Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya

Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

% p.809 atha tṛtīyādhyāyāsya dvitīyam āhnikam

SK
********************** Nय्SBह्_३,२.१ **********************
SK
परीक्षितानीन्द्रियाण्य् अर्थाश् च, बुद्धेर् इदानीं परीक्षाक्रमः, सा किम् अनित्या नित्या वेति/ कुतः संशयः?
SK
Nय्S_३,२.१: कर्माकाशसाधर्म्यात् संशयः ||
SK
अस्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ, विशेषश् चोपजनापायधर्मवत्त्वम्, विपर्ययश् च यथास्वम् अनित्यनित्ययोस् तस्यां बुद्दौ नोपलभ्यते, तेन संशय इति
SK
********************** Nय्SBह्_३,२.२ **********************
SK
अनुपपन्नरूपः खल्व् अयं संशयः/ सर्वशरीरिणां हि प्रत्यात्मवेदनीया अनित्या बुद्धिः सुखादिवत्/
SK
% सुकादिवत्] प्.८१० भवति च संवित्तिः --- ज्ञास्यामि जानामि अज्ञासिषम् इति/ न चोपजनापायाव् अन्तरेण त्रैकाल्यव्याक्तिः, ततश् च त्रैकाल्यव्यक्तेर् अनित्या बुद्धिर् इत्य् एतत् शिद्धम्/ प्रमाणसिद्धं चेदं शास्तरे ऽप्य् उक्तम् --- `इन्द्रियार्थसन्निकर्षोत्पन्नम्ऽ, `युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्येवमादि/ तस्मात् संशयप्रक्रियानुपपत्तिर् इति/ दृष्टिप्रवादोपालम्भार्थन् तु प्रकरणम्/ एवं हि पश्यन्तः प्रवदन्ति साङ्ख्याः --- पुरुषस्यान्तःकरणभूता नित्या बुद्धिर् इति/ साधनं च प्रचक्षते ---
SK
% प्.८११
SK
Nय्S_३,२.२: विषयप्रत्यभिज्ञानात् ||
SK
किं पुनर् इदं प्रत्यभिज्ञानम्? यं पूर्वम् अज्ञासिषम् अर्थं तम् इमं जानामीति ज्ञान्योः समाने ऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम्, एतच् चावस्थिताया बुद्धेर् उपपन्नम्/ नानात्वे तु बुद्धिभेदेषूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः नान्यज्ञातम् अन्यः प्रत्यभिजानातीति
SK
********************** Nय्SBह्_३,२.३ **********************
SK
Nय्S_३,२.३: साध्यसमत्वाद् अहेतुः ||
SK
यथा खलु नित्यत्वं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानम् अपीति/ किं कारणम्? चेतनधर्मस्य करणे ऽनुपपत्तिः/ पुरुषधर्मः खल्व् अयं ज्ञानं दर्शनम् उपलब्धिर् बोधः प्रत्ययः अध्यवसाय इति/
SK
% अध्यवसाय इति] प्.८१२ चेतनो हि पूर्वज्ञातम् अर्थं प्रत्यभिजानाति, तस्यैतस्माद् धेतोर् नित्यत्वं युक्तम् इति/ करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयं नानिर्दिष्टस्वरूपम् आत्मान्तरं शक्यम् अस्तीति प्रतिपत्तुम्/ ज्ञानं चेद् बुद्धेर् अन्तःकरणस्याभ्युपगम्यते चेतनस्येदानीं किं स्वरूपं को धर्मः किं तत्त्वम्? ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोतीति? चेतयते इति चेत् न, ज्ञानाद् अर्थान्तरवचनम् --- पुरुषश् चेतयते बुद्धिर् जानातीति नेदं ज्ञानाद् अर्थान्तरम् उच्यते, चेतयते जानीते बुद्ध्यते पश्यति उपलभते इत्य् एको ऽयम् अर्थ इति/ बुद्धिर् ज्ञ्पयतीति चेत् अद्धा --- जानीते पुरुषो बुद्धिर् ज्ञापयतीति सत्यम् एतत्/ एवं चाभ्युपगमे ज्ञानं पुरुषस्येति सिद्धं भवति न बुद्धेर् अन्तःकरणस्येति/
SK
%८१३ प्रतिपुरुषं च शब्दान्तरव्यवस्थाप्रतिज्ञाने प्रतिषेधहेतुवचनम्/ यश् च प्रतिजानीते --- कश्चित् पुरुषश् चेतयते, कश्चिद् बुद्ध्यते, कश्चिद् उपलभते, कश्चित् पश्यतीति; पुरुषान्तराणि खल्व् इमानि चेतनो बोद्धोपलब्धा द्रष्टेति नैकस्यैते धर्मा इति अत्र कः प्रतिषेधहेतुर् इति? अर्थस्याभेद इति चेत् समानम्/ अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिर् इत्य् एवं चेन् मन्यसे, समानं भवति --- पुरुषश् चेतयते बुद्धिर् जानीते इत्य् अत्राप्य् अर्थो न भिद्यते तत्रोभयोश् चेतनत्वाद् अन्यतरलोप इति/ यदि पुनर् बुध्यते ऽनयेति बोधनं बुद्धिः मन एवोच्यते तच् च नित्यम्,
SK
% एवोच्यते तच् च नित्यम्,] प्.८१४ अस्त्व् एतद् एवम्, न तु मनसो विषयप्रत्यभिज्ञानान् नित्यत्वम्/ दृष्टं हि करणभेदे ज्ञातुर् एकत्वात् प्रत्यभिज्ञानं `सव्यदृष्टस्येतरेण प्रत्यभिज्ञानाद्ऽ इति/
SK
% प्.८१५ चक्षुर्वत् प्रदीपवच् च; प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानम् इति/ तस्माज् ज्ञातुर् अयं नित्यत्वे हेतुर् इति
SK
********************** Nय्SBह्_३,२.४ **********************
SK
यच् च मन्यते बुद्धेर् अवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति वृत्तिश् च वृत्तिमतो नान्येति, तच् च ---
SK
Nय्S_३,२.४: न, युगपद् अग्रहणात् ||
SK
वृत्तिवृत्तिमतोर् अनन्यत्वे वृत्तिमतो ऽवस्थानाद् वृत्तीनाम् अवस्थानम् इति यानीमानि विषयग्रहणानि तान्य् अवतिष्टन्त इति युगपद् विषयाणां ग्रहणं प्रसज्यत इति
SK
********************** Nय्SBह्_३,२.५ **********************
SK
% प्.८१६
SK
Nय्S_३,२.५: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ||
SK
अतीते च प्रत्यभिज्ञाने वृत्तिमान् अप्य् अतीत इत्य् अन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानात्वम् इति
SK
********************** Nय्SBह्_३,२.६ **********************
SK
अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यत इति ---
SK
Nय्S_३,२.६: क्रमवृत्तित्वाद् अयुगपद् ग्रहणम् ||
SK
इन्द्रियार्थानाम्, वृत्तिवृत्तिमतोर् नानात्वम् इति/
SK
% प्.८१७
SK
********************** Nय्SBह्_३,२.७ **********************
SK
Nय्S_३,२.७: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ||
SK
अप्रत्यभिज्ञानम् अनुपलब्धिः/ अनुपलब्धिश् च कस्याचिद् अर्थस्य विषयान्तरव्यासक्ते मनस्य् उपपद्यते वृत्तिवृत्तिमतोर् नानात्वात्, एकत्वे हि अनर्थको व्यासङ्ग इति
SK
********************** Nय्SBह्_३,२.८ **********************
SK
विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः ---
SK
Nय्S_३,२.८: न, गत्यभावात् ||
SK
प्राप्तानीन्द्रियाण्य् अन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः/ तत्र क्रमवृत्तित्वाभावाद् अयुगपद् ग्रहणानुपपत्तिर् इति/
SK
% प्.८१८ गत्यभावाच् च प्रतिषिद्धं विभुनो ऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते इति/ यथा चक्षुषो गतिः प्रतिषिद्धा सन्निकृष्टविप्रकृष्टयोस् तुल्यकालग्रहणात् पाणिचन्द्रमसोर् व्यवधानेन प्रतीघाते सोऽनुमीयत इति सो ऽयं नान्तः करणे विवादो न तस्य नित्यत्वे/
SK
% करणे विवादो न तस्य नित्यत्वे] प्.८१९ सिद्धं हि मनो ऽन्तःकरणं नित्यं चेति/ क्व तर्हि विवादः? तस्य विभुत्वे, तच् च प्रमाणतो ऽनुपलब्धेः प्रतिषिद्धम् इति/ एकं चान्तःकरणं नाना चैता ज्ञानात्मका वृत्तयः, चक्षुर्विज्ञानं घ्राणविज्ञानं रूपविज्ञानं गन्धविज्ञानम्/ एतच् च वृत्तिवृत्तिमतोर् एकत्वे ऽनुपपन्नम् इति/ पुरुषो जानीते नान्तःकरणम् इति/ एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः/ विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति, केनचिद् इन्द्रियेण सन्निधिः केनचिद् असन्निधिर् इत्य् अयं तु व्यासङ्गो ऽनुज्ञायते मनस इति
SK
********************** Nय्SBह्_३,२.९ **********************
SK
% प्.८२० एकम् अन्तःकरणं नाना वृत्तय इति/ सत्य् अभेदे वृत्तेर् इदम् उच्यते ---
SK
Nय्S_३,२.९: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ||
SK
तस्यां वृत्तौ नानात्वाभिमानः, यथा द्रव्यान्तरोपहिते स्फटिके अन्यत्वाभिमानो नीलो लोहित इति; एवं विषयान्तरोपधानाद् इति/
SK
% प्.८२१ न हेत्वभावात्/ स्फटिकान्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमानो गौणो न पुनर् गन्धाद्यन्यत्वाभिमानवद् इति हेतुर् नास्ति हेत्वभावाद् अनुपपन्न इति/ समानो हेत्वभाव इति चेत् न ज्ञानानां क्रमेणोपजनापायदर्शनात् --- क्रमेण हीन्द्रियार्थेषु ज्ञानान्य् उपजायन्ते चापयन्ति चेति दृश्यते/
SK
% चापयन्ति चेति दृश्यते/] प्.८२२ तस्माद् गन्धाद्यन्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमान इति
SK
********************** Nय्SBह्_३,२.१० **********************
SK
% प्.८२३ स्फटिकान्यत्वाभिमानवद् इत्य् एतद् अमृष्यमाणः क्षणिकवाद्य् आह ---
SK
Nय्S_३,२.१०: स्फटिके ऽप्य् अपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनाम् अहेतुः ||
SK
% प्.८२४ स्फटिकस्याभेदेनावस्थितस्योपधानभेदान् नानात्वाभिमान इत्य् अयम् अविद्यमानहेतुकः पक्षः/ कस्मात्? स्फटिके ऽप्य् अपरापरोत्पत्तेः/ स्फटिके ऽपि अन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्त इति/ कथम्? क्षणिकत्वाद् व्यक्तीनाम्/ क्षणश् चाल्पीयान् कालः क्षणस्थितिकाः क्षणिकाः/ कथं पुनर् गम्यते क्षणिका व्यक्तय इति? उपचयापचयप्रबन्धदर्शनाच् छरीरादिषु/ पक्तिनिर्वृत्तस्याहाररसस्य शरीरे रुधिरादिभावेनोपचयो ऽपचयश् च प्रबन्धेन प्रवर्त्तते/ उपचयाद् व्यक्तीनाम् उत्पादः, अपचयाद् व्यक्तिनिरोधः/ एवं च सत्य् अवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरे गृह्यते इति सो ऽयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति
SK
********************** Nय्SBह्_३,२.११ **********************
SK
% प्.८२५
SK
Nय्S_३,२.११: नियमहेत्वभावाद् यथादर्शनम् अभ्यनुज्ञा ||
SK
सर्वासु व्यक्तिषु उपचयापचयप्रबन्धः शरीरवद् इति नायं नियमः/ कस्मात्? हेत्वभावात्/ नात्र प्रत्यक्षम् अनुमानं वा प्रतिपादकम् अस्तीति/ तस्माद् यथादर्शनम् अभ्यनुज्ञा/ यत्र यत्रोपचयापचयप्रबन्धो दृश्यते, तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिर् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,
SK
% र् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,] प्.८२६ यथा शरीरादिषु/ यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु/ स्फटिके ऽप्य् उपचयापचयप्रबन्धो न दृश्यते, तस्माद् अयुक्तं स्फटिके ऽप्य् अपराप्रोत्पत्तिर् इति/ यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानाम् आपादयेत् तादृग् एतद् इति
SK
********************** Nय्SBह्_३,२.१२ **********************
SK
यश् चाशेषनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसन्ताने क्षणिकतां मन्यते तस्यैतत् ---
SK
Nय्S_३,२.१२: नोत्पत्तिविनाशकारणोपलब्धेः ||
SK
उत्पत्तिकारणं तावद् उपलभ्यते अवयवोपचयो वल्मीकादीनाम्, विनाशकारणं चोपलभ्यते घटादीनाम् अवयवविभागः/
SK
% लभ्यते घटादीनाम् अवयवविभागः/] प्.८२७ यस्य त्व् अनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वापूर्वोत्पादे न कारणम् उभयत्राप्य् उपलभ्यते इति
SK
********************** Nय्SBह्_३,२.१३ **********************
SK
%८२९
SK
Nय्S_३,२.१३: क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच् च तदुपपत्तिः ||
SK
यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके परापरासु व्यक्तिषु विनाशकारणम् उत्पादकारणं चाभ्यनुज्ञेयम् इति
SK
********************** Nय्SBह्_३,२.१४ **********************
SK
% प्.८३०
SK
Nय्S_३,२.१४: लिङ्गतो ग्रहणान् नानुपलब्धिः ||
SK
क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यते ऽतो नानुपलब्धिः, विपर्ययस् तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तौ व्यक्तीनां न लिङ्गम् अस्तीत्य् अनुत्पत्तिर् एवेति
SK
********************** Nय्SBह्_३,२.१५ **********************
SK
% प्.८४६ अत्र कश्चित् परिहारम् आह ---
SK
Nय्S_३,२.१५: न पयसः परिणामगुणान्तरप्रादुर्भावात् ||
SK
पयसः परिणामो न विनाश इत्य् एक आह/ परिणामश् चावस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिर् इति/ गुणान्तरप्रादुर्भाव इत्य् अपर आह/ सता द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरम् उत्पद्यत इति/ स खल्व् एकपक्षीभाव इव
SK
********************** Nय्SBह्_३,२.१६ **********************
SK
% प्.८४७ अत्र तु प्रतिषेधः ---
SK
Nय्S_३,२.१६: व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेर् अनुमानम् ||
SK
संमूर्छनलक्षणाद् अवयवव्यूहाद् द्रव्यान्तरे दध्नि उत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्यम् अवयवविभागेभ्यो निवृत्तम् इत्य् अनुमीयते, यथा मृदवयवानां व्यूहान्तराद् द्रव्यान्तरे स्थाल्याम् उत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्त्तते इति/ मृद्वच् चावयवान्वयः पयोदध्नोर् नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटत इति
SK
********************** Nय्SBह्_३,२.१७ **********************
SK
% प्.८४८ अभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यते ---
SK
Nय्S_३,२.१७: क्वचिद् विनाशकारणानुपलब्धेः क्वचिच् चोपलब्धेर् अनेकान्तः ||
SK
क्षीरदधिवन् निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनाम् इति नायम् एकान्त इति/ कस्मात्? हेत्वभावात्/ नात्र हेतुर् अस्ति अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदधिवत्, न पुनर् यथा विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाच् चोत्पत्तिः एवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद् विनाशोत्पत्तिभाव इति/
SK
% प्.८४९ निरधिष्ठानं च दृष्टान्तवचनम्/ गृह्यमाणयोर् विनाशोत्पादयोः स्फटिकादिषु स्याद् अयम् आश्रयवान् दृष्टान्तः क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिवच् चेति, तौ तु न गृह्येते/ तस्मान् निरधिष्ठानो ऽयं दृष्टान्त इति/ अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ यो ऽत्र साधकस् तस्याभ्यनुज्ञानाद् अप्रतिषेधः/ कुम्भवन् न निष्कारणौ विनाशोत्पादौ स्फटिकादीनाम् इत्य् अनुज्ञेयो ऽयं दृष्टान्तः प्रतिषेद्धम् अशक्यत्वात्/ क्षीरदधिवत् तु निष्कारणौ विनाशोत्पादाव् इति शक्यो ऽयं प्रतिषेद्धुं कारणतो विनाशोत्पत्तिदर्शनात्/ क्षीरदध्नोर् विनाशोत्पत्ती पश्यता तत्कारणम् अनुमेयं कार्यलिङ्गं हि कारणम् इति
SK
********************** Nय्SBह्_३,२.१८ **********************
SK
% प्.८५० उपपन्नम् अनित्या बुद्धिर् इति/ इदं तु चिन्त्यते कस्येयं बुद्धिर् आत्मेइन्द्रियमनो ऽर्थानां गुण इति/ प्रसिद्धो ऽपि खल्व् अयम् अर्थः परीकषाशेषं प्रवर्त्तयामीति प्रक्रियते/ सो ऽयं बुद्धौ सन्निकर्षोत्पत्तेः संशयः विशेषस्याग्रहणाद् इति/ तत्रायं विशेषः
SK
Nय्S_३,२.१८: नेन्द्रियार्थयोस् तद्विनाशे ऽपि ज्ञानावस्थानात् ||
SK
नेन्द्रियाणाम् वा गुणो ज्ञानं तेषां विनाशो ऽपि ज्ञानस्य भावात्/ भवति खल्व् इदम् इन्द्रिये ऽर्थे च विनष्टे ज्ञानम् अद्राक्षम् इति/ न च ज्ञातरि विनष्थे ज्ञानं भवितुम् अर्हति/ अन्यत् खलु वै तद् इन्द्रियार्थसन्निकर्षजं ज्ञानं यद् इन्द्रियार्थविनाशे न भवति/
SK
% भवति] प्.८५१ इदम् अन्यद् आत्ममनःसन्निकर्षजम्, तस्य युक्तो भाव इति/स्मृतिः खल्व् इयम् अद्राक्षम् इति पूर्वदृष्टविषया/ न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तम्, न चान्यदृष्टम् अन्यः स्मरति/ न च मनसि ज्ञातर्य् अभ्युपगम्यमाने शक्यम् इन्द्रियार्थयोर् ज्ञातृत्वं प्रतिपादयितुम्
SK
********************** Nय्SBह्_३,२.१९ **********************
SK
आस्तु तर्हि मनोगुणा ज्ञानम् ---
SK
Nय्S_३,२.१९: युगपज् ज्ञेयानुपलब्धेश् च न मनसः ||
SK
युगपज् ज्ञेयानुपलब्धिर् अन्तःकरणस्य लिङ्गम्, तत्र युगपज् ज्णेयानुपलब्ध्या यद् अनुमीयते अन्तःकरणम्, न तस्य गुणो ज्ञानम्/ कस्य तर्हि? ज्ञस्य वशित्वात्/
SK
% प्.८५२ वशी ज्ञाता वश्यं करणम्, ज्ञानगुणत्वे च करणभावनिवृत्तिः/ घ्राणादिसाधनस्य च ज्ञातुर् गन्धादिज्ञानभावाद् अनुमीयते अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश् चेति/ तत्र यज् ज्ञानगुणं मनः स आत्मा, यत् तु सुखाद्युपलब्धिसाधनम् अन्तःकरणं मनस् तद् इति संज्ञाभेदमात्रं नार्थभेद इति/
SK
% प्.८५३ युगपज् ज्ञेयोपलब्धेश् च योगिन इति वा चार्थः/ योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु युगपज् ज्ञेयान्य् उपलभते/ तच् चैतद् विभौ ज्ञातर्य् उपपद्यते नाणौ मनसीति/ विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः/ विभु च मनस्तदन्तःकरणभूतम् इति तस्य सर्वेन्द्रियैर् युगपत् संयोगाद् युगपज् ज्ञानान्य् उत्पद्येरन्न् इति
SK
********************** Nय्SBह्_३,२.२० **********************
SK
Nय्S_३,२.२०: तदात्मगुणत्वे ऽपि तुल्यम् ||
SK
विभुर् आत्मा सर्वेन्द्रियैः संयुक्त इति युगपज् ज्ञानोत्पत्तिप्रसङ्ग इति
SK
********************** Nय्SBह्_३,२.२१ **********************
SK
% प्.८५४
SK
Nय्S_३,२.२१: इन्द्रियैर् मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ||
SK
गन्धाद्युपलब्धेर् इन्द्रियार्थसन्निकर्षवद् इन्द्रियमनःसन्निकर्षो ऽपि कारणम्, तस्य चायौगपद्यम् अणुत्वान् मनसः/ अयौगपद्याद् अनुत्पत्तिर् युगपज् ज्ञानानाम् आत्मगुणत्वे ऽपीति
SK
********************** Nय्SBह्_३,२.२२ **********************
SK
यदि पुनर् आत्मेन्द्रियार्थसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्येत?
SK
Nय्S_३,२.२२: नोत्पत्तिकारणानपदेशात् ||
SK
आत्मेन्द्रियसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्यते इति, नात्रोत्पत्तिकारणम् अपदिश्यते येनैतत् प्रतिपद्येमहीति
SK
********************** Nय्SBह्_३,२.२३ **********************
SK
% प्.८५५
SK
Nय्S_३,२.२३: विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ||
SK
``तदात्मगुणत्वे ऽपि तुल्यम्ऽऽ इत्य् एतद् अनेन समुच्चीयते/ द्विविधो हि गुणनाशहेतुः, गुणानाम् आश्रयाभावो विरोधी च गुणः/ नित्यत्वाद् आत्मनो ऽनुपपन्नः पूर्वः, विरोधी च बुद्धेर् गुणो न गृह्यते --- तस्माद् आत्मगुणत्वे सति बुद्धेर् नित्यत्वप्रसङ्गः
SK
********************** Nय्SBह्_३,२.२४ **********************
SK
% प्.८५६
SK
Nय्S_३,२.२४: अनित्यत्वग्रहाद् बुद्धेर् बुद्ध्यन्तराद् विनाशः शब्दवत् ||
SK
अनित्या बुद्धिर् इति सर्वशरीरिणां प्रत्यात्मवेदनीयम् एतत्/ गृह्यते च बुद्धिसन्तानः तत्र बुद्धेर् बुद्ध्यन्तरं विरोधी गुण इत्य् अनुमीयते यथा शब्दसन्ताने शब्दः शब्दान्तरविरोधीति
SK
********************** Nय्SBह्_३,२.२५ **********************
SK
% प्.८५७ असङ्ख्येयेषु ज्ञानकारितेषु संस्कारेषु स्मृतिहेतुष्व् आत्मसमवेतेष्व् आत्ममनसोश् च सन्निकर्षे समाने स्मृतिहेतौ सति न कारणस्यायौगपद्यम् अस्तीति युगपत् स्मृतयः प्रादुर्भवेयुः यदि बुद्धिर् आत्मगुणः स्याद् इति/ तत्र कश्चित् सन्निकर्षस्यायौगपद्यम् उपपादयिष्यन्न् आह ---
SK
Nय्S_३,२.२५: ज्ञानसमवेतात्मप्रदेशसन्निकर्षान् मनसः स्मृत्युत्पत्तेर् न युगपदुत्पत्तिः ||
SK
ज्ञानसाधनः संस्कारो ज्ञानम् इत्य् उच्यते ज्ञानसंस्कृतैर् आत्मप्रदेशैः पर्यायेण मनः सन्निकृष्यते/ आत्ममनःसन्निकर्षात् स्मृतयो ऽपि पर्यायेण भवन्तीति
SK
********************** Nय्SBह्_३,२.२६ **********************
SK
% प्.८५८
SK
Nय्S_३,२.२६: नान्तःशरीरवृत्तित्वान् मनसः ||
SK
सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनम् इष्यते/ तत्रास्य प्राक् प्रायणाद् अन्तःशरीरे वर्तमानस्य मनसः शरीराद् बहिर्ज्ञानसंस्कृतैर् आत्मप्रदेशैः संयोगो नोपपद्यत इति
SK
********************** Nय्SBह्_३,२.२७ **********************
SK
% प्.८५९
SK
Nय्S_३,२.२७: साध्यत्वाद् अहेतुः ||
SK
विपच्यमानकर्माशयमात्रं जीवनम्, एवं च सति साध्यम् अन्तःशरीरवृत्तित्वं मनस इति
SK
********************** Nय्SBह्_३,२.२८ **********************
SK
Nय्S_३,२.२८: स्मरतः शरीरधारणोपपत्तेर् अप्रतिषेधः ||
SK
सुस्मूर्षया खल्व् अयं मनः प्रणिदधानश् चिराद् अपि कंचिद् अर्थं स्मरति, स्मरतश् च शरीरधारणं दृश्यते/ आत्ममनःसन्निकर्षजश् च प्रयत्नो द्विविधः --- धारकः प्रेरकश् च, निःसृते च शरीराद् बहिर् मनासि धारकस्य प्रयत्नस्याभावाद् गुरुत्वात् पतनं स्यात् शरीरस्य स्मरत इति//२८//०
SK
********************** Nय्SBह्_३,२.२९ **********************
SK
% प्.८६०
SK
Nय्S_३,२.२९: न तदाशुगतित्वान् मनसः ||
SK
आशुगति मनः तस्य बहिःशरीरात्मप्रदेशेन ज्ञानसंस्कृतेन सन्निकर्षः, प्रत्यागतस्य च प्रयत्नोत्पादनम् उभयं युज्यत इति/ उत्पाद्य वा धारकं प्रयत्नं शरीरान् निःसरणं मनसः, अतस् तत्रोपपन्नं धारणम् इति
SK
********************** Nय्SBह्_३,२.३० **********************
SK
Nय्S_३,२.३०: न स्मरणकालानियमात् ||
SK
किञ्चित् क्षिप्रं स्मर्यते किञ्चिच् चिरेण/ यदा चिरेण, तदा सुस्मूर्षया मनसि धार्यमाणे चिन्ताप्रबन्धे सति कस्यचिद् अर्थस्य लिङ्गभूतस्य चिन्तनम् आराधितं स्मृतिहेतुर् भवति/ तत्रैतच् चिरनिश्चरिते मनसि नोपपद्यत इति/ शरीरसंयोगानपेक्षश् चात्ममनःसंयोगो न स्मृतिहेतुः शरीरस्य भोगायतनत्वात्/
SK
% प्.८६१ उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनाम् उत्पत्तौ कल्पते, कॢप्तौ वा शरीरवैयर्थ्यम् इति
SK
********************** Nय्SBह्_३,२.३१ **********************
SK
Nय्S_३,२.३१: आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषः ||
SK
आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्यात्, यदृच्छया वा, आकस्मिकतया ज्ञतया वा मनसः? सर्वथा चानुपपत्तिः/ कथम्? स्मर्तव्यत्वात्, इच्छातः स्मरणाज् ज्ञानासम्भवाच् च/ यदि तावद् आत्मा अमुष्यार्थस्य स्मृतिहेतुः संस्कारः अमुष्मिन्न् आत्मदेशे समवेतस् तेन मनः संयुज्यताम् इति मनः प्रेरयति तदा स्मृत एवासाव् अर्थो भवति न स्मर्तव्यः/ न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा, तत्रानुपपन्नात्मप्रत्यक्षेण संवित्तिर् इति/ सुस्मूर्षया चायं मनः प्रणिदधानश् चिराद् अपि कञ्चिद् अर्थं स्मरति नाकस्मात्, ज्ञत्वं च मनसो नास्ति ज्ञानप्रतिषेधाद् इति
SK
********************** Nय्SBह्_३,२.३२ **********************
SK
% प्.८६२ एतच् च ---
SK
Nय्S_३,२.३२: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ||
SK
यदा खल्व् अयं व्यासक्तमनाः क्वचिद् देशे शर्करया कण्टकेन वा पादव्यथनम् आप्नोति तदा आत्ममनः संयोगविशेष एषितव्यः, दृष्टं हि दुःखं दुःखवेदनं चेति/ तत्रायं समानः प्रतिषेधः/ यदृच्छया तु न विशेषो नाकस्मिकी क्रिया नाकस्मिकः संयोग इति/ कर्मादृष्टम् उपभोगार्थं क्रियाहेतुर् इति चेत् समानम्/ कर्मादृष्टं पुरुषस्थं पुरुषोपभोगार्थं मनसि क्रियाहेतुः एवं दुःखं दुःखसंवेदनं च सिध्यतीत्य् एवं चेन् मन्यसे, समानम् --- स्मृतिहेताव् अपि संयोगविशेषो भवितुम् अर्हति/ तत्र यद् उक्तम् ``आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषःऽऽ इत्य् अयम् अप्रतिषेध इति/ पूर्वस् तु प्रतिषेधो ``नान्तःशरीरवृत्तित्वान् मनसऽऽ इति
SK
********************** Nय्SBह्_३,२.३३ **********************
SK
%८६३ कः खल्व् इदानीं कारणयौगपद्यसद्भावे युगपद् अस्मरणस्य हेतुर् इति?
SK
Nय्S_३,२.३३: प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावाद् युगपद् अस्मरणम् ||
SK
यथा खल्व् आत्ममनसोः सन्निकर्षः संस्कारश् च स्मृतिहेतुर् एवं प्रणिधानं लिङ्गादिज्ञानानि तानि च न युगपद्भवन्ति तत्कृता स्मृतीनां युगपद् अनुत्पत्तिर् इति/ प्रतिभवत् तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः/ यत् खल्व् इदं प्रातिभम् इव ज्ञानं प्रणिधानाद्यनपेक्षं स्मार्त्तम् उत्पद्यते कदाचित् तस्य युगपदुत्पत्तिप्रसङ्गो हेत्वभावात्/ सतः स्मृतिहेतोर् असंवेदनात् प्रातिभेन समानाभिमानः/ बह्वर्थविषये वै चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,
SK
% चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,] प्.८६४ तस्यानुचिन्तनात् तस्य स्मृतिर् भवति/ न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते एवं मे स्मृतिर् उत्पन्नेति/ असंवेदनात् प्रातिभम् इव ज्ञानम् इदं स्मार्तम् इति अभिमन्यते, न त्व् अस्ति प्रणिधानाद्यनपेक्षं स्मार्तम् इति/ प्रातिभे कथम् इति चेत् पुरुषकर्मविशेषाद् उपभोगवन् नियमः/ प्रातिभम् इदानीं ज्ञानं युगपत् कस्मान् नोत्पद्यते? यथोपभोगार्थं कर्म युगपदुपभोगं न करोति एवं पुरुषकर्मविशेषः प्रतिभाहेतुर् न युगपद् अनेकं प्रातिभं ज्ञानम् उत्पादयति/ हेत्वभावाद् अयुक्तम् इति चेत्, न करणस्य प्रत्ययपर्याये सामर्थ्यात्/ ``उपभोगवन् नियमऽऽ इत्य् अस्ति दृष्टान्तो हेतुर् नास्तीति चेन् मन्यसे? न, करणस्य प्रत्ययपर्याये सामर्थ्यात्/ नैकस्मिन् ज्ञेये युगपद् अनेकं ज्ञानम् उत्पद्यते, न चानेकस्मिन्/ तद् इदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति/
SK
% प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति/] प्.८६५ अयं च द्वितीयः प्रतिषेधः, अवस्थितशरीरस्य चानेकज्ञानसमवायाद् एकप्रदेशे युगपद् अनेकार्थस्मरणं स्यात्/ क्वचिद् देशे ऽवस्थितशरीरस्य ज्ञातुर् इन्द्रियार्थप्रबन्धेन ज्ञानम् अनेकम् एकस्मिन्न् आत्मप्रदेशे समवैति/ तेन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्यानेकस्य युगपत् स्मरणं प्रसज्यते प्रदेशसंयोगपर्यायाभावाद् इति/ आत्मप्रदेशानाम् अद्रव्यान्तरत्वाद् एकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यप्रतिषेधानुपपत्तिः/
SK
% प्.८६६ शब्दसन्ताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्त्या मनसः स्मृत्युत्पत्तेर् न युगपद् उत्पत्तिप्रसङ्गः/ पूर्व एव तु प्रतिषेधो नानेकज्ञानसमवायाद् एकप्रदेशे युगपत् स्मृतिप्रसङ्ग इति
SK
********************** Nय्SBह्_३,२.३४ **********************
SK
पुरुषधर्मो ज्ञानम् अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा इति कस्यचिद् दर्शनम्, तत् प्रतिषिध्यते ---
SK
% प्.८६७
SK
Nय्S_३,२.३४: ज्ञस्येच्छाद्वेषनिमित्तत्वाद् आरम्भनिवृत्त्योः ||
SK
अयं खलु जानाति तावद् इदं मे सुखसाधनम् इदं मे दुःखसाधनम् इति ज्ञात्वा स्वस्य सुखसाधनम् आप्तुम् इच्छति, दुःखसाधनं हातुम् इच्छति, प्राप्तीच्छाप्रयुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः, जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः, एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानाम् एकेनाभिसम्बन्धः/ एककर्तृकत्वं ज्ञानेच्छाप्रवृत्तीनां समानाश्रयत्वं च/ तस्माज् ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाचेतनस्येति/ आरम्भनिवृत्त्योश् च प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानं वेदितव्यम् इति
SK
********************** Nय्SBह्_३,२.३५ **********************
SK
% प्.८६८ अत्र भूतचैतनिक आह ---
SK
Nय्S_३,२.३५: तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् प्रतिषेधः ||
SK
आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानम् इति प्राप्तं पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति चैतन्यम्
SK
********************** Nय्SBह्_३,२.३६ **********************
SK
Nय्S_३,२.३६: परश्वादिष्व् आरम्भनिवृत्तिदर्शनात् ||
SK
शरीरे चैतन्यनिवृत्तिः/ आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति प्राप्तं परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच् चैतन्यम् इति/ अथ शरीरस्येच्छादिभिर् योगः, परश्वादेस् तु करणस्यारम्भनिवृत्ती व्यभिचरतः, न तर्ह्य् अयं हेतुः पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति/
SK
% प्.८६९ अयं तर्ह्य् अन्यो ऽर्थः --- तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधः/ पृथिव्यादीनां भूतानाम् आरम्भस् तावत् त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः लोष्टादिषु च लिङ्गाभावात् प्रवृत्तिविशेषाभावो निवृत्तिः/ आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति पार्थिवाद्येष्व् अणुषु तद्दर्शनाद् इच्छाद्वेषयोगस् तद्योगाज् ज्ञानयोग इति सिद्धं भूतचैतन्यम् इति/ कुम्भादिष्व् अनुपलब्धेर् अहेतुः/ कुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष आरम्भः, सिकतादिषु प्रवृत्तिविशेषाभावो निवृत्तिः/ न च मृत्सिकतानाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषप्रयत्नज्ञानैर् योगः/ तस्मात् तल्लिङ्गत्वाद् इच्छाद्वेषयोर् इत्य् अहेतुर् इति
SK
********************** Nय्SBह्_३,२.३७ **********************
SK
Nय्S_३,२.३७: नियमानियमौ तु तद्विशेषकौ ||
SK
तयोर् इच्छाद्वेषयोर् नियमानियमौ विशेषकौ भेदकौ/ ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती न स्वाश्रये/
SK
% प्रवृत्तिनिवृत्ती न स्वाश्रये/] प्.८७० किं तर्हि? प्रयोज्याश्रये/ तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्व् इत्य् अनियमोपपत्तिः/ यस्य तु ज्ञत्वाद् भूतानाम् इच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमः स्यात्, यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिर् गुणप्रतिबन्धाच् च निवृत्तिर् भूतमात्रे भवति नियमेन, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम्, न तु भवतः तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः, प्रयोज्याश्रये तु प्रवृत्तिनिवृत्तीति सिद्धम्/
SK
% प्.८७१ एकशरीरे तु ज्ञातृबहुत्वं निरनुमानम्/ भूतचैतनिकस्यैकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम्/ ओम् इति ब्रुवतः प्रमाणं नास्ति, यथा नानाशरीरेषु नाना ज्ञातारो बुद्ध्यादिगुणव्यवस्थानात्, एवम् एकशरीरे ऽपि बुद्ध्यादिव्यवस्थानुमानं स्याज् ज्ञातृबहुत्वस्येति/
SK
% प्.८७२ दृष्टश् च अन्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सो ऽनुमानम् अन्यत्रापि/ दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिष्व् अन्यगुणनिमित्तः प्रवृत्तिविशेषः/ सो ऽनुमानम् अन्यत्रापि त्रसस्थावरशरीरेषु/ तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानाम् अन्यगुणनिमित्त इति/ स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवद् इति/ आत्मास्तित्वहेतुभिर् आत्मनित्यत्वहेतुभिश् च भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः/ ``नेन्द्रियार्थयोस् तद्विनाशे ऽपि ज्जानावस्थानाद्ऽऽइति च समानः प्रतिषेध इति/ क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्य् अभिप्रेत्योक्तम् ``तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधःऽऽ/ अन्यथा त्व् इमे आरम्भनिवृत्ती आख्याते, न च तथाविधे पृथिव्यादिषु दृश्येते/ तस्माद् अयुक्तम् ``तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधऽऽइति//३७
SK
********************** Nय्SBह्_३,२.३८ **********************
SK
% प्.८७३ भूतेन्द्रियमनसां समानः प्रतिषेधः, मनस् तूदाहरणमात्रम्/
SK
Nय्S_३,२.३८: यथोक्तहेतुत्वात् पारतन्त्र्याद् अकृताभ्यागमाच् च न मनसः ||
SK
``इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम्ऽऽइत्य् अतः प्रभृति यथोक्तं सङ्गृह्यते, तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः/ पारतन्त्र्यात् --- परतन्त्राणि भूतेन्द्रियमनांसि धारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात् प्रवर्त्तन्ते, चैतन्ये पुनः स्वतन्त्राणि स्युर् इति/
SK
% प्.८७४ अकृताभ्यागमाच् च --- ``प्रवृत्तिर् वाग्बुद्धिशरीरारम्भऽऽइति चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यत इति स्यात्, अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्य् उपपद्यत इति
SK
********************** Nय्SBह्_३,२.३९ **********************
SK
% प्.८७५ अथायं सिद्धोपसंग्रहः ---
SK
Nय्S_३,२.३९: परिशेषाद् यथोक्तहेतूपपत्तेश् च ||
SK
आत्मगुणो ज्ञानम् इति प्रकृतम्/ परिशेषो नाम `प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययःऽऽ/ भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते शिष्यते चात्मा तस्य गुणो ज्ञानम् इति ज्ञायते/ यथोक्तहेतूपपत्तेश् चेति ``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽइत्येवमादीनाम् आत्मप्रतिपत्तिहेतूनाम् अप्रतिषेधाद् इति/ परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनम् इति/ अथ वा उपपत्तेश् चेति हेत्वन्तरम् एवेदम्/ नित्यः खल्व् अयम् आत्मा, यस्माद् एकस्मिन् शरीरे धर्मं चरित्वा कायस्य भेदात् स्वर्गे देवेषूपपद्यते, अधर्मं चरित्वा देहभेदात् नरकेषूपपद्यत इति/ उपपत्तिः शरीरान्तरप्राप्तिलक्षणा, सा सति सत्त्वे नित्ये चाश्रयवती, बुद्धिप्रबन्धमात्रे तु निरात्मके निराश्रया नोपपद्यत इति/ एकसत्त्वाधिष्ठानश् चानेकशरीरयोगः संसार उपपद्यते, शरीरप्रबन्धोच्छेदश् चापवर्गो मुक्तिर् इत्य् उपपद्यते/ बुद्धिसन्ततिमात्रे त्व् एकसत्त्वानुपपत्तेर् न कश्चिद् दीर्घम् अध्वानं सन्धावति न कश्चिच् छरीरप्रबन्धाद् विमुच्यत इति संसारापवर्गानुपपत्तिर् इति/ बुद्धिसन्ततिमात्रे च सत्त्वभेदात् सर्वम् इदं प्राणिव्यवहारजातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,
SK
% -जातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,] प्.८७६ ततः स्मरणाभावात् नान्यदृष्टम् अन्यः स्मरतीति/ स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम् अज्ञासिषम् अमुम् अर्थं ज्ञेयम् इति/ सो .यम् एको ज्ञाता पूर्वज्ञातम् अर्थं गृह्णाति तच् चास्य ग्रहणं स्मरणम् इति, तद् बुद्धिप्रबन्धमात्रे निरात्मके नोपपद्यते
SK
********************** Nय्SBह्_३,२.४० **********************
SK
Nय्S_३,२.४०: स्मरणं त्व् आत्मनो ज्ञस्वाभाव्यात् ||
SK
उपपद्यत इति/ आत्मन एव स्मरणं न बुद्धिसन्ततिमात्रस्येति/ तुशब्दो ऽवधारणे/ कथम्? ज्ञस्वभावत्वात्/ ज्ञ इति अस्य स्वभावः स्वो धर्मः/ अयं खलु ज्ञास्यति जानाति अज्ञासीद् इति त्रिकालविषयेणानेकेन ज्ञानेन सम्बध्यते,
SK
% ज्ञास्यति जानाति ... सम्बध्यते,] प्.८७७ तच् चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयं ज्ञास्यामि जानामि अज्ञासिषम् इति वर्त्तते, तद् यस्यायं स्वो धर्मस् तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति
SK
********************** Nय्SBह्_३,२.४१ **********************
SK
स्मृतिहेतूनाम् अयौगपद्याद् युगपद् अस्मरणम् इत्य् उक्तम्/ अथ केभ्यः स्मृतिर् उत्पद्यत इति? स्मृतिः खलु ---
SK
Nय्S_३,२.४१: प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ||
SK
सुस्मूर्षया मनसो धारणं प्रणिधानं सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम्/ निबन्धः खल्व् एकग्रन्थोपयमो ऽर्थानाम्, एकग्रन्थोपयताः खल्व् अर्था अन्योन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति/
SK
% आनुपूर्व्येणेतरथा वा भवतीति/] प्.८७८ धारणशास्त्रकृतो वा प्रज्ञातेषु वस्तुषु स्मर्तव्यानाम् उपनिक्षेपो निबन्ध इति/ अभ्यासस् तु समाने विषये ज्ञानानाम् अभ्यावृत्तिः, अभ्यासजनितः संस्कार आत्मगुणो ऽभ्यासशब्देनोच्यते, स च स्मृतिहेतुः समान इति/ लिङ्गं पुनः संयोगि समवाय्य् एकार्थसमवायि विरोधि चेति/ यथा धूमो ऽग्नेः, गोर् विषाणम्, पाणिः पादस्य, रूपं स्पर्शस्य अभूतं भूतस्येति/ लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः, विदानाम् इदं गर्गाणाम् इदम् इति/ सादृश्यं चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि/ परिग्रहात् स्वेन वा स्वामी स्वामिना वा स्वं स्मर्यते/ आश्रयाद् ग्रामण्या तदधीनं संस्मरति/ आश्रितात् तदधीनेन ग्रामण्यम् इति/ सम्बन्धाद् अन्तेवासिना युक्तं गुरुं स्मरति, ऋत्विजा याज्यम् इति/
SK
% याज्यम् इति/] प्.८७९ आनन्तर्याद् इति करणीयेष्व् अर्थेषु/ वियोगाद् येन वियुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति/ एककार्यात् कर्त्रन्तरदर्शनात् कर्त्रन्तरे स्मृतिः/ विरोधात्, विजिगीषमाणयोर् अन्यतरदर्शनाद् अन्यतरः स्मर्यते/ अतिशयाद् येनातिशय उत्पादितः/ प्राप्तेः यतो ऽनेन किंचित् प्राप्तम् आप्तव्यं वा भवति तम् अभीक्ष्णं स्मरति/ व्यवधानात् कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते/
SK
% कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते/] प्.८८० सुखदुःखाभ्यां तद्धेतुः स्मर्यते/ इच्छाद्वेषाभ्यां यम् इच्छति यं च द्वेष्टि तं स्मरति/ भयाद् यतो बिभेति/ अर्थित्वाद् येनार्थी भोजनेनाच्छादनेन वा/ क्रियया रथेन रथकारं स्मरति/ रागाद् यस्यां स्त्रियां रक्तो भवति ताम् अभीक्ष्णं स्मरति/ धर्माज् जात्यन्तरस्मरणम् इह चाधीतश्रुतावधारणम् इति/ अधर्मात् प्रागनुभूतदुःखसाधनं स्मरति/ न चैतेषु निमित्तेषु युगपत् संवेदनानि भवन्तीति युगपद् अस्मरणम् इति/ निदर्शनं चेदं स्मृतिहेतूनां न परिसङ्ख्यानम् इति
SK
********************** Nय्SBह्_३,२.४२ **********************
SK
% प्.८८१ अनित्यायां च बुद्धाव् उत्पन्नापवर्गित्वात् कालान्तरावास्थानाच् च अनित्यानां संशयः किम् उत्पत्पन्नापवर्गिणी बुद्धिः शब्दवत् आहोस्वित् कालान्तरावस्थायिनी कुम्भवद् इति/ उत्पन्नापवर्गिणीति पक्षः परिगृह्यते/कस्मात्?
SK
Nय्S_३,२.४२: कर्मानवस्थायिग्रहणात् ||
SK
कर्मणो ऽनवस्थायिनो ग्रहणाद् इति/ क्षिप्तस्येषोर् आपतनात् क्रियासन्तानो गृह्यते, प्रत्यर्थनियमाच् च बुद्धीनां क्रियासन्तानवद् बुद्धिसन्तानोउपपत्तिर् इति/ अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्शनिवृत्तेः/ अवस्थिते च कुम्भे गृह्यमाणे सन्तानेनैव बुद्धिर् वर्तते प्राग् व्यवधानात् तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते,
SK
% सन्तानेन इव बुद्धिर् ... ज्,जानं निवर्तते,] प्.८८२ कालान्तरावस्थाने तु बुद्धेर् दृश्यव्यवधाने ऽपि प्रत्यक्षम् अवतिष्ठेतेति/ स्मृतिश् चालिङ्गं बुद्ध्यवस्थाने संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात्/ यश् च मन्येत अवतिष्ठते बुद्धिः दृष्टा हि बुद्धिविषये स्मृतिः सा च बुद्धाव् अनित्यायां कारणाभावान् न स्याद् इति/ तद् इदम् अलिङ्गम्/ कस्मात्? बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेतुर् न बुद्धिर् इति/
SK
% प्.८८४ हेत्वभावाद् अयुक्तम् इति चेत्? बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः/यावद् अवतिष्ठते बुद्धिस् तावद् असौ बोद्धव्यार्थिः प्रत्यक्षः प्रत्य्स्क्षे च स्मृतिर् अनुपपन्न इति
SK
********************** Nय्SBह्_३,२.४३ **********************
SK
Nय्S_३,२.४३: अव्यक्तग्रहणम् अनवस्थायित्वाद् विद्युत्सम्पाते रूपाव्यक्तग्रहण्वत् ||
SK
यद्य् उत्पन्नापवर्गिणी बुद्धिः प्राप्तम् अव्यक्तं बोद्धव्यस्य ग्रहणम्, यथा विद्युत्सम्पाते वैद्युतस्य प्रकाशस्यानवस्थानाद् अव्यक्तं रूपग्रहणम् इति; व्यक्तं तु द्रव्याणां ग्रहणं तस्माद् अयुक्तम् एतद् इति
SK
********************** Nय्SBह्_३,२.४४ **********************
SK
Nय्S_३,२.४४: हेतूपादनात् प्रतिषेद्धव्याभ्यनुज्ञा ||
SK
उतपन्नापवर्गिणी बुद्धिर् इति प्रतिषेद्धव्यं तद् एव अभ्यनुज्ञायते विद्युत्सम्पाते रूपाव्यक्तग्रहणवद् इति/
SK
% प्.८८५ यत्राव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिर् इति/ ग्रहणहेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात्/ यद् इदं क्वचिद् अव्यक्तं क्वचिद् व्यक्तं ग्रहणम् अयं विकल्पो ग्रहणहेतुविकल्पात् यत्रानवस्थितो ग्रहणहेतुः तत्राव्यक्तं ग्रहणम् यत्र अवस्थितस् तत्र व्यक्तम्, न तु बुद्धेर् अवस्थानानवस्थानाभ्याम् इति/ कस्मात्? अर्थग्र्हणं हि बुद्धिः यत् तदर्थग्रहणम् अव्यक्तं व्यक्तं वा बुद्धिः सा इति/ विशेषाग्रहणे च सामान्यग्रहणमात्रम् अव्यक्तग्रहणं तत्र विषयान्तरे बुद्ध्यनतरानुत्पत्तिर् निमित्ताभावात्/ यत्र समानधर्मयुक्तश् च धर्मी गृह्यते विशेषधर्मयुक्तश् च तद् व्यक्तम् ग्रहणम्, यत्र तु विशेषे ऽगृह्यमाणे सामान्यग्रहणमात्रं तद् अव्यक्तं ग्रहणम्/ समानधर्मयोगाच् च विशिष्थधर्मयोगो विषयान्तरम्, तत्र यद् ग्रहणं न भवति तद् ग्रहणनिमित्ताभावाद् न बुद्धेर् अनवस्थानाद् इति/
SK
% प्.८८६ यथाविषयं च ग्रहणं व्यक्तम् एव प्रत्यर्थनियतत्वाच् च बुद्धीनाम्/ सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं प्रत्यर्थनियता हि बुद्धयः, तद् इदम् अव्यक्तग्रहणं देशितं क्व विषये बुद्ध्यनवस्थानकारितं स्य्यद् इति? धर्मिणस् तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः/धर्मिणः खल्व् अर्थस्य समानाश् च धर्मा विशिष्टाश् च, तेषु प्रत्यर्थनियता नानाबुद्दयः, ता उभयो यदि धर्मिणि वर्तन्ते तदा व्यकतं ग्रहणं धर्मिणम् अभिप्रेत्य/ यदा तु सामान्यग्रहणमात्रं तदाव्यक्तं ग्रहणम् इति/ एवं धर्मिणम् अभिप्रेत्य व्यक्ताव्यकतयोर् ग्रहणयोर् उपपत्तिर् इति
SK
********************** Nय्SBह्_३,२.४५ **********************
SK
% प्.८८७ न चेदम् अव्यक्तं ग्रहणं बुद्देर् बोद्धव्यस्य वानवस्थायित्वाद् उपपद्यते इति/ इदं हि ---
SK
Nय्S_३,२.४५: न प्रदीपार्चिःसन्तत्त्सभिव्यक्तग्रहणवत् तद्ग्रहणम् ||
SK
अनवस्थायित्वे ऽपि बुद्धेस् तेषां ग्रहणं व्यक्तं प्रतिपत्तव्यम्/ कथम्? प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्/ प्रदीपार्चिषां सन्तत्या वर्तमानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च प्रत्यर्थनियतत्वाद् बुद्धीनां यावन्ति प्रदीपार्चींषि तावत्यो बुद्दय इति/ दृश्यते चात्र व्यक्तं प्रदीपार्चिषाम् ग्रहणम् इति
SK
********************** Nय्SBह्_३,२.४६ **********************
SK
% प्.८८८ चेतना शरीरगुणः सति शरीरे भावाद् असति च अभावाद् इति
SK
Nय्S_३,२.४६: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ||
SK
सांशयिकः सति भावः, स्वगुणो ऽप्सु द्रवत्वम् उपलभ्यते, परगुणश् चोष्णता, तेनायं संशयः किं शरीरगुणश् चेतना शरीरे गृह्यत अथ द्रव्यान्तरगुण इति
SK
********************** Nय्SBह्_३,२.४७ **********************
SK
न शरीरगुणश् चेतना, कस्मात्?
SK
Nय्S_३,२.४७: यावद् द्रव्यभावित्वाद् रूपादीनाम् ||
SK
न रूपादिहीनं शरीरं गृह्यते चेतनाहीनन् तु गृह्यते यथोष्णताहीना आपः, तस्मान् न शरीरगुणश् चेतनेति/
SK
% प्.८८९ संस्कारवद् इति चेद् न कारणानुच्छेदात्/ यथाविधे द्रव्ये संस्कारः तथाविध एवोपरमो न, तत्र कारणोच्छेदाद् अत्यन्तं संस्कारानुपपत्तिर् भवति/ यथाविधे शरीरे चेतना गृह्यते तथाविधे एवात्यन्तोपरमश् चेतनाया गृह्यते/ तस्मात् संस्कारवद् इत्य् असमः समाधिः/ अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्यात्? द्रव्यान्तरस्थं वा? उभयस्थं वा? तन् न, नियमहेत्वभावात्/ शरीरस्थेन कदाचिच् चेतनोत्पद्यते कदाचिन् नेति नियमे हेतुर् नास्तीति/ द्रव्यान्तरस्थेन च शरीर एव चेतनोत्पद्यते न लोष्टादिष्व् इत्य् अत्र न नियमे हेतुर् अस्तीति/ उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीर एव चोत्पद्यते इति नियमे हेतुर् नास्तीति
SK
********************** Nय्SBह्_३,२.४८ **********************
SK
% प्.८९० यच् च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्टः एवं चेतनोपरमः स्याद् इति ---
SK
Nय्S_३,२.४८: न, पाकजगुणान्तरोत्पत्तेः ||
SK
नात्यन्तं रूपोपरमो द्रव्यस्य, श्यामे रूपे निवृत्ते पाकजं गुणान्तरं रक्तं रूपम् उत्पद्यते, शरीरे तु चेतनामात्रोपरमो ऽत्यन्तम् इति
SK
********************** Nय्SBह्_३,२.४९ **********************
SK
% प्.८९१ अथापि ---
SK
Nय्S_३,२.४९: प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः ||
SK
यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस् तावत्सु पाकजोत्पत्तिर् दृश्यते पूर्वगुणैः सह पाकजानाम् अवस्थानस्याग्रहणात्/ न च शरीरे चेतनाप्रतिद्वन्द्विसिद्धौ सहानवस्थायि गुणान्तरं गृह्यते येनानुमीयेत तेन चेतनाया विरोधः/ तस्माद् अप्रतिषिद्धा चेतना यावच् छरीरं वर्तेत, न तु वर्तते, तस्मान् न शरीरगुणश् चेतना इति
SK
********************** Nय्SBह्_३,२.५० **********************
SK
% प्.८९२ इतश् च न शरीरगुणश् चेतना ---
SK
Nय्S_३,२.५०: शरीरव्यापित्वात् ||
SK
शरीरं शरीरावयवाश् च सर्वे चेतनोत्पत्त्या व्याप्ता इति न क्वचिद् अनुत्पत्तिश् चेतनायाः, शरीरवच् छरीरावयवाश् चेतना इति प्राप्तं चेतनबहुत्वम्/ तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गम् एवम् एकशरीरे ऽपि स्यात्, न तु भवति, तस्मान् न शरीरगुणश् चेतनेति
SK
********************** Nय्SBह्_३,२.५१ **********************
SK
यद् उक्तं न क्वचिच् छरीरावयवे चेतनाया अनुत्पत्तिर् इति सा ---
SK
Nय्S_३,२.५१: न केशनखादिष्व् अनुपलब्धेः ||
SK
केशेषु नखादिषु चानुत्पत्तिश् चेतनाया इति अनुपपन्नं शरीरव्यापित्वम् इति
SK
********************** Nय्SBह्_३,२.५२ **********************
SK
% प्.८९३
SK
Nय्S_३,२.५२: त्वक्पर्यन्तत्वाच् छरीरस्य केशनखादिष्व् अप्रसङ्गः ||
SK
इन्द्रियाश्रयत्वं शरीरलक्षणम्, त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतनभूतं शरीरम्, तस्मान् न केशादिषु चेतनोत्पद्यते/ अर्थकारितस् तु शरीरोपनिबन्धः केशादीनाम् इति
SK
********************** Nय्SBह्_३,२.५३ **********************
SK
इतश् च न शरीरगुणश् चेतना ---
SK
Nय्S_३,२.५३: शरीरगुनवैधर्म्यात् ||
SK
% प्.८९४ द्विविधः शरीरगुणः --- अप्रत्यक्षश् च गुरुत्वम्, इन्द्रियग्राह्यश् च रूपादिः, विधान्तरं तु चेतना, नाप्रत्यक्षा संवेद्यत्वात्, नेन्द्रियग्राह्या मनोविषयत्वात्/ तस्माद् द्रव्यान्तरगुण इति
SK
********************** Nय्SBह्_३,२.५४ **********************
SK
Nय्S_३,२.५४: न रूपादीनाम् इतरेतरवैधर्म्यात् ||
SK
यथा इतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहत्य् एवं रूपादिवैधर्म्याच् चेतना शरीरगुणत्वं न हास्यतीति
SK
********************** Nय्SBह्_३,२.५५ **********************
SK
% प्.८९५
SK
Nय्S_३,२.५५: ऐन्द्रियकत्वाद् रूपादीनाम् अप्रतिषेधः ||
SK
अप्रत्यक्सत्वाच् चेति/ यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यम् अतिवर्तन्ते तथा रूपादिवैधर्म्याच् चेतना न द्वैविध्यम् अतिवर्तेत यदि शरीरगुणः स्याद् इति/ अतिवर्त्तते तु, तस्मान् न शरीरगुण इति/ भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्य् आरम्भो विशेषज्ञापनार्थः, बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति
SK
********************** Nय्SBह्_३,२.५६ **********************
SK
% प्.८९६ परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः/ तत् किं प्रतिशरीरम् एकम् अनेकम् इति विचारे ---
SK
Nय्S_३,२.५६: ज्ञानायौगपद्याद् एकं मनः ||
SK
अस्ति खलु वै ज्ञानायौगपद्यम् एकैकस्येन्द्रियस्य यथाविषयम्, करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात्, न तदेकत्वे मनसो लिङ्गम्/ यत् तु खल्व् इदम् इन्द्रियान्तराणां विषयान्तरेषु ज्ञानायौगपद्यम् इति तल् लिङ्गम्/ कस्मात्? सम्भवति खलु वै बहुषु मनःस्व् इन्द्रियमनःसंयोगयौगपद्यम् इति ज्ञानयौगपद्यं स्यात्, न तु भवति/ तस्माद् विषये प्रत्ययपर्यायाद् एकं मनः
SK
********************** Nय्SBह्_३,२.५७ **********************
SK
% प्.८९७
SK
Nय्S_३,२.५७: न युगपद् अनेकक्रियोपलब्धेः ||
SK
अयं खल्व् अध्यापको ऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्य् आरण्यजान् शब्दान् बिभ्यद् व्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयम् इति/ क्रमस्याग्रहणाद् युगपद् एताः क्रिया इति प्राप्तं मनसो बहुत्वम् इति
SK
********************** Nय्SBह्_३,२.५८ **********************
SK
Nय्S_३,२.५८: अलातचक्रदर्शनवत् तदुपलब्धिर् आशुसञ्चारात् ||
SK
आशुसञ्चाराद् अलातस्य भ्रमतो विद्यमानः क्रमो न गृह्यते/ क्रमस्याग्रहणाद् अविच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति/
SK
% -विच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति/] प्.८९८ तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद् विद्यमानः क्रमो न गृह्यते क्रमस्याग्रहणाद् युगपत् क्रिया भवन्न्तीत्य् अभिमानो भवति/ किं पुनः क्रमस्याग्रहणाद् युगपत् क्रियाभिमानः, अथ युगपद्भावाद् एव युगपदनेकक्रियोपलब्धिर् इति नात्र विशेषप्रतिपत्तेः कारणम् उच्यत इति/ उक्तम् इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्तीति तच् चाप्रत्याख्येयम् आत्मप्रत्यक्षत्वात्/ अथापि दृष्टश्रुतान् अर्थान् चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपद् अनेनानुमातव्यम् इति/ वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात् क्रमस्याग्रहणम्/ कथम्? वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच् छ्रवणं भवति, श्रुतं वर्णम् एकम् अनेकं वा पदभावेन स प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति, पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते, पदसमूहप्रतिसन्धानाच् च वाक्यं व्यवस्यति, सम्बद्धांश् च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते/ न चासां क्रमेण वर्तमानानां बुद्धीनाम् आशुवृत्तित्वात् क्रमो गृह्यते, तद् एतद् अनुमानम् अन्यत्र बुद्धिक्रियायौगपद्याभिमानस्येति/ न चास्ति मुक्तसंशया युगपद् उत्पत्तिर् बुद्धीनां यया मनसां बहुत्वम् एकशरीरे ऽनुमीयेत इति
SK
********************** Nय्SBह्_३,२.५९ **********************
SK
% प्.८९९
SK
Nय्S_३,२.५९: यथोक्तहेतुत्वाच् चाणु ||
SK
अणु मन एकं चेति धर्मसमुच्चयो ज्ञानायौगपद्यात्/ महत्त्वे मनसः सर्वेन्द्रियसंयोगाद् युगपद् विषयग्रहणं स्याद् इति
SK
********************** Nय्SBह्_३,२.६० **********************
SK
मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात्/ ज्ञातुश् च पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोपभोगो जिहासितहानम् ईप्सितावाप्तिश् च सर्वे च शरीराश्रया व्यवहाराः/ तत्र खलु विप्रतिपत्तेः संशयः --- किम् अयं पुरुषकर्मनिमित्तः शरीरसर्ग आहोस्विद् भूतमात्राद् अकर्मनिमित्त इति/ श्रूयते खल्व् अत्र विप्रतिपत्तिर् इति/ तत्रेदं तत्त्वम् ---
SK
Nय्S_३,२.६०: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ||
SK
पूर्वशरीरे या प्रवृत्तिर् वाग्बुद्धिशरीरारम्भलक्षणा तत् पूर्वकृतं कर्मोक्तम्, तस्य फलं तज्जनितौ धर्माधर्मौ/
SK
% तज्जनितौ धर्माधर्मौ/] प्.९०० तत्फलस्यानुबन्ध आत्मसमवेतस्यावस्थानम्, तेन प्रयुक्तेभ्यो भूएब्यस् तस्योत्पत्तिः शरीरस्य, न स्वतन्त्रेभ्य इति/ यद् अधिष्ठानो ऽयम् आत्मा ऽयम् अहम् इति मन्यमानो यत्राभियुक्तो यत्रोपभोगतृष्णया विषयानुपलभमानो धर्माधर्मौ संस्करोति तद् अस्य शरीरम्, तेन संस्कारेण धर्माधर्मलक्षणेन भूतसहिते पतिते ऽस्मिन् शरीर उत्तरं निष्पद्यते, निष्पन्नस्य चास्य पूर्वशरीरवत् पुरुषार्थक्रिया, पुरुषस्य च पूर्वशरीरवत् प्रवृत्तिर् इति कर्मापेक्षेभ्यो भूतेभ्यः शरीरसर्गे सत्य् एतद् उपपद्यत इति/
SK
% प्रवृत्तिर् इति कर्मापेक्षेभ्यो ... उपपद्यत इति/] प्.९०१ दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषार्थ्क्रियासमर्थानां द्रव्याणां रथप्रभृतीनाम् उत्पत्तिः/ तथानुमातव्यं शरीरम् अपि पुरुषार्थक्रियासमर्थम् उत्पद्यमानं पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य उत्पद्यत इति
SK
********************** Nय्SBह्_३,२.६१ **********************
SK
% प्.९०२ अत्र नास्तिक आह ---
SK
Nय्S_३,२.६१: भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ||
SK
यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः पुरुषार्थकारित्वाद् उपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीरम् उत्पन्नं पुरुषार्थकारित्वाद् उपादीयते इति
SK
********************** Nय्SBह्_३,२.६२ **********************
SK
Nय्S_३,२.६२: न, साध्यसमत्वात् ||
SK
यथा शरीरोत्पत्तिर् अकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतीनाम् अप्य् अकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वाद् असाधनम् इति ``भूतेभ्यो मूर्त्युपादानवद्ऽऽ इति चानेन साध्यम्
SK
********************** Nय्SBह्_३,२.६३ **********************
SK
% प्.९०३
SK
Nय्S_३,२.६३: नोत्पत्तिनिमित्तत्वान् मातापित्रोः ||
SK
विषमश् चायम् उपन्यासः/ कस्मात्? निर्बीजा इमा मूर्तय उत्पद्यन्ते बीजपूर्विका तु शरीरोत्पत्तिः/ मातापितृशब्देन लोहितरेतसी बीजभूते गृह्येते/ तत्र सत्त्वस्य गर्भवासानुभवनीयं कर्म पित्रोश् च पुत्रफलानुभवनीये कर्मणी मातुर् गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्तीत्य् उपपन्नं बीजानुविधानम् इति
SK
********************** Nय्SBह्_३,२.६४ **********************
SK
% प्.९०४
SK
Nय्S_३,२.६४: तथाहारस्य ||
SK
उत्पत्तिनिमित्तत्वाद् इति प्रकृतम्/ भुक्तं पीतम् आहारः तस्य पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे चोपचीयते बीजे गर्भाशयस्थे बीजसमानपाकम्, मात्रया चोपचयो बीजे यावद् व्यूहसमर्थः सञ्चय इति/ सञ्चितं च कललार्बुदमांसपेशीकण्डराशिरःपाण्यादिना च व्यूहेनेन्द्रियाधिष्ठानभेदेन व्युह्यते, व्यूहे च गर्भनाड्यावतारितं रसद्रव्यम् उपचीयते यावत् प्रसवसमर्थम् इति/ न चायम् अन्नपानस्य स्थाल्यादिगतस्य कल्पत इति/ एतस्मात् कारणात् कर्मनिमित्तत्वं शरीरस्य विज्ञायत इति
SK
********************** Nय्SBह्_३,२.६५ **********************
SK
% प्.९०५
SK
Nय्S_३,२.६५: प्राप्तौ चानियमात् ||
SK
न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर् दृश्यते तत्रासति कर्मणि न भवति सति च भवतीत्य् अनुपपन्नो नियमाभाव इति/ कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुषु नियमः स्यात् न ह्य् अत्र कारणाभाव इति
SK
********************** Nय्SBह्_३,२.६६ **********************
SK
% प्.९०६ अथापि ---
SK
Nय्S_३,२.६६: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ||
SK
यथा खल्व् इदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च कोष्ठगानां वातपित्तकफानां च मुखहृदयामाशयपक्वाशयाधःस्रोतसां च परमदुःखसम्पादनीयेन सन्निवेशेन व्यूहनम् अशक्यं पृथिव्यादिभिः कर्मनिरपेक्षैर् उत्पादयितुम् इति कर्मनिमित्ता शरीरोत्पत्तिर् इति विज्ञायते; एवं च प्रत्यात्मनियतस्य निमित्तस्याभावान् निरतिशयैर् आत्मभिः सम्बन्धात् सर्वात्मनां च समानैः पृथिव्यादिभिर् उत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोर् अभावात् सर्वात्मनां सुखदुःखसंवित्त्यायतनं समानं प्राप्तम्/ यत् तु प्रत्यात्मं व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं कर्म व्यवस्ह्ताहेतुर् इति विज्ञायते/ परिपच्यमानो हि प्रत्यात्मनियतः कर्माशयो यस्मिन्न् आत्मनि वर्तते तस्यैवोपभोगायतनं शरीरम् उत्पाद्य व्यवस्थापयति/ तद् एवं ``शरीरोत्पत्तिनिमित्तवत् संयोगनिमित्तं कर्मऽऽ इति विज्ञायते/ प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोगं प्रचक्ष्मह इति
SK
********************** Nय्SBह्_३,२.६७ **********************
SK
% प्.९०७
SK
Nय्S_३,२.६७: एतेनानियमः प्रत्युक्तः ||
SK
यो .यम् अकर्मनिमित्ते शरीरसर्गे सत्य् अनियम इत्य् उच्यते, अयं ``शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्मऽऽ इति अनेन प्रत्युक्तः/
SK
% -निमित्तवत् संयोगोत्पत्तिनिमित्तं ... प्रत्युक्तः/] प्.९०८ कस् तावद् अयं नियमः? यथैकस्यात्मनः शरीरं तथा सर्वेषाम् इति नियमः/ अन्यस्यान्यथान्यस्यान्यथेत्य् अनियमो भेदो व्यावृत्तिर् विशेष इति/
SK
% -त्य् अनियमो भेदो व्यावृत्तिर् विशेष इति/] प्.९०९ दृष्टा च जन्मव्यावृत्तिर् उच्चाभिजनो निकृष्टाभिजन इति, प्रशस्तं निन्दतम् इति, व्याधिबहुलम् अरोगम् इति, समग्रं विकलम् इति, पीडाबहुलं सुखबहुलम् इति, पुरुषातिशयलक्षणोपपन्नं विपरीतम् इति, प्रशस्तलक्षणं निन्दितलक्षणम् इति, पट्विन्द्रियं मृड्विन्द्रियम् इति/ सूक्ष्मश् च भेदो ऽपरिमेयः/ सो ऽयम् जन्मभेदः प्रत्यात्मनियतात् कर्मभेदाद् उपपद्यते, असति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वाद् आत्मनां समानत्वाच् च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोर् अह्बावात् सर्वं सर्वात्मनां प्रसज्येत, न त्व् इदम् इत्थम्भूतं जन्म/ तस्मान् नाकर्मनित्ता शरीरोत्पत्तिर् इति/ उपपन्नश् च तद्वियोगः कर्मक्षयोपपत्तेः/ कर्मनिमित्ते शरीरसर्गे तेन शरीरेणात्मनो वियोग उपपन्नः/ कस्मात्? कर्मक्षयोपपत्तेः/ उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात् प्रक्षीणे मोहे वीतरागः पुनर्भवहेतुकर्म कायवाङ्मनोभिर् न करोतीत्य् उत्तरस्यानुपचयः पूर्वोपचितस्य विपाकप्रतिसंवेदनात् प्रक्षयः/ एवं प्रसवहेतोर् अभावात् पतिरे ऽस्मिन् शरीरे पुनः शरीरान्तरानुपपत्तेर् अप्रतिसन्धिः/ अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस् तद्वियोगानुपपत्तिर् इति
SK
********************** Nय्SBह्_३,२.६८ **********************
SK
% प्.९१०
SK
Nय्S_३,२.६८: तद् अदृष्टकारितम् इति चेत् पुनस् तत्प्रसङ्गो ऽपवर्गे ||
SK
अदर्शनं खल्व् अदृष्टम् इत्य् उच्यत अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः/ न जात्व् अनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति/ तच् चास्य दृश्यं द्विविधं विषयश् च नानात्वं चाव्यक्तात्मनः, तदर्थः शरीरसर्गः/ तस्मिन्न् अवसिते चरितार्थानि भूतानि न शरीरम् उत्पादयन्तीत्य् उपपन्नः शरीरवियोग इत्य् एवं चेन् मन्यसे, ``पुनस् तत् प्रसङ्गो ऽपवर्गेऽऽ --- पुनः शरीरोत्पत्तिः प्रसज्यत इति/ या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिर् अदर्शनाभिमता या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिर् अदर्शनभूता नैतयोर् अदर्शनयोः क्वचिद् विशेष इत्य् अदर्शनस्यानिवृत्तेर् अपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति/
SK
% प्.९१० चरितार्थता विशेष इति चेत् न करणाकरणयोर् आरम्भदर्शनात्/ चरितार्थानि भूतानि दर्शनावसानान् न शरीरान्तरम् आरभन्त इत्य् अयं विशेष एवं चेद् उच्यते; न, करणाकरणयोर् आरम्भदर्शनात् --- चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो दृश्यते प्रकृतिपुरुषयोर् नानात्वदर्शनस्याकरणान् निरर्थकः शरीरारम्भः पुनः पुनर् दृश्यते/ तस्माद् अकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था शरीरोत्पत्तिर् युक्ता, युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः/ कर्मविपाकसंवेदनं दर्शनम् इति/
SK
% प्.९११ तद् अदृष्टकारितम् इति चेत्? कस्यचिद् दर्शनम् अदृष्टं नाम परमाणूनां गुणविशेषः क्रियाहेतुस् तेन प्रेरिताः परमाणवः सम्मूर्च्छिताः शरीरम् उत्पादयन्तीति तन् मनः समाविशति स्वगुणेनादृष्टेन प्रेरितं समनस्के शरीरे द्रष्टुर् उपलब्धिर् भवतीति/ एतस्मिन् वै दर्शने गुणानुच्छेदात् पुनस् तत्प्रसङ्गो ऽपवर्गे/ अपवर्गे शरीरोत्पत्तिः परमाणुगुणस्यादृष्टस्यानुच्छेद्यत्वाद् इति
SK
********************** Nय्SBह्_३,२.६९ **********************
SK
% प्.९१४
SK
Nय्S_३,२.६९: मनःकर्मनिमित्तत्वाच् च संयोगाव्युच्छेदः ||
SK
मनोगुणेनादृष्टेन समावेशिते मनसि संयोगव्युच्छेदो न स्यात्, तच् च किंकृतं शरीराद् अपसर्पणं मनस इति? कर्माशयक्षये तु कर्माशयान्तराद् विपच्यमानाद् अपसर्पणोपपत्तिर् इति/ अदृष्टाद् एवापसर्पणम् इति चेत् --- यो ऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुर् अपीति? न, एकस्य जीवनप्रायणहेतुत्वानुपपत्तेः --- एवं च सत्य् एकम् अदृष्टं जीवनप्रायणयोर् हेतुर् इति प्राप्तम्, नैतद् उपपद्यते
SK
********************** Nय्SBह्_३,२.७० **********************
SK
% प्.९१५
SK
Nय्S_३,२.७०: नित्यत्वप्रसङ्गश् च प्रायणानुपपत्तेः ||
SK
विपाकसंवेदनात् कर्माशयक्षये शरीरपातः प्रायणम्, कर्माशयान्तराच् च पुनर्जन्म/ भूतमात्रात् तु कर्मनिरपेक्षाच् छरीरोत्पत्तौ कस्य क्षयाच् छरीरपातः प्रायणम् इति? प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः/ यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिर् इति
SK
********************** Nय्SBह्_३,२.७१**********************
SK
% प्.९१६ पुनस् तत्प्रसङ्गो ऽपवर्ग इत्य् एतत् समाधित्सुर् आह ---
SK
Nय्S_३,२.७१: अणुश्यामतानित्यत्ववद् एतत् स्यात् ||
SK
यथाणोः श्यामता नित्या अग्निसंयोगेन प्रतिषिद्धा न पुनर् उत्पद्यत एवम् अदृष्टकारितं शरीरम् अपवर्गे पुनर् नोत्पद्यत इति
SK
********************** Nय्SBह्_३,२.७२ **********************
SK
Nय्S_३,२.७२: नाकृताभ्यागमप्रसङ्गात् ||
SK
नायम् अस्ति दृष्टान्तः/ कस्मात्? अकृताभ्यागमप्रसङ्गात्/ अकृतं प्रमाणतो ऽनुपपन्नम्, तस्याभ्यागमो ऽभ्युपपत्तिर् व्यवसायः, एतच्छ्रद्दधानेन प्रमाणतो णुपपन्नं मन्तव्यम्/ तस्मान् नायं दृष्टान्तो न प्रत्यक्षं न चानुमानं किंचिद् उच्यत इति/ तद् इदं दृष्टान्तस्य साध्यसमत्वम् अभिधीयत इति/ अथ वा नाकृताभ्यागमप्रसङ्गात्/ अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्याकृताभ्यागमप्रसङ्गः/ अकृते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखम् अभ्यागच्छतीति प्रसज्येत/ ओम् इति ब्रुवतः प्रत्यक्षानुमानागमविरोधः/
SK
% प्.९१७ प्रत्यक्षविरोधस् तावत् --- भिन्नम् इदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरिणाम्/ को भेदः? तीव्रं मन्दं चिरम् आशु नानाप्रकारम् एकप्रकारम् इत्य् एवम् आदिर् विशेषः/ न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः, न चासति हेतुविशेषे फलविशेषो दृश्यते/ कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसञ्चयानां चोत्कर्षापकर्षभावात् नानाविधैकविधभावाच् च कर्मणां सुखदुःखभेदोपपत्तिः/ सो ऽयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो न स्याद् इति प्रत्यक्षविरोधः/ तथानुमानविरोधः --- दृष्टं हि पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम्/ यः खलु चेतनावान् साधननिर्वर्तनीयं सुखं बुद्ध्वा तद् ईप्सन् साधनावाप्तये प्रयतते स सुखेन युज्यते न विपरीतः/ यश् च साधननिर्वर्तनीयं दुःखं बुद्ध्वा तज् जिहासुः साधनपरिवर्जनाय यतते स च दुःखेन त्यज्यते न विपरीतः/ अस्ति चेदं यत्नम् अन्तरेण चेतनानां सुखदुःखव्यवस्थानं तेनापि चेतनगुणान्तरव्यवस्थाकृतेन भवितव्यम् इत्य् अनुमानम्/
SK
% -मानम्/] प्.९१८ तद् एतद् अकर्मनिमित्ते सुखदुःखयोगे विरुध्यत इति/ तच् च गुणान्तरम् असंवेद्यत्वाद् अदृष्टं विपाककालानियमाच् चाव्यवस्थितम्/ बुद्ध्यादयस् तु संवेद्याश् चापवर्गिणश् चेति/ अथागमविरोधः --- बहु खल्व् इदम् आर्षम् ऋषीणाम् उपदेशजातम् अनुष्ठानपरिवर्जनाश्रयम्, उपदेशफलं च शरीरिणां वर्णाश्रमविभागेणानुष्ठानलक्षणा प्रवृत्तिः, परिवर्जनलक्षणा निवृत्तिः/ तच् चोभयम् एतस्यां दृष्टौ ``नास्ति कर्म सुचरितं दुश्चरितं वा? कर्मनिमित्तः पुरुषाणां सुखदुःखयोगःऽऽ इति विरुध्यते/ सेयं पापिष्ठानां मिथ्यादृष्टिः --- अकर्मनिमित्ता शरीरसृष्टिर् अकर्मनिमित्तः सुखदुःखयोग इति
SK
********************** Nय्SBह्_३,२.७३ **********************
SK
इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्य द्वितीयम् आह्निकम्
SK
समाप्तश् चायं तृतीयो ऽध्यायः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gautama: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya (sa_gautama-nyAyasUtra-comm.htm).

Source