Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya

Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

% p.335 dvitīyāhnikam

SK
तिस्रः कथा भवन्ति --- वादो जल्पो वितण्डा चेति/ तासाम् ---
SK
Nय्S_१,२.१: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ||
SK
एकाधिकरणस्थौ विरुद्धौ धर्मौ पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्य् आत्मा नास्त्य् आत्मेति/
SK
% -त्मेति] प्.३३६ नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ, यथा --- नित्य आत्मा अनित्या बुद्धिर् इति/ परिग्रहो ऽभ्युपगमव्यवस्था/ सो ऽयम् पक्षप्रतिपक्षपरिग्रहो वादः/ तस्य विशेषनं प्रमाणतर्कसाधनोपालम्भः, प्रमाणैस् तर्केण च साधनम् उपालम्भश् चास्मिन् क्रियत इति/ साधनं स्थापना/ उपालम्भः प्रतिषेधः/ तौ साधनोपालम्भाव् उभयोर् अपि पक्षयोर् व्यतिषक्ताव् अनुबद्धौ च यावद् एको निवृत्त एकतरो व्यवस्थित इति निवृत्तस्योपालम्भो व्यवस्थितस्य साधनम् इति/
SK
% उभयोर् अपि ... साधनम् इति/] प्.३३९ जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः/ प्रतिषेधे कस्यचिद् अभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम्/
SK
% सिद्धान्ताविरुद्ध इति वचनम्/] प्.३४० ``सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धऽऽ इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे/ पञ्चावयवोपपन्न इति
SK
% प्.३४१ ``हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम्ऽऽ ``हेतूदाहरणाधिकम् अधिकम्ऽऽ इति चैतयोर् अभ्यनुज्ञानार्थम् इति/ अवयवेषु प्रमानतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषङ्गज्ञापनार्थम्/ अन्यथोभाव् अपि पक्षौ स्थापनाप्रवृत्तौ वाद इति स्यात्/
SK
% प्रवृत्तौ वाद इति स्यात्/] प्.३४२ अन्तरेणापि चावयवसम्बन्धं प्रमाणान्य् अर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति/ ``छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पऽऽ इति वचनाद् विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः प्रमाणतर्कसाधनोपालम्भो वाद् एवेति मा विज्ञायीत्य् एवमर्थं पृथक् प्रमानतर्कग्रहणम् इति
SK
********************** Nय्SBह्_१,२.२ **********************
SK
% प्.३५६
SK
Nय्S_१,२.२: यथोक्तोपपन्नश् छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ||
SK
यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः/ छलजातिनिग्रहस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनम् उपालम्भश् चास्मिन् क्रियत इति एवंविशेषणो जल्पः/
SK
% प्.३५८ न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिद् अर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते --- ``वचनविघातो ऽर्थविकल्पोपपत्त्या छलम्ऽऽ इति ``साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिःऽऽ ``विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम्ऽऽ इति/
SK
% -स्थानम्ऽऽ इति/] प्.३५९ विशेषलक्षणेष्व् अपि यथास्वम् इति/ न चैतद् विजानीयात् प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्य् एवम् अप्य् उच्यमाने विज्ञायत एतद् इति/ प्रमाणैः साधनोपालम्भयोश् छलजातिनिग्रहस्थानानाम् अङ्गभावः स्वपक्षरक्षणार्थत्वात्/ न स्वतन्त्राणां साधनभावः --- यत् तत् प्रमाणैर् अर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानाम् अङ्गभावो रक्षणार्थत्वात्/ तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्ति/
SK
% -विघातेन स्वपक्षं रक्षन्ति/] प्.३६० तथा चोक्तं ``तत्त्वाध्यवसायसंरक्षणाथं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्ऽऽ इति/ यश् चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस् तस्य चैतानि प्रयुज्यमानानि प्रतिषेधविघातात् सहकारीणि भवन्ति/ तद् एवम् अङ्गीभूतनां छलादीनाम् उपादानं जल्पे, न स्वतन्त्राणां साधनभावः/ उपालम्भे तु स्वातन्त्र्यम् अप्य् अस्तीति
SK
********************** Nय्SBह्_१,२.३ **********************
SK
% प्.३६१
SK
Nय्S_१,२.३: स प्रतिपक्षस्थापनाहीनो व्वितण्डा ||
SK
स जल्पो वितण्डा भवति/ किंविशेषणः? प्रतिपक्षस्थापनया हीनः/ यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षाव् इत्य् उक्तं तयोर् एकतरं वैतण्डिको न स्थापयतीति प्रपक्षप्रतिषेधेनैव प्रवर्तत इति/
SK
% प्.३६२ अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद् वै खलु तत् परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्व् असौ साध्यं कञ्चिद् अर्थं प्रतिज्ञाय स्थापयतीति/ तस्माद् यथान्यासम् एवास्त्व् इति
SK
********************** Nय्SBह्_१,२.४ **********************
SK
% प्.३६३ हेतुलक्षणाभावाद् अहेतवो हेतुसामान्याद् धेतुवद् आभासमानाः/ त इमे ---
SK
Nय्S_१,२.४: सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ||
SK
% प्.३७२ तेषाम् ---
SK
********************** Nय्SBह्_१,२.५ **********************
SK
% प्.३७३
SK
Nय्S_१,२.५: अनैकान्तिकः सव्यभिचारः ||
SK
व्यभिचार एकत्राव्यवस्थितिः/ सहव्यभिचारेण वर्तत इति स्वयभिचारः/
SK
% -चारः] प्.३७४ निदर्शनम् --- नित्यः शब्दो ऽस्पर्शत्वात्, स्पर्शवान् कुम्भो ऽनित्यो दृष्टः न च तथा स्पर्शवान् शब्दस् तस्माद् अस्पर्शत्वान् नित्यः शब्द इति/
SK
% तथा स्पर्शवान् ...] प्.३७५ दृष्टान्ते स्पर्शवत्त्वम् अनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते स्पर्शवांश् चाणुर् नित्यश् चेति/ आत्मादौ च दृष्टान्ते
SK
% दृष्टान्ते] प्.३७६ ``उदाहरणसाधर्म्यात् साध्यसाधनं हेतुःऽऽ इत्य् अस्पर्शत्वाद् इति हेतुर् नित्यत्वं व्यभिचरति, अस्पर्शा बुद्धिर् अनित्या चेति/ एवं द्विविधे ऽपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावाद् अहेतुर् इति/ नित्यत्वम् अप्य् एको ऽन्तो ऽनित्यत्वम् अप्य् एको ण्त एकस्मिन्न् अन्ते विद्यत इति ऐकान्तिकः विपर्ययाद् अनैकान्तिक उभयान्तव्यापकत्वाद् इति
SK
********************** Nय्SBह्_१,२.६ **********************
SK
% प्.३७७
SK
Nय्S_१,२.६: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ||
SK
तं विरुणद्धीति तद्विरोध्य् अभ्युपेतं सिद्धान्तं व्याहन्तीति/ यथा सो ऽयं विकारो व्यक्तेर् अपैति नित्यत्वप्रतिषेधात् ---
SK
% व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्] प्.३७८ न नित्यो विकार उपपद्यत अपेतो ऽपि विकारो ऽस्ति विनाशप्रतिषेधात्/ सो ऽयं नित्यत्वप्रतिषेधाद् इति/ हेतुर् व्यक्तेर् अपेतो ऽपि विकारो ऽस्तीत्य् अनेन स्वसिद्धान्तेन विरुध्यते/ कथम्? व्यक्तिर् आत्मलाभः/ अपायः प्रच्युतिः/ यद्य् आत्मलाभात् प्रच्युतो विकारो ऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते/ यद् व्यक्तेर् अपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वम् इति/ नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेर् उपपत्तिः/
SK
% नाम विकारस्यात्मलाभात् ...] प्.३७९ यद् आत्मलाभात् प्रच्यवते तद् अनित्यं दृष्टम्, यद् अस्ति न तद् आत्मलाभात् प्रच्यवते/ अस्तित्वं चात्मलाभात् प्रच्युतिर् इति च विरुद्धाव् एतौ धर्मौ न सह सम्भवत इति/ सो ऽयं हेतुर् यं सिद्धान्तम् आश्रित्य प्रवर्तते तम् एव व्याहन्तीति
SK
********************** Nय्SBह्_१,२.७ **********************
SK
% प्.३८०
SK
Nय्S_१,२.७: यस्मात् प्रकरणचिन्ता स निर्णयार्थम् अपदिष्टः प्रकरणसमः ||
SK
विमर्शाधिष्ठानौ पक्षप्रतिपक्षाव् उभाव् अनवसितौ प्रकरणम्, तस्य चिन्ता विमर्शात् प्रभृति प्राङ् निर्णयाद् यत् समीक्षणम्,
SK
% प्राङ् निर्णयाद् यत् समीक्षणम्,] प्.३८१ सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात् प्रकरणम् अनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते/ प्रज्ञापनं त्व् अनित्यः शब्दो नित्यधर्मानुपलब्धेर् इति, अनुपलभ्यमानन् इत्य् अधर्मकं नित्यं दृष्टम् स्थाल्यादि/ नित्यः शब्दो वानित्यधर्मानुपलब्धेः अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टम् आकाशादि/ यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव/
SK
% प्.३८२ या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश् च सा प्रकरणं प्रवर्तयति/ यथा शब्दे नित्यधर्मो नोपलभ्यत एवम् अनित्यधर्मो ऽपि/ सेयम् उभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति/
SK
% प्रकरणचिन्तां प्रवर्तयति/] प्.३८३ कथम्? विपर्यये हि प्रकरणनिवृत्तेः --- यदि नित्यधर्मः शब्दे गृह्येत न स्यात् प्रकरणम्, यदि न स्यात् प्रकरणम्, यदि वानित्यधर्मो गृह्येत एवम् अपि निवर्तेत प्रकरणम्/ सो ऽयं हेतुर् उभौ पक्षौ प्रवर्तयन्न् अन्यतरस्य निर्णयाय न प्रकल्पते
SK
********************** Nय्SBह्_१,२.८ **********************
SK
% प्.३८४
SK
Nय्S_१,२.८: साध्याविशिष्टः साध्यत्वात् साध्यसमः ||
SK
द्रव्यं छायेति साध्यम्, गतिमत्त्वाद् इति हेतुः साध्येनाविशिष्टः साधनीयत्वात् साध्यसमः/
SK
% साध्यसमः/] प्.३८५ अयम् अप्य् असिद्धत्वात् साध्यवत् प्रज्ञापयितव्यः/ साध्यं तावद् एतत् किं पुरुषवच् छायापि गच्छत्य् आहोस्विद् आवरकद्रव्ये संसर्पत्य् आवरणसन्तानाद् असन्निधिसन्तानो ऽयं तेजसो गृह्यत इति/
SK
% -सन्नधिसन्तानो ऽयं तेजसो गृह्यत इति/] प्.३८६ सर्पता खलु द्रव्येण यो यस् तेजोभाग आव्रियते तस्य तस्यासन्निधिर् एवाविच्छिन्नो गृह्यत इति/ आवरणं तु प्राप्तिप्रतिषेधः
SK
********************** Nय्SBह्_१,२.९ **********************
SK
% प्.३८८
SK
Nय्S_१,२.९: कालात्ययापदिष्टः कालातीतः ||
SK
कालात्ययेन युक्तो यस्यार्थैकदेशो ऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्य् उच्यते/ निदर्शनम् --- नित्यः शब्दः संयोगव्यङ्ग्यत्वाद् रूपवत्/
SK
% प्.३८९ प्राग् ऊर्ध्वं च व्यक्तेर् अवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दो ऽप्य् अवस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन वा, तस्मात् सम्योगव्यङ्ग्यत्वान् नित्यः शब्द इति; अयम् अहेतुः कालात्ययापदेशात्/ व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिर् अत्येति/ सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते/ निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले/ सेयं शब्दस्य व्यक्तिः संयोगकालम् अत्येतीति न संयोगनिर्मिता भवति/ कस्मात्? कारणाभावाद् धि कार्याभाव इति/ एवम् उदाहरणसाधर्म्यस्याभावाद् असाधनम् अयं हेतुर् हेत्वाभास इति/
SK
% प्.३९० अवयवविपर्यासवचनं तु न सूत्रार्थः/ कस्मात्? ``यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः/ अर्थतो ह्य् असमर्थानाम् आनन्तर्यम् अकारणम्//ऽऽ इत्य् एतद्वचनाद् विपर्यासेनोक्तो हेतुर् उदाहरणसाधर्म्यात् तथा वैधर्म्यात् साध्यसाधनं हेतुलक्षणं न जहाति/ अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति/ ``अवयवविपर्यासवचनम् अप्राप्तकालम्ऽऽ इति निग्रहस्थानम् उक्तम्, तद् एवेदं पुनर् उच्यत इति, अतस् तन् न सूत्रार्थः
SK
********************** Nय्SBह्_१,२.१० **********************
SK
% प्.३९१ अथ छलम्
SK
Nय्S_१,२.१० : वचनविघातो ऽर्थविकल्पोपपत्त्या छलम् ||
SK
न सामान्यलक्षणे छलं शक्यम् उदाहर्तुम्, विभागे तूदाहरणानि
SK
********************** Nय्SBह्_१,२.११ **********************
SK
% प्.३९२ विभागश् च ---
SK
Nय्S_१,२.११ : तत् त्रिविधं वाक्छलं सामान्यच्छलम् उपचारच्छलम् चेति ||
SK
तेषाम् ---
SK
********************** Nय्SBह्_१,२.१२ **********************
SK
Nय्S_१,२.१२ : अविशेषाभिहिते ऽर्थे वक्तुर् अभिप्रायाद् अर्थान्तरकल्पना वाक्छलम् ||
SK
नवकम्बलो ऽयं माणवक इति प्रयोगः/ अत्र नवः कम्बलो ऽस्येति वक्तुर् अभिप्रायः/ विग्रहे तु विशेषः, न समासे/ तत्रायं छलवादी वक्तुर् अभिप्रायाद् अविवक्षितम् अन्यम् अर्थं नव कम्बला अस्येति तावद् अभिहितं भवतेति कल्पयति,
SK
% नव कम्बला अस्येति] प्.३९३ कल्पयित्वा चासम्भवेन प्रतिषेधति एको ऽस्य कम्बलः कुतो नव कम्बला इति/ तद् इदं सामान्यशब्दे वाचि छलं वाक्छलम् इति/ अस्य प्रत्यवस्थानम् --- सामान्यशब्दस्यानेकार्थत्वे ऽन्यतराभिधानकल्पनायां विशेषवचनम्/ नवकम्बल इत्य् अनेकार्थाभिधानम्, नवः कम्बलो ऽस्येति नव कम्बला अस्येति; एतस्मिन् प्रयुक्ते येयं कल्पना नव कम्बला अस्येत्य् एतद्भवताभिहितं तच् च न सम्भवतीति, एतस्याम् अन्यतराभिधानकल्पनायां विशेषो वक्तव्यः/ यस्माद् विशेषो ऽर्थविशेषेषु विज्ञायते ऽयम् अर्थो ऽनेनाभिहित इति/ स च विशेषो नास्ति/ तस्मान् मिथ्याभियोगमात्रम् एतद् इति/ प्रसिद्धश् च लोके शब्दार्थसम्बन्धो ऽभिधानाभिधेयनियमनियोगः/ अस्याभिधानस्यायम् अर्थो ऽभिधेय इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य/ प्रयुक्तपूर्वाश् चेमे शब्दा अर्थे प्रयुज्यन्ते नाप्रयुक्तपूर्वाः/ प्रयोगश् चार्थसम्प्रत्ययार्थः/ अर्थप्रत्ययाच् च व्यवहार इति/
SK
% इति/] प्.३९४ तत्रैवम् अर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात् सामान्यशब्दस्य प्रयोगनियमः/ अजां ग्रामं नय सर्पिर् आहार ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तो ऽर्थावयवेषु प्रयुज्यन्ते सामार्थ्यत्, यत्रार्थक्रियाचोदना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात्/ एवम् अयं सामान्यशब्दो नवकम्बल इति यो ऽर्थः सम्भवति नवः कम्बलो ऽस्येति तत्र प्रवर्तते, यस् तु न सम्भवैत् नव कम्बला अस्येति तत्र न प्रवर्तते/ सो ऽयम् अनुपपद्यमानार्थकल्पनया परवाक्योपालम्भो न कल्पत इति
SK
********************** Nय्SBह्_१,२.१३ **********************
SK
% प्.३९५
SK
Nय्S_१,२.१३ : सम्भवतो ऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ||
SK
अहो खल्व् असौ ब्राह्मणो विद्याचरणसम्पन्न इत्य् उक्ते कश्चिद् आह सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति/
SK
% विद्याचरणसम्पद् इति] प्.३९६ अस्य वचनस्य विघातो ऽर्थविकल्पोपपत्त्यासम्भूतार्थकल्पनया क्रियते --- यदि ब्राह्मणे विद्याचरंअसम्पत् सम्भवति व्रात्ये ऽपि सम्भवेत्, व्रात्यो ऽपि ब्राह्मणः, सो ऽप्य् अस्तु विद्याचरणसम्पन्न इति/ यद् विवक्षितम् अर्थम् आप्नोति चात्येति च तद् अतिसामान्यम्/ यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिद् आप्नोति क्वचिद् अत्येति/ सामान्यनिमित्तं छलं सामान्यच्छलम् इति/ अस्य च प्रत्यवस्थानम् --- अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद् वाक्यस्य; तद् अत्रासम्भूतार्थकल्पनानुपपत्तिः/ यथा सम्भवन्त्य् अस्मिन् क्षेत्रे शालय इति अनिराकृतम् अविवक्षितं च बीजजन्म, प्रवृत्तिविषयस् तु क्षेत्रं प्रशस्यते; सो ऽयं क्षेत्रानुवादः नास्मिन् शालयो विधीयन्त इति; बीजात् तु शालिनिर्वृत्तिः सती न विवक्षिता/ एवं सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः/ न चात्र हेतुर् विवक्षितः/ विषयानुवादस् त्व् अयं प्रशंसार्थत्वाद् वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति/ विस्ऽयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर् न प्रत्याख्यायते/ तद् एवं सति वचनविघातो ऽसम्भूतार्थकल्पनया नोपपद्यत इति//
SK
********************** Nय्SBह्_१,२.१४ **********************
SK
% प्.३९७
SK
Nय्S_१,२.१४ : धर्मविकल्पनिर्देशे ऽर्थसद्भावप्रतिषेध उपचारच्छलम् ||
SK
अभिधानस्य धर्मो यथार्थप्रयोगः, धर्मविकल्पो ऽन्यत्र दृष्टस्यान्यत्र प्रयोगः, तस्य निर्देशे धर्मविकल्पनिर्देशे/ यथा मञ्चाः क्रोशन्तीति अर्थसद्भावेन प्रतिषेधः,
SK
% प्.३९८ मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति/ का पुनर् अत्रार्थविकल्पोपपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनम्, भक्त्या प्रयोगे प्राधान्येन कल्पनम् उपचारविषयं छलम् उपचारच्छलम्/ उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वद् अभिधानम् उपचार इति/ अत्र समाधिः --- प्रसिद्धे प्रयोगे वक्तुर् यथाभिप्रायं शब्दार्थयोर् अभ्यनुज्ञा प्रतिषेधा वा न च्छन्दतः/ प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर् लोकसिद्धः/ सिद्धे प्रयोगे यथा वक्तुर् अभिप्रायस् तथा शब्दार्थाव् अनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः/ यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा, न च्छन्दतः/ अथ गुणभूतम्, तदा गुणभूतस्य/ यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतम् अभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधो ऽसौ भवति न परोपालम्भ इति//
SK
********************** Nय्SBह्_१,२.१५ **********************
SK
% प्.३९९
SK
Nय्S_१,२.१५ : वाक्छलम् एवोपचारच्छलं तदविशेषात् ||
SK
न वाक्छलाद् उपचारच्छलं भिद्यते तस्याप्य् अर्थान्तरकल्पनाया अविशेषात्/ इहापि स्थान्यर्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यत इति//
SK
********************** Nय्SBह्_१,२.१६ **********************
SK
% प्.४००
SK
Nय्S_१,२.१६ : न तदर्थान्तरभावात् ||
SK
न वाक्छलम् एवोपचारच्छलम्, तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात्/ कुतः? अर्थान्तरकल्पनातः/ अन्या ह्य् अर्थान्तरकल्पना, अन्यो ऽर्थसद्भावप्रतिषेध इति//
SK
********************** Nय्SBह्_१,२.१७ **********************
SK
% प्.४०१
SK
Nय्S_१,२.१७ : अविषेषे वा किञ्चित् साधर्म्याद् एकच्छलप्रसङः ||
SK
छलस्य द्वित्वम् अभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किञ्चित् साधर्म्यात्/ यथा चायं हेतुस् त्रित्वं प्रतिषेधति तथा द्वित्वम् अप्य् अभ्यनुज्ञातं प्रतिषेधति, विद्यते हि किञ्चित् साधर्म्यं द्वयोर् अपीति/ अथ द्वित्वं किञ्चित्साधर्म्यान् न निवर्तते, त्रित्वम् अपि न निवर्त्स्यति//
SK
********************** Nय्SBह्_१,२.१८ **********************
SK
छललक्षणाद् ऊर्ध्वम् ---
SK
Nय्S_१,२.१८ : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ||
SK
प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते स जातिः/ स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् उपालम्भः प्रतिषेध इति/
SK
% साधर्म्यवैधर्म्याभ्यां ...] प्.४०२ ``उदाहरणसाधर्म्यात् साध्यसाधनं हेतुर्ऽऽ इत्य् अस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्, ``उदाहरणवैधर्म्यात् साध्यसाधनं हेतुर्ऽऽ इत्य् अस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्, प्रत्यनीकभावात्/ जायमानो ऽर्थो जातिर् इति//
SK
********************** Nय्SBह्_१,२.१९ **********************
SK
% प्.४०३
SK
Nय्S_१,२.१९ : विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम् ||
SK
विपरीता वा कुत्सिता वा प्रतिपत्तिर् विप्रतिपत्तिः/ विप्रतिपद्यमानः पराजयं प्राप्नोति/ निग्रहस्थानं खलु पराजयप्राप्तिः/ अप्रतिपत्तिस् त्व् आरम्भविषये अनारम्भः/ परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति/ असमासाच् च नैते एव निग्रहस्थाने इति//
SK
********************** Nय्SBह्_१,२.२० **********************
SK
% प्.४०४ किं पुनर् दृष्टान्तवज् जातिनिग्रहस्थानयोर् अभेदो ऽथ सिद्धान्तवद् भेद इत्य् अत आह ---
SK
Nय्S_१,२.२० : तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् ||
SK
तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम्, तयोश् च विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम्/ नाना कल्पो विकल्पः, विविधो वा कल्पो विकल्पः/ तत्र अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणम् इत्य् अप्रतिपत्तिर् निग्रस्थानम्/ शेषस् तु विप्रतिपत्तिर् इति/
SK
% प्.४०५ इमे प्रमाणादयः पदार्था उद्दिष्टाः, यथोद्देशं लक्षिताः, यथालक्षणं परीक्षिष्यन्त इति त्रिविधा चास्य शास्त्रस्य प्रवृत्तिर् वेदितव्येति//
SK
इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयम् आह्निकम्/ समाप्तश् चायं प्रथमो ऽध्यायः//
SK
% प्.४०८
SK
********************** Nय्SBह्_२,१.१ **********************
SK
अत ऊर्ध्वं प्रमाणादिपरीक्षा/ सा च ``विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इत्य् अग्रे विमर्ष एव परीक्ष्यते ---
SK
Nय्S_२,१.१ : समानानेकधर्माध्यवसायाद् अन्यतरधर्माध्यवसायाद् वा न संशयः ||
SK
समानस्य धर्मस्याध्यवसायात् संशयो न धर्ममात्रात्/ अथ वा समानम् अनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति/
SK
% -म् उपलभ इति] प्.४०९ अथ वा समानधर्माध्यवसायाद् अर्थान्तरभूते धर्मिणि संशयो ऽनुपपन्नः, न जातु रूपस्यार्थान्तरभूतस्याध्यवसायाद् अर्थान्तरभूते स्पर्शे संशय इति/ अथ वा न अध्यवसायाद् अर्थावधारणाद् अनवधारणज्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्याभावाद् इति/ एतेनानेकधर्माध्यवसायाद् इति व्याख्यातम्/ अन्यतरधर्माध्य्वसायाच् च संशयो न भवति, ततो ह्य् अन्यतरावधारणम् एवेति//
SK
********************** Nय्SBह्_२,१.२ **********************
SK
% प्.४११
SK
Nय्S_२,१.२ : विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च ||
SK
न विप्रतिपत्तिमात्राद् अव्यवस्थामात्राद् वा संशयः/ किं तर्हि? विप्रतिपत्तिम् उपलभमानस्य संशयः/ एवम् अव्यवस्थायाम् अपीति/ अथ वास्त्य् आत्मेत्य् एके नास्त्य् आत्मेत्य् अपरे मन्यन्त इत्य् उपलब्धेः कथं संशयः स्याद् इति/ तथोपलब्धिर् अव्यवस्थिता अनुपलब्धिश् चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यत इति//
SK
********************** Nय्SBह्_२,१.३ **********************
SK
Nय्S_२,१.३ : विप्रतिपत्तौ च सम्प्रतिपत्तेः ||
SK
यां च विप्रतिपत्तिं भवान् संशयहेतुः मन्यते सा सम्प्रतिपत्तिः, सा हि द्वयोः प्रत्यनीकधर्मविषया/ तत्र यदि विप्रतिपत्तेः संशयः, सम्प्रतिपत्तेर् एव संशय इति//
SK
********************** Nय्SBह्_२,१.४ **********************
SK
% प्.४१२
SK
Nय्S_२,१.४ : अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाः ||
SK
न संशयः/ यदि तावद् इयम् अव्यवस्था आत्मनि एव व्यवस्थिता, व्यवस्थानाद् अव्यवस्था न भवतीत्य् अनुपपन्नः संशयः/ अथ अव्यवस्थात्मनि न व्यवस्थिता, एवम् अतादात्म्याद् अव्यवस्था न भवतीति संशयाभाव इति//
SK
********************** Nय्SBह्_२,१.५ **********************
SK
Nय्S_२,१.५ : तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः ||
SK
येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते, तेन खल्व् अत्यन्तसंशयः प्रसज्यते/ समानधर्मोपपत्तेर् अनुच्छेदात् संशयानुच्छेदः/ न ह्य् अयम् अतद्धर्मा धर्मी विमृश्यमाणो गृह्यते, सततं तु तद्धर्मा भवतीति//
SK
********************** Nय्SBह्_२,१.६ **********************
SK
% प्.४१३ अस्य प्रतिषेधप्रपञ्चस्य सङ्क्षेपेणोद्धारः ---
SK
Nय्S_२,१.६ : यथोक्ताध्यवसायाद् एव तदविशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ||
SK
न संशयानुत्पत्तिः संशयानुच्छेदश् च प्रसज्यते/ कथम्? यत् तावत् समानधर्माध्यवसायः संशयहेतुः न समानधर्ममात्रम् इति, एवम् एतत्/ कस्माद् एवं नोच्यत इति? विशेषापेक्ष इति वचनात् तत्सिद्धेः --- विशेषस्यापेक्षा आकङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था, न चोक्तं समानधर्मापेक्ष इति/ समाने च धर्मे कथम् आकङ्क्षा न भवेद् यद्य् अयं प्रत्यक्षः स्यात्/ एतेन सामर्थ्येन विज्ञायते समानधर्माध्यवसायाद् इति/ उपपत्तिवचनाद् वा --- समानधर्मोपपत्तेर् इत्य् उच्यते न चान्या सद्भावसंवेदनाद् ऋते समानधर्मोपपत्तिर् अस्ति/ अनुपलभ्यमानसद्भावो हि समानो धर्मो ऽविद्यमानवद् भवतीति/ विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् --- यथा लोके धूमेनाग्निर् अनुमीयते इत्य् उक्ते धूमदर्शनेनाग्निर् अनुमीयत इति ज्ञायते/ कथम्? दृष्ट्वा हि धूमम् अथाग्निम् अनुमिनोति नादृष्ट्वेति; न च वाक्ये दर्शनशब्दः श्रूयते, अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वम्; तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययस्याभिधानं बोद्धानुजानाति/ एवम् इहापि समानधर्मशब्देन समानधर्माध्य्वसायम् आहेति/
SK
% प्.४१४ यथोहित्वा समानमनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति, पूर्वदृष्टविषयम् एतत्/ याव् अहम् अर्थौ पूर्वम् अद्राक्षं तयोः समानं धर्मम् उपलभे विशेषं नोपलभ इति, कथं नु विशेषं पश्येयं येनान्यतरम् अवधारयेयम् इति/ न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तत इति/ यच् चोक्तं नार्थान्तराध्यवसायाद् अन्यत्र संशय इति, यो ह्य् अर्थान्तराध्यवसायमात्रं संशयहेतुम् उपाददीत स एवं वाच्य इति/ यत् पुनर् एतत् कार्यकारणयोः सारूप्याभावाद् इति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यम्/
SK
% भावाभावौ ...] प्.४१५ यस्योत्पादाद् यद् उत्पद्यते यस्य चानुत्पादाद् यन् नोत्पद्यते तत् कारणं कार्यम् इतरद् इत्य् एतत् सारूप्यम्, अस्ति च संशयकारणे संशये चैतद् इति/ एतेनानेकधर्माध्यवसायाद् इति प्रतिषेधः परिहृत इति/ यत् पुनर् एतद् उक्तं ``विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च न संशयऽऽ इति, पृथक्प्रवादयोर् व्याहतम् अर्थम् उपलभे विशेषं च न जानामि नोपलभे येनान्यतरम् अवधारयेयम्,
SK
% -र् व्याहतम् अर्थम् उपलभे ...] प्.४१६ तत् को ऽत्र विशेषः स्याद् येनैकतरम् अवधारयेयम् इति संशयो विप्रतिपत्तिजनितो ऽयं न शक्यो विप्रतिपत्तिसम्प्रतिपत्तिमात्रेण निवर्तयितुम् इति/एवम् उपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यम् इति/ यत् पुनर् एतत् विप्रतिपत्तौ च सम्प्रतिपत्तेर् इति, विप्रतिपत्तिशब्दस्य यो ऽर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस् तस्य च समाख्यान्तरेण न निवृत्तिः/ समाने ऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश् च विशेषापेक्षः संशयहेतुः/ न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुतुवं निवर्तते/ तद् इदम् अकृतबुद्धिसम्मोहनम् इति/ यत् पुनः ``अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाऽऽ इति, संशयहेतोर् अर्थस्याप्रतिषेधाद् अव्यवस्थाभ्यनुज्ञानाच् च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था/ शब्दान्तरकल्पनाव्यवस्था खल्व् अव्यवस्था न भवत्य् अव्यवस्थात्मनि व्यवस्थितत्वाद् इति/
SK
% -कल्पनाव्यवस्था खल्व् ...] प्.४१७ नानयोर् उपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर् न भ्वतीति प्रतिषिध्यते यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति, तावता ह्य् अनुज्ञाताव्यवस्था/ एवम् इयं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति/ यत् पुनर् एतत् ``तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेःऽऽ इति, नायं समानधर्मादिभ्य एव संशयः/ किं तर्हि? तद्विषयाध्यवसायाद् विशेषस्मृतिसहिताद् इत्य् अतो नात्यन्तसंशय इति/ अन्यतरधर्माध्यवसायाद् वा न संशय इति, तन् न युक्तम्; विशेषापेक्षो विमर्षः संशय इति वचनात्/ विशेषश् चान्यतरधर्मो न तस्मिन्न् अध्य्वसीयमाने विशेषापेक्षा सम्भवतीति//
SK
********************** Nय्SBह्_२,१.७ **********************
SK
% प्.४१८
SK
Nय्S_२,१.७ : यथ्र संशयस् तत्रैवम् उत्तरोत्तरप्रसङ्गः ||
SK
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर् वाच्य इति/ अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति//
SK
********************** Nय्SBह्_२,१.८ **********************
SK
% प्.४१९ अथ प्रमाणपरीक्षा ---
SK
Nय्S_२,१.८ : प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः ||
SK
प्रत्यक्षादीनां प्रमाणत्वं नास्ति त्रैकाल्यासिद्धेः पूर्वापरसहभावानुपपत्तेर् इत्य् अर्थः//
SK
********************** Nय्SBह्_२,१.९ **********************
SK
% प्.४२० अस्य सामान्यवचनस्यार्थविभागः ---
SK
Nय्S_२,१.९ : पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः ||
SK
गन्धादिविषयं ज्ञानं प्रत्यक्षम्, तद् यदि पूर्वम्, पश्चाद् गन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षाद् उत्पद्यत इति//
SK
********************** Nय्SBह्_२,१.१० **********************
SK
Nय्S_२,१.१० : पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ||
SK
असति प्रमाणे केन प्रमीयमाणो ऽर्थः प्रमेयः स्यात् प्रमाणेन खलु प्रमीयमाणो ऽर्थः प्रमेयम् इत्य् एतत् सिध्यति//
SK
********************** Nय्SBह्_२,१.११ **********************
SK
% प्.४२१
SK
Nय्S_२,१.११ : युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ||
SK
यदि प्रमाणं प्रमेयं च युगपद्भवतः, एवम् अपि गन्धादिष्व् इन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपत्सम्भवन्तीति ज्ञानानां प्रत्यक्षनियतत्वात् क्रमवृत्तित्वाभावः/ या इमा बुद्धयः क्रमेणार्थेषु वर्त्तन्ते तासां क्रमवृत्तित्वं न सम्भवतीति/ व्याघातश् च ``युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति/ एतावांश् च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति/ तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न सम्भवतीति/ अस्य समाधिः --- उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम्/
SK
% यथाददर्शनं विभागवचनम्] प्.४२३ कवचिद् उपलब्धिहेतुः, पश्चाद् उपलब्धिविषयः, यथादित्यस्य प्रकाश उत्पद्यमानानाम्/ क्वचित् पूर्वम् उपलब्धिविषयः पश्चाद् उपलब्धिहेतुः, यथावस्थितानां प्रदीपः/ क्वचिद् उपलब्धिहेतुर् उपलब्धिविषयश् च सह भ्वतः, यथा धूमेनाग्नेर् ग्रहणम् इति/ उपलब्धिहेतुश् च प्रमाणं प्रमेयं तूपलब्धिविषयः/ एवं प्रमाणप्रमेययोः पूर्वापरसहभावे ऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति तत्रैकान्तेन प्रतिषेधानुपपत्तिः, सामान्येन खलु विभज्य प्रतिषेध उक्त इति/ समाख्याहेतोस् त्रैकाल्ययोगात् तथाभूता समाख्या/ यत् पुनर् इदं पश्चात् सिद्धाव् असति प्रमाणे प्रमेयं न सिध्यति, प्रमाणेन प्रमीयमाणो ऽर्थः प्रमेयम् इति विज्ञायत इति/ प्रमाणम् इत्य् एतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तम्,
SK
% म् इत्य् एतस्याः समाख्याया ...] प्.४२४ तस्य त्रैकाल्ययोगः/ उपलब्धिम् अकार्षीत्, उपलब्धिं करोति, उपलब्धिं करिष्यतीति समाख्याहेतोस् त्रैकाल्ययोगात् समाख्या तथाभूता प्रमितो ऽनेनार्थः प्रमीयते प्रमास्यत इति प्रमाणम्; प्रमितम्, प्रमीयते, प्रमास्यते इति च प्रमेयम्/ एवं सति भविष्यत्य् अस्मिन् हेतुत उपलब्धिः, प्रमास्यते ऽयम् अर्थः प्रमेयम् इदम् इत्य् एतत् सर्वं भ्वतीति/ त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपपत्तिः/ यश् चैवं नाभ्यनुजानीयात् तस्य पाचकम् आनय पक्ष्यति लावकम् आनय लविष्यतीति व्यवहारो नोपपद्यत इति/ ``प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेर्ऽऽ इत्य् एवमादि वाक्यं प्रमाणप्रतिषेधः/ तत्रायं प्रष्टव्यः, अथानेन प्रतिषेधेन भवता किं क्रियत इति? किं सम्भवो निवर्त्यते अथासम्भवो ज्ञाप्यते इति/
SK
% सम्भवो ज्ञाप्यते] प्.४२५ तद् यदि सम्भवो निवर्त्यते सति सम्भवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः/ अथासम्भवो ज्ञाप्यते, प्रमाणलक्षणं प्राप्तस् तर्हि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुत्वाद् इति//
SK
********************** Nय्SBह्_२,१.१२ **********************
SK
किं चातः?
SK
Nय्S_२,१.१२ : त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ||
SK
अस्य तु विभागः/ पूर्वं हि प्रतिषेधसिद्धाव् असति प्रतिषेध्ये किम् अनेन प्रतिषिध्यते पश्चात् सिद्धौ प्रतिषेध्यासिद्धिः प्रतिषेधाभावाद् इति/ युगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानाद् अनर्थकः प्रतिषेध इति/
SK
% -ज्ञानाद् अनर्थकः ...] प्.४२६ प्रतिषेधलक्षणे च वाक्ये ऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वम् इति//
SK
********************** Nय्SBह्_२,१.१३ **********************
SK
% प्.४२७ कथम्?
SK
Nय्S_२,१.१३ : सर्वप्रमाणप्रतिषेधाच् च प्रतिषेधानुपपत्तिः ||
SK
त्रैकाल्यासिद्धेर् इत्य् अस्य हेतोर् यद्य् उदाहरणम् उपादीयते हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यम् इति,
SK
% दर्शयितव्यम् इति,] प्.४२८ न च तर्हि प्रत्यक्षादीनाम् अप्रामाण्यम्/ अथ प्रत्यक्षादीनाम् अप्रामाण्यम्, उपादीयमानम् अप्य् उदाहरणं नार्थं साधयिष्यतीति सो ऽयं सर्वप्रमाणव्याहतो हेतुर् अहेतुः; ``सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धःऽऽ इति/ वाक्यार्थो ह्य् अस्य सिद्धान्तः/ स च वाक्यार्थः प्रत्यक्षादीनि नार्थं साधयन्तीतीदं चावयवानाम् उपादानम् अर्थस्य साधनायेति/ अथ नोपादीयते अप्रदर्शितं हेत्वर्थस्य दृष्टान्तेन साधकत्वम् इति निषेधो नोपपद्यते हेतुत्वासिद्धेर् इति//
SK
********************** Nय्SBह्_२,१.१४ **********************
SK
% प्.४२९
SK
Nय्S_२,१.१४ : तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ||
SK
प्रतिषेधलक्षणे स्ववाक्ये तेषाम् अवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्ये ऽभ्यनुज्ञायमाने परवाक्ये ऽप्य् अवयवाश्रितानां प्रामाण्यं प्रसज्यते ऽविशेषाद् इति/ एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति/ विप्रतिषेध इति वीत्य् अयम् उपसर्गः सम्प्रतिपत्त्यर्थे, न व्याघाते ऽर्थाभावाद् इति//
SK
********************** Nय्SBह्_२,१.१५ **********************
SK
% प्.४३०
SK
Nय्S_२,१.१५ : त्रैकाल्याप्रतिषेधश् च शब्दाद् आतोद्यसिद्धिवत् तत्सिद्धेः ||
SK
किम् अर्थं पुनर् इदम् उच्यते? पूर्वोक्तनिबन्धनार्थम्/ यत् तावत् पूर्वोक्तम् उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम् इति, तद् इतः समुत्थानं यथा विज्ञायेत/ अनित्यम् अदर्शी खल्व् अयम् ऋषिर् नियमेन प्रतिषेधं प्रत्याचष्टे --- त्रैकाल्यस्य चायुक्तः प्रतिषेध इति/ तत्रैकां विधाम् उदाहरति शब्दाद् आतोद्यसिद्धिवद् इति/
SK
% -द् इति] प्.४३१ यथा पश्चात् सिद्धेन शब्देन पूर्वसिद्धम् आतोद्यम् अनुमीयते, साध्यं चातोद्यं साधनं च शब्दः, अन्तर्हिते ह्य् आतोद्ये स्वनतो ऽनुमानं भवतीति वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेण आतोद्यविशेषं प्रतिपद्यते; तथा पूर्वसिद्धम् उपलब्धिविषयं पश्चात् सिद्धेनोपलब्धिहेतुना प्रतिपद्यत इति/ निदर्शनार्थत्वाच् चास्य शेषयोर् विधयोर् यथोक्तम् उदाहरणं वेदितव्यम् इति/ कस्मात् पुनर् इह तन् नोच्यते? पूर्वोक्तम् उपपाद्यत इति/ सर्वथा तावद् अयम् अर्थः प्रकाशयितव्यः, स इह वा प्रकाश्येत तत्र वा, न कश्चिद् विशेष इति//
SK
********************** Nय्SBह्_२,१.१६ **********************
SK
% प्.४३२ प्रमाणं प्रमेयम् इति च समाख्या समावेशेन वर्त्तते समाख्यानिमित्तवशात्/ समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश् च प्रमेयम् इति/ यदा च उपलब्धिविषयः क्वचिद् उपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयम् इति चैको ऽर्थो ऽभिधीयते/ अस्यार्थस्यावद्योतनार्थम् इदम् उच्यते ---
SK
% प्.४३३
SK
Nय्S_२,१.१६ : प्रमेया च तुलाप्रामाण्यवत् ||
SK
गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्, ज्ञानविषयो गुरु द्रव्यं सुवर्णादि प्रमेयम्/ यथा सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणम् तुलान्तरं प्रमेयम् इति/ एवम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः/ आत्मा तावद् उपलब्धिविषयत्वात् प्रमेये परिपठितः, उपलब्धौ स्वातन्त्र्यात् प्रमाता/ बुद्धिर् उपलब्धिसाधनत्वात् प्रमाणम्, उपलब्धिविषयत्वात् प्रमेयम्; उभयाभावात् तु प्रमितिः/ एवम् अर्थविशेषे समाख्यासमावेशो योज्यः/ तथा च कारकशब्दा निमित्तवशात् समावेशेन वर्त्तन्त इति/
SK
% समावेशेन वर्तन्त इति/] प्.४३४ वृक्षस् तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात् कर्ता/ वृक्षं पश्यतीति दर्शनेनाप्तुम् इष्यमाणतमत्वात् कर्म/
SK
% पश्यतीति दर्शनेनाप्तुम् ...] प्.४३७ वृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम्/
SK
% साधकतमत्वात् करणम्/] प्.४३८ वृक्षायोदकम् आसिञ्चतीति आसिच्यमानेनोदकेन वृक्षम् अभिप्रैतीति सम्प्रदानम्/ वृक्षात् पर्णं पततीति ``ध्रुवम् अपाये ऽपादानम्ऽऽ इत्य् अपादानम्/ वृक्षे वयांसि सन्तीति ``आधारो ऽधिकरणम्ऽऽ इत्य् अधिकरणम्/ एवम् च सति न द्रव्यमात्रं कारकम्, न क्रियामात्रम्/ किं तर्हि? क्रियासाधनं क्रियाविशेषयुक्तं कारकम्/ यत् क्रियासाधनं स्वतन्त्रम् स कर्ता, न द्रव्यमात्रं न क्रियामात्रम्/ क्रियया व्याप्तुम् इष्यमाणतमं कर्म,
SK
% -म् इष्यमाणतमं कर्म,] प्.४३९ न द्रव्यमात्रं न क्र्यामात्रम्/ एवं साधकतमादिष्व् अपि/ एवं च कारकान्वाख्यानं यथैव उपपत्तित एवं लक्षणतः/ कारकान्वाख्यानम् अपि न द्रव्यमात्रे न क्रियायाम् वा/ किं तर्हि? क्रियासाधने क्रियाविशेषयुक्त इति/ कारकशब्दश् चायं प्रमाणं प्रमेयम् इति, स च कारकधर्मं न हातुम् अर्हति
SK
********************** Nय्SBह्_२,१.१७ **********************
SK
% प्.४४० अस्ति भोः कारकशब्दानां निमित्तवशात् समावेषः/ प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात्, प्रमेयं चोपलब्धिविषयत्वात्/ संवेद्यानि च प्रत्यक्षादीनि प्रमाणानि, प्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे/ प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानम् इति विशेषा गृह्यन्ते/ लक्षणतश् च ज्ञाप्यमानानि ज्ञायन्ते विशेषेणेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् इत्य् एवमादिना/
SK
% प्.४४१ सेयम् उपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः अथान्तरेण प्रमाणान्तरम् असाधनेति? कश् चात्र विशेषः?
SK
Nय्S_२,१.१७ : प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ||
SK
यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते, येन प्रमाणेनोपलभ्यन्ते तत् प्रमाणान्तरम् अस्तीति प्रमाणान्तरसद्भावः प्रसज्यत इति अनवस्थाम् आह तस्याप्य् अन्येन तस्याप्य् अन्येनेति/
SK
% -म् अस्तीति प्रमाणान्तरसद्भावः ...] प्.४४२ न चानवस्था शक्यानुज्ञातुम् अनुपपत्तेर् इति//
SK
********************** Nय्SBह्_२,१.१८ **********************
SK
अस्तु तर्हि प्रमाणान्तरम् अन्तरेण निःसाधनेति?---
SK
Nय्S_२,१.१८ : तद्विनिवृत्तेर् वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ||
SK
यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्त्तने आत्माद्युपलब्धाव् अपि प्रमाणान्तरं निवर्त्स्यत्य् अविशेषात्//
SK
********************** Nय्SBह्_२,१.१९ **********************
SK
% प्.४४३ एवं च सर्वप्रमाणविलोप इत्य् अत आह ---
SK
Nय्S_२,१.१९ : न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ||
SK
यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद् दृश्यदर्शने प्रमाणम्, स च प्रत्यक्षान्तरेण चक्षुषः सन्निकर्षेण गृह्यते; प्रदीपभावाभावयोर् दर्शनस्य तथाभावाद् दर्शनहेतुर् अनुमीयते, तमसि प्रदीपम् उपाददीथा इत्य् आप्तोपदेशेनापि प्रतिपद्यते; एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिर् एवोपलब्धिः/ इन्द्रियाणि तावत् स्वविषयग्रहणेनैवानुमीयन्ते/ अर्थाः प्रत्यक्षतो गृह्यन्ते/ इन्द्रियार्थसन्निकर्षास् त्व् आवरणेन लिङ्गेनानुमीयन्ते/
SK
% प्.४४४ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् आत्ममनसोः संयोगविशेषाद् आत्मसमवयाच् च सुखादिवद् गृह्यते/ एवं प्रमाणविशेषो विभज्य वचनीयः/ यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुर् इति दृश्यदर्शनव्यवस्थां लभते, एवं प्रमेयं सत् किञ्चिद् अर्थजातम् उपलब्धिहेतुत्वात् प्रमाणप्रमेयव्य्वस्थां लभते/ सेयं प्रत्यक्षादिभिर् एव प्रत्यक्षादीनां यथादर्शनम् उपलब्धिर् न प्रमाणान्तरतः, न च प्रमाणम् अन्तरेण निःसाधनेति/ तेनैव तस्याग्रहणम् इति चेत्, न; अर्थभेदस्य लक्षणसामान्यात् --- प्रत्यक्षादीनां प्रत्यक्षादिभिर् एव ग्रहणम् इत्य् अयुक्तम्, अन्येन ह्य् अन्यस्य ग्रहणं दृष्टम् इति/ न, अर्थभेदस्य लक्षणसामान्यात् --- प्रत्यक्षलक्षणेनानेको ऽर्थः संगृहीतस् तत्र केनचित् कस्यचिद् ग्रहणम् इत्य् अदोषः/ एवम् अनुमानादिष्व् अपीति/ यतोद्धृतेनोदकेनाशयस्थस्य ग्रहणम् इति/
SK
% प्.४४५ ज्ञातृमनसोश् च दर्शनात् --- अहं सुखी अहं दुःखी चेति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते/ ``युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर् ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति/ निमित्तभेदो ऽत्रेति चेत् समानम् --- न निमित्तान्तरेण विना ज्ञाता आत्मानं जानीते, न च निमित्तान्तरेण विना मनसा मनो गृह्यत इति समानम् एतत्, प्रत्यक्षाद्भिः प्रत्यक्षादीनां ग्रहंअम् इत्य् अत्राप्य् अर्थभेदो न गृह्यत इति/ प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः --- यदि स्यात् किंचिद् अर्थजातं प्रत्यक्षादीनाम् अविषयः यत् प्रत्यक्षादिभिर् न शक्यं ग्रहीतुम्, तस्य ग्रहणाय प्रमाणान्तरम् उपादीयेत, तत् तु न शक्यं केनचिद् उपपादयितुम् इति/ प्रत्यक्षादीनां यथादर्शनम् एवेदं सच् चासच् च सर्वं विषय इति//
SK
********************** Nय्SBह्_२,१.२० **********************
SK
% प्.४४६
SK
Nय्S_२,१.२० : क्वचिन् निवृत्तिदर्शनाद् अनिवृत्तिदर्शनाच् च क्वचिद् अनेकान्तः ||
SK
केचित् तु दृष्टान्तम् अपरिगृहीतं हेतुना विशेषहेतुम् अन्तरेण साध्यसाधनायोपाददते; यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशम् अन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरम् अन्तरेण गृह्यत इति/ स चायम् --- यथा चायं प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधायोपादीयते/ एवं प्रमेयसाधनायाप्य् उपादेयो ऽविशेषहेतुत्वात् --- यथा च स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते,
SK
% -साधायोपादीयते,] प्.४४७ एवं प्रमाणसाधायाप्य् उपादेयो विशेषहेत्वभावात्, सो ऽयं विशेषहेतुपरिग्रहम् अन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्ष इत्य् अनेकान्तः/ एकस्मिंश् च पक्षे दृष्टान्त इत्य् अनेकान्तो विशेषहेत्वभावाद् इति/
SK
% प्.४४८ विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानाद् अप्रतिषेधः --- विशेषहेतुपरिगृहीतस् तु दृष्टान्त एकस्मिन् पक्षे उपसंह्रियमाणो न शक्यो ऽनुज्ञातुम्/ एवं च सत्य् अनेकान्त इत्य् अयं प्रतिषेधो न भवति/ प्रत्यक्षादीनां प्रत्यक्षादिभिर् उपलब्धाव् अनवस्थेति चेद्, न संविद्विषयनिमित्तानाम् उपलब्ध्या व्यवहारोपपत्तेः --- प्रत्यक्षेणार्थम् उपलभे, अनुमानेनार्थम् उपलभे, उपमानेनार्थम् उपलभे, आगमेनार्थम् उपलभे इति, प्रत्यक्षं मे ज्ञानम्, आनुमानिकं मे ज्ञानम्, औपमानिकं मे ज्ञानम्, आगमिकं मे ज्ञानम् इति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनस् तत्प्रत्यनीकपरिवर्जनप्रयोजनश् च व्यवहार उपपद्यते, सो ऽयं तावत्य् एव निवर्तते/ % तावत्य् एव निवर्तते] प्.४४९ न चास्ति व्यवहारान्तरम् अनवस्थासाधनीयं येन प्रत्युक्तानवस्थाम् उपाददीतेति
SK
********************** Nय्SBह्_२,१.२१ **********************
SK
सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते/ तत्र ---
SK
Nय्S_२,१.२१: प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् ||
SK
आत्ममनःसन्निकर्षो हि कारणान्तरं नोक्तम् इति
SK
********************** Nय्SBह्_२,१.२२ **********************
SK
% प्.४५० न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिर् इति ज्ञानोत्पत्तिदर्शनाद् आत्ममनःसन्निकर्षः कारणम्/
SK
% -द् आत्ममनःसन्निकर्षः कारणम्/] प्.४५१ मनःसन्निकर्षानपेक्षस्य चेन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वे युगपद् उत्पद्येरन् बुद्धय इति मनःसन्निकर्षो ऽपि कारणम्/ तद् इदं सूत्रं पुरस्तात् कृतभाष्यम्/
SK
Nय्S_२,१.२२: नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ||
SK
आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसन्निकर्षाभाववद् इति
SK
********************** Nय्SBह्_२,१.२३ **********************
SK
% प्.४५२ सति चेन्द्रियार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतः ---
SK
Nय्S_२,१.२३: दिग्देशकालाकाशेष्व् अप्य् एवं प्रसङ्गः ||
SK
दिगादिषु सत्सु ज्ञानभावात् तान्य् अपि कारणानीति? अकारणभावे ऽपि ज्ञानोत्पत्तिर् दिगादिसन्निधेर् अवर्जनीयत्वात् --- यदाप्य् अकारणं दिगादीनि ज्ञानोत्पत्तौ, तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यम्,
SK
% -दिषु ज्ञानेन भवितव्यम्,] प्.४५३ न हि दिगादीनां सन्निधिः शक्यः परिवर्जयितुम् इति/ तत्र कारणभावे हेतुवचनम्, एतस्माद् धेतोर् दिगादीनि ज्ञानकारणानीति
SK
********************** Nय्SBह्_२,१.२४ **********************
SK
आत्ममनःसन्निकर्षस् तर्ह्य् उपसङ्ख्येय इति/ तत्रेदम् उच्यते ---
SK
Nय्S_२,१.२४: ज्ञानलिङ्गत्वाद् आत्मनो नानवरोधः ||
SK
% प्.४५४ ज्ञानम् आत्मलिङ्गं तद्गुणत्वात्/ न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिर् अस्तीति
SK
********************** Nय्SBह्_२,१.२५ **********************
SK
% प्.४५५
SK
Nय्S_२,१.२५: तदयौगपद्यलिङ्गत्वाच् च न मनसः ||
SK
अनवरोध इति वर्त्तते/ युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्य् उच्यमाने सिध्यत्य् एव मनःसन्निकर्षापेक्ष इन्द्रियार्थसन्निकर्षो ज्ञानकारणम् इति
SK
********************** Nय्SBह्_२,१.२६ **********************
SK
% प्.४५६
SK
Nय्S_२,१.२६: प्रत्यक्षनिमित्तत्वाच् चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ||
SK
प्रत्यक्षानुमानोपमानशब्दानां निमित्तम् आत्ममनःसन्निकर्षः, प्रत्यक्षस्यैवेन्द्रियार्थसन्निकर्ष इत्य् असमानः, असमानत्वात् तस्य ग्रहणम्
SK
********************** Nय्SBह्_२,१.२७ **********************
SK
% प्.४५७
SK
Nय्S_२,१.२७: सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ||
SK
इन्द्रियार्थसन्निकर्षस्य ग्रहणं नात्ममनसोः सन्निकर्षस्येति/ एकदा खल्व् अयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते/ यदा तु तीव्रौ ध्वनिस्पर्शौ प्रबोधकारणं भवतस् तदा प्रसुप्तस्येन्द्रियसन्निकर्षनिमित्तं प्रबोधज्ञानम् उत्पद्यते/ तत्र न ज्ञातुर् मनसश् च सन्निकर्षस्य प्राधान्यं भवति/ किं तर्हि? इन्द्रियार्थयोः सन्निकर्षस्य/ न ह्य् आत्मा जिज्ञासमानः प्रयत्नेन मनस् तदा प्रेरयतीति/ एकदा खल्व् अयं विषयान्तरासक्तमनाः सङ्कल्पवशाद् विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य तद् विषयान्तरं जानीते/ यदा तु खल्व् अस्य निःसङ्कल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाज् ज्ञानम् उत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम्/
SK
% -सन्निकर्षस्य प्राधान्यम्/] प्.४५८ न ह्य् अत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति/ प्राधान्याच् चेन्द्रियार्थसन्निकर्षस्य ग्रहणं कार्यं गुणत्वाद् नात्ममनसोः सन्निकर्षस्येति
SK
********************** Nय्SBह्_२,१.२८ **********************
SK
प्राधान्ये च हेत्वन्तरम् ---
SK
Nय्S_२,१.२८: तैश् चापदेशो ज्ञानविशेषाणाम् ||
SK
तैर् इन्द्रियैर् अर्थैश् च व्यपदिश्यन्ते ज्ञानविशेषाः/ कथम्? घ्राणेन जिघ्रति, चक्षुषा पश्यति, रसनया रसयतीति, घ्राणविज्ञानं चक्षुर्विज्ञानं रसनाविज्ञानं गन्धविज्ञानं रूपविज्ञानं रसविज्ञानम् इति च/ इन्द्रियविषयविशेषाच् च पञ्चधा बुद्धिर् भवति/ अतः प्राधान्यम् इन्द्रियार्थसन्निकर्षस्येति
SK
********************** Nय्SBह्_२,१.२९ **********************
SK
% प्.४५१ यद् उक्तम् इन्द्रियार्थसन्निकर्षग्रहणं कार्यम्, नात्ममनसोः सन्निकर्षस्येति, कस्मात्? सुप्तव्यासक्तमनसाम् इन्द्रियार्थयोः सन्निकर्षस्य ज्ञाननिमित्तत्वाद् इति/ सो ऽयम् ---
SK
Nय्S_२,१.२९: व्याहतत्वाद् अहेतुः ||
SK
यदि तावत् क्वचिद् आत्ममनसोः सन्निकर्षस्य ज्ञानकारणत्वं नेष्यते, तदा ``युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति व्याहन्येत/ नेदानीं मनसः सन्निकर्षम् इन्द्रियार्थसन्निकर्षो ऽपेक्षते/
SK
% प्.४६० -यार्थसन्निकर्षो .पेक्षते/] प्.४६० मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः/ अथ मा भूद् व्याघात इति सर्वविज्ञानानाम् आत्ममनसोः सन्निकर्षः कारणम् इष्यते, तदवस्थम् एवेदं भवति; ज्ञानकारणत्वाद् आत्ममनसोः सन्निकर्षस्य ग्रहणं कार्यम् इति
SK
********************** Nय्SBह्_२,१.३० **********************
SK
Nय्S_२,१.३०: नार्थविशेषप्राबल्यात् ||
SK
नास्ति व्याघातः, न ह्य् आत्ममनःसन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति/ इन्द्रियार्थसन्निकर्षस्य प्राधान्यम् उपादीयते/ अर्थविशेषप्राबल्याद् धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिर् एकदा भवति/ अर्थविशेषः कश्चिद् एवेन्द्रियार्थः, तस्य प्राबल्यं तीव्रतापटुते/ तच् चार्थविशेषप्राबल्यम् इन्द्रियार्थसन्निकर्षविषयं नात्ममनसोः सन्निकर्षविषयम्, तस्माद् इन्द्रियार्थसन्निकर्षः प्रधानम् इति/
SK
% प्.४६१ असति प्रणिधाने सङ्कल्पे चासति सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानम्, तत्र मनःसंयोगो ऽपि कारणम् इति मनसि क्रियाकारणं वाच्यम् इति/ यथैव ज्ञातुः खल्व् अयम् इच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुणः, एवम् आत्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितम् अस्ति, येन प्रेरितं मन इन्द्रियेण सम्बध्यते/ तेन ह्य् अप्रेर्यमाणे मनसि संयोगाभावाज् ज्ञानानुत्पत्तौ सर्वार्थतास्य निवर्त्तते/ एषितव्यं चास्य गुणान्तरस्य द्रव्यगुणकर्मकारणत्वम्, अन्यथा हि चतुर्विधानाम् अणूनां भूतसूक्ष्माणां मनसां च ततो ऽन्यस्य क्रियाहेतोर् असम्भवात् शरीरेन्द्रियविषयाणाम् अनुत्पत्तिप्रसङ्गः
SK
********************** Nय्SBह्_२,१.३१ **********************
SK
% प्.४६२
SK
Nय्S_२,१.३१: प्रत्यक्षम् अनुमानम् एकदेशग्रहणाद् उपलब्धेः ||
SK
यद् इदम् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानं वृक्ष इति, एतत् किल प्रत्यक्षम्, तत् खल्व् अनुमानम् एव/ कस्मात्? एकदेशग्रहणाद् वृक्षस्योपलब्धेः/ अर्वाग्भागम् अयं गृहीत्वा वृक्षम् उपलभते/ न चैकदेशो वृक्षः/ तत्र यथा धूमं गृहीत्वा वह्निम् अनुमिनोति तादृग् एव तद् भवति/
SK
% प्.४६३ किं पुनर् गृह्यमाणाद् एकदेशाद् अर्थान्तरम् अनुमेयं मन्यसे? अवयवसमूहपक्षे अवयवान्तराणि द्रव्यान्तरोत्पत्तिपक्षे तानि चावववी चेति/ अवयवसमूहपक्षे तावद् एकदेशग्रहणाद् वृक्षबुद्धेर् अभावः, नागृह्यमाणम् एकदेशान्तरं वृक्षो गृह्यमाणैकदेशवद् इति/
SK
% प्.४६४ अथैकदेशग्रहणाद् एकदेशान्तरानुमाने समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः? न तर्हि वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति/
SK
% वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति/] प्.४६७ द्रव्यान्तरोत्पत्तिपक्षे नावयव्यनुमेयः, अस्यैकदेशसम्बद्धस्याग्रहणात् ग्रहणे चाविशेषाद् अनुमेयत्वाभावः/ तस्माद् वृक्षबुद्धिर् अनुमानं न भवति
SK
********************** Nय्SBह्_२,१.३२ **********************
SK
% प्.४६८ एकदेशग्रहणम् आश्रित्य प्रत्यक्षस्यानुमानत्वम् उपपाद्यते/ तच् च ---
SK
Nय्S_२,१.३२: न, प्रत्यक्षेण यावत् तावद् अप्य् उपलम्भात् ||
SK
न प्रत्यक्षम् अनुमानम्, कस्मात्? प्रत्यक्षेणैवोपलम्भात्/ यत् तदेकदेशग्रहणम् आश्रीयते प्रत्यक्षेणासाव् उपलम्भः/ न चोपलम्भो निर्विषयो ऽस्ति/ यावच् चार्थजातं तस्य विषयस् तावद् अभ्युपज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति/ किं पुनस् ततो ऽन्यद् अर्थजातम्, अवयवी समुदायो वा? न चैकदेशग्रहणम् अनुमानं भावयितुं शक्यं हेत्वभावाद् इति/
SK
% प्.४६९ अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गस् तत्पूर्वकत्वात् --- प्रत्यक्षपूर्वकम् अनुमानम्, सम्बद्धाव् अग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनाद् अग्नाव् अनुमानं भवति/ यच् च सम्बद्धयोर् लिङ्गलिङ्गिनोः प्रत्यक्षम्, यच् च लिङ्गमात्रप्रत्यक्षग्रहणम्, नैतद् अन्तरेण अनुमानस्य प्रवृत्तिर् अस्ति; न त्व् एतद् अनुमानम् इन्द्रियार्थसन्निकर्षजत्वात्/ न चानुमेयस्येन्द्रियेण सन्निकर्षाद् अनुमानं भवति/ सो ऽय. प्रत्यक्षानुमानयोर् लक्षणभेदो महान् आश्रयितव्य इति/
SK
% प्.४७० न चैकदेशोपलब्धिर् अवयविसद्भावात्/ न चैकदेशोपलब्धिमात्रम्/ किं तर्हि? एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश् च/ कस्मात्? अवयविसद्भावात्/ अस्ति ह्य् अयम् एकदेशव्यतिरिक्तो ऽवयवी तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्यैकदेशोपलब्धाव् अनुपलब्धिर् अनुपपन्नेति/ अकृत्स्नग्रहणाद् इति चेत्, न कारणतो ऽन्यस्यैकदेशस्याभावात् --- न चावयवाः कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्,
SK
% कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्, ] प्.४७१ नावयवी कृत्स्नो गृह्यत इति, नायं गृह्यम्नाणेष्व् अवयवेषु परिसमाप्त इति, सेयम् एकद्देशोपलब्धिर् अनिवृत्तैवेति/ कृत्स्नम् इति वै खल्व् अशेषतायां सत्यां भवति, अकृत्स्नम् इति शेषे सति, तच् चैतद् अवयवेषु बहुष्व् अस्ति अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणाद् इति/ अङ्ग तु भवान् पृष्टो व्याचष्टां गृह्यमाणस्यावयविनः किम् अगृहीतं मन्यते?
SK
% भवान् पृष्टो ... अगृहीतं मन्यते?] प्.४७२ येनैकदेशोपलब्धिः स्याद् इति/ न ह्य् अस्य कारणेभ्यो ऽन्ये एकदेशा भवन्तीति तत्रावयववृत्तं नोपपद्यत इति/
SK
% नोपपद्यत इति/] प्.४७३ इदं तस्य वृत्तम् --- येषाम् इन्द्रियसन्निकर्षाद् ग्रहणम् अवयवानां तैः सह गृह्यते, येषाम् अवयवानां व्यवधानाद् अग्रहणं तैः सह न गृह्यते/ न चैतत्कृतो ऽस्ति भेद इति/
SK
% प्.४७७ समुदायशेषता वा समुदायो वृक्षः स्यात् तत्प्राप्तिर् वा, उभयथा ग्रहणाभावः/ मूलस्कन्धशाखापलाशादीनाम् अशेषता वा समुदायो वृक्ष इति स्यात् प्राप्तिर् वा समुदायिनाम् इति, उभयथा समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यत इति/ अवयवैस् तावद् अवयवान्तरस्य व्यवधानाद् अशेषग्रहणं नोपपद्यते/ प्राप्तिग्रहणम् अपि नोपपद्यते प्राप्तिमताम् अग्रहणात्/ सेयम् एकदेशग्रहणसहचरिता वृक्षवुद्धिर् द्रव्यान्तरोत्पत्तौ कल्पते न समुदयमात्रे इति
SK
********************** Nय्SBह्_२,१.३३ **********************
SK
% प्.४७८
SK
Nय्S_२,१.३३: साध्यत्वाद् अवयविनि सन्देहः ||
SK
यद् उक्तम् अवयविसध्बावाद् इति, अयम् अहेतुः साध्यत्वात्/ साध्यं तावद् एतत् कारणेभ्यो द्रव्यान्तरम् उत्पद्यत इति, अनुपपादितम् एतत्/ एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश् चावयविनि संशय इति
SK
********************** Nय्SBह्_२,१.३४ **********************
SK
% प्.४९७
SK
Nय्S_२,१.३४: सर्वाग्रहणम् अवयव्यसिद्धेः ||
SK
यद्य् अवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते/ किं तत् सर्वम्? द्रव्यगुणकर्मसामान्यविशेषसमवायाः/ कथं कृत्वा? परमाणुसमवस्थानं तावद् दर्शनविषयो न भवत्य् अतीन्द्रियत्वाद् अणूनाम्, द्रव्यान्तरञ् चावयविभूतं दर्शनविषयो नास्ति, दर्शनविषयस्थाश् चेमे द्रव्यादयो गृहन्ते ते निरधिष्ठाना न गृह्येरन्/ गृह्यन्ते तु कुम्भो ऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश् चेति, सन्ति चेमे गुणादयो धर्मा इति/ तेन सर्वस्य ग्रहणात् पश्यामो ऽस्ति द्रव्यान्तरभूतो .वयवीति
SK
********************** Nय्SBह्_२,१.३५ **********************
SK
% प्.४९८
SK
Nय्S_२,१.३५: धारणाकर्षणोपपत्तेश् च ||
SK
अवयव्य् अर्थान्तरभूत इति/ सङ्ग्रहकारिते वै धारणाकर्षणे/ संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम्, अपां संयोगाद् आमे कुम्भे, अग्निसंयोगात् पक्वे/ यदि त्व् अवयविकारिते अभविष्यतां पांशुराशिप्रभृतिश्व् अप्य् अज्ञास्येताम्/ द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्व् अपि नाभाविष्यताम् इति/
SK
% प्.४९९ अथावयविनं प्रत्याचक्षाणको मा भूत् प्रत्यक्षलोप इत्य् अणुसञ्चयं दर्शनविषयं प्रतिजानानः किम् अनुयोक्तव्य इति/ एकम् इदं द्रव्यम् इत्य् एकवुद्धेर् विषयं पर्यनुयोज्यः --- किम् एकबुद्धिर् अभिन्नार्थविषयेति आहोस्वित् भिन्नार्थविषयेति/ अभिन्नार्थविषयेति चेत् ---
SK
% चेत् ---] प्.५०० अर्थान्तरानुज्ञानाद् अवयवविसिद्धिः/ नानार्थविषयेति चेत् --- भिन्नेष्व् एकदर्शनानुपपत्तिः अनेकस्मिन्न् एक इति व्याहता बुद्धिर् न दृश्यत इति
SK
********************** Nय्SBह्_२,१.३६ **********************
SK
Nय्S_२,१.३६: सेनावनवत् ग्रहणम् इति चेन् नातीन्द्रियत्वाद् अणूनाम् ||
SK
यथा सेनाङ्गेषु वनाङ्गेषु च दूराद् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिः एवम् अणुषु सञ्चितेष्व् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिर् इति/ यथा गृह्यमाणपृथक्त्वानां सेनावनाङ्गानाम् आरात् कारणान्तरतः पृथक्त्वस्याग्रहणम्,
SK
% प्.५०१ यथा गृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज् जातिग्रहणं भवति/ यथा गृह्यमाणप्रस्पन्दानां नारात् स्पन्दग्रहणम्, गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणाद् एकम् इति भाक्तः प्रत्ययो भवति, न त्व् अणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद् भाक्त एकप्रत्ययः, अतीन्द्रियत्वाद् अणूनाम् इति/
SK
% प्.५०३ इदम् एव च परीक्ष्यते किम् एकप्रत्ययो णुसञ्चयविषय आहोस्वित् नेति, अणुसञ्चय एव सेनावनाङानि/ न च परीक्ष्यमाणम् उदाहरणम् इति युक्तं साध्यत्वाद् इति/ दृष्टम् इति चेन् न तद्विषयस्य परीक्षोपपत्तेः/ यद् अपि मन्येत दृष्टम् इदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम्, न च दृष्टं शक्यं प्रत्याख्यातुम् इति, तच् च नैवम्, तद्विषयस्य परीक्षोपपत्तेः --- दर्शनविषय एवायं परीक्ष्यते यो ऽयम् एकम् इति प्रत्ययो दृश्यते, स परीक्ष्यते किं द्रव्यान्तरविषयो वा अथाणुसञ्चयविषय इति/ अत्र दर्शनम् अन्यतरस्य साधकं न भवति/ नानाभावे चाणूनां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम् अतस्मिंस् तद् इति प्रत्ययः, यथा स्थाणौ पुरुष इति/ ततः किम्?
SK
% किम्?] प्.५०४ अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिः/ स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम्? सो ऽसौ पुरुषे पुरुषप्रत्ययः, तस्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषो .यम् इति/ एवं नानाभूतेष्व् एकम् इति सामान्यग्रहणात् प्रधाने सति भवितुम् अर्हति/ प्रधानं च सर्वस्याग्रहणाद् इति नोपपद्यते/ तस्माद् अभिन्न एवायम् अभेदप्रत्यय एकम् इति/
SK
% प्.५०५ इन्द्रियान्तरविषयेष्व् अभेदप्रत्ययः प्रधानम् इति चेद्, न विशेषहेत्वभावाद् दृष्टान्ताव्यवस्था --- श्रोत्रादिविषयेषु शब्दादिष्व् अभिन्नेष्व् एकप्रत्ययः प्रधानम् अनेकस्मिन्न् एकप्रत्ययस्येति/ एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते विशेषहेत्वभावात्/ अणुषु संशितेष्व् एकप्रत्ययः किम् अतस्मिंस् तद् इति प्रत्ययः स्थाणौ पुरुषप्रत्ययवत्, अथार्थस्य तथाभावात् तस्मिंस् तद् इति प्रत्ययः यथा शब्दस्यैकत्वाद् एकः शब्द इति विशेषहेतुपरिग्रहणम् अन्तरेण दृष्टान्तौ संशयम् आपादयत इति/ कुम्भवत्सञ्चयमात्रं गन्धादयो ऽपीत्य् अनुदाहरणं गन्धादय इति/
SK
% -दाहरणं गन्धादय इति/] प्.५०७ एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययान् अप्य् अनुयोक्तव्यः, तेषु चैवं प्रसङ्ग इति/ एकत्वबुद्धिस् तस्मिंस् तद् इति प्रत्यय इति विशेषहेतुर् महद् इति प्रत्ययेन सामानाधिकरण्यात् --- एकम् इदं महच् चेति एकविषयौ प्रत्ययौ समानाधिकरणौ भवतः तेन विज्ञायते यन् महत् तद् एकम् इति/ अणुसमूहातिशयग्रहणं महत्प्रत्यय इति चेत् सो .यम् अमहत्सु अणुषु महत्प्रत्ययो ऽतस्मिंस् तद् इति प्रत्ययो भवतीति/ किं चातः? अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिर् इति भवितव्यं महत्य् एव महत्प्रत्ययेनेति/
SK
% प्.५०८ अणुः शब्दो महान् इति च व्यवसायात् प्रधानसिद्धिर् इति चेत्, न मन्दतीव्रताग्रहणम् इयत्तानवधारणात् --- यथा द्रव्ये अणुः शब्दो ऽल्पो मन्द इत्य् एतस्य ग्रहणं महन् शब्दः पटुस् तीव्र इत्य् एतस्य ग्रहणम्/ कस्मात्? इयत्तानवधारणात्/ न ह्य् अयं महान् शब्द इति व्यवस्यन्न् इयान् अयम् इत्य् अवधारयति, यथा बदरामलकबिल्वादीनि/
SK
% प्.५०९ संयुक्ते इमे इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् --- द्वौ समुदायाव् आश्रयः संयोगस्येति चेत् को ऽयं समुदायः? प्राप्तिर् अनेकस्यानेका वा प्राप्तिर् एकस्य समुदाय इति चेत् प्राप्तेर् अग्रहणं प्राप्त्याश्रितायाः/ संयुक्ते इमे वस्तुनी इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते/ अनेकसमूहः समुदाय इति चेत्, न द्वित्वेन समानाधिकरणस्य ग्रहणात्/ द्वाव् इमौ संयुक्ताव् अर्थाव् इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते/ न च द्वयोर् अण्वोर् ग्रहणम् अस्ति/ तस्मान् महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानम् इति/
SK
% प्.५१० प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरम् इति चेत्, नार्थान्तरहेतुत्वात् संयोगस्य/ शब्दरूपादिस्पन्दानां हेतुः संयोगः/ न च द्रव्ययोर् गुणान्तरोपजननम् अन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते, तस्माद् गुणान्तरम्/ प्रत्ययविषयश् चार्थान्तरं तत्प्रतिषेधो वा, कुण्डली गुरुर् अकुण्डलश् छात्र इति/ संयोगबुद्धेश् च यद्य् अर्थान्तरं न विषयः अर्थान्तरप्रतिषेधस् तर्हि विषयः, तत्र प्रतिषिध्यमानवचनम् --- संयुक्ते द्रव्ये इति यद् अर्थान्तरम् अन्यत्र दृष्टम् इह प्रतिषिध्यते तद्वक्तव्यम् इति/ द्वयोर् महतोर् आश्रितस्य ग्रहणान् नाण्वाश्रय इति/
SK
% प्.५११ जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्, प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः/ व्यधिकरणस्यानभिव्यक्तेर् अधिकरणवचनम्/ अणुसमवस्थानं विषय इति चेत् प्राप्ताप्राप्तसामर्थ्यवचनम् --- किम् अप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते अथ प्राप्ते इति/ अप्राप्ते ग्रहणम् इति चेत् व्यवहितस्याणुसमवस्थानस्याप्य् उपलब्धिप्रसङ्गः, व्यवहिते ऽण्समवस्थाने तदाश्रयो जातिविशेषो गृह्येत/ प्राप्ते ग्रहणम् इति चेत्,
SK
% चेत्,] प्.५१२ मध्यपरभागयोर् अप्राप्ताव् अनभिव्यक्तिः/ यावत् प्राप्तं भवति तावत्य् अभिव्यक्तिर् इति चेत्, तावतो ऽधिकरणत्वम् अणुसमवस्थानस्य/ यावति प्राप्ते जातिविशेषे गृह्यते तावद् अस्याधिकरणम् इति प्राप्तं भवति/ तत्रैकसमुदाये प्रतीयमाने ऽर्थभेदः/ एवं च सति यो ऽयम् अणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेत, यत्र यत्र ह्य् अणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति/ तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वाद् अवयव्यर्थान्तरभूत इति
SK
********************** Nय्SBह्_२,१.३७ **********************
SK
% प्.५१४ परीक्षितं प्रत्यक्षम्/ अनुमानम् इदानीं परीक्ष्यते ---
SK
Nय्S_२,१.३७: रोधोपघातसादृश्येभ्यो व्यभिचाराद् अनुमानम् अप्रमाणम् ||
SK
अप्रमाणम् इति एकदाप्य् अर्थस्य न प्रतिपादकम् इति/ रोधाद् अपि नदी पूर्णा गृह्यते, तदा चोपरिष्टाद् वृष्टो देव इति मिथ्यानुमानम्/ नीडोपघाताद् अपि पिपीलिकाण्डसञ्चारो भवति, तदा च भविष्यति वृष्टिर् इति मिथ्यानुमानम् इति/ पुरुषो ऽपि मयूरवाशितम् अनुकरोति तदा ऽपि शब्दसादृश्यान् मिथ्यानुमानं भवति
SK
********************** Nय्SBह्_२,१.३८ **********************
SK
% प्.५१६
SK
Nय्S_२,१.३८: नैकदेशत्राससादृश्येभ्यो ऽर्थान्तरभावात् ||
SK
नायम् अनुमानव्यभिचारः, अननुमाने तु खल्व् अयम् अनुमानाभिमानः/ कथम्? नाविशिष्टो लिङ्गं भवितुम् अर्हति/ पूर्वोदकविशिष्टं खलु वर्षोदकं शीग्रतरत्वं स्रातसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्या उपरि वृष्टो देव इत्य् अनुमिनोति नोदकवृद्धिमात्रेण/ पिपीलिकाप्रायस्याण्डसञ्चारे भविष्यति वृष्टिर् इत्य् अनुमीयते न कासाञ्चिद् इति/ नेदं मयूरवाशितं तत्सदृशो ऽयं शब्द इति विशेषापरिज्ञानान् मिथ्यानुमानम् इति/ यस् तु सदृशाद् विशिष्टाच् छब्दाद् विशिस्टमयूरवाशितं गृह्णाति तस्य विशिष्टो ऽर्थो गृह्यमाणो लिङ्गम्, यथा सर्पादीनाम् इति/ सो ऽयम् अनुमातुर् अपराधो नानुमानस्य, यो ऽर्थविशेषेणानुमेयम् अर्थम् अविशिष्टार्थदर्शनेन बुभुत्सत इति
SK
********************** Nय्SBह्_२,१.३९ **********************
SK
% प्.५१७ त्रिकालविषयम् अनुमानं त्रैकाल्यग्रहणाद् इत्य् उक्तम्/ अत च ---
SK
Nय्S_२,१.३९: वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ||
SK
वृन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितो ऽध्वा तत्संयुक्तः कालः पतितकालः, यो ऽधस्तात् स पतितव्यो ऽध्वा, तत्संयुक्तः कालः पतितव्यकालः/ नेदानीं तृतीयो ऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत/ तस्माद् वर्तमानः कालो न विद्यत इति
SK
********************** Nय्SBह्_२,१.४० **********************
SK
% प्.५२०
SK
Nय्S_२,१.४०: तयोर् अप्य् अभावो वर्तमानाभावे तदपेक्षत्वात् ||
SK
नाध्वव्यङ्ग्यः कालः/ किं तर्हि? क्रियाव्यङ्ग्यः पततीति/ यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः/ यदोत्पत्स्यते स पतितव्यकालः/
SK
% प्.५२१ यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः/ यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्योपरमम् उत्पत्स्यमानतां वा प्रतिपद्यते/ पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्; अधः पततीति क्रियासम्बद्धम्/ सो ऽयं क्रियाद्रव्ययोः सम्बन्धं गृह्णातीति वर्तमानः कालः, तदाश्रयौ चेतरौ कालौ तदहावे न स्याताम् इति
SK
********************** Nय्SBह्_२,१.४१ **********************
SK
% प्.५२२ अथापि ---
SK
Nय्S_२,१.४१: नातीतानागतयोर् इतरेतरापेक्षा सिद्धिः ||
SK
यद्य् अतीतानागताव् इतरेतरापेक्षौ सिध्येतां प्रतिपद्येमहि वर्तमानविलोपम्/ नातीतापेक्षानागतसिद्धिः नाप्य् अनागतापेक्षातीतसिद्धिः/ कया युक्त्या? केन कल्पेनातीतः कथम् अतीतापेक्षानागतसिद्धिः, केन च कल्पेनानागत इति नैतच् छक्यं निर्वक्तुम् अव्याकरणीयम् एतद् वर्तमानलोप इति/ यच् च मन्येत ह्रस्वदीर्घयोः स्थलनिम्नयोश् छायातपयोश् च यथेतरेतरापेक्षया सिद्धिर् एवम् अतीतानागतयोर् इति, तन् नोपपद्यते विशेषहेत्वभावात्/ दृष्टान्तवत् प्रतिदृष्टान्तो ऽपि प्रसज्यते, यथा रूपस्पर्शौ गन्धरसौ नेतरेतरापेक्षौ सिद्ध्यतः एवम् अतीतानागताव् इति नेतरेतरापेक्षा कस्यचित् सिद्धिर् इति/
SK
% सिद्ध्यतः एवम् ... सिद्धिर् इति/] प्.५२३ यस्माद् एकाभावे ण्यतराभावाद् उभयाभावः --- यद्य् एकस्यान्यतरापेक्षा सिद्धिर् अन्यतरस्येदानीं किम् अपेक्षा? यद्य् अन्यतरस्यैकापेक्षा सिद्धिर् एकस्येदानीं किम् अपेक्षा? एवम् एकस्याभावे अन्यतरन् न सिध्यतीत्य् उभयाभावः प्रसज्यते
SK
********************** Nय्SBह्_२,१.४२ **********************
SK
अर्थसद्भावव्यङ्ग्यश् चायं वर्तमानः कालः, विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मेति/ यस्य चायं नास्ति, तस्य ---
SK
Nय्S_२,१.४२: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ||
SK
प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजम्, न चाविद्यमानम् असद् इन्द्रियेण सन्निकृष्यते/ नचायं विद्यमानं सत् किञ्चिद् अनुजानाति/ प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोर् अनुपपत्तिः/ सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति
SK
********************** Nय्SBह्_२,१.४३ **********************
SK
% प्.५२४ उभयथा च वर्तमानः कालो गृह्यते क्वचिद् अर्थसद्भावव्यङ्ग्यः यथास्ति द्रव्यम् इति/ क्वचित् क्रियासन्तानव्यङ्ग्यः यथा पचति छिनत्तीति/ नानाविधा चैकार्था क्रिया क्रियासन्तानः क्रियाभ्यासश् च/ नानाविधा चैकार्था क्रिया पचतीति स्थाल्यधिश्रयणम् उदकासेचनं तण्डुलावपनम् एधोऽपसर्पणम् अग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणम् अधोऽवतारणम् इति/ छिनत्तीति क्रियाभ्यास उद्यम्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्य् उच्यते/
SK
% प्.५२५ यच् चेदं पच्यमानं छिद्यमानं च तत् क्रियमाणम्, तस्मिन् क्रियमाणे ---
SK
Nय्S_२,१.४३: कृतताकर्तव्यतोपपत्तेस् तूभयथा ग्रहणम् ||
SK
क्रियासन्तानो णारब्धश् चिकीर्षितो .आगतः कालः पक्ष्यतीति/ प्रयोजनावसानः क्रियासन्तानोपरमः अतीतः कालः अपाक्षीद् इति/
SK
% क्रियासन्तानोपरमः अतीतः कालः अपाकृईद् इति/] प्.५२६ आरब्धक्रियासन्तानो वर्तमानः कालः पचतीति/ तत्र या उपरता सा कृतता/ या चिकीर्षिता सा कर्तव्यता/ या विद्यमाना सा क्रियमाणता/ तद् एवं क्रियासन्तानस्थस् त्रैकाल्यसमाहारः पचति पच्यत इति वर्तमानग्रहणेन गृह्यते, क्रियासन्तानस्य ह्य् अत्राविच्छेदो ऽभिधीयते नारम्भो नोपरम इति/ सो ऽयम् उभयथा वर्तमानो गृह्यते अपवृक्तो व्यपवृक्तश् चातीतानागताभ्याम्/ स्थितिव्यङ्ग्यः --- विद्यते द्रव्यम् इति/ क्रियासन्तानाविच्छेदाभिधायी च त्रैकाल्यान्वितः --- पचति छिनत्तीति/ अन्यश् च प्रत्यासत्तिप्रभृतेर् अर्थस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषु उत्प्रेक्षितव्यः/ तस्माद् अस्ति वर्तमानः काल इति
SK
********************** Nय्SBह्_२,१.४४ **********************
SK
% प्.५२७
SK
Nय्S_२,१.४४: अत्यन्तप्रायैकदेशसाधर्म्याद् उपमानसिद्धिः ||
SK
अत्यन्तसाधर्म्याद् उपमानं न सिध्यति/ न चैवं भवति यथा गौर् एवं गौर् इति/
SK
% गौर् इति] प्.५२८ प्रायःसाधर्म्याद् उपमानं न सिध्यति, न हि भवति यथानड्वान् एवं महिष इति/ एकदेशसाधर्म्याद् उपमानं न सिध्यति, न हि सर्वेण सर्वम् उपमीयत इति
SK
********************** Nय्SBह्_२,१.४५ **********************
SK
Nय्S_२,१.४५: प्रसिद्धसाधर्म्याद् उपमानसिद्धेर् यथोक्तदोषानुपपत्तिः ||
SK
न साधर्म्यस्य कृत्स्नप्रायाल्पभावम् आश्रित्योपमानं प्रवर्तते/ किं तर्हि?
SK
% प्.५२९ प्रसिद्धसाधर्म्यात् साध्यसाधनभावम् आश्रित्य प्रवर्तते/ यत्र चैतद् अस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यम्/ तस्माद् यथोक्तदोषो नोपपद्यत इति
SK
********************** Nय्SBह्_२,१.४६ **********************
SK
अस्तु तर्ह्य् उपमानम् अनुमानम् ---
SK
Nय्S_२,१.४६: प्रत्यक्षेणाप्रत्यक्षसिद्धेः ||
SK
यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर् ग्रहणम् अनुमानम्, एवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणम् इति नेदम् अनुमानाद् विशिष्यते
SK
********************** Nय्SBह्_२,१.४७ **********************
SK
% प्.५३० विशिष्यत इत्य् आह/ कया युक्त्या?
SK
Nय्S_२,१.४७: नाप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः ||
SK
यदा ह्य् अयम् उपयुक्तोपमानो गोदर्शी गवयसमानम् अर्थं पश्यति तदायं गवय इत्य् अस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते न चैवम् अनुमानम् इति/ परार्थं चोपमानम् --- यस्य ह्य् उपमानम् अप्रसिद्धं तदर्थं प्रसिद्धोभयेन क्रियत इति परार्थम् उपमानम् इति चेत्; न,
SK
% प्.५३१ स्वयम् अध्यवसायात् --- भवति च भोः स्वयम् अध्यवसायः यथा गौर् एवं गवय इति/ नाध्यवसायः प्रतिषिध्यते उपमानं तु तन् न भवति ``प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्ऽऽ/ न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभाअवो विद्यत इति
SK
********************** Nय्SBह्_२,१.४८ **********************
SK
अथापि ---
SK
Nय्S_२,१.४८: तथेत्य् उपसंहाराद् उपमानसिद्धेर् नाविशेषः ||
SK
तथेति समानधर्मोपसंहाराद् उपमानं सिध्यति नानुमानम्/ अयं चानयोर् विशेष इति
SK
********************** Nय्SBह्_२,१.४९ **********************
SK
% प्.५३४
SK
Nय्S_२,१.४९: शब्दो ऽनुमानम् अर्थस्यानुपलब्धेर् अनुमेयत्वात् ||
SK
शब्दो ऽनुमानम्, न प्रमाणान्तरम्/ कस्मात्? शब्दार्थस्यानुमेयत्वात्/ कथम् अनुमेयत्वम्? प्रत्यक्षतो ऽनुपलब्धेः/ यथानुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चान् मीयत इति अनुमानम्/ एवं मितेन शब्देन पश्चान् मीयते अर्थो ऽनुपलभ्यमान इत्य् अनुमानं शब्दः//
SK
********************** Nय्SBह्_२,१.५० **********************
SK
इतश् चानुमानं शब्दः/
SK
Nय्S_२,१.५०: उपलब्धेर् अद्विप्रवृत्तित्वात् ||
SK
प्रमाणान्तरभावे द्विप्रवृत्तिर् उपलब्धिः, अन्यथा ह्य् उपलब्धिर् अनुमाने अन्यथोपमाने तद् व्याख्यातम्/ शब्दानुमानयोस् तूपलब्धिर् अद्विप्रवृत्तिः यथानुमाने तथा शब्दे ऽपि/ विशेषाभावाद् अनुमानं शब्द इति//
SK
********************** Nय्SBह्_२,१.५१ **********************
SK
% प्.५३५
SK
Nय्S_२,१.५१: सम्बन्धाच् च ||
SK
शब्दो ऽनुमानम् इति वर्तते/ सम्बद्धयोश् च शब्दार्थयोः सम्बन्धप्रसिद्धौ शब्दोपलब्धेर् अर्थग्रहणं यथा सम्बद्धयोर् लिङ्गलिङिनोः सम्बन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणम् इति//
SK
********************** Nय्SBह्_२,१.५२ **********************
SK
% प्.५३६ यत् तावद् अर्थस्यानुमेयत्वाद् इति तन् न---
SK
Nय्S_२,१.५२: आप्तोपदेशसामर्थ्याच् छब्दाद् अर्थसम्प्रत्ययः ||
SK
स्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसन्निवेश इत्य् एवमादेर् अप्रत्यक्षस्यार्थस्य च शब्दमात्रात् प्रत्ययः, किं तर्हि? आप्तैर् अयम् उक्ताः शब्द इत्य् अतः सम्प्रत्ययः विपर्ययेण सम्प्रत्ययाभावात्; न त्व् एवम् अनुमानम् इति/
SK
% प्.५३८ यत् पुनर् उपलब्धेर् अद्विप्रवृत्तित्वाद् इति, अयम् एव शब्दानुमानयोर् उपलब्धेः प्रवृत्तिभेदः; तत्र विशेषे सत्य् अहेतुर् विशेषाभावाद् इति/
SK
% प्.५३९ यत् पुनर् इदं सम्बन्धाच् चेति, अस्ति च शब्दार्थयोः सम्बन्धो ऽनुज्ञातः, अस्ति च प्रतिषिद्धः/ अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः, प्राप्तिलक्षणस् तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः/ कस्मात्? प्रमाणतो ऽनुपलब्धेः---प्रत्यक्षतस् तावच् छब्दार्थप्राप्तेर् नोपलब्धिर् अतीन्द्रियत्वात्/ येनेन्द्रियेण गृह्यते शब्दस् तस्य विषयभावम् अतिवृत्तो ऽर्थो न गृह्यते/ अस्ति चातीन्द्रियविषयभूतो ऽप्य् अर्थः समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर् गृह्यत इति//
SK
********************** Nय्SBह्_२,१.५३ **********************
SK
% प्.५४०
SK
Nय्S_२,१.५३: पूरणप्रदाहपाटनानुपलब्धेश् च सम्बन्धाभावः ||
SK
प्राप्तिलक्षणे च गृह्यमाणे सम्बन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात्, अर्थान्तिके वा शब्दः स्यात्, उभयं वोभयत्र/ अथ खल्व् उभयम्? स्थानकरणाभावाद् इति चार्थः/ न चायम् अनुमानतो ऽप्य् उपलभ्यते शब्दान्तिके ऽर्थ इति/ एतस्मिन् पक्षे ऽप्य् आस्यस्थानकरणोच्चारणीयः शब्दस् तदन्तिके ऽर्थ इत्य् अन्नाग्न्यसिशब्दोच्चारणे पूरणपाहपाटनानि गृह्येरन्, न च गृह्यन्ते; अग्रहणात् नानुमेयः प्राप्तिलक्षणः सम्बन्धः/
SK
% प्.५४१ अर्थान्तिके शब्द इति स्थानकरणासम्भवाद् अनुच्चारणम्---स्थानं कण्ठादयः, करणं प्रयत्नविशेषः, तस्यार्थान्तिके ऽनुपपत्तिर् इति/ उभयप्रतिषेधाच् च नोभयम्/ तस्मान् न शब्देनार्थः प्राप्त इति//
SK
********************** Nय्SBह्_२,१.५४ **********************
SK
% प्.५४२
SK
Nय्S_२,१.५४: शब्दार्थव्यवस्थानाद् अप्रतिषेधः ||
SK
शब्दाद् अर्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयत अस्ति शब्दार्थसम्बन्धो व्यवस्थाकारणम्/ असम्बन्धे हि शब्दमात्राद् अर्थमात्रे प्रत्ययप्रसङ्गः/ तस्माद् अप्रतिषेधः सम्बन्धस्येति//
SK
********************** Nय्SBह्_२,१.५५ **********************
SK
% प्.५४३ अत्र समाधिः---
SK
Nय्S_२,१.५५: न सामायिकत्वाच् छब्दार्थसम्प्रत्ययस्य ||
SK
न सम्बन्धकारितं शब्दार्थव्यवस्थानम्/ किं तर्हि? समयकारितम्/ यत् तद् अवोचाम अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः शब्दार्थयोः सम्बन्ध इति समयं तम् अवोचाम इति/ कः पुनर् अयं समयः? अस्य शब्दस्येदम् अर्थजातम् अभिधेयम् इत्य् अभिधानाभिधेयनियमनियोगः/ तस्मिन्न् उपयुक्ते शब्दाद् अर्थसम्प्रत्ययो भवति/ विपर्यये हि शब्दश्रवण ऽपि प्रत्ययाभावः/ सम्बन्धवादिनो ऽपि चायम् अवर्जनीय इति/
SK
% प्.५४४ प्रयुज्यमानग्रहणाच् च समयोपयोगो लौकिकानाम्/ समयपरिपालनार्थं चेदं पदलक्षणाया वाचान्वाख्यानं व्याकरणम् वाक्यलक्षणाया वाचो ऽर्थलक्षणम्,
SK
% लक्षणाया ... ऽर्थलक्षणम्,] प्.५४५ पदसमूहो वाक्यम् अर्थपरिसमाप्राव् इति/ तद् एवं प्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थतुषो ऽपि अनुमानहेतुर् न भवतीति
SK
********************** Nय्SBह्_२,१.५६ **********************
SK
% प्.४४६(५४६)
SK
Nय्S_२,१.५६: जातिविशेषे चानियमात् ||
SK
सामायिकः शब्दाद् अर्थसम्प्रत्ययो न स्वाभाविकः/ ऋष्यार्यम्लेच्छानां यथाकामं शब्दविनियोगो ऽर्थप्रत्यायनाय प्रवर्तते/ स्वाभाविके हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्याद् यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषे व्यभिचरतीति
SK
********************** Nय्SBह्_२,१.५७ **********************
SK
% प्.५४७ पुत्रकामेष्टिहवनाभ्यासेषु---
SK
Nय्S_२,१.५७: तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः ||
SK
तस्येति शब्दविशेषम् एवाधिकुरुते भगवान् ऋषिः/ शब्दस्य प्रमाणत्वं न सम्भवति/ कस्मात्? अनृतदोषात्---पुत्रकमेष्टौ ``पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति; नेष्टौ संस्थितायां पुत्रजन्म दृश्यते/ दृष्टार्थस्य वाक्यस्यानृतत्वाद् अदृष्टार्थम् अपि वाक्यम् ``अग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्याद्य् अनृतम् इति ज्ञायते/
SK
% प्.५४८ विहितव्याघातदोषाच् च, हवने ``उदिते होतव्यम् अनुदिते होतव्यम् समयाध्युषिते होतव्यम्ऽऽ इति विधाय विहितं व्याहन्ति---``श्यावो ऽस्याहुतिम् अभ्यवहरति य उदिते जुहोति, शबलो ऽस्याहुतिम् अभ्यवहरति यो ऽनुदिते जुहोति श्यावशबलौ वास्याहुतिम् अभ्यवहरतो यः समयाध्युषिते जुहोतिऽऽ/ व्याघाताच् चान्यतरन् मिथ्येति/
SK
% प्.५४९ पुनरुक्तदोषाच् च, अभ्यासे देश्यमाने ``त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमाम्ऽऽ इति पुनरुक्तदोषो भवति/ पुनरुक्तं च प्रमत्तवाक्यम् इति/ तस्माद् अप्रमाणं शब्दो ऽनृतव्याघातपुनरुक्तदोषेभ्य इति
SK
********************** Nय्SBह्_२,१.५८ **********************
SK
% प्.५५०
SK
Nय्S_२,१.५८: न कर्मकर्तृसाधनवैगुण्यात् ||
SK
नानृतदोषः पुत्रकामेष्टिऔ/ कस्मात्? कर्मकर्तृसाधनवैगुण्यात्/ इष्ट्या पितरौ संयुज्यमानौ पुत्रं जनयत इति/ इष्टेः करणं साधनम्, पितरौ कर्तारौ, संयोगः कर्म, त्रयाणां गुणयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः/ इष्ट्याश्रयं तावद् कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणश् च/
SK
% प्.५५१ साधनवैगुण्यं हविर् असंकृतम् उपहतम् इति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता चेति/ अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासम्प्रयोगः, कर्तृवैगुण्यं योनिव्यापदो बीजोपघातश् चेति/ साधनवैगुण्यम् इष्टाव् अभिहितम्/ लोके च ``अग्निकामो दारुणी मथ्नीयात्ऽऽ इति विधिवाक्यम्, तत्र कर्मवैगुण्यं मिथ्याभिमन्थनम्, कर्तृवैगुण्यं प्रज्ञाप्रयत्नतः प्रमादः, साधनवैगुण्यम् आर्द्रं सुषिरं दाविति, तत्र फलं न निष्पद्यत इति नानृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात्/ न चेदं लौकिकाद् भिद्यते ``पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति
SK
********************** Nय्SBह्_२,१.५९ **********************
SK
% प्.५५३
SK
Nय्S_२,१.५९: अभ्युपेत्य कालभेदे दोषवचनात् ||
SK
न व्याघातो हवन इत्य् अनुवर्तते/ यो ऽभ्युपगतं हवनकालं भिनत्ति ततो ऽन्यत्र जुहोति तत्रायम् अभ्युपगतकालभेदे दोष उच्यते ``श्यावो ऽस्याहुतिम् अभ्यवहरति य उदिते जुहोतिऽऽ/ तद् इदं विधिभ्रेषे निन्दावचनम् इति
SK
********************** Nय्SBह्_२,१.६० **********************
SK
% प्.५५४
SK
Nय्S_२,१.६०: अनुवादोपपत्तेश् च ||
SK
पुनरुक्तदोषो ऽभ्यासे नेति प्रकृतम्/ अनर्थको ऽभ्यासः पुनरुक्तम्, अर्थवान् अभ्यासो ऽनुवादः/ यो ऽयम् अभ्यासः ``त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमाम्ऽऽ इत्य् अनुवाद उपपद्यते अर्थवत्त्वात्/ त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामिधेनीनां भवति/
SK
% दशत्वं सामिधेनीनां भवति/] प्.५५५ तथा च मन्त्राभिवादः ``इदम् अहं भ्रातृव्यं पञ्चदशावरेण वाग्वज्रेणावबोधे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मऽऽ इति पञ्चदश सामिधेनीर् वज्रमन्त्रो ऽभिवदति तद् अभ्यासम् अन्तरेण न स्याद् इति
SK
********************** Nय्SBह्_२,१.६१ **********************
SK
% प्.५५६
SK
Nय्S_२,१.६१: वाक्यविभागस्य चार्थग्रहणात् ||
SK
प्रमाणं शब्दो यथा लोके
SK
********************** Nय्SBह्_२,१.६२ **********************
SK
विभागश् च ब्राह्मणवाक्यानां त्रिविधः---
SK
Nय्S_२,१.६२: विध्यर्थवादानुवादवचनविनियोगात् ||
SK
त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि---विधिवचनान्य् अर्थवादवचनानि अनुवादवचनानीति
SK
********************** Nय्SBह्_२,१.६३ **********************
SK
% प्.५५७ तत्र---
SK
Nय्S_२,१.६३: विधिर् विधायकः ||
SK
यद् वाक्यं विधायकं चोदकं स विधिः/ विधिस् तु नियोगो ऽनुज्ञा वा/ यथा ``अग्निहोत्रं जुहुयात् स्वर्गकामःऽऽ इत्यादि
SK
********************** Nय्SBह्_२,१.६४ **********************
SK
% प्.५५९
SK
Nय्S_२,१.६४: स्तुतिर् निन्दा परकृतिः पुराकल्प इत्य् अर्थवादः ||
SK
विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्था, स्तूयमानं श्रद्दधीतेति, प्रवर्तिका च, फलश्रवणात् प्रवर्तते---``सर्वजिता वै देवाः सर्वम् अजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्तेनाप्नोति सर्वं जयतिऽऽ इति एवमादि/ अनिष्टफलवादो निन्दा वर्जनार्था निन्दितं न समाचरेद् इति
SK
% प्.५६० स एष वाव प्रथमो यज्ञो यज्ञानां यज् जोतिष्टोमो य एतेनादिष्ट्वान्यन यजते गर्त्तपत्यम् एव तज् जीयते वा प्रमीयते वा इत्य् एवमादिः/ अन्यकर्तृकस्य व्याहतस्य विधेर् वादः परकृतिः ``हुत्वा वपाम् एवाग्रे ऽभिघारयन्ति अथ पृषद् आज्यं तदुह चरकाध्वर्यवः पृषदाज्यम् एवाग्रे ऽभिधारयन्ति अग्नेः प्राणाः पृषदाज्यस्तोमम् इत्य् एवम् अभिदधतिऽऽ इत्य् एवमादि/ ऐतिह्यसमाचरितो विधिः पुराकल्प इति/ ``तस्माद् वा एतेन ब्राह्मणा बहिष् पवमानं सामस्तोमम स्तोषन् योने यज्ञं प्रतनवामहे इत्य् एवमादि/ कथं पुराकृतिपुराकल्पाव् अर्थवादाव् इति? स्तुतिनिन्दावाक्येनाभिसम्बन्धाद् विध्याश्रयस्य कस्यचिद् अर्थस्य द्योतनाद् अर्थवाद इति
SK
********************** Nय्SBह्_२,१.६५ **********************
SK
% प्.५६१
SK
Nय्S_२,१.६५: विधिविहितस्यानुवचनम् अनुवादः ||
SK
विध्यनुवचनं चानुवादो विहितानुवचनं च/ पूर्वः शब्दानुवादो ऽपरो ऽर्थानुवादः/ यथा पुनरुक्तं द्विविधम् एवम् अनुवादो ऽपि/ किमर्थं पुनर् विहितम् अनूद्यते? अधिकारार्थम्; विहितम् अधिकृत्य स्तुतिर् बोध्यते निन्दा वा, विधिशेषो वाभिधीयते/
SK
% प्.५६२ विहितानन्तरार्थो ऽपि चानुवादा भवति/ एवम् अन्यद् अप्य् उत्प्रेक्षणीयम्/ लोके ऽपि च विधिर् अर्थवादो ऽनुवाद इति च त्रिविधं वाक्यम्/ ओदनं पचेद् इति विधिवाक्यम्/ अर्थवादवाक्यम्---आयुर्वर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम्/ अनुवादः---पचतु पचतु भवान् इत्य् अभ्यासः, क्षिप्रं पच्यताम् इति वा; अङ्ग पच्यताम् इत्य् अध्येषणार्थम्, पच्यताम् एवेति चावधारणार्थम्/ यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्वम् एवम् वेदवाक्यानाम् अपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितुम् अर्हतीति
SK
********************** Nय्SBह्_२,१.६६ **********************
SK
% प्.५६३
SK
Nय्S_२,१.६६: नानुवादपुनरुक्तयोर् विशेषः शब्दाभ्यासोपपत्तेः ||
SK
पुनरुक्तम् असाधु साधुर् अनुवाद इति अयं विशेषो नोपपद्यते/ कस्मात्? उभयत्र हि प्रतीतार्थः शब्दो ऽभ्यस्यते चरितार्थस्य शब्दस्याभ्यासाद् उभयम् असाध्व् इति
SK
********************** Nय्SBह्_२,१.६७ **********************
SK
Nय्S_२,१.६७: शीघ्रतरगमनोपदेशवद् अभ्यासान् नाविशेषः ||
SK
नानुवादपुनरुक्तयोर् अविशेषः/ कस्मात्? अर्थवतो ऽभ्यासस्यानुवादभावात्/ अर्थवान् अभ्यासो ऽनुवादः, शीघ्रतरगमनोपदेशवत्/ शीघ्रं शीघ्रं गम्यताम् इति क्रियातिशयो ऽभ्यासेनैवोच्यते/
SK
%शयो ऽभ्यासेनैवोच्यते/] प्.५६४ उदाहरणार्थं चेदम्/ एवम् अन्यो ऽप्य् अभ्यासः पचति पचतीति क्रियानुपरमः/ ग्रामो ग्रामो रमनीय इति व्याप्तिः/ परि परि त्रिगर्तेभ्यो वृष्टो देव इति परिवर्जनम्/ अध्य् अधि कुड्यं निषण्णम् इति सामीप्यम्/ तिक्तं तिक्तम् इति प्रकारः/ एवम् अनुवादस्य स्तुतिनिन्दाशेषविधिष्व् अधिकारार्थता विहितानन्तरार्थता चेति
SK
********************** Nय्SBह्_२,१.६८ **********************
SK
किं पुनः प्रतिषेधहेतूद्धाराद् एव शब्दस्य प्रमाणत्वं सिध्यति? न, अतश् च---
SK
% प्.५६५
SK
Nय्S_२,१.६८: मन्त्रायुर्वेदप्रामाण्यवच् च तत्प्रामाण्यम् आप्तप्रामाण्यात् ||
SK
किं पुनर् आयुर्वेदस्य प्रामाण्यम्? यत् तद् आयुर्वेदेनोपदिश्यते इदं कृत्वेष्टम् अधिगच्छति, इदं वर्जयित्वानिष्टं जहाति, तस्यानुष्ठीयमानस्य तथाभावः सत्यार्थताविपर्ययः/ मन्त्रपदानां च विषयभूताशनिप्रतिषेधार्थानां प्रयोगे ऽर्थस्य तथाभाव एतत्प्रामाण्यम्/ किंकृतम् एतत्? आप्तप्रामाण्यकृतम्/ किं पुनर् आप्तानां प्रामाण्यम्? साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति/
SK
% यथाभूतार्थचिख्यापयिषेति/] प्.५६६ आप्ताः खलु साक्षात्कृतधर्माणः इदं हातव्यम् इदम् अस्य हानिहेतुर् इदम् अस्याधिगन्तव्यम् इदम् अस्याधिगमहेतुः इति भूतान्य् अनुकम्पन्ते/ तेषां खलु वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति/%वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति/] प्.५६७ न चानवबोधे समीहा वर्जनं वा, न वाकृत्वा स्वस्तिभावः, नाप्य् अस्यान्य उपकारको ऽप्य् अस्ति/ हन्त वयम् एभ्यो यथादर्शनं यथाभूतम् उपदिश्यामः त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्य् अधिगन्तव्यम् एवाधिगमिष्यन्तीति/ एवम् आप्तोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतो ऽनुष्ठीयमानो ऽर्थस्य साधको भवति; एवम् आप्तोपदेशः प्रमाणम्/ एवम् आप्ताः प्रमाणम्/ दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागो ऽनुमातव्यः प्रमाणम् इत्य् आप्तप्रामाण्यस्य हेतोः समानत्वाद् इति/ अस्यापि चैकदेशो ``ग्रामकामो यजेतऽऽ इत्य् एवमादिर् दृष्टार्थः, तेनानुमातव्यम् इति/ लोके च भूयान् उपदेशाश्रयो व्यवहारः/ लौकिकस्याप्य् उपदेष्टुर् उपदेष्टव्यार्थज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,
SK
% ज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,] प्.५६८ तत्परिग्रहाद् आप्तोपदेशः प्रमाणम् इति/ द्रष्टृप्रवक्तृसामान्याच् चानुमानम्/ य एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश् च त एवायुर्वेदप्रभृतीनाम् इत्य् आयुर्वेदप्रामाण्यवद् वेदप्रामाण्यम् अनुमातव्यम् इति/ नित्यत्वाद् वेदवाक्यानां प्रमाणत्वे तत्प्रामाण्यम् आप्तप्रामाण्याद् इत्य् अयुक्तम्/ शब्दस्य वाचकत्वाद् अर्थप्रतिपत्तौ प्रमाणत्वं न नित्यत्वाद्/ नित्यत्वे हि सर्वस्य सर्वेण वचनाच् छब्दार्थव्यवस्थानुपपत्तिः/ नानित्यत्वे वाचकत्वम् इति चेद् न, लौकिकेष्व् अदर्शनात्/ ते ऽपि नित्या इति चेत् न, अनाप्तोपदेशाद् अर्थविसंवादो ऽनुपपन्नः/ नित्यत्वाद् धि शब्दः प्रमाणम् इति/
SK
%शब्दः प्रमाणम् इति/] प्.५६९ अनित्यः स इति चेत्? अविशेषवचनम्/ अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यम् इति/ यथायोगं चार्थस्य प्रत्यायनाद् नामधेयशब्दानां लोके प्रामाण्यं नित्यत्वात् प्रामाण्यानुपपत्तिः/ यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति, न नित्यत्वात्/ मन्वन्तरयुगान्तन्तरेषु चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,
SK
% चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,] प्.५७० आप्तप्रामाण्याच् च प्रामाण्यम्; लौकिकेषु शब्देषु चैतत् समानम् इति
SK
इति वात्स्यायनीये न्यायाभाष्ये द्वितीयाध्यायस्याद्यम् आह्निकम्/
SK
% प्.५७२
SK
********************** Nय्SBह्_२,२.१ **********************
SK
अथ द्वितीयाध्यायस्य द्वितीयम् आह्निकम् अयथार्थः प्रमाणोद्देश इति मत्वाह---
SK
Nय्S_२,२.१: न चतुष्ट्वम् ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ||
SK
न चत्वार्य् एव प्रमाणानि/ किं तर्हि? ऐतिह्यम् अर्थापत्तिः सम्भवो ऽभाव इत्य् एतान्य् अपि प्रमाणानि,
SK
% प्रमाणानि,] प्.५७३ तानि कस्मान् नोक्तानि/ इतिहोचुर् इत्य् अनिर्दिष्टप्रवक्तृकम् प्रवादपारम्पर्यम् ऐतिह्यम्/ अर्थाद् आपत्तिर् अर्थापत्तिः/ आपत्तिः प्राप्तिः प्रसङ्गः/ यत्राभिधीयमाने ऽर्थे यो ऽन्यो ऽर्थः प्रसज्यते सो ऽर्थापत्तिः/ यथा मेघेष्व् असत्सु वृष्टिर् न भवतीति/
SK
% भवतीति] प्.५७४ किम् अत्र प्रसज्यते? सत्सु भवतीति/ सम्भवो नामाविनाभाविनो ऽर्थस्य सत्ताग्रहणाद् अन्यस्य सत्ताग्रहणम्/ यथा द्रोणस्य सत्ताग्रहणाद् आढकस्य सत्ताग्रहणम्, आडकस्य सत्ताग्रहणात् प्रस्थस्येति/ अभावो विरोध्य् अभूतं भूतस्य, अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम्, विधारके हि वाय्वभ्रसंयोगे गुरुत्वाद् अपां पतनकर्म न भवतीति
SK
********************** Nय्SBह्_२,२.२ **********************
SK
% प्.५७५ सत्यम् एतानि प्रमाणानि, न तु प्रमाणान्तराणि/ प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते/ सो ऽयम्---
SK
Nय्S_२,२.२: शब्द ऐतिह्यानर्थान्तरभावाद् अनुमाने ऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच् चाप्रतिषेधः ||
SK
अनुपपन्नः प्रतिषेधः/ कथम्? ``आप्तोपदेशः शब्दःऽऽ इति/ न च शब्दलक्षणम् ऐतिह्याद् व्यावर्तते; सो ऽयं भेदः सामान्यात् संगृह्यत इति/ प्रत्यक्षेणाप्रत्यक्षस्य सम्बद्धस्य प्रतिपत्तिर् अनुमानम्/
SK
% सम्बद्धस्य प्रतिपत्तिर् अनुमानम्/] प्.५७६ तथा चार्थापत्तिसम्भवाभावः/ वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणम् अर्थापत्तिर् अनुमानम् एव/ अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,
SK
% वृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,] प्.५७७ तद् अप्य् अनुमानम् एव/ अस्मिन् सतीदं नोपपद्यत इति विरोधित्वे प्रसिद्धे कार्यानुपपत्त्या कारणस्य प्रतिबन्धकम् अनुमीयते/ सो ऽयं यथार्थ एव प्रमाणोद्देश इति
SK
********************** Nय्SBह्_२,२.३ **********************
SK
% प्.५७८ सत्यम् एतानि प्रमाणानि न तु प्रमाणान्तराणीत्य् उक्तम्, अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते/ तथा हीयम्---
SK
Nय्S_२,२.३: अर्थापत्तिर् अप्रमाणम् अनैकान्तिकत्वात् ||
SK
असत्सु मेघेषु वृष्टिर् न भवतीति सत्सु भवतीत्य् एतद् अर्थाद् आपद्यते, सत्स्व् अपि चैकदा न भवति/ सेयम् अर्थापत्तिर् अप्रमाणम् इति
SK
********************** Nय्SBह्_२,२.४ **********************
SK
% प्.५७९ नानैकान्तिकत्वम् अर्थापत्तेः---
SK
Nय्S_२,२.४: अनर्थापत्ताव् अर्थापत्त्यभिमानात् ||
SK
असति कारणे कार्यं नोत्पद्यत इति वाक्यात् प्रत्यनीकभूतो ऽर्थः सति कारणे कार्यम् उत्पद्यत इत्य् अर्थाद् आपद्यते/ अभावस्य हि भावः प्रत्यनीक इति/ सो ऽयं कार्योत्पादः सति कारणे ऽर्थाद् आपद्यमानो न कारणस्य सत्तां व्यभिचरति/ न खल्व् असति कारणे कार्यम् उत्पद्यते तस्मान् नानैकान्तिकी/ यत् तु सति कारणे निमित्तप्रतिबन्दात् कार्यं नोत्पद्यत इति कारणधर्मो ऽसौ न त्व् अर्थापत्तेः प्रमेयम्/ किं तर्ह्य् अस्याः प्रमेयम्? सति कारणे कार्यम् उत्पद्यत इति यो ऽसौ कार्योत्पादः कारणस्य सत्तां न व्यभिचतति तद् अस्याः प्रमेयम्/ एवं तु सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति/
SK
% सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति/] प्.५८०
SK
********************** Nय्SBह्_२,२.५ **********************
SK
Nय्S_२,२.५: प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ||
SK
अर्थापत्तिर् न प्रमाणम् अनैकान्तिकत्वाद् इति वाक्यं प्रतिषेधः/ तेनानेनार्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवम् अनैकान्तिको भवति/ अनैकान्तिकत्वाद् अप्रमाणेनानेन न कश्चिद् अर्थः प्रतिषिध्यत इति
SK
********************** Nय्SBह्_२,२.६ **********************
SK
% प्.५८१ अथ मन्यसे नियतविषयेष्व् अर्थेषु स्वविषये व्यभिचारो भवति, न च प्रतिषेधस्य सद्भावो विषयः? एवं तर्हि---
SK
Nय्S_२,२.६: तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ||
SK
अर्थापत्तेर् अपि कार्योत्पादेन कारणसत्ताया अव्यभिचारो विषयः/ न च कारणधर्मो निमित्तप्रतिबन्धात् कार्यानुत्पादकत्वम् इति
SK
********************** Nय्SBह्_२,२.७ **********************
SK
% प्.५८२ अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते/ कथम् इति?
SK
Nय्S_२,२.७: नाभावप्रामाण्यं प्रमेयासिद्धेः ||
SK
अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्याद् उच्यते नाभावप्रामाण्यं प्रमेयासिद्धेर् इति
SK
********************** Nय्SBह्_२,२.८ **********************
SK
% प्.५८३ अथायम् अर्थबहुत्वाद् अर्थैकदेश उदाह्रियते---
SK
Nय्S_२,२.८: लक्षितेष्व् अलक्षणलक्षितत्वाद् अलक्षितानां तत्प्रमेयसिद्धेः ||
SK
% प्.५८४ तस्याभावस्य सिध्यति प्रमेयम्/ कथम्? लक्षितेषु वासःसु अनुपादेयेष्व् उपादेयानाम् अलक्षितानाम् अलक्षणलक्षितत्वाद् लक्षणाभावेन लक्षितत्वाद् इति/ उभयसन्निधाव् अलक्षितानि वासांस्य् आनयेति प्रयुक्तो येषु वासःसु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते, प्रतिपद्य चानयति, प्रतिपत्तिहेतुश् च प्रमाणम् इति
SK
********************** Nय्SBह्_२,२.९ **********************
SK
Nय्S_२,२.९: असत्य् अर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ||
SK
यत्र भूत्वा किञ्चिन् न भवति तत्र तस्याभाव उपपद्यते/ न चालक्षितेषु वासःसु लक्षितानि भूत्वा न भवन्ति, तस्मात् तेषु लक्षणाभावो ऽनुपपन्न इति/
SK
%ऽनुपपन्न इति] प्.५८५ नान्यलक्षणोपपत्तेः---यथायम् अन्येषु वासःसु लक्षणानाम् उपपत्तिं पश्यति नैवम् अलक्षितेषु/ सो ऽयं लक्षणाभावं पश्यन्न् अभावेनार्थं प्रतिपद्यत इति
SK
********************** Nय्SBह्_२,२.१० **********************
SK
% प्.५८६
SK
Nय्S_२,२.१०: तत्सिद्धेर् अलक्षितेष्व् अहेतुः ||
SK
तेषु वासःसु लक्षितेषु सिद्धिर् विध्यमानता येषां भवति न तेषाम् अभावो लक्षणानाम्/ यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषाम् अलक्षितेष्व् अभाव इत्य् अहेतुः/ यानि खलु भवन्ति तेषाम् अभावो व्याहत इति
SK
********************** Nय्SBह्_२,२.११ **********************
SK
Nय्S_२,२.११: न लक्षणावस्थितापेक्षसिद्धेः ||
SK
न ब्रूमो यानि लक्षणानि भवन्ति तेषाम् अभाव इति, किन् तु केषुचिल् लक्षणान्य् अवस्थितानि अनवस्थितानि केषुचित्, अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यत इति
SK
********************** Nय्SBह्_२,२.१२ **********************
SK
% प्.५८७
SK
Nय्S_२,२.१२: प्राग् उत्पत्तेर् अभावोपपत्तेश् च ||
SK
अभावद्वैतं खलु भवति प्राक् चोत्पत्तेर् अविद्यमानता, उत्पन्नस्य चात्मनो हानाद् अविद्यमानता/ तत्रालक्षितेषु वासःसु प्राग् उत्पत्तेर् अविद्यमानतालक्षणो लक्षणानाम् अभावो नेतर इति
SK
********************** Nय्SBह्_२,२.१३ **********************
SK
% प्.५८८ ``आप्तोपदेशः शब्दःऽऽ इति प्रमाणभावे विशेषणं ब्रुवता नानाप्रकारः शब्द इति ज्ञाप्यते/ तस्मिन् सामन्येन विचारः---किं नित्यो ऽथानित्य इति/ विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः/ आकाशगुणः शब्दओ विभुर् नित्यो ऽभिव्यक्तिधर्मक इत्य् एके/
SK
% प्.५८९ गन्धादिसहवृत्तिर् द्रव्येषु सन्निविष्टो गन्धादिवद् अवस्थितो ऽभिव्यक्तिधर्मक इत्य् अपरे/ आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवद् इत्य् अपरे/ महाभूतसंक्षोभजः शब्दो ऽनाश्रित उत्पत्तिधर्मको निरोधधर्मक इत्य् अन्ये/ अतः संशयः किम् अत्र तत्त्वम् इति//
SK
% प्.५९४ अनित्यः शब्द इत्य् उत्तरम्/ कथम्?---
SK
Nय्S_२,२.१३: आधिमत्त्वाद् ऐन्द्रियकत्वात् कृतकवद् उपचाराच् च ||
SK
आदिर् योनिः कारणम् आदीयते अस्माद् इति/ कारणवद् अनित्यं दृष्टम्/ संयोगविभागजश् च शब्दः कारणवत्त्वाद् अनित्य इति/ का पुनर् इयम् अर्थदेशना कारणवत्त्वाद् इति? उत्पत्तिधर्मकत्वात्; अनित्यः शब्द इति---भूत्वा न भवति विनाशधर्मक इति/ सांशयिकम् एतत्---किम् उत्पत्तिकारणं संयोगविभागौ शब्दस्य, आहोस्विद् अभिव्यक्तिकारणम् इत्य् अत आह---ऐन्द्रियकत्वात्/ इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः/ किम् अयं व्यञ्जकेन समानदेशो ऽभिव्यज्यते रूपादिवत् अथ संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यत इति? संयोगनिवृत्तौ शब्दग्रहणात् न व्यञ्जकेन समानदेशस्य ग्रहणम्---दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते/ न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति,
SK
% च वय्ञ्जकाभावे व्यङ्ग्यग्रहणं भवति,] प्.५९६ तस्मान् न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणम् इति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणम् इति/
SK
% प्.६०० इतश् च शब्द उत्पद्यते नाभिव्यज्यते---कृतकवद् उपचारात्/ तीव्रं मन्दम् इति कृतकम् उपचर्यते, तीव्रं सुखं मन्दं सुखं तीव्रं दुःखं मन्दं दुःखम् इति, उपचर्यते च तीव्रः शब्दो मन्दः शब्द इति/
SK
% प्.६०३ व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवद् इति चेद् न अभिभवोपपत्तेः---संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच् च न, एवम् अभिभवोपपत्तेः---तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दम् अभिभवति न मन्दः/ न च शब्दग्रहणम् अभिभावकम्, शब्दश् च न भिद्यते, शब्दे तु भिद्यमाने युक्तो ऽभिभवः/ तस्माद् उत्पद्यते शब्दो नाभिव्यज्यत इति/
SK
% प्.६०४ अभिभवानुपपत्तिश् च व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात्---व्यञ्जकेन समानदेशे ऽभिव्यज्यते शब्द इत्य् एतस्मिन् पक्षे नोपपद्यते ऽभिभवः/ न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति/
SK
% प्.६०५ अप्राप्ते ऽभिभव इति चेत् शब्दमात्राभिभवप्रसङ्गः---अथ मन्येत असत्याम् प्राप्ताव् अभिभवो भवतीति, एवं सति यथा भेरीशब्दः कञ्चित् तन्त्रीस्वनम् अभिभवति एवम् अन्तिकस्थोपादानम् इव दवीयःस्थो पादानान् अपि तन्त्रीस्वनान् अभिभवेद् अप्राप्तेर् अविशेषात्/ तत्र क्वचिद् एव भेर्यां प्रणादितायां सर्वलोकेषु समानकालास् तन्त्रीस्वना न श्रूयेरन् इति/ नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच् छब्दस्य तीव्रेण मन्दस्याभिभवो युक्त इति/
SK
% मन्दस्याभिभवो युक्त इति/] प्.६०६ कः पुनर् अयम् अभिभवो नाम? ग्राह्यसमानजातीयग्रहणकृतम् अग्रहणम् अभिभवः; यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति
SK
********************** Nय्SBह्_२,२.१४ **********************
SK
% प्.६०७
SK
Nय्S_२,२.१४: न घटाभावसामान्यनित्यत्वान् नित्येष्व् अप्य् अनित्यवद् उपचाराच् च ||
SK
न खलु आदिमत्त्वाद् अनित्यः शब्दः/ कस्मात्? व्यभिचारात्/ आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम्/ कथम् आदिमान्? कारणविभागेभ्यो हि घटो न भवति/ कथम् अस्य नित्यत्वम्? यो ऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिन् निवर्त्यत इति/ यद् अप्य् ऐन्द्रियकत्वात्, तद् अपि व्यभिचरति, ऐन्द्रियकं च सामान्यं नित्यं चेति/ यद् अपि कृतकवद् उपचाराद् इति, एतद् अपि व्यभिचरति; नित्येष्व् अनित्यवद् उपचारो दृष्टः---तथा हि भवति वृक्षस्य प्रदेशः कम्बलस्य प्रदेशः एवम् आकाशस्य प्रदेशः आत्मनः प्रदेश इति भवतीति
SK
********************** Nय्SBह्_२,२.१५ **********************
SK
% प्.६०८
SK
Nय्S_२,२.१५: तत्त्वभाक्तयोर् नानात्वस्य विभागाद् अव्यभिचारः ||
SK
नित्यम् इत्य् अत्र किं तावत् तत्त्वम्? अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानुपपत्तिर् नित्यत्वम्, तच् चाभावे नोपपद्यते/ भाक्तं तु भवति यत् तत्रात्मानम् अहासीद् यद् भूत्वा न भवति न जातु तत् पुनर् भवति, तत्र नित्य इव नित्यो घटाभाव इत्य् अयं पदार्थ इति/ तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्यं किंचिन् नित्यं दृश्यत इत्य् अव्यभिचारः//
SK
********************** Nय्SBह्_२,२.१६ **********************
SK
% प्.६०९ यद् अपि सामान्यनित्यत्वाद् इतीन्द्रियप्रत्यासत्तिग्राह्यम् ऐन्द्रियकम् इति---
SK
Nय्S_२,२.१६: सन्तानानुमानविशेषणात् ||
SK
नित्येष्व् अव्यभिचार इति प्रकृतम्/ नेन्द्रियग्रहणसामर्थ्याच् छब्दस्यानित्यत्वम्/ किं तर्हि इन्द्रियप्रत्यासत्तिग्राह्यत्वात् सन्तानानुमानं तेनानित्यत्वम् इति //
SK
********************** Nय्SBह्_२,२.१७ **********************
SK
यद् अपि नित्येष्व् अप्य् अनित्यवद् उपचाराद् इति/ न---
SK
Nय्S_२,२.१७: कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ||
SK
नित्येष्व् अप्य् अव्यभिचार इति/ एवम् आकाशप्रदेशः आत्मप्रदेश इति नात्राकाशात्मनोः कारणद्रव्यम् अभिधीयते यथा कृतकस्य/ कथं ह्य् अविद्यमानम् अभिधीयते, अविद्यमानता च प्रमाणतो ऽनुपलब्धेः/ किं तर्हि तत्राभिधीयते? संयोगस्याव्याप्यवृत्तित्वम्---परिच्छिन्नेन द्रव्येनाकाशस्य संयोगो नाकाशं व्याप्नोति अव्याप्य वर्तत इति, तद् अस्य् कृतकेन द्रव्येण सामान्यम्/ न ह्य् आमलकयोः संयोग आश्रयं व्याप्नोति/ सामान्यकृता च भक्तिर् आकाशस्य प्रदेश इति/ अनेनात्मप्रदेशो व्याख्यातः/ संयोगवच् च शब्दबुद्ध्यादीनाम् अव्याप्यवृत्तित्वम् इति/ परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति/
SK
% प्.६१३ कस्मात् पुनः सूत्रकारस्यास्मिन्न् अर्थे सूत्रं न श्रूयत इति? शीलम् इदं भव्गवतः सूत्रकारस्य बहुष्व् अधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति तत्र शास्त्रसिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुम् अर्हतीति मन्यते/ शास्त्रसिद्धान्तस् तु न्यायसमाख्यातम् अनुमतं बहुशाखम् अनुमानम् इति
SK
********************** Nय्SBह्_२,२.१८ **********************
SK
% प्.६१४ अथापि खल्व् इदम् अस्ति इदं नास्तीति कुत एतत् प्रतिपत्तव्यम् इति? प्रमाणत उपलब्धेर् अनुपलब्धेश् चेति/ अविद्यमानस् तर्हि शब्दः---
SK
Nय्S_२,२.१८: प्राग् उच्चारणाद् अनुपलब्धेर् आवरणाद्यनुपलब्धेश् च ||
SK
प्राग् उच्चारणान् नास्ति शब्दः/ कस्मात्? अनुपलब्धेः/ ``सतो नुपलब्धिर् आवरणादिभ्यःऽऽ एतन् नोपपद्यते/ कस्मात्? आवरणादीनाम् अनुपलब्धिकारणानाम् अग्रहणात्---अनेनावृतः शब्दो नोपलभ्यत असन्निकृष्टश् चेन्द्रियव्यवधानाद् इत्य् एवमादि अनुपलब्धिकारणं न गृह्यत इति सो ऽयम् अनुच्चारितो नास्तीति/ उच्चारणम् अस्य व्यञ्जकं तदभावाद् प्राग् उच्चारणाद् अनुपलब्धिर् इति/ किम् इदम् उच्चारणं नामेति? विवक्षाजनितेन प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,
SK
% प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,] प्.६१५ यथास्थानं प्रतिघाताद् वर्णाभिव्यक्तिर् इति/ संयोगविशेषो वै प्रतिघातः, प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वम्, तस्मान् न व्यञ्जकाभावाद् अग्रहणम्, अपि त्व् अभावाद् एवेति/ सो ऽयम् उच्चार्यमाणः श्रूयते श्रूयमाणश् चाभूत्वा भवतीति अनुमीयते/ ऊर्ध्वं चोच्चारणान् न श्रूयते स भूत्वा न भवति अभावान् न श्रूयत इति/ कथम्? आवरणाद्यनुपलब्धेर् इत्य् उक्तम्/ तस्माद् उत्पत्तितिरोभावधर्मकः शब्द इति
SK
********************** Nय्SBह्_२,२.१९ **********************
SK
एवं च सति तत्त्वं पांशुभिर् इवावकिरन्न् इदम् आह---
SK
Nय्S_२,२.१९: तदनुपलब्धेर् अनुपलम्भाद् आवरणोपपत्तिः ||
SK
यद्य् अनुपलम्भाद् आवरणं नास्ति, आवरणानुपलब्धिर् अपि तर्ह्य् अनुपलम्भात् नास्तीति तस्या अभावाद् अप्रतिषिद्धम् आवरणम् इति/ कथं पुनर् जानीते भवान् नावरणानुपलब्धिर् उपलभ्यत इति?
SK
% इति] प्.६१६ किम् अत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् समानम्---अयं खल्व् आवरणम् अनुपलम्भमानः प्रत्यात्मम् एव संवेदयते नावरणम् उपलभ इति, यथा कुड्येनावृतस्यावरणम् उपलभमानः प्रत्यात्मम् एव संवेदयते/ सेयम् आवरणोपलब्धिवद् आवरणानुपलब्धिर् अपि संवेद्यैवेति/ एवं च सत्य् अपहृतविषयम् उत्तरवाक्यम् अस्तीति
SK
********************** Nय्SBह्_२,२.२० **********************
SK
% प्.६१७ अभ्यनुज्ञावादेन तूच्यते जातिवादिना---
SK
Nय्S_२,२.२०: अनुपलम्भाद् अप्य् अनुपलब्धिसद्भावान् नावरणानुपपत्तिर् अनुपलम्भात् ||
SK
यथानुपलम्भमानाप्य् आवरणानुपलब्धिर् अस्ति एवम् अनुपलभ्यमानम् अप्य् आवरणम् अस्तीति यद्य् अभ्यनुजानाति भवान् अनुपलभ्यमानावरणानुपलब्धिर् अस्तीति अभ्यनुज्ञाय च वदति नास्त्य् आवरणम् अनुपलम्भाद् इति, एतस्मिन्न् अप्य् अभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यत इति
SK
********************** Nय्SBह्_२,२.२१ **********************
SK
% प्.६१८
SK
Nय्S_२,२.२१: अनुपलम्भात्मकत्वाद् अनुपलब्धेर् अहेतुः ||
SK
यद् उपलभ्यते तद् अस्ति, यन् नोपलभ्यते तन् नास्ति, इत्य् अनुपलम्भात्मकम् असद् इति व्यवस्थितम्/ उपलब्ध्यभावश् चानुपलब्धिर् इति सेयम् अभावत्वान् नोपलभ्यते/ सच् च खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति/
SK
% खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति/] प्.६१९ तत्र यद् उक्तं नावरणानुपपत्तिर् अनुपलम्भाद् इत्य् अयुक्तम् इति
SK
********************** Nय्SBह्_२,२.२२ **********************
SK
अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माद् धेतोः प्रतिजानीते---
SK
% प्.६२०
SK
Nय्S_२,२.२२: अस्पर्शत्वात् ||
SK
अस्पर्शम् आकाशं नित्यं दृष्टम् इति तथा च शब्द इति
SK
********************** Nय्SBह्_२,२.२३ **********************
SK
सो ऽयम् उभयतः सव्यभिचारः---स्पर्शवांश् चाणुर् नित्यः, अस्पर्शं च कर्मानित्यं दृष्टम्/ अस्पर्शत्वाद् इत्य् एतस्य साध्यसाधर्म्येणोदाहरणम्---
SK
Nय्S_२,२.२३: न कर्मानित्यत्वात् ||
SK
साध्यवैधर्म्येणोदाहरणम्---
SK
********************** Nय्SBह्_२,२.२४ **********************
SK
Nय्S_२,२.२४: नाणुनित्यत्वात् ||
SK
उभयस्मिन्न् उदाहरणे व्यभिचाराण् न हेतुः
SK
********************** Nय्SBह्_२,२.२५ **********************
SK
% प्.६२१ अयं तर्हि हेतुः---
SK
Nय्S_२,२.२५: सम्प्रदानात् ||
SK
सम्प्रदीयमानम् अवस्थितं दृष्टम्, सम्प्रदीयते च शब्द आचर्येणान्तेवासने, तस्माद् अवस्थित इति
SK
********************** Nय्SBह्_२,२.२६ **********************
SK
Nय्S_२,२.२६: तदन्तरालानुपलब्धेर् अहेतुः ||
SK
येन सम्प्रदीयते यस्मै च, तयोर् अन्तराले ऽवस्थानम् अस्य केन लिङ्गेनोपलभ्यते/ सम्प्रदीयमानो ऽह्य् अवस्थितः सम्प्रदातुर् अपैति सम्प्रदानं च प्राप्नोतीत्य् अवर्जनीयम् एतत्
SK
********************** Nय्SBह्_२,२.२७ **********************
SK
% प्.६२२
SK
Nय्S_२,२.२७: अध्यापनाद् अप्रतिषेधः ||
SK
अध्ययनं लिङ्गम्, असति सम्प्रदाने ऽध्यापनं न स्याद् इति
SK
********************** Nय्SBह्_२,२.२८ **********************
SK
Nय्S_२,२.२८: उभयोः पक्षयोर् अन्यतरस्याध्यापनाद् अप्रतिषेधः ||
SK
समानम् अध्यापनम् उभयोः पक्षयोः संशयानिवृत्तेः, किम् आचार्यस्थः शब्दो ऽन्तेवासिनम् आपद्यते तद् अध्यापनम्,
SK
% म् आपद्यते तद् अध्यापनम्,] प्.६२३ आहोस्विन् नृत्योपदेशवद् गृहीतस्यानुकरणम् अध्यापनम् इति/ एवम् अध्यापनम् अलिङ्गं सम्प्रदानस्येति
SK
********************** Nय्SBह्_२,२.२९ **********************
SK
अयं तर्हि हेतुः---
SK
Nय्S_२,२.२९: अभ्यासात् ||
SK
अभ्यस्यमानम् अवस्थितं दृष्टम्/ पञ्चकृत्वः पश्यतीति रूपम् अवस्थितं पुनः पुनर् दृश्यते/ भवति च शब्दे ऽभ्यासः---दशक्ट्त्वो ऽधीतो ऽनुवाको विंशतिकृत्वो ऽधीत इति/ तस्माद् अवस्थितस्य पुनः पुनर् उच्चारणम् अभ्यास इति
SK
********************** Nय्SBह्_२,२.३० **********************
SK
% प्.६२४
SK
Nय्S_२,२.३०: नान्यत्वे ऽप्य् अभ्यासस्योपचारात् ||
SK
अनवस्थाने ऽप्य् अभ्यासस्याभिधानं भवति द्विर् नृत्यतु भवान् त्रिर् नृत्यतु भवान् इति, द्विर् अनृत्यत् त्रिर् अनृत्यद् द्विर् अग्निहोत्रं जुहोति द्विर् भुङ्क्ते
SK
********************** Nय्SBह्_२,२.३१ **********************
SK
एवं व्यभिचारात् प्रतिषिद्धहेताव् अन्यशब्दस्य प्रयोगः प्रतिषिध्यते---
SK
Nय्S_२,२.३१: अन्यद् अन्यस्माद् अनन्यत्वाद् अनन्यद् इत्य् अन्यताभावः ||
SK
यद् इदम् अन्यद् इति मन्यसे तत् स्वार्थेनानन्यत्वाद् अन्यन् न भवति, एवम् अन्यताया अभावः/ तत्र यद् उक्तम् अन्यत्वे ऽप्य् अभ्यासोपचाराद् इति एतद् अयुक्तम् इति
SK
********************** Nय्SBह्_२,२.३२ **********************
SK
% प्.६२५ शब्दप्रयोगं प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते---
SK
Nय्S_२,२.३२: तदभावे नास्त्य् अनन्यता तयोर् इतरेतरापेक्षसिद्धेः ||
SK
अन्यस्माद् अनन्यताम् उपपादयति भवान्, उपपाद्य चान्यत् प्रत्याचष्टे अनन्यद् इति च शब्दम् अनुजानाति, प्रयुङ्क्ते चानन्यद् इत्य् एतत् समासपदम्, अन्यशद्बो ऽयं प्रतिषेधेन सह समस्यते/ यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः? तस्मात् तयोर् अन्यानन्यशब्दयोर् इतरो ऽनन्यशब्द इतरम् अन्यशब्दम् अपेक्षमाणः सिध्यतीति तत्र यद् उक्तम् अन्यताया अभाव इति एतद् अयुक्तम् इति
SK
********************** Nय्SBह्_२,२.३३ **********************
SK
% प्.६२७ अस्तु तर्हीदानीं शब्दस्य नित्यत्वम्---
SK
Nय्S_२,२.३३: विनाशकारणानुपलब्धेः ||
SK
यद् अनित्यं तस्य विनाशः कारणाद् भवति यथा लोष्टस्य कारणद्रव्यविभागात्/ शब्दश् चेद् अनित्यस् तस्य विनाशो यस्मात् कारणाद् भवति तद् उपलभ्येत, न चोपलभ्यते तस्मान् नित्य इति
SK
********************** Nय्SBह्_२,२.३४ **********************
SK
% प्.६२८
SK
Nय्S_२,२.३४: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ||
SK
यथा विनाशकारणानुपलब्धेर् अविनाशप्रसङ्ग एवम् अश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः/ व्यञ्जकाभावाद् अश्रवणम् इति चेत्? प्रतिषिद्धं व्यञ्जकम्/ अथ विद्यमानस्य निर्निमित्तम् अश्रवनम् इति विद्यमानस्य निर्निमित्तो विनाश इति/ समानश् च दृष्टविरोधो निमित्तम् अन्तरेण विनाशे चाश्रवणे चेति
SK
********************** Nय्SBह्_२,२.३५ **********************
SK
Nय्S_२,२.३५: उपलभ्यमाने चानुपलभ्देर् असत्त्वाद् अनपदेशः ||
SK
अनुमानाच् चोपलभ्यमाने शब्दस्य विनाशकारणे विनाशकारणानुपलब्धेर् असत्त्वाद् इत्य् अनपदेशः, यथा यस्माद् विषाणी तस्माद् अश्व इति/ किम् अनुमानम् इति चेत्? सन्तानोपपत्तिः/ उपपादितः शब्दसन्तानः संयोगविभागजाच् छब्दाच् छब्दान्तरं ततो ऽन्तत् ततो ऽप्य् अन्यद् इति/ तत्र कार्यः शब्दः कारणशब्दं निरुणद्धि प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः/
SK
% प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः/] प्.६२९ दृष्टं हि तिरःप्रतिकुड्यम् अन्तिकस्थेनाप्य् अश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्य् असति व्यवधाने इति/
SK
% प्.६३० घण्टायाम् अभिहन्यमानायां तारस् तारतरो मन्दो मन्दतर इति श्रुतिभेदान् नानाशब्दसन्तानो ऽविच्छेदेन श्रूयते/ तत्र नित्ये शब्दे घण्टास्थम् अन्यगतं वावस्थितं सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,
SK
% सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,] प्.६३१ येन श्रुतिसन्तानो भवतीति शब्दभेदे वासति श्रुतिभेद उपपादयितव्य इति/ अनित्ये तु शब्दे घण्टास्थं सन्तानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटु मन्दम् अनुवर्तते तस्तानुवृत्त्या शब्दसन्तानानुवृत्तिः, पटुमन्दभावाच् च तीव्रमन्दता शब्दस्य, तत्कृतश् च श्रुतिभेद इति
SK
********************** Nय्SBह्_२,२.३६ **********************
SK
% प्.६३३ न वै निमित्तान्तरं संस्कार उपलभ्यते/ अनुपलब्धेर् नास्तीति?
SK
Nय्S_२,२.३६: पाणिनिमित्तप्रश्लेषाच् छब्दाभावे नानुपलब्धिः ||
SK
पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश् च सति शब्दसन्तानो नोत्पद्यते अतः श्रवणानुपपत्तिः/
SK
% अतः श्रवणानुपपत्तिः/] प्.६३४ तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्य् अनुमीयते; तस्य च निरोधाच् छब्दसन्तानो नोत्पद्यते/ अनुत्पत्तौ श्रुतिविच्छेदो यथा प्रतिघातिद्रव्यसंयोगाद् इषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति/ कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः/ कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति/ तस्मान् निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिर् इति
SK
********************** Nय्SBह्_२,२.३७ **********************
SK
% प्.६३५
SK
Nय्S_२,२.३७: विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ||
SK
यदि यस्य विनाशकारणं नोपलभ्यते तद् अवतिष्ठते, अवस्थानाच् च तस्य नित्यत्वं प्रसज्यते; एवं यानि खल्व् इमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतम्, न तेषां विनाशकारणं भवतोपपाद्यते, अनुपपादनाद् अवस्थानम् अवस्थानात् तेषां नित्यत्वं प्रसज्यत इति/ अथ नैवम्, न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान् नित्यत्वम् इति
SK
********************** Nय्SBह्_२,२.३८ **********************
SK
कम्पसमानाश्रयस्यानुनादस्य पाणिप्रश्लेषात् कम्पवत् कारणोपरमाद् अभावः/ वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्याद् इति---
SK
% प्.६३६
SK
Nय्S_२,२.३८: अस्पर्शत्वाद् अप्रतिषेधः ||
SK
यद् इदं नाकाशगुणः शब्द इति प्रतिषिध्यते अयम् अनुपपन्नः प्रतिषेधः, अस्पर्शत्वाच् छब्दाश्रयस्य/ रूपादिसमानदेशस्याग्रहणे शब्दसन्तानोपपत्तेर् अस्पर्शव्यापिद्रव्याश्रयः शब्द इति ज्ञायते न कम्पसमानाश्रय इति
SK
********************** Nय्SBह्_२,२.३९ **********************
SK
% प्.६३७ प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते/ कथम्?---
SK
Nय्S_२,२.३९: विभक्त्यन्तरोपपत्तेश् च समासे ||
SK
सन्तानोपपत्तेश् चेति चार्थः/ तद् व्याख्यातम्/ यदि रूपादयः शब्दाश् च प्रतिद्रव्यं समस्ताः समुदिताः समुदितास् तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टस् तस्य तथा जातीयस्यैव ग्रहणेन भवितव्यं शब्दे रूपादिवत्/ तत्र यो ऽयं विभाग एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः श्रूयन्ते यच् च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दास् तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते तद् उभयं नोपपद्यते, नानाभूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति/
SK
% भूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति/] प्.६३८ अस्ति चायं विभागो विभागान्तरं च, तेन विभागोपपत्तेर् मन्यामहे न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति
SK
********************** Nय्SBह्_२,२.४० **********************
SK
द्विविधश् चायं शब्दो वर्णात्मको ध्वनिमात्रश् च/ तत्र वर्णात्मनि तावत्---
SK
Nय्S_२,२.४०: विकारादेशोपदेशात् संशयः ||
SK
दध्य् अत्रेति केचित् इकार इत्वं हित्वा यत्वम् आपद्यत इति विकारं मन्यन्ते/ केचिद् इकारस्य प्रयोगे विषयकृते यद् इकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते/ संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति उभयम् इदम् उपदिश्यते/ तत्र न ज्ञायते किं तत्त्वम् इति/
SK
% प्.६३९ आदेशोपदेशस् तत्त्वम्/ विकारोपदेशे ह्य् अन्वयस्याग्रहणाद् विकाराननुमानम्---सत्य् अन्वये किञ्चिन् निवर्तते किञ्चिद् उपजायत इति शक्येत विकारो ऽनुमातुम्/ न चान्वयो गृह्यते तस्माद् विकारो नास्तीति/ भिन्नकरणयोश् च वर्णयोर् अप्रयोगे प्रयोगोपपत्तिः---विवृतकरण इकार ईषत्स्पृष्टकरणो यकारः, ताव् इमौ पृथक्करणाख्येन प्रयत्नेनोच्चारणीयौ, तयोर् एकस्याप्रयोगे ऽन्यस्य प्रयोग उपपन्न इति/ अविकारे चाविशेषः/ यत्रेमाव् इकारयकारौ न विकारभूतौ---यतते, यच्छति, प्रायंस्त, इति, इकार इदम् इति च, यत्र च विकारभूतौ इष्ट्या दध्य् आहरेति, उभयत्र प्रयोक्तुर् अविशेषो यत्नः श्रोतुश् च श्रुतिर् इत्य् आदेशोपपत्तिः/
SK
% प्.६४० प्रयुज्यमानाग्रहणाच् च/ न खल्व् इकारः प्रयुज्यमानो यकारताम् आपद्यमानो गृह्यते/ किं तर्हि? इकारस्य प्रयोगे यकारः प्रयुज्यते, तस्माद् अविकार इति/ अविकारे च न शब्दान्वाख्यानलोपः/ न विक्रियन्ते वर्णा इति/ न चैतस्मिन् पक्षे शब्दान्वाख्यानस्यासम्भवे येन वर्णविकारं प्रतिपद्येमहीति/ न खल्व् वर्णस्य वर्णान्तरं कार्यम्, न हि इकाराद् यकार उत्पद्यते यकाराद् वा इकारः/ पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णाः तेषाम् अन्योन्यस्य स्थाने प्रयुज्यत इति युक्तम्/ एतावच् चैतत् परिणामो वा विकारः स्यात् कार्यकारणभावो वा/ उभयं च नास्ति तस्मात् न सन्ति वर्णविकाराः/ वर्णसमुदायविकारानुपपत्तिवच् च वर्णविकारानुपपत्तिः---``अस्तेर् भूःऽऽ ``ब्रुवो वचिर्ऽऽ इति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद् विषये वर्णान्तरसमुदायो न परिणामो न कार्यं शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णानतरम् इति
SK
********************** Nय्SBह्_२,२.४१ **********************
SK
% प्.६४१ इतश् च न सन्ति वर्णविकाराः---
SK
Nय्S_२,२.४१: प्रकृतिविवृद्धौ विकारविवृद्धिः ||
SK
प्रकृत्यनुविधानं विकारेषु दृष्टम्, यकारे ह्रस्वदीर्घानुविधानं नास्ति येन विकारत्वम् अनुमीयत इति
SK
********************** Nय्SBह्_२,२.४२ **********************
SK
% प्.६४२
SK
Nय्S_२,२.४२: न्यूनसमाधिकोपलब्धेर् विकाराणाम् अहेतुः ||
SK
द्रव्यविकारा न्यूनाः समाः अधिकाश् च गृह्यन्ते/ तद्वद् अयं विकारो न्यूनः स्याद् इति
SK
********************** Nय्SBह्_२,२.४३ **********************
SK
Nय्S_२,२.४३: द्विविधस्यापि हेतोर् अभावाद् असाधनं दृष्टान्तः ||
SK
अत्र नोदाहरणसाधर्म्याद् धेतुर् अस्ति न वैधर्म्यात्/ अनुपसंहृतश् च हेतुना दृष्टान्तो न साधक इति/ प्रतिदृष्टान्ते चानियमः प्रसज्येत/ यथानुडुहः स्थाने ऽश्वो वोढुं नियुक्तो न तद्विकारो भवति एवम् इवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति/ न चात्र नियमहेतुर् अस्ति---दृष्टान्तः साधको न प्रतिदृष्टान्त इति
SK
********************** Nय्SBह्_२,२.४४ **********************
SK
% प्.६४३ द्रव्यविकारोदाहरणं च---
SK
Nय्S_२,२.४४: नातुल्यप्रकृतीनां विकारविकल्पात् ||
SK
अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पते विकाराश् च प्रकृतीर् अनुविधीयन्ते/ न त्व् इवर्णम् अनुविधीयते यकारः/ तस्माद् अनुदाहरणं द्रव्यविकार इति
SK
********************** Nय्SBह्_२,२.४५ **********************
SK
% प्.६४४
SK
Nय्S_२,२.४५: द्रव्यविकारवैषम्यवद् वर्णविकारविकल्पः ||
SK
यथा द्रव्यभावेन तुल्यायाः प्रकृतेर् विकारवैषम्यम्, एवं वर्णाभावेन तुल्यायाः प्रकृतेर् विकारविकल्प इति
SK
********************** Nय्SBह्_२,२.४६ **********************
SK
Nय्S_२,२.४६: न विकारधर्मानुपपत्तेः ||
SK
अयं विकारधर्मा द्रव्यसामान्ये, यदात्मकं द्रव्यं मृद् वा सुवर्णं वा तस्यात्मनो ऽन्वये पूर्वो व्यूहो निवर्तते, व्यूहान्तरं चोपजायते; तं विकारम् आचष्टे/ न वर्णसामान्ये कश्चिच् छब्दात्मा ऽन्वयी य इत्थं जहाति यत्वं चापद्यते/ तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहो ऽश्वो विकारो विकारधर्मानुपपत्तेः, एवम् इवर्णस्य न यकारो विकारो विकारधर्मानुपपत्तेर् इति
SK
********************** Nय्SBह्_२,२.४७ **********************
SK
% प्.६४५ इतश् च न सन्ति वर्णविकाराः---
SK
Nय्S_२,२.४७: विकारप्राप्तानाम् अपुनरापत्तेः ||
SK
अनुपपन्ना पुनरापत्तिः/ कथम्? पुनरापत्तेर् अननुमानाद् इति/ इकारो यकारत्वम् आपन्नः पुनर् इकारो भवति, न पुनर् इकारस्य स्थाने यकारस्य प्रयोगो ऽप्रयोगश् चेत्य् अत्रानुमानं नास्ति
SK
********************** Nय्SBह्_२,२.४८ **********************
SK
अननुमानाद् इति न/ इदं ह्य् अनुमानम्---
SK
Nय्S_२,२.४८: सुवर्णादीनां पुनरापत्तेर् अहेतुः ||
SK
सुवर्णं कुण्डलत्वं हित्वा रुचकत्वम् आपद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वम् आपद्यते, एवम् इकारो ऽपि यकारत्वम् आपन्नः पुनर् इकारो भवतीति
SK
********************** Nय्SBह्_२,२.४९ **********************
SK
% प्.६४६ व्यभिचाराद् अननुमानम् यथा पयो दधिभावम् आपन्नं पुनः न पयो भवति किम् एवं वर्णानां न पुनरापत्तिः, अथ सुवर्णवत् पुनरापत्तिर् इति सुवर्णोदाहरणोपपत्तिश् च---
SK
Nय्S_२,२.४९: न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ||
SK
अवस्थितं सुवर्णं हीयमानेन धर्मेण उपजायमानेन च धर्मि भवति, नैवं कश्चिच् छब्दात्मा हीयमानेन इत्वेनोपजायमानेन यत्वेन धर्मी गृह्यते, तस्मात् सुवर्णोदाहरणं नोपपद्यत इति//
SK
% प्.६४७ वर्णत्वाव्यतिरेकाद् वर्णविकाराणाम् अप्रतिषेधः/ वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वम् इति/ सामान्यवतो धर्मयोगो न सामान्यस्य/ कुण्डलरुचकौ सुवर्णस्य धर्मौ न सुवर्णत्वस्य, एवम् इकारयकारौ कस्य वर्णात्मनो धर्मौ? वर्णत्वं सामान्यं न तस्येमौ धर्मौ भवितुम् अर्हति/ न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिस् तत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिर् इति
SK
********************** Nय्SBह्_२,२.५० **********************
SK
इतश् च वर्णविकारानुपपत्तिः---
SK
Nय्S_२,२.५०: नित्यत्वे ऽविकाराद् अनित्यत्वे चानवस्थानात् ||
SK
नित्या वर्णा इत्य् एतस्मिन् पक्षे इकारयकारौ वर्णौ इत्य् उभयोर् नित्यत्वाद् विकारानुपपत्तिः, नित्यत्वे ऽविनाशित्वात् कः कस्य विकार इति/ अथानित्या वर्णा इति पक्षः,
SK
% पक्षः] प्.६४८ एवम् अप्य् अनवस्थानं वर्णानाम्/ किम् इदम् अनवस्थानं वर्णानाम्? उत्पद्य निरोधः/ उत्पद्य निरुद्धे इकारे यकार उत्पद्यते यकारे चोत्पद्य निरुद्धे इकार उत्पद्यत इति कः कस्य विकारः? तद् एतद् अवगृह्य सन्धाने सन्धाय चावग्रहे वेदितव्यम् इति
SK
********************** Nय्SBह्_२,२.५१ **********************
SK
नित्यपक्षे तु तावत् समाधिः---
SK
Nय्S_२,२.५१: नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पाच् च वर्णविकाराणाम् अप्रतिषेधः ||
SK
नित्या वर्णा न विकल्पन्त इति विप्रतिषेधः/ यथा नित्यत्वे सति किञ्चिद् अतीन्द्रियं किञ्चिद् इन्द्रियग्राह्यम्, इन्द्रियग्राह्याश् च वर्णाः, एवं नित्यत्वे सति किञ्चिन् न विक्रियते, वर्णास् तु विक्रियन्त इति/
SK
% प्.६४९ विरोधाद् अहेतुस् तद्धर्मविकल्पः/ नित्यं नोपजायते नापैत्य् अनुपजनापायधर्मकं नित्यम् अनित्यं पुनर् उपजनापाययुक्तम्, न चान्तरेणोपजनापायौ विकारः सम्भवति/ तद् यदि वर्णा विक्रियन्ते, नित्यत्वम् एषां निवर्तते/ अथ नित्याः, विकारधर्मत्वम् एषां निवर्तते/ सो ऽयं विरुद्धो हेत्वाभासो धर्मविकल्प इति
SK
********************** Nय्SBह्_२,२.५२ **********************
SK
अनित्यपक्षे समाधिः---
SK
Nय्S_२,२.५२: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोत्पत्तिः ||
SK
यथानवस्थायिनां वर्णानां श्रवणं भवत्य् एवम् एषां विकारो भवति/ असम्बन्धाद् असमर्था अर्थप्रतिपादिका वर्णोपलब्धिः न विकारेण सम्बन्धाद् असमर्था या गृह्यमाणा वर्णविकारम् अनुमापयेद् इति/ तत्र यादृग् इदं यथा गन्धगुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति/
SK
% गुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति/] प्.६५० न च वर्णोपलब्धिर् वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिका/ यो ऽयम् इवर्णनिवृत्तौ यकारस्य प्रयोगो यद्य् अयं वर्णोपलब्ध्या निवर्तते तदा तत्रोपलभ्यमाना इवर्णो यत्वम् आपद्यते इति गृह्येत/ तस्माद् वर्णोपलब्धिर् अहेतुर् वर्णविकारस्येति
SK
********************** Nय्SBह्_२,२.५३ **********************
SK
Nय्S_२,२.५३: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश् चाप्रतिषेधः ||
SK
तद्धर्मविकल्पाद् इति न युक्तः प्रतिषेधः/ न खल्व् विकारधर्मकं किञ्चिन् नित्यम् उपलभ्यत इति वर्णोपलब्धिवद् इति न युक्तः प्रतिषेधः/ अवग्रहे हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति/
SK
% प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति/] प्.६५१ चिरनिवृत्ते चायम् इवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते, कारणाभावात् कार्याभाव इति अनुयोगः प्रसज्यत इति
SK
********************** Nय्SBह्_२,२.५४ **********************
SK
इतश् च वर्णविकारानुपपत्तिः---
SK
Nय्S_२,२.५४: प्रकृत्यनियमात् ||
SK
इकारस्थाने यकारः श्रूयते यकारस्थाने खल्व् इकारो विधीयते विध्यतीति/ तद् यदि स्यात् प्रकृतिविकारभावा वर्णानाम्, तस्य प्रकृतिनियमः स्यात्/ दृष्टो विकारधर्मित्वे प्रकृतिनियम इति
SK
********************** Nय्SBह्_२,२.५५ **********************
SK
% प्.६५२
SK
Nय्S_२,२.५५: अनियमे नियमान् नानियमः ||
SK
यो ऽयं प्रकृतेर् अनियम उक्तः स नियतो यथाविषयं व्यवस्थितो नियतत्वान् नियम इति भवति, एवं सत्य् अनियमो नास्ति, तत्र यद् उक्तं प्रकृत्यनियमाद् इति, एतद् अयुक्तम् इति
SK
********************** Nय्SBह्_२,२.५६ **********************
SK
Nय्S_२,२.५६: नियमानियमविरोधाद् अनियमे नियमाच् चाप्रतिषेधः ||
SK
नियम इत्य् अत्रार्थाभ्यनुज्ञा, अनियम इति तस्य प्रतिषेधः/ अनुज्ञातनिषिद्धयोश् च व्याघाताद् अनर्थान्तरत्वं न भवति/ अनियमश् च नियतत्वात् नियमो न भवतीति नात्रार्थस्य तथाभावः प्रतिषिध्यते/ किं तर्हि? तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वान् नियमशब्द एवोपपद्यते/ सो ऽयं नियमाद् अनियमे प्रतिषेधो न भवतीति
SK
********************** Nय्SBह्_२,२.५७ **********************
SK
% प्.६५३ न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद् वा/ किं तर्हि?
SK
Nय्S_२,२.५७: गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेशेभ्यस् तु विकारोपपत्तेर् वर्णविकाराः ||
SK
स्थान्यादेशभावाद् अप्रयोगो विकारशब्दार्थः, स भिद्यते/ गुणान्तरापत्तिः उदात्तस्यानुदात्त इत्य् एवमादिः/ उपमर्दो नाम एकरूपनिवृत्तौ रूपान्तरोपजनः/ ह्रासो दीर्घस्य ह्रस्वः/ वृद्धिर् ह्रस्वस्य दीर्घः, तयोर् वा प्लुतः/ लेशो लाघवम्, स्त इत्य् अस्तेर् विकारः/ श्लेष आगमः, प्रकृतेः प्रत्ययस्य वा/ एत एव विशेषा विकारा इति/ एत एवादेशाः, एते चेद् विकारा उपपद्यन्ते तर्हि वर्णविकारा इति
SK
********************** Nय्SBह्_२,२.५८ **********************
SK
% प्.६५४
SK
Nय्S_२,२.५८: ते विभक्त्यन्ताः पदम् ||
SK
% प्.६५६ यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति/ विभक्तिर् द्वयी---नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्/
SK
% प्.६५४
SK
Nय्S_२,२.५८: ते विभक्त्यन्ताः पदम् ||
SK
% प्.६५६ यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति/ विभक्तिर् द्वयी --- नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्/
SK
% P.६५७ उपसर्गनिपातास् तर्हि न पदसंज्ञाः लक्षणान्तरं वाच्यम् इति; शिष्यते च खलु नामिक्या विभक्तेर् अव्ययाल् लोपः तयोः पदसंज्ञार्थम् इति
SK
********************** Nय्SBह्_२,२.५९ **********************
SK
% प्.६५८ पदेनार्थसम्प्रत्यय इति प्रयोजनम्, नामपदं चाधिकृत्य परीक्षा, गौर् इति पदं खल्व् इदम् उदाहरणं तदर्थे ---
SK
% प्.६५९
SK
Nय्S_२,२.५९: व्यक्त्याकृतिजातिसन्निधाव् उपचारात् संशयः ||
SK
अविनाभाववृत्तिः सन्निधिः/ अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौर् इति प्रयुज्यते, तत्र न ज्ञायते किम् अन्यतमः पदार्थः उतैतत् सर्वम् इति//
SK
********************** Nय्SBह्_२,२.६० **********************
SK
% प्.६६० शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम्/ तस्मात् ---
SK
Nय्S_२,२.६०: याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्ताव् उपचाराद् व्यक्तिः ||
SK
व्यक्तिः पदार्थः/ कस्मात्? याशब्दप्रभृतीनां व्यक्ताव् उपचारात्/ उपचारः प्रयोगः/ या गौस् तिष्ठति या गौर् निषण्णेइति, नेदं वाक्यं जातेर् अभिधायकम् अभेदात्, भेदात् तु द्रव्याभिधायकम्/
SK
% द्रव्याभिधायकम्/] प्.६६१ गवां समूह इति भेदाद् द्रव्याभिधानं न जातेर् अभेदात्/ वैद्याय गां ददतीति द्रव्यस्य त्यागो न जातेर् अमूर्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेएश् च/ परिग्रहः स्वत्वेनाभिसम्बन्धः, कौण्डिन्यस्य गौर् ब्राह्मणस्य गौर् इति; द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेद इत्य् उपपन्नम्, अभिन्ना तु जातिर् इति/ सङ्ख्या --- दश गावो विंशतिर् गाव इति भिन्नं द्रव्यं सङ्ख्यायते, न जातिर् अभेदाद् इति/ वृद्धिः कारणवतो द्रव्यस्यावयवोपचयः अवर्धत गौर् इति; निरवयवा तु जातिर् इति/ एतेनापचयो व्याख्यातः/ वर्णः --- शुक्ला गौः कपिला गौर् इति; द्रव्यस्य गुणयोगो न सामान्यस्य/ समासः --- गोहितं गोसुखम् इति, द्रव्यस्य सुखादियोगो न जातेर् इति/ अनुबन्धः --- सरूपप्रजननसन्तानो गौर् गां जनयतीति, तदुत्पत्तिधर्मत्वाद् द्रव्ये युक्तं न जातौ विपर्ययाद् इति/ द्रव्यं व्यक्तिर् इति हि नार्थान्तरम्
SK
********************** Nय्SBह्_२,२.६१ **********************
SK
% प्.६६२ अस्य प्रतिषेधः ---
SK
Nय्S_२,२.६१: न तदनवस्थानात् ||
SK
न व्यक्तिः पदार्थः/ कस्मात्? अनवस्थानात्/ याशब्दप्रभृतिभिर् यो विशेष्यते स गोशब्दार्थो या गौस् तिष्ठति या गौर् निषण्णेति, न द्रव्यमात्रम् अविशिष्टं जात्या विनाभिधीयते/ किं तर्हि? जातिविशिष्टम्/ तस्मान् न व्यक्तिः पदार्थः / एवं समूहादिषु द्रष्टव्यम्
SK
********************** Nय्SBह्_२,२.६२ **********************
SK
यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्ताव् उपचार इति? निमित्ताद् अतद्भावे ऽपि तदुपचारः/ दृश्यते खलु ---
SK
% प्.६६३
SK
Nय्S_२,२.६२: सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तु चन्दनगङ्गाशाटकान्नपुरुषेष्व् अतद्भावे ऽपि तदुपचारः ||
SK
अतद्भावे ऽपि तदुपचार इति अतच्छब्दस्य तेन शब्देनाभिधानम् इति/ सहचरणाद् --- यष्टिकां भोजयेति, यष्तिकासहचरितो ब्राह्मणो ऽभिधीयत इति/
SK
% प्.६६४ स्थानात् --- मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते/ तादर्थ्यात् --- कटार्थेषु वीरणेषु व्युह्यमानेषु कटं करोतीति भवति/ वृतात् --- यमो राजा कुबेरो राजेति तद्वद्वर्तत इति/ मानात् --- आढकेन मिताः सक्तवः आढकसक्तव इति/ धारणात् --- तुलायां धृतं चन्दनं तुलाचन्दनम् इति/ सामीप्यात् --- गङ्गायां गावश् चरन्तीति देशो ऽभिधीयते सन्निकृष्टः/ योगात् --- कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्य् अभिधीयते/ साधनात् --- अन्नं प्राणा इति/ आधिपत्यात् --- अयं पुरुषः कुलम् अयं गोत्रम् इति/ तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्तौ प्रय्ज्यत इति
SK
********************** Nय्SBह्_२,२.६३ **********************
SK
% प्.६६५ यदि गौर् इत्य् अस्य पदस्य न व्यक्तिर् अर्थः, अस्तु तर्हि ---
SK
Nय्S_२,२.६३: आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ||
SK
आकृतिः पदार्थः/ कस्मात्? तदपेक्षत्वात् सत्त्वव्यवस्थानिसिद्धेः/ सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः, तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यत्य् अयम् गौर् अयं अश्व इति, नागृह्यमाणायाम्/ यस्य ग्रहणात् सत्त्वव्यवस्थानं सिध्यति तं शब्दो ऽभिधातुम् अर्हति सो ऽस्यार्थ इति
SK
********************** Nय्SBह्_२,२.६४ **********************
SK
तद् उपपद्यते यस्य जात्या योगस् तद् अत्र जातिविशिष्टम् अभिधीयते गौर् इति/न
SK
% प्.६६६ चावयवव्यूहस्य जात्या योगः/ कस्य तर्हि? नियतावयवव्यूहस्य द्रव्यस्य/तस्मान् नाकृतिः पदार्थः/ अस्तु तर्हि जातिः पदार्थः ---
SK
Nय्S_२,२.६४: व्यक्त्याकृतियुक्ते ऽप्य् अप्रस्ङ्गात् प्रोक्षादीनां मृदगवके जातिः ||
SK
जातिः पदार्थः/ कस्मात्? व्यक्त्याकृतियुक्ते ऽपि मृद्गवके प्रोक्षणादीनाम् अप्रसङ्गाद् इति/ गां प्रोक्षय गाम् आनय गां देहीति नैतानि मृद्गवके प्रयुज्यन्ते/ कस्मात्? जातेर् अभावात्/
SK
% -र् अभावात्/] प्.६६७ अस्ति हि तत्र व्यक्तिः अस्त्य् आकृतिः यदभावात् तत्रासम्प्रत्ययः स पदार्थ इति
SK
********************** Nय्SBह्_२,२.६५ **********************
SK
% प्.६७०
SK
Nय्S_२,२.६५: नाकृतिव्यक्त्यपेक्षत्वाज् जात्यभिव्यक्तेः ||
SK
जातेर् अभिव्यक्तिर् आकृतिव्यक्ती अपेक्षते, नागृह्यमाणायाम् आकृतौ व्यक्तौ च जातिमात्रं शुद्धं गृह्यते; तस्मान् न जातिः पदार्थ इति
SK
********************** Nय्SBह्_२,२.६६ **********************
SK
न वै पदार्थेन न भवितुं शक्यम्, कः खल्व् इदानीं पदार्थ इति?
SK
Nय्S_२,२.६६: व्यक्त्याकृतिजातयस् तु पदार्थः ||
SK
% प्.६७१ तुशब्दो विशेषणार्थः/ किं विशिष्यते? प्रधानाङ्गभावस्यानियमेन पदार्थत्वम् इति/ यदा हि भेदविवक्षा विशेषगतिश् च तदा व्यक्तिः प्रधानम् अङ्गं तु जात्याकृती/ यदा तु भेदो ऽविवक्षितः सामान्यगतिश् च, तदा जातिः प्रधानम् अङ्गं तु व्यक्त्याकृती/ तद् एतद् बहुलं प्रयोगेषु/ आकृतेस् तु प्रधानभाव उत्प्रेक्षितव्यः
SK
********************** Nय्SBह्_२,२.६७ **********************
SK
% प्.६८९ कथं पुनर् ज्ञायते नाना व्यक्त्याकृतिजातय इति? लक्षणभेदात्/ तत्र तावत् ---
SK
Nय्S_२,२.६७: व्यक्तिर् गुणविशेषाश्रयो मूर्तिः ||
SK
% प्.६९० व्यज्यत इति व्यक्तिर् इन्द्रियग्राह्येति न सर्वं द्रव्यं व्यक्तिः/ यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणाम् अव्यापिनः परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यं मूर्तिः मूर्च्छितावयवत्वाद् इति
SK
********************** Nय्SBह्_२,२.६८ **********************
SK
% प्.६९१
SK
Nय्S_२,२.६८: आकृतिर् जातिलिङ्गाख्या ||
SK
यया जातिर् जातिलिङ्गानि च प्रख्यायन्ते ताम् आकृतिं विद्यात्/ सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद् व्यूहाद् इति/
SK
% सत्त्वावयवानां ... इति/] प्.६९२ नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम्, शिरसा पादेन गाम् अनुमिन्वन्ति/ नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति/ अनाकृतिव्यङ्ग्यायां जातौ मृत्सुवर्णं रजतम् इत्य् एवमादिष्व् आकृतिर् निवर्तते जहाति पदार्थत्वम् इति
SK
********************** Nय्SBह्_२,२.६९ **********************
SK
% प्.६९३
SK
Nय्S_२,२.६९: समानप्रसवात्मिका जातिः ||
SK
या समानं बुद्धिं प्रसूते भिन्नेष्व् अधिकरणेषु, यया बहूनीतेरेतरतो न व्यावर्तन्ते यो ऽर्थो ऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम्/ यच् च केषाञ्चिद् अभेदं कुतश्चिद् भेदं करोति तत् सामान्यविशेषो जातिर् इति
SK
इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयम् आह्निकम्//
SK
समाप्तश् चायं द्वितीयो ऽध्यायः
SK
% प्.६९७ तृतीयो ऽध्यायः प्रथमाह्निकम्/
SK
********************** Nय्SBह्_३,१.१ **********************
SK
परीक्षितानि प्रमाणानि, प्रमेयम् इदानीं परीक्ष्यते/ तच् चात्मादीत्य् आत्मा विविच्यते, किं देहेन्द्रियमनोबुद्धिवेदनासङ्घातमात्रम् आत्मा आहोस्वित् तद्वयतिरिक्त इति /
SK
% प्.६९८ कुतः संशयः व्यपदेश्योभयथा सिद्धेः/ क्रियाकरणयोः कर्त्रा सम्बन्धस्याभिधानं व्यपदेशः/
SK
% व्यपदेशः/] प्.७०९ स द्विविधः, अवयवेन समुदायस्य --- मूलैर् वृक्षस् तिष्ठति, स्तम्भैः प्रासादो ध्रियत इति/ अन्येनान्यस्य व्यपदेशः --- परशुना वृश्चति, प्रदीपेन पश्यति/ अस्ति चायं व्यपदेशः चक्षुषा पश्यति मनसा विजानाति बुद्ध्या विचारयति शरीरेण सुखदुःखम् अनुभवतीति / तत्र नावधार्यते किम् अवयवेन समुदायस्य देहादिसङ्घातस्य, अथान्येनान्यस्य तद्व्यतिरिक्तस्य वेति//
SK
% प्.७१० अन्येनायम् अनयस्य व्यपदेशः/ कस्मात्?
SK
Nय्S_३,१.१: दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् ||
SK
दर्शनेन कश्चिद् अर्थो गृहीतः स्पर्शनेनापि सो ऽर्थो गृह्यते --- यम् अहम् अद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामीति, यं चास्पार्क्षं स्पर्शनेन तं चक्षुषा पश्यामीति/ एकविषयौ चेमौ प्रत्ययाव् एककर्तृकौ प्रतिसन्धीयेते,
SK
% चेमौ प्रत्ययाव् ...] प्.७११ न च सङ्घातकर्तृकौ, नेन्द्रियेणैककर्तृकौ/ तद् यो ऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्ताव् अन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसन्दधाति सो ऽर्थान्तरभूत आत्मा/
SK
% यो ऽसौ चक्षुषा ...] प्.७१२ कथं पुनर् नेन्द्रियेणैककर्तृकौ? इन्द्रियं खलु स्वस्वविषयग्रहणम् अनन्यकर्तृकं प्रतिसन्धातुम् अर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणम् इति/ कथं न सङ्घातकर्तृकौ? एकः खल्व् अयं भिन्ननिमित्तौ स्वात्मकर्तृकौ पर्ययौ प्रतिसंहितौ वेदयते न सङ्घातः/ कस्मात्? अनिवृत्तं हि सङ्घाते प्रत्येकं विषयान्तरग्रहणस्याप्रतिसन्धानम् इन्द्रियान्तरेणेवेति
SK
********************** Nय्SBह्_३,१.२ **********************
SK
Nय्S_३,१.२: न विषयव्यवस्थानात् ||
SK
न देहादिसङ्घाताद् अन्यश् चेतनः/ कस्मात्? विषयव्यवस्थानात्/ व्यवस्थितविषयाणीन्द्रियाणि, चक्षुष्य् असति रूपं न गृह्यते सति च गृह्यते/ यच् च यस्मिन्न् असति न भवति सति भवति तस्य तद् इति विज्ञायते/
SK
% भवति सति भवति ...] प्.७१३ तस्माद् रूपग्रहणं चक्षुषः, चक्षू रूपं पश्यति/ एवं घ्राणादिष्व् अपीति/ तानीन्द्रियाणीमानि स्वस्वविषयग्रहणाच् चेतनानि इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावात्/ एवं सति किम् अन्येन चेतनेन? सन्धिग्धत्वाद् अहेतुः --- यो ऽयम् इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावः, स किं चेतनत्वात्, आहोस्विच् चेतनोपकरणानां ग्रहणनिमित्तत्वाद् इति सन्दिह्यते/ चेतनोपकरणत्वे ऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद् भवितुम् अर्हति
SK
********************** Nय्SBह्_३,१.३ **********************
SK
यच् चोक्तं विषयव्यवस्थानद् इति ---
SK
% प्.७१४
SK
Nय्S_३,१.३: तद्व्यवस्थानाद् एवात्मसद्भावाद् अप्रतिषेधः ||
SK
यदि खल्व् एकम् इन्द्रियम् अव्यवस्थितविषयं सर्वज्ञं सर्वविषयग्राहि चेतनं स्यात् कस् ततो ऽन्यं चेतनम् अनुमातुं शक्नुयात्? यस्मात् तु व्यवस्थितविषयाणीन्द्रियाणि तस्मात् तेभ्यो ऽन्यश् चेतनः सर्वज्ञः सर्वविषयग्राही विषयव्यवस्थितम् अतीतो ऽनुमीयते/ तत्रेदम् अभिज्ञानम् अप्रत्याख्येयं चेतनवृत्तम् उदाह्रियते/ रूपदर्शी खल्व् अयं रसं गन्धं वा पूर्वगृईतम् अनुमिनोति/ गन्धप्रतिसंवेदी च रूपरसाव् अनुमिनोति/ एवं विषयशेषे ऽपि वाच्यम्/ रूपं दृष्ट्वा (एमेन्द्.; दृष्टा, एद्.) गन्धं जिघ्रति, घ्रात्वा च गन्धं रूपं पश्यति/ तद् एवम् अनियतपर्यायं सर्वविषयग्रहणम् एकचेतनाधिकरणम् अनन्यकर्तृकं प्रतिसन्धत्ते,
SK
% सर्वविषयग्रहणम् ...] प्.७१५ प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश् च नानाविषयान् स्वात्मकर्तृकान् प्रतिसन्धाय वेदयते, सर्वविषयं च शास्त्रं प्रतिपद्यते, अर्थम् अविषयभूतं श्रोत्रस्य क्रमभाविनो वर्णान् श्रुत्वा पदवाक्यभावेन प्रतिसन्धाय शब्दार्थव्यवस्थां च बुध्यमानो ऽनेकविषयम् अर्थजातम् अग्रहणीयम् एकैकेनेन्द्रियेण गृह्णाति/ सेयं सर्वज्ञस्य ज्ञेयाव्यवस्थानुपदं न शक्या परिक्रमितुम्/ आकृतिमात्रं तूदाहृतम्/ तत्र यद् उक्तम् इन्द्रियचैतन्ये सति किम् अनेय चेतनेन तद् अयुक्तं भवति
SK
********************** Nय्SBह्_३,१.४ **********************
SK
% प्.७१६ इतश् च देहादिव्यतिरिक्त आत्मा, न देहादिसङ्घातमात्रम्
SK
Nय्S_३,१.४: शरीरदाहे पातकाभावात् ||
SK
शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासङ्घातः प्राणिभूतो गृह्यते/ प्राणिभूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकम् इत्य् उच्यते; तस्याभावः, तत्फलेन कर्तुर् असम्बन्धात्, अकर्तुश् च सम्बन्धात्/ शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्व् अन्यः सङ्घात उत्पद्यते अन्यो निरुध्यते,
SK
% निरुध्यते,] प्.७१७ उत्पादनिरोधसन्ततिभूतः प्रबन्धो नान्यत्वं बाधते देहादिसङ्घातस्यान्यत्वाधिष्ठानत्वात्/ अन्यत्वाधिष्ठानो ह्य् असौ प्रख्यायत इति/ एवं च सति यो देहादिसङ्घातः प्राणिभूतो हिंसां करोति नासौ हिंसाफलेन सम्बध्यते, यश् च सम्बध्यते न तेन हिंसा कृता/ तद् एवं सत्त्वभेदे कृतहानम् अकृताभ्यागमः प्रसज्यते/ सति च सत्त्वोत्पादे सत्त्वनिरोधे चाकर्मनिमित्तः सत्त्वसर्सर्गः प्राप्नोति, तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात्/ तद् यदि देहादिसङ्घातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत्, अनिष्टं चैतत्/ तस्माद् देहादिसङ्घातव्यतिरिक्त आत्मा नित्य इति
SK
********************** Nय्SBह्_३,१.५ **********************
SK
% प्.७२०
SK
Nय्S_३,१.५: तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वात् ||
SK
यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद् दग्धुः/
SK
% न भवेद् दग्धुः/] प्.७२१ कस्मात्? नित्यत्वाद् आत्मनः; न जातु कश्चिन् नित्यं हिंसितुम् अर्हति/ अथ हिंस्यते, नित्यत्वम् अस्य न भवति/ सेयम् एकस्मिन् पक्षे हिंसा निष्फला अन्यस्मिंस् त्व् अनुपपन्नेति
SK
********************** Nय्SBह्_३,१.६ **********************
SK
% प्.७२४
SK
Nय्S_३,१.६: न, कार्याश्रयकर्तृवधात् ||
SK
न ब्रूमो नित्यस्य सत्त्वस्य बधो हिंसा, अपि त्व् अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणाम् उपघातः पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो वा वधो हिंसेति/ कार्यं तु सुखदुःखसंवेदनं तस्यायतनम् अधिष्ठानम् आश्रयः शरीरम्,
SK
% तस्यायतनम् अधिष्ठानम् ...] प्.७२५ कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणां बधो हिंसा, न नित्यस्यात्मनः/ तत्र यद् उक्तम् --- ``तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वाद्ऽऽ इत्य् एतद् अयुक्तम्/ यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानम् अकृताभ्यागमश् चेति दोषः/ एतावच् चैतत् स्यात् --- सत्त्वोच्छेदो वा हिंसा, अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो वा; न कल्पान्तरम् अस्ति/ सत्त्वोच्छेदश् च प्रतिषिद्धः, तत्र किम् अन्यत्? शेषं यथाभूतम् इति/ अथ वा कार्याश्रयकर्तृवधाद् इति, कार्याश्रयो देहेन्द्रियबुद्धिसङ्घातः, नित्यस्यात्मनस् तत्र सुखदुःखप्रतिसंवेदनम्, तस्याधिष्ठानम् आश्रयः तदायतनं तद् भवति न ततो ऽन्यद् इति स एव कर्ता/ तन्निमित्ता हि सुखदुःखसंवेदनस्य निवृत्तिः न तम् अन्तरेणेति/ तस्य वध उपघातः पीडा प्रमापणम् वा हिंसा न नित्यत्वेनात्मोच्छेदः/ तत्र यद् उक्तम् --- ``तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वात्ऽऽ एतन् नेति
SK
********************** Nय्SBह्_३,१.७ **********************
SK
% प्.७२६ इतश् च देहादिव्यतिरिक्त आत्मा ---
SK
Nय्S_३,१.७: सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ||
SK
पूर्वपरयोर् विज्ञानयोर् एकविषये प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् --- तम् एवैतर्हि पश्यामि यम् अज्ञासिषम् स एवायम् अर्थ इति सव्येन चक्षुषा दृष्टस्येतरेणापि चक्षुषा प्रत्यभिज्ञानाद् यम् अद्राक्षं तम् एवैतर्हि पश्यामीति/
SK
% यम् अद्राक्षं ...] प्.७२७ इन्द्रियचैतन्ये तु नान्यदृष्टम् अन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिः/ अस्ति त्व् इदं प्रत्यभिज्ञनम् तस्माद् इन्द्रियव्यतिरिक्तश् चेतनः
SK
********************** Nय्SBह्_३,१.८ **********************
SK
% प्.७२८
SK
Nय्S_३,१.८: नैकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् ||
SK
एकम् इदं चक्षुर् मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतो मध्यव्यवहितस्य दीर्घस्येव
SK
********************** Nय्SBह्_३,१.९ **********************
SK
% प्.७२९
SK
Nय्S_३,१.९: एकविनाशे द्वितीयाविनाशान् नैकत्वम् ||
SK
एकस्मिन्न् उपहते चोद्धृते वा चक्षुषि द्वितीयम् अवतिष्ठते चक्षुःविषयग्रहणलिङ्गम्, तस्माद् एकस्य व्यवधानानुपपत्तिः
SK
********************** Nय्SBह्_३,१.१० **********************
SK
Nय्S_३,१.१०: अवयवनाशे ऽप्य् अवयव्युपलब्धेर् अहेतुः ||
SK
एकविनाशे द्वितीयाविनाशाद् इत्य् अहेतुः/ कस्मात्? वृक्षस्य हि कासुचिच् छाखासु छिन्नासूपलभ्यते एव वृक्षः
SK
********************** Nय्SBह्_३,१.११ **********************
SK
% प्.७३०
SK
Nय्S_३,१.११: दृष्टान्तविरोधाद् अप्रतिषेधः ||
SK
न कारणद्रव्यस्य विभागे कार्यद्रव्यम् अवतिष्टते नित्यत्वप्रसङ्गात्/ बहुष्व् अवयविषु यस्य कारणानि विभक्तानि तस्य विनाशः, येषां कारणान्य् अविभक्तानि तानि अवतिष्ठन्ते/ अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः/ मृतस्य हि शिरःकपाले द्वाव् अवटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते न चैतद् एकस्मिन् नासास्थिव्यवहिते सम्भवति/ अथ वा एकविनाशस्यानियमाद् द्वाव् इमाव् अर्थौ, तौ च पृथगावरणोपघातौ अनुमीयेते विभिन्नव् इति/
SK
% अनुमीयेते विभिन्नव् इति/] प्.७३१ अवपीडनाच् चैकस्य चक्षुषो रश्मिविषयसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते; तच् चैकत्वे विरुध्यते; अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानम् इति/ तस्माद् एकस्य व्यवधानानुपपत्तिः
SK
********************** Nय्SBह्_३,१.१२ **********************
SK
अनुमीयते चायं देहादिसङ्घातव्यतिरिक्तश् चेतन इति ---
SK
% प्.७३२
SK
Nय्S_३,१.१२: इन्द्रियान्तरविकारात् ||
SK
कस्यचिद् अम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केनचिद् इन्द्रियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारः रसानुस्मृतौ रसगर्धिवर्तितो दन्तोदकसंप्लवभूतो गृह्यते/ तस्येन्द्रियचैतन्ये ऽनुपपत्तिः, नान्यदृष्टम् अन्यः स्मरति
SK
********************** Nय्SBह्_३,१.१३ **********************
SK
% प्.७३३
SK
Nय्S_३,१.१३: न स्मृतेः स्मर्तव्यविषयत्वात् ||
SK
स्मृतिर् नाम धर्मो निमित्ताद् उत्पद्यते, तस्याः स्मर्तव्यो विषयः, तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति
SK
********************** Nय्SBह्_३,१.१४ **********************
SK
Nय्S_३,१.१४: तदात्मगुणसद्भावाद् अप्रतिषेधः ||
SK
तस्या आत्मगुणत्वे सति सद्भावाद् अप्रतिषेध आत्मनः/ यदि स्मृतिर् आत्मगुणः, एवं सति स्मृतिर् उपपद्यते नान्यद् दृष्टम् अन्यः समरतीति/ इन्द्रियचैतन्ये तु नानाकर्तृकाणां विषयग्रहणानाम् अप्रतिसन्धानम्, प्रतिसन्धाने वा विषयव्यवस्थानुपपत्तिः/ एकस् तु चेतनो ऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टम् अर्थम् स्मरतीति एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् स्मृतेर् आत्मगुणत्वे सति सद्भावः विपर्यये चानुपपत्तिः/
SK
% -प्रतिसन्धानात् स्मृतेर् ...] प्.७३४ स्मृत्याश्रयाः प्राणभृतां सर्वे व्यवहाराः/ आत्मलिङ्गम् उदाहरणमात्रम् इन्द्रियान्तरविकार इति/ अपरिसङ्ख्यानाश् च स्मृतिविषयस्य --- अपरिसङ्घ्याय च स्मृतिविषयम् इदम् उच्यते ``न स्मृतेः स्मर्तव्यविषयत्वाद्ऽऽ इति/ येयं स्मृतिर् अगृह्यमाणे ऽर्थे अज्ञासिषम् अहम् अमुम् अर्थम् इति, एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातो ऽर्थो विषयो नार्थमात्रम्, ज्ञातवान् अहम् अमुम् अर्थम्,
SK
% प्.७३५ असव् अर्थो मया ज्ञतः, अस्मिन्न् अर्थे मम ज्ञानम् अभूद् इति चतुर्विधम् एतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम्/ सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते/ अथ प्रत्यक्षे ऽर्थे या स्मृतिस् तया त्रीणि ज्ञानानि एकस्मिन्न् अर्थे प्रतिसन्धीयन्ते समानकर्तृकाणि, न नानाकर्तृकाणि नाकर्तृकाणि/ किं तर्हि? एककर्तृकाणि/ अद्राक्षम् अमुम् अर्थं यम् एवैतर्हि पश्यामि/ अद्राक्षम् इति दर्शनं दर्शनसंविच् च, न खल्व् असंविदिते स्वे दर्शने स्याद् एतद् अद्रक्षम् इति/ ते खल्व् एते द्वे ज्ञाने, यम् एवैतर्हि पश्यामीति तृतीयं ज्ञानम्, एवम् एको ऽर्थस् त्रिभिर् ज्ञानैर् युज्यमानो नाकर्तृको न नानाकर्तृकः किं तर्हि?
SK
% -स् त्रिभिर् ज्ञानैर् ...] प्.७३६ एककर्तृक इति/ सो ऽयं स्मृतिविषयो ऽपरिसङ्ख्यायमानो विद्यमानः प्रज्ञातो ऽर्थः प्रतिषिध्यते --- नास्त्य् आत्मा स्मृतेः स्मर्तव्यविषयत्वाद् इति/ न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयम् वा इदं खलु ज्ञानप्रतिसन्धानवत् स्मृतिप्रतिसन्धानम् एकस्य सर्वविषयत्वात्/ एको ऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसन्धत्ते अमुम् अर्थं ज्ञास्यामि अमुम् अर्थम् विजानाम्य् अमुम् अर्थम् अज्ञासिषम् अमुम् अर्थं जिज्ञासमानश् चिरम् अज्ञात्वाध्यवस्यत्य् अज्ञासिषम् इति/ एवं स्मृतिम् अपि त्रिकालविशिष्टां सुष्मूर्षाविशिष्टां च प्रतिसन्धत्ते/ संस्कारसन्ततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास् तिरोभवन्ति/ स नास्त्य् एको ऽपि संस्कारो यस् त्रिकालविशिष्टं ज्ञानं स्मृतिं चानुभवेत्/ न चानुभवम् अन्तरेण ज्ञानस्य स्मृतेश् च प्रतिसन्धानम् अहं ममेति चोत्पद्यते देहान्तरवत्/ अतो ऽनुमीयते अस्त्य् एकः सर्वविषयः प्रतिदेहं स्वज्ञानप्रबन्धं स्मृतिप्रबन्धं च प्रतिसन्धत्त इति, यस्य देहान्तरेषु वृत्तेर् अभावान् न प्रतिसन्धानं भवतीति
SK
********************** Nय्SBह्_३,१.१५ **********************
SK
% प्.७३७
SK
Nय्S_३,१.१५: नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ||
SK
न देहादिसङ्घातव्यतिरिक्त आत्मा/ कस्मात्? आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ---``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽ इत्य् एवमादीनाम् आत्मप्रतिपादकानां हेतूनां मनसि सम्भवो यतः, मनो हि सर्वविषयम् इति/ तस्मान् न शरीरेन्द्रियमनोबुद्धिसङ्घातव्यतिरिक्त आत्मेति
SK
********************** Nय्SBह्_३,१.१६ **********************
SK
Nय्S_३,१.१६: ज्ञातुर् ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ||
SK
ज्ञातुः खलु ज्ञानसाधनान्य् उपपद्यन्ते --- चक्षुषा पश्यति घ्राणेन जिघ्रति स्पर्शनेन स्पृशति, एवं मन्तुः सर्वविषयस्य मतिसाधनम् अन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यत इति/ एवं सति ज्ञातर्य् आत्मसंज्ञा न मृष्यते मनःसंज्ञाभ्यनुज्ञायते/ मनसि च मनःसंज्ञा न मृष्यते मतिसाधनं त्व् अभ्यनुज्ञायते/ तद् इदं संज्ञाभेदमात्रं नार्थे विवाद इति/
SK
% प्.७३८ प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङः/ अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते नास्तीति, एवं रूपादिविषयग्रहणसाधनान्य् अपि न सन्तीति सर्वेन्द्रियविलोपः प्रसज्यत इति
SK
********************** Nय्SBह्_३,१.१७ **********************
SK
Nय्S_३,१.१७: नियमश् च निरनुमानः ||
SK
यो ऽयम् नियम इष्यते, रूपादिग्रहणसाधनान्य् अस्य सन्ति, मतिसाधनं सर्वविषयं नास्तीति, अयं नियमो निरनुमानः/ नात्रानुमानम् अस्ति येन नियमं प्रतिपद्यामह इति/ रूपादिभ्यश् च विषयान्तरं सुखादयस् तदुपलब्धौ करणान्तरसद्भावः/ यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणम् एवं चक्षुर् घ्राणाभ्यां रसो न गृह्यत इति करणान्तरं रसनम्/ एवं शेषेष्व् अपि/ तथा चक्षुरादिभिः सुखादयो न गृह्यन्त इति करणान्तरेण भवितव्यम्/
SK
% कारणान्तरेण भवितव्यम्/] प्.७३९ तच् च ज्ञानायौगपद्यलिङ्गम्/ यच् च सुखाद्युपलब्धौ करणं तच् च ज्ञानायौगओअद्यलिङ्गं तस्येन्द्रियम् इन्द्रियं प्रति सन्निधेर् असन्निधेः च न युगपज् ज्ञानान्य् उत्पद्यन्त इति/ तत्र यद् उक्तम् ``आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्ऽऽ इति तद् अयुक्तम्
SK
********************** Nय्SBह्_३,१.१८ **********************
SK
% प्.७४० किं पुनर् अयं देहादिसङ्घाताद् अन्यो नित्यः उतानित्य इति/ कुतः संशयः? उभयथा दृष्टत्वात् संशयः/ विद्यमानम् उभयथा भवति नित्यम् अनित्यं च/ प्रतिपादिते च आत्मसद्भावे संशयानिवृत्तिर् इति/
SK
% प्.७४१ आत्मसद्भावहेतुभिर् एवास्य प्राग् देहभेदाद् अवस्थानं सिद्धम् ऊर्द्ध्वम् अपि देहभेदाद् अवतिष्ठते/ कुतः?
SK
Nय्S_३,१.१८: पूर्वाभ्यस्तस्मृत्यनुबन्धाज् जातस्य हर्षभयशोकसम्प्रतिपत्तेः ||
SK
जातः खल्व् अयं कुमारको ऽस्मिन् जन्मन्य् अगृहीतेषु हर्षभयशोकहेतुषु हर्षभयशोकान् प्रतिपद्यते लिङ्गानुमेयान्/ ते च स्मृत्यनुबन्धाद् उत्पद्यन्ते नान्यथा/ स्मृत्यनुबन्धश् च पूर्वाभ्यासम् अन्तरेण न भवति/ पूर्वाभ्यासश् च पूर्वजन्मनि सति, नान्यथेति सिध्यत्य् एतत् अवतिष्ठते ऽयम् ऊर्ध्वं शरीरभेदाद् इति
SK
********************** Nय्SBह्_३,१.१९ **********************
SK
% प्.७४३
SK
Nय्S_३,१.१९: पद्मादिषु प्रबोधसम्मीलनविकारवत् तत्विकारः ||
SK
यथा पद्मादिष्व् अनित्येषु प्रबोधः सम्मीलनं विकारो भवति एवम् अनित्यस्यात्मनो हर्षभयशोकसम्प्रतिपत्तिर् विकारः स्यात्/ हेत्वभावाद् अयुक्तम् --- अनेन हेतुना पद्मादिषु प्रबोधसम्मीलनविकारवद् अनित्यस्यात्मनो हर्षादिसम्प्रतिपत्तिर् इति नात्रोदाहरणसाधर्म्यात् साध्यसाधनं हेतुर् न वैधर्म्याद् अस्ति हेत्वभावात् असम्बद्धार्थकम् अपार्थकम् उच्यत इति/
SK
% प्.७४४ दृष्टान्ताच् च हर्षादिनिमित्तस्यानिवृत्तिः --- या चेयम् आसेवितेषु विषयेषु हर्षादिसम्प्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मनं गृह्यते सेयं पद्मादिसम्मीलनदृष्टान्तेन न निवर्तते/ यथा चेयं न निवर्त्तते तथा जातस्यापीति/ क्रियाजातौ च पर्णविभागसंयोगौ प्रबोधसम्मीलने, क्रियाहेतुश् च क्रियानुमेयः/ एवं च सति किं दृष्टान्तेन प्रतिषिध्यते
SK
********************** Nय्SBह्_३,१.२० **********************
SK
अथ निर्निमित्तः पद्मादिषु प्रबोधसम्मीलनविकार इति मतम् एवम् आत्मनो ऽपि हर्षादिसम्प्रतिपत्तिर् इति/ तच् च ---
SK
Nय्S_३,१.२०: नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ||
SK
उष्णादिषु सत्सु भावाद् असत्स्व् अभावात् तन्निमित्ताः पञ्चभूतानुग्रहेण निवृत्तानां पद्मादीनां प्रबोधसम्मीलनविकारा इति न निर्निमित्ताः/ एवं हर्षादयो ऽपि विकारा निमित्तद् भवितुम् अर्हन्ति न निमित्तम् अन्तरेण/
SK
% निमित्तद् भवितुम् अर्हन्ति ...] प्.७४५ न चान्यत् पूर्वाभ्यस्तस्मृत्यनुबन्धान् निमित्तम् अस्तीति/ न चोत्पत्तितिरोधकारणानुमानम् आत्मनो दृष्टान्तात्, न हर्षादीनां निमित्तम् अन्तरेणोत्पत्तिः, नोष्णादिवन् निमित्तान्तरोपादानं हर्षादीनाम्, तस्माद् अयुक्तम् एतत्
SK
********************** Nय्SBह्_३,१.२१ **********************
SK
इतश् च नित्य आत्मा ---
SK
Nय्S_३,१.२१: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ||
SK
जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते/ स च नान्तरेणाहाराभ्यासम्/ कया युक्त्या? दृश्यते हि शरीरिणां क्षुधा पीड्यमानानाम् आहाराभ्यासकृतात् स्मरणानुबन्धाद् आहाराभिलाषः/ न च पूर्वशरीराभ्यासम् अन्तरेणासौ जातमात्रस्योपपद्यते/
SK
% जातमात्रस्योपपद्यते/] प्.७४६ तेनानुमीयते भूतपूर्वं शरीरं यत्रानेनाहारो ऽभ्यस्त इति/ स खल्व् अयम् आत्मा पूर्वशरीरात् प्रेत्य शरीरान्तरम् आपन्नः क्षुत्पीडितः पूर्वाभ्यस्तम् आहारम् अनुस्मरन् स्तन्यम् अभिलषति/ तस्मान् न देहभेदाद् आत्मा भिद्यते भवत्य् एवोर्द्ध्वं देहभेदाद् इति
SK
********************** Nय्SBह्_३,१.२२ **********************
SK
Nय्S_३,१.२२: अयसो ऽयस्कान्ताभिगमनवत् तदुपसर्पणम् ||
SK
यथा खल्व् अयो ऽभ्यासम् अन्तरेणायस्कान्तम् उपसर्पति, एवम् आहाराभ्यासम् अन्तरेण बालः स्तन्यम् अभिलषति
SK
********************** Nय्SBह्_३,१.२३ **********************
SK
% प्.७४७ किम् इदम् अयसो ऽयस्कान्ताभिसर्पणं निर्निमित्तम् अथ निमित्ताद् इति? निर्निमित्तं तावत् ---
SK
Nय्S_३,१.२३: नान्यत्र प्रवृत्त्यभावात् ||
SK
यदि निर्निमित्तम्, लोष्टादयो ऽप्य् अयस्कान्तम् उपसर्पेयुः/ न जातु नियमे कारणम् अस्तीति/ अथ निमित्तात्, तत् केनोपलभ्यते इति/ क्रियालिङ्गः क्रियाहेतुः, क्रियानियमलिङ्गश् च क्रियाहेतुनियमः, तेनान्यत्र प्रवृत्त्यभावः, बालस्यापि नियतम् उपसर्पणक्रियोपलभ्यते/ न च स्तन्याभिलाषलिङ्गम् अन्यद् आहाराभ्यासकृतात् स्मरणाउबन्धात्/ निमित्तं दृष्टान्तेनोपपाद्यते,
SK
% दृष्टान्तेनोपपाद्यते,] प्.७४८ न चासति निमित्ते कस्यचिद् उत्पत्तिः/ न च दृष्टान्तो दृष्टम् अभिलाषहेतुं बाधते/ तस्माद् अयसो ऽयस्कान्ताभिगमनम् अदृष्टान्त इति/ अयसः खल्व् अपि नान्यत्र प्रवृत्तिर् भवति, न जात्व् अयो लोष्टम् उपसर्पति, किंकृइतो ऽस्य नियम इति? यदि कारणनियमात्, स च क्रियानियमलिङ्गः/ एवं बालस्यापि नियतविषयो ऽभिलाषः कारणनियमाद् भवितुम् अर्हति/ तच् च कारणम् अभ्यस्तस्मरणम् अन्यद् वेति दृष्टेन विशिष्यते/ दृष्टो हि शरीरिणाम् अभस्तस्मरणाद् आहाराभिलाष इति
SK
********************** Nय्SBह्_३,१.२४ **********************
SK
इतश् च नित्य आत्मा/ कस्मात्? ---
SK
Nय्S_३,१.२४: वीतरागजन्मादर्शनात् ||
SK
सरागो जायत इत्य् अर्थाद् आपद्यते/ अयं जायमानो रागानुभद्धो जायते, रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः, पूर्वानुभवश् च विषयाणाम् अन्यस्मिन् जन्मनि शरीरम् अन्तरेण नोपपद्यते/
SK
% शरीरम् अन्तरेण नोपपद्यते/] प्.७४९ सो ऽयम् आत्मा पूर्वशरीरानुभूतान् विषयान् अनुस्मरन् तेषु तेषु रज्यते, तथा चायं द्वयोर् जन्मनोः प्रतिसन्धिः/ एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरस्य पूर्वतमेनेत्यादिनानादिश् चेतनस्य शरीरयोगः, अनादिश् च रागानुबन्ध इति सिद्धं नित्यत्वम् इति
SK
********************** Nय्SBह्_३,१.२५ **********************
SK
% प्.७५० कथं पुनर् ज्ञायते पूर्वानुभूतविषयानुचिन्तनजनितो जातस्य रागः, न पुनः ---
SK
Nय्S_३,१.२५: सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः ||
SK
अथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिद् उत्पद्यते/ अत्रायम् उदितानुवादो निदर्शनार्थः
SK
********************** Nय्SBह्_३,१.२६ **********************
SK
Nय्S_३,१.२६: न, सङ्कल्पनिमित्तत्वाद् रागादीनाम् ||
SK
न खलु सगुणद्रव्योत्पत्तिवद् उत्पत्तिर् आत्मनो रागस्य च/ कस्मात्? सङ्कल्पनिमित्तत्वाद् रागादीनाम्/ अयं खलु प्राणिनां विषयान् आसेवमानानां सङ्कल्पजनितो रागो गृह्यते, सङ्कल्पश् च पूर्वानुभूतविषयानुचिन्तनयोनिः/ तेनानुमीयते जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति/ आत्मोत्पादाधिकरणात् तु रागोत्पत्तिर् भवन्ती सङ्कल्पाद् अन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत्/ न चात्मोत्पादः सिद्धो नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति/
SK
% नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति/] प्.७५१ तस्माद् अयुक्तं सगुणद्रव्योत्पत्तिवत् तयोर् उत्पत्तिर् इति/ अथापि सङ्कल्पाद् अन्यद् रागकारणं धर्माधर्मलक्षणम् अदृष्टम् उपादीयते, तथापि पूर्वशरीरयोगो ऽप्रत्याख्येयः/ तत्र हि तस्य निर्वृत्तिः नास्मिन् जन्मनि/ तन्मयत्वाद् राग इति/ विषयाभ्यासः खल्व् अयं भावनाहेतुः तन्मयत्वम् उच्यते इति/ जातिविशेषाच् च रागविशेष इति/ कर्म खल्व् इदं जातिविशेषनिर्वर्तकं तादर्थ्यात् ताच्छब्द्यं विज्ञायते/ तस्माद् अनुपपन्नं सङ्कल्पाद् अन्यद् रागकारणम् इति
SK
********************** Nय्SBह्_३,१.२७ **********************
SK
% प्.७५२ अनादिश् चेतनस्य शरीरयोग इत्य् उक्तम्, स्वकृतकर्मनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानम्/ तत् परीक्ष्यते --- किं घ्राणादिवद् एकप्रकृतिकम् उत नानाप्रकृतीति/ कुतः संशयः? विप्रतिपत्तेः संशयः/ पृथिव्यादीनि भूतानि सङ्ख्याविकल्पेन शरीरप्रकृतिर् इति प्रतिजानत इति/ किं तत्र तत्त्वम्?
SK
% प्.७५३
SK
Nय्S_३,१.२७: पार्थिवं गुणान्तरोपलब्धेः ||
SK
तत्र मानुषं पार्थिवम्/ कस्मात्? गुणान्तरोपलब्धेः/ गन्धवती पृथिवी गन्धवच् च शरीरम्/ अबादीनाम् अगन्धत्वात् तत्प्रकृत्यगन्धं स्यात्/ न त्व् इदम् अबादिभिर् असम्पृक्तया पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्य् अतः पञ्चानां भूतानां संयोगे सति शरीरं भवति/ भूतसंयोगो हि मिथः पञ्चानां न निषिद्ध इति/ आप्यतैजसवायव्यानि लोकान्तरे शरीराणि तेष्व् अपि भूतसंयोगः पुरुषार्थतन्त्र इति/ स्थाल्यादिद्रव्यनिष्पत्ताव् अपि निःसंशयो नाबादिसंयोगम् अन्तरेन निष्पत्तिर् इति
SK
********************** Nय्SBह्_३,१.२८-३० **********************
SK
% प्.७५४
SK
Nय्S_३,१.२८: पार्थिवाप्यतैजसं तदगुणोपलब्धेः ||
SK
Nय्S_३,१.२९: निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम् ||
SK
Nय्S_३,१.३०: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ||
SK
त इमे सन्दिग्धा हेतव इत्य् उपेक्षितवान् सूत्रकारः/ कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिर् असति च संयोगाप्रतिषेधात् सन्निहितानाम् इति, यथा स्थाल्याम् उदकतेजोवाय्वाकाशानाम् इति/ तद् इदम् अनेकभूतप्रकृति शरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,
SK
% -म् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,] प्.७५५ न त्व् इदम् इत्थम्भूतम्/ तस्मात् ``पार्थिवं गुणान्तरोपलब्धेःऽऽ//२८-२९-३०//
SK
********************** Nय्SBह्_३,१.३१ **********************
SK
% प्.७५६
SK
Nय्S_३,१.३१: श्रुतिप्रामाण्याच् च ||
SK
``सूर्यं ते चक्षुर्गच्छताद्ऽऽ इत्य् अत्र मन्त्रे ``पृथिवीं ते शरीरम्ऽऽ इति श्रूयते/ तद् इदं प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति/
SK
% प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति/] प्.७५७ ``सूर्यं ते चक्षुः स्पृणोमिऽऽ इत्य् अत्र मन्त्रान्तरे ``पृथिवीं ते शरीरं स्पृणोमीतिऽऽ श्रूयते/ सेयं कारणाद् विकारस्य स्पृतिर् अभिधीयत इति/ स्थाल्यादिषु च तुल्यजातीयानाम् एककार्यारम्भदर्शनाद् भिन्नजातीयानाम् एककार्यारम्भानुपपत्तिः
SK
********************** Nय्SBह्_३,१.३२ **********************
SK
अथेदानीम् इन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते --- किम् आव्यक्तिकान्य् आहोस्विद् भौतिकानीति/
SK
% -नीति/] प्.७५८ कुतः संशयः? ---
SK
Nय्S_३,१.३२: कृष्णसारे सत्य् उपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ||
SK
कृष्णसारं भौतिकम्, तस्मिन्न् अनुपहते रूपोपलब्धिः उपहते चानुपलब्धिर् इति/ व्यतिरिच्य कृष्णसारम् अवस्थितस्य विषयस्य उपलम्भो न कृष्णसारप्राप्तस्य/ न चाप्राप्यकारित्वम् इन्द्रियाणाम्, तद् इदम् अभौतिकत्वे विभुत्वात् सम्भवति/ एवम् उभयधर्मोपलब्धेः संशयः
SK
% -पलब्धेः संशयः//३२//] प्.७५९
SK
********************** Nय्SBह्_३,१.३३ **********************
SK
% प्.७६० अभौतिकानीत्य् आह/ कस्मात्?
SK
Nय्S_३,१.३३: महदणुग्रहणात् ||
SK
महद् इति महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि/ अण्व् इति अणुतरम् अणुतमं च गृह्यते यथा न्यग्रोधधानादि/ तदुभयम् उपलभ्यमानं चक्षुषो भौतिकत्वं बाधते/ भौतिकं हि यावत् तावद् एव व्याप्नोति/ अभौतिकं तु विभुत्वात् सर्वव्यापकम् इति
SK
********************** Nय्SBह्_३,१.३४ **********************
SK
% प्.७६२ न महदणुग्रहणमात्राद् अभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम्/ इदं खलु ---
SK
Nय्S_३,१.३४: रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ||
SK
तयोर् महदण्वोर् ग्रहणं चक्षूरश्मेर् अर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरश्मेर् अर्थस्य चेति/
SK
% -र् अर्थस्य चेति/] प्.७६३ रश्म्यर्थसन्निकर्षश् चावरणलिङ्गः/ चाक्षुषो हि रश्मिः कुड्यादिभिर् आवृतम् अर्थं न प्रकाशयति यथा प्रदीपरश्मिर् इति
SK
********************** Nय्SBह्_३,१.३५ **********************
SK
% प्.७६४ आवरणानुमेयत्वे सतीदम् आह ---
SK
Nय्S_३,१.३५: तदनुपलब्धेर् अहेतुः ||
SK
रूपस्पर्शवद् धि तेजः, महत्त्वाद् अनेकद्रव्यवत्त्वाद् रूपवत्त्वाच् चोपलब्धिर् इति प्रदीपवत् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर् यदि स्याद् इति
SK
********************** Nय्SBह्_३,१.३६ **********************
SK
Nय्S_३,१.३६: नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावहेतुः ||
SK
सन्निकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर् या प्रत्यक्षतो ऽनुपलब्धिर् नासाव् अभावं प्रतिपादयति यथा चन्द्रमसः परभागस्य प्र्थिव्याश् चाधोभागस्य
SK
********************** Nय्SBह्_३,१.३७ **********************
SK
% प्.७६५
SK
Nय्S_३,१.३७: द्रव्यगुणधर्मभेदाच् चोपलब्धिनियमः ||
SK
भिन्नः खल्व् अयं द्रव्यधर्मो गुणधर्मश् च, महदनेकद्रव्यवच् च विषक्तावयवम् आप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस् तु शीतो गृह्यते/ तस्य द्रव्यस्यानुबन्धाद् हेमन्तशिशिरौ कल्प्येते तथाविधम् एव च तैजसं द्रव्यम् अनुद्भूतरूपं सह रूपेण नोपलभ्यते,
SK
% कल्प्येते तथाविधम् ... नोपलभ्यते,] प्.७६६ स्पर्शस् त्व् अस्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्प्येते
SK
********************** Nय्SBह्_३,१.३८ **********************
SK
यत्र त्व् एषा भवति ---
SK
Nय्S_३,१.३८: अनेकद्रव्यसमवायाद् रूपविशेषाच् च रूपोपलब्धिः ||
SK
तत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते/ रूपविशेषस् तु यद्भावात् क्वचिद् रूपोपलब्धिः यदभावाच् च द्रव्यस्य क्वचिद् अनुपलब्धिः स रूपधर्मो ऽयम् उद्भव समाख्यात इति/ अनुद्भूतरूपश् चायं नायनो रश्मिः, तस्मात् प्रत्यक्षतो नोपलभ्यत इति/
SK
% इति/] प्.७६७ दृष्टश् च तेजसो धर्मभेदः, उद्भूतरूपस्पर्शं प्रत्यक्षं तेजो यथा आदित्यरश्मयः/ उद्भूतरूपम् अनुद्भूतस्पर्शं च प्रत्यक्षं यथा प्रदीपरश्मयः/ उद्भूतस्पर्शम् अनुद्भूतरूपम् अप्रत्यक्षं यथाबादिसंयुक्तं तेजः/ अनुद्भूतरूपस्पर्शो ऽप्रत्यक्षश् चाक्षुषो रश्मिर् इति
SK
********************** Nय्SBह्_३,१.३९ **********************
SK
Nय्S_३,१.३९: कर्मकारितश् चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ||
SK
यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश् च कल्प्यते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश् च रश्मेश् चाक्षुषस्य व्यूहः/ रूपस्पर्शानभिव्यक्तिश् च व्यवहारप्रकॢप्त्यर्था, द्रव्यविशेषे च प्रतीघाताद् आवरणोपपत्तिर् व्यवहारार्था/ सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः/ कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थम् इति/
SK
% प्.७६८ अव्यभिचाराच् च प्रतीघातो भौतिकधर्मः/ यश् चात्वरणोपलम्भाद् इन्द्रियस्य द्रव्यविशेषे प्रतिघातः स भौतिकधर्मो न भूतानि व्यभिचरति, नाबौतिकं प्रतिघातधर्मकं दृष्टम् इति/ अप्रतिघातस् तु व्यभिचारी भौतिकाभौतिकयोः समानत्वाद् इति/ यद् अपि मन्येत प्रतिघाताद् भौतिकानीन्द्रियाणि, अप्रतिघाताद् अभौतिकानीति प्राप्तम्? दृष्टश् चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः/ तन् न युक्तम्/ कस्मात्? यस्माद् भौतिकम् अपि न प्रतिहन्यते, काचाभ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य तेजसो ऽप्रतिघातः
SK
********************** Nय्SBह्_३,१.४० **********************
SK
% प्.७६९ उपपद्यते च अनुपलब्धिः कारणभेदात् ---
SK
Nय्S_३,१.४०: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः ||
SK
यथा ``अनेकद्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिर्ऽऽ इति सत्य् उपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपकभ्यते आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच् चोपलभिर् इति सत्य् उपलब्धिकारणे चाक्षुषो रश्मिर् नोपलभ्यते निमित्तान्तरतः// तच् च व्याख्यातम् अनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतो ऽनुपलब्धिर् इति
SK
********************** Nय्SBह्_३,१.४१ **********************
SK
अत्यन्तानुपलब्धिश् चाभावकारणम्/ यो हि ब्रवीति लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान् नोपलभ्यत इति, तस्यैतत् स्यात्?
SK
% प्.७७०
SK
Nय्S_३,१.४१: न, रात्राव् अप्य् अनुपलब्धेः ||
SK
अप्य् अनुमानतो ऽनुपलब्धेर् इति/ एवम् अत्यन्तानुपलब्धेर् लोष्टप्रकाशो नास्ति, न त्व् एवं चक्षुषो रश्मिर् इति
SK
********************** Nय्SBह्_३,१.४२ **********************
SK
उपपन्नरूपा चेयम् ---
SK
Nय्S_३,१.४२: बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेर् अनभिव्यक्तितो ऽनुपलब्धिः ||
SK
बाह्येन प्रकाशेनानुगृहीतं चक्षुः विषयग्राहकं तदभावे ऽनुपलब्धिः/ सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषा ऽग्रहणं रूपस्यानुद्भूतत्वात्,
SK
% प्रकाशानुग्रहे ...] प्.७७१ सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर् दृष्टा/ तत्र यद् उक्तं ``तदनुपलब्धेर् अहेतुर्ऽऽ इति एतद् अयुक्तम्
SK
********************** Nय्SBह्_३,१.४३ **********************
SK
कस्मात् पुनर् अभिभवो ऽनुपलब्धिकारणं चाक्षुषस्य रश्मेर् नोच्यत इति?
SK
Nय्S_३,१.४३: अभिव्यक्तौ चाभिभवात् ||
SK
बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः/ यद् रूपम् अभिव्यक्तम् उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयो ऽभिभवः, विपर्यये ऽभिभवाभावात्/ अनुद्भूतरूपत्वाच् चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच् चोपलभ्यमानं नाभिभूयत इति/
SK
% -नुपलभ्यमानं] प्.७७२ एवम् उपपन्नम् अस्ति चाक्षुषो रश्मिर् इति
SK
********************** Nय्SBह्_३,१.४४ **********************
SK
% प्.७७३
SK
Nय्S_३,१.४४: नक्तञ्चरनयनरश्मिदर्शनाच् च ||
SK
दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम्, तेन शेषस्यानुमानम् इति/ जातिभेदवद् इन्द्रियभेद इति चेत्? धर्मभेदमात्रं चानुपपन्नम् आवरणस्य प्रातिप्रतिषेधार्थस्य दर्शनाद् इति
SK
********************** Nय्SBह्_३,१.४५ **********************
SK
% प्.७७४ इन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वानुपपत्तिः/ कस्मात्?
SK
Nय्S_३,१.४५: अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ||
SK
तृणादि सर्पद् द्रव्यं काचे अभ्रपटले वा प्रतिहतं दृष्त्ऽम्, अव्यवहितेन सन्निकृष्यते व्याहन्यते वै प्राप्तिर् व्यवधानेनेति/ यदि च रश्म्यर्थसन्निकर्षो ग्रहणहेतुः स्यात् न व्यवहितस्य सन्निकर्ष इत्य् अग्रहणं स्यात्/ अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धिः सा ज्ञापयति अप्राप्यकारीणीन्द्रियाणि अत एवाभौतिकानि, प्राप्यकारित्वं हि भौतिकधर्म इति
SK
********************** Nय्SBह्_३,१.४६ **********************
SK
% प्.७७५
SK
Nय्S_३,१.४६: कुड्यान्तरितानुपलब्धेर् अप्रतिषेधः ||
SK
अप्राप्यकरित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर् न स्यात्
SK
********************** Nय्SBह्_३,१.४७ **********************
SK
प्राप्यकारित्वे ऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर् न स्यात्?
SK
Nय्S_३,१.४७: अप्रतीघातात् सन्निकर्षोपपत्तिः ||
SK
न च काचो ऽभ्रपटलं वा नयनरश्मिं विष्टभ्नाति सो ऽप्रतिहन्यमानः सन्निकृष्यत इति
SK
********************** Nय्SBह्_३,१.४८ **********************
SK
% प्.७७६ यश् च मन्यते न भौतिकस्याप्रतिघात इति तन् न ---
SK
Nय्S_३,१.४८: आदित्यरश्मेः स्फटिकान्तरिते ऽपि दाह्ये .विघातात् ||
SK
आदित्यरश्मेर् अविघातात् स्फटिकान्तरिते ऽप्य् अविघातात्, दाह्ये ऽविघातात्/ अविघाताद् इति च पदाभिसम्बन्धाद् वाक्यभेद इति/ प्रतिवाक्यं चार्थभेद इति/ आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते, अविघातात् कुम्भस्थम् उदकं तपति/ प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव इति/ स्फटिकान्तरिते ऽपि प्रकाशनीये प्रदीपरश्मीनाम् अप्रतिघातः, अप्रतिघातात् प्राप्तस्य ग्रहणम् इति/ भर्जनकपालादिस्थं च द्रव्यम् आग्नेयेन तेजसा दह्यते तत्राविघातात् प्राप्तिः, प्राप्तौ तु दाहो नाप्राप्यकारि तेज इति/
SK
% प्.७७७ अविघाताद् इति च केवलं पदम् उपादीयते, को ऽयम् अविघातो नाम? अव्युह्यमानावयवेन व्यवधायेन द्रव्येण सर्वतो द्रव्यस्याविष्ठ्म्भः क्रियाहेतोर् अप्रतिबन्धः प्राप्तेर् अप्रतिषेध इति/ दृष्टं हि कलशनिषक्तानाम् अपां बहिः शीतस्पर्शस्य ग्रहणम्/ न चेन्द्रियेणासन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः/ दृष्टौ च प्रस्पन्दपरिस्रवौ/ तत्र काचाभ्रपटलादिभिर् नयनरश्मेर् अप्रतिघाताद् विभिद्यार्थेन सह सन्निकर्षाद् उपपन्नं ग्रहणम् इति
SK
********************** Nय्SBह्_३,१.४९ **********************
SK
% प्.७७८
SK
Nय्S_३,१.४९: नेतरेतरधर्मप्रसङ्गात् ||
SK
काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातः, कुड्यादिवद् वा काचाभ्रपटलादिभिः प्रतिघात इति प्रसज्यते, नियमे कारणं वाच्यम् इति
SK
********************** Nय्SBह्_३,१.५० **********************
SK
Nय्S_३,१.५०: आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत् तदुपलब्धिः ||
SK
आदर्शोदकयोः प्रसादो रूपविशेषः स्वो धर्मो नियमदर्शनात्, प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम्/ यथा आदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन सन्निकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यम् आदर्शरूपानुग्रहात् तन्निमित्तं भवति,
SK
% -कर्षे सति ...] प्.७७९ आदर्शरूपोपघाते तदभावात्, कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति एवं काचाभ्रपटलादिभिर् अविघातश् चक्षूरश्मेः कुड्यादिभिश् च प्रतिघातो द्रव्यस्वभावनियमाद् इति
SK
********************** Nय्SBह्_३,१.५१ **********************
SK
Nय्S_३,१.५१: दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ||
SK
प्रमाणस्य तत्त्वविषयत्वात्/ न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुम् एवं भवतेति,
SK
% नियोक्तुम् एवं भवतेति,] प्.७८० नापि प्रतिषेद्धुम् एवं न भवतेति/ न हीदम् उपपद्यते रूपवद् गन्धो ऽपि चाक्षुषो भवत्व् इति, गन्धवद् वा रूपं चाक्षुषं मा भूद् इति, अग्निप्रतिपत्तिवत् धूमेनोदकप्रतिपत्तिर् अपि भवत्व् इति, उदकाप्रतिपत्तिवद् वा धूमेनाग्निप्रतिपत्तिर् अपि मा भूद् इति/ किं कारणम्? यथा खल्व् अर्था भवन्ति य एषां स्वो भावः स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्त इति/ तथाभूतविषयकं हि प्रमाणम् इति/ इमौ खलु नियोगप्रतिषेधौ भवता देशितौ काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातो भवतु कुड्यादिवद् वा काचाभ्रपटलादिभिर् अप्रतिघातो मा भूद् इति/ न, दृष्टानुमिताः खल्व् इमे द्रव्यधर्माः, प्रतिघाताप्रतिघातयोर् ह्य् उपलब्धी व्यवस्थापिके/ व्यवहितानुपलब्ध्यानुमीयते कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्यानुमीयते काचाभ्रपटलादिभिर् अप्रतिघात इति
SK
********************** Nय्SBह्_३,१.५२ **********************
SK
% प्.७८१ अथापि खल्व् एकम् इदम् इन्द्रियं बहूनीन्द्रियाणि वा? कुतः संशयः?
SK
Nय्S_३,१.५२: स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच् च संशयः ||
SK
बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते, नानास्थानश् च सन्न् एको ऽवयवी चेति/ तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति
SK
********************** Nय्SBह्_३,१.५३ **********************
SK
% प्.७८३ एकम् इन्द्रियम् ---
SK
Nय्S_३,१.५३: त्वग् अव्यतिरेकात् ||
SK
त्वग् एकम् इन्द्रियम् इत्य् आह/ कस्मात्? अव्यतिरेकात्/ न त्वचा किञ्चिद् इन्द्रियाधिष्ठानं न प्राप्तम्, न चासत्यां त्वचि किञ्चिद् विषयग्रहणं भवति, यया सत्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वग् एकम् इन्द्रियम् इति/ नेन्द्रियान्तरार्थानुपलब्धेः/ स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे त्वगिन्द्रियेण स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः/ न स्पर्शग्राहकात् इन्द्रियाद् इन्द्रियान्तरम् अस्तीति स्पर्शवद् अन्धादिभिर् गृह्येरन् रूपादयः, न च गृह्यन्ते तस्मान् नैकम् इन्द्रियं त्वग् इति/
SK
% प्.७८४ त्वगवयवविशेषेण धूमोपलब्धिवत् तदुपलब्धिः/ यथा त्वचो ऽवयवविशेषः कश्चिच् चक्षुषि सन्निकृष्टो धूमस्पर्शं गृह्णाति नान्यः, एवं त्वचो ऽवयवविशेषा रूपादिग्राहकास् तेषाम् उपघाताद् अन्धादिभिर् न गृह्यन्ते रूपादय इति/ व्याहतत्वाद् अहेतुः/ त्वगव्यतिरेकाद् एकम् इन्द्रियम् इत्य् उक्त्वा ``त्वग् अवयवविशेषेण धूमोपलब्धिवद् रूपाद्युपलब्धिर्ऽऽ इत्य् उच्यते/ एवं च सति नानाभूतानि विषयग्राहकाणि विषयव्यवस्थानात् तद्भावे विषयग्रहणस्य भावात् तदुपघाते चाभावात्, तथा च पूर्वो वाद उत्तरेण वादेण व्याहन्यत इति/ सन्दिग्धश् चाव्यतिरेकः/ पृथिव्यादिभिर् अपि भूतैर् इन्द्रियाधिष्ठानानि व्याप्तानि, न च तेष्व् असत्सु विषयग्रहणं भवतीति/ तस्मान् न त्वग् अन्यद् वा सर्वविषयम् एकम् इन्द्रियम् इति
SK
********************** Nय्SBह्_३,१.५४ **********************
SK
% प्.७८५
SK
Nय्S_३,१.५४: न युगपदर्थानुपलब्धेः ||
SK
आत्मा मनसा सम्बध्यते, मन इन्द्रियेण, इन्द्रियं सर्वार्थैः सन्निकृष्टम् इति, आत्मेन्द्रियमनोर्थसन्निकर्षेभ्यो युगपद् ग्रहणानि स्युः/ न च युगपद् रूपादयो गृह्यन्ते तस्मान् नैकम् इन्द्रियं सर्वविषयम् अस्तीति/ असाहचर्याच् च विषयग्रहणानां नैकम् इन्द्रियं सर्वविषयकम्, साहचर्ये हि विषयग्रहणानाम् अन्धाद्यनुपपत्तिर् इति
SK
********************** Nय्SBह्_३,१.५५ **********************
SK
% प्.७८६
SK
Nय्S_३,१.५५: विप्रतिषेधाच् च न त्वग् एका ||
SK
न खलु त्वग् एकम् इन्द्रियं व्याघातात् --- त्वचा रूपाण्य् अप्राप्तानि गृह्यन्त इत्य् अप्राप्यकारित्वे स्पर्शादिष्व् अप्य् एवं प्रसङ्गः/ स्पर्शादीनां च प्राप्तानां ग्रहणाद् रूपादीनां प्राप्तानां ग्रहणम् इति प्राप्तम्/
SK
% प्.७८७ प्राप्याप्राप्यकारित्वम् इति चेत्? आवरणानुपपत्तेर् विषयमात्रस्य ग्रहणम्/ अथापि मन्येत प्राप्ताः स्पर्शादयस् त्वचा गृह्यन्ते रूपाणि त्व् अप्राप्तानीति? एवं सति नास्त्य् आवरणम्, आवरणानुपपत्तेश् च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्यवहितस्य चेति/ दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर् न स्यात्/ अप्राप्तं त्वचा गृह्यते रूपम् इति दूरे रूपस्याग्रहणम् अन्तिके च ग्रहणम् इत्य् एतन् न स्याद् इति
SK
********************** Nय्SBह्_३,१.५६ **********************
SK
प्रतिषेधाच् च नानात्वसिद्धौ स्थापनाहेतुर् अप्य् उपादीयते ---
SK
Nय्S_३,१.५६: इन्द्रियार्थपञ्चत्वात् ||
SK
अर्थः प्रयोजनम्, तत् पञ्चविधम् इन्द्रियाणाम्, स्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते/
SK
% तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते/] प्.७८८ स्पर्शरूपग्रहणे च ताभ्याम् एव न गन्धो गृह्यत इति गन्धग्रहणप्रयोजनं घ्राणम् अनुमीयते/ त्रयाणां ग्रहणे न तैर् एव रसो गृह्यत इति रसग्रहणप्रयोजनं रसनम् अनुमीयते/ न च चतुर्णां ग्रहणे तैर् एव शब्दः श्रूयत इति शब्दग्रहणप्रयोजनं श्रोत्रम् अनुमीयते/ एवम् इन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि
SK
********************** Nय्SBह्_३,१.५७ **********************
SK
% प्.७८९
SK
Nय्S_३,१.५७: न, तदर्थबहुत्वात् ||
SK
न खल्व् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति सिध्यति/ कस्मात्? तेषाम् अर्थानां बहुत्वात्/ बहवः खल्व् इमे इन्द्रियार्थाः, स्पर्शास् तावत् शीतोष्नानुष्णाशीता इति/ रूपाणि शुक्लहरितादीनि/ गन्धा इष्टानिष्टोपेक्षणीयाः/ रसाः कटुकादयः, शब्दा वर्णात्मानो ध्वनिमात्राश् च भिन्नाः/ तद् यस्येन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणि तस्येन्द्रियार्थबहुत्वाद् बहूनि इन्द्रियाणि प्रसज्यन्त इति
SK
********************** Nय्SBह्_३,१.५८ **********************
SK
Nय्S_३,१.५८: गन्धत्वाद्यव्यतिरेकाद् गन्धादीनाम् अप्रतिषेधः ||
SK
गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्य् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणि न प्रयोजयन्ति/ अर्थसमूहो ऽनुमानमुक्तो नार्थैकदेशः/
SK
% -मुक्तो नार्थैकदेशः/] प्.७९० अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं भवान् प्रतिषेधति तस्माद् अयुक्तो ऽयं प्रतिषेध इति/ कथं पुनर् गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादय इति? स्पर्शः खल्व् अयं त्रिविधः शीत उष्णो ऽनुष्णाशीतश् च स्पर्शत्वेन स्वसामान्येन संगृहीतः/ गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति स्पर्शभेदानाम् एकसाधनसाध्यत्वाद् येनैव शीतस्पर्शो गृह्यते तेनैवेतराव् अपीति/ एवं गन्धत्वेन गन्धानाम्, रूपत्वेन रूपाणाम्, रसत्वेन रसानाम्, शब्दत्वेन शब्दानाम् इति/ गन्धादिग्रहणानि पुनर् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणां प्रयोजकानि/ तस्माद् उपपन्नम् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति
SK
********************** Nय्SBह्_३,१.५९ **********************
SK
यदि सामान्यं सङ्ग्राहकम्, प्राप्तम् इन्द्रियाणाम् ---
SK
Nय्S_३,१.५९: विषयत्वाव्यतिरेकाद् एकत्वम् ||
SK
विषयत्वेन हि सामान्येन गन्धादयः सङ्गृहीता इति
SK
********************** Nय्SBह्_३,१.६० **********************
SK
% प्.७९१
SK
Nय्S_३,१.६०: न, बुद्धिलक्षणाधिष्ठानगत्याकृतिज्ञातिपञ्चत्वेभ्यः ||
SK
न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षा एकसाधनग्राह्या अनुमीयन्ते, अनुमीयन्ते च पञ्च गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था इन्द्रियान्तरग्राह्याः, तस्माद् असम्बद्धम् एतत्/ अयम् एव चार्थो ऽनूद्यते बुद्धिलक्षणपञ्चत्वाद् इति/ बुद्धय एव लक्षणानि विषयग्रहणलिङ्गत्वात् इन्द्रियाणाम्, तद् एतत् ``इन्द्रियार्थपञ्चत्वात्ऽऽ इत्य् एतस्मिन् सूत्रे कृतभाष्यम् इति/ तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि/
SK
% प्.७९२ अधिष्ठानान्य् अपि खलु पञ्चेन्द्रियाणाम्, सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम्, कृष्णसाराधिष्ठानं चक्षुः बहिर्निःसृतं रूपग्रहणलिङ्गम्, नासाधिष्ठानं घ्राणम्, जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्, गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वाद् इति/ गतिभेदाद् अपीन्द्रियभेदः/ कृष्णसारोपनिबद्धं चक्षुर् बहिर्निःसृत्य रूपाधिकरणानि द्रव्याणि प्राप्नोति/ स्पर्शनादीनि त्व् इन्द्रियाणि विषया एवाश्रयोपसर्पणात् प्रत्यासीदन्ति/ सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्यासत्तिर् इति/ आकृतिः खलु परिमाणम् इयत्ता सा पञ्चधा/ स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि विषयग्रहणेनानुमेयानि/ चक्षुः कृष्णसाराश्रयं बहिर्निःसृतं विषयव्यापि/ श्रोत्रं नान्यद् आकाशात्, तच् च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहणाच् चाधिष्ठाननियमेन शब्दस्य व्यञ्जकम् इति/
SK
% प्.७९३ जातिर् इति योनिं प्रचक्षते/ पञ्च खल्व् इन्द्रिययोनयः पृथिव्यादीनि भूतानि, तस्मात् प्रकृतिपञ्चत्वाद् अपि पञ्चेन्द्रियाणीति सिद्धम्
SK
********************** Nय्SBह्_३,१.६१ **********************
SK
कथं पुनर् ज्ञायते भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति?
SK
Nय्S_३,१.६१: भूतगुणविशेषोपलब्धेस् तादात्म्यम् ||
SK
दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः/ वायुः स्पर्शव्यञ्जकः, आपो रसव्यञ्जिकाः, तेजो रूपव्यञ्जकम्, पार्थिवं किञ्चिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम्/ अस्ति चायम् इन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर् मन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति
SK
********************** Nय्SBह्_३,१.६२ **********************
SK
% प्.७९५ गन्धादयः पृथिव्यादिगुणा इत्य् उद्दिष्टम् उद्देशश् च पृथिव्यादीनाम् एकगुणत्वे चानेकगुणत्वे च समान इत्य् अत आह ---
SK
Nय्S_३,१.६२: गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ||
SK
********************** Nय्SBह्_३,१.६३ **********************
SK
Nय्S_३,१.६३: अप्तेजोवायूनां पूर्वं पूर्वम् अपोह्याकाशस्योत्तरः ||
SK
स्पर्शपर्यन्तानाम् इति विभक्तिविपरिणामः/ आकाशस्योत्तरः शब्दः स्पर्शपर्यन्तेभ्य इति/
SK
% इति/] प्.७९६ कथं तर्हि तरब्निर्देशः? स्वतन्त्रविनियोगसामर्थ्यात्/ तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते/ उद्देशसूत्रे हि स्पर्शपर्यन्तेभ्यः परः शब्द इति/ तन्त्रं वा स्पर्शस्य विवक्षितत्वात् --- स्पर्शपर्यन्तेषु नियुक्तेषु यो ऽन्यस् तदुत्तरः शब्द इति//६२-६३//
SK
********************** Nय्SBह्_३,१.६४ **********************
SK
% प्.७९७
SK
Nय्S_३,१.६४: न सर्वगुणानुपलब्धेः ||
SK
नायं गुणनियोगः साधुः/ कस्मात्? यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्वे उपलभ्यन्ते/ पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते गन्ध एव एको गृह्यते एवं शेषेष्व् अपीति
SK
********************** Nय्SBह्_३,१.६५ **********************
SK
कथं तर्हीमे गुणा विनियोक्तव्या इति?
SK
Nय्S_३,१.६५: एकैकश्येनोत्तरोत्तरगुणसद्भावाद् उत्तरोत्तराणां तदनुपलब्धिः ||
SK
गन्धादीनाम् एकैको यथाक्रमं पृथिव्यादीनाम् एकैकस्य गुणः, अतः ``तदनुपलब्धिःऽऽ तेषां तयोः तस्य चानुपलब्धिः ---
SK
% तेषां तयोः तस्य चानुपलब्धिः ---] प्.७९८ घ्राणेन रसरूपस्पर्शानां रसनेन रूपस्पर्शयोः चक्षुषा स्पर्शस्येति/ कथं तर्ह्य् अनेकगुणानि भूतानि गृह्यन्त इति? संसर्गाच् चानेकगुणग्रहणम्/ अबादिसंसर्गाच् च पृथिव्यां रसादयो गृह्यन्ते एवं शेषेष्व् अपीति
SK
********************** Nय्SBह्_३,१.६६ **********************
SK
% प्.७९९ नियमस् तर्हि न प्राप्नोति संसर्गस्यानियमात् चतुर्गुणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुर् इति/ नियमश् चोपपद्यते/ कथम्?
SK
Nय्S_३,१.६६: विष्टं ह्य् अपरं परेण ||
SK
पृथिव्यादीनां पूर्वपूर्वम् उत्तरेणोत्तरेण विष्टम् अतः संसर्गनियम इति/ तच् चैतद् भूतसृष्टौ वेदितव्यं नैतर्हीति
SK
********************** Nय्SBह्_३,१.६७ **********************
SK
% प्.८००
SK
Nय्S_३,१.६७: न पार्थिवाप्ययोः प्रत्यक्षत्वात् ||
SK
नेति त्रिसूत्रीं प्रत्याचष्टे/ कस्मात्? पार्थिवस्य द्रव्यस्याप्य् अस्य च प्रत्यक्षट्वात्/ महत्वानेकद्रव्यत्वाद् रूपाच् चोपलब्धिर् इति तैजसम् एव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवम् आप्यं वा रूपाभावात्/ तैजसवत् तु पार्थिवाप्ययोः प्रत्यक्षत्वात् न संसर्गाद् अनेकगुणग्रहणं भूतानाम् इति/ भूतान्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते नियमे वा कारणम् उच्यताम् इति/
SK
% प्.८०१ रसयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् --- पार्थिवो रसः षड्विधः, आप्यो मधुर एव; न चैतत् संसर्गाद् भव्तितुम् अर्हति/ रूपयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् तैजसरूपानुगृहीतयोः, संसर्गे हि व्यञ्जकम् एव रूपं न व्यङ्ग्यम् अस्तीति/ एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः/ पार्थिवं हरितलोहितपीताद्यनेकविधं रूपम्, आप्यं तु शुक्लम् अप्रकाशकम्, न चैतद् एकगुणानां संसर्गे सत्य् उपपद्यत इति/ उदाहरणमात्रं चैतत्, अतः परं प्रपञ्चः / स्पर्शयोर् वा पार्थिवतैजसयोः प्रत्यक्षत्वात्/ पार्थिवो ऽनुष्नाशीतः स्पर्शः, उष्णस् तैजसः प्रत्यक्षः, न चैतद् एकगुणानाम् अनुष्णाशीतस्पर्शेन वायुना संसर्गेणोपपद्यत इति/ अथ वा पार्थिवाप्ययोर् द्रव्ययोर् व्य्वस्थितगुणयोः प्रत्यक्षत्वात्/ चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणम् आप्यं प्रत्यक्षम्, तेन तत्कारणम् अनुमीयते तथाभूतम् इति/ तस्य कार्यं लिङ्गं कारणभावाद् धि कार्यभाव इति/ एवं तैजसवायव्ययोर् द्रव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायाः तत्कारणे द्रव्ये व्यवस्थानुमानम् इति/ दृष्टश् च विवेकः पार्थिवाप्ययोः प्रत्यक्षत्वात्/ पार्थिवं द्रव्यम् अबादिभिर् वियुक्तं प्रत्यक्षतो गृह्यते,
SK
% गृह्यते,] प्.८०२ आप्यं च पराभ्याम्, तैजसं च वायुना, न चैकैकगुणं गृह्यत इति/ निरनुमानं तु ``विष्टं ह्य् अपरं परेणऽऽ इत्य् एतद् इति/ नात्र लिङ्गम् अनुमापकं गृह्यत इति येनैतद् एवं प्रतिपद्येमहि/ यच् चोक्तं विष्टं ह्य् अपरं परेणेति भूतसृष्टौ वेदितव्यं न साम्प्रतम् इति नियमकारणाभावाद् अयुक्तम्/ दृष्टं च साम्प्रतम् अपरं परेण विष्टम् इति, वायुना च विष्टं तेज इति/ विष्टत्वं संयोगः, स च द्वयोः समानः, वायुना च विष्टत्वात् स्पर्शवत् तेजो न तु तेजसा विष्टत्वाद् रूपवान् वायुर् इति नियमकारणं नास्तीति/ दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याभिभवाद् अग्रहणम् इति, न च तेनैव तस्याभिभव इति
SK
********************** Nय्SBह्_३,१.६८ **********************
SK
तद् एवं न्यायविरुद्धं प्रवादं प्रतिषिध्य ``न सर्वगुणानुपलब्धेर्ऽऽ इति चोदितं समाधीयते ---
SK
Nय्S_३,१.६८: पूर्वपूर्वगुणोत्कर्षात् तत् तत् प्रधानम् ||
SK
तस्मान् न सर्वगुणोपलब्धिः, घ्राणादीनां पूर्वं पूर्वं गन्धादेर् गुणस्योत्कर्षात् तत् तत् प्रधानम्/ का प्रधानता? विषयग्राहकत्वम्/ को गुणोत्कर्षः? अभिव्यक्तौ समर्थत्वम्/ यथा बाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम्, % बाह्यानां ...] प्.८०३ एवं घ्राण रसनचक्षुषा.ं चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणग्राहकत्वम्, गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपग्राहकत्वम्/ तस्माद् घ्राणादिभिर् न सर्वेषां गुणानाम् उपलब्धिर् इति/ यस् तु प्रतिजानीते गन्धगुणत्वाद् घ्राणं गन्धस्य ग्राहकम् एवं रसनादिष्व् अपीति, तस्य यथागुणयोगं घ्राणादिभिर् गुणग्रहणं प्रसज्यत इति
SK
********************** Nय्SBह्_३,१.६९ **********************
SK
% प्.८०४ किंकृतं पुनर् व्यवस्थानम् --- किञ्चित् पार्थिवम् इन्द्रियं न सर्वाणि, कानिचिद् आप्यतैजसवायव्यानि इन्द्रियाणि न सर्वाणीति?
SK
Nय्S_३,१.६९: तद्व्यवस्थानं तु भूयस्त्वात् ||
SK
अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम्/ दृष्टो हि प्रकर्षे भूयस्त्वशब्दः, यथा प्रकृष्टो विषयो भूयान् इत्य् उच्यते/ यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद् विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वर्त्यन्ते, न सर्वं सर्वार्थम्; एवं पृथग्विषयग्रहणसमर्थानि घ्राणादीनि निर्वर्त्यन्ते न सर्वविषयग्रहणसमर्थानीति
SK
********************** Nय्SBह्_३,१.७० **********************
SK
% प्.८०५ स्वगुणान् नोपलभन्त इन्द्रियाणि/ कस्माद् इति चेत्?
SK
Nय्S_३,१.७०: सगुणानाम् इन्द्रियभावात् ||
SK
स्वान् गन्धादीन् नोपलभन्ते घ्राणादीनि/ केन कारणेनेति चेत्? स्वगुणैः सह घ्राणादीनाम् इन्द्रियभावात्/ घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान् न भवति, एवं शेषाणाम् अपि
SK
********************** Nय्SBह्_३,१.७१ **********************
SK
यदि पुनर् गन्धः सहकारी च स्याद् घ्राणस्य ग्राह्यश् चेत्य् अत आह ---
SK
Nय्S_३,१.७१: तेनैव तस्याग्रहणाच् च ||
SK
% प्.८०६ न गुणोपलब्धिर् इन्द्रियाणाम्/ यो ब्रूते --- यथा बाह्यं द्रव्यं चक्षुषा (चोर्र्.; चक्षषा, एद्.) गृह्यते तथा तेनैव चक्षुषा तद् एव चक्षुर् गृह्यताम् इति, तादृङ् इदम्; तुल्यो ह्य् उभयत्र प्रतिपत्तिहेत्वभाव इति
SK
********************** Nय्SBह्_३,१.७२ **********************
SK
Nय्S_३,१.७२: न शब्दगुणोपलब्धेः ||
SK
स्वगुणान् नोपलभन्त इन्द्रियाणीति एतन् न भवति/ उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति
SK
********************** Nय्SBह्_३,१.७३ **********************
SK
% प्.८०७
SK
Nय्S_३,१.७३: तदुपलब्धिर् इतरेतरद्रव्यगुणवैधर्म्यात् ||
SK
न शब्देन गुणेन सगुणम् आकाशम् इन्द्रियं भवति/ न शब्दः शब्दस्य व्यञ्जकः, न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षम्, नाप्य् अनुमीयते/ अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणम्, शब्दगुणत्वं च आकाशस्येति/ परिशेषश् चानुमानं वेदितव्यम्/ आत्मा तावत् श्रोता न करणम्, मनसः श्रोत्रत्वे बधिरत्वाभावः, पृथिव्यादीनां घ्राणादिभावे सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम्/
SK
% सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम्/] प्.८०८ अस्ति चेदं श्रोत्रम् आकाशं च शिष्यते, परिशेषाद् आकाशं श्रोत्रम् इति
SK
इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्याद्यम् आह्निकम्//

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gautama: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya (sa_gautama-nyAyasUtra-comm.htm).

Source