Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

Rules of Logic with Vātsyāyana's Commentary

Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya

Nयायसूत्र wइथ् Vआत्स्यायनऽस् Nयायभाष्य

Full text

SK
% प्.१ न्यायदर्शनम् वात्स्यायनभाष्यम्
SK
********************** Nय्SBह्_१,१.१ **********************
SK
प्रमणतो ऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्याद् अर्थवत् प्रमाणम्/
SK
% प्.२१ प्रमाणम् अन्तरेण नार्थप्रतिपत्तिः, नार्ह्तप्रतिपत्तिम् अन्तरेण प्रवृत्तिसामर्थ्यम्/ प्रमाणेन खल्व् अयं ज्ञातार्थम् अभीप्सति जिहासति वा/ तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिर् इत्य् उच्यते/ साम्र्थ्यं पुनर् अस्याः फलेनाभिसम्बन्धः/ समीहमानस् तम् अर्थम् अभीप्सन् जिहासन् वा तम् अर्थम् आप्नोति जहाति वा/ अर्थस् तु सुखं सुखहेतुश् च, दुःखं दुःखहेतुश् च/
SK
% प्.२२ सो ऽयं प्रमाणार्थो ऽपरिसङ्ख्येयः, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वात्/ अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिर् इत्य् अर्थवन्ति भवन्ति/ कस्मात्? अन्यतमापाये ऽर्थस्यानुपपत्तेः/
SK
% प्.२४ तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, स येनार्थं प्रमिणोति तत् प्रमाणम्, यो ऽर्थः प्रमीयते तत् प्रमेयम्, यद् अर्थविज्ञानं सा प्रमितिः, चतसृषु चैवंविधास्व् अर्थतत्त्वं परिसमाप्यते/ किं पुनस् तत्त्वम्? सतश् च सद्भावो ऽसतश्üEचासद्भावः/ सत् सद् इति गृह्यमाणं यथाभूतम् अविपरीतं तत्त्वं भवति/
SK
% यथाभूतम् अविपरीतं तत्त्वं भवति/] प्.२५ असच् चासद् इति गृह्यमाणं यथाभूतम् अविपरीतं तत्त्वं भवति/
SK
% प्.२६ कथम् उत्तरस्य प्रमाणेनोपलब्धिर् इति? सत्य् उपलभ्यमाने तदनुपलब्धेः प्रदीपवत्/ यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तद् इव यन् न गृह्यते, तन् नास्ति/ यद्य् अभविष्यद् इदम् इव व्यज्ञास्यत, विज्ञानाभावान् नास्तीति/ एवं प्रमाणेन सति गृह्यमाणे तद् इव यन् न गृह्यते,
SK
% प्.२७ तन् नास्ति/ यद्य् अभविष्यद् इदम् इव व्यज्ञास्यत, विज्ञानाभावान् नास्तीति/ तद् एवं सतः प्रकाशकं प्रमाणम् असद् अपि प्रकाशयतीति/
SK
% प्.२८ सच् च खलु षोडशधा व्यूढम् उपदेक्ष्यते/ तासां खल्व् आसां सद्विधानाम्---
SK
Nय्S_१,१.१: प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान् निःश्रेयसाधिगमः ||
SK
% प्.२९ निर्देशे यथावचनं विग्रहः/ चार्थे द्वन्द्वसमासः/ प्रमाणादीनां तत्त्वम् इति शैषिकी षष्ठी/
SK
% प्.३१ तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठौ/ त एतावन्तो विद्यमानार्थाः, येषाम् अविपरीतज्ञानार्थम् इहोपदेशः/
SK
% विद्यमानार्था, ...] प्/३२ सो ऽयम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः/ आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान् निःश्रेयसाधिगमः/
SK
% प्.३३ तच् चैतद् उत्तरसूत्रेणानूद्यत इति/ हेयम्, तस्य निर्वर्तकं हानम् आत्यन्तिकम्, तस्योपायो ऽधिगन्तव्य इत्य् एतानि चत्वार्य् अर्थपदानि सम्यग् बुद्ध्वा निःश्रेयसम् अधिगच्छति/
SK
% प्.३४ तत्र संशयादीनां पृथग्वचनम् अनर्थकम् --- संशयादयो यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति? सत्यम् एतत्, इमास् तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृताम् अनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयम् आन्वीक्षिकी न्यायविद्या/
SK
% -प्रस्थानाः प्राणभृताम् ... ] प्.३५ तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः/ तेषां पृथग्वचनम् अन्तरेणाध्यात्मविद्यामात्रम् इयं स्यात्, यथोपनिषदः/ तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते/ तत्र नानुपलब्धे न निर्णीते ऽर्थे न्यायः प्रवर्तते, किं तर्हि? संशयिते ऽर्थे/ यथोक्तं --- ``विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इति/ विमर्शः --- संशयः/ पक्षप्रतिपक्षौ --- न्यायप्रवृत्तिः/ अर्थावधारणं --- निर्णयस् तत्त्वज्ञानम् इति/ स च ``अयं किंस्विद्ऽऽ इति वस्तुविमर्शमात्रम् अनवधारणं ज्ञानं संशयः, प्रमेये ऽन्तर्भवन्न् एवम् अर्थं पृथग् उच्यते/
SK
% प्.३७ अथ प्रयोजनम् --- येन प्रयुक्तः प्रवर्तते, तत् प्रयोजनम्/ यम् अर्थम् अभीप्सन् जिहासन् वा कर्मारभते,
SK
% कर्मारभते] प्.३८ तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश् च विद्या व्याप्ताः, तदाश्रयश् च न्यायः प्रवर्तते/ कः पुनर् अयं न्यायः? प्रमाणैर् अर्थपरीक्षणं न्यायः/
SK
% प्.३९ प्रत्यक्षागमाश्रितम् अनुमानम्, सान्वीक्षा/ प्रत्यक्षागमाभ्याम् ईक्षितस्यान्वीक्षणम् अन्वीक्षा/ तया प्रवर्त्तत इत्य् आन्वीक्षिकी --- न्यायविद्या --- न्यायशास्त्रम्/ यत् पुनर् अनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति/
SK
% प्.४४ तत्र वादजल्पौ सप्रयोजनौ/ वितण्डा तु परीक्ष्यते/ वितण्डया प्रवर्तमानो वैतण्डिकः/ स प्रयोजनम् अनुयुक्तो यदि प्रतिपद्यते सो ऽस्य पक्षः सो ऽस्य सिद्धान्त इति, वैतण्डिकत्वं जहाति/ अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्य् आपद्यते/ अथापि परपक्षप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतद् अपि तादृग् एव/ यो ज्ञापयति यो जानाति येन ज्ञाप्यते यच् च ज्ञाप्यते एतच् च प्रतिपद्यते यदि, तदा वैतण्डिकत्वं जहाति/ अथ न प्रतिपद्यते, परपक्षप्रतिषेधज्ञापनं प्रयोजनम् इत्य् एतद् अस्य वाक्यम् अनर्थकं भवति/ वाक्यसमूहश् च स्थापनाहीनो वितण्डा, तस्य यद्य् अभिधेयं प्रतिपद्यते, सो ऽस्य पक्षः स्थापनीयो भवति/ अथ न प्रतिपद्यते, प्रलापमात्रम् अनर्थकं भवति, वितण्डात्वं निवर्तत इति/ अथ दृष्टान्तः प्रत्यक्षविषयो ऽर्थः, यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते/
SK
% प्.४५ स च प्रमेयम्/ तस्य पृथग्वचनं च तदाश्रयाव् अनुमानागमौ, तस्मिन् सति स्याताम् अनुमानागमौ असति च न स्याताम्/ तदाश्रया च न्यायप्रवृत्तिः/ दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति, दृष्टान्तसमाधिना च स्वपक्षः साधनीयो भवति/ नास्तिकश् च दृष्टान्तम् अभ्युपगच्छन्न् आस्तिकत्वं जहाति/ अनभ्युपगच्छन् किंसाधनः परम् उपालभेतेति/ निरुक्तेन च दृष्टान्तेन शक्यम् अभिधातुं ``साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्ऽऽ ``तद्विपर्ययाद् विपरीतम्ऽऽ इति/
SK
% प्.४६ अस्त्य् अयम् इत्य् अनुज्ञायमानो ऽर्थः सिद्धान्तः/ स च प्रमेयम्/ तस्य पृथग्वचनं सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातो ऽन्यथेति/
SK
% प्.४७ साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः, समूहम् अपेक्ष्यावयवा उच्यन्ते/
SK
% प्.४८ तेषु प्रमाणसमवायः, आगमः प्रतिज्ञा/ हेतुर् अनुमानम्/
SK
% प्.५१ उदाहरणं प्रत्यक्षम्/ उपनयनम् उपमानम्/
SK
% प्.५२ सर्वेषाम् एकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनम् इति/ सो ऽयं परमो न्याय इति/ एतेन वादजल्पवितण्डाः प्रवर्तन्ते नातो ऽन्यथेति/
SK
% प्.५३ तदाश्रया च तत्त्वव्यवस्था/ ते चैते ऽवयवाः शब्दविशेषाः सन्तः प्रमेये ऽन्तर्भूता एवमर्थं पृथग् उच्यन्त इति/ तर्को न प्रमाणसंगृहीतो, न प्रमाणान्तरम्, प्रमाणानाम् अनुग्राहकस् तत्त्वज्ञानाय कल्पते/ तस्योदाहरणम् --- किम् इदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विद् अकृतकेन, अथाकस्मिकम् इति?
SK
% -आकस्मिकम् इति?] प्.५४ एवम् अविज्ञाते ऽर्थे कारणोपपत्त्या ऊहः प्रवर्त्तते --- यदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदाद् उपपन्नो ऽयं जन्मोच्छेदः/ अथाकृतकेन हेतुना, ततो हेतूच्छेदस्याशक्यत्वाद् अनुपपन्नो जन्मोच्छेदः/ अथाकस्मिकम्, अतो ऽकस्मान् निर्वर्त्यमानं न पुनर् निवर्त्स्यतीति निवृत्तिकारणं नोपपद्यते, तेन जन्मानुच्छेद इति/ एतस्मिंस् तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्त्तमानानि तर्केणानुगृहन्ते,
SK
% प्.५५ तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्पते तर्क इति/ सो ऽयम् इत्थम्भूतस् तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय चार्थस्य भवतीत्य् एवम् अर्थं पृघग् उच्यते प्रमेयान्तर्भूतो ऽपीति/
SK
% प्.५६ निर्णयस् तत्त्वज्ञानं प्रमाणानां फलम्, तदवसानो वादः, तस्य पालनार्थं जल्पविटण्डे/ ताव् एतौ तर्कनिर्णयौ लोकयात्रां वहत इति/ सो ऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थं पृथग् उद्दीष्ट इति/
SK
% प्.५७ वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनो ऽन्यतराधिकरणनिर्णयावसानो वाक्यसमूहः/
SK
% वाक्यसमूहः/] प्.५८ पृथग् उद्दिष्ट उपलक्षणार्थम्/ उपलक्षितेन व्यवहारस् तत्त्वज्ञानाय भवतीति/ ``तद्विशेषौ जल्पवितण्डे तत्त्वाध्यवसायसंरक्षणार्थम्ऽऽ इत्य् उक्तम्/
SK
% प्.५९ निग्रहस्थानेभ्यः पृथग् उद्धिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्तीति/
SK
% प्.६२ जल्पवितण्डयोस् तु निग्रहस्थानानीति/
SK
% प्.६३ छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थम् इति/ उपलक्षितानां स्ववाक्ये परिवर्जनम्, छलजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः/ जातेश् च परेण प्रयुज्यमानायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति/
SK
% प्.६४ सेयम् आन्वीक्षिकी प्रमाणादिभिः पदार्थैर् विभज्यमाना --- प्रदीपः सर्वविद्यानाम् उपायः सर्वकर्मणाम्/ आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता//
SK
% प्.६५ तद् इदं तत्त्वज्ञानं निःश्रेयसाधिगमार्थं यथाविद्यं वेदितव्यम्/ इह त्व् अध्यात्मविद्यायाम् आत्मादिज्ञानं तत्त्वज्ञानम्/ निःश्रेयसाधिगमो ऽपवर्गप्राप्तिः
SK
********************** Nय्SBह्_१,१.२ **********************
SK
% प्.६७ तत् खलु निःश्रेयसं किं तत्त्वज्ञानान्तरम् एव भवति? नेत्य् उच्यते/ किं तर्हि? तत्त्वज्ञानात् ---
SK
% प्.६९
SK
Nय्S_१,१.२: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानाम् उत्तरोत्तरापाये तदनन्तरापायाद् अपवर्गः ||
SK
% प्.७० तत्रात्माद्यपवर्गपर्यन्तप्रमेये मिथ्याज्ञानम् अनेकप्रकारकं वर्त्तते/
SK
% प्.७१ आत्मनि तावन् नास्तीति, अनात्मनि आत्मेति दुःखे सुखम् इति अनित्ये नित्यम् इत्य् अत्राणे त्राणम् इति,
SK
% अत्राणे त्राणम् इति] प्.७६ सभये निर्भयम् इति, जुगुप्सिते ऽभिमतम् इति, हातव्ये अप्रतिहातव्यम् इति, प्रवृत्तौ नास्ति कर्म, नास्ति कर्मफलम् इति, दोषेषु नायं दोषनिमित्तः संसार इति, प्रेत्यभावे नास्ति जन्तुर् जीवो वा सत्त्व आत्मा वा, यः प्रेयात्, प्रेत्य च भवेद् इति, अनिमित्तं जन्म, अनिमित्तो जन्मोपरम इत्य् आदिमान् प्रेत्यभावः, अनन्तश् चेति, नैमित्तिकः सन्न् अकर्मनिमित्तः प्रेत्यभाव इति, देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति/ अपवर्गे भीष्मः खल्व् अयं सर्वकायोपरमः, सर्वविप्रयोगे ऽपवर्गे बहु च भद्रकं लुप्यत इति कथं बुद्धिमान् सर्वसुखोच्छेदम् अचैतन्यम् अमुम् अपवर्गं रोचयेद् इति/ एतस्मान् मिथ्याज्ञानाद् अनुकूलेषु रागः, प्रतिकूलेषु द्वेषः/ रागद्वेषाधिकाराच् चासत्येर्ष्यमायालोभादयो दोषा भवन्ति/ दोषैः प्रयुक्तः शरीरेण प्रवर्त्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्य् आचरति, वाचानृतपरुषसूचनासम्बद्धानि, मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति/ सेयं पापात्मिका प्रवृत्तिर् अधर्माय/ अथ शुभा --- शरीरेण दानं परित्राणं परिचरणं च, वाचा सत्यं हितं प्रियं स्वाध्यायं चेति, मनसा दयाम् अस्पृहां श्रद्धां चेति/ सेयं धर्माय/ अत्र प्रवृत्तिसाधनौ धर्माधर्मौ प्रवृत्तिशब्देनोक्तौ, यथान्नसाधनाः प्राणाः ``अन्नं वै प्राणिनः प्राणाऽऽइति/
SK
% प्.७७ सेयं प्रवृत्तिः कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्/ जन्म पुनः शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः, तस्मिन् सति दुःखम्/ तत् पुनः प्रतिकूलवेदनीयं बाधना पीडा ताप इति/ त इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति/
SK
% प्.७८ यदा तु तत्त्वज्ञानान् मिथ्याज्ञानम् अपैति, तदा मिथ्याज्ञानापाये दोषा अपयन्ति, दोषापाये प्रवृत्तिर् अपैति,
SK
% प्रवृत्तिर् अपैति,] प्.८० प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखम् अपैति, दुःखापाये च आत्यन्तिको ऽपवर्गो निःश्रेयसम् इति/
SK
% प्.८२ तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम्/ आत्मनि --- तावद् अस्तीति, अनात्मनि --- अनात्मेति, एवं दुःखे ऽनित्ये ऽत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम्, प्रवृत्तौ --- अस्ति कर्म, अस्ति कर्मफलम् इति, दोषेषु --- दोषनिमित्तो ऽयं संसार इति, प्रेत्यभावे खलु --- अस्ति जन्तुर् जीवः सत्त्व आत्मा वा, यः प्रेत्य भवेद् इति, निमित्तवज् जन्म, निमित्तवान् जन्मोपरम इत्य् अनादिः प्रेत्यभावो ऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्त इति, सात्मकः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्त्तत इति, अपवर्गे शान्तः खल्व् अयं सर्वविप्रयोगः सर्वोपरमो ऽपवर्गः, बहु च कृच्छं घोरं पापकं लुप्यत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदम् अपवर्गं न रोचयेद् इति,
SK
% -म् अपवर्गं न रोचयेद् इति,] प्.८३ तद् यथा मधुविषसम्पृक्तान्नम् अनादेयम् इति, एवं सुखं दुःखानुषक्तम् अनादेयम् इति
SK
********************** Nय्SBह्_१,१.३ **********************
SK
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः, --- उद्देशो लक्षणं परीक्षा चेति/ तत्र नामधेयेन पदार्थमात्रस्याभिधानम् उद्द्शः/
SK
% नामधेयेन ... उद्देशः/] प्.८४ तत्रोद्दिष्टस्य तत्त्वव्यवच्छेदको धर्मओ लक्षणम्/ लक्षितस्य यथालक्षणम् उपपद्यते न वेति प्रमाणैर् अवधारणं परीक्षा/ तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणम् उच्यते,
SK
% -द्दिष्टस्य प्रविभक्तस्य लक्षणम् उच्यते,] प्.८५ यथा --- प्रमाणानां प्रमेयस्य च/ उद्धिष्टस्य लक्षितस्य च विभागवचनम्, यथा --- छलस्य ``वचनविघातो ऽर्थविकल्पोपपत्त्या च्छलम्ऽऽ, ``तत् त्रिविधम्ऽऽ इति/ अथोद्दिष्टस्य विभागवचनम् ---
SK
Nय्S_१,१.३: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ||
SK
% प्.८६ अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्/ वृत्तिस् तु --- सन्निकर्षः, ज्ञानं वा/
SK
% प्.८७ यदा सन्निकर्षस् तदा ज्ञानं प्रमितिः, यदा ज्ञानम्, तदा हानोपादानोपेक्षाबुद्धयः फलम्/
SK
% प्.८८ अनुमानं --- मितेन लिङ्गेन लिङ्गिनो ऽर्थस्य पश्चान् मानम् अनुमानम्/
SK
% प्.९० उपमानं --- सामीप्यज्ञानं --- यथा गौर् एवं गवय इति/ सामीप्यं तु सामान्ययोगः/ शब्दः --- शब्द्यते ऽनेनार्थ इत्य् अभिधीयते ज्ञाप्यते/
SK
% प्.९१ उपलब्धिसाधनानि प्रमाणानि समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यम्/ प्रमीयते ऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः/ तद्विशेषसमाख्याया अपि तथैव व्याख्यानम्/ किं पुनः प्रमाणानि प्रमेयम् अभिसंप्लवन्ते? अथ प्रतिप्रमेयं व्यवतिष्ठन्त इति?
SK
% प्.९२ उभयथा दर्शनम्, ``अस्त्य् आत्माऽऽ इत्य् आप्तोपदेशात् प्रतीयते, तत्रानुमानम् --- ``इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम्ऽऽ इति, प्रत्यक्षं --- युञ्जानस्य योगसमाधिजम् ``आत्ममनसोः संयोगविशेषाद् आत्मा प्रत्यक्षऽऽ इति/ अग्निर् आप्तोपदेशात् प्रतीयते ``अत्राग्निःऽऽइति, प्रत्यासीदता धूमदर्शनेनानुमीयते, प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते/ व्यवस्था पुनः --- ``अग्निहोत्र जुहुयात् स्वर्गकामःऽऽ इति, लौकिकस्य स्वर्गे न लिङ्गदर्शनम्, न प्रत्यक्षम्/ स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोर् अनुमानम्, तत्र न प्रत्यक्षम्, नागमः/ पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानम्, नागम इति/ सा चेयं प्रमितिः प्रत्यक्षपरा/ जिज्ञासितम् अर्थम् आप्तोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते,
SK
% बुभुत्सते,] प्.९३ लिङ्गदर्शनानुमितं च प्रत्यक्षतो दिदृक्षते, उपलब्धे ऽर्थे जिज्ञासा निवर्त्तते/ पूर्वोक्तम् उदाहरणम् ``अग्निःऽऽ इति/ प्रमातुः प्रमाणानां सम्भवो ऽभिसंप्लवः, असम्भवो व्यवस्थेति
SK
इति त्रिसूत्रीभाष्यम्/
SK
********************** Nय्SBह्_१,१.४ **********************
SK
अथ विभक्तानां लक्षणवचनम् इति/
SK
Nय्S_१,१.४: इन्द्रियार्थसन्निकर्षोत्त्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ||
SK
इन्द्रियस्यार्थेन सन्निकर्षाद् उत्पद्यते यज् ज्ञानं तत् प्रत्यक्षम्/
SK
% प्.९४ न तर्हीदानीम् इदं भवति, आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम् अर्थेनेति?
SK
% प्.९८ नेदं कारणावधारणम् --- एतावत् प्रत्यक्षे कारणम् इति, किं तु विशिष्टकारणवचनम् इति/ यत् प्रत्यक्षज्ञानस्य विशिष्टकारणं तद् उच्यते, यत् तु समानम् अनुमानादिज्ञानस्य, न तन्निवर्त्तत इति/ मनसस् तर्हीन्द्रियेण संयोगो वक्तव्यः?
SK
% प्.१०० भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान् नोक्त इति/
SK
% प्.१०९ यावद् अर्थं वै नामधेयशब्दास् तैर् अर्थसम्प्रत्ययः, अर्थसम्प्रत्ययाच् च व्यवहारः/ तत्रेदम् इन्द्रियार्थसन्निकर्षाद् उत्पन्नम् अर्थज्ञानं ``रूपम्ऽऽ इति वा, ``रसःऽऽ इत्य् एवं वा भवति, रूपरसशब्दाश् च विषयनामधेयम्/ तेन व्यपदिश्यते ज्ञानं --- रूपम् इति जानीते, रस इति जानीते/ नामधेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते, अत आह --- अव्यपदेश्यम् इति/
SK
% प्.११० यद् इदम् अनुपयुक्ते शब्दार्थसन्बन्धे ऽर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते, गृहीते ऽपि च शब्दार्थसम्बन्धे ऽस्यार्थस्यायं शब्दो नामधेयम् इति/ यदा तु सो ऽर्थो गृह्यते,
SK
% गृह्यते,] प्.१११ तदा तत् पूर्वस्माद् अर्थज्ञानान् न विशिष्यते, तद् अर्थविज्ञानं तादृग् एव भवति/ तस्य त्व् अर्थज्ञानस्यान्यः समाख्याशब्दो नास्तीति, येन प्रतीयमानं व्यवहाराय लक्पेत/ न चाप्रतीयमानेन व्यवहारः/ तस्माज् ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्दिश्यते --- रूपम् इति ज्ञानम्, रस इति ज्ञानम् इति/ तद् एवम् अर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते, व्यवहारकाले तु व्याप्रियते/ तस्माद् अशाब्दम् अर्थज्ञानम् इन्द्रियार्थसन्निकर्षोत्पन्नम् इति/
SK
% प्.११२ ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते,
SK
% प्.११३ तत्रेन्द्रियार्थसन्निकर्षाद् उदकम् इति ज्ञानम् उत्पद्यते, तच् च प्रत्यक्षं प्रसज्यत इत्य् अत आह --- अव्यभिचारीति/ यद् अतस्मिंस् तद् इति तद् व्यभिचारि प्रत्यक्षम् इति/
SK
% प्.१२१ दूराच् चक्षुषा ह्य् अयम् अर्थं पश्यन् नावधारयति धूम इति वा रेणुर् इति वा/ तद् एतद् इन्द्रियार्थसन्निकर्षोत्पन्नम् अनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्य् अत आह --- व्यवसायात्मकम् इति/ न चैतन् मन्तव्यम् --- आत्ममनःसन्निकर्षजम् एवानवधारणज्ञानम् इति/ चक्षुषा ह्य् अयम् अर्थं पश्यन् नावधारयति,
SK
% ह्य् अयम् अर्थं पश्यन् नावधारयति,] प्.१२२ यथा चेन्द्रियेणोपलब्धम् अर्थं मनसोपलभते, एवम् इन्द्रियेणानवधारयन् मनसा नावधारयति/ यच् च तदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद् विशेषापेक्षं विमर्शमात्रं संशयः, न पूर्वम् इति/ सर्वत्र प्रत्यक्षविषये ज्ञातुर् इन्द्रियेण व्यवसायः,
SK
% व्यवसायः,] प्.१२३ पश्चान् मनसाअनुव्यवसायः, उपहतेन्द्रियाणाम् अनुव्यवसायाभावाद् इति/ आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम्, अनिन्द्रियार्थसन्निकर्षजं हि तद् इति/ इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात्, भौतिकानीन्द्रियाणि नियतविषयाणि,
SK
% -नीन्द्रियाणि नियतविषयाणि,] प्.१२४ सगुणानां चैषाम् इन्द्रियभाव इति, मनस् त्व् अभौतिकं सर्वविषयं च, नास्य सगुणस्येन्द्रियभाव इति/ सति चेन्द्रियार्थसन्निकर्षे सन्निधिम् असन्निधिं चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः इति/
SK
% -म् असन्निधिं ... वक्ष्यामः इति/] प्.१२९ मनसश् चेन्द्रियभावान् न वाच्यं लक्षणान्तरम् इति/ तन्त्रान्तरसमाचाराच् चैतत् प्रत्येतव्यम् इति/ परमतम् अप्रतिषिद्धम् अनुमतम् इति हि तन्त्रयुक्तिः/ व्याख्यातं प्रत्यक्षम्
SK
********************** Nय्SBह्_१,१.५ **********************
SK
% प्.१३२
SK
Nय्S_१,१.५: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच् छेषवत् सामान्यतो दृष्टं च ||
SK
% प्.१४२ तत्पूर्वकम् इत्य् अनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते/
SK
% प्.१४६ लिङ्गलिङ्गिनोः सम्बद्धयोर् दर्शनेन लिङ्गस्मृतिर् अभिसम्बध्यते/ स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षो ऽर्थो ऽनुमीयते/ पूर्ववद् इति --- यत्र कारणेन कार्यम् अनुमीयते, यथा मेघोन्नत्या भविष्यति वृष्टिर् इति/
SK
% प्.१४८ शेषवत् तद् --- यत्र कार्येण कारणम् अनुमीयते, पूर्वोदकविपरीतम् उदकं नद्याः पूर्णत्वं शीघ्रत्वञ् च दृष्ट्वा स्रोतसो ऽनुमीयते भूता वृष्टिर् इति/ सामान्यतोदृष्टम् --- व्रज्यापूर्वकम् अन्यत्र दृष्टस्य ण्यत्र दर्शनम् इति,
SK
% दृष्टस्य ण्यत्र दर्शनम् इति,] प्.१४९ तथा चादित्यस्य, तस्माद् अस्त्य् अप्रत्यक्षाप्य् आदित्यस्य व्रज्येति/
SK
% प्.१५२ अथ वा पूर्ववद् इति --- यत्र यथापूर्वं प्रत्यक्षभूतयोर् अन्यतरदर्शनेनान्यतरस्यानुमानम्,
SK
% प्.१५५ ऽप्रत्यक्षस्यानुमानम्, यथा धूमेनाग्निर् इति/ शेषवन् नाम परिशेषः, स च प्रसक्तप्रतिषेधे ण्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययः, यथा सद् अनित्यम् एवमादिना द्रव्यगुणकर्मणाम् अविशेषेण सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्य, तस्मिन् द्रव्यकर्मगुणसंशये, न द्रव्यम्, एकद्रव्यत्वात्, न कर्म, शब्दान्तरहेतुत्वात्, यस् तु शिष्यते सो .यम् इति शब्दस्य गुणत्वप्रतिपत्तिः/
SK
%शब्दस्य गुणत्वप्रतिपत्तिः/] प्.१५६ सामान्यतोदृष्टं नाम --- यत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिद् अर्थेन लिङ्गस्य सामान्याद् अप्रत्यक्षो लिङ्गी गम्यते, यथेच्छादिभिर् आत्मा, इच्छादयो गुणाः,
SK
% गुणाः,] प्.१५७ गुणाश् च द्रव्यसंस्थानाः, तद् तद् एषां स्थानं स आत्मेति/ विभागवचनाद् एव त्रिविधम् इति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवे ऽनादरः/ तथा चायम् इत्थंभूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति/
SK
% प्.१५८ सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम्/ कस्मात्?/ त्रैकाल्यग्रहणात् ---
SK
% प्.१६१ त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते, भविष्यतीत्य् अनुमीयते, भवतीति, चाभूद् इति च, असच् च खल्व् अत्तम् अनागतं चेति
SK
% प्.१६८
SK
********************** Nय्SBह्_१,१.६ **********************
SK
अथोपमानम् ---
SK
Nय्S_१,१.६: प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् ||
SK
प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनम् उपमानम् इति/ यथा गौर् एवं गवय इति/
SK
% प्.१६९ किं पुनर् अत्रोपमानेन क्रियते? यदा खल्व् अयं गवा समानधर्मं प्रतिपद्यते तदा प्रत्यक्षतस् तम् अर्थं प्रतिपद्यत इति, समाख्यासम्बन्धप्रतिपत्तिर् उपमानार्थ इत्य् आह/ यथा गौर् एवं गवय इत्य् उपमाने प्रयुक्ते गवा समानधर्मम् अर्थम् इन्द्रियार्थसन्निकर्षाद् उपलभमानो ऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यत इति/
SK
% गौर् एवं गवय ... प्रतिपद्यत इति] प्.१७० यथा मुद्गस् तथा मुद्गपर्णी,
SK
% -पर्णी,] प्.१७१ यथा माषस् तथा माषपर्णीत्य् उपमाने प्रयुक्ते उपमानात् संज्ञासंज्ञिसन्बन्धं प्रतिपद्यमानस् ताम् ओषधीं भैषज्यायाहरति/
SK
% प्.१७२ एवम् अन्यो ऽप्य् उपमानस्य लोके विषयो बुभुत्सितव्य इति
SK
********************** Nय्SBह्_१,१.७ **********************
SK
% प्.१७३ अथ शब्दः ---
SK
Nय्S_१,१.७: आप्तोपदेशः शब्दः ||
SK
आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा/
SK
% प्.१७४ साक्षात्करणम् अर्थस्याप्तिः, तया प्रवर्तत इत्य् आप्तः/ ऋष्यार्यम्लेच्छानां समानं लक्षणम्/
SK
% समानं लक्षणम्/] प्.१७६ तथा च सर्वेषां व्यवहाराः प्रवर्त्तन्त इति/ एवम् एभिः प्रमाणैर् देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते, नातो ऽन्यथेति
SK
********************** Nय्SBह्_१,१.८ **********************
SK
% प्.१७९
SK
Nय्S_१,१.८: स द्विविधो दृष्टादृष्.आर्थत्वात् ||
SK
यस्येह दृश्यते ऽर्थः स दृष्टार्थः/ यस्यामुत्र प्रतीयते सो ऽदृष्टार्थः/ एवम् ऋषिलौकिकवाक्यानां विभाग इति/ किमर्थं पुनर् इदम् उच्यते? स न मन्येत दृष्टार्थ एवाप्तोपदेशः प्रमाणम्, अर्थस्यावधारणाद् इति, अदृष्टार्थो ऽपि प्रमाणम् अर्थस्यानुमानाद् इति
SK
********************** Nय्SBह्_१,१.९ **********************
SK
% प्.१८० किं पुनर् अनेन प्रमाणेनार्थजातं प्रमातव्यम् इति? ---
SK
Nय्S_१,१.९: आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास् तु प्रमेयम् ||
SK
% प्.१८२ तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी/ तस्य भोगायतनं शरीरम्/ भोगसाधनानीन्द्रियाणि/ भोक्तव्या इन्द्रियार्थाः/ भोगो बुद्धिः/ सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयम् अन्तःकरणं मनः/ शरीरेन्द्रियार्थबुद्धिसुखवेदनानां निवृत्तिकारणं प्रवृत्तिः, दोषाश् च/ नास्येदं शरीरम् अपूर्वम् अनुत्तरं च, पूर्वशरीराणाम् आदिर् नास्ति, उत्तरेषाम् अपवर्गो ऽन्त इति प्रेत्यभावः/ ससाधनसुखदुःखोपभोगः फलम्/ दुःखम् इति नेदम् अनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्/ किं तर्हि? जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात् दुःखेनाविप्रयोगाद् विविधबाधनायोगाद् दुःखम् इति समाधिभावनम् उपदिश्यते/
SK
% -योगाद् दुःखम् ... उपदिश्यते/] प्.१८३ समाहितो भावयति, भावयन् निर्विद्यते, निर्विण्णस्य वैराग्यम्, विरक्तस्यापवर्ग इति/ जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् अपवर्ग इति/ अस्त्य् अन्यद् अपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम्, तद्भेदेन चापरिसङ्ख्येयम्; अस्य तु तत्त्वज्ञानाद् अपवर्गो मिथ्याज्ञानात् संसार इत्य् अत एतद् उपदिष्टं विशेषेणेति
SK
********************** Nय्SBह्_१,१.१० **********************
SK
% प्.१८४ तत्रात्मा तावत् प्रत्यक्षतो न गृह्यते/ स किम् आप्तोपदेशमात्राद् एव प्रतिपद्यत इति? नेत्य् उच्यते/ अनुमानाच् च प्रतिपत्तव्य इति/ कथम्?
SK
Nय्S_१,१.१०: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम् इति ||
SK
% प्.१८५ यज्जातीयस्यार्थस्य सन्निकर्षात् सुखम् आत्मोपलब्धवान्, तज्जातीयम् एवार्थं पश्यन्न् उपादातुम् इच्छति, सेयम् आदातुम् इच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद् भवति लिङ्गम् आत्मनः/ नियतविषये हि बुद्धिभेदमात्रे न सम्भवति, देहान्तरवद् इति/ एवम् एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः,
SK
% -नेकार्थदर्शिनो ... द्वेषः,] प्.१८७ यज्जातीयो ऽस्यार्थः सुखहेतुः प्रसिद्धस् तज्जातीयम् अर्थं पश्यन्न् आदातुं प्रयतते/ एकम् अनेकार्थदर्शिनं दर्शनप्रतिसन्धातारम् अन्तरेण न स्यात्/ नियतविषये बुद्धिमात्रे न सम्भवति, देहान्तरवद् इति/ एतेन दुःखहेतौ प्रयत्नो व्याख्यातः/ सुखदुःखस्मृत्या चायं तत्साधनम् आददानः सुखम् उपलभते दुःखम् उपलभते, सुखदुःखे वेदयते/ पूर्वोक्त एव हेतुः/ बुभुत्समानः खल्व् अयं विमृशति किंस्विद् इति, विमृशंश् च जानीते इदम् इति, तद् इदं ज्ञानं बुभुत्साविमर्शाभ्याम् अभिन्नकर्तृकं गृह्यमाणम् आत्मलिङ्गम्/ पूर्वोक्त एव हेतुर् इति/ तत्र देहान्तरवद् इति विभज्यते यथानात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात्/
SK
% तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात्/] प्.१८८ सो ऽयम् एकसत्त्वस्य समाचारः स्वयंदृष्टस्य स्मरणम्, नान्यद्दृष्टस्य, नादृष्टस्येति/ एवं खलु नानासत्त्वानां समाचारो ऽन्यदृष्टम् अन्यो न स्मरतीति/ तद् एतद् उब्ययम् अशक्यम् अनात्मवादिना व्यवस्थापयितुम् इत्य् एवम् उपपन्नम् अस्त्य् आत्मेति
SK
********************** Nय्SBह्_१,१.११ **********************
SK
% प्.१९३ तस्य भोगाधिष्ठानम् ---
SK
Nय्S_१,१.११: चेष्टेन्द्रियार्थाश्रयः शरीरम् ||
SK
कथं चेष्टाश्रयः? ईप्सितं जिहासितं वार्थम् अधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा, सा यत्र वर्त्तते तच् छरीरम्/
SK
% तदुपायानुष्ठानलक्षणा ... तच् छरीरम्/] प्.१९४ कथम् इन्द्रियाश्रयः? यस्यानुग्रहेणानुगृहीतानि उपघाते चोपहतानि स्वविषयेषु साध्वसाधुषु वर्तन्ते स एषाम् आश्रयः तच् छरीरम्/ कथम् अर्थाश्रयः/
SK
% स एषाम् आश्रयः तच् छरीरम्/ कथम् अर्थाश्रयः/] प्.१९५ यस्मिन्न् आयतने इन्द्रियार्थसन्निकर्षाद् उत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषाम् आश्रयः,
SK
% सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषाम् आश्रयः,] प्.१९६ तच् छरीरम् इति
SK
********************** Nय्SBह्_१,१.१२ **********************
SK
% प्.१९७ भोगसाधनानि पुनः ---
SK
Nय्S_१,१.१२: घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ||
SK
जिघ्रत्य् अनेनेति घ्राणं गन्धं गृह्णातीति/ रसयत्य् अनेनेति रसनं रसं गृह्णातीति/ चष्टे ऽनेनेति चक्षू रूपं पश्यतीति/ त्वक्स्थानम् इन्द्रियं त्वक्/ तदुपचारः स्थानाद् इति/
SK
% तदुपचारः स्थानाद् इति/] प्.१९८ शृणोत्य् अनेनेति श्रोत्रं शब्दं गृह्णातीति/ एवं समाख्यानिर्वचनसामर्थ्याद् बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति/
SK
% प्.१९९ भूतेभ्य इति/ नानाप्रकृतीनाम् एषां सतां विषयनियमः, नैकप्रकृतीनाम्/ सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवतीति
SK
********************** Nय्SBह्_१,१.१३ **********************
SK
% प्.२०१ कानि पुनर् इन्द्रियकारणानि?
SK
Nय्S_१,१.१३: पृथिव्य् आपस् तेजो वायुर् आकाशम् इति भूतानि ||
SK
संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यं भविष्यतीति
SK
********************** Nय्SBह्_१,१.१४ **********************
SK
% प्.२०२ इमे तु खलु ---
SK
Nय्S_१,१.१४: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास् तदर्थाः ||
SK
पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रमम् अर्था विषया इति
SK
********************** Nय्SBह्_१,१.१५ **********************
SK
% प्.२१३ अचेतनस्य करणस्य बुद्धेर् ज्ञानं वृत्तिः चेतनस्याकर्तुर् उपलब्धिर् इति युक्तिविरुद्धम् अर्थं प्रत्याचक्षाणक इवेदम् आह ---
SK
Nय्S_१,१.१५: बुद्धिर् उपलब्धिर् ज्ञानम् इत्य् अनर्थान्तरम् ||
SK
नाचेतनस्य करणस्य बुद्धेर् ज्ञानं भवितुम् अर्हति, तद् धि चेतनं स्यात्, एकश् चायं चेतनो देहेन्द्रियसंघातव्यतिरिक्त इति/
SK
% देहेन्द्रियसंघातव्यतिरिक्त इति/] प्.२१४ प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थप्रकाशनम् उपपत्तिसामर्थ्याद् इति
SK
********************** Nय्SBह्_१,१.१६ **********************
SK
% प्.२१५ स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षम् इच्छादयश् च मनसो लिङ्गानि/ तेषु सत्स्व् अयम् अपि ---
SK
Nय्S_१,१.१६: युपगज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम् ||
SK
अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुम् अर्हन्तीति/ युगपच् च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज् ज्ञानानि नोत्पद्यन्ते,
SK
% खलु घ्राणादीनां ... युगपज्ज्ञानानि नोत्पद्यन्ते, ] प्.२१६ तेनानुमीयते, अस्ति तत् तद् इन्द्रियसंयोगि सहकारि निमित्तान्तरम् अव्यापि, यस्यासन्निधेर् नोत्पद्यते ज्ञानं सन्निधेश् चोत्पद्यत इति/
SK
% ज्ञानं सन्निधेश् चोत्पद्यत इति/] प्.२१७ मनःसंयोगानपेक्षस्य हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपद् उप्तद्येरन् ज्ञानानीति
SK
********************** Nय्SBह्_१,१.१७ **********************
SK
% प्.२१८ क्रमप्राप्ता तु ---
SK
Nय्S_१,१.१७: प्रवृत्तिर् वाग्बुद्धिशरीरारम्भः ||
SK
मनो ऽत्र बुद्धिर् इत्य् अभिप्रेतम्, बुध्यते ऽनेनेति बुद्धिः/ सो ऽयम् आरम्भः शरीरेण वाचा मनसा च पुण्यः पापश् च दशविधः/ तद् एतत् कृतभाष्यं द्वितीयसूत्र इति
SK
********************** Nय्SBह्_१,१.१८ **********************
SK
% प्.२२०
SK
Nय्S_१,१.१८: प्रवर्तनालक्षणा दोषाः ||
SK
प्रवर्तना प्रवृत्तिहेतुत्वम्, ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा/ यत्र मिथ्याज्ञानं तत्र रागद्वेषाव् इति/ प्रत्यात्मवेदनीया हीमे दोषाः कस्माल् लक्षणतो निर्दिश्यन्त इति? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः, रक्तो हि तत् कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते, तथा द्विष्टस् तथा मूढ इति/ रागद्वेषमोहा इत्य् उच्यमाने बहु नोक्तं भवतीति
SK
********************** Nय्SBह्_१,१.१९ **********************
SK
% प्.२२१
SK
Nय्S_१,१.१९: पुनरुत्पत्तिः प्रेत्यभावः ||
SK
उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः/ उत्पन्नस्य --- सम्बद्धस्य/ सम्बन्धस् तु देहेन्द्रियमनोबुद्धिवेदनाभिः/ पुनरुत्पत्तिः --- पुनर् देहादिभिः सम्बन्धः/ पुनर् इत्य् अभ्यासाभिधानम्/ यत्र क्वचित् प्राणभृन्निकाये वर्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति/
SK
% पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति/] प्.२२२ यत् तत्रान्यत्र वा देहादीन् अन्यान् उपादत्ते तद् भवति/ प्रेत्यभावः --- मृत्वा पुनर्जन्म, सो ऽयं जन्ममरणप्रबन्धाभ्यासो ऽनादिर् अपवर्गान्तः प्रेत्यभावो वेदितव्य इति
SK
********************** Nय्SBह्_१,१.२० **********************
SK
Nय्S_१,१.२०: प्रवृत्तिदोषजनितो ऽर्थः फलम् ||
SK
सुखदुःखसंवेदनं फलम्/ सुखविपाकं कर्म दुःखविपाकं च/ तत् पुनर् देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलम् अभिप्रेतम्/ तथा हि प्रवृत्तिदोषजनितो ऽर्थः फलम् एतत् सर्वं भवति/
SK
% प्रवृत्तिदोषजनितो ऽर्थः फलम् एतत् सर्वं भवति/] प्.२२३ तद् एतत् फलम् उपातम् उपातं हेयम्, त्यक्तं त्यक्तम् उपादेयम् इति नास्य हानोपादानयोर् निष्ठा पर्यवसानं वास्ति, स खल्व् अयं फलस्य हानोपादानस्रोतसोह्यते लोक इति
SK
********************** Nय्SBह्_१,१.२१ **********************
SK
% प्.२२४ अथैतद् एव ---
SK
Nय्S_१,१.२१: बाधनालक्षणं दुःखम् ||
SK
बाधना पीडा ताप इति/ तयानुविद्धम् अनुषक्तम् अविनिर्भागेन वर्तमानं दुःखयोगाद् दुःखम् इति/ सो ऽयं सर्वं दुःखेनानुविद्धम् इति पश्यन् दुःखं जिहासुर् जन्मनि दुःखदर्शी निर्विद्यते, निर्विण्णो विरज्यते, विरक्तो विमुच्यते
SK
********************** Nय्SBह्_१,१.२२ **********************
SK
% प्.२२५ यत्र तु निष्ठा यत्र तु पर्यवसानं सो .यम् ---
SK
Nय्S_१,१.२२: तदत्यन्तविमोक्षो .पवर्गः ||
SK
तेन --- दुःखेन जन्मना अत्यन्तं विमुक्तिर् अपवर्गः/ कथम्? उपात्तस्य जन्मनो हानम्, अन्यस्य चानुपादानम्/ एताम् अवस्थाम् अपर्यन्तम् अपवर्गं वेदयन्ते ऽपवर्गविदः/ तद् अभयम् अजरम् अमृत्युपदं ब्रह्म क्षेमप्राप्तिर् इति/
SK
% प्.२२६ नित्यं सुखम् आत्मनो महत्त्ववन् मोक्षे व्यज्यते, येनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भातीति केचिन् मन्यन्ते/ तेषां प्रमाणाभावाद् अनुपपत्तिः/ न प्रत्यक्षं नानुमानं नागमो वा विद्यते नित्यं सुखम् आत्मनो महत्त्ववन् मोक्षे ऽभिव्यज्यत इति/ नित्यस्याभिव्यक्तिः --- संवेदनम्, तस्य हेतुवचनम्/ नित्यस्याभिव्यक्तिः ---संवेदनम् --- ज्ञानम् इति, तस्य हेतुर् वाच्यो यतस् तद् उत्पद्यत इति/
SK
% प्.२२७ सुखवन् नित्यम् इति चेत्? संसारस्थस्य मुक्तेनाविशेषः/ यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस् तथा संसारस्थो ऽपि प्रसज्यत इति, उभयस्य नित्यत्वात्/
SK
% प्.२२८ अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्येत/ यद् इदम् उत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिर् अस्ति, उभयस्य नित्यत्वात्/ अनित्यत्वे हेतुवचनम्/ अथ मोक्षे नित्यस्य सुखस्य संवेदनम् अनित्यम्? यत उत्पद्यते स हेतुर् वाच्यः/ आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्/ आत्ममनःसंयोगो हेतुर् इति चेत्? एवम् अपि तस्य सहकारि निमित्तान्तरं वचनीयम् इति/ धर्मस्य कारणवचनम्/ यदि धर्मो निमित्तान्तरम्? तस्य हेतुर् वाच्यो यतः उत्पद्यत इति/ योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये संवेदननिवृत्तिः/ यदि योगसमाधिजो धर्मो हेतुः?
SK
% -समाधिजो धर्मो हेतुः?] प्.२२९ तस्य कार्यावसायविरोधात् प्रक्षये संवेदनम् अत्यन्तं निवर्तते/ असंवेदने चाविद्यमानेनाविशेषः/ यदि धर्मक्षयात् संवेदनोपरमो नित्यं सुखं न संवेद्यत इति? किं विद्यमानं न संवेद्यते, अथाविद्यमानम् इति नानुमानं विशिष्टे ऽस्तीति/ अप्रक्षयश् च धर्मस्य निरनुमानम् उत्पत्तिधर्मकत्वात्/ योगसमाधिजो धर्मो न क्षीयत इति नास्त्य् अनुमानम्/ उत्पत्तिधर्मकम् अनित्यम् इति विपर्ययस्य त्व् अनुमानम्/ यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर् नित्य इत्य् अनुमेयम्/ नित्ये च मुक्तसंसारस्थयोर् अविशेष इत्य् उक्तम्/ यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश् च, संवेदनस्य तूपरमो नास्ति, कारणस्य नित्यत्वात्, तथा संसारस्थस्यापीति/ एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्येतेति/ शरीरादिसम्बन्धः प्रतिबन्धहेतुर् इति चेत्? न, शरीरादीनाम् उपभोगार्थत्वात् विपर्ययस्य चाननुमानात्/
SK
% विपर्ययस्य चाननुमानात्/] प्.२३० स्यान् मतम् --- संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति/ एतच् चायुक्तम्, शरीरादयः उपभोगार्थास् ते भोगप्रतिबन्धं करिष्यन्तीत्य् अनुपपन्नम्; न चास्त्य् अनुमानम् अशरीरस्यात्मनो भोगः कश्चिद् अस्तीति/
SK
% प्.२३१ इष्टाधिगमार्था प्रवृत्तिर् इति चेत्? न, अनिष्टोपरमार्थत्वात्/ इदम् अनुमानम् --- इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश् च मुमुक्षूणाम्, नोभयम् अनर्थकम् इति/ एतच् चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश् च मुमुक्षूणाम् इति/ नेष्टम् अनिष्टेनाननुविद्धं सम्भवतीति इष्टम् अप्य् अनिष्टं सम्पद्यते, अनिष्टहानाय घटमान इष्टम् अपि जहाति, विवेकहानस्याशक्यत्वाद् इति/ दृष्टातिक्रमश् च देहादिषु तुल्यः/ यथा दृष्टम् अनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रियबुद्धीर् अनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश् चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति/ उपपत्तिविरुद्धम् इति चेत्? समानम्/ देहादीनां नित्यत्वं प्रमाणविरुद्धं कल्पयितुम् अशक्यम् इति? समानं सुखस्यापि नित्यत्वं प्रमाणविरुद्धं कल्पयितुम् अशक्यम् इति/ आत्यन्तिके च संसारदुःखाभावे सुखवचनाद् आगमे ऽपि सत्य् अविरोधः/ यद्य् अपि कश्चिद् आगमः स्यात् मुक्तस्यात्यन्तिकं सुखम् इति?
SK
% कश्चिद् आगमः स्यात् मुक्तस्यात्यन्तिकं सुखम् इति?] प्.२३२ सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्य् एवम् उपपद्यते, दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलं लोक इति/ नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावः, रागस्य बन्धनसमाज्ञानात्/ यद्य् अयं मोक्षो नित्यं सुखम् अभिव्यज्यत इति, नित्यसुखरागेण मोक्षाय घटमानो न मोक्षम् अधिगच्छेत्, नाधिगन्तुम् अर्हतीति/ बन्धनसमाज्ञातो हि रागः/ न च बन्धने सत्य् अपि कश्चिन् मुक्त इत्य् उपपद्यत इति/ प्रहीणनित्यसुखरागस्याप्रतिकूलत्वम्/ अथास्य नित्यसुखरागः प्रहीयते, तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति? यद्य् एवम्, मुक्तस्य नित्यं सुखं भवति, अथापि न भवति, नास्योभयोः पक्षयोर् मोक्षाधिगमो विकल्प्यते इति
SK
********************** Nय्SBह्_१,१.२३ **********************
SK
% प्.२३३ स्थानवत एव तर्हि संशयस्य लक्षणं वाच्यम् इति तद् उच्यते ---
SK
% प्.२३४
SK
Nय्S_१,१.२३: समानानेकधर्मोपपत्तेर् विप्रतिपत्तेर् उपलब्ध्यनुपलब्ध्यव्यवस्थातश् च विशेषापेक्षो विमर्शः संशयः ||
SK
समानधर्मोपपत्तेर् विशेषापेक्षो विमर्शः संशय इति/ स्थाणुपुरुषयोः समानं धर्मम् आरोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर् विशेषम् बुभुत्समानः किंस्विद् इत्य् अन्यतरं नावधारयति, तदनवधारणं ज्ञानं संशयः/ समानम् अनयोर् धर्मम् उपलभे विशेषम् अन्यतरस्य नोपलभ इत्य् एषा बुद्धिर् अपेक्षा --- % नोपलभ इत्य् एषा बुद्धिर् अपेक्षा ---] प्.२४० संशयस्य प्रवृत्तिका वर्तते, तेन विशेषापेक्षो विमर्शः संशयः/ अनेकधर्मोपपत्तेर् इति/ समानजातीयम् असमानजातीयं चानेकम्/ तस्यानेकस्य धर्मोपपत्तेः ---
SK
% धर्मोपपत्तेः ---] प्.२४४ विशेषस्योबयथा दृष्टत्वात्/ समानजातीयेभ्यो ऽसमानजातीयेब्यश् चार्था विशिष्यन्ते, गन्धवत्त्वात् पृथिव्य् अबाधिब्यो विशिष्यते गुणकर्मभ्यश् च / अस्ति च शब्दे विभागजन्यत्वं विशेषः/ तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः, विशेषस्योबयथा दृष्टत्वात्/
SK
% -त्वात्] प्.२४९ किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः, आहोस्विद् गुणस्य सत इति, अथ कर्मणः सत इति? विशेषापेक्षा --- अन्यतमस्य व्यवस्थापकं धर्म नोपलब इति बुद्धिर् इति/ विप्रतिपत्तेर् इति/ व्याहतम् एकार्थदर्शनं विप्रतिपत्तिः, व्याघातः --- विरोधो ऽसहभाव इति/ अस्त्य् आत्मेत्य् एकं दर्शनम्, नास्त्य् आत्मेत्य् अपरम्, न च सद्भावासद्भावौ सहैकत्र सम्भवतः, न चान्यतरसाधको हेतुर् उपलभ्यते, तत्र तत्त्वानवधारणं संशय इति/ उपलब्ध्यवयवस्थातः खल्व् अपि सच् चोदकम् उपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानम् उदकम् इति, अतः क्वचिद् उपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सद् उपलभ्यते ऽथासद् इति संशयो भवति/ अनुपलब्ध्यव्यवस्थातः/ सच् च नोपलब्यते मूलकीलकोदकादि, असच् चानुत्पन्नं निरुद्धं वा,
SK
% नुरुद्धं वा,] प्.२५० ततः क्वचिद् अनुपलभ्यमाने संशयः, किं सन् नोपलब्यते उतासद् इति संशयो भवति/ विशेषापेक्षा पूर्ववत्/ पूर्वः समानो ऽनेकश् च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर् ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम्/
SK
% विशेषेण पुनर्वचनम्/] प्.२५५ समानधर्माधिगमात् समानधर्मोपपत्तेर् विशेषस्मृत्यपेक्षो विमर्श इति
SK
********************** Nय्SBह्_१,१.२४ **********************
SK
% प्.२५६ स्थानवतां लक्षणम् इति समानम्/
SK
Nय्S_१,१.२४: यम् अर्ह्तम् अधिकृत्य प्रवर्तते तत् प्रयोजनम् ||
SK
यम् अर्थम् आप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायम् अनुतिष्ठति, प्रयोजनं तद् वेदितव्यम्, प्रवृत्तिहेतुत्वात्/ इमम् अर्थम् आप्स्यामि हास्यामि वेति व्यवसायो ऽर्थस्याधिकारः, एवं व्यवसीयमानो ऽर्थो ऽधिक्रियत इति
SK
********************** Nय्SBह्_१,१.२५ **********************
SK
% प्.२५८
SK
Nय्S_१,१.२५: लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टानतः ||
SK
लोकसामान्यम् अनतीता लौकिका नैसर्गिकं वैनयिकं बुद्ध्यतिशयम् अप्राप्ताः/ तद्विपरीताः परीक्षकाः/ तर्केण प्रमाणैर् अर्थं परीक्षितुम् अर्हन्तीति/ यथा यम् अर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि,
SK
% यम् अर्थं लौकिका ...] प्.२५९ सो ऽर्थो दृष्टान्तः/ दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति
SK
********************** Nय्SBह्_१,१.२६ **********************
SK
% प्.२६० अथ सिद्धान्तः, इदम् इत्थम्भूतञ् चेत्य् अभ्यनुज्ञायमानम् अर्थजातं सिद्धम्, सिद्धस्य संस्थितिः सिद्धान्तः, संस्थितिर् इत्थम्भावव्यवस्था धर्मनियमः/ स खल्व् अयम् ---
SK
Nय्S_१,१.२६: तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ||
SK
% प्.२६१ तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः, तन्त्रम् इतरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्/ अधिकरणानुषक्तार्थसंस्थितिर् अधिकरणसंस्थितिः, अभ्युपगमसंस्थितिर् अनवधारितार्थपरिग्रहः, तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः/
SK
********************** Nय्SBह्_१,१.२७ **********************
SK
तन्त्रभेदात् तु खलु Nय्S_१,१.२७: स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ||
SK
% प्.२६२ तत्रैताश् चतस्रः संस्थितयो ऽर्थोआनरभूताः
SK
********************** Nय्SBह्_१,१.२८ **********************
SK
% प्.२६३ तासाम् ---
SK
Nय्S_१,१.२८: सर्वतन्त्राविरुद्धस् तन्त्रे ऽधिकृतो ऽर्थः सर्वतन्त्रसिद्धान्तः ||
SK
यथा घ्राणादीनीनिन्द्रियाणि गन्धादय इन्द्रियार्हाः पृथिव्यादीनि भूतानि प्रमाणैर् अर्थस्य ग्रहणम् इति
SK
********************** Nय्SBह्_१,१.२९ **********************
SK
% प्.२६४
SK
Nय्S_१,१.२९: समानतन्त्रसिद्धः प्रतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ||
SK
यथा नासत आत्मलाभः, न सत आत्महानम्, निरतिशयाश् चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेष इति साङ्ख्यानाम्, पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश् च, स्वगुणविशिष्टाश् चेतनाः, असद् उत्पद्यते उत्पन्नं निरुध्यत इति योगानाम्
SK
********************** Nय्SBह्_१,१.३० **********************
SK
Nय्S_१,१.३०: यत्सिद्धाव् अन्यप्रकरणसिद्धिः सो ऽधिकरणसिद्धान्तः ||
SK
यस्यार्ह्तस्य सिद्धाव् अन्ये ऽर्था अनुषज्यन्ते, न तैर् विना सो ऽर्थः सिध्यति ते ऽर्था यदधिष्ठानाः सो ऽधिकरणसिद्धान्तः,
SK
% -ष्ठानाः सो ऽधिकरणसिद्धान्तः,] प्.२६५ यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता ``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽ इति अत्रानुषङ्गिणो ऽर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर् ज्ञानसाधनानि, गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् अनियतविषयाश् चेतना इति पूर्वार्थसिद्धाव् एते ऽर्हाः सिध्यन्ति न तैर् विना सो ऽर्थः सम्भवतीति
SK
********************** Nय्SBह्_१,१.३१ **********************
SK
% प्.२६६
SK
Nय्S_१,१.३१: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः ||
SK
यत्र किञ्चिद् अर्थजातम् अपरीक्षितम् अभ्युपगम्यते, अस्तु द्रव्यं शब्दः स तु नित्यो ऽथानित्य इति? द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते, सो ऽभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाच् च प्रवर्तत इति
SK
********************** Nय्SBह्_१,१.३२ **********************
SK
% प्.२६९ अथावयवाः ---
SK
Nय्S_१,१.३२: प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्य् अवयवाः ||
SK
दशावयवान् एके नैयायिका वाक्ये सञ्चक्षते, जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति, ते कस्मान् नोच्यन्त इति/ तत्राप्रतीयमाने ऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा/
SK
% जिज्ञासा/]üप्.२७० अप्रतीयमानम् अर्थं कस्माज् जिज्ञासते? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति/ ता एता हानोपादानोपेक्षाबुद्धयस् तत्त्वज्ञानस्यार्थष् तदर्थम्(चोर्र्.; -र्थः, स्तदर्थम्, एद्.) अयं जिज्ञासते/ सा खल्व् अयम् असाधनम् अर्थस्येति/ जिज्ञासाधिष्ठानं संशयश् च व्याहतधर्मोपसङ्घातात् तत्त्वज्ञाने प्रत्यासन्नः, व्याहतयोर् हि धर्मयोर् अन्यतरतत्त्वं भवितुम् अर्हतीति/ स पृथग् उपदिष्टो ऽप्य् असाधनम् अर्थस्येति/ प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि, सा शक्यप्राप्तिर् न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवद् इति/ प्रयोजनं तत्त्वावधारणम् अर्थसाधकस्य वाक्यस्य फलं नैकदेश इति/ संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थम्, न त्व् अयं साधकवाक्यैकदेश इति/ प्रकरणे तु जिज्ञासादयः समर्था अवधारणीयार्थोपकारात्/
SK
% तु जिज्ञासदयः समर्था अवधारणीयार्थोपकारात्/] प्.२७१ तत्त्वार्थसाधकभावात् तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति
SK
********************** Nय्SBह्_१,१.३३ **********************
SK
% प्.२७२ तेषां तु यथाविभक्तानाम् ---
SK
Nय्S_१,१.३३: साध्यनिर्देशः प्रतिज्ञा ||
SK
प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः अनित्यः शब्द इति
SK
********************** Nय्SBह्_१,१.३४ **********************
SK
% प्.२८३
SK
Nय्S_१,१.३४: उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः ||
SK
उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः, साध्ये प्रतिसन्धाय धर्मम् उदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः उत्पत्तिधर्मकत्वाद् इति/
SK
% प्रतिसन्धाय धर्मम् ... उत्पत्ति-] प्.२८४ % -धर्मकत्वाद् इति/] प्.२८८ उत्पत्तिधर्मकम् अनित्यं दृष्टम् इति
SK
********************** Nय्SBह्_१,१.३५ **********************
SK
% प्.२९० किम् एतावद् धेतुलक्षणम् इति? नेत्य् उच्यते/ किं तर्हि?
SK
Nय्S_१,१.३५: तथा वैधर्म्यात् ||
SK
उदाहरणवैधर्म्याच् च साध्यसाधनं हेतुः/ कथम्? अनित्यः शब्द उत्पत्तिधर्मकत्वात्, अनुत्पत्तिधर्मकं नित्यं यथात्मादिद्रव्यम् इति
SK
********************** Nय्SBह्_१,१.३६ **********************
SK
% प्.३०६
SK
Nय्S_१,१.३६: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् ||
SK
साध्येन साधर्म्यं समानधर्मता/ साध्यसाधर्म्यात् कारणात् तद्धर्मभावी दृष्टान्त इति/
SK
% दृष्टान्त इति/] प्.३०८ तस्य धर्मस् तद्धर्मः, तस्य --- साध्यस्य/ साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम्, धर्मविशिष्टो वा धर्म्य् अनित्यः शब्द इति/ इहोत्तरं तद्ग्रहणेन गृह्यत इति/ कस्मात्? पृथग्धर्मवचनात्/ तस्य धर्मस् तद्धर्मस् तस्य भावस् तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्याद् उत्पत्तिधर्मकत्वत् तद्धर्मभावी भवति, स चोदाहरणम् इष्यते/ तत्र यद् उत्पद्यते तद् उत्पत्तिधर्मकम्/ तच् च भूत्वा न भवति आत्मानं जहाति निरुध्यत इत्य् अनित्यम्/ एवम् उत्पत्तिधर्मकत्वं साधनम् अनित्यत्वं साध्यम्/
SK
% प्.३०९ सो ऽयम् एकस्मिन् द्वयोर् धर्मयोः साध्यसाधनभावः साधर्म्याद् व्यवस्थित उपलभ्यते, तं दृष्टान्त उपलभमानः शब्दे ऽप्य् अनुमिनोति --- शब्दो ऽप्य् उत्पत्तिधर्मकत्वाद् अनित्यः स्थाल्यादिवद् इति, उदाह्रियते ऽनेन धर्मयोः साध्यसाधनभाव इत्य् उदाहरणम्
SK
********************** Nय्SBह्_१,१.३७ **********************
SK
Nय्S_१,१.३७: तद्विपर्ययाद् वा विपरीतम् ||
SK
दृष्टान्त उदाहरणम् इति प्रकृतम्/ साध्यवैधर्म्याद् अतद्धर्मभावी दृष्टान्त उदाहरणम् इति/ अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् आत्मादि, सो ऽयम् आत्मादिर् दृट्ष्टान्तः साध्यवैधर्म्याद् अनुत्पत्तिधर्मकत्वाद् अतद्धर्मभावी --- यो ऽसौ साध्यस्य धर्मो ऽनित्यत्वं स तस्मिन् न भवतीति/
SK
% धर्मो ऽनित्यत्वं ...] प्.३१० अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मकत्वस्याभावाद् अनित्यत्वं न भवतीत्य् उपलभमानः शब्दे विपर्ययम् अनुमिनोत्य् उत्पत्तिधर्मकत्वस्य भावाद् अनित्यः शब्द इति/ साधर्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्/ वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्याद् अतद्धर्मभावी दृष्टान्त उदाहरणम्/
SK
% प्.३११ पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौ साध्यसाधनभूतौ पश्यति साध्ये ऽपि तयोः साध्यसाधनभावम् अनुमिनोति/ उत्तरस्मिन् दृष्टान्ते तयोर् धर्मयोर् एकस्याभावाद् इतरस्याभावं पश्यति तयोर् एकस्य भावाद् इतरस्य भावं साध्ये ऽनुमिनोतीति/ तद् एतद् धेतुवाभासेषु न सम्भवतीत्य् अहेतवो हेत्वाभासाः/
SK
% न सम्भवतीत्य् अहेतवो हेत्वाभासाः/] प्.३१२ तद् इदं हेतूदाहरणयोः सामर्थ्यं परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयम् इति
SK
********************** Nय्SBह्_१,१.३८ **********************
SK
% प्.३१३
SK
Nय्S_१,१.३८: उदाहरणापेक्षस् तथेत्य् उपसंहारो न तथेति वा साध्यस्योपनयः ||
SK
उदाहरणापेक्ष उदाहरणतन्त्र उदाहरणवशः/ वशः सामर्थ्यम्/ साध्यसाधर्म्ययुक्ते उदाहरणे स्थाल्यादि द्रव्यम् उत्पत्तिधर्मकम् अनित्यं दृष्टम्, तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वम् उपसंह्रियते/
SK
% उत्पत्तिधर्मक इति ...] प्.३१४ साध्यवैधर्म्ययुक्ते पुनर् उदाहरण आत्मादि द्रव्यम् अनुत्पत्तिधर्मकं नित्यं दृष्टम्, न च तथा शब्द इति, अनुत्पत्तिधर्मकत्वस्योपसंहाररप्रतिषेधेनोत्पत्तिधर्मकत्वम् उपसंह्रियते/ तद् इदम् उपसंहारद्वैतम् उदाहरणद्वैताद् भवति/ उपसंह्रियते ऽनेनेति चोपसंहारो वेदितव्य इति
SK
********************** Nय्SBह्_१,१.३९ **********************
SK
% प्.३१५ द्विविधस्य पुनर् हेतोर् द्विविधस्य चोदाहरणस्योपसंहारद्वैते च समानम् ---
SK
Nय्S_१,१.३९: हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ||
SK
साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणम् उपसंह्रियते, तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति निगमनम् --- निगम्यन्ते ऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम्/ निगम्यन्ते --- समर्थ्यन्ते --- सम्बध्यन्ते/ तत्र साधर्मोक्ते तावद् धेतौ वाक्यम् अनित्यः शब्द इति प्रतिज्ञा/ उत्पत्तिधर्मकत्वाद् इति हेतुः/ उत्पत्तिधर्मकं स्थाल्यादि द्रव्यम् अनित्यम् इत्य् उदाहरणम्/ तथा चोत्पत्तिधर्मकः शब्द इत्य् उपनयः/ तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति निगमनम्/ वैधर्म्योक्ते ऽप्य् अनित्यः शब्द उत्पत्तिधर्मकत्वात्,
SK
% उत्पत्तिधर्मकत्वात्,] प्.३१६ अनुत्पत्तिधर्मकम् आत्मादि द्रव्यं नित्यं दृष्टम्, न च तथानुत्पत्तिधर्मकः शब्दः तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति/ अवयवसमुदाये च वाक्ये सम्भूयेतरेतराभिसम्बन्धात् प्रमाणान्य् अर्थान् साधयन्तीति/ सम्भवस् तावत् शब्दविषया प्रतिज्ञा, आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानाद् अनृषेश् च स्वातन्त्र्यानुपपत्तेः/ अनुमानं हेतुः, उदाहरणे सादृश्यप्रतिपत्तेः/ तच् चोदाहरणभाष्ये व्याख्यातम्/ प्रत्यक्षविषयम् उदाहरणं दृष्टेनादृष्टसिद्धेः/ उपमानम् उपनयः तथेत्य् उपसंहारात्, न च तथेति वोपमानधर्मप्रतिषेदेहे विपरीतधर्मोपसंहारसिद्धेः/ सर्वेषाम् एकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनम् इति/ इतरेतराभिसम्बन्धो ऽपि --- असत्यां प्रतिज्ञायाम् अनाश्रया हेत्वादयो न प्रवर्तेरन्/
SK
% प्.३१७ असति हेतौ कस्य साधनभावः प्रदर्श्येत/ उदाहरणे साध्ये च कस्योपसंहारः स्यात् कस्य चापदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनं स्याद् इति/ असत्य् उदाहरणे केन साधर्म्यं वैधर्म्यं वा साध्यसाधनम् उपादीयेत, कस्य वा साधर्म्यवशाद् उपसंहारः प्रवर्तेत/ उपनयं चान्तरेण साध्ये ऽनुपसंहृतः साधको धर्मो नार्थं साधयेत्/ निगमनाभावे चानभियुक्तसम्बन्धानां प्रतिज्ञादीनाम् एकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्येति/ अथावयवार्थः --- साध्यस्य धर्मस्य धर्मिणा सम्बन्धोपादानं प्रतिज्ञार्थः/ उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः/ धर्मयोः साध्यसाधनभावप्रदर्शनम् एकत्रोदाहरणार्थः/ साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनम् उपनयार्थः/ उदाहरणस्थयोर् धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम्/ नचैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्याज् जातिनिग्रहस्थानबहुत्वं प्रक्रमते/ अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावम् उदाहरणे जातिवादी प्रत्यवतिष्ठते/ व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य न वैधर्म्यमात्रस्य वेति
SK
********************** Nय्SBह्_१,१.४० **********************
SK
% साधनभूतस्य ...] प्.३१८ % प्.३२० अत ऊर्ध्वं तर्को लक्षणीय इत्य् अथेदम् उच्यते ---
SK
Nय्S_१,१.४०: अविज्ञाततत्त्वे ऽर्थे कारणोपपत्तितस् तत्त्वज्ञानार्थम् ऊहस् तर्कः ||
SK
अविज्ञायमानतत्त्वे ऽर्थे जिज्ञासा तावज् जायते जानीयेमम् अर्थम् इति/ अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मौ विभागेन विमृशति ---
SK
% जिज्ञासितस्य वस्तुनो ...] प्.३२१ किंस्विद् इत्थम् आहोस्विन् नेत्थम् इति/ विमृश्यमानयोर् धर्मयोर् एकं कारणोपपत्त्यानुजानाति, सम्भवत्य् अस्मिन् कारणं प्रमाणं हेतुर् इति कारणोपपत्त्या स्याद् एवम् एतन् नेतरद् इति/ तत्र निदर्शनम् --- यो ऽयं ज्ञाता ज्ञातव्यम् अर्थं जानीते तं तत्त्वतो जानीयेति जिज्ञासा/ स किम् उत्पत्तिधर्मको ऽथानुत्पत्तिधर्मक इति विमर्शः/ विमृश्यमाने ऽविज्ञाततत्ते ऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणम् उपपद्यते तम् अनुजानाति/ यद्य् अयम् अनुत्पत्तिधर्मकः, ततः स्वकृतस्य कर्मणः फलम् अनुभवति ज्ञाता, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरम् उत्तरं पूर्वस्य पूर्वस्य कारणम्, उत्तरोत्तरापाये तदनन्तरापायाद् अपवर्ग इति स्यातां संसारापवर्गौ/
SK
% -पवर्गौ/] प्.३२२ उत्पत्तिधर्मके ज्ञातरि पुनर् न स्याताम्/ उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् उत्पन्नश् च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति/ तद् एवम् एकस्यानेकशरीरयोगः शरीरवियोगश् चात्यन्तं न स्याद् इति यत्र कारणम् अनुपपद्यमानं पश्यति तन् नानुजानाति/ सो ऽयम् एवंलक्षण ऊहस् तर्क इत्य् उच्यते/ कथं पुनर् अयं तत्त्वज्ञानार्थो न तत्त्वज्ञानम् एवेति? अनवधारणात्/ अनुजानात्य् अयम् एकतरं धर्मं कारणोपपत्त्या, न त्व् अवधारयति न व्यवस्यति न निश्चिनोति एवम् एवेदम् इति/ कथं तत्त्वज्ञानार्थ इति? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानुग्रहभावितात् प्रसन्नाद् अनतरप्रमाणसामर्थ्यात् तत्त्वज्ञानम् उत्पद्यत इत्य् एवं तत्त्वज्ञानार्थ इति/ सो ऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादे ऽपदिष्ट इत्य् अविज्ञाततत्त्वम् अनुजानाति/
SK
% वादे ऽपदिष्ट ...] प्.३२३ यथा सो ऽर्हो भवति तस्य तथाभावः तत्त्वम्, अविपर्ययो याथातथ्यम्
SK
********************** Nय्SBह्_१,१.४१ **********************
SK
% प्.३२९ एतस्मिंश् च तर्कविषये ---
SK
Nय्S_१,१.४१: विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः ||
SK
स्थापना साधनम्, प्रतिषेध उपालम्भः/ तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्ताव् अनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षाव् इत्य् उच्येते/ तयोर् अन्यतरस्य निवृत्तिर् एकतरस्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यार्थावधारणं निर्णयः/ नेदं पक्षप्रतिपक्षाभ्याम् अर्थावधारणं सम्भवतीति --- एको हि प्रतिज्ञातम् अर्थं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य/ द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश् चोद्ध्रियते स निवर्तते/
SK
% तस्यैव प्रतिषेधहेतुश् ...] प्.३३० तस्य निवृत्तौ यो ऽवतिष्ठते तेनार्थावधारणं निर्णयः/ उभाभ्याम् एवार्थावधारणम् इत्य् आह/ कया युक्त्या? एकस्य सम्भवो द्वितीयस्यासम्भवः/ ताव् एतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयतः --- उभयसम्भवे उभयासम्भवे वानिवृत्तो विमर्श इति/ विमृश्येति विमर्शं कृत्वा/ सो ऽयं विमर्शः पक्षप्रतिपक्षाव् अवद्योत्य न्यायं प्रवर्तयतीत्य् उपादीयत इति/ एतच् च विरुद्धयोर् एकधर्मिस्थयोर् बोद्धव्यम्/ यत्र तु धर्मिसामान्यगतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयः, हेतुतो ऽर्थस्य तथाभावोपपत्तेः/ यथा --- क्रियावद् द्रव्यम् इति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत् क्रियावत्, यस्य न सम्भवति तद् अक्रियम् इति/ एकधर्मिस्थयोश् च विरुद्धयोर् धर्मयोर् अयुगपद्भाविनोः कालविकल्पः/ यथा --- तद् एव द्रव्यं क्रियायुक्तं क्रियावत्, अनुत्पन्नोपरतक्रियं पुनर् अक्रियम् इति/ न चायं निर्णये नियमो विमृश्यैव पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णय इति, किं त्व् इन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षे ऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः/ वादे शास्त्रे च विमर्शवर्जम्
SK
********************** Nय्SBह्_१,२.१ **********************
SK
इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम्/

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Gautama: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya (sa_gautama-nyAyasUtra-comm.htm).

Source