Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya

Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

% p.921 nyāyadarśanam atha caturthādhyāyasyādyam āhnikam

SK
********************** Nय्SBह्_४,१.१ **********************
SK
मनसो ऽनन्तरं प्रवृत्तिः परीक्षितव्या/ तत्र खलु यावद् धर्माधर्माश्रयशरीरादि परीक्षितम्, सर्वा सा प्रवृत्तेः परीक्षेत्य् आह ---
SK
Nय्S_४,१.१: प्रवृत्तिर् यथोक्ता ||
SK
तथा परीक्षितेति
SK
********************** Nय्SBह्_४,१.२ **********************
SK
% प्.९२३ प्रवृत्त्यनन्तरास् तर्हि दोषाः परीक्ष्यन्ताम् इत्य् अत आह ---
SK
Nय्S_४,१.२: तथा दोषाः ||
SK
परीक्षिता इति/ बुद्धिसमानाश्रयत्वाद् आत्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच् च संसारहेतवः, संसारस्यानादित्वाद् अनादिना प्रबन्धेन प्रवर्तन्ते, मिथ्याज्ञाननिवृत्तिस् तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषप्रबन्धोच्छ्येदे ऽपवर्ग इति/ प्रादुर्भावतिरोधानधर्मका इत्येवमाद्युक्तम् दोषाणाम् इति
SK
********************** Nय्SBह्_४,१.३ **********************
SK
% प्.९२४ प्रवर्तनालक्षणा दोषा इत्य् उक्तम्, तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः, ते कस्मान् नोपसङ्ख्यायन्ते इत्य् अत आह ---
SK
Nय्S_४,१.३: तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ||
SK
तेषां दोषाणां त्रयो राशयस् त्रयः पक्षाः/ रागपक्षः --- कामो मत्सरः स्पृहा तृष्णा लोभ इति/ द्वेषपक्षः --- क्रोध ईर्ष्या असूया द्रोहो ऽमर्ष इति/ मोहपक्षो
SK
% प्.९२५ मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति/ त्रैराश्यान् नोपसङ्ख्यायन्ते इति/ लक्षणस्य तर्ह्य् अभेदात् त्रित्वम् अनुपपन्नम्? नानुपपन्नम्, रागद्वेषमोहार्थान्तरभावात्;
SK
% प्.९२६ आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति/ एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम् --- विजानात्य् अयं शरीरी रागम् उत्पन्नम् ``अस्ति मे ऽध्यात्मं रागधर्मऽऽ इति/ विरागं च विजानाति ---``नास्ति मे ऽध्यात्मं रागधर्मऽऽ इति/ एवम् इतरयोर् अपीति/ मानेर्ष्यासूयाप्रभृतयस् तु त्रैराश्यम् अनुपतिता इति नोपसङ्ख्यायन्ते
SK
********************** Nय्SBह्_४,१.४ **********************
SK
% प्.९२७
SK
Nय्S_४,१.४: नैकप्रत्यनीकभावात् ||
SK
नार्थान्तरं रागादयः/ कस्मात्? एकप्रत्यनीकभावात् --- तत्त्वज्ञानं सम्यङ्मतिर् आर्यप्रज्ञा सम्बोध इत्य् एकम् इदं प्रत्यनीकं त्रयाणाम् इति
SK
********************** Nय्SBह्_४,१.५ **********************
SK
% प्.९२८
SK
Nय्S_४,१.५: व्यभिचाराद् अहेतुः ||
SK
एकप्रत्यनीकाः पृथिव्यां श्यामादयो ऽग्निसंयोगेनैकेन, एकयोनयश् च पाकजा इति
SK
********************** Nय्SBह्_४,१.६ **********************
SK
सति चार्थान्तरभावे ---
SK
Nय्S_४,१.६: तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ||
SK
मोहः पापः, पापतरो वा द्वाव् अभिप्रेत्योक्तम्/ कस्मात्? नामूढस्येतरोत्पत्तेः ---
SK
% -तरोत्पत्तेः ---] प्.९२९ अमूढस्य रागद्वेषा नोत्पद्यन्ते मूढस्य तु यथासङ्कल्पम् उत्पत्तिः, विषयेषु रञ्जनीयाः सङ्कल्पा रागहेतवः, कोपनीयाः सङ्कल्पा द्वेषहेतवः, उभये च सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणत्वान् मोहाद् अन्ये, ताव् इमौ मोहयोनी रागद्वेषाव् इति/ तत्त्वज्ञानाच् च मोहनिवृत्तौ रागद्वेषानुत्पत्तिर् इत्य् एकप्रत्यनीकभावोपपत्तिः/ एवं च कृत्वा तत्त्वज्ञानाद् ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति व्याख्यातम् इति
SK
********************** Nय्SBह्_४,१.७ **********************
SK
% प्.९३० प्राप्तस् तर्हि ---
SK
Nय्S_४,१.७: निमित्तनैमित्तिकभावाद् अर्थान्तरभावो दोषेभ्यः ||
SK
अन्यद् धि निमित्तम् अन्यच् च नैमित्तिकम् इति दोषनिमित्तत्वाद् अदोषो मोह इति
SK
********************** Nय्SBह्_४,१.८ **********************
SK
Nय्S_४,१.८: न दोषलक्षणावरोधान् मोहस्य ||
SK
प्रवर्त्तनालक्षणा दोषा इत्य् अनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति
SK
********************** Nय्SBह्_४,१.९ **********************
SK
% प्.९३१
SK
Nय्S_४,१.९: निमित्तनैमित्तिकोपपत्तेश् च तुल्यजातीयानाम् अप्रतिषेधः ||
SK
द्रव्याणां गुणानां वानेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्यजातीयानां दृष्ट इति
SK
********************** Nय्SBह्_४,१.१० **********************
SK
दोषानन्तरं प्रेत्यभावः, तस्यासिद्धिर् आत्मनो नित्यत्वात् --- न खलु नित्यं किंचिज् जायते म्रियते वा इति जन्ममरणयोर् नित्यत्वाद् आत्मनो ऽनुपपत्तिः, उभयं च प्रेत्यभाव इति तत्रायं सिद्धानुवादः ---
SK
Nय्S_४,१.१०: आत्मनित्यत्वे प्रेत्यभावसिद्धिः ||
SK
नित्यो ऽयम् आत्मा प्रैति पूर्वशरीरं जहाति म्रियते इति, प्रेत्य च पूर्वशरीरं हित्वा
SK
% प्.९३२ भवति जायते शरीरान्तरम् उपादत्त इति/ तच् चैतद् उभयं ``पुनर् उत्पत्तिः प्रेत्यभावःऽऽ इत्य् अत्रोक्तं पूर्वशरीरं हित्वा शरीरान्तरोपादानं प्रेत्यभावः इति तच् चैतन्नित्यत्वे सम्भवतीति/ यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावः तस्य कृतहानम् अकृताभ्यागमश् च दोषः/ उच्छेदहेतुवादे ऋष्युपदेशाश् चानर्थका इति
SK
********************** Nय्SBह्_४,१.११ **********************
SK
% प्.९३३ कथम् उत्पत्तिर् इति चेत् ---
SK
Nय्S_४,१.११: व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ||
SK
केन प्रकारेण किंधर्मकात् कारणाद् व्यक्तं शरीराद्य् उत्पद्यत इति? व्यक्ताद् भूतसमाख्यातात् पृथिव्यादितः परमसूक्ष्मान् नित्याद् व्यक्तं शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यम् उत्पद्यते/ व्यक्तं च खल्व् इन्द्रियग्राह्यं तत्सामान्यात् कारणम् अपि व्यक्तम्/ किं सामान्यम्? रूपादिगुणयोगः रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते/
SK
% -व्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते/] प्.९३४ प्रत्यक्षप्रामाण्यात् --- दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस् तथाभूतस्य द्रव्यस्योत्पादः, तेन चादृष्टस्यानुमानम् इति/ रूपादीनाम् अन्वयदर्शनात् प्रकृतिविकारयोः, पृथिव्यादीनां नित्यानाम् अतीन्द्रियाणां कारणभावो ऽनुमीयत इति
SK
********************** Nय्SBह्_४,१.१२ **********************
SK
Nय्S_४,१.१२: न घटाद् घटानिष्पत्तेः ||
SK
इदम् अपि प्रत्यक्षम् --- न खलु व्यक्ताद् घटाद् व्यक्तो घट उत्पद्यमानो दृश्यते इति, व्यक्ताद् व्यक्तस्यानुत्पत्तिदर्शनान् न व्यक्तं कारणम् इति
SK
********************** Nय्SBह्_४,१.१३ **********************
SK
% प्.९३५
SK
Nय्S_४,१.१३: व्यक्ताद् घटनिष्पत्तेर् अप्रतिषेधः ||
SK
न ब्रूमः सर्वं सर्वस्य कारणम् इति, किन् तु यद् उत्पद्यते व्यक्तं द्रव्यं तत् तथाभूताद् एवोत्पद्यते इति/ व्यक्तं च तन्मृद्द्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते/ न चैतन्निह्नुवानः क्वचिद् अभ्यनुज्ञां लब्धुम् अर्हतीति/ तद् एतत् तत्त्वम्
SK
********************** Nय्SBह्_४,१.१४ **********************
SK
अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते ---
SK
Nय्S_४,१.१४: अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ||
SK
% प्.९३६ असतः सद् उत्पद्यते इत्य् अयं पक्षः/ कस्मात्? उपमृद्य प्रादुर्भावात्/ उपमृद्य बीजम् अङ्कुर उत्पद्यते नानुपमृद्य, न चेद् वीजोपमर्दो ऽङ्कुरकारणम् अनुपमर्दे ऽपि बीजस्याङ्कुरोत्पत्तिः स्याद् इति
SK
********************** Nय्SBह्_४,१.१५ **********************
SK
अत्राभिधीयते ---
SK
Nय्S_४,१.१५: व्याघाताद् अप्रयोगः ||
SK
उपमृद्य प्रादुर्भावाद् इत्य् अयुक्तः प्रयोगो व्याघातात्/ यद् उपमृद्नाति न तद् उपमृद्य प्रादुर्भवितुम् अर्हति विद्यमानत्वात्/ यच् च प्रादुर्भवति न तेनाप्रादुर्भूतेनाविद्यमानेनोपमर्द इति
SK
********************** Nय्SBह्_४,१.१६ **********************
SK
% प्.९३७
SK
Nय्S_४,१.१६: नातीतानागतयोः कारकशब्दप्रयोगात् ||
SK
अतीते चानागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते/ पुत्रो जनिष्यते, जनिष्यमाणं पुत्रम् अभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत् कुम्भः, भिन्नं कुम्भम् अनुशोचति, भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्तीति बहुलं भाक्ताः प्रयोगा दृश्यन्ते/ का पुनर् इयं भक्तिः? आनन्तर्यं भक्तिः, आनन्तर्यसामर्थ्याद् उपमृद्य प्रादुर्भावार्थः, प्रादुर्भविष्यन्न् अङ्कुर उपमृद्नातीति भाक्तं कर्तृत्वम् इति
SK
********************** Nय्SBह्_४,१.१७ **********************
SK
% प्.९३८
SK
Nय्S_४,१.१७: न विनष्टेभ्यो ऽनिष्पत्तेः ||
SK
न विनष्टाद् बीजाद् अङ्कुर उत्पद्यते इति तस्मान् नाभावाद् भावोत्पत्तिर् इति
SK
********************** Nय्SBह्_४,१.१८ **********************
SK
% प्.९३९
SK
Nय्S_४,१.१८: क्रमनिर्देशाद् अप्रतिषेधः ||
SK
उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः, स खल्व् अभावाद् भावोत्पत्तेर् हेतुर् निर्दिश्यते; स च न प्रतिषिध्यते इति/ व्याहतव्यूहानाम् अवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्तिर् नाभावात्/ बीजावयवाः कुतश्चिन् निमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तराद् अङ्कुर उत्पद्यते/ दृश्यन्ते खलु अवयवास् तत्संयोगाश् चाङ्कुरोत्पत्तिहेतवः/ न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुम् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,
SK
% -म् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,] प्.९४० तस्मान् नाभावाद् भावोत्पत्तिर् इति/ न चान्यद् बीजावयवेभ्यो ऽङ्कुरोत्पत्तिकारणम् इत्य् उपपद्य्ते बीजोपादाननियम इति
SK
********************** Nय्SBह्_४,१.१९ **********************
SK
अथापर आह ---
SK
Nय्S_४,१.१९: ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ||
SK
पुरुषो ऽयं समीहमानो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते पराधीनं पुरुषस्य कर्मफलाराधनम् इति, यदधीनं स ईश्वरः/ तस्माद् ईश्वरः कारणम् इति
SK
********************** Nय्SBह्_४,१.२० **********************
SK
% प्.९४२
SK
Nय्S_४,१.२०: न पुरुषकर्माभावे फलानिष्पत्तेः ||
SK
ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहाम् अन्तरेण फलं निष्पद्येतेति
SK
********************** Nय्SBह्_४,१.२१ **********************
SK
% प्.९४३
SK
Nय्S_४,१.२१: तत्कारितत्वाद् अहेतुः ||
SK
पुरुषकारम् ईश्वरो ऽनुगृह्णाति, फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति/ यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति/ तस्माद् ईश्वरकारितत्वात् अहेतुः पुरुषकर्माभावे फलानिष्पत्तेर् इति/ गुणविशिष्टम् आत्मान्तरम् ईश्वरः/ तस्य आत्मकल्पात् कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टम् आत्मान्तरम् ईश्वरः,
SK
% प्.९४४ तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधम् ऐश्वर्यम्/ सङ्कल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्तयति/ एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यम् ईश्वरस्य स्वकृतकर्मफलं वेदितव्यम्/ आप्तकल्पश् चायम् --- यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम्/ न चात्मकल्पाद् अन्यः कल्पः सम्भवति/ न तावद् अस्य बुद्धिं विना कश्चिद् धर्मो लिङ्गभूतः शक्य उपपादयितुम्/ आगमाच् च द्रष्टा बोद्धा सर्वज्ञाता ईश्वर इति/ बुद्ध्यादिभिश् चात्मलिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम्/
SK
% लिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम्/] प्.९४५ स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यद् उक्तं प्रतिषेधजातम् अकर्मनिमित्ते शरीरसर्गे तत् सर्वं प्रसज्यते इति
SK
********************** Nय्SBह्_४,१.२२ **********************
SK
% प्.९५८ अपर इदानीम् आह ---
SK
Nय्S_४,१.२२: अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ||
SK
अनिमित्ता शरीराद्युत्पत्तिः कस्मात्? कण्टकतैक्ष्ण्यादिदर्शनात्/ कण्टकस्य
SK
% प्.९५९ तैक्ष्ण्यम्, पर्वतधातूनां चित्रता, ग्राव्णां श्लक्ष्णता, निर्निमित्तं च उपादानवच् च दृष्टं तथा शरीरादिसर्गो .पीति
SK
********************** Nय्SBह्_४,१.२३ **********************
SK
Nय्S_४,१.२३: अनिमित्तनिमित्तत्वान् नानिमित्ततः ||
SK
अनिमित्ततो भावोत्पत्तिर् इत्य् उच्यते यतश् चोत्पद्यते तन्निमित्तम्/ अनिमित्तस्य निमित्तत्वान् नानिमित्ता भावोत्पत्तिर् इति
SK
********************** Nय्SBह्_४,१.२४ **********************
SK
% प्.९६०
SK
Nय्S_४,१.२४: निमित्तानिमित्तयोर् अर्थान्तरभावाद् अप्रतिषेधः ||
SK
अन्यद् धि निमित्तम् अन्यच् च निमित्तप्रत्याख्यानम्, न च प्रत्याख्यानम् एव प्रत्याख्येयं
SK
% प्.९६१ यथानुदकः कमण्डलुर् इति नोदकप्रतिषेध उदकं भवतीति/ स खल्व् अयं वादो ऽकर्मनिमित्तः शरीरादिसर्ग इत्य् एतस्मान् न भिद्यते, अभेदात् तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति
SK
********************** Nय्SBह्_४,१.२५ **********************
SK
% प्.९६२ अन्ये तु मन्यन्ते ---
SK
Nय्S_४,१.२५: सर्वम् अनित्यम् उत्पत्तिविनाशधर्मकत्वात् ||
SK
किम् अनित्यं नाम? यस्य कदाचिद् भावस् तद् अनित्यम्/ उत्पत्तिधर्मकम् अनुत्पन्नं नास्ति विनाशधर्मकं च विनष्टं नास्ति/ किं पुनः सर्वम्? भौतिकं च शरीरादि
SK
% प्.९६३ अभौतिकं च बुद्ध्यादि, तद् उभयम् उत्पत्तिविनाशधर्मकं विज्ञायते, तस्मात् तत् सर्वम् अनित्यम् इति
SK
********************** Nय्SBह्_४,१.२६ **********************
SK
Nय्S_४,१.२६: नानित्यतानित्यत्वात् ||
SK
यदि तावत् सर्वस्यानित्यता नित्या, तन्नित्यत्वान् न सर्वम् अनित्यम्/ अथानित्या तस्याम् अविद्यमानायां सर्वं नित्यम् इति
SK
********************** Nय्SBह्_४,१.२७ **********************
SK
% प्.९६४
SK
Nय्S_४,१.२७: तदनित्यत्वम् अग्नेर् दाह्यं विनाश्यानुविनाशवत् ||
SK
तस्या अनित्यताया अप्य् अनित्यत्वम्/ कथम्? यथा अग्निर् दाह्यं विनाश्यानुविनश्यति एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति
SK
********************** Nय्SBह्_४,१.२८ **********************
SK
Nय्S_४,१.२८: नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ||
SK
अयं खलु वादो नित्यं प्रत्याचष्टे, नित्यस्य च प्रत्याख्यानम् अनुपपन्नम्/ कस्मात्? यथोपलब्धि व्यवस्थानात्/ यस्योत्पत्तिविनाशधर्मकत्वम् उपलभ्यते प्रमाणतस् तद् अनित्यम्,
SK
% प्.९६५ यस्य नोपलभ्यते तद्विपरीतम्/ न च परमसूक्ष्माणां भूतानाम् आकाशकालदिगात्ममनसां तद्गुणानां च केषाञ्चित् सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते, तस्मान् नित्यान्य् एतानीति
SK
********************** Nय्SBह्_४,१.२९ **********************
SK
% प्.९६६ अयम् अन्य एकान्तः ---
SK
Nय्S_४,१.२९: सर्वं नित्यं पञ्चभूतनित्यत्वात् ||
SK
भूतमात्रम् इदं सर्वं तानि च नित्यानि भूतोच्छेदानुपपत्तेर् इति
SK
********************** Nय्SBह्_४,१.३० **********************
SK
Nय्S_४,१.३०: नोत्पत्तिविनाशकारणोपलब्धेः ||
SK
उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च, तत् सर्वनित्यत्वे व्याहन्यते इति
SK
********************** Nय्SBह्_४,१.३१ **********************
SK
% प्.९६७
SK
Nय्S_४,१.३१: तल्लक्षणावरोधाद् अप्रतिषेधः ||
SK
यस्योत्पत्तिविनाशकारणम् उपलभ्यते इति मन्यसे, न तद् भूतलक्षणहीनम् अर्थान्तरं गृह्यते, भूतलक्षणावरोधाद् भूतमात्रम् इदम् इत्य् उक्तो ऽयं प्रतिषेध इति
SK
********************** Nय्SBह्_४,१.३२ **********************
SK
% प्.९६८
SK
Nय्S_४,१.३२: नोत्पत्तितत्कारणोपलब्धेः ||
SK
कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते/ न चैतद् उभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुम्, न चाविषया काचिद् उपलब्धिः/ उपलब्धिसामर्थ्यात् कारणेन समानगुणं कार्यम् उत्पद्यते इत्य् अनुमीयते, स खलूपलब्धेर् विषय इति/ एवं च तल्लक्षणावरोधोपपत्तिर् इति/ उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति/ प्रसिद्धश् चावयवी तद्धर्मा/ उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति/
SK
% प्.९६९ शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः/ पञ्चभूतनित्यत्वात् तल्लक्षणावरोधाच् चेत्य् अनेन शब्दकर्मबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश् च न व्याप्ताः तस्माद् अनेकान्तः/ स्वप्नविषयाभिमानवन् मिथ्योपलब्धिर् इति चेत् भूतोपलब्धौ तुल्यम्/ यथा स्वप्ने विषयाभिमान एवम् उत्पत्तिकारणाभिमान इति/ एवं चैतद् भूतोपलब्धौ तुल्यं पृथिव्याद्युपलब्धिर् अपि स्वप्नविषयाभिमानवत् प्रसज्यते/
SK
% प्.९७० पृथिव्याद्यभावे सर्वव्यवहारविलोप इति चेत् तद् इतरत्र समानम् --- उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्य् अभावे सर्वव्यवहारविलोप इति, सो ऽयं नित्यानाम् अतीन्द्रियत्वाद् अविषयत्वाच् चोत्पत्तिविनाशयोः स्वप्नविषयाभिमानवद् इत्य् अहेतुर् इति
SK
********************** Nय्SBह्_४,१.३३ **********************
SK
अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रम् उपजायते स खलूत्पत्तिविनाशयोर् विषयः/
SK
% -शयोर् विषयः/] प्.९७१ यच् चोपजायते तत् प्राग् अप्य् उपजननाद् अस्ति, यच् च निवर्तते तन् निवृत्तम् अप्य् अस्तीति, एवं च सर्वस्य नित्यत्वम् इति?
SK
Nय्S_४,१.३३: न व्यवस्थानुपपत्तेः ||
SK
अयम् उपजनः इयं निवृत्तिर् इति व्यवस्था नोपपद्यते, उपजातनिवृत्तयोर् विद्यमानत्वात्/ अयं धर्म उपजातो ऽयं निवृत्त इति सद्भावाविशेषाद् अव्यवस्था, इदानीम् उपजननिवृत्ती नेदानीम् इति कालव्यवस्था नोपपद्यते सर्वदा विद्यमानत्वात् अस्य धर्मस्योपजननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,
SK
% -जननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,] प्.९७२ उभ्योर् अविशेषात्/ अनागतो ऽतीत इति च कालव्यवस्थानुपपत्तिः, वर्तमानस्य सद्भावलक्षणत्वात्/ अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिर् इत्य् एतस्मिन् सति नैते दोषाः/ तस्माद् यद् उक्तं प्राग् अप्य् उपजनाद् अस्ति निवृत्तं चास्ति तद् अयुक्तम् इति
SK
********************** Nय्SBह्_४,१.३४ **********************
SK
अयम् अन्य एकान्तः ---
SK
Nय्S_४,१.३४: सर्वं पृथग् भावलक्षणपृथक्त्वात् ||
SK
सर्वं नाना न कश्चिद् एको भावो विद्यते/ कस्मात्? भावलक्षणपृथक्त्वात् --- भावस्य लक्षणम् अभिधानम्, येन लक्ष्यते भावः स समाख्याशब्दः, तस्य पृथग्विषयत्वात्/
SK
% प्.९७३ सर्वो भावसमाख्याशब्दः समूहवाची, कुम्भ इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे बुध्नपार्श्वग्रीवादिसमूहे च वर्त्तते, निदर्शनमात्रं चेदम् इति
SK
********************** Nय्SBह्_४,१.३५ **********************
SK
Nय्S_४,१.३५: नानेकलक्षणैर् एकभावनिष्पत्तेः ||
SK
अनेकविधलक्षणैर् इति मध्यमपदलोपी समासः/ गन्धादिभिश् च गुणैर् बुध्नादिभिश् चावयवैः सम्बद्ध एको भावो निष्पद्यते, गुणव्यतिरिक्तं च द्रव्यम् अवयवातिरिक्तश् चावयवीति/ विभक्तन्यायं चैतद् उभयम् इति
SK
********************** Nय्SBह्_४,१.३६ **********************
SK
% प्.९७४ अथापि ---
SK
Nय्S_४,१.३६: लक्षणव्यवस्थानाद् एवाप्रतिषेधः ||
SK
न कश्चिद् एको भाव इत्य् अयुक्तः प्रतिषेधः/ कस्मात्? लक्षणव्यवस्थानाद् एव/ यद् इह लक्षणं भावस्य संज्ञाशब्दभूतं तद् एकस्मिन् व्यवस्थितम्, यं कुम्भम् अद्राक्षं तं स्पृशामि यम् एवास्प्राक्षं तं पश्यामीति नाणुसमूहो गृह्यते इति/ अणुसमूहे चागृह्यमाणे यद् गृह्यते तद् एकम् एवेति/ अथाप्य् एतद् अनूक्तम् नास्त्य् एको भावो यस्मात् समुदायः, एकानुपपत्तेर् नास्त्य् एव समूहः --- नास्त्य् एको भावो यस्मात् समूहे भावशब्दप्रयोगः;एकस्य चानुपपत्तेः
SK
% प्.९७५ समूहो नोपपद्यते एकसमुच्चयो हि समूह इति/ व्याहतत्वाद् अनुपपन्नं --- नास्त्य् एको भाव इति यस्य प्रतिषेधः प्रतिज्ञायते, समूहे भावशब्दप्रयोगाद् इति हेतुं ब्रुवता स एवाभ्यनुज्ञायते, एकसमुच्चयो हि समूह इति/ समूहे भावशब्दप्रयोगाद् इति च समूहम् आश्रित्य प्रत्येकं समूहिप्रतिषेधो नास्त्य् एको भाव इति/ सो ऽयम् उभयतो व्याघाताद् यत्किञ्चनवाद इति
SK
********************** Nय्SBह्_४,१.३७ **********************
SK
% प्.९७७ अयम् अपर एकान्तः ---
SK
Nय्S_४,१.३७: सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेः ||
SK
यावद् भावजातं तत् सर्वम् अभावः/ कस्मात्? भावेष्व् इतरेतराभावसिद्धेः/ ``असन् गौर् अश्वात्मनाऽऽ अनश्वो गौः ``असन्न् अश्वो गवात्मना अगौर् अश्वःऽऽ इत्य् असत्प्रत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात् सर्वम् अभाव इति
SK
********************** Nय्SBह्_४,१.३८ **********************
SK
% प्.९७८ प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश् च व्याघाताद् अयुक्तम्/ अनेकस्याशेषता सर्वशब्दस्यार्थो, भावप्रतिषेधश् चाभावशब्दस्यार्थः/ पूर्वं सोपाख्यम् उत्तरं निरुपाख्यं तत्र
SK
% प्.९७९ समुपाख्यायमानं कथं निरुपाख्यम् अभावः स्याद् इति? न जात्व् अभावो निरुपाख्यो ऽनेकतयाशेषतया शक्यः प्रतिज्ञातुम् इति/ सर्वम् एतद् अभाव इति चेत् --- यद् इदं सर्वम् इति मन्यसे तदभाव इति? एवं चेत् अनिवृत्तो व्याघातः, अनेकम् अशेषं चेति नाभावे प्रत्ययेन शक्यं भवितुम्/ अस्ति चायं प्रत्ययः सर्वम् इति, तस्मान् नाभाव इति/ प्रतिज्ञाहेत्वोश् च व्याघातः --- सर्वम् अभाव इति भावप्रतिषेधः प्रतिज्ञा, भावेष्व् इतरेतराभावसिद्धेर् इति हेतुः/ भावेष्व् इतरेतराभावम् अनुज्ञायाश्रित्य च इतरेतराभावसिद्ध्या सर्वम् अभाव इत्य् उच्यते/ यदि सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेर् इति नोपपद्यते/ अथ भावेष्व् इतरेतराभावसिद्धिः, सर्वम् अभाव इति नोपपद्यते/
SK
% प्.९८० सूत्रेण चाभिसम्बन्धः/
SK
Nय्S_४,१.३८: न स्वभावसिद्धेर् भावानाम् ||
SK
न सर्वम् अभावः/ कस्मात्? स्वेन भावेन सद्भावाद् भावानाम्/ स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते/ कश् च स्वो धर्मो भावानाम्? द्रव्यगुणकर्मणां सदादिसामान्यम्, द्रव्याणां क्रियावद् इत्येवमादिविशेषः, स्पर्शपर्यन्ताः पृथिव्या इति च; प्रत्येकं चानन्तो भेदः/ सामान्यविशेषसमवायानां च विशिष्टा धर्मा गृह्यन्ते/
SK
% प्.९८१ सो ऽयम् अभावस्य निरुपाख्यत्वात् सम्प्रत्यायको ऽर्थभेदो न स्यात्? अस्ति त्व् अयम्, तस्मान् न सर्वम् अभाव इति/ अथ वा न स्वभावसिद्धेर् भावानाम् इति स्वरूपसिद्धेर् इति/ गौर् इति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते, नाभावमात्रम्/ यदि च सर्वम् अभावः गौर् इत्य् अभावः प्रतीयेत, गोशब्देन चाभाव उच्येत/ यस्मात् तु गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस् तस्माद् अयुक्तम् इति/ अथ वा न स्वभावसिद्धेर् इति/ असन् गौर् अश्वात्मनेति गवात्मना कस्मान् नोच्यते? अवचनाद् गवात्मना गौर् अस्तीति स्वभावसिद्धिः, अनश्वो ऽश्व इति वा गौर् अगौर् इति वा कस्मान् नोच्यते? अवचनात् स्वेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते/
SK
% प्.९८२ अव्यतिरेकप्रतिषेधे च भावेन असत्प्रत्ययसामानाधिकरण्यम् भावे संयोगादिसम्बन्धो व्यतिरेकः/ अत्र अव्यतिरेकः अभेदाख्यसम्बन्धः तत्प्रतिषेधे सदा च असत्प्रत्ययसामानाधिकरण्यम्, यथा न सन्ति कुण्डे बदराणीति/ असन् गौर् अश्वात्मना अनश्वो गौर् इति च गवाश्वयोर् अव्यतिरेकः प्रतिषिध्यते गवाश्वयोर् एकत्वं नास्तीति/ तस्मिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यम् असत्प्रत्ययस्य असन् गौर् अश्वात्मनेति, यथा न सन्ति कुण्डे बदराणीति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिर् असत्प्रत्ययस्य सामानाधिकरण्यम् इति
SK
********************** Nय्SBह्_४,१.३९ **********************
SK
% प्.९८३
SK
Nय्S_४,१.३९: न स्वभावसिद्धिर् आपेक्षिकत्वात् ||
SK
अपेक्षाकृतम् आपेक्षिकम्/ ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं ह्रस्वम्, न स्वेनात्मनावस्थितं किञ्चित्/ कस्मात्? अपेक्षासामर्थ्यात्/ तस्मान् न स्वभावसिद्धिर् भावानाम् इति
SK
********************** Nय्SBह्_४,१.४० **********************
SK
Nय्S_४,१.४०: व्याहतत्वाद् अयुक्तम् ||
SK
यदि ह्रस्वापेक्षाकृतं दीर्घं ह्रस्वम् अनापेक्षिकम्/ किम् इदानीम् अपेक्ष्य ह्रस्वम् इति गृह्यते? अथ दीर्घापेक्षाकृतं ह्रस्वम्, दीर्घम् अनापेक्षिकम्? एवम् इतरेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना/
SK
% रेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना/] प्.९८४ स्वभावसिद्धाव् असत्यां समयोः परिमण्डलयोर् वा द्रव्ययोर् आपेक्षिके दीर्घत्वह्रस्वत्वे कस्मान् न भवतः? अपेक्षायाम् अनपेक्षायां च द्रव्ययोर् अभेदः/ यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नान्यतरत्र भेदः/ आपेक्षिकत्वे तु सत्य् अन्यतरत्र विशेषोपजनः स्याद् इति/
SK
% प्.९८५ किम् अपेक्षासामर्थ्यम् इति चेत्? द्वयोर् ग्रहणे ऽतिशयग्रहणोपपत्तिः/ द्वे द्रव्ये पश्यन्न् एकत्र विद्यमानम् अतिशयं गृह्णाति तद् दीर्घम् इति व्यवस्यति, यच् च हीनं गृह्णाति तद् ध्रस्वम् इति व्यवस्यतीति/ एतच् चापेक्षासामर्थ्यम् इति
SK
********************** Nय्SBह्_४,१.४१ **********************
SK
% प्.९८६ अथेमे सङ्ख्यैकान्तवादाः --- सर्वम् एकं सदविशेषात्/
SK
% प्.९८७ सर्वं द्वेधा नित्यानित्यभेदात्/ सर्वं त्रेधा ज्ञाता ज्ञानं ज्ञेयम् इति/ सर्वं चतुर्द्धा प्रमाता प्रमाणं प्रमेयं प्रमितिर् इति/ एवं यथासम्भवम् अन्ये ऽपीति/ तत्र परीक्षा ---
SK
% प्.९८८
SK
Nय्S_४,१.४१: सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ||
SK
यदि साध्यसाधनयोर् नानात्वम्, एकान्तो न सिद्ध्यति व्यतिरेकात्/ अथ
SK
% प्.९८९ साध्यसाधनयोर् अभेदः? एवम् अप्य् एकान्तो न सिध्यति साधनाभावात्, न हि हेतुम् अन्तरेण कस्यचित् सिद्धिर् इति
SK
********************** Nय्SBह्_४,१.४२ **********************
SK
Nय्S_४,१.४२: न कारणावयवभावात् ||
SK
न सङ्ख्यैकान्तानाम् असिद्धिः कस्मात्? कारणस्यावयवभावात्/ अवयवः कश्चित् साधनभूत इत्य् अव्यतिरेकः/ एवं द्वैतादीनाम् अपीति
SK
********************** Nय्SBह्_४,१.४३ **********************
SK
% प्.९९०
SK
Nय्S_४,१.४३: निरवयवत्वाद् अहेतुः ||
SK
कारणस्यावयवभावाद् इत्य् अहेतुः/ कस्मात्? सर्वम् एकम् इत्य् अनपवर्गेण प्रतिज्ञाय कस्यचिद् एकत्वम् उच्यते, तत्र व्यपवृक्तो ऽवयवः साधनभूतो नोपपद्यते/ एवं द्वैतादिष्व् अपीति/
SK
% प्.९९१ ते खल्व् इमे सङ्ख्यैकान्ता यदि विशेषकारितस्यार्थभेदविस्तारस्य प्रत्याख्यानेन वर्त्तन्ते, प्रत्यक्षानुमानागमविरोधान् मिथ्यावादा भवन्ति/ अथाभ्यनुज्ञानेन वर्त्तन्ते? समानधर्मकारितो ऽर्थसंग्रहो विशेषकारितश् चार्थभेद इति एवम् एकान्तत्वं जहतीति/ ते खल्व् एते तत्त्वज्ञानप्रविवेकार्थम् एकान्ताः परीक्षिता इति
SK
********************** Nय्SBह्_४,१.४४ **********************
SK
% प्.९९२ प्रेत्यभावानन्तरं फलम्, तस्मिन् ---
SK
Nय्S_४,१.४४: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ||
SK
पचति दोग्धीति सद्यः फलमोदनपयसी, कर्षति वपतीति कालान्तरे फलं
SK
% प्.९९३ शस्याधिगम इति/ अस्ति चेयं क्रिया अग्निहोत्रं जुहुयात् स्वर्गकाम इति एतस्याः
SK
% प्.९९४ फले संशयः/ न सद्यः कालान्तरोपभोग्यत्वात् / स्वर्गः फलं श्रूयते, तच् च भिन्ने ऽस्मिन् देहभेदाद् उत्पद्यते इति/ न सद्यः ग्रामादिकामानाम्üआरम्भफलम् इति
SK
********************** Nय्SBह्_४,१.४५ **********************
SK
% प्.९९५
SK
Nय्S_४,१.४५: कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ||
SK
ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणम् अन्तरेणोत्पत्तुम् अर्हति, न खलु वै विनष्टात् कारणात् किञ्चिद् उत्पद्यते इति
SK
********************** Nय्SBह्_४,१.४६ **********************
SK
Nय्S_४,१.४६: प्राङ् निष्पत्तेर् वृक्षफलवत् तत् स्यात् ||
SK
यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते, तस्मिंश् च प्रध्वस्ते पृथिवीधातुर् अब्धातुना संगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्तयति, स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण सन्निविशमानः पर्णादि फलं निर्वर्तयति, एवं परिषेकादि कर्म चार्थवत्/ न च विनष्टात् फलनिष्पत्तिः/ तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते, स जातो निमित्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति/ उक्तञ् चैतत् ``पूर्वकृतफलानुबन्धात् तदुत्पत्तिर्ऽऽ इति
SK
********************** Nय्SBह्_४,१.४७ **********************
SK
% प्.९९६ तद् इदं प्राङ् निष्पत्तेर् निष्पद्यमानम्---
SK
Nय्S_४,१.४७: नासन् न सन् न सदसत् सदसतोर् वैधर्म्यात् ||
SK
प्राङ् निष्पत्तेर् निष्पत्तिधर्मकं नासत्, उपादाननियमात्/ कस्यचिद् उत्पत्तये किञ्चिद् उपादेयं न सर्वं सर्वस्येत्य् असद्भावे नियमो नोपपद्यते इति/ न सत्, प्राङ् उत्पत्तेर् विद्यमानस्योत्पत्तिर् अनुपपन्नेति/ न, सदसत् सदसतोर् वैधर्म्यात्
SK
% प्.९९७ सद् इत्य् अर्थाभ्यनुज्ञा, असद् इति अर्थप्रतिषेधः, एतयोर् व्याघातो वैधर्म्यं व्याघाताद् अव्यतिरेकानुपपत्तिर् इति
SK
********************** Nय्SBह्_४,१.४८ **********************
SK
प्राग् उत्पत्तेर् उत्पत्तिधर्मकम् असद् इत्य् अद्धा/ कस्माअत्?
SK
Nय्S_४,१.४८: उत्पादव्ययदर्शनात् ||
SK
% प्.९९९ यत् पुनरुक्तं प्राग् उत्पत्तेः कार्यं नासद् उपादाननियमाद् इति---
SK
********************** Nय्SBह्_४,१.४९ **********************
SK
Nय्S_४,१.४९: बुद्धिसिद्धं तु तद् असत् ||
SK
इदम् अस्योत्पत्तये समर्थं न सर्वम् इति प्राग् उत्पत्तेर् नियतकारणं कार्यं बुद्ध्या
SK
% प्.१००० सिद्धम् उत्पत्तिनियमदर्शनात्/ तस्माद् उपादाननियमस्योपपत्तिः सति तु कार्ये प्राग् उत्पत्तेर् उत्पत्तिर् एव नास्तीति
SK
********************** Nय्SBह्_४,१.५० **********************
SK
% प्.१००३
SK
Nय्S_४,१.५०: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्य् अहेतुः ||
SK
मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्, कर्म चेह शरीरे, फलं चामुत्र इत्य् आश्रयव्यतिरेकाद् अहेतुर् इति
SK
********************** Nय्SBह्_४,१.५१ **********************
SK
% प्.१००४
SK
Nय्S_४,१.५१: प्रीतेर् आत्माश्रयत्वाद् अप्रतिषेधः ||
SK
प्रीतिर् आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयम् एव कर्म धर्मसंज्ञितम्, धर्मस्यात्मगुणत्वात् तस्माद् आश्रयव्यतिरेकानुपपत्तिर् इति
SK
********************** Nय्SBह्_४,१.५२ **********************
SK
Nय्S_४,१.५२: न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ||
SK
पुत्रादि फलं निर्दिश्यते न प्रीतिः, ``ग्रामकामो यजेतऽऽ ``पुत्रकामो यजेतेऽऽति तत्र यद् उक्तं प्रीतिः फलम् इत्य् एतद् अयुक्तम् इति
SK
********************** Nय्SBह्_४,१.५३ **********************
SK
% प्.१००५
SK
Nय्S_४,१.५३: तत्सम्बन्धात् फलनिष्पत्तेस् तेषु फलवदुपचारः ||
SK
पुत्रादिसम्बन्धात् फलं प्रीतिलक्षणम् उत्पद्यते इति पुत्रादिषु फलवदुपचारः, यथान्ने प्राणशब्दो ``अन्नं वै प्राणाःऽऽइति
SK
********************** Nय्SBह्_४,१.५४ **********************
SK
% प्.१००६ फलानन्तरं दुःखम् उद्दिष्टम्, उक्तं च ``बाधनालक्षणं दुःखम्ऽऽइति/ तत् किम् इदं प्रत्यात्मवेदनीयस्य सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम्, आहोस्विद् अन्यः कल्प इति? अन्य इत्य् आह/ कथम्? न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम्/ अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखान् निर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति/
SK
% भावनोपदेशो दुःखहानार्थ इति/] प्.१००७ कया युक्त्या? सर्वे खलु सत्त्वनिकायाः सर्वाण्य् उत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्याद् बाधनालक्षणं दुःखम् इत्य् उक्तम् ऋषिभिः, दुःखसंज्ञाभावनम् उपदिश्यते अत्र च हेतुर् उपादीयते---
SK
Nय्S_४,१.५४: विविधबाधनायोगाद् दुःखम् एव जन्मोत्पत्तिः ||
SK
जन्म जायते इति शरीरेन्द्रियबुद्धयः शरीरादीनां च संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः/ विविधा च बाधना, हीना मध्यमा उत्कृष्टा चेति/ उत्कृष्टा नारकिणाम्, तिरश्चां तु मध्यमा, मनुष्याणां तु हीना, देवानां हीनतरा वीतरागाणां च/ एवं सर्वम् उत्पत्तिस्थानं विविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते/
SK
% बुद्धिषु दुःखसंज्ञा व्यवतिष्ठते/] प्.१००८ दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्व् अनभिरतिसंज्ञा भवति/ अनभिरतिसंज्ञाम् उपासीनस्य सर्वलोकविषया तृष्णा विच्छिद्यते, तृष्णाप्रहाणात् सर्वदुःखाद् विमुच्यते इति/ यथा विषयोगात् पयो विषम् इति बुध्यमानो नोपादत्ते, अनुपाददानो मरणदुःखं नाप्नोति
SK
********************** Nय्SBह्_४,१.५५ **********************
SK
दुःखोद्देशस् तु न सुखस्य प्रत्याख्यानम्, कस्मात्?
SK
Nय्S_४,१.५५: न सुखस्यान्तरालनिष्पत्तेः ||
SK
न खल्व् अयं दुःखोद्देशः सुखस्य प्रत्याख्यानम्/ कस्मात्, सुखस्यान्तरालनिष्पत्तेः/ निष्पद्यते खलु बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं शरीरिणाम्, तद् अशक्यं प्रत्याख्यातुम् इति
SK
********************** Nय्SBह्_४,१.५६ **********************
SK
% प्.१००९ अर्थापि---
SK
Nय्S_४,१.५६: बाधनानिवृत्तेर् वेदयतः पर्येषणदोषाद् अप्रतिषेधः ||
SK
सुखस्य, दुःखोद्देशेनेति प्रकरणात् पर्येषणं प्रार्थना विषयार्जनतृष्णा, पर्येषणस्य दोषो यद् अयं वेदयमानः प्रार्थयते तच् चास्य प्रार्थितं न सम्पद्यते, सम्पद्य वा विपद्यते, न्यूनं वा सम्पद्यते, बहुप्रत्यनीकं वा सम्पद्यते इति एतस्मात् पर्येषणदोषान् नानाविधो मानसः सन्तापो भवति एवं वेदयतः पर्येषणदोषाद् बाधनाया अनिवृत्तिः/ बाधनानिवृत्तेर् दुःखसंज्ञाभावनम् उपदिश्यते / अनेन कारणेन दुःखं जन्म न तु सुखस्याभावाद् इति/
SK
% प्.१०१० अथाप्य् एतद् अनूक्तम्--- ``कामं कामयमानस्य यदा कामः समृध्यति/ अथैनम् अपरः कामः क्षिप्रम् एव प्रबाधते//ऽऽ ``अपि चेद् उदनेमि समन्ताद् भूमिम् इमां लभते सगवाश्वाम्/ न स तेन धनेन धनैषी तृप्यति किन् नु सुखं धनकामे//ऽऽ इति
SK
********************** Nय्SBह्_४,१.५७ **********************
SK
% प्.१०११
SK
Nय्S_४,१.५७: दुःखविकल्पे सुखाभिमानाच् च ||
SK
दुःखसंज्ञाभावनोपदेशः क्रियते/ अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते, न सुखाद् अन्यन् निःश्रेयसम् अस्ति सुखे प्राप्ते चरितार्थः कृतकरणीयो भवति/ मिथ्यासङ्कल्पात् सुखे तत्साधनेषु च विषयेषु संरज्यते, संरक्तः सुखाय घटते, घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तम् अनेकविधं यावद् दुःखम् उत्पद्यते, तं दुःखविकल्पं सुखम् इत्य् अभिमन्यते/ सुखाङ्गभूतं दुखम्, न दुःखम् अनासाद्य शक्यं सुखम् अवाप्तुम्, तादर्थ्यात् सुखम् एवेदम् इति सुखसंज्ञोपहतप्रज्ञो जायस्व चेति संधावतीति संसारं
SK
% प्.१०१२ नातिवर्त्तते/ तद् अस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनम् उपदिश्यते, *दुःखानुषङ्गाद् (चोर्र्.; दुःखानुसङ्गाद्, एद्.) दुःखं जन्मेति, न सुखस्याभावात्/ यद्य् एवं कस्माद् दुःखं जन्मेति नोच्यते? सो ऽयम् एवं वाच्ये यद् एवम् आह दुःखम् एव जन्मेति तेन सुखाभावं ज्ञापयतीति जन्म विनिग्रहार्थीयो वै खल्व् अयम् एवशब्दः/ कथम्? न दुःखं जन्म स्वरूपतः, किं तु दुःखोपचारात्; एवं सुखम् अपीति एतद् अनेनैव निर्वर्त्त्यते न तु दुःखम् एव जन्मेति
SK
********************** Nय्SBह्_४,१.५८ **********************
SK
% प्.१०१३ दुःखोद्देशानन्तरम् अपवर्गः, स प्रत्याख्यायते---
SK
Nय्S_४,१.५८: ऋणक्लेशप्रवृत्त्यनुबन्धाद् अपवर्गाभावः ||
SK
ऋणानुबन्धान् नास्त्य् अपवर्गः---``जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणैर् ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यऽऽ इति ऋणानि, तेषाम् अनुबन्धः स्वकर्मभिः सम्बन्धः, कर्मसम्बन्धवचनात् ``जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णम् आसौ चऽऽ इति ``जरया ह वा एष तस्मात् सत्राद् विमुच्यते मृत्युना ह वाऽऽ इति *ऋणानुबन्धाद् (चोर्र्.; ऋणानुवन्धाद्, एद्.) अपवर्गानुष्ठानकालो नास्तीत्य् अपवर्गाभावः/
SK
% प्.१०१४ क्लेशानुबन्धान् नास्त्य् अपवर्गः क्लेशानुबद्ध एवायं म्रियते, क्लेशानुबद्धश् च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते/ प्रवृत्त्यनुबन्धान् नास्त्य् अपवर्गः---जन्मप्रभृत्य् अयं यावत् प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो गृह्यते, तत्र यद् उक्तं ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति, तद् अनुपपन्नम् इति
SK
********************** Nय्SBह्_४,१.५९ **********************
SK
अत्राभिधीयते/ यत् तावद् ऋणानुबन्धाद् इति ऋणैर् इव ऋणैर् इति---
SK
Nय्S_४,१.५९: प्रधानशब्दानुपपत्तेर् गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ||
SK
ऋणैर् इति नायं प्रधानशब्दः/ यत्र खल्व् एकः प्रत्यादेयं ददाति, द्वितीयश् च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानम् ऋणशब्दः/ न चैतद् इहोपपद्यते, प्रधानशब्दानुपपत्तेः, गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति/
SK
% नुपपत्तेः गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति/] प्.१०१५ प्रयुक्तोपमं चैतद् यथाग्निर् माणवक इति---अन्यत्र दृष्टश् चायम् ऋणशब्द इह प्रयुज्यते, यथाग्निशब्दो माणवके/ कथं गुणशब्देनानुवादः? निन्दाप्रशंसोपपत्तेः/ कर्मलोपे ऋणीव ऋणादानान् निन्द्यते, कर्मानुष्ठाने च ऋणीव ऋणदानात् प्रशस्यते स एवोपमार्थ इति/
SK
% प्.१०१६ जायमान इति गुणशब्दो विपर्यये ऽनधिकारात्/ जायमानो ह वै ब्राह्मण इति च गुणशब्दो गृहस्थः सम्पद्यमानो जायमान इति; यदायं गृहस्थो जायते तदा कर्मभिर् अधिक्रियते मातृतो जायमानस्यानधिकारात्/ यदा तु मातृतो जायते कुमारो न तदा कर्मभिर् अधिक्रियते अर्थिनः शक्तस्य चाधिकारात्/ अर्थिनः कर्मभिर् अधिकारः कर्मविधौ कामसंयोगस् मृतेः ``अग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्य् एवमादि/ शक्तस्य च (३*) प्रवृत्तिसम्भवात् शक्तस्य कर्मभिर् अधिकारः प्रवृत्तिसम्भवात्/ (४*) शक्तः खलु विहिते कर्मणि प्रवर्त्तते नेतर इति/ उभयाभावस् तु प्रधानशब्दार्थे/ मातृतो जायमाने कुमारे उभयम् अर्थिता शक्तिश् च न भवतीति/
SK
% प्.१०१७ न भिद्यते च लौकिकाद् वाक्याद् वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन/ तत्र लौकिकस् तावद् अपरीक्षको ऽपि न *जातमात्रं (चोर्र्.; जातप्रात्रं, एद्.) कुमारकम् एवं ब्रूयाद् अधीष्व यजस्व ब्रह्मचर्यं चरेति/ कुत एवम् ऋषिर् उपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति? न खलु वै नर्त्तको ऽन्धेषु प्रवर्त्तते न गायको बधिरेष्व् इति/ उपदिष्टार्थविज्ञानं चोपदेशविषयः/ यश् चोपदिष्टम् अर्थं विजानाति तं प्रत्य् उपदेशः क्रियते, न चैतद् अस्ति जायमानकुमारक इति/ गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्म अभिवदति/ यच् च मन्त्रब्राह्मणं कर्म अभिवदति तत् पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नम्, तस्माद् गृहस्थो ऽयं जायमानो ऽभिधीयते इति/ अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः/
SK
% प्.१०१८ यावच् चास्य फलेनार्थित्वं न विपरिणमते न निवर्तते तावद् अनेन कर्मानुष्ठेयम् इत्य् उपपद्यते जरामर्यवादस् तं प्रतीति/ जरया ह वेत्य् आयुषस्üतुरीयस्य चतुर्थस्य प्रव्रज्यायुक्तस्य वचनं ``जरया ह वा एष एतस्माद् विमुच्यतेऽऽ इति/ आयुषस् तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्य् उच्यते, तत्र हि प्रव्रज्या विधीयते; अत्यन्तजरासंयोगे जरया ह वेत्य् अनर्थकम्/ ``अशक्तो विमुच्यतेऽऽ इत्य् एतद् अपि नोपपद्यते, स्वयम् अशक्तस्य बाह्यां शक्तिम् आह---``अन्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जहुयाद् धनेन स परिक्रीतऽऽ इति/
SK
% प्.१०१९ अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येत? विहितानुवचनं न्याय्यम् इति/ ऋणवान् इवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्त्तते इत्य् उपपन्नं वाक्यस्य
SK
% प्.१०२० सामर्थ्यम्/ फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय कल्पन्ते/ विहितं च जायमानम्, विधीयते च जायमानम्, तेन यः सम्बद्ध्यते सो ऽयं जायमान इति/ प्रत्यक्षविधानाभावाद् इति चेन् न, प्रतिषेधस्यापि प्रत्यक्षविधानाभावाद् इति/ प्रत्यक्षतो विधीयते *गार्हस्थ्यं (चोर्र्.; गार्हथ्यं, एद्.) ब्राह्मणेन, यदि चाश्रमान्तरम् अभविष्यत् तद् अपि व्यधास्यत
SK
% प्.१०२१ प्रत्यक्षतः, प्रत्यक्षविधानाभावान् नास्त्य् आश्रमान्तरम् इति/ न, प्रतिषेधस्यापि प्रत्यक्ष्तो विधानाभावात्/ न प्रतिषेधो ऽपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते --- न सन्त्य् आश्रमान्तराणि एक एव गृहस्थाश्रम इति प्रतिषेधस्य प्रत्यक्षतो ऽश्रवणाद् अयुक्तम् एतद् इति/ अधिकाराच् च विधानं विद्यान्तरवत्/ यथा शास्त्रान्तराणि स्वे स्वे ऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद् एवम् इदं ब्राह्मणं गृहस्थशास्त्रं स्वे ऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणाम् अभावाद् इति/
SK
% प्.१०२२ ऋग्ब्राह्मणं चापवर्गाभिधाय्य् अभिधीयते/ ऋचश् च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति/ ऋचश् च तावत् --- ``कर्मभिर् मृत्युम् ऋषयो निषेदुः प्रजावन्तो द्रविणम् इच्छमानाः/ अथापरे ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वम् आनशुः//ऽऽ ``न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः/ परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति//ऽऽ ``वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्/ तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय//ऽऽ अथ ब्राह्मणानि --- ``त्रयो धर्मस्कन्धाः ---यज्ञो ऽध्ययनं दानम् इति प्रथमस् तप एव द्वितीयो ब्रह्मचार्य् आचार्यकुलवासीति तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन् सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वम् एति/ऽऽ ``एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीतिऽऽ/
SK
% प्.१०२३ अथो खल्व् आहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर् भवति यत्क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसंपद्यते/ऽऽ इति कर्मभिः संसरणम् उक्त्वा प्रकृतम् अन्यद् उपदिशन्ति ``इति नु कामयमानो ऽथाकामयमानो यो ऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य् एतीतिऽऽ/ तत्र यद् उक्तम् ऋणानुबन्धाद् अपवर्गाभाव इत्य् एतद् अयुक्तम् इति/ ``ये चत्वारः पथयो देवयानाऽऽ इति च चातुराश्रम्यश्रुतेर् ऐकाश्रम्यान् उपपत्तिः
SK
********************** Nय्SBह्_४,१.६० **********************
SK
फलार्थिनश् चेदं ब्राह्मणं ``जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्. दर्शपूर्णम् आसौ चेतिऽऽ कथम्?
SK
Nय्S_४,१.६०: समारोपणाद् आत्मन्य् अप्रतिषेधः ||
SK
% प्.१०२४ ``प्राजापत्याम् इष्टं निरूप्य तस्यां सर्ववेदसं हुत्वा आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्ऽऽ इति *श्रूयते (चोर्र्.; श्रूयते, एद्.)/ तेन विजानीमः प्रजावित्तलोकैषणाभ्यो व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं विधीयते इति/ एवं च ब्राह्मणानि ``सो ऽन्यद् व्रतम् उपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीम् इति होवाच प्रव्रजिष्यन् वा अरे अहम् अस्मात् स्थानाद् अस्मि हन्त ते ऽनया कात्यायन्या सहान्तं करवाणीति/ अथाप्य् उक्तानुशासनासि मैत्रेयि एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यः प्रवव्राजेतिऽऽ
SK
% प्.१०२५
SK
********************** Nय्SBह्_४,१.६१ **********************
SK
Nय्S_४,१.६१: पात्रचयान्तानुपपत्तेश् च फलाभावः ||
SK
जरामर्ये च कर्मण्य् अविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्यते, तत्रैषणाव्युत्थानं न श्रूयेत/ ``एतद् ध स्म वै तत् पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोक इति ते ह स्म पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्तीतिऽऽ/ एषणाभ्यश् च व्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्ते इति नाविशेषेण कर्त्तुः प्रयोजकं फलं भवतीति/
SK
% प्.१०२६ चातुराश्रम्यविधानाच् चेतिहासपुराणधर्मशास्त्रेष्व् ऐकाश्रम्यानुपपत्तिः/ तद् अप्रमाणम् इति चेद् न, प्रमाणेन प्रामाण्याभ्यनुज्ञानात् --- प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यम् अभ्यनुज्ञायते ``ते वा खल्व् एते अथर्वाङ्गिरस एतद् इतिहासपुराणम् अभ्यवदन्न् इतिहासपुराणं पञ्चमं वेदानां वेद इतिऽऽ/ तस्माद् अयुक्तम् एतदप्रामाण्यम् इति/ अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपाल् लोकोच्छेदप्रसङ्गः/
SK
% प्.१०२७ द्रष्टृप्रवक्तृसामाण्याच् चाप्रामान्यानुपपत्तिः/ ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश् च, ते खल्व् इतिहासपुराणस्य धर्मशास्त्रस्य चेति/ विषयव्यवस्थानाच् च यथाविषयं प्रामाण्यम्/ अन्यो मन्त्रब्राह्मणस्य विषयो ऽन्यच् चेतिहासपुराणधर्मशास्त्राणाम् इति/ यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तम् इतिहासपुराणस्य, लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः/ तत्रैकेन न सर्वं व्यवस्थाप्यते इति यथाविषयम् एतानि प्रमाणानीन्द्रियादिवद् इति
SK
********************** Nय्SBह्_४,१.६२ **********************
SK
% प्.१०२८ यत् पुनर् एतत् क्लेशानुबन्धस्याविच्छेदाद् इति ---
SK
Nय्S_४,१.६२: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावाद् अपवर्गः ||
SK
यथा सुषुप्तस्य खलु स्वप्नादर्शने रागानुबन्धः सुखदुःखानुबन्धश् च विच्छिद्यते तथापवर्गे ऽपीति/ एतच् च ब्रह्मविदो मुक्तस्यात्मनो रूपम् उदाहरन्तीति
SK
********************** Nय्SBह्_४,१.६३ **********************
SK
% प्.१०२९ यद् अपि प्रवृत्त्यनुबन्धाद् इति ---
SK
Nय्S_४,१.६३: न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ||
SK
प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्तिर् न प्रतिसन्धानाय/ प्रतिसन्धिस् तु पूर्वजन्मनिवृत्तौ पुनर्जन्म, तच् चादृष्टकारितम्, तस्यां प्रहीणायां पूर्वजन्माभावे जन्मान्तराभावो ऽप्रतिसन्धानम् अपवर्गः/ कर्मवैफल्यप्रसङ्ग इति चेद् न, कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात्/ पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्य् उच्यते, न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते, सर्वाणि पूर्वकर्माणि ह्य् अन्ते जन्मनि पिपच्यन्त इति
SK
********************** Nय्SBह्_४,१.६४ **********************
SK
% प्.१०३०
SK
Nय्S_४,१.६४: न क्लेशसन्ततेः स्वाभाविकत्वात् ||
SK
नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात्? क्लेशसन्ततेः स्वाभाविकत्वात्/ अनादिर् इयं क्लेशसन्ततिः, न चानादिः शक्य उच्छेतुम् इति
SK
********************** Nय्SBह्_४,१.६५ **********************
SK
अत्र कश्चित् परीहारम् आह ---
SK
Nय्S_४,१.६५: प्राग् उत्पत्तेर् अभावानित्यत्ववत् स्वाभाविके ऽप्य् अनित्यत्वम् ||
SK
यथानादिः प्राग् उत्पत्तेर् अभाव उत्पन्नेन भावेन निवर्त्यते, एवं स्वाभाविकी क्लेशसन्ततिर् अनित्येति
SK
********************** Nय्SBह्_४,१.६६ **********************
SK
% प्.१०३१ अपर आह ---
SK
Nय्S_४,१.६६: अणुश्यामता ऽन्य्त्यत्ववद् वा ||
SK
यथानादिर् अणुश्यामता अथ चाग्निसंयोगाद् अनित्या, तथा क्लेशसन्ततिर् अपीति/ सतः खलु धर्मो नित्यत्वम् अनित्यत्वं च, तत्त्वं भावे अभावे भाक्तम् इति/ अनादिर् अणुश्यामतेति हेत्वभावाद् अयुक्तम्/ अनुत्पत्तिधर्मकम् अनित्यम् इति नात्र हेतुर् अस्तीति
SK
********************** Nय्SBह्_४,१.६७ **********************
SK
% प्.१०३२ अयं तु समाधिः ---
SK
Nय्S_४,१.६७: न, सङ्कल्पनिमित्तत्वाच् च रागादीनाम् ||
SK
कर्मनिमित्तत्वाद् इतरेतरनिमित्तत्वाच् चेति समुच्चयः/ मिथ्यासङ्कल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते, कर्म च सत्त्वनिकायनिर्वर्तकं नैयमिकान् रागद्वेषमोहान् निर्वर्त्तयति, नियमदर्शनात्/ दृश्यते हि कश्चित् सत्त्वनिकायो रागबहुलः कश्चिद् द्वेषबहुलः कश्चिन् मोहबहुल इति/ इतरेतरनिमित्ता च रागादीनाम् उत्पत्तिः/ मूढो रज्यति मूढः कुप्यति रक्तो मुह्यति कुपितो मुह्यति/
SK
% प्.१०३३ सर्वमिथ्यासङ्कल्पानां तत्त्वज्ञानाद् अनुत्पत्तिः कारणानुत्पातौ च कार्यानुत्पत्तेर् इति रागादीनाम् अत्यन्तम् अनुत्पत्तिर् इति/ अनादिश् च क्लेशसन्ततिर् इत्य् अयुक्तम्, सर्वे इमे खल्व् आध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्त्तन्ते शरीरादयः, न जात्व् अत्र कश्चिद् अनुत्पन्नपूर्वः प्रथमत उत्पद्यते ऽन्यत्र तत्त्वज्ञानात्/ न चैवं सत्य् अनुत्पत्तिधर्मकं किञ्चिद् अव्ययधर्मकं प्रतिज्ञायते इति/ कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृतान् मिथ्यासङ्कल्पविघातान् न रागाद्युत्पत्तिनिमित्तं भवति, सुखदुःखसंवित्तिः फलं तु भवतीति
SK
% प्.१०३५ अथ चतुर्थाध्यायस्य द्वितीयम् आह्निकम्/
SK
********************** Nय्SBह्_४,२.१ **********************
SK
किं नु खलु भोः यावन्तो विषयास् तावत्सु प्रत्येकं तत्त्वज्ञानम् उत्पद्यते, अथ क्वचिद् उत्पद्यत इति/ कश् चात्र विशेषः? न तावद् एकैकत्र यावद् विषयम् उत्पद्यते ज्ञेयानाम् आनन्त्यात्/ नापि क्वचिद् उत्पद्यते, यत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः/ न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्धुम् इति/
SK
% प्.१०३६ मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रम्/ तच् च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस् तत्त्वतो ज्ञेय इति/ किं पुनस् तन् मिथ्याज्ञानम्? अनात्मन्य् आत्मग्रहः, अहम् अस्मीति मोहो ऽहङ्कार इति/ अनात्मानं खल्व् अहम् अस्मीति पश्यतो दृष्टिर् अहङ्कार इति/ किं पुनस् तदर्थजातं यद्विषयो ऽहङ्कारः? शरीरेन्द्रियमनोवेदनाबुद्धयः/ कथं तद्विषयो ऽहङ्कारः संसारबीजं भवति?
SK
% भवति?] प्.१०३७ अयं खलु शरीराद्यर्थजातम् अहम् अस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानो ऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस् तद् उपादत्ते, तद् उपाददानो जन्ममरणाय यतते, तेनावियोगान् नात्यन्तं दुःखाद् विमुच्यत इति/ यस् तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वम् इदं दुःखम् इति पश्यति स दुःखं परिजानति/ परिज्ञातं च दुःखं प्रहीणं भवत्य् अनुपादानात् सविषान्नवत्/ एवं दोषान् कर्म च दुःखहेतुर् इति पश्यति/ न चाप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुम् इति दोषान् जहाति, प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसन्धानायेत्य् उक्तम्/ प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश् च प्रहेयान्/ अपवर्गो ऽधिगन्तव्यस् तस्याधिगमोपायस् तत्त्वज्ञानम्/ एवं चतसृभिर् विधाभिः प्रमेयं विभक्तम् आसेवमानस्याभ्यस्यतो भावयतः सम्यग्दर्शनं यथाभूतावबोधस् तत्त्वज्ञानम् उत्पद्यते/ एवं च ---
SK
Nय्S_४,२.१: दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिः ||
SK
% प्.१०३८ शरीरादिदुःखान्तं प्रमेयं दोषनिमित्तं तद्विषयत्वान् मिथ्याज्ञानस्य/ तद् इदं तत्त्वज्ञानं तद्विषयम् उत्पन्नम् अहङ्कारं निवर्तयति समानविषये तयोर् विरोधात्/ एवं तत्त्वज्ञानाद् ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति/ स चायं शास्त्रार्थसंग्रहो ऽनूद्यते नापूर्वो विधीयते इति
SK
********************** Nय्SBह्_४,२.२ **********************
SK
% प्.१०३९ प्रसङ्ख्यानानुपूर्वी तु खलु ---
SK
Nय्S_४,२.२: दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ||
SK
कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते/ ते मिथ्या सङ्कल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति, तान् पूर्वं प्रसञ्चक्षीत/ तांश् च प्रसञ्चक्षाणस्य रूपादिविषयो मिथ्यासङ्कल्पो निवर्तते/ तन्निवृत्ताव् अध्यात्मं शरीरादि प्रसञ्चक्षीत/ तत्प्रसङ्ख्यानाद् अध्यात्मविषयो ऽहङ्कारो निवर्तते/
SK
% -द् अध्यात्मविषयो ऽहङ्कारो] प्.१०४० सो ऽयम् अध्यात्मं बहिश् च विविक्तचित्तो विहरन् मुक्त इत्य् उच्यते
SK
********************** Nय्SBह्_४,२.३ **********************
SK
अतः परं काचित् संज्ञा हेया काचिद् भावयितव्येत्य् उपदिश्यते, नाथनिराकरणम् अर्थोपादानं वा/ कथम् इति? ---
SK
Nय्S_४,२.३: तन्निमित्तं त्व् अवयव्यभिमानः ||
SK
तेषां दोषाणां निमित्तं त्व् अवयव्यभिमानः/ सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुषस्य, पुरुषसंज्ञा च स्त्रियाः सपरिष्कारा निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च/
SK
% च/] प्.१०४१ निमित्तसंज्ञा --- रसनाश्रोत्रम्, दन्तोष्ठम्, चक्षुर्नासिकम्/ अनुव्यञ्जनसंज्ञा --- इत्थं दण्डा इत्थम् ओष्ठाव् इति/ सेयं संज्ञा कामं वर्धयति तदनुषक्तांश् च दोषान् विवर्जनीयान्, वर्जनं त्व् अस्याः/ भेदेनावयवसंज्ञा --- केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोच्चारादिसंज्ञा;
SK
% -शोणितास्थि...] प्.१०४२ ताम् अशुभसंज्ञेत्य् आचक्षते/ ताम् अस्य भावयतः कामरागः प्रहीयते/ सत्य् एव च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्य् उपदिश्यते, यथा विषसम्पृक्ते ऽन्ने ऽन्नसंज्ञोपादानाय विषसंज्ञा प्रहाणायेति
SK
********************** Nय्SBह्_४,२.४ **********************
SK
% प्.१०४३ अथेदानीम् अर्थं निराकरिष्यतावयविनिराकरणम् उपपाद्यते ---
SK
Nय्S_४,२.४: विद्याविद्याद्वैविध्यात् संशयः ||
SK
सदसतोर् उपलम्भाद् विद्या द्विविधा, सदसतोर् अनुपलम्भाद् अविद्यापि द्विविधा/ उपलम्भ्यमाने ऽवयविनि विद्याद्वैविध्यात् संशयः, अनुपलभ्यमाने चाविद्याद्वैविध्यात् संशयः/ सो ऽयम् अवयवी *यद् उपलभ्यते (fओल्लोwइन्ग् ठकुर्, यद्य् अपलभ्यते ऋइन्सेन्) अथापि नोपलभ्यते न कथञ्चन संशयान् मुच्यत इति
SK
********************** Nय्SBह्_४,२.५ **********************
SK
% प्.१०४४
SK
Nय्S_४,२.५: तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ||
SK
तस्मिन्न् अनुपपन्नः संशयः/ कस्मात्? पूर्वोक्तहेतूनाम् अप्रतिषेधाद् अस्ति द्रव्यान्तरारम्भ इति
SK
********************** Nय्SBह्_४,२.६ **********************
SK
% प्.१०४५
SK
Nय्S_४,२.६: वृत्त्यनुपपत्तेर् अपि न संशयः ||
SK
वृत्त्यनुपपत्तेर् अपि तर्हि संशयानुपपत्तिर् नास्त्य् अवयवीति
SK
********************** Nय्SBह्_४,२.७ **********************
SK
तद् विभजते ---
SK
Nय्S_४,२.७: कृत्स्नैकदेशावृत्तित्वाद् अवयवानाम् अवयव्यभावः ||
SK
एकैको ऽवयवो न तावत् कृत्स्ने ऽवयविनि वर्तते, तयोः परिमाणभेदाद् अवयवान्तरसम्बन्धाभावप्रसङ्गाच् च/ नाप्य् अवयव्येकदेशेन, न ह्य् अस्यान्ये अवयवा एकदेशभूताः सन्तीति
SK
********************** Nय्SBह्_४,२.८ **********************
SK
% प्.१०४६ अथावयवेष्व् एवावयवी वर्तते---
SK
Nय्S_४,२.८: तेषु चावृत्तेर् अवयव्यभावः ||
SK
न तावत् प्रत्यवयवं वर्तते, तयोः परिमाणभेदाद् द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात्/ नाप्य् एकदेशैः सर्वेषु अन्यावयवाभावात्/ तद् एवं न युक्तः संशयो नास्त्य् अवयवीति//
SK
********************** Nय्SBह्_४,२.९ **********************
SK
% प्.१०४७
SK
Nय्S_४,२.९: पृथक् चावयवेभ्यो ऽवृत्तेः ||
SK
अवयव्यभाव इति वर्तते/ न चायं पृथग् अवयवेभ्यो वर्तते अग्रहणात् नित्यत्वप्रसङ्गाच् च/ तस्मान् नास्त्य् अवयवीति//
SK
********************** Nय्SBह्_४,२.१० **********************
SK
% प्.१०४८
SK
Nय्S_४,२.१०: न चावयव्यवयवाः ||
SK
न चावयवानां धर्मो ऽवयवी/ कस्मात्? धर्ममात्रस्य धर्मिभिर् अवयवैः पूर्ववत् सम्बन्धानुपपत्तेः/ पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्याग्रहणाद् इति समानम्
SK
********************** Nय्SBह्_४,२.११ **********************
SK
% प्.१०४९
SK
Nय्S_४,२.११: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेर् अप्रश्नः ||
SK
किं प्रत्यवयवं कृत्स्नो ऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः/ कस्मात्? एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः/ कृत्स्नम् इत्य् अनेकस्याशेषाभिधानम्, एकदेश इति नानात्वे कस्यचिद् अभिधानम्/ ताव् इमौ कृत्स्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्न् अवयविन्य् उअपपद्येते भेदाभावाद् इति
SK
********************** Nय्SBह्_४,२.१२ **********************
SK
अन्यावयवाभावान् नैकदेशेन वर्तत इत्य् अहेतुः---
SK
Nय्S_४,२.१२: अवयवान्तरभावे ऽप्य् अवृत्तेर् अहेतुः ||
SK
अवयवान्तराभावाद् इति/ यद्य् अपि एकदेशो ऽवयवान्तरभूतः स्यात् तथाप्य् अवयवे ऽवयवान्तरं वर्तते नावयवीति अन्यो ऽवयवीति/
SK
% -वान्तरं वर्तते ...] प्.१०५० अन्यावयवभावे ऽप्य् अवृत्तेर् अवयविनो नैकदेशेन वृत्तिर् अन्यावयवाभावाद् इत्य् अहेतुः/ वृत्तिः कथम् इति चेत्? एकस्यानेकत्राश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः/ आश्रयाश्रितभावः कथम् इति चेत्? यस्य यतो ऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः/ न कारणद्रव्येभ्यो ऽन्यत्र कार्यद्रव्यम् आत्मानं लभते विपर्ययस् तु कारणद्रव्येष्व् इति/ नित्येषु कथम् इति चेत्, अनित्येषु दर्शनात् सिद्धम्, नित्येषु द्रव्येषु कथम् आश्रयाश्रयिभाव इति चेत्? अनित्येषु द्रव्यगुणेषु दर्शनाद् आश्रयाश्रितभावस्य नित्येषु सिद्धिर् इति/
SK
% प्.१०५३ तस्माद् अवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य, नावयवी, यथा रूपादिषु मिथ्यासङ्कल्पो न रूपादय इति
SK
********************** Nय्SBह्_४,२.१३ **********************
SK
% प्.१०५४ सर्वाग्रहणम् अवयव्यसिद्धेर् इति प्रत्यवस्थितो ऽप्य् एतद् आह ---
SK
Nय्S_४,२.१३: केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ||
SK
यथैकैकः केशस् तैमिरिकेण नोपलभ्यते केशसमूहस् तूपलभ्यते, तथैकैको ऽणुर् नोपलभ्यते अणुसञ्चयस् तूपलभ्यते, तद् इदम् अणुसमूहविषयं ग्रहणम् इति
SK
********************** Nय्SBह्_४,२.१४ **********************
SK
Nय्S_४,२.१४: स्वविषयान् अतिक्रमेणेन्दिर्यस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभाअवो नाविषये प्रवृत्तिः ||
SK
यथाविषयम् इन्द्रियाणां पटुमन्दभावाद् विषयग्रहणानां पटुमन्दभावो भवति/ चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति, निकृष्यमाणं च न स्वविषयात् प्रच्यवते/ सो ऽयं तैमिरिकः कश्चिच् चक्षुर् विषयंकेशं न गृह्णाति, कश्चिद् गृह्णाति केशसमूहम्/
SK
% प्.१०५५ उभयं ह्य् अतैमिमिरिकेण चक्स्.उषा गृह्यते/ परमाणवस् त्व् अतीन्द्रिया इन्द्रियाविषयभूता न केनचिद् इन्द्रियेण गृह्यन्ते, समुदितास् तु गृह्यन्ते, इत्य् अविषये प्रवृत्तिर् इन्द्रियस्य प्रसज्येत/ न जात्व् अर्थान्तरम् अणुभ्यो गृह्यत इति/ ते खल्व् इमे परमाणवः सन्निहिता गृह्यमाणा अतीन्द्रियत्वं जहति, वियुक्ताश् चागृह्यमाणा इन्द्रियविषयत्वं न लभन्त इति/ सो ऽयं द्रव्यान्तरानुत्पत्ताव् अतिमहान् व्याघात इत्य् उपपद्यते द्रव्याअन्तरम् यद् ग्रहणस्य विषय इति/ सञ्चयमात्रं विषय इति चेन् न, सञ्चयस्य संयोगभावात् तस्य चातीन्द्रियस्याग्रहणाद् अयुक्तम्/ सञ्चयः खल्व् अनेकस्य संयोगः, स च गृह्यमाणाश्रयो गृह्यते नातीन्द्रियाश्रयः, भवति हीदम् अनेन संयुक्तम् इति/ तस्माद् युक्तम् एतद् इति/
SK
% प्.१०५६ गृह्यमाणस्य चेन्द्रियेण विषयस्यावरणाद्यनुपलब्धिकारणम् उपलभ्यते/ तस्मान् नेन्द्रियदौर्बल्याद् अनुपलब्धिर् अणूनाम्, यथा नेन्द्रियदौर्बल्याच् चक्षुषानुपलब्धिर् गन्धादीनाम् इति
SK
********************** Nय्SBह्_४,२.१५ **********************
SK
Nय्S_४,२.१५: अवयवावयविप्रसङ्गश् चैवम् आ प्रलयात् ||
SK
यः खल्व् अवयविनो ऽवयवेषु वृत्तिप्रतिषेधाद् अभावः सो ऽयम् अवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत, निरवयवाद् वा परमाणुतो निवर्तेत/ उभयथा चोपलब्धिविषयस्याभावः, तदभावाद् उपलभ्यभावः/ उपलभ्याश्रयश् चायं वृत्तिप्रतिषेधः, स आश्रयं व्याघ्नन् आत्मघाताय कल्पत इति
SK
********************** Nय्SBह्_४,२.१६ **********************
SK
% प्.१०५७ अथापि ---
SK
Nय्S_४,२.१६: न प्रलयो ऽनुसद्भावात् ||
SK
अवयवविभागम् आश्रित्य वृत्तिप्रतिषेधाद् अभावः प्रसज्यमानो निरवयवात् परमाणोर् निवर्तते न सर्वप्रलयाय कल्पते, निरवयवत्वं तु परमाणोर् विभागैर् अल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात्/ लोष्टस्य खलु प्रविभज्यमानावयवस्याल्पतरम् अल्पतमम् उत्तरम् उत्तरं भवति/ स चायम् अल्पतरप्रसङ्गः यस्मान् नाल्पतरम् अस्ति यः परमो ऽल्पस् तत्र निवर्तते, यतश् च नाल्पीयो ऽस्ति तं परमऽनुं प्रचक्ष्महे इति//१६\\
SK
********************** Nय्SBह्_४,२.१७ **********************
SK
% प्.१०५८
SK
Nय्S_४,२.१७: परं वा त्रुटेः ||
SK
अवयवविभागस्यानवस्थानाद् द्रव्याणाम् असङ्ख्येयत्वात् त्रुटित्वनिवृत्तिर् इति
SK
********************** Nय्SBह्_४,२.१८ **********************
SK
% प्.१०५९ अथेदानीम् आनुपलम्भिकः सर्वं नास्तीति मन्यमान आह ---
SK
Nय्S_४,२.१८: आकाशव्यतिभेदात् तदनुपपत्तिः ||
SK
तस्याणोर् निरवयवस्य नित्यस्यानुपपत्तिः/ कस्मात्? आकाशव्यतिभेदात्/ अन्तर् बहिश् चाणुर् आकाशेन समाविष्टो व्यतिभिन्नः, व्यतिभेदात् सावयवः, सावयवत्वाद् अनित्य इति
SK
********************** Nय्SBह्_४,२.१९ **********************
SK
% प्.१०६०
SK
Nय्S_४,२.१९: आकाशासर्वगतत्वं वा ||
SK
अथैतन् नेष्यते --- परमाणोर् अन्तर् नास्त्य् आकाशम् इत्य् असर्वगतत्वं प्रसज्यत इति
SK
********************** Nय्SBह्_४,२.२० **********************
SK
Nय्S_४,२.२०: अन्तर् बहिश् च कार्यद्रव्यस्य कारणान्तरवचनाद् अकार्ये तदभावः ||
SK
``अन्तर्ऽऽ इति पिहितं कारणान्तरैः कारणम् उच्यते/ ``बहिर्ऽऽ इति च व्यवधायकम् अव्यवहितं कारणम् एवोच्यते/ तद् एतत् कार्यद्रव्यस्य सम्भवति, नाणोर् अकार्यत्वात्/ अकार्ये हि परमाणाव् अन्तर् बहिर् इत्य् अस्याभावः/
SK
% हि परमाणाव् ...] प्.१०६१ यत्र चास्य भावो ऽनुकार्यं तत्, न परमाणुः, यतो हि नाल्पतरम् अस्ति स परमाणुर् इति
SK
********************** Nय्SBह्_४,२.२१ **********************
SK
% प्.१०६२
SK
Nय्S_४,२.२१: शब्दसंयोगविभवाच् च सर्वगतम् ||
SK
यत्र क्वचिद् उत्पन्नाः शब्दा विभवन्त्य् आकाशे --- तदाश्रया भवन्ति, मनोभिः परमाणुभिस् तत्कार्यैश् च संयोगा विभवन्त्य् आकाशे, नासंयुक्तम् आकाशेन किञ्चिन् मूर्तद्रव्यम् उपलभ्यते, तस्मान् नासर्वगतम् इति
SK
********************** Nय्SBह्_४,२.२२ **********************
SK
Nय्S_४,२.२२: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ||
SK
संसर्पता प्रतिघातिना द्रव्येण न व्युह्यते, यथा काष्ठेनोदकम्/ कस्मात्? निरवयवत्वात्/ सर्पच् च प्रतिघाति न विष्टम्भाति --- नास्य क्रियाहेतुं गुणं प्रतिबध्नाति/
SK
% प्.१०६३ कस्मात्? अस्पर्शत्वात्/ विपर्यये हि विष्टम्भो दृष्ट इति स भवान् सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशाङ्कितुम् अर्हति/ अण्ववयवस्याणुतरत्वप्रसङ्गाद् अनुकार्यप्रतिषेधः/ सावयवत्वे चाणोर् अण्ववयवो ऽनुतर इति प्रसज्यते/ कस्मात्? कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्/ तस्माद् अण्ववयवस्याणुतरत्वम्, यस् तु सावयवो ऽनुकार्यं तद् इति/ तस्माद् अनुकार्यम् इदं प्रतिषिध्यत इति/ कारणविभागाच् च कार्यस्यानित्यत्वम्, नाकाशव्यतिभेदात्/ लोष्टस्यावयवविभागाद् अनित्यत्वम्, नाकाशसमावेषाद् इति
SK
********************** Nय्SBह्_४,२.२३ **********************
SK
% प्.१०६४
SK
Nय्S_४,२.२३: मूर्तिमतां च संस्थानोपपत्तेर् अवयवसद्भावः ||
SK
परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलम् इत्य् उपपद्यते, यत् तत् संस्थानं सो ऽवयवसन्निवेषः, परिमण्डलाश् चाणवस् तस्मात् सावयवा इति
SK
********************** Nय्SBह्_४,२.२४ **********************
SK
Nय्S_४,२.२४: संयोगोपपत्तेश् च ||
SK
मध्ये सन्न् अणुः पूर्वापराभ्याम् अणुभ्याम् संयुक्तस् तयोर् व्यवधानं कुरुते/ व्यवधानेनानुमीयते पूर्वभागेन पूर्वेणाणुना संयुज्यते, परभागेन परेणाणुना संयुज्यते, यौ तौ पूर्वापरौ भागौ ताव् अस्यावयवौ, एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति/ यत् तावन् ``मूर्तिमतां संस्थानोपपत्तेर् अवयवसद्भावऽऽ इति? अत्रोक्तम्/ किम् उक्तम्? विभागे ऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्र निवृत्तेर् अणवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति/
SK
% प्.१०६५ यत् पुनर् एतत् संयोगोपपत्तेश् चेति? स्पर्शवत्त्वाद् व्यवधानम् आश्रयस्य चाव्याप्त्या भागभक्तिः/ उक्तं चात्र स्पर्शवान् अणुः स्पर्शवतोर् अण्वोः प्रतिघाताद् व्यवधायको न सावयवत्वात्/ स्पर्शवत्त्वाच् च व्यवधाने सत्य् अणुसंयोगो नाश्रयं व्याप्नोतीति भागभक्तिर् भवति भागवान्न् इवायम् इति/ उक्तं चात्र विभागे ऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति
SK
********************** Nय्SBह्_४,२.२५ **********************
SK
मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश् च परमाणूनां सावयवत्वम् इति हेत्वोः ---
SK
Nय्S_४,२.२५: अनवस्थाकारित्वाद् अनवस्थानुपपत्तेश् चाप्रतिषेधः ||
SK
यावन् मूर्तिमद् यावच् च संयुज्यते तत् सर्वं सावयवम् इत्य् अनवस्थाकारिणाव् इमौ हेतू, सा चानवस्था नोपपद्यते/ सत्याम् अनवस्थायां सत्यौ हेतू स्याताम्, तस्माद् अप्रतिषेधो ऽयं निरवयवत्वस्येति/
SK
% प्.१०६६ विभागस्य च विभज्यमानहानिर् नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यत इति/
SK
% प्.१०७१ अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानाम् आनन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रःअणम् समानपरिमाणत्वं चावयवावयविनोः परमण्ववयविभागाद् ऊर्ध्वम् इति
SK
********************** Nय्SBह्_४,२.२६ **********************
SK
% प्.१०७२ यद् इदं भवान् बुद्धीर् आश्रित्य बुद्धिविषयाः सन्तीति मन्यते मिथ्याबुद्धय एताः, यदि हि तत्त्वबुद्धयः स्युर् बुद्ध्या विवेचने याथात्म्यं बुद्धिविषयाणाम् उपलभ्येत ---
SK
Nय्S_४,२.२६: बुद्ध्या विवेचनात् तु भावानां याथात्म्यानुपलब्धिस् तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ||
SK
% प्.१०७३ यथायं तन्तुर् अयं तन्तुर् इति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिद् उपलभ्यते --- यत् पटबुद्धेर् विषयः स्यात्, याथात्म्यानुपलब्धेर् असति विषये पटबुद्धिर् भवन्ती मिथ्याबुद्धिर् भवति, एवं सर्वत्रेति
SK
********************** Nय्SBह्_४,२.२७ **********************
SK
Nय्S_४,२.२७: व्याहतत्वाद् अहेतुः ||
SK
यदि बुद्ध्या विवेचनं भावानां न सर्वभावानां याथात्म्यानुपलब्धिः/ अथ सर्वभावानां याथात्म्यानुपलब्धिर् न बुद्ध्या विवेचनम्/ भावानां बुद्ध्या विवेचनं याथात्म्यानुपलब्धिश् चेति व्याहन्यते/
SK
% याथात्म्यानुपलब्धिश् चेति व्याहन्यते/] प्.१०७४ तद् उक्तम् --- ``अवयवावयविप्रसङ्गश् चैवम् आ प्रलयाद्ऽऽ इति
SK
********************** Nय्SBह्_४,२.२८ **********************
SK
Nय्S_४,२.२८: तदाश्रयत्वाद् अपृथग्ग्रहणम् ||
SK
कार्यद्रव्यं कारणद्रव्याश्रितं तत् कारणेभ्यः पृथङ् नोपलभ्यते, विपर्यये पृथग्ग्रहणात्,
SK
% प्.१०७५ यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणम् इति/ बुद्ध्या विवेचनात् तु भावानां पृथग्ग्रहणम् अतीन्द्रियेष्व् अणुषु, यद् इन्द्रियेण गृह्यते तद् एतया बुद्ध्या विविच्यमानम् अन्यद् इति
SK
********************** Nय्SBह्_४,२.२९ **********************
SK
Nय्S_४,२.२९: प्रमाणतश् चार्थप्रतिपत्तेः ||
SK
बुद्ध्या विवेचनाद् भावानां याथात्म्योपलब्धिः, यद् अस्ति यथा च यन् नास्ति यथा च तत् सर्वं प्रमाणत उपलब्ध्या सिध्यति, या च प्रमाणत उपलोअब्धिस् तद् बुद्ध्या विवेचनं भावानाम्, तेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः/ परीक्षमाणो हि बुद्ध्याध्यवस्यतीदम् अस्तीदं नास्तीति तत्र न सर्वभावानुपपत्तिः
SK
********************** Nय्SBह्_४,२.३० **********************
SK
% प्.१०७६
SK
Nय्S_४,२.३०: प्रमाणानुपपत्त्युपपत्तिभ्याम् ||
SK
एवं च सति सर्वं नास्तीति नोपपद्यते, कस्मात्? प्रमाणानुपपत्त्युपपत्तिभ्याम्/ यदि सर्वं नास्तीति प्रमाणम् उपपद्यते, सर्वं नास्तीति एतद् व्याहन्यते/ अथ प्रमाणं नोपपद्यते, सर्वं नास्तीत्य् अस्य कथं सिद्धिः? अथ प्रमाणम् अन्तरेण सिद्धिः, सर्वम् अस्तीत्य् अस्य कथं न सिद्धिः?
SK
********************** Nय्SBह्_४,२.३१ **********************
SK
Nय्S_४,२.३१: स्वप्नविषयाभिमानवद् अयं प्रमाणप्रमेयाभिमानः ||
SK
यथा स्वप्ने न विषयाः सन्त्य् अथ चाभिमानो भवति, एवं न प्रमाणानि प्रमेयाणि च सन्त्य् अथ च प्रमाणप्रमेयाभिमानो भवति
SK
********************** Nय्SBह्_४,२.३२ **********************
SK
Nय्S_४,२.३२: मायागन्धर्वनगरमृगतृष्णिकावद् वा ||
SK
% प्.१०७७
SK
********************** Nय्SBह्_४,२.३३ **********************
SK
Nय्S_४,२.३३: हेत्वभावाद् असिद्धिः ||
SK
स्वप्नान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर् जागरितान्ते विषयोपलब्धिवद् इत्य् अत्र हेतुर् नास्ति/ हेत्वभावाद् असिद्धिः/ स्वप्नान्ते चासन्तो विषया उपलभ्यन्त इत्य् अत्रापि हेत्वभावः/
SK
% प्.१०७८ प्रतिबोधे ऽनुपलम्भाद् इति चेत्? प्रतिबोधविषयोपलम्भाद् अप्रतिषेधः/ यदि प्रतिबोधे णुपलम्भात् स्वप्ने विषया न सन्तीति, तर्हि य इमे प्रतिबुद्धेन विषया उपलभ्यन्त उपलम्भात् सन्तीति/ विपर्यये हि हेतुसामर्थ्यम्/ उपलम्भात् सद्भावे सत्य् अनुपलम्भाद् अभावः सिद्ध्यति, उभयथा त्व् अभावे नानुपलम्भस्य सामर्थ्यम् अस्ति, यथा प्रदीपस्याभावाद् रूपस्यादर्शनम् इति, तत्र भावेनाभावः समर्थ्यत इति/
SK
% प्.१०८० स्वप्नान्तविकल्पे च हेतुवचनम्/ स्वप्नविषयाभिमानवद् इति ब्रुवता स्वप्नान्तविकल्पे हेतुर् वाच्यः/ कश्चित् स्वप्नो भयोपसंहितः, कश्चित् प्रमोदोपसंहितः, कश्चिद् उभयविपरीतः, कदाचित् स्वप्नम् एव न पश्यतीति/ निमित्तवतस् तु स्वप्नविषयाभिमानस्य निमित्तविकल्पाद् विकल्पोपपत्तिः
SK
********************** Nय्SBह्_४,२.३४ **********************
SK
% प्.१०८३
SK
Nय्S_४,२.३४: स्मृतिसङ्कल्पवच् च स्वप्नविषयाभिमानः ||
SK
पूर्वोपलब्धविषयः/ यथा स्मृतिश् च सङ्कल्पश् च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानाय कल्पत इति/
SK
% कल्पत इति] प्.१०८४ एवं दृष्टविषयश् च स्वप्नान्तो जागरितान्तेन/ यः सुप्तः स्वप्नं पश्यति स एव जाग्रत् स्वप्नदर्शनानि प्रतिसन्धत्त इदम् अद्राक्षम् इति/ तत्र जाग्रद्बुद्धिवृत्तिवशात् स्वप्नविषयाभिमानो मिथ्येति व्यवसायः/ सति च प्रतिसन्धाने या जाग्रतो बुद्धिवृत्तिस् तद्वशाद् अयं व्यवसायः स्वप्नविषयाभिमानो मिथ्येति/
SK
% प्.१०८५ उभयाविशेषे तु साधनानर्थक्यम्/ यस्य स्वप्नान्तजागरितान्तयोर् अविशेषस् तस्य स्वप्नविषयाभिमानवद् इति साधनम् अनर्थकं तदाश्रयप्रत्याख्यानात्/ अतस्मिंस् तद् इति च व्यवसायः प्रधानाश्रयः/ अपुरुषे स्थाणौ पुरुष इति व्यवसायः, स प्रधानाश्रयः, न खलु पुरुषे ऽनुपलब्धे पुरुष इत्य् अपुरुषे व्यवसायो भवति, एवं स्वप्नविषयस्य व्यवसायो हस्तिनम् अद्राक्षं पर्वतम् अद्राक्षम् इति प्रधानाश्रयो भवितुम् अर्हति
SK
********************** Nय्SBह्_४,२.३५ **********************
SK
% प्.१०८७ एवं च सति ---
SK
Nय्S_४,२.३५: मिथ्योपलब्धिविनाशस् तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ||
SK
स्थाणौ प्रुषो ऽयम् इति व्यवसायो मिथ्योपलब्धिः अतस्मिंस् तद् इति ज्ञानम्, स्थाणौ स्थाणुर् इति व्यवसायस् तत्त्वज्ञानम्/ तत्त्वज्जानेन च मिथ्योपलब्धिर् निवर्त्यते, नार्थः स्थाणुपुरुषसामान्यलक्षणः/ यथा प्रतिबोधे या ज्ञानवृत्तिस् तया स्वप्नविषयाभिमानो निवर्त्यते नार्थो विषयसामान्यलक्षणः, तथा मायागन्धर्वनगरमृगतृष्णिकाणाम् अपि या बुद्धयो ऽतस्मिंस् तद् इति व्यवसायास् तत्राप्य् अनेनैव कल्पेन मिथ्योपलब्धिविनाशस् तत्त्वज्ञानान् नार्थप्रतिषेध इति/ उपादानवच् च मायादिषु मिथ्याज्ञानम्/ प्रज्ञापनीयसरूपं च द्रव्यम् उपादाय साधनवान् अपरस्य मिथ्याध्यवसायं करोति सा माया, नीहारप्रभृतीनां नगरसरूपसन्निवेशे दूरान् नगरबुद्धिर् उत्पद्यते विपर्यये तदभावात्, सूर्यमरीचिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेषूदकबुद्धिर् भवति सामान्यग्रहणात्, अन्तिकस्थस्य विपर्यये तदभावात्/
SK
% प्.१०८८ क्वचित् कदाचित् कस्यचिच् च भावान् नानिमित्तं मिथ्याज्ञानम्/ दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तुः परस्य च, दूरानिकस्थयोर् गन्धर्वनगरमृगतृष्णिकासु, सुपुतप्रतिबुद्धयोश् च स्वप्नविषये/ तद् एतत् सर्वस्याभावे निरुपाख्यतायां निरात्मकत्वे नोपपद्यत इति
SK
********************** Nय्SBह्_४,२.३६ **********************
SK
Nय्S_४,२.३६: बुद्धेश् चैवं निमित्तसद्भावोपलम्भात् ||
SK
मिथ्याबुद्धेश् चार्थवद् अप्रतिषेधः/ कस्मात्? निमित्तोपलम्भात्, सद्भावोपलम्भाच् च/ उपलभ्यते हि मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश् च प्रत्यात्मम् उत्पन्ना गृह्यते संवेद्यत्वात्, तस्मान् मिथ्याबुद्धिर् अप्य् अस्तीति
SK
********************** Nय्SBह्_४,२.३६ **********************
SK
% प्.१०८९
SK
Nय्S_४,२.३७: तत्त्वप्रधानभेदाच् च मिथ्याबुद्धेर् द्वैविध्योपपत्तिः ||
SK
तत्त्वं स्थाणुर् इति, प्रधानं पुरुष इति/ तत्त्वप्रधानयोर् अलोपाद् भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिर् उत्पद्यते सामान्यग्रहणात्/ एवं पताकायां बलाकेति, लोष्टे कपोत इति न तु समाने विषये मिथ्याबुद्धीनां समावेशः सामान्यग्रहणव्यवस्थानात्/ यस्य तु निरात्मकं निरुपाख्यं सर्वं तस्य समावेशः प्रसज्यते/
SK
% प्.१०९० गन्धादौ च प्रमेये गन्धादिबुद्दयो मिथ्याभिमतास् तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव भवन्ति/ तस्माद् अयुक्तम् एतत् --- प्रमाणप्रमेयबुद्धयो मिथ्येति
SK
********************** Nय्SBह्_४,२.३८ **********************
SK
दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिर् इत्य् उक्तम्/ अथ कथं तत्त्वज्ञानम् उत्पद्यत इति?
SK
Nय्S_४,२.३८: समाधिविशेषाभ्यासात् ||
SK
स तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस् तत्त्वबुभुत्साविशिष्टः/
SK
% संयोगस् तत्त्वबुभुत्साविशिष्टः/] प्.१०९१ सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते, तदभ्यासवशात् तत्त्वबुद्धिर् उत्पद्यते
SK
********************** Nय्SBह्_४,२.३९ **********************
SK
यद् उक्तं ``सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्तऽऽ इत्य् एतत् ---
SK
Nय्S_४,२.३९: नार्थविशेषप्राबल्यात् ||
SK
अनिच्छतो ऽपि बुद्ध्युत्पत्तेर् नैतद् युक्तम्/ कस्मात्? अर्थविशेषप्राबल्यात्/ अबुभुत्समानस्यापि बुद्ध्युत्पत्तिर् दृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु; तत्र समाधिविशेषो नोपपद्यते
SK
********************** Nय्SBह्_४,२.४० **********************
SK
Nय्S_४,२.४०: क्षुदादिभिः प्रवर्तनाच् च ||
SK
% प्.१०९२ क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश् चानिच्छतो ऽपि बुद्धयः प्रवर्तन्ते तस्माद् ऐकाग्र्यानुपपत्तिर् इति
SK
********************** Nय्SBह्_४,२.४१ **********************
SK
अस्त्व् एतत् समाधिं विहाय व्युत्थानं व्युत्थाननिमित्तं समाधिप्रत्यनीकं च, सति त्व् एतस्मिन् ---
SK
Nय्S_४,२.४१: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ||
SK
% प्.१०९३ पूर्वकृतो जन्मान्तरोपचितस् तत्त्वज्ञानहेतुर् धर्मप्रविवेकः फलानुबन्धो *योगाभ्याससामर्थ्यं (चोर्र्.; गोगाभ्यास-, एद्.), निष्फले ह्य् अभ्यासे नाभ्यासम् आद्रियेरन्/ दृष्टं हि लौकिकेषु कर्मस्व् अभ्याससामर्थ्यम्
SK
********************** Nय्SBह्_४,२.४२ **********************
SK
प्रत्यनीकपरिहारार्थं च ---
SK
Nय्S_४,२.४२: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ||
SK
योगाभ्यासजनितो धर्मो जन्मान्तरे ऽप्य् अनुवर्तते/ प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानम् उत्पद्यत इति/ दृष्टश् च समाधिनार्थविशेषप्राबल्याभिभवः ``नाहम् एतद् अश्रौषं नाहम् एतद् अज्ञासिषम् अन्यत्र मे मनो ऽभूद्ऽऽ इत्य् आह लौकिक इति
SK
********************** Nय्SBह्_४,२.४३ **********************
SK
% प्.१०९४ यद्य् अर्थविशेषप्राबल्याद् अनिच्छतो ऽपि बुद्ध्युत्पत्तिर् अनुज्ञायते ---
SK
Nय्S_४,२.४३: अपवर्गे ऽप्य् एवं प्रसङ्गः ||
SK
मुक्तस्यापि बाह्यार्थसामर्थ्याद् बुद्धय उत्पद्येरन्न् इति
SK
********************** Nय्SBह्_४,२.४४ **********************
SK
Nय्S_४,२.४४: न, निष्पन्नावश्यम्भावित्वात् ||
SK
कर्मवशान् निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावाद् अवश्यम्भावी बुद्धीनाम् उत्पादः/ न च प्रबलो ऽपि सन् बाह्यो ऋथ आत्मनो बुद्ध्युत्पादे समर्थो भवति तस्येन्द्रियेण संयोगाद् बुद्ध्युत्पादे सामर्थ्यं दृष्टम् इति
SK
********************** Nय्SBह्_४,२.४५ **********************
SK
% प्.१०९५
SK
Nय्S_४,२.४५: तदभावश् चापवर्गे ||
SK
तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावाद् अभावो ऽपवर्गे/ तत्र यद् उक्तम् ``अपवर्गे ऽप्य् एवं प्रसङ्गऽऽ इति, तद् अयुक्तम्/ तस्मात् सर्वदुःखविमोक्षो ऽपवर्गः/ यस्मात् सर्वदुःखबीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते तस्मात् सर्वेण दुःखेन विमुक्तिर् अपवर्गः/ न निर्बीजं निरायतनं च दुःखम् उत्पद्यत इति
SK
********************** Nय्SBह्_४,२.४६ **********************
SK
Nय्S_४,२.४६: तदर्थं यमनियमाभ्याम् आत्मसंस्कारो योगाच् चाध्यात्मविध्युपायैः ||
SK
तस्यापवर्गस्याधिगमाय यमनियमाभ्याम् आत्मसंस्कारः/ यमः समानम् आश्रमिणां धर्मसाधनम्, नियमस् तु विशिष्टम्/ आत्मसंस्कारः पुनर् अधर्महानं धर्मोपचयश् च/ योगशास्त्राच् चाध्यात्मविधिः प्रतिपत्तव्यः/ स पुनस् तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति/ इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहाणार्थः/ उपायस् तु योगाचारविधानम् इति
SK
********************** Nय्SBह्_४,२.४७ **********************
SK
% प्.१०९७
SK
Nय्S_४,२.४७: ज्ञानग्रहणाभ्यासस् तद्विद्यैश् च सह संवादः ||
SK
तदर्थम् इति प्रकृतम्/ ज्ञायते ऽनेनेति ज्ञानम् आत्मविद्याशास्त्रं तस्य ग्रहणम् अध्ययनधारणे, अभ्यासः सततक्रियाध्ययनश्रवणचिन्तनानि/ तद्विद्यैश् च सह संवाद इति प्रज्ञापरिपाकार्थम्, परिपाकस् तु संशयच्छेदनम् अविज्ञातार्थबोधो ऽध्यवसिताभ्यनुज्ञानम् इति/ समयावादः संवादः
SK
********************** Nय्SBह्_४,२.४८ **********************
SK
तद्विद्यैश् च सह संवाद इत्य् अविभक्तार्थं वचनं विभज्यते ---
SK
Nय्S_४,२.४८: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिर् अनसूयिभिर् अभ्युपेयात् ||
SK
एतन् निगदेनैव नीतार्थम् इति
SK
********************** Nय्SBह्_४,२.४९ **********************
SK
% प्.१०९८ यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति ---
SK
Nय्S_४,२.४९: प्रतिपक्षहीनम् अपि वा प्रयोजनार्ह्तम् अर्थित्वे ||
SK
तम् अभ्युपेयाद् इति वर्तते/ परतः प्रज्ञाम् उपादित्समानस् तत्त्वबुभुत्साप्रकाशनेन स्वपक्षम् अनवस्थापयन् स्वदर्शनं परिशोधयेद् इति/ अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि
SK
********************** Nय्SBह्_४,२.५० **********************
SK
% प्.१०९९ स्वपक्षरागेण चैके न्यायम् अतिवर्तन्ते, तत्र ---
SK
Nय्S_४,२.५०: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ||
SK
अनुत्पन्नतत्त्वज्ञानानाम् अप्रहीणदोषाणां तदर्थं घटमानानाम् एतद् इति
SK
********************** Nय्SBह्_४,२.५१ **********************
SK
विद्यानिर्वेदादिभिश् च परेणावज्ञायमानस्य ---
SK
Nय्S_४,२.५१: ताभ्यां विगृह्य कथनम् ||
SK
% प्.११०० विगृह्येति विजिगीषया, न तत्त्वबुभुत्सयेति/ तद् एतद् विद्यापालार्थं न लाभपूजाख्यात्यर्थम् इति
SK
इति श्रीवात्स्यायनीये न्यायभाष्ये चतुर्थो ऽध्यायः समाप्तः
SK
% प्.११०१ (चोर्र्.; १२००, एद्.) न्यायदर्शनम् अथ पञ्चमाध्यायस्याद्यम् आह्निकम्
SK
********************** Nय्SBह्_५,१.१ **********************
SK
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य ``विकल्पाज् जातिबहुत्वम्ऽऽ इति सङ्क्षेपेणओक्तम्, तद् विस्तरेण विभज्यते --- ताः खल्व् इमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः/
SK
Nय्S_५,१.१: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ||
SK
% प्.११०२ साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः/ अविशेषं तत्र तत्रोदाहरिष्यामः/ एवं वैधर्म्यसमप्रभृतयो ऽपि निर्वक्तव्याः
SK
********************** Nय्SBह्_५,१.२ **********************
SK
% प्.११०५ लक्षणं तु ---
SK
Nय्S_५,१.२: साधर्म्यवैधर्म्याभ्याम् उपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ||
SK
साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः/ निदर्शनम् क्रियावान् आत्मा, द्रव्यस्य क्रियाहेतुगुणयोगात्/ द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा, तस्मात् क्रियावान् इति/ एवम् उपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद्, विभु चाकाशं निष्क्रियं च, तथा चात्मा, तस्मान् निष्क्रिय इति/
SK
% -न् निष्क्रिय इति/] प्.११०६ न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यम्, न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणेति/ विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति/ अथ वैधर्म्यसमः --- क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथात्मा, तस्मान् न लोष्टवत् क्रियावान् इति/ न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद् अक्रियेणेति, विशेषहेत्वभावाद् वैधर्म्यसमः/ वैधर्म्येण चोपसंहारः --- निष्क्रिय आत्मा विभुत्वात्, क्रियावद् द्रव्यम् अविभु दृष्टं यथा लोष्टः, न च तथात्मा, तस्मान् निष्क्रिय इति/ वैधर्म्येण प्रत्यवस्थानम् --- निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टम्, न च तथात्मा, तस्मान् न निष्क्रिय इति/ न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावतेति विशेषहेत्वभावाद् वैधर्म्यसमः/
SK
% प्.११०७ अथ साधर्म्यसमः --- क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः, तथा चात्मा, तस्मात् क्रियावान् इति/ न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावान् इति विशेषहेत्वभावात् साधर्म्यसमः//
SK
********************** Nय्SBह्_५,१.३ **********************
SK
अनयोर् उत्तरम् ---
SK
Nय्S_५,१.३: गोत्वाद् गोसिद्धिवत् तत्सिद्धिः ||
SK
साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्याद् अव्यवस्था,
SK
% प्.११०८ सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज् जातिविशेषाद् गौः सिध्यति, न तु सास्नादिसम्बन्धात्/ अश्वादिवैधर्म्याद् गोत्वाद् एव गौः सिध्यति, न गुणादिभेदात्/ तच् चैतत् कृतव्याख्यानम् अवयवप्रकरणे/ प्रमाणानाम् अभिसम्बन्धाच् चैकार्थकारित्वं समानं वाक्य इति/ हेत्वाभासाश्रया खल्व् इयम् अव्यवस्थेति//
SK
********************** Nय्SBह्_५,१.४ **********************
SK
% प्.११०९
SK
Nय्S_५,१.४: साध्यदृष्टान्तयोर् धर्मविकल्पाद् उभयसाध्यत्वाच् चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ||
SK
दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्षसमः/ यदि क्रियाहेतुगुणयोगाल् लोष्टवत् क्रियावान् आत्मा, लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति/ अथ न स्पर्शवान्, लोष्टवत् क्रियावान् अपि न प्राप्नोति, विपर्यये वा विशेषो वक्तव्य इति/ साध्ये धर्माभावं दृष्टान्तात् प्रसञ्जयतो ऽपकर्षसमः/ लोष्टः खलु क्रियावान् अविभुर् दृष्टः,
SK
% -विभुर् दृष्टः,] प्.१११० कामम् आत्मापि क्रियावान् अविभुर् अस्तु, विपर्यये वा विशेषो वक्तव्य इति/ ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः/ ताव् एतौ साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः/ साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसञ्जयतो विकल्पसमः/ क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः, किंचिल् लघु यथा वायुः, एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः, किञ्चिद् अक्रियं यथात्मा, विशेषो वा वाच्य इति/ हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः, तं दृष्टान्ते प्रसञ्जयतः साध्यसमः/ यदि यथा लोष्टस् तथात्मा, प्राप्तस् तर्हि यथात्मा तथा लोष्ट इति/ साध्यश् चायम् आत्मा क्रियावान् इति कामं लोष्टो ऽपि साध्यः/ अथ नैवम्, न तर्हि यथा लोष्टः तथात्मा
SK
********************** Nय्SBह्_५,१.५ **********************
SK
% प्.१११३ एतेषाम् उत्तरम् ---
SK
Nय्S_५,१.५: किञ्चित्साधर्म्याद् उपसंहारसिद्धेर् वैधर्म्याद् अप्रतिषेधः ||
SK
अलभ्यः सिद्धस्य निह्नवः/ सिद्धं च किञ्चित्साधर्म्याद् उपमानं यथा गौस् तथा गवय इति/
SK
% इति/] प्.१११४ तत्र न लभ्यो गोगवययोर् धर्मविकल्पश् चोदयितुम्/ एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर् धर्मविकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति
SK
********************** Nय्SBह्_५,१.६ **********************
SK
Nय्S_५,१.६: साध्यातिदेशाच् च दृष्टान्तोपपत्तेः ||
SK
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापनार्थम्/ एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति
SK
********************** Nय्SBह्_५,१.७ **********************
SK
% प्.१११६
SK
Nय्S_५,१.७: प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच् च प्राप्त्यप्राप्तिसमौ ||
SK
हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः/ द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा? अप्राप्य साधकं न भवति, नाप्राप्तः प्रदीपः प्रकाशयतीति/ प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः
SK
********************** Nय्SBह्_५,१.८ **********************
SK
% प्.१११७ अनयोर् उत्तरम् ---
SK
Nय्S_५,१.८: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचाराद् अप्रतिषेधः ||
SK
उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, अभिचाराच् च पीडने सति दृष्टम् अप्राप्य साधकत्वम् इति
SK
********************** Nय्SBह्_५,१.९ **********************
SK
% प्.१११८
SK
Nय्S_५,१.९: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ||
SK
साधनस्यापि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः/ क्रियाहेतुगुणयोगी क्रियावान् लोष्ट इति हेतुर् नापदिश्यते, न च हेतुम् अन्तेरेण सिद्धिर् अस्तीति/
SK
% प्.१११९ प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः/ क्रियावान् आत्मा क्रियाहेतुगुणयोगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते --- क्रियाहेतुगुणयुक्तम् आकाशं निष्क्रियं दृष्टम् इति/ कः पुनर् आकाशस्य क्रियाहेतुगुणः? वायुना संयोगः संस्कारापेक्षः, वायुवनस्पतिसंयोगवद् इति
SK
********************** Nय्SBह्_५,१.१० **********************
SK
% प्.११२० अनयोर् उत्तरम् ---
SK
Nय्S_५,१.१०: प्रदीपओपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ||
SK
इदं तावद् अयं पृष्टो वक्तुम् अर्हति, अथ के प्रदीपम् उपाददते, किमर्थं वेति? दिदृक्षमाणा दृश्यदर्शनार्थम् इति/ अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान् नोपाददते? अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः, तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम्/ अथ दृष्टान्तः किमर्थम् उच्यत इति? अप्रज्ञातस्य ज्ञापनार्थम् इति/ अथ दृष्टान्ते कारणापदेशः किमर्थं देश्यते? यदि प्रज्ञापनार्थम्, प्रज्ञातो दृष्टान्तः/ स खलु ``लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तऽऽ इति/ तत्प्रज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम्
SK
********************** Nय्SBह्_५,१.११ **********************
SK
% प्.११२१ अथ प्रतिदृष्टान्तसमस्योत्तरम् ---
SK
Nय्S_५,१.११: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर् दृष्टान्तः ||
SK
प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते, --- अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति/ एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर् दृष्टान्त इत्य् उपपद्यते/ स च कथम् अहेतुर् न स्यात्? यद्य् अप्रतिषिद्धः साधकः स्याद् इति
SK
********************** Nय्SBह्_५,१.१२ **********************
SK
% प्.११२२
SK
Nय्S_५,१.१२: प्रागुत्पत्तेः कारणाभावाद् अनुत्पत्तिसमः ||
SK
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह --- प्रागुत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणं नास्ति, तदभावात् नित्यत्वं प्राप्तम्, नित्यस्य चोत्पत्तिर् नास्ति/ अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः
SK
********************** Nय्SBह्_५,१.१३ **********************
SK
% प्.११२३ अस्योत्तरम् ---
SK
Nय्S_५,१.१३: तथाभावाद् उत्पन्नस्य कारणोपपत्तेर् न कारणप्रतिषेधः ||
SK
तथाभावाद् उत्पन्नस्येति/ उत्पन्नः खल्व् अयं शब्द इति भवति/ प्रागुतपत्तेः शब्द एव नास्ति, उत्पन्नस्य शब्दभावाच् छब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणम् उपपद्यते, कारणोपपत्तेर् अयुक्तो ऽयं दोषः ``प्रागुत्पत्तेः कारणाभावाद्ऽऽ इति
SK
********************** Nय्SBह्_५,१.१४ **********************
SK
% प्.११२५
SK
Nय्S_५,१.१४: सामान्यदृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ||
SK
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते --- सति प्रयत्नानन्तरीयकत्वे अस्त्य् एवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेनानित्येन, अतो नित्यानित्यसाधर्म्याद् अनिवृत्तिः संशय इति
SK
********************** Nय्SBह्_५,१.१५ **********************
SK
% प्.११२६ अस्योत्तरम् ---
SK
Nय्S_५,१.१५: साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच् च सामान्य्स्याप्रतिषेधः ||
SK
विशेषाद् वैधर्म्याद् अवधार्यमाणे ऽर्थे पुरुष इति, न स्थाणुपुरुषसाधर्म्यात् संशयो ऽवकाशं लभते/ एवं वैधर्म्याद् विशेषात् प्रयत्नानन्तरीयकत्वाद् अवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात् संशयो ऽवकाशं न लभते/ यदि वै लभते, ततः स्थाणुपुरुषसाधर्म्यानुच्छेदाद् अत्यन्तं संशयः स्यात्/ गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशयहेतुर् इति नाभ्युपगम्यते/ न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर् भवति
SK
********************** Nय्SBह्_५,१.१६ **********************
SK
% प्.११२७
SK
Nय्S_५,१.१६: उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ||
SK
उभयेन नित्येन चानित्येन च साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया/ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्यसाधर्म्यात् प्रतिपक्षं प्रवर्त्तयति --- नित्यः शब्दः श्रावणत्वात् शब्दत्ववद् इति/ एवं च सति प्रयत्नानन्तरीयकत्वाद् इति हेतुर् अनित्यसाधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते, प्रकरणानतिवृत्तेर् निर्णयानतिवर्तनम्/ समानं चैतन् नित्यसाधर्म्येणोच्यमाणे हेतौ/ तद् इदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः/ समानं चैतद् वैधर्म्ये ऽपि, उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति
SK
********************** Nय्SBह्_५,१.१७ **********************
SK
% प्.११२८ अस्योत्तरम् ---
SK
Nय्S_५,१.१७: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ||
SK
उभयसाधर्म्यात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिर् उक्ता भवति/ यद्य् उभयसाधर्म्यम्, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति/ प्रतिपक्षोपपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षोपपत्तिः प्रतिषेधो नोपपद्यते, अथ प्रतिषेधोपपत्तिः प्रतिपक्षो नोपपद्यते, प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश् चेति विप्रतिषिद्धम् इति/ तत्त्वानवधारणाच् च प्रक्रियासिद्धिर् विपर्यये प्रकरणावसानात्, तत्त्वावधारणे ह्य् अवसितं प्रकरणं भवतीति
SK
********************** Nय्SBह्_५,१.१८ **********************
SK
% प्.११२९
SK
Nय्S_५,१.१८: त्रैकाल्यासिद्धेर् हेतोर् अहेतुसमः ||
SK
हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत्/ यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम्? अथ पश्चाद्, असति साधने कस्येदं साध्यम्? अथ युगपत् साध्यसादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते/ अहेतुना साधर्म्यात् प्रत्यवस्थानम् अहेतुसमः
SK
********************** Nय्SBह्_५,१.१९ **********************
SK
% प्.११३० अस्योत्तरम् ---
SK
Nय्S_५,१.१९: न हेतुतः साध्यसिद्धेस् त्रैकाल्यासिद्धिः ||
SK
न त्रैकाल्यासिद्धिः/ कस्मात्? हेतुतः साध्यसिद्धेः/ निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सो ऽयं महान् प्रत्यक्षविषय उदाहरणम् इति/ यत् तु खलूक्तम् असति साध्ये कस्य साधनम् इति? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्येति
SK
********************** Nय्SBह्_५,१.२० **********************
SK
Nय्S_५,१.२०: प्रतिषेदानुपपत्तेश् च प्रतिषेद्धव्याप्रतिषेधः ||
SK
पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति नोपपद्यते, प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति
SK
********************** Nय्SBह्_५,१.२१ **********************
SK
% प्.११३१
SK
Nय्S_५,१.२१: अर्थापत्तितः प्रतिपक्षसिद्धेर् अर्थापत्तिसमः ||
SK
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः/ यदि प्रयत्नानन्तरीयकत्वाद् अनित्यसाधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्यसाधर्म्यान् नित्य इति, अस्ति चास्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति
SK
********************** Nय्SBह्_५,१.२२ **********************
SK
% प्.११३२ अस्योत्तरम् ---
SK
Nय्S_५,१.२२: अनुक्तस्यार्थापत्तेः पक्षहानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् चार्थापत्तेः ||
SK
अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्षहानेर् उपपत्तिर् अनुक्तत्वात्, अनित्यपक्षसिद्धाव् अर्थाद् आपन्नं नित्यपक्षस्य हानिर् इति/ अनैकानतिकत्वाच् चार्थापत्तेः/
SK
% प्.११३३ उभयपक्षसमा चेयम् अर्थापत्तिः/ यदि नित्यसाधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः अर्थाद् आपन्नम् अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् अनित्य इति/ न चेयं विपर्ययमात्राद् एकान्तेनार्थापत्तिः/ न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते --- द्रवाणाम् अपां पतनाभाव इति
SK
********************** Nय्SBह्_५,१.२३ **********************
SK
Nय्S_५,१.२३: एकधर्मोपपत्तेर् अविशेषे सर्वाविशेषप्रसङ्गात् सद्भावौपपत्तेर् अविशेषसमः ||
SK
एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे,
SK
% प्.११३४ सर्वस्याविशेषः प्रसज्यते/ कथम्? सद्भावोपपत्तेः/ एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः
SK
********************** Nय्SBह्_५,१.२४ **********************
SK
अस्योत्तरम् ---
SK
Nय्S_५,१.२४: क्वचित् तद्धर्मोपपत्तेः क्वचिच् चानुपपत्तेः प्रतिषेधाभावः ||
SK
यथा साध्यदृष्टान्तयोर् एकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेर् अनित्यत्वं धर्मान्तरम् अविशेषः, नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरम् अस्ति, येन अविशेषः स्यात्/ अथ मतम् अनित्यत्वम् एव धर्मानतरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेर् इति पक्षः प्राप्नोति/ तत्र प्रतिज्ञार्थव्यतिरिक्तम् अन्यद् उदाहरणं नास्ति, अनुदाहरणश् च हेतुर् नास्तीति/ प्रतिज्ञैएकदेशस्य चोदाहरणत्वम् अनुपपन्नम्,
SK
% -ज्ञैकदेशस्य ...] प्.११३५ न हि साध्यम् उदाहरणं भवति/ सतश् च नित्यानित्यभावात् अनित्यत्वानुपपत्तिः/ तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति/ सर्वभावानां सद्भावोपपत्तेर् अनित्यत्वम् इति ब्रुवता ऽनुज्ञातं शब्दस्यानित्यत्वम्, तत्रानुपपन्नः प्रतिषेध इति
SK
********************** Nय्SBह्_५,१.२५ **********************
SK
% प्.११३६
SK
Nय्S_५,१.२५: उभयकारणोपपत्तेर् उपपत्तिसमः ||
SK
यद्य् अनित्यत्वकारणम् उपपद्यते शब्दस्येत्य् अनित्यः शब्दो नित्यत्वकारणम् अप्य् उपपद्यते ऽस्यास्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते/ उभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानम् उपपत्तिसमः//
SK
********************** Nय्SBह्_५,१.२६ **********************
SK
अस्योत्तरम् ---
SK
Nय्S_५,१.२६: उपपत्तिकारणाभ्यनुज्ञानाद् अप्रतिषेधः ||
SK
उभयकारणोपपत्तेर् इति ब्रुवता नानित्यत्वकारणोपपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते नोभयकारणोपपत्तिः स्यात्/ उभयकारणोपपत्तिवचनाद् अनित्यत्वकारणोपपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः/
SK
% प्.११३७ व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः/ एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवतोक्तं प्रतिषेध इति चेत्? स्वपक्षपरपक्षयोः समानो व्याघातः, स च नैकतरस्य साधक इति
SK
********************** Nय्SBह्_५,१.२७ **********************
SK
Nय्S_५,१.२७: निर्दिष्टकारणाभावे ऽप्य् उपलम्भाद् उपलब्धिसमः ||
SK
निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावे ऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वम् उपलभ्यते/
SK
% वृक्षशाखाभङ्गजस्य ...] प्.११३८ निर्दिष्टस्य साधनस्याभावे ऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः
SK
********************** Nय्SBह्_५,१.२८ **********************
SK
% प्.११३९ अस्योत्तरम् ---
SK
Nय्S_५,१.२८: कारणान्तराद् अपि तद्धर्मोपपत्तेर् अप्रतिषेधः ||
SK
प्रयत्नानन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारणनियमः/ यदि च कारणान्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति
SK
********************** Nय्SBह्_५,१.२९ **********************
SK
% प्.११४० न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाअद्यनुपलब्धेः/ यथा विद्यमानस्योदकादेर् अर्थस्यावरणादेर् अनुपलब्धिः नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिः/ गृह्येत चैतद् अस्याग्रहणकारणम् उदकादिवत्, न गृह्यते/ तस्माद् उदकादिविपरीतः शब्दो ऽनुपलभ्यमान इति/
SK
Nय्S_५,१.२९: तदनुपलब्धेर् अनुपलम्भाद् अभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ||
SK
तेषाम् आवरणादीनाम् अनुपलब्धिर् नोपलभ्यते/ अनुपलम्भान् नास्तीत्य् अभावो ऽस्याः सिध्यति/ अभावसिद्धौ हेत्वभावात् तद्विपरीतम् अस्तित्वम् आवरणादीनाम् अवधार्यते/ तद्विपरीतोपपत्तेर् यत्प्रतिज्ञातं ``न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिर् इत्य्ऽऽ एतन् न सिध्यति/ सो ऽयं हेतुर् ``आवरणाद्यनुपलब्धेर्ऽऽ इत्य् आवरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलब्ध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति
SK
********************** Nय्SBह्_५,१.३० **********************
SK
% प्.११४१ अस्योत्तरम् ---
SK
Nय्S_५,१.३०: अनुपलम्भाअत्मकत्वाद् अनुपलब्धेर् अहेतुः ||
SK
आवरणाद्यनुपलब्धिर् नास्ति, अनुपलम्भाद् इत्य् अहेतुः/ कस्मात्? अनुपलम्भात्मकत्वाद् अनुपलब्धेः/ उपलम्भाभावमात्रत्वाद् अनुपलब्धेः/ यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्तीति प्रतिज्ञायते/ यन् नास्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं नास्तीति प्रतिज्ञायते/ सो ऽयम् आवरणाद्यनुपलभेः अनुपलम्भ उपलब्ध्यभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति/
SK
% प्.११४२ अप्रतिषिद्धा चावरणाद्यनुपलब्धिर् हेतुत्वाय कल्पते/ आवरणादीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम्/ यत् तानि नोपलभ्यन्ते, तद् उपलब्धेः स्वविषयप्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते --- न सन्त्य् आवरणादीनि शब्दस्याग्रहणकारणानीति/ अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्येति
SK
********************** Nय्SBह्_५,१.३१ **********************
SK
% प्.११४३
SK
Nय्S_५,१.३१: ज्ञानविकल्पानां च भावाभावसंवेदनाद् अध्यात्मम् ||
SK
अहेतुर् इति वर्त्तते/ शरीरे शरीरे ज्ञानविकल्पानां भावाभावौ संवेदनीयौ/ अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम् इति/ एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु/ सेयम् आवरणाअद्यनुपलब्धिर् उपलब्ध्यभावः स्वसंवेद्यः --- नास्ति मे शब्दस्यावरणाद्युपलब्धिर् इति नोपलभ्यन्ते शब्दस्याग्रहणकारणान्य् आवरणादीनीति/ तत्र यद् उक्तं तद् अनुपलब्धेर् अनुपलम्भाद् अभावसिद्धिर् इति, एतन् नोपपद्यते
SK
********************** Nय्SBह्_५,१.३२ **********************
SK
% प्.११४४
SK
Nय्S_५,१.३२: साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमः ||
SK
अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतो ऽस्ति घटेनानित्येन सर्वभावानां साधर्म्यम् इति सर्वस्यानित्यत्वम् अनिष्टं सम्पद्यते/ सो ऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति
SK
********************** Nय्SBह्_५,१.३३ **********************
SK
% प्.११४५ अस्योत्तरम् ---
SK
Nय्S_५,१.३३: साधर्म्याद् असिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ||
SK
प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः/ तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः/ तद् यद्य् अनित्यसाधर्म्याद् अनित्यत्वस्यासिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्याप्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति
SK
********************** Nय्SBह्_५,१.३४ **********************
SK
Nय्S_५,१.३४: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावान् नाविशेषः ||
SK
दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते/ स चोभयथा भवति,
SK
% चोभयथा भवति,] प्.११४६ --- केनचित् समानः, कुतश्चिद् विशिष्टः/ सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम्/ एवं साधर्म्यविशेषो हेतुः, नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा/ साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवान् आह --- ``साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसम्ऽऽ इति, एतद् अयुक्तम् इति/ अविशेषसमप्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम्
SK
********************** Nय्SBह्_५,१.३५ **********************
SK
% प्.११४७
SK
Nय्S_५,१.३५: नित्यम् अनित्यभावाद् अनित्ये नित्यत्वोपपत्तेर् नित्यसमः ||
SK
अनित्यः शब्द इति प्रतिज्ञायते/ तद् अनित्यत्वं किं शब्दे नित्यम् अथानित्यम्? यदि तावत् सर्वदा भवति? धर्मस्य सदा भावाद् धर्मिणो ऽपि सदा भाव इति नित्यः शब्द इति/ अथ न सर्वदा भवति? अनित्यत्वस्याभावान् नित्यः शब्दः/ एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः
SK
********************** Nय्SBह्_५,१.३६ **********************
SK
% प्.११४८ अस्योत्तरम् ---
SK
Nय्S_५,१.३६: प्रतिषेध्ये नित्यम् अनित्यभावाद् अनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ||
SK
प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमाने ऽनुज्ञातं शब्दस्यानित्यत्वम्, अनित्यत्वोपपत्तेश् च ``नानित्यः शब्दऽऽ इति प्रतिषेधो नोपपद्यते/ अथ नाभ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिर् इति/
SK
% प्.११४९ उतपन्नस्य निरोधाद् अभावः शब्दस्यानित्यत्वम्, तत्र परिप्रश्नानुपपत्तिः/ यो ऽयं परिप्रश्नः --- तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ नेति, अयम् अनुपपन्नः/ कस्मात्? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम्; एवं च सत्य् अधिकरणाधेयविभागो व्याघातान् नास्तीति/ नित्यानित्यत्वविरोधाच् च/ नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः/
SK
% एकस्य धर्मिणो ...] प्.११५० तत्र यद् उक्तं --- नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमानार्थम् उक्तम् इति
SK
********************** Nय्SBह्_५,१.३७ **********************
SK
Nय्S_५,१.३७: प्रयत्नकार्यानेकत्वात् कार्यसमः ||
SK
प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्द इति/ यस्य प्रयत्नानन्तरम् आत्मलाभः तत् खल्व् अभूत्वा भवति, यथा घटादिकार्यम्; अनित्यम् इति च भूत्वा न भवतीत्य् एतद् विज्ञायते/
SK
% प्.११५१ एवम् अवस्थिते प्रयत्नकार्यानेकत्वाद् इति प्रतिषेध उच्यते/ प्रयत्नानन्तरम् आत्मलाभश् च दृष्टो घटादीनाम्, व्यवधानापोहाच् चाभिव्यक्तिर् व्यवहितानाम्/ तत् किं प्रयत्नानन्तरम् आत्मलाभः शब्दस्याहो ऽभिव्यक्तिर् इति विशेषो नास्ति/ कार्याविशेषेण प्रत्यवस्थानम् कार्यसमः
SK
********************** Nय्SBह्_५,१.३८ **********************
SK
% प्.११५२ अस्योत्तरम् ---
SK
Nय्S_५,१.३८: कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ||
SK
सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ/ यत्र प्रयत्नानन्तरम् अभिव्यक्तिस् तत्रानुपलब्धिकारणं व्यवधानम् उपपद्यते, व्यवधानापोहाच् च प्रयत्नानन्तरभाविनो ऽर्थस्योपलब्धिलक्षणा ऽभिव्यक्तिर् भवतीति,
SK
% प्रयत्नानन्तरभाविनो ...] प्.११५३ न तु शब्दस्यानुपलब्धिकारणं किञ्चिद् उपपद्यते, यस्य प्रयत्नानन्तरम् अपोहाच् छब्दस्योपलभिलक्षणा ऽभिव्यक्तिर् भवतीति, तस्माद् उत्पद्यते शब्दो नाभिव्यज्यते इति
SK
********************** Nय्SBह्_५,१.३९ **********************
SK
% प्.११५४ हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति/ यदि चानैकान्तिकत्वाद् असाधकत्वम् ---
SK
Nय्S_५,१.३९: प्रतिषेधे ऽपि समानो दोषः ||
SK
प्रतिषेधो ऽप्य् अनैकान्तिकः, किञ्चित् प्रतिषेधति किञ्चिन् नेति अनैकान्तिकत्वाद् असाधक इति/ अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरम् उत्पादो नाभिव्यक्तिर् इति विशेषहेत्वभावः, नित्यत्वपक्षे ऽपि प्रयत्नानन्तरम् अभिव्यक्तिर् नोत्पाद इति विशेषहेत्वभावः/ सो ऽयम् उभयपक्षसमो विशेषहेत्वभाव इत्य् उभयम् अप्य् अनैकातिकम् इति
SK
********************** Nय्SBह्_५,१.४० **********************
SK
% प्.११५५
SK
Nय्S_५,१.४०: सर्वत्रैवम् ||
SK
सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत इति
SK
********************** Nय्SBह्_५,१.४१ **********************
SK
Nय्S_५,१.४१: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ||
SK
यो ऽयं प्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वम् आपद्यते सो ऽयं प्रतिषेधस्य विप्रतिषेधे ऽपि समानः/
SK
% विप्रतिषेधे ऽपि समानः/] प्.११५६ तत्रानित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् इति साधनवादिनः स्थापना प्रथमः पक्षः/ ``प्रयत्नकार्यानेकत्वात् कार्यसमऽऽ इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः/ स च प्रतिषेध इत्य् उच्यते/ तस्यास्य प्रतिषेधे ऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते/ तस्मिन् प्रतिषेधविप्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वं चतुर्थः पक्षः
SK
********************** Nय्SBह्_५,१.४२ **********************
SK
Nय्S_५,१.४२: प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ||
SK
प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तदुद्धारम् अकृत्वानुज्ञाय प्रतिषेधविप्रतिषेधे तृतीयपक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषणवादिनो मतानुज्ञा प्रसज्यत इति पञ्चमः पक्षः
SK
********************** Nय्SBह्_५,१.४३ **********************
SK
% प्.११५७
SK
Nय्S_५,१.४३: स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ||
SK
स्थापनापक्षे प्रयत्नकार्यानेकत्वाद् इति दोषः स्थापनाहेतुवादिनः स्वपक्षलक्षणो भवति/ कस्मात्? स्वपक्षसमुत्थत्वात्/ सो ऽयं स्वपक्षलक्षणं दोषम् अपेक्षमाणो ऽनुद्धृत्यानुज्ञाय प्रतिषेधे ऽपि समानो दोष इत्य् उपपद्यमानं दोषं परपक्षे उपसंहरति/ इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति/ तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्य् अनेन परपक्षदोषो ऽभ्युपगतो भवति/ कथं कृत्वा? यः परेण प्रयत्नकार्यानेकत्वाद् इत्यादिनानैकान्तिकदोष उक्तः, तम् अनुद्धृत्य प्रतिषेधे ऽपि समानो दोष इत्य् आह/ एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतः परपक्षाभ्युपगमात् समानो दोषो भवति/
SK
% प्रसञ्जयतः परपक्षाभ्युपगमात्...] प्.११५८ यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे ऽपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यत इति, तथास्यापि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतो मतानुज्ञा प्रसज्यत इति/ स खल्व् अयं षष्ठः पक्षः/ तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः/ तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः/ चतुर्थपक्षे समानदोषत्वं परस्योच्यते --``प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषऽऽ इति/ षष्ठे ऽपि ``परपक्षदोषाभ्युपगमात् समानो दोषऽऽ इति समानदोषत्वम् एवोच्यते, नार्थविशेषः कश्चिद् अस्ति/ समानस् तृटीयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः, तृटीयपक्षे ऽपि ``प्रतिषेधे ऽपि समानो दोषऽऽ इति समानत्वम् अभ्युपगम्यते/ पञ्चमपक्षे ऽपि ``प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽऽ ऽभ्युपगम्यते, नार्थविशेषः कश्चिद् उच्यत इति/ तत्र पञ्चमषष्ठपक्षयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः, तृतीयचतुर्थयोर् मतानुज्ञा, प्रथमद्वितीययोर् विशेषहेत्वभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः/ कदा षट्पक्षी? यदा ``प्रतिषेधे ऽपि समानो दोषऽऽ इत्य् एवं प्रवर्त्तते/ तदोभयोः पक्षयोर् असिद्धिः/ यदा तु ``कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेर्ऽऽ इत्य् अनेन तृटीयपक्षो युज्यते,
SK
% तृतीयपक्षो युज्यते,] प्.११५९ तदा विशेषहेतुवचनात् ``प्रयत्नानन्तरम् आत्मलाभः शब्दस्य, नाभिव्यक्तिर्ऽऽ इति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तत इति
SK
इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमाध्यायस्याद्यम् आह्निकम्/
SK
% प्.११६० न्यायदर्शनम् पञ्चमाध्यायस्य द्वितीयम् आह्निकम् विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम् इति सङ्क्षेपेणोक्तम्, तद् इदानीं विभजनीयम्/ निग्रहस्थानानि खलु पराजयवस्तून्य् अपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनम् अतत्त्ववादिनं चाभिसंप्लवन्ते/
SK
% प्रायेण ... चाभिसंप्लवन्ते/] प्.११६२
SK
********************** Nय्SBह्_५,२.१ **********************
SK
तेषां विभागः ---
SK
Nय्S_५,२.१: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वाभासाश् च निग्रहस्थानानि ||
SK
% प्.११६३ तानीमानि द्वाविंशतिधा विभज्य, लक्ष्यन्ते ---
SK
********************** Nय्SBह्_५,२.२ **********************
SK
Nय्S_५,२.२: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ||
SK
साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिद्रष्टान्तधर्मं स्वदृष्टान्ते ऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रत्ज्ञाहानिः/ निदर्शनम् --- ``ऐन्द्रियकत्वाद् अनित्यः शब्दो घटवद्ऽऽ इत्य् कृते अपर आह -- दृष्टम् ऐन्द्रियकत्वं सामान्ये नित्ये, कस्मान् न तथा शब्द इति प्रत्यवस्थिते इदम् आह ---
SK
% प्रत्यवस्थिते इदम् आह ---] प्.११६४ यद्य् ऐन्द्रियकं सामान्यं नित्यं कामं घटो नित्यो ऽस्त्व् इति/
SK
% प्.११६५ स खल्व् अयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन् निगमनान्तम् एव पक्षं जहाति, पक्षं जहत्प्रतिज्ञां जहातीत्य् उच्यते, प्रतिज्ञाश्रयत्वात् पक्षस्येति
SK
********************** Nय्SBह्_५,२.३ **********************
SK
% प्.११६७
SK
Nय्S_५,२.३: प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ||
SK
प्रतिज्ञातार्थो ``अनित्यः शब्द ऐन्द्रियकत्वाद् घटवद्ऽऽ इत्य् उक्ते यो ऽस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभिचारः --- सामान्यम् ऐन्द्रियकं नित्यम् इति, तस्मिंश् च प्रतिज्ञातार्थप्रतिषेधे, ``धर्मविकल्पाद्ऽऽ इति दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात् सामान्यम् ऐन्द्रियकं सर्वगतम् ऐन्द्रियकस् त्व् असर्वगतो घट इति धर्मविकल्पात्, ``तदर्थनिर्देशऽऽ इति साध्यसिद्ध्यर्थम्/ कथम्? यथा घटो ऽसर्वगत एवं शब्दो ऽप्य् असर्वगतो घटवद् एवानित्य इति/
SK
% प्.११६८ तत्रानित्यः शब्द इति पूर्वा प्रतिज्ञा, असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम्/ तत् कथं निग्रहस्थाम् इति? न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरम्, किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तद् एतद् असाधनोपादानम् अनर्थकम् इति/ आनर्थक्यान् निग्रहस्थानम् इति
SK
********************** Nय्SBह्_५,२.४ **********************
SK
% प्.११६९
SK
Nय्S_५,२.४: प्रतिज्ञाहेत्वोर् विरोधः प्रतिज्ञाविरोधः ||
SK
गुणव्यतिरिक्तं द्रव्यम् इति प्रतिज्ञा, ``रूपादितो ऽर्थान्तरस्यानुपलब्धेर्ऽऽ इति हेतुः/
SK
% प्.११७० सो ऽयं प्रतिज्ञाहेत्वोर् विरोधः/ कथम्? यदि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिर् नोपपद्यते/ अथ रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिः, गुणव्यतिरिक्तं द्रव्यम् इति नोपपद्यते/
SK
% नोपपद्यते/] प्.११७१ गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश् चार्थान्तरस्यानुपलब्धिर् इति विरुध्यते --- व्याहन्यते न सम्भवतीति
SK
********************** Nय्SBह्_५,२.५ **********************
SK
% प्.११७२
SK
Nय्S_५,२.५: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ||
SK
अनित्यः शब्द ऐन्द्रियकत्वाद् इत्य् उक्ते परो ब्रूयात् सामान्यम् ऐन्द्रियकं न चानित्यम्,
SK
% प्.११७३ एवं शब्दो ऽप्य् ऐन्द्रियको न चानित्य इति/ एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् --- ``क पुनर् आहानित्यः शब्दऽऽ इति, सो ऽयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासन्न्यास इति
SK
********************** Nय्SBह्_५,२.६ **********************
SK
Nय्S_५,२.६: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्वन्तरम् ||
SK
निदर्शनम् --- एकप्रकृतीदं व्यक्तम् इति प्रतिज्ञा/ कस्माद् धेतोः? एकप्रकृतीनां विकाराणां परिमाणात्/ मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणम्, यावान् प्रकृतेर् व्यूहो भवति तावान् विकार इति/ दृष्टं च प्रतिविकारं परिमाणम्/ अस्ति चेदं परिमाणम् प्रतिव्यक्तं तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तम् इदम् एकप्रकृतीति/
SK
% प्.११७४ अस्य व्यभिचारेण प्रत्यवस्थानं --- नानाप्रकृतीनाम् एकप्रकृतीनां च विकाराणां दृष्टं परिमाणम् इति/ एवं प्रत्यवस्थिते आह --- एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्/ सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते, --- तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्य् एकप्रकृतित्वम् इति/ तद् इदम् अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति/ सति च हेत्वन्तरभावे पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम्/ हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते,
SK
% दृष्टान्त उपादीयते,] प्.११७५ नेदं व्यक्तम् एकप्रकृति भवति, प्रकृत्यन्तरोपादानात्/ अथ नोपादीयते, दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेर् आनर्थक्याद् धेतोर् अनिवृत्तं निग्रहस्थानम् इति
SK
********************** Nय्SBह्_५,२.७ **********************
SK
% प्.११७६
SK
Nय्S_५,२.७: प्रकृताद् अर्थाद् अप्रतिसम्बद्धार्थम् अर्थान्तरम् ||
SK
यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे (चोर्र्.; पक्षपतिपक्ष-, एद्.) हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् --- नित्यः शब्दो ऽस्पर्शत्वाद् इति हेतुः/ हेतुर् नाम हिनोतेर् धातोस् तुनि प्रत्यये कृदन्तं पदम्/ पदं च नामाख्यातोपसर्गनिपाताः/ अभिधेयस्य क्रियान्तरयोगाद् विशिष्यमाणरूपः शब्दो ``नामऽऽ/ क्रियाकारकसमुदायः कारकसङ्ख्याविशिष्टक्रियाकालयोगाभिधायाख्यातम्, धात्वर्थमात्रं च कालाभिधानविशिष्टम्/ प्रयोगेष्व् अर्थाद् अभिद्यमानारूपा निपाताः/
SK
% -रूपा निपाताः/] प्.११७७ उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्य् एवमादि/ तदर्थान्तरं वेदितव्यम् इति
SK
********************** Nय्SBह्_५,२.८ **********************
SK
Nय्S_५,२.८: वर्णक्रमनिर्देशवन् निरर्थकम् ||
SK
यथा ऽनित्यः शब्दः --- कचटतपाः, जवगडदशत्वात्, झभञ् घढधषवद् इति ----
SK
% प्.११७८ एवम्प्रकारं निरर्थकम्/ अभिधानाभिधेयभावानुपपत्तौ अर्थगतेर् अभावाद् वर्णा एव क्रमेण निर्दिश्यन्त इति
SK
********************** Nय्SBह्_५,२.९ **********************
SK
Nय्S_५,२.९: परिषत्प्रतिवादिभ्यां त्रिर् अभिहितम् अप्य् अविज्ञातम् अविज्ञातार्थम् ||
SK
यद् वाक्यं परिषदा प्रतिवादिना च त्रिर् अभिहितम् अपि न विज्ञायते श्लिष्टशब्दम् अप्रतीतप्रयोगम् अतिद्रुतोच्चरितम् इत्य् एवमादिना कारणेन,
SK
% -प्रतीतप्रयोगम् ... कारणेन,] प्.११७९ तदविज्ञातम् अविज्ञातार्थम् असामर्थ्यसंवरणाय प्रयुक्तम् इति निग्रहस्थानम् इति
SK
********************** Nय्SBह्_५,२.१० **********************
SK
Nय्S_५,२.१०: पौर्वापर्यायोगाद् अप्रतिसम्बद्धार्थम् अपार्थकम् ||
SK
यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्तीत्य् असम्बद्धार्थत्वगृह्यते, तत् समुदायार्थस्यापायाद् अपार्थकम्/ यथा --- दश दाडिमानि, षड् अपूपाः;
SK
% प्.११८० कुण्डम्, अजाजिनम्, पललपिण्डः, अथ रौरुकम् एतद्, कुमार्याः पायं तस्याः पिता ऽप्रतिशीन इति
SK
********************** Nय्SBह्_५,२.११ **********************
SK
% प्.११८१
SK
Nय्S_५,२.११: अवयवविपर्यासवचनम् अप्राप्तकालम् ||
SK
प्रतिज्ञादीनाम् अवयवानां यथालक्षणम् अर्थवशात् क्रमः, तत्रावयवविपर्यासेन वचनम् अप्राअप्तकालम् असम्बद्धार्थं निग्रहस्थानम् इति
SK
********************** Nय्SBह्_५,२.१२ **********************
SK
% प्.११८५
SK
Nय्S_५,२.१२: हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम् ||
SK
प्रतिज्ञादीनाम् अवयवानाम् अन्यतमेनाप्य् अवयवेन हीनं न्यूनं निग्रहस्थानम्, साधनाभावे साध्यासिद्धिर् इति
SK
********************** Nय्SBह्_५,२.१३ **********************
SK
% प्.११८६
SK
Nय्S_५,२.१३: हेतूदाहरणाधिकम् अधिकम् ||
SK
एकेन कृतत्वाद् अन्यतरस्यानर्थक्यम् इति, तद् एतन् नियमाभुपगमे वेदितव्यम् इति
SK
********************** Nय्SBह्_५,२.१४ **********************
SK
% प्.११८७
SK
Nय्S_५,२.१४: शब्दार्थयोः पुनर् वचनं पुनरुक्तम् अन्यत्रानुवादात् ||
SK
अन्यत्रानुवादात् शब्दपुनरुक्तम् अर्थपुनरुक्तं वा, नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम्/ अर्थपुनरुक्तम् --- अनित्यः शब्दो निरोधधर्मको ध्वनिर् इति/ अनुवादे त्व् अपुनरुक्तं शब्दाभ्यासाद् अर्थविशेषोपपत्तेः/ यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर् वचनं निगमनम् इति
SK
********************** Nय्SBह्_५,२.१५ **********************
SK
Nय्S_५,२.१५: अर्थाद् आपन्नस्य स्वशब्देन पुनर्वचनम् ||
SK
पुनरुक्तम् इति प्रकृतम्/ निदर्शनम् --- उत्पत्तिधर्मकत्वाद् अनित्यम् इत्य् उक्त्वा अर्थाद् आपन्नस्य यो ऽभिधायकः शब्दस् तेन स्वशब्देन ब्रूयाद् अनुत्पत्तिधर्मकं नित्यम् इति,
SK
% -पन्नस्य यो ... नित्यम् इति,] प्.११८८ तच् च पुनरुकतं वेदितव्यम्/ अर्थसम्प्रत्ययार्थे शब्दप्रयोगे प्रतीतः सो ऽर्थो ऽर्थाप्त्त्येति
SK
********************** Nय्SBह्_५,२.१६ **********************
SK
% प्.११८९
SK
Nय्S_५,२.१६: विज्ञातस्य परिषदा, त्रिर् अभिहितस्याप्य् अप्रत्युच्चारणम् अननुभाषणम् ||
SK
विज्ञातस्य वाक्यार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अप्रत्यौच्चारणं तद् अननुभाषणं नाम निग्रहस्थानम् इति/ अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात्
SK
********************** Nय्SBह्_५,२.१७ **********************
SK
% प्.११९१
SK
Nय्S_५,२.१७: अविज्ञातं चाज्ञानम् ||
SK
विज्ञातार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अविज्ञातं तद् अज्ञानं नाम निग्रहस्थानम् इति/ अयं खल्व् अविज्ञाय कस्य प्रतिषेधं ब्रूयाद् इति
SK
********************** Nय्SBह्_५,२.१८ **********************
SK
Nय्S_५,२.१८: उत्तरस्याप्रतिपत्तिर् अप्रतिभा ||
SK
परपक्षप्रतिषेध उत्तरम्, तद् यदा न प्रतिपद्यते तदा निगृहीतो भवति
SK
********************** Nय्SBह्_५,२.१९ **********************
SK
% प्.११९२
SK
Nय्S_५,२.१९: कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ||
SK
यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति --- इदं मे करणीयं विद्यते, तस्मिन् अवसिते पश्चात् कथयामीति, विक्षेपो नाम निग्रहस्थानम्/ एकनिग्रहावसानायां कथायां स्वयम् एव कथान्तरं प्रतिपद्यत इति
SK
********************** Nय्SBह्_५,२.२० **********************
SK
% प्.११९३
SK
Nय्S_५,२.२०: स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ||
SK
यः परेण चोदितं दोषं स्वपक्षे ऽभ्युपगम्यानुद्धृत्य वदति --- भवत्पक्षे ऽपि समानो दोष इति,
SK
% दोष इति,] प्.११९४ स स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषं प्रसञ्जयन् परमतम् अनुजानातीति मतानुज्ञां नाम निग्रहस्थानम् आपद्यत इति
SK
********************** Nय्SBह्_५,२.२१ **********************
SK
% प्.११९५
SK
Nय्S_५,२.२१: निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ||
SK
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्योपेक्षणं निग्रहस्थानं प्राप्तो ऽसीत्य् अननुयोगः/ एतच् च कस्य पराजय इत्य् अनुयुक्तया परिषदा वचनीयम्, न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयाद् इति
SK
********************** Nय्SBह्_५,२.२२ **********************
SK
% प्.११९६
SK
Nय्S_५,२.२२: अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ||
SK
निग्रहस्थालक्षणस्य मिथ्याध्यवसायाद् अनिग्रहस्थाने निगृहीतो ऽसीति परं ब्रुवन् निरनुयोज्यानुयोज्गान् निगृहीतो वेदितव्य इति
SK
********************** Nय्SBह्_५,२.२३ **********************
SK
% प्.११९७
SK
Nय्S_५,२.२३: सिद्धान्तम् अभ्युपेत्यानियमात् कथाप्रसङ्गो ऽपसिद्धान्तः ||
SK
कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययाद् अनियमात् कथां प्रसञ्जयतो ऽपसिद्धान्तो वेदितव्यः/ यथा न सद् आत्मानं जहाति, न सतो विनाशो, नासद् आत्मानं लभते, नासद् उत्पद्यत इति सिद्धान्तम् अभ्युपेत्य स्वपक्षं व्यवस्थापयति --- एकप्रकृतीदं व्यक्तं विकाराणाम् अन्वयदर्शनात्/ मृदन्वितानां शरावादीनां दृष्टम् एकप्रकृतित्वम्, तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते/ तस्मात् समन्वयदर्शनात् सुखादिभिर् एकप्रकृतीदं विश्वम् इति/ एवम् उक्तवान् अनुयुज्यते --- अथ प्रतृतिर् विकार इति कथं लक्षितव्यम् इति/ यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः/ यद् धर्मान्तरं प्रवर्तते निवर्तते वा स विकार इति/ सो ऽयं प्रतिज्ञातार्थविपर्यासाद् अनियमात् कथां प्रसञ्जयति/ प्रतिज्ञातं खल्व् अनेन --- नासद् आविर्भवति,
SK
% प्.११९८ न सत् तिरोभवतीति/ सदसतोश् च तिरोभावाविर्भावम् अन्तरेण न कस्यचित् प्रवृत्तिः प्रवृत्त्युपरमश् च भवति/ मृदि खल्व् अवस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरम् इति प्रवृत्तिर् भवति, अभूद् इति च प्रवृत्त्युपरमः/ तद् एतद् मृद्धर्माणाम् अपि न स्यात्/ एवं प्रत्यवस्थितो यदि सतश् चात्महानम् असतश् चात्मलाभम् अभ्युपैति, तद् अस्यापसिद्धानतो निग्रहस्थानं भवति/ अथ नाभ्युपैति, पक्षो ऽस्य न सिध्यति
SK
********************** Nय्SBह्_५,२.२४ **********************
SK
% प्.११९९
SK
Nय्S_५,२.२४: हेत्वाभासाश् च यथोक्ताः ||
SK
हेत्वाभासाश् च निग्रहस्थानानि/ किं पुनर् लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वम् आपन्नाः यथा प्रमाणानि प्रमेयत्वम् इत्य् अत आह --- यथोक्ता इति/ हेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति/
SK
% प्.१२०० त इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश् चेति
SK
यो ऽक्षपादम् ऋषिं न्यायः प्रत्यभाद् वदतां वरम्/ तस्य वात्स्यायन इदं भाष्यजातम् अवर्तयत्//
SK
इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमो ऽध्यायः/

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gautama: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya (sa_gautama-nyAyasUtra-comm.htm).

Source