्यो विभुः स्मृतः //
SK
कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ प्राज्ञः कारणबद्धस् तु (द्वौ तौ [B:]द्वे तु) तुर्ये न सिध्यतः //
SK
कार्य-कारण-बद्धौ ताव् इष्येते विश्व-तैजसौ प्राज्ञः कारण-बद्धस् तु (द्वौ तौ [B:]द्वे तु) तुर्ये न सिध्यतः //
SK
नात्मानं न (परांश् [S:]परं) चैव न सत्यं नापि चानृतम् प्राज्ञः किंचन संवेत्ति (तुर्यं तत् [B:]तुरीयः) सर्वदृक् सदा //
SK
ना अत्मानं न (परांश् [S:]परं) च एव न सत्यं न अपि च अन्-ऋतम् प्राज्ञः किं-चन संवेत्ति (तुर्यं तत् [B:]तुरीयः) सर्व-दृक् सदा //
SK
द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते //
SK
द्वैतस्य अ-ग्रहणं तुल्यम् उभयोः प्राज्ञ-तुर्ययोः बीज-निद्रा-आयुतः प्राज्ञः सा च तुर्ये न विद्यते //
SK
स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः //
SK
स्वप्न-निद्रा-आयुताव् आद्यौ प्राज्ञस् त्व् अ-स्वप्न-निद्रया न निद्रां न एव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः //
SK
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते //
SK
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अ-जानतः विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते //
SK
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा //
SK
अन्-आदि-मायया सुप्तो यदा जीवः प्रबुध्यते अ-जम् अ-निद्रम् अ-स्वप्नम् अ-द्वैतं बुध्यते तदा //
SK
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः //
SK
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः माया-मात्रम् इदं द्वैतम् अ-द्वैतं परम-अर्थतः //
SK
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते //
SK
विकल्पो विनिवर्तेत कल्पितो यदि केन-चित् उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते //
SK
विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कटम् मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च //
SK
विश्वस्य अत्व-विवक्षायाम् आदि-सामान्यम् उत्कटम् मात्रा-संप्रतिपत्तौ स्याद् आप्ति-सामान्यम् एव च //
SK
तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथाविधम् //
SK
तैजसस्य उत्व-विज्ञाने उत्कर्षो दृश्यते स्फुटम् मात्रा-संप्रतिपत्तौ स्याद् उभयत्वं तथा-विधम् //
SK
मकारभावे प्राज्ञस्य मानसामान्यम् उत्कटम् मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च //
SK
म-कार-भावे प्राज्ञस्य मान-सामान्यम् उत्कटम् मात्रा-संप्रतिपत्तौ तु लय-सामान्यम् एव च //
SK
त्रिषु धामसु (यत् [B:]यस्) तुल्यं सामान्यं वेत्ति निश्चितः स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः //
SK
त्रिषु धामसु (यत् [B:]यस्) तुल्यं सामान्यं वेत्ति निश्चितः स पूज्यः सर्व-भूतानां वन्द्यश् च एव महा-मुनिः //
SK
अकारो नयते विश्वम् उकारश् चापि तैजसम् मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः //
SK
अ-कारो नयते विश्वम् उ-कारश् च अपि तैजसम् म-कारश् च पुनः प्राज्ञं न अ-मात्रे विद्यते गतिः //
SK
ॐकारं पादशो विद्यात् पादा मात्रा न संशयः ॐकारं पादशो ज्ञात्वा न किंचिद् अपि चिन्तयेत् //
SK
ॐ-कारं पादशो विद्यात् पादा मात्रा न संशयः ॐ-कारं पादशो ज्ञात्वा न किं-चिद् अपि चिन्तयेत् //
SK
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् //
SK
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्-भयम् प्रणवे नित्य-युक्तस्य न भयं विद्यते क्व-चित् //
SK
प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च (परः [B:,S:]परं) स्मृतः अपूर्वो ऽनन्तरो ऽबाह्यो अनपरः प्रणवो ऽव्ययः //
SK
प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च (परः [B:,S:]परं) स्मृतः अ-पूर्वो ऽन्-अन्तरो ऽ-बाह्यो अन्-अपरः प्रणवो ऽ-व्ययः //
SK
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम् //
SK
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथ ऐव च एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अन्-अन्तरम् //
SK
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् सर्वव्यापिनम् ॐकारं मत्वा धीरो न शोचति //
SK
प्रणवं ही इश्वरं विद्यात् सर्वस्य हृदि संस्थितम् सर्व-व्यापिनम् ॐ-कारं मत्वा धीरो न शोचति //
SK
अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः ॐकारो विदितो येन स मुनिर् नेतरो जनः //
SK
अ-मात्रो ऽन्-अन्त-मात्रश् च द्वैतस्य उपशमः शिवः ॐ-कारो विदितो येन स मुनिर् न इतरो जनः //
SK
चोल्: इति (माण्डूक्यो१पनिषद्-अर्था३विष्-करण-परायां गौडपादीय-कारिकायां प्रथमम् आगम-प्रकरणम् [B:]गौद-पादीये आगम-शास्त्रे आगमा३ख्यं प्रथमं प्रकरणं समाप्तम्)

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gauḍapāda-kārikā (Āgamaśāstra): corpustei HTML transform of the Āgamaśāstra.

Source