Commentary on the Brahma Sūtras

Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · ब्रह्मसूत्रशाङ्करभाष्यम्

Commentary on the Brahma Sūtras

Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya

ब्रह्मसूत्रशाङ्करभाष्यम्

Adhyāya 4

SK
आवृत्तिर् असकृदुपदेशात् | BBस्_४,१.१ |
SK
तृतीये अध्याये परा अपरासु विद्यासु साधन आश्रयो विचारः प्रायेणात्यगात् / अथ इह चतुर्थे फलाश्रय आगमिष्यति / प्रसङ्गागतं च अन्यदपि किञ्चित् चिन्तयिष्यते / प्रथमं तावत् कतिभिः चिदधिकरणैः साधन आश्रयविचारशेषमेव अनुसरामः / ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. ४.४.२१) ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वीतऽ(बृ. ४.५.६) ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. ८.७.१) इति च एवमादिश्रवणेषु संशयः - किं सकृत् प्रत्ययः कर्तव्य आहोस्वित् आवृत्त्य इति / किं तावत् प्राप्तं सकृत् प्रत्ययः स्यात् प्रयाजादिवत् / तावता शास्त्रस्य कृतार्थत्वात् / अश्रूयमाणायां क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् /
SK
ननु असकृत् उपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति एवमादयः / एवम् अपि यावत् शब्दम् आवर्तयेत् सकृत् श्रवणं सकृत् मननं सकृत् निदिध्यासनं च इति न अतिरिक्तम् / सकृत् उपदेशेषु तु वेद उपासीत इति एवमादिषु अनावृत्तिः इति /
SK
एवं प्राप्ते ब्रूमः - प्रत्ययावृत्तिः कर्तव्या / कुतः - असकृत् उपदेशात् / ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ इति एवञ्जातीयको हि असकृत् उपदेशः प्रत्ययावृत्तिं सूचयति /
SK
ननु उक्तं यावत् शब्दमेव आवर्तयेत् न अधिकम् इति /
SK
न / दर्शनपर्यवसितत्वात् अदोषम् / दर्शनपर्यवसानानि हि श्रवणादीनि आवर्त्यमानानि दृष्टार्थानि भवन्ति / यथा अवघातादीनि तण्डुलादि निष्पत्तिपर्यसानानि तद्वत् //
SK
अपि च उपासनं निदिध्यासनं च इति अत्यन्तर्णीतावृत्तिगुण एव क्रियाभिधीयते / तथा हि - लोके गुरुम् उपास्ते राजानम् उपास्त इति च यः तात्पर्येण गुर्वादीन् अनुवर्तते स एवम् उच्यते / तथा ध्यायति प्रोषितनाथा पतिम् इति या निरन्तर स्मरणा पतिं प्रति सा उत्कण्ठा सा एवम् अभिधीयते / विद्युपास्त्योः च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते / क्वचित् विदिना उपक्रम्य उपासिन उपसंहरति यथा - ऽयस्तद्वेद यत्स वेद स मयैतदुक्तःऽ (छा. ४.१.४) इति अत्र ऽअनु म एतां भगवो देवतां शाधि यां देवतामुपाःसेऽ (छा. ५.२.२) इति / क्वचित् च उपासिन उपक्रम्य विदिना उपसंहरति यथा - ऽमनो ब्रह्मेत्युपासीतऽ (छा. ३.१८.१) इति अत्र ऽभाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेदऽ (छा. ३.१८.३) इति / तस्मत् सकृत् उपदेशेषु अपि आवृत्तिसिद्धिः / असकृत् उपदेशः तु आवृत्तेः सूचकः
SK
लिङ्गाच् च | BBस्_४,१.२ |
SK
लिङ्गम् अपि प्रत्ययावृत्तिं प्रत्याययति / तथा हि उद्गीथविज्ञानं प्रस्तुत्य ऽआदित्य उद्गीथःऽ (छा. १.५.१) इति एतत् एकपुत्रतादोषेण आपोद्य ऽरशमींस्तवं पर्यावर्तयात्ऽ (छा. १.५.२) इति रश्मिबहुत्व विज्ञानं बहुपुत्रतायै विदधत् सिद्धवत् प्रत्ययावृत्तिं दर्शयति / तस्मात् तत् सामान्यात् सर्वप्रत्ययेषु आवृत्तिसिद्धिः / अत्र आह - भवतु नाम साध्यफलेषु प्रत्ययेषु आवृत्तिः / तेषु आवृत्तिसाद्यस्य अतिशयस्य संभवात् / यः तु परब्रह्मविषयः प्रत्ययो नित्य शुद्ध बुद्ध मुक्त स्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किम् अर्थावृत्तिः इति /
SK
सकृत् श्रुतौ च ब्रह्म आत्मत्वप्रतीति अनुपपत्तेः आवृत्ति अभ्युपगम इति चेत् /
SK
न / आवृत्तौ अपि तत् अनुपपत्तेः / यदि हि ऽतत्त्वमसिऽ (छा. ६.८.७) इति एवञ्जातीयकं वाक्यं सकृत् श्रूयमाणं ब्रह्मात्मत्व प्रतीतिं न उत्पादयेत् ततः तदेव आवर्त्यमानम् उत्पादयिष्यति इति का प्रत्याशा स्यात् / अथ उच्येत न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यम् अनुभावयिष्यति ब्रह्मात्मत्वम् इति / तथा अपि आवृत्ति आनर्थक्यमेव / सा अपि हि युक्तिः सकृत् प्रवृत्तैव स्वम् अर्थम् अनुभावयिष्यति / अथापि स्यात् उक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् / यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्र कम्पादि लिङ्गात् च शूलसद्भाव सामान्यमेव परः प्रतिपद्यते न विशेषम् अनुभवति यथा स एव शूली /
SK
विशेष अनुभवः च अविद्याया निवर्तकः ततः तदर्थ आवृत्तिः इति चेत् /
SK
न / असकृत् अपि तावत् मात्रे क्रियमाणे विशेषविज्ञान उत्पत्ति असंभवात् / न हि सकृत् प्रयुक्ताभ्यां शास्त्रयुक्तिभ्याम् अनवगतो विशेषः शतकृत्वः अपि प्रयुज्यमानाभ्याम् अवगन्तुं शक्यते / तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्यते यदि वा सामान्यमेव उभयथा अपि सकृत् प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्ति अनुपयोगः / न च सकृत् प्रयुक्ते शास्त्रयुक्ती कस्यचित् अपि अनुभवं न उत्पादयत इति शक्यते नियन्तुं विचित्रप्रज्ञत्वात् प्रतिपत्तृणाम् / अपि च अनेक अंशोपेते लौकिके पदार्थे सामान्य विशेषवत् एकेन अवधानेन एकम् अंशम् अवधारयति अपरेण अपरम् इति स्यात् अपि अभ्यास उपयोगो यथा दीर्घप्रपाठकग्रहणादिषु / न तु निर्विशेषे ब्रह्मणि सामान्य विशेषरहिते चैतन्यमात्रात्मके प्रमा उत्पत्तौ अभ्यासापेक्षा युक्त इति /
SK
अत्र उच्यते - भवेत् आवृत्ति आनर्थक्यं तं प्रति यः तत्त्वमसि इति सकृत् उक्तमेव ब्रह्मात्मत्वम् अनुभवितुं शक्नुयात् / यस्तु न शक्नोति तं प्रत्युपयुज्यत एव आवृत्तिः / तथा हि छान्दोग्ये ऽतत्त्वमसि श्वेतकेतोऽ (छा. ६.८.७) इति उदिश्य ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. ६.८.७) इति पुनः परिचोद्यमानः तत् तत्
SK
आदाशङ्का कारणं निराकृत्य तत्त्वमसि इति एव असकृत् उपदिशते / तथा च ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. ४.५.६) इत्यादि दर्शितम् /
SK
ननु उक्तं सकृत् श्रुतं चेत् तत्त्वमसि वाक्यं स्वम् अर्थम् अनुभावयितुं न शक्नोति तत आवर्त्यमानम् अपि न एव शक्ष्यति इति /
SK
न एष दोषः / नहि दृष्टे अनुपपन्नं नाम / दृश्यन्ते हि सकृत् श्रुतात् वाक्यात् मन्दप्रतीतं वाक्यार्थम् आवर्तयन्तः तत् तत् आभासव्युदासेन सम्यक् प्रतिपद्यमानाः / अपि च तत्त्वमसि इति एतत् वाक्यं त्वं पदार्थस्य तत् पदार्थभावम् आचष्टे / तत् पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणम् अभिधीयते ऽसत्यं ज्ञानमनन्त ब्रह्मऽ (तै. २.१.१) ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. ३.८.११) ऽअदृष्टं द्रष्टृऽ (बृ. ३.८.११) ऽअविज्ञातं विज्ञातृऽ (बृ. ३.८.११) ऽअजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम्ऽ (बृ. ३.८.८) इत्यादि शास्त्र प्रसिद्धम् / तत्र अजादिशब्दैः जन्मादयो भावविकारा निवर्तिताः / अस्थूलादिशब्दैः च स्थौल्यादयो द्रव्यधर्माः / विज्ञानादिशब्दैः च चैतन्यप्रकाशात्मकत्वम् उक्तम् / एष व्यावृत्तसर्वसंसारधर्मकः / अनुभावात्मको ब्रह्मसंज्ञकः तत् पदार्थो वेदान्त अभियुक्तानां प्रसिद्धः / तथा त्वंपदार्थः अपि प्रत्यगात्मा श्रोता देहात् आरभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेन अवधारितः / तत्र येषाम् एतौ पदार्थौ अज्ञान संशय विपर्यय प्रतिबद्धौ तेषां तत्वमसि इत्येतत् वाक्यं स्वार्थे प्रमां न उत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वात् वाक्यार्थस्य इति अतस्तात् प्रत्येष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः / यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथा अपि अध्यारोपितं तस्मिन् बहु अशत्वं देह इन्द्रिय मनो बुद्धि विषय वेदनादि लक्षणं तत्र एकेन अवधानेन एकम् अंशम् अपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः / तत् तु पूर्वरूपमेव आत्मप्रतिपत्तेः / येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धः अस्ति ते शक्नुवन्ति सकृत् उक्तमेव तत्त्वमसि वाक्यार्थम् अनुभवितुम् इति तान् प्रत्यावृत्ति आनर्थक्यम् इष्टमेव / सकृत् उत्पन्न एव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयति इति न अत्र कश्चित् अपि क्रमः अभ्युपगम्यते / सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिः भवेत् / बलवती हि आत्मनो दुःखत्वादि प्रतिपत्तिः /
SK
अतो न दुःखित्वादि अभावं कश्चित् प्रतिपद्यत इति चेत् /
SK
न / देहादि अभिमानवत् दुःखित्वादि अभिमानस्य मिथ्या अभिमानत्व उपपत्तेः / प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्य इति च मिथ्या अभिमानो दृष्टः / तथा बाह्यतरेषु अपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्य इत्यदि आरोपो दृष्टः / तथा दुःखित्वादि अभिमानः अपि स्यात् / देहादिवत् एव चैतन्यात् बहिः उपलभमानत्वात् दुःखित्वादीनां सुषुप्तादिषु च अननुवृत्तेः / चैतन्यस्य तु सुषुप्ते अपि अनुवृत्तिम् आमनन्ति ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यतिऽ (बृ. ४.३.२३) इत्यादिना / तस्मात् सर्वदुःखविनिर्मुक्त एकचैतन्यात्मकः अहम् इत्येष आत्मानुभवः / न च एवम् आत्मानम् अनुभवतः किञ्चित् अन्यत् कृत्यम् अवशिष्यते / तथा च श्रुतिः - ऽकिं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. ४.४.२२) इति आत्मविदः कर्तव्य अभावं दर्शयति / स्मृतिः अपि - ऽयस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः / आत्मन्येव च संतुष्टस्य कार्यं न विद्यतेऽ (गी. ३.१७) इति / यस्य तु न एषः अनुभवो द्रागिव जायते तं प्रत्यनुभवार्थ एव आवृत्ति अभ्युपगमः / तत्र अपि न तत्त्वमसि वाक्यार्थात् प्रच्याव्यावृत्तौ प्रवर्तयेत् / न हि वरघाताय कन्याम् उद्वाहयन्ति / नियुक्तस्य च अस्मिन् अधिकृतः अहं कर्ता मया इदं मन्दम् अप्रतिभानात् तं ब्रह्मप्रत्ययात् विपरीतप्रत्यय उत्पद्यते / यः तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन् एव वाक्यार्थे स्थिरीकार आवृत्त्यादि वाचो युक्त्या अभ्युपेयते / तस्मात् परब्रह्मविषये अपि प्रत्यये तत् उपाय उपदेशेषु आवृत्तिसिद्धिः
SK
२ आत्मत्व उपासन अधिकरणम् / सू. ३
SK
आत्मेति तूपगच्छन्ति ग्राहयन्ति च | BBस्_४,१.३ |
SK
यः शास्त्रोक्तविशेषण परमात्मा स किम् अहम् इति ग्रहीतव्यः किंवा मत् अन्य इति एतत् विचारयति / कथं पुनः आत्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति / उच्यते - अयम् आत्मशब्दो मुख्यः शक्यते अभ्युपगन्तुं सति जीव ईश्वरयोः अभेदसंभव इतरथा तु गौणः अयम् अभ्युपगन्तव्य इति मन्यते / किं तावत् प्राप्तं न अहम् इति ग्राह्यः / न हि अपहतपाप्मत्वादि गुणो विपरीत गुणत्वेन शक्यते ग्रहीतुं विपरीत गुणो च अपहतपाप्मत्वादि गुणत्वेन / अपहतपाप्मत्वादि गुणः च परमेश्वरः तद्विपरीतगुणः तु शारीरः / ईश्वरस्य च संसारि आत्मत्व ईश्वर अभावप्रसङ्गः / ततः शास्त्र आनर्थक्यम् / संसारिणः अपि ईश्वर आत्मत्वे अधिकारि अभावात् शास्त्र आनर्थक्यमेव, प्रत्यक्षादि विरोधः च / अन्यत्वे अपि तादात्म्य दर्शनं शास्त्रात् कर्तव्यं प्रतिमादिषु इव विष्णु आदिदर्शनम् इति चेत् काममेवं भवतु / न तु संसारिणो मुख्य आत्म ईश्वर इत्येतत् नः प्रापयितव्यम् / एवं प्राप्ते ब्रूमः - आत्म इत्येव परमेश्वरः प्रतिपत्तव्यः / तथा हि परमेश्वर प्रक्रियायां जाबाला आत्मत्वेन एव एतम् उपगच्छन्ति - ऽत्वं वा अहमस्मि भगवो देवतो ऽहं वै त्वमसि भगवो देवेतिऽ इति / तथा अन्ये अपि ऽअहं ब्रह्मास्मिऽ इत्येवम् आदय आत्मत्व उपगमा द्रष्टव्याः / ग्राहयन्ति च आत्मत्वेन एव ईश्वरं वेदान्तवाक्यानि ऽएष त आत्मा सर्वान्तरःऽ (बृ. ३.४.१) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ. ३.७.३) ऽतत्सत्यं स आत्मा तत्त्वमसिऽ (छा. ६.८.७) इति एवमादीनि / यत् उक्तं प्रतीक दर्शनम् इदं विष्णुप्रतिमा न्यायेन भविष्यति इति तत् अयुक्तं गौणत्व प्रसङ्गात् / वाक्य वैरूप्यात् च / यत्र हि प्रतीकदृष्टिः अभिप्रेयते सकृदेव तत्र वचनं भवति यथा - ऽमनो ब्रह्मऽ (छा. ३.१८.१) ऽआदित्यो ब्रह्मऽ (छा. ३.१९.१) इत्यादि / इह पुनः त्वम् अहम् अस्मि अहं च त्वम् असि इति आह, अतः प्रतीक श्रुति वैरूप्यात् अभेदप्रतिपत्तिः / भेददृष्टि अपवादात् च / तथा हि - ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमीति न स वेदऽ (बृ. १.४.१०) ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. ४.५.७) इति एवमाद्या भूयसी श्रुतिः भेददर्शनम् अपवदति /
SK
यत् तु उक्तं न विरुद्धगुणयोः अन्योन्य आत्मसंभव इति /
SK
न अयं दोषः / विरुद्धगुणताया मिथ्यात्व उपपत्तेः / यत्पुनः उक्तम् ईश्वर अभावप्रसङ्ग इति / तत् असत् /
SK
शास्त्रप्रामाण्यात् अनभ्युपगमात् च / न हि ईश्वरस्य संसारि आत्मत्वं प्रतिपाद्यत इति अभ्युपगच्छामः किं तर्हि संसारिणः संसारित्व अपोहेन ईश्वरात्मत्वं प्रतिपिपायिषितम् इति / एवं च सति अद्वैत ईश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्या इति व्यवतिष्ठते / यत् अपि उक्तम् अधिकारि अभावः प्रत्यक्षादिविरोधः च इति / तत् अपि असत् / प्राक्प्रबोधात् संसारित्व अभ्युपगमात् / तद्विषयत्वात् च प्रत्यक्षादि व्यवहारस्य / ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. २.४.१४) इत्यादिना हि प्रबोधे प्रत्यक्षादि अभावं दर्शयति /
SK
प्रत्यक्षादि अभावे श्रुतेः अपि अभावप्रसङ्ग इति चेत् /
SK
न / इष्टत्वात् / ऽअत्र पितापिता भवतिऽ (बृ. ४.३.२२) इति उपक्रम्य ऽवेदा अवेदाःऽ (बृ. ४.३.२२) इति वचनात् इष्यत एव अस्माभिः श्रुतेः अपि अभावः प्रबोधे /
SK
कस्य पुनः अयम् अप्रबोध इति चेत् /
SK
य- त्वं पृच्छसि तस्य त इति वदामः /
SK
ननु अहम् ईश्वर एव उक्तः श्रुत्या, यदि एवं प्रतिबुद्धः असि न अस्ति कस्यचित् अप्रबोधः / यः अपि दोषः चोद्यते कैश्चित् अविद्या किल आत्मनः सद्वितीयत्वात् अद्वैत अनुपपत्तिः इति सः अपि एतेन प्रत्युक्तः / तस्मात् आत्म इति एव ईश्वरे मनो दधीत
SK
३ प्रतीक अधिकरणम् / सू. ४
SK
न प्रतीके न हि सः | BBस्_४,१.४ |
SK
ऽमनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेतिऽ (छा. ३.१८.१) ऽतथा आदित्यो ब्रह्मेत्यादेशःऽ (छा. ३.१९.१) ऽस यो नाम ब्रह्मेत्युपास्तेऽ (छा. ७.१.५) इति एवमादिषु प्रतीक उपासनेषु संशयः - किं तेषु अपि आत्मग्रहः कर्तव्यो न वा इति / किं तावत् प्राप्तम् / तेषु अपि आत्मग्रह एव युक्तः / कस्मात् / ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् प्रतीकानाम् अपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्याम् आत्मत्व उपपत्तेः इति / एवं प्राप्ते ब्रूमः - न प्रतीकेषु आत्म मतिं बध्नीयात् / न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेनाकलयेत् / यत् पुनः ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततः च आत्मत्वम् इति / तत् असत् / प्रतीक अभावप्रसङ्गात् / विकारस्वरूप उपमर्देन हि नामादि जातस्य ब्रह्मत्वमेव आश्रिते भवति / स्वरूप उपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा / न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्टि उपदेशेषु आत्मदृष्टिः कल्प्या / कर्तृत्वादि अनिराकरणात् / कर्तृत्वादि संवर्ग संसार धर्मनिराकरणे हि ब्रह्मण आत्मत्व उपदेशः / तत् अनिराकरणेन च उपासनविधानम् / अतः च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो न उपपद्यते / न हि रूचक स्वस्तिकयोः इतरेतर आत्मत्वम् अस्ति / सुवर्ण आत्मत्वेन इव तु ब्रह्म आत्मत्वेन एकत्वे प्रतीक अभावप्रसङ्गम् अवोचाम / अतो न प्रतीकेषु आत्मदृष्टिः क्रियते
SK
४ ब्रह्म दृष्टि अधिकरणम् / सू. ५ ब्रह्मदृष्टिर् उत्कर्षात् | BBस्_४,१.५ |
SK
तेषु एव उदाहरणेषु अन्यः संशयः - किम् आदित्यादि दृष्टयो ब्रह्मणि अध्यसितव्याः किंवा ब्रह्मदृष्टिः आदित्यादिषु इति / कुतः संशयः -सामानाधिकरम्ये कारण अनवधारणात् / अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यम् उपलभ्यते / आदित्यो ब्रह्म प्राणो ब्रह्म विद्युत् ब्रह्म इत्यादि समान विभक्ति निर्देशात् / न च अत्र आञ्जसं सामानाधिकरण्यम् अवकल्पते / अर्थान्तरवचनत्वात् ब्रह्म आदित्यादिशब्दानाम् / न हि भवति गौः अश्व इति सामानाधिकरण्यम् /
SK
ननु प्रकृतिविकारभावात् ब्रह्म आदित्यानां मृत् शरावादिवत् सामानाधिकरण्यं स्यात् /
SK
न इति उच्यते / विकारप्रविलयो हि एवं प्रकृतिसामानाधिकरण्यात् स्यात् / ततः च प्रतीक अभावप्रसङ्गम् अवोचाम / परमात्म वाक्यं च इदं तदानीं स्यात् ततः च उपासन अधिकारो बाध्येत / परिमितविकार उपादानं च व्यर्थम् / तस्मात् ब्राह्मणः अग्निः वैश्वानर इत्यादिवत् अन्यत्र अन्यदृष्टि अध्यासे सति क्व किन्दृष्टिः अध्यस्यताम् इति संशयः / तत्र अनियमो नियमकारिणः शास्त्रस्य अभावात् इत्येवं प्राप्तम् / अथवा आदित्यादि दृष्टय एव ब्रह्मणि कर्तव्या इति एवं प्राप्तम् / एवं हि आदित्यादि दृष्टिभिः ब्रह्म उपासितं भवति ब्रह्म उपासनं च फलवत् इति शास्त्रमर्यादा / तस्मात् न ब्रह्मदृष्टिः आदित्यादिषु इति / एवं प्राप्ते ब्रूमः - ब्रह्मदृष्टिः एव आदित्यादिषु स्यात् इति / कस्मात् / उत्कर्षात् / एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति / उत्कृष्टदृष्टेः तेषु अध्यासात् / तथा च लौकिको न्यायो अनुगतो भवति / उत्कृष्टदृष्टिः हि निकृष्टे अध्यसितव्य इति लौकिको न्यायः / यथा राजदृष्टिः क्षत्तरि / स च अनुसर्तव्यः / विपर्यये प्रत्यवाय प्रसङ्गात् / न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् /
SK
ननु शास्त्रप्रामाण्यात् अनाशङ्कनीयः अत्र प्रत्यवाय प्रसङ्गो न च लोकिकेन न्यायेन शास्त्रीया दृष्टिः नियन्तुं युक्त इति /
SK
अत्र उच्यते - निर्धारिते शास्त्रार्थ एतत् एवं स्यात् / संदिग्धे तु तस्मिन् निर्णयं प्रति लोकिकः अपि न्याय आश्रीयनाणो न विरुध्यते / तेन च उत्कृष्टदृष्टि अध्यासे शास्त्रार्थे अवधार्यमाणे निकृष्टदृष्टिम् अध्यस्यन् प्रत्यवेयात् इति श्लिष्यते / प्राथम्यात् च आदित्यादि शब्दानां मुख्यार्थत्वम् अविरोधात् गृहीतव्यम् / तैः स्वार्थवृत्तिभिः अवरुद्धायां बुद्धौ पश्चात् अवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्य असंभवात् ब्रह्मदृष्टिविधानार्थत एव अवतिष्ठते / इतिपरत्वात् अपि ब्रह्मशब्दस्य एष एव अर्थो न्याय्यः / तथा हि ऽब्रह्मेत्यादेशःऽ ऽब्रह्मेत्युपासीतऽ ऽब्रहमेत्युपास्तेऽ इति च सर्वत्र इतिपरं ब्रह्मशब्दम् उच्चारयति शुद्धान् तु आदित्यादि शब्दान् / तत- च यथा शुक्तिकां रजतम् इति प्रत्येति इत्यत्र शुक्तिवचन एव शुक्तिका शब्दो रजतशब्दः तु रजतप्रतीति लक्षणार्थः / प्रत्येत्येव हि केवलं रजतम् इति न तु तत्र रजतम् अस्ति / एवम् अत्र अपि आदित्यादीन् ब्रह्म इति प्रतीयात् इति गम्यते / वाक्यशेषः अपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान् दर्शयति - ऽस य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽ (छा. ३.१९.४), ऽयो वाचं ब्रह्मेत्युपास्तेऽ (छा. ७.२.२), ऽयः संकल्पः ब्रह्मेत्युपास्तेऽ (छा. ७.४.३) इति च / यत् तु उक्तं ब्रह्म उपासनाम् एव अत्र आदरणीयं फलत्वाय इति / तत् अयुक्तम् / उक्तेन न्यायेन आदित्यादीनाम् एव उपास्यत्व अवगमात् / फलं तु अतिथ्यादि उपासन इव आदित्यादि उपासने ऽपि ब्रह्म एव दास्यति सर्व अध्यक्षत्वात् / वर्णितं च एतत् ऽफलमत उपपत्तेःऽ (ब्र.सू. ३.२.३८) इति अत्र / ईदृशं च अत्र ब्रह्मण उपास्यत्वं यत् प्रतीकेषु तत् दृष्टि अध्यारोपणं प्रतिमादिषु इव विष्णु आदीनाम्
SK
आदित्यादिमति अधिकरणम् / सू. ६
SK
आदित्यादिमतयश् चाङ्ग उपपत्तेः | BBस्_४,१.६ |
SK
ऽय एवासौ तपति तमुद्गीथमुपासीतऽ (छा. १.३.१), ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.२.१), ऽवाचि सप्तविधं सामोपासीतऽ (छा. २.८.१), ऽइयमेवर्गग्निः सामऽ (छा. १.६.१) इति एवमादिषु अङ्गावबद्धेषु उपासनेषु संशयः किम् आदित्यादिषु उद्गीथादि दृष्टयो विधीयन्ते किं वा उद्गीथादिषु एव आदित्यादि दृष्टय इति / तत्र अनियमो नियमकारण अभावात् इति प्राप्तम् / न हि अत्र ब्रह्मण इव कस्यचित् उत्कर्षविशेषः अवधार्यते ऽब्रह्म हि समस्त जगत् कारणत्वात् अपहतपाप्मत्वादि गुणयोगात् च आदित्यादिभ्य उत्कृष्टम् इति शक्यम् अवधारयितुं न तु आदित्य उद्गीथादीनां विकारत्व अविशेषात् कञ्चित् उत्कर्षविशेष अवधारणे कारणम् अस्ति / अथवा नियमेन उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् / कस्मात् / कर्मात्मकत्वात् उद्गीथादीनां कर्मणः च फलप्राप्तिप्रसिद्धेः / उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति / तथा च ऽइयमेवर्गग्निः सामऽ(छा. १.६.१) इति अत्र ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा. १.६.१) इति ऋक्शब्देन पृथिवीं निर्दिशति सामशब्देन अग्निं तत् च पृथिवि अग्न्योः रृक् सामदृष्टिचीकीर्षायाम् अवकल्पते न ऋक् सामयोः पृथिवि अग्निदृष्टि चिकीर्षायाम् / क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते न राजनि क्षत्तृशब्दः / अपि च ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.२.१) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यम् इति प्रतीयते / ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा. २.११.१) इति च एतदेवं दर्शयति / प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्म अध्यस्तम् ऽआदित्यो ब्रह्मेत्यादेशःऽ (छा. ३.१९.१) इत्यादिषु / प्रथमनिर्दिष्टाः च पृथिव्यादयः चरमनर्दिष्टा हिङ्कारादयः ऽपृथिवी हिङ्कारःऽ (छा. २.२.१) इत्यादि श्रुतिषु / अतः
SK
अनङ्गेषु आदित्यादिषु अङ्गम् अतिनिक्षेप इति / एवं प्राप्ते ब्रूमः - आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् / कुतः - उपपत्तेः / उपपद्यते हि एवम् अपूर्वसंनिकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः / ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. १.१.१०) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति / भवतु कर्मसमृद्धिफलेषु एवं, स्वतन्त्रफलेषु तु कथम् ऽय एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्तेऽ (छा. २.२.३) इत्यादिषु / तेषु अपि अधिकृत अधिकारात् प्रकृत अपूर्वसंनिकर्षेण एव फलकल्पना युक्ता गोदोहनादीनियमवत् / फलात्मकत्वात् च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्य उत्कर्ष उपपत्तिः आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु / अपि च ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. १.१.१) ऽखल्वेतस्यैवाक्षरस्योपव्याख्यातं भवतिऽ (छा. १.१.१०)
SK
इति च उद्गीथमेव उपास्यत्वेन उपक्रम्य आदित्यादिमतीः विदधाति / यत् तु उक्तम् उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्ति इति / तत् अयुक्तम् / स्वयमेव उपासनस्य कर्मत्वात् फलवत्त्व उपपत्तेः / आदित्यादिभावेन अपि च दृश्यमानानाम् उद्गीथादीनां कर्मात्मकत्वान् अपायात् / ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा. १.६.१) इति तु लाक्षणिक एव पृथिवी अग्न्योः ऋक् सामशब्दप्रयोगः / लक्षणा च यथासंभवं संनिकृष्टेन विप्रकृष्टेन वा स्वार्थसंबन्धेन प्रवर्तते / तत्र यदि अपि ऋक् सामयोः पृथिवी अग्न्योः च संनिधानयोरेव एष ऋक् सामशब्दप्रयोग ऋक् सामसंबन्धात् इति निश्चीयते / क्षत्तृशब्दःअपि हि कुतश्चित् कारणात् राजानम् उपसर्पन् न निवारयितुं पार्यते / ऽइयमेवर्कऽ(छा. १.६.१) इति च यथा अक्षरन्यासम् ऋच एव पृथिवीत्वम् अवधारयति / पृथिव्या हि अक्त्वे अवधार्यमाण इयम् ऋक् एव इत्यक्षरन्यासः स्यात् / ऽय एवं विद्वान्साम गायतिऽ (छा. १.७.७) इति च अङ्गाश्रयमेव विज्ञानम् उपसंहरति न पृथिव्यादि आश्रयम् / तथा ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. २.२.१) इति यदि अपि सप्तमीनिर्दिष्टा लोकाः तथापि साम्न्येव ते अध्यस्येरन् द्वितीयानिर्देशेन साम्न उपास्यत्व अवगमात् / सामनि हि लोकेषु अध्यस्यमानेषु साम लोकात्मन उपासितं भवति / अन्यथा पुनः लोकाः सामा आत्मन उपासिताः स्युः / एतेन ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा. २.११.१) इत्यादि व्याख्यातम् / यत्र अपि तुल्यो द्वितीयनिर्देशः - ऽअथ खल्वमुमादित्यं सप्तविधं सामोपासीतऽ (छा. २.९.१) इति, तत्र अपि ऽसमस्तस्य खलु साम्न उपासनं साधुऽ (छा. २.८.१) ऽइति च पञ्चविधस्यऽ (छा. २.७.२ ) ऽअथ सप्तविधस्यऽ (छा. २.८.१) इति च साम्न एव उपास्यत्व उपक्रमात् तस्मिन् एव आदित्यादि अध्यासः / एतस्मात् एव च साम्न उपास्यत्व अवगमात् ऽपृथिवी हिङ्कारःऽ (छा. २.२.१) इत्यादिनिर्देशविपर्यये अपि हिङ्कारादिषु एव पृथिव्यादि दृष्टिः / तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषु उद्गीथादिषु क्षिप्येरन् इति सिद्धम्
SK
६ आसीन अधिकरणम् / सू. ७-१०
SK
आसीनः संभवात् | BBस्_४,१.७ |
SK
कर्माङ्गसंबद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता न अपि सम्यक् दर्शने वस्तुतन्त्रत्वात् विज्ञानस्य / इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एव इति चिन्तयति / तत्र मानसत्वात् उपासनस्य अनियमः शरीरस्थितेः इति / एवं प्राप्ते ब्रवीति - आसीन एव उपासीत इति / कुतः - संभवात् / उपासनं नाम समानप्रत्ययप्रवाहकरणं न च तत् गच्छतो धावतो वा संभवति गत्यादीनां चित्तविक्षेपकत्वात् / तिष्ठतः अपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति / शयानस्य अपि अकस्मात् एव निद्रया अभिभूयेत / आसीनस्य तु एवञ्जातीयको भूयान् दोषः सुपरिहर इति संभवति तस्य उपासनम्
SK
ध्यानाच् च | BBस्_४,१.८ |
SK
अपि च ध्यायति अर्थं एष यत् समानप्रत्ययप्रवाहकरणम् / ध्यायतिः च प्रशिथिल अङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषय आक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते ध्यायति बको ध्यायति प्रोषितबन्धुः इति / आसीनः च अनायासो भवति / तस्मात् अपि आसीनकर्म उपासनम्
SK
अचलत्वं चापेक्ष्य | BBस्_४,१.९ |
SK
अपि च ऽध्यायतीव पृथिवीऽ (छा. ७.६.१) इति अत्र पृथिव्यादिषु अचलत्वमेव अपेक्ष्य ध्यायतिवादो भवति तत् च लिङ्गम् उपासनस्य आसीनकर्मत्वे
SK
स्मरन्ति च | BBस्_४,१.१० |
SK
स्मरन्ति अपि च शिष्टा उपासन अङ्गत्वेन आसनम् - ऽशुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनःऽ (गी. ६.११) इत्यादिना / अत एव पद्मकादीनाम् आसनविशेषाणाम् उपदेशो योगशास्त्रे
SK
७ एकाग्रता अधिकरणम् / सू. ११
SK
यत्रैकाग्रता तत्राविशेषात् | BBस्_४,१.११ |
SK
दिक् देशकालेषु संशयः - किम् अस्ति कश्चित् नियमो न अस्ति वा इति / प्रायेण वैदिकेषु आरम्भेषु दिगादिनियमदर्शनात् स्यात् इह अपि कश्चित् नियम इति यस्य मतिः तं प्रति आह दिक् देशकालेषु अर्थलक्षण एव नियमः / यत्र एव अस्य दिशि देशे काले वा मनसः सोकर्येण एकाग्रता भवति तत्र एव उपासीत प्राचीदिक् पूर्वाह्न प्राचीन प्रवणादिवत् विशेष अश्रावणात् / एकाग्रतया इष्टायाः सर्वत्र अविशेषात् /
SK
ननु विशेषम् अपि केचित् आमनन्ति - ऽसमे शुचौ खर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः / मनोनुकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्ऽ (श्वे. २.१०) इति यथा इति / उच्यते - सत्यम् अस्ति एवञ्जातीयको नियमः / सति तु एतस्मिन् तद्गतेषु विशेषनियम इति सुहृत् भूत्वा आचार्य आचष्टे / ऽमनोनुकूलेऽ इति च एषा श्रुतिः यत्र एकाग्रता तत्र एव इति एतत् एव दर्शयति
SK
८ आप्रायण अधिकरणम् / सू. १२
SK
आ प्रयाणात् तत्रापि हि दृष्टम् | BBस्_४,१.१२ |
SK
आवृत्तिः सर्व उपासनेषु आदर्तव्य इति स्थितम् आद्ये अधिकरणे / तत्र यानि तावत् सम्यक् दर्शनार्थानि उपासनानि तानि अवघातादिवत् कार्यपर्यवसानानि इति ज्ञातमेव एषाम् आवृत्तिपरिमाणम् / न हि सम्यक् दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चित् शासितुं शक्यम् / अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्य अविषयत्वात् / यानि पुनः अभ्युदयफलानि तेषु एषा चिन्ता किं कियन्तञ्चित् कालं प्रत्ययम् आवर्त्य उपरमेत् उत यावज्जीवम् आवर्तयेत् इति / किं तावत् प्राप्तम् / कियन्तञ्चित् कालं प्रत्ययम् अभ्यस्य उत्सृजेत् आवृत्तिविशिष्टस्य उपासनशब्दार्थस्य कृतत्वात् इति / एवं प्राप्ते ब्रूमः - आप्रायणात् एव आवर्तयेत् प्रत्ययम् / अन्त्यप्रत्ययवशात् अदृष्टफलप्राप्तेः / कर्माणि अपि हि जन्मान्तर उपभोग्यं फलम् आरभमाणानि तत् अनुरूपं भावनाविज्ञानं प्रायणकाल आक्षिपन्ति, ऽसविज्ञानो भवति सविज्ञानमेवान्ववक्रामतिऽ ऽयच्चित्तस्तेनैष प्राणमायाति, प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयतिऽ इति च एवमादिश्रुतिभ्यः / तृणजलूकानिदर्शनात् च / प्रत्ययाः तु एते स्वरूप अनुवृत्तिं मुक्त्वा किम् अन्यत् प्रायणकालभावि भावनाविज्ञानम् अपेक्षेरन् / तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययः तेषु अप्रायणात् आवृत्तिः / तथा च श्रुतिः -ऽस यावत्क्रतुरयमस्माल्लोकात्प्रैतिऽ इति प्रायणकाले अपि प्रत्यय अनुवृत्तिं दर्शयति / स्मृतिः अपि - ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय सदा तद्भावभावितःऽ (गी. ८.६) इति ऽप्रयाणकाले मनसाचलेनऽ (गी. ८.१०) इति च / ऽसो ऽन्तवेलायामेतत्त्रयं प्रतिपद्येतऽ इति च मरणवेलायाम् अपि कर्तव्यशेषं श्रावयति
SK
९ तत् अधिगम अधिकरणम् / सू. १३
SK
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् | BBस्_४,१.१३ |
SK
गतः तृतीयशेषः / अथ इदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते / ब्रह्म अधिगमे सति तत् विपरीतफलं दुरितं क्षीयते न क्षीयते वा इति संशयः / किं तावत् प्राप्तम् / फलार्थत्वात् कर्मणः फलम् अदत्वा न संभाव्यते क्षयः / फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता / यदि तदन्तरेण एव फल उपभोगम् अपवृज्येत श्रुतिः कदर्थिता स्यात् / स्मरन्ति च ऽनहि कर्म क्षीयतेऽ इति /
SK
ननु एवं सति प्रायश्चित्त उपदेशःअनर्थकः प्राप्नोति /
SK
न एष दोषः / प्रायश्चित्तानां नैमित्तिकत्व उपपत्तेः गृहदाह इष्ट्यादिवत् / अपि च प्रायश्चित्तानां दोषसंयोगेन विदानात् भवेत् अपि दोषक्षपणार्थता न तु एवं ब्रह्मविद्यायां विधानम् अस्ति /
SK
ननु अनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्य अवश्यं भोक्तव्यतावात् अनिर्मोक्षः स्यात् /
SK
न इति उच्यते / देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति / तस्मात् न ब्रह्म अधिगमे दुरितनिवृत्तिः इति / एवं प्राप्ते ब्रूमः- तत् अधिगमे ब्रह्म अधिगमे सति उत्तरपूर्वयोः अघयोः अश्लेषविनाशौ भवतः उत्तरस्य अश्लेषः पूर्वस्य विनाशः / कस्मात् / तत् व्यपदेशात् / तथा हि ब्रह्मविद्या प्रक्रियायां संभाव्यमानसंबन्धस्य आगामिनो दुरितस्य अनभिसंबन्धं विदुषो व्यपदिशति - ऽयथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽ (छा.४.१४.३) इति / तथा विनाशम् अपि पूर्व उचितस्य दुरितस्य व्यपदिशति - ऽतद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ (छा. ५.२४.३) इति / अयम् अपरः कर्मक्षयव्यपदेशो भवति - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु. २.२.८) इति / यत् उक्तम् अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यात् इति /
SK
न एष दोषः / न हि वयं कर्मणः फलदायिनीं शक्तिम् अवजानीमहे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः / शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्ध अप्रतिबन्धयोः अपि / न हि कर्म क्षीयत इति एतत् अपि स्मरणम् औत्सर्गिकं न भोगात् ऋते कर्म क्षीयत तदर्थत्वात् इति / इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः ऽसर्वं पाप्मानं तरतिऽ ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनमेव वदऽ इत्यादि श्रुतिस्मृतिभ्यः / यत् तु उक्तं नैमित्तिकानि प्रायश्चित्तानि भविष्यन्ति इति / तत् असत् / दोषसंयोगेन चोद्यमानानाम् एषां दोषनिर्घातफलसंभवे फलान्तरकल्पना अनुपपत्तेः / यत्पुनः एतत् उक्तं न प्रायश्चित्तवत् दोषक्षय उद्देशेन विद्याविदानम् अस्ति इति / अत्र ब्रूमः - सगुणासु तावत् विद्यासु विद्यत एव विधानम् / तासु च वाक्यशेष ऐश्वर्यप्राप्तिः पापनिवृत्तिः च विद्यावत उच्यते / तयोः च अविवक्षाकारणं न अस्ति इति अतः पाप्मप्रहाणपूर्वक ऐश्वर्यप्राप्तिः तासां फलम् इति निश्चीयते / निर्गुणायां तु विद्यायां यदि अपि विधानं न अस्ति तथा अपि अकर्तृ आत्मत्वबोधात् कर्मप्रदाहसिद्धिः / अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मवित् इति दर्शयति / अतिक्रान्तेषु तु यदि अपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इव तथा अपि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्तेः तानि अपि प्रविलीयन्त इति आह विनाश इति / पूर्वसिद्धकर्तृत्व भोक्तृत्व विपरीतं हि त्रिषु अपि कालेषु अकर्तृत्व अभोक्तृत्वस्वरूपं ब्रह्म अहम् अस्मि न इतः पूर्वम् अपि कर्ता भोक्ता वा अहम् आसं न इदानीं न अपि भविष्यत्काल इति ब्रह्मवित् अवगच्छति / एवम् एव च मोक्ष उपपद्यते / अन्यथा हि अनादिकालप्रवृत्तानां कर्माणां क्षयाभावे मोक्ष अभावः स्यात् / न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुम् अर्हति / अनित्यत्व प्रसङ्गात् / परोक्षत्व अनुपपत्तेः च ज्ञानफलम् / तस्मात् ब्रह्म अधिगमे दुरितक्षय इति स्थिरम्
SK
१० इतर असंश्लेष अधिकरणम् / सू. १४
SK
इतरस्याप्य् एवम् असंश्लेषः पाते तु | BBस्_४,१.१४ |
SK
पूर्वस्मिन् अधिकरणे बन्धहेतोः अघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशात् निरूपितौ / धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इति आशङ्क्य तत् निराकरणाय पूर्व अधिकरणन्याय अतिदेशः क्रियते / इतरस्य अपि पुण्यस्य कर्मण एवम् अघवत् असंश्लेषो विनाशः च ज्ञानवतो भवतः / कुतः - तस्य अपि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् / ऽउभे उ हैवैष एते तरतिऽ (बृ. ४.४.२२) इत्यादिश्रुतिषु च दुष्कृतवत् सुकृतस्य अपि प्रणाशव्यपदेशात् / अकर्तृ आत्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोः तुल्यत्वात् ऽक्षीयन्ते चास्य कर्माणिऽ (मु. २.२.८) इति च अविशेषश्रुतेः / यत्र अपि केवल एव पाप्मशब्दो दृश्यते तत्र अपि तेन एव पुण्यम् अपि अकलितम् इति द्रष्टव्यम् / ज्ञानफल अपेक्षया निकृष्टफलत्वात् / अस्ति च श्रुतौ पुण्ये अपि पाप्मशब्दः ऽनैनं सेतुमहोरात्रे तरतःऽ (छा. ८.४.१) इति अत्र सह दुष्कृतेन सकृतमपि अनुक्रम्य सर्वे पाप्मानः अतो निवर्तन्त इति अविशेषेण एव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् / पाते तु इति तु शब्दः अवधारणार्थः / एवं धर्म अधर्मयोः बन्धहेत्वोः विद्यासामर्थ्यात् अश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिः इति अवधारयति
SK
११ अनारब्ध अधिकरणम् / सू. १५
SK
अनारब्धकार्ये एव तु पूर्वे तदवधेः | BBस्_४,१.१५ |
SK
पूर्वयोः अधिकरणयोः ज्ञाननिमित्तः सुकृतदुष्कृतयोः विनाशः अवधारितः स किम् अविशेषेण आरब्धकार्ययोः अनारब्धकार्ययोः च भवति उत विशेषेण अनारब्धकार्ययोः एव इति विचार्यते / ऽतत्र उभे उ हैवैष एते तरतिऽ (बृ. ४.४.२२) इति एवमादिश्रुतिषु अविशेषश्रवणात् अविशेषेण एव क्षय इति / एवं प्राप्ते प्रत्याह - अनारब्धकार्ये एव तु इति / अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन् अपि च जन्मनि प्राक् ज्ञान उत्पत्तेः संचिते सुकृतदुष्कृते ज्ञान अधिगमात् क्षीयेते न तु आरब्धकार्ये सामिभुक्तफले याभ्याम् एतत् ब्रह्मज्ञान आयतनं जन्म निर्मितम् / कुत एतत् - ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा. ६.१४.२) इति शरीरपातौ अधिकरणात् क्षेमप्राप्तेः / इतरथा हि ज्ञानात् अशेषकर्मक्षये सति स्थितिहेतु अभावात् ज्ञानप्राप्ति अनन्तरमेव क्षेमम्श्नु अवीत, तत्र शरीरपातप्रतीक्षां न आचक्षीत /
SK
ननु वस्तुबलेन एव अयम् अकर्तृ आत्मावबोधः कर्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचित् च उपेक्षेत / न हि समाने अग्निबीजसंपर्के केषाञ्चित् बीजशक्तिः क्षीयते केषाञ्चित् न क्षीयत इति शक्यम् अङ्गीकर्तुम् इति /
SK
उच्यते - न तावत् अनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञान उत्पत्तिः उपपद्यते / आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्य अन्तराले प्रतिबन्ध असंभवात् भवति वेगक्षयप्रतिपालनम् / अकर्तृ आत्मबोधः अपि हि मिथ्याज्ञानबाधनेन कर्माणि उच्छिनत्ति / बाधितम् अपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित्कालम् अनुवर्तत एव / अपि च न एव अत्र विवदितव्यं ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति / कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत / श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते / तस्मात् अनारब्धकार्ययोः एव सुकृतदुष्कृतयोः विद्यासामर्थ्यात् क्षय इति निर्णयः
SK
१२ अग्निहोत्रादि अधिकरणम् / सू. १६-१७
SK
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् | BBस्_४,१.१६ |
SK
पुण्यस्य अपि अश्लेषविनाशयोः अघन्यायः अतिदिष्टः सः अतिदेशः सर्वपुण्यविषय इति आशङ्क्य प्रतिवक्ति - अग्निहोत्रादि तु इति / तु शब्द आशङ्काम् उपनुदति / यत् नित्यं कर्म वैदिकम् अग्निहोत्रादि तत् तत् कार्याय एव भवति, ज्ञानस्य यत्कार्यं तदेव अस्य अपि कार्यम् इत्यर्थः / कुतः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेनऽ (बृ. ४.४.२२) इत्यादिदर्शनात् /
SK
ननु ज्ञानकर्मणोः विलक्षणकार्यत्वात् कार्य एकत्व अनुपपत्तिः /
SK
न एष दोषः / ज्वरमरणकार्ययोः अपि दधिविषयोः गुडमन्त्रसंयुक्तयोः तृप्तिपुष्टिकार्यदर्शनात् / तद्वत् कर्मणः अपि ज्ञानसंयुक्तस्य मोक्षकार्य उपपत्तेः /
SK
ननु अनारभ्यो मोक्षः कथम् अस्य कर्मकार्यत्वम् उच्यते /
SK
न एष दोषः / आरात् उपकारकत्वात् कर्मणः / ज्ञानस्य एव हि प्रापकं सत्कर्म प्राणाड्या मोक्षकारणम् इति उपचर्यते / अत एव च अतिक्रान्तविषयम् एतत् कार्य एकत्व अभिधानम् / न हि ब्रह्मविद आगामि अग्निहोत्रादि संभवति / अनियोज्यब्रह्मात्मत्व प्रतिपत्तेः शास्त्रस्य अविषयत्वात् / सगुणासु तु विद्यासु कर्तृत्व अनतिवृत्तेः संभवति आगामि अपि अग्निहोत्रादि / तस्य अपि निरभिसंधिनः कार्यान्तर अभावात् विद्यासंगति उपपत्तिः
SK
किंविषयं पुनः इदम् अश्लेषविनाश वचनं किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति / अत उत्तरं पठति -
SK
अतो ऽन्यापि ह्य् एकेषाम् उभयोः | BBस्_४,१.१७ |
SK
अतः अग्निहोत्रादेः नित्यात्कर्मणः अन्यापि हि अस्ति साधुकृत्या या फलम् अभिसंधाय क्रियते तस्या एष विनियोग उक्त एकेषां शाखिनाम् ऽसुहृदः साधुकृत्यामुपयन्तिऽ इति / तस्या एव च इदम् अघवत् अश्लेषविनाशनिरूपणम् इतरस्य अपि एवम् अश्लेष इति / तथा जातीयकस्य काम्यस्य कर्मणो विद्यां प्रति अनुपकारकत्वे संप्रतिपत्तिः उभयोः अपि जैमिनिबादरायणयोः आचार्ययोः
SK
१३ विद्याज्ञानसाधन अधिकरणम् / सू. १८
SK
यद् एव विद्ययेति हि | BBस्_४,१.१८ |
SK
समधिगतम् एतत् अनन्तर अधिकरणे नित्यम् अग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजन उद्देशेन कृतम् उपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्म अधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवति इति / तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं च अस्ति / ऽय एवं विद्वानयजतिऽ ऽय एवं विद्वाञ्जुहोतिऽ ऽय एवं विद्वाञ्छंसतिऽ ऽय एवं विद्वान्गायतिऽ ऽतस्मादेवंविदमेव ब्रह्माणं कुर्विति नानेवं विदंऽ (छा. ४.१७.१०) ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा. १.१.१०) इत्यादिवचनेभ्यो विद्यासंयुक्तम् अस्ति केवलम् अपि अस्ति / तत्र इदं विचार्यते - किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोः विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम् उत विद्यासंयुक्तं केवलं च अविशेषेण इति / कुतः संशयः - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति यज्ञादीनाम्वि अशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् / विद्यासंयुक्तस्य च अग्निहोत्रादीनाम् अविशेषत्व अवगमात् / किं तावत् प्राप्तं विद्यासंयुक्तम् एव कर्माग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते न विद्याहीनम् / विद्या उपेतस्य विशिष्टत्व अवगमात् विद्याविहीनात् / ऽयदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवंविद्वान्ऽ इत्यादिश्रुतिभ्यः / ऽबुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसिऽ (गी. २.३९) ऽदूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जयऽ (गी. २.४९)
SK
इत्यादिस्मृतिभ्य- च इति / एवं प्राप्ते प्रतिपद्यते - यदेव विद्यया इति हि / सत्यम् एतत् / विद्यासंयुक्तं कर्माग्निहोत्रादिकं विद्याविहीनात् कर्मणः अग्निहोत्रात् विशिष्टं विद्वानिव ब्राह्मणो विद्याविहीनात् ब्राह्मणात् / तथा अपि न अत्यन्तम् अनपेक्षं विद्याविहीनं कर्माग्निहोत्रादिकम् / कस्मात् - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति अविशेषेण अग्निहोत्रादेः विद्याहेतुत्वेन श्रुतत्वात् /
SK
ननु विद्यासंयुक्तस्य अग्निहोत्रादेः विद्याविहीनात् विशिष्टत्व अवगमात् विद्याविहीनम् अग्निहोत्रादि आत्मविद्याहेतुत्वेन अनपेक्षमेव इति युक्तम् /
SK
न एतत् एवम् / विद्यासहायस्य अग्निहोत्रादेः विद्यानिमित्तेन सामर्थ्य अतिशयेन योगात् आत्मज्ञानं प्रति कश्चित् कारण अतिशयो भविष्यति न तथा विद्याविहीनस्य इति युक्तं कल्पयितुम् / नतु ऽयज्ञेन विविदिषन्तिऽ इति अत्र अविशेषेण आत्मज्ञानाङ्गत्वेन श्रुतस्य अग्निहोत्रादेः अनङ्गत्वं शक्यम् अभ्युपगन्तुम् / तथा हि श्रुतिः - ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. १.१.१०) इति विद्यासंयुक्तस्य कर्मणः अग्निहोत्रादेः वीर्यवत्तरत्व अभिधानेन स्वकार्यं प्रति कञ्चित् अतिशयं ब्रुवाणा विद्याविहीनस्य तस्य एव तत् प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति / कर्मण- च वीर्यवत्त्वं तत् यत् स्वप्रयोजनसाधनप्रसहत्वम् / तस्मात् विद्यासंयुक्तं नित्यम् अग्निहोत्रादि विद्याविहीनं च उभयम् अपि मुमुक्षुणा मोक्षप्रयोजन उद्देशेन इह जन्मनि जन्मान्तरे च प्राक् ज्ञान उत्पत्तेः कृतं यत् तत् यथासामर्थ्यं ब्रह्म अधिगमप्रतिबन्धकारण उपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्म अधिगमकारणत्वं प्रतिपद्यमानं श्रवण मनन श्रद्धा तात्पर्यादि अन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवति इति स्थितम्
SK
१४ इतरक्षपण अधिकरणम् / सू. १९
SK
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते | BBस्_४,१.१९ |
SK
अनारब्धकार्ययोः पुण्यपापयोः विद्यासामर्थ्यात् क्षय उक्तः इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म संपद्यते ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो. ६.१४.२) इति ऽब्रह्मैव सन्ब्रह्माप्येतिऽ इति च एवमादिश्रुतिभ्यः /
SK
ननु सति अपि सम्यक् दर्शने यथा प्राक् देहपातात् भेददर्शनं द्विचन्द्रदर्शनन्यायेन अनुवृत्तमेवं पश्चात् अपि अनुवर्तेत /
SK
न / निमित्त अभावात् / उपभोगशेषक्षपणं हि तत्र अनुवृत्तिनिमित्तं न च तादृशमात्र किञ्चित् अस्ति /
SK
ननु अपरः कर्माशयोः अभिनवम् उपभोग्म् आरप्स्यते /
SK
न / तस्य दग्धबीजत्वात् / मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत् च मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत्च मिथ्याज्ञानं सम्यक् ज्ञानेन दग्धम् इत्यतः साधु एतत् आरब्धकार्यक्षये विदुषः कैवल्यम् अवश्यं भवति इति
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य प्रथमः पादः
SK
____________________________________________________________________________________________ ____________________________________________________________________________________________
SK
चतुर्थाध्याये द्वितीयः पादः /
SK
अत्र पादे उत्क्रान्तिगतिनिरूपणम्
SK
१ वागाधिकरणम् / सू. १-२
SK
वाङ्मनसि दर्शनाच् छब्दाच् च | BBस्_४,२.१ |
SK
अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानम् अवतारयिष्यन् प्रथमं तावत् यथाशास्त्रम् उत्क्रान्तिक्रमम् अन्वाचष्टे / समाना हि विद्वत् अविदुषोः उत्क्रान्तिः इति वक्ष्यति / अस्ति प्रायणविषया श्रुतिः ऽअस्य सोम्य पुरुषस्य प्रयतो वाक् मनसि संपद्यते मनः प्राणे प्राण- तेजसि तेजः परस्यां देवतायाम्ऽ (छा. ६.८.६) इति / किम् इह वाच एव वृत्तिमत्त्या मनसि संपत्तिः उच्यत उत वाग्वृत्तेःइति विशयः / तत्र वाक् एव तावत् मनसि संपद्यत इति प्राप्तम् / तथा हि श्रुतिः अनुगृहीता भवति / इतरथा लक्षणा स्यात् / श्रुतिलक्षण अविशये च श्रुतिः न्याय्या न लक्षणा / तस्मात् वाच एव अयं मनसि प्रलय इति / एवं प्राप्ते ब्रूमः - वाक् वृत्तिः इति व्याख्याते यावता वाक् मेनसि इति एव आचार्यः पठति / सत्यम् एतत् / पठिष्यति तु पुरस्तात् ऽअविभागो वचनात्ऽ (ब्र. सू. ४.२.१६) इति / तस्मात् अत्र वृत्ति उपशममात्रं विवक्षितम् इति गम्यते / तत्त्वप्रलयविवक्षायां तु सर्वत्र एव अविभागसाम्यात् किं परत्र एव विशिष्यात् अविभाग इति / तस्मात् अत्र वृत्ति उपसंहारविवक्षा / वाक् वृत्तिः पूर्वम् उपसंह्रियते मनोवृत्तौ अवस्थितायाम् इति अर्थः / कस्मात् / दर्शनात् / दृश्यते हि वाक् वृत्तेः पूर्व उपसंहारो मनोवृत्तौ विद्यमानायाम् /
SK
ननु श्रुतिसामर्थ्यात् वाच एव अयं मनसि अप्ययो युक्त इति उक्तम् /
SK
न इति आह / अतत्प्रकृतित्वात् / यस्य हि यत उत्पत्तिः तस्य तत्र प्रलयो न्याय्यो मृदीव शरावस्य / न च मनसो वाक् उत्पद्यत इति किञ्चन प्रमाणम् अस्ति / वृत्त्युत्ति उद्भव अभिभवौ तु अप्रकृतिसमाश्रयौ अपि दृश्येते / पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्य अग्नेः वृत्तिः उद्भवति अप्सु च उपशाम्यति / कथं तर्हि अस्मिन् पक्षे शब्दो वाक् मनसि संपद्यत इति / अत आह शब्दात् च इति / शब्दः अपि अस्मिन् पक्षे अवकल्पते वृत्तिवृत्तिमतोः अभेद उपचारात् इति अर्थः
SK
FN: प्रयतो म्रियमाणस्य /
SK
अत एव च सर्वाण्यनु | BBस्_४,२.२ |
SK
ऽतस्मादुपशान्ततेजाः / पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैःऽ (प्रश्न. ३.९) इति अत्र अविशेषेण सर्वेषाम् एव इन्द्रियाणां मनसि संपत्तिः श्रूयते / तत्र अपि अत एव वाच इव चक्षुरादीनाम् अपि सवृत्तिके मनसि अवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलय असंभवात् शब्द उपपत्तेः च वृत्तिद्वारेण एव सर्वाणि इन्द्रियाणि मनः अनुवर्तन्ते / सर्वेषां करणानां मनसि उपसंहार अविशेषे सति वाचः पृथक् ग्रहणं वाक् मनसि संपद्यत इति उदाहरण अनुरोधेन
SK
मनोधिकरणम् / सू. ३
SK
तन्मनः प्राण उत्तरात् | BBस्_४,२.३ |
SK
समधिगतमेतत् ऽवाङ्मनसि संपद्यतेऽ (छा. ६.८.६) इति अत्र वृत्तिसंपत्तिविवक्ष इति / अथ यत् उत्तरवाक्यम् ऽमनः प्राणेऽ (छा. ६.८.६) इति किम् अत्र अपि वृत्तिसंपत्तिः एव विवक्ष्यत उत वृत्तिमत् संपत्तिः इति विचिकित्सायां वृत्तिमत् संपत्तिः एव अत्र इति प्राप्तम् / श्रुति अनुग्रहात् तत् प्रकृतिकत्व उपपत्तेः च / तथा हि - ऽअन्नमयं हि सोम्य मन आपोमयःप्राणःऽ (छा. ६.५.४) इति अन्नयोनि मन आत्मनन्ति अप् योनिं च प्राणम् / ऽआपश्चान्नमसृजन्तऽ इति श्रुतिः / अत- च यत् मनः प्राणे प्रकृतिविकार अभेदात् इति / एवं प्राप्ते ब्रूमः - तत् अपि अगृहीत बाह्य इन्द्रियवृत्ति मनो वृत्तिद्वारेण एव प्राणे प्रलीयते इति उत्तरात् वाक्यात् अवगन्तव्यम् / तथा हि सुषुप्सो- मुमूर्षोः च प्राणवृत्तौ परिस्पन्द आत्मिकायाम् अवस्थितायां मनोवृत्तीनाम् उपशमो दृश्यते / न च मनसः स्वरूप अप्ययः प्राणे संभवति / अतत् प्रकृतित्वात् /
SK
ननु दर्शितं मनसः प्राणप्रकृतित्वम् /
SK
न एतत् सारम् / न हि ईदृशेन प्राणाडिकेन तत् प्रकृतित्वेन मनः प्राणे संपत्तुम् अर्हति / एवम् अपि हि अन्ने मनः संपद्येत अप्सु च अन्नम् अप्सु एव च प्राणः / न हि एतस्मिन् अपि पक्षे प्राणभावपरिणताभ्यः अद्भ्यो मनो जायत इति किञ्चन प्रमाणम् अस्ति तस्मात् न मनसः प्राणे स्वरूप अप्ययः / वृत्ति अप्यये अपि तु शब्दः अवकल्पते वृत्तिवत्तिमतोः अभेद उपचारात् इति दर्शितम्
SK
३ अध्यक्ष अधिकरणम् / सू. ४-६
SK
सो ऽध्यक्षे तदुपगमादिभ्यः | BBस्_४,२.४ |
SK
स्थितम् एतत् यस्य यतो न उत्पत्तिः तस्य तस्मिन् वृत्तिप्रलयो न स्वरूपप्रलय इति / इदम् इदानीं प्राणः तेजसि इति अत्र चिन्त्यते -
SK
किं यथाश्रुति प्राणस्य तेजसि एव वृत्ति उपसंहारः किंवा देह इन्द्रियपञ्जर अध्यक्षे जीव इति / तत्र श्रुतेः अनतिशङ्क्यत्वात् प्राणस्य तेजसि एव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इति / एवं प्राप्ते प्रतिपद्यते सः अध्यक्ष इति / स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञ उपाधिके विज्ञान आत्मनि अवतिष्ठते / तत् प्रधाना प्राणवृत्तिः भवति इति अर्थः / कुतः - तत् उपगमादिभ्यः / एवम् एव इमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसामयन्ति यत्र एतत् ऊर्ध्व उच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्ष उपगामिनः सर्वान् प्राणान् अविशेषेण दर्शयति / विशेषेण च ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामतिऽ (बृ. ४.४.२) इति पञ्चवृत्तेः प्राणस्य अध्यक्ष अनुगामितां दर्शयति तत् अनुवृत्तितां च इतरेषाम् / ऽप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामतिऽ (बृ. ४.४.२) इति / ऽसविज्ञानो भवतिऽ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्व प्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति /
SK
ननु प्राणः तेजसि इति श्रूयते कथं प्राणः अध्यक्ष इति अधिकावापः क्रियते /
SK
न एष दोषः / अध्यक्षप्रधानत्वात् उत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्य अपि च विशेषस्य अपेक्षणीयत्वात्
SK
कथं तर्हि प्राणः तेजसि इति श्रुतिः इति अत आह -
SK
भूतेषु तच्छ्रुतेः | BBस्_४,२.५ |
SK
स प्राणसंपृक्तः अध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इति अवगन्तव्यम् / प्राणः तेजसि इति श्रुतेः /
SK
ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्य अध्यक्षस्य /
SK
न एष दोषः / सः अध्यक्ष इति अध्यक्षस्य अपि अन्तराले अपि उपसंख्यातत्वात् / यः अपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सः अपि स्रुघ्नात्पाटलिपुत्रं याति इति शक्यते वदितुम् / तस्मात् प्राणः तेजसि इति प्राणसंपृक्तस्य अध्यक्षस्य एव एतत् तेजः सहचरितेषु भूतेषु अवस्थानम्
SK
कथं तेजःसहचरितेषु भूतेषु इति उच्यते यावत् एकमेव श्रूयते प्राणः तेजसि इति / अत आह -
SK
नैकस्मिन् दर्शयतो हि | BBस्_४,२.६ |
SK
न एकस्मिन् एव तेजसि शरीरान्तरप्रेप्सावेलायां जीवः अवतिष्ठते कार्यस्य शरीरस्य अनेकात्मकत्वदर्शनात् / दर्शयतः च एतम् अर्थं प्रश्नप्रतिवचने ऽआपः पुरुषवचसःऽ (छा. ५.३.३) इति / तत् व्याख्यातम् ऽत्र्यात्मकत्वात्तु भूयस्त्वात्ऽ (ब्र.सू. ३.१.२) इति अत्र / श्रुतिस्मृती च एतमर्थं दर्शयतः / श्रुतिः ऽपृथ्वीमय आपोमयो वायुमय आकाशमयस्तोजोमयःऽ इत्याद्या / स्मृतिः अपि ऽअण्व्यो मात्राविनाशिन्यो दशार्धानां तु याःस्मृताः / ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशःऽ इत्याद्या /
SK
ननु च उपसंहृतेषु वाक् आदिषु करणेषु शरीरान्तरप्रेप्सावेलायां ऽक्वायं तदा पुरुषो भवतिऽ (बृ. ३.२.१३) इति उपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति - ऽतौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुःऽ (बृ. ३.२.१३) इति /
SK
अत्र उच्यते - तत्र कर्मप्रयुक्तस्य ग्रह अतिग्रहसंज्ञकस्थ इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिः इति कर्माश्रयता उक्ता / इह पुनः भूत उपादानात् देहान्तर उत्पत्तिः इति भूताश्रयत्वम् उक्तम् / प्रशंसाशब्दात् अपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितं न तु आश्रयान्तरं निवारितम् / तस्मात् अविरोधः
SK
FN: दशार्धानां पञ्चभूतानां , अण्व्यः सूक्ष्माः , मीयन्त इति मात्राः /
SK
४ आसृत्युपक्रम अधिकरणम् / सू. ७
SK
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य | BBस्_४,२.७ |
SK
सा इयम् उत्क्रान्तिः किं विद्वत् अविदुषोः समाना किंवा विशेषवति इति विशयानानां विशेषवति इति तावत् प्राप्तम् / भूताश्रयविशिष्टा हि एषा / पुनः भवाय च भूतानि आश्रीयन्ते / न च विदुषः पुनर्भवः संभवति / ऽअमृतत्वं हि विद्वानश्नुतेऽ इति स्थितिः / तस्मत् अविदुष एव एष उत्क्रान्तिः /
SK
ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् /
SK
न / स्वापादिवत् यथाप्राप्त अनुकीर्तनात् / तथा हि ऽयत्रैतत्पुरुषः स्वपिति नामऽ ऽअशिशिषति नामऽ ऽपिपासति नामऽ (छा. ६.८.३,५) इति च सर्वप्राणिसाधारणा एव स्वापादयः अनुकीर्त्यन्ते विद्याप्रकरणे अपि प्रतिपादयिषितवस्तुप्रतिपादन अनुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते / एवम् इयम् अपि उत्क्रान्तिः महाजनगत एव अनुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः संपद्यते स आत्मा तत्त्वमसि इति एतत् प्रतिपादयितुम् / प्रतिषिद्धा च एषा विदुषः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. ४.४.६) इति / तस्मात् अविदुष एव एष इति / एवं प्राप्ते ब्रूमः - समाना च एष उत्क्रान्तिः वाक् मनसि इत्याद्या विद्वत् अविदुषोः आसृति उपक्रमात् भवितुम् अर्हति / अविशेषश्रवणात् / अविरुद्धान् देहबीजभूतानि भूतसूक्ष्माणि आश्रित्य कर्मप्रयुक्तो देहग्रहणम् अनुभवितुं संसरति / विद्वान् तु ज्ञानप्रकाशितं मोक्षनाडीद्वारम् आश्रयते / तत् एतत् आसृति उपक्रमात् इति उक्तम् /
SK
ननु अमृतत्वं हि विदुषा प्राप्तव्यं न च तत् देशान्तर आयत्तं तत्र कृतो भूत आश्रयत्वं सृति उपक्रमो वा इति /
SK
अत्र उच्यते - अनुपोष्य च इदम्, अदग्ध्वा अत्यन्तम् अविद्यादीन् क्लेशान् अपरविद्यासामर्थ्यात् आपेक्षिकम् अमृतत्वं प्रेप्सते संभवति तत्र सृति उपक्रमो भूत आश्रयत्वं च / ने हि निराश्रयाणां प्राणानां गतिः उपपद्यते / तस्मात् अदोषः
SK
५ संसारव्यपदेश अधिकरणम् // सू. ८-११
SK
तदापीतेः संसारव्यपदेशात् | BBस्_४,२.८ |
SK
ऽतेजः परस्यां देवतायाम्ऽ (छा. ६.८.६) इति अत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां संपद्यत इति एतत् उक्तं भवति / कीदृशी पुनः इयं संपत्तिः स्यात् इति चिन्त्यते / तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् / तत् प्रकृतित्व उपपत्तेः / सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवता इति प्रतिष्ठापितम् / तस्मात् आत्यन्तिकीयम् अविभागापत्तिः इति / एवं प्राप्ते ब्रूमः - तत् तेज आदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमापीतेरा संसारमोक्षात् सम्यक् ज्ञाननिमित्तात् अवतिष्ठते / ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः / स्थाणुमन्ये ऽनुसंयन्ति यथाकर्मयथाश्रुतम्ऽ (क. ५.७) इत्यादि संसारव्यपदेशात् /
SK
अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयात् अत्यन्तं ब्रह्म संपद्येत / तत्र विधिशास्त्रम् अनर्थकं स्यात् विद्याशास्त्रं च / मिथ्याज्ञाननिमित्तः च बन्धो न सम्यक् ज्ञानात् ऋते विस्रंसितुम् अर्हति / तस्मात् तत् प्रकृतित्वे अपि सुषुप्तप्रलयवत् बीजभाव अवशेष एव एषा संत्सपत्तिः इति
SK
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः | BBस्_४,२.९ |
SK
तत् च इतरभूतसहितं तेजो जीवस्य अस्मात् शरीरात् प्रवसत आश्रयभूतं स्वरूपतः प्रमाणतः च सूक्ष्मं भवितुम् अर्हति / तथा हि - नाडीनिष्क्रमणश्रवणादिभ्यः अस्य सौक्ष्म्यम् उपलभ्यते / तत्र तनुत्वात् संचार उपपत्तिः / स्वच्छत्वात् च अप्रतीघात उपपत्तिः / अत एव च देहात् निर्गच्छन् पार्श्वस्थैः न उपलभ्यते
SK
नोपमर्देनातः | BBस्_४,२.१० |
SK
अत एव सूक्ष्मत्वात् न अस्य स्थूलस्य शरीरस्य उपमर्देन दाहादिनिमित्तेन इतरत् सूक्ष्मं शरीरम् उपपद्यते
SK
अस्यैव चोपपत्तेर् ऊष्मा | BBस्_४,२.११ |
SK
अस्य एव च सूक्ष्मस्या शरीरस्य एष ऊष्मा यम् एतस्मिन् शरीरे संस्पर्शेन ऊष्माणं विजानन्ति / तथा हि मृतावस्थायाम् अवस्थिते अपि देहे विद्यमानेषु अपि च रूपादिषु देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्म इति / तथा च श्रुतिः - ऽउष्ण एव जीविष्यञ्शितो मरिष्यन् इतिऽ
SK
६ प्रतिषेध अधिकरणम् / सू. १२-१४
SK
प्रतिषेधाद् इति चेन् न शारीरात् | BBस्_४,२.१२ |
SK
ऽअमृतत्वं चानुपोष्यऽ इति अतो विशेषणात् आत्यन्तिके अमृतत्वे गति उत्क्रान्त्योः अभावो अभ्युपगतः / तत्र अपि केनचित् कारणेन उत्क्रान्तिम् आशङ्क्य प्रतिषेधति - ऽअथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इति अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानाम् उत्क्रान्तिः अस्ति इति चेत् /
SK
न इति उच्यते / यतः शारीरात् आत्मन एष उत्क्रान्तिप्रतिषेधः प्राणानां न शरीरात् / कथम् अवगम्यते ऽन तस्मात्प्राणा उत्क्रामन्तिऽ इति शाखान्तरे पञ्चमी प्रयोगात् / संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते / तस्मात् इति च प्राधान्यात् अभ्युदयनिःश्रेयस अधिकृतो देही संबध्यते न देहः / न / तस्मात् उच्चिक्रमिषोः जीवात् प्राणा अपक्रामन्ति सह एव तेन भवन्ति इति अर्थः
SK
सप्राणस्य च प्रवसतो भवति उत्क्रान्तिः देहात् इति एवं प्राप्ते प्रति उच्यते -
SK
स्पष्टो ह्येकेषाम् | BBस्_४,२.१३ |
SK
न तत् अस्ति यत् उक्तं परब्रह्मविदः अपि देहात् अस्ति उत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह उपादानत्वात् इति / यतो देह उपादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातृणां स्पष्ट उपलभ्यते / तथा हि - आर्तभागप्रश्ने ऽयत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेतिऽ (बृ. ३.२.११) इति अत्र ऽनेति होवाच याज्ञवल्क्यःऽ (बृ. ३.२११) इति अनुत्क्रान्तिपक्षं परिगृह्य न तर्हि अयम् अनुत्क्रान्तेषु प्राणेषु म्रियत इति अस्याम् आशङ्कायाम् ऽअत्रैव समवनीयन्तऽ इति प्रविलयं प्राणानां प्रतिज्ञाय तत् सिद्धये ऽस उच्छ्वयत्याध्यात्मायत्याध्मातो मृतः शेतेऽ (बृ. ३.२.११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्ति अवधेः उच्छ्वयनादीनि समामनन्ति / देहस्य च एतानि स्युः
SK
न देहिनः / तत् सामान्यात् ऽन तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽ इति अत्र अपि अभेद उपचारेण देहापादानस्य एव उत्क्रमणस्य प्रतिषेधः / यदि अपि प्राधान्यं देहिन इति व्याख्येयं येषां पञ्चमी पाठः / येषां तु षष्ठीपाठः तेषां विद्वत् संबन्धिनि उत्क्रान्तिः प्रतिषिध्यत इति प्राप्त उत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य देहपादान एव सा प्रतिषिद्धा भवति, देहात् उत्क्रान्तिः प्राप्ता न देहिनः / अपि च ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२) इति एवम् अविद्वत् विषयं सप्रपञ्चम् उत्क्रमणं संसारगमनं च दर्शयित्वा ऽइति नु कामयमानःऽ (बृ. ४.४.६) इति उपसंहृत्य अविद्वत् कथाम् ऽअथाकामयमानःऽ (बृ. ४.४.६) इति व्यपदिश्य विद्वांसं यदि तत् विषये अपि उत्क्रान्तमेव प्रापदेयसमञ्जस एव व्यपदेशः स्यात् / तस्मात् अविद्विषये प्राप्तयोः गति उत्क्रान्त्योः विद्वत् विषये प्रतिषेध इति एवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय / न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मण उत्क्रान्तिः गतिः वा उपपद्यते निमित्त अभावात् / ऽअत्र ब्रह्म समश्नुतेऽ इति च एवञ्जातीयकाः श्रुतयो गति उत्क्रान्त्योः अभावं सूचयन्ति
SK
स्मर्यते च | BBस्_४,२.१४ |
SK
स्मर्यते अपि च महाभारते गति उत्क्रान्त्योः अभावः - ऽसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः / देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणःऽ इति /
SK
ननु गतिः इति ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते ऽशुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रावऽ इति /
SK
न / सशरीरस्य एव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीर उत्सर्ग इति द्रष्टव्यम् / सर्वभूतदृश्यत्वादि उपन्यासात् / न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः / तथा च तत्र एवौपसंहृतम्- ऽशुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः / दर्शयित्वा प्रभावं स्वं सर्वभूतगतो ऽभवत्ऽ इति / तस्मात् अभावः परब्रह्मविदो गति उत्क्रान्त्योः / गतिश्रुतीनां तु विषयम् उपरिष्टात् व्याख्यास्यामः
SK
७ वागादिलय अधिकरणम् / सू. १५
SK
तानि परे तथा ह्य् आह | BBस्_४,२.१५ |
SK
तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन् एव परस्मिन् आत्मनि प्रलीयन्ते / कस्मात् / तथा हि आह श्रुतिः - ऽएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति (प्रश्न. ६.५) इति.
SK
ननु ऽगताः कलाः पञ्चदश प्रतिष्ठाःऽ (मु. ३.२.७) इति विद्वत् विषय एव अपरा श्रुतिः परस्मात् आत्मनः अन्यत्र अपि कलानां प्रलयम् आह स्म /
SK
न / सा खलु व्यवहारापेक्षा, पार्थिवाद्याः कलाः पृथिव्यादिः एव स्वप्रकृतीः अपीयन्ति इति / इतरा तु विद्वत् प्रतिपत्ति अपेक्षा, कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्म एव संपद्यत इति / तस्मात् अदोषः
SK
८ अविभाग अधिकरणम् / सू. १६
SK
अविभागो वचनात् | BBस्_४,२.१६ |
SK
स पुन- विदुषः कलाप्रलयः किम् इतरेषाम् इव सावशेषो भवति आहोस्वित् निरवशेष इति / तत्र प्रलयसामान्यात् शक्ति अवशेषताप्रसक्तौ ब्रवीति - अविभागापत्तिः एव इति / कुतः - वचनात् / तथा हि कलाप्रलयम् उक्त्वा वक्ति - ऽभिद्यते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषो ऽकलो ऽमृतो भवतिऽ (प्र. ६.५) इति / अविद्या निमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्व उपपत्तिः / तस्मात् अविभाग एव इति
SK
९ तदोकः अधिकरणम् / सू. १७
SK
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया | BBस्_४,२.१७ |
SK
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता / संप्रतितु अपरविद्याविषयाम् एव चिन्ताम् अनुवर्तयति / समाना च असृति उपक्रमात् विद्वत् अविदुषोः उत्क्रान्तिःइति उक्तं तम् इदानीं सति उपक्रमं दर्शयति / तस्य उपसंहृतवागादि कलापस्य उच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयम् ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ इति श्रुतेः / तत् अग्रप्रज्वलनपूर्विका चक्षुरादिस्थान अपादाना च उत्क्रान्तिः श्रूयते - ऽतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. ४.४.२) इति / सा किम् अनियमेन एव विद्वत् अविदुषोः भवति अथ अस्ति कश्चित् विदुषो विशेषनियम इति विचिकित्सायां श्रुति अविशेषात् अनियमप्राप्तौ आचष्टे - समा अपि हि विद्वत् अविदुषोः हृदयाग्रप्रद्योतने तत् प्रकाशितद्वारत्वे च मूर्धस्थानात् एव विद्वान् निष्क्रामति स्थानान्तरेभ्यः तु इतरे / कुतः - विद्यासामर्थ्यात् / यदि विद्वान् अपीतरवत् यतः कुतश्चित् देहदेशात् उत्क्रामेत न एव उत्कृष्टं लोकं लभेत / तत्र आनर्थिका एव विद्या स्यात् / तत् शेषगति अनुस्मृतियोगात् च विद्याशेषभूता च मूर्धनि अनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ताम् अभ्यस्यन् तस्य एव प्रतिष्ठित इति युक्तम् / तस्मात् हृदयालयेन ब्रह्मणा सु उपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्यया एव शताधिकया शतात् अतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिः इतरे / तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका / तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्तिऽ (छा. ८.६.६) इति
SK
रश्मि अधिकरणम् / सू. १८
SK
रश्म्यनुसारी | BBस्_४,२.१८ |
SK
अस्ति हार्दविद्या - ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. ८.१.१) इति उपक्रम्य विहिता / तत् प्रक्रियायाम् ऽअथ या एता हृदयस्य नाड्यःऽ (छा. ८.६.१) इति उपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धम् उक्त्वा उक्तम् ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा. ८.६.५) इति / पुनः च उक्तम् ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६) इति / तस्मात् शताधिकया नाड्या निष्क्रामन् रश्मि अनुसारी निष्क्रामति इति गम्यते / तत् किंम् अविशेषेण एव अहनि रात्रौ वा म्रियमाणस्य रश्मि अनुसारित्वम् आहोस्वित् अहनि एव इति संशये सति अविशेषश्रवणात् अविशेषेण एव तावत् रश्मि अनुसारि इति प्रतिज्ञायते
SK
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च | BBस्_४,२.१९ |
SK
अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्मि अनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् / नाडीरश्मिसंबन्धविच्छेदात् इति चेत् /
SK
न / नाडीरश्मिसंबन्धस्य यावत् देहभावित्वात् / यावत् देहभावी हि शिराकिरणसंपर्कः / दर्शयति च एतमर्थं श्रुतिः - ऽअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्नादित्ये सृप्ताःऽ (छा. ८.६.२) इति निदाघसमये च निशासु अपि किरण अनुवृत्तिः उपलभ्यते प्रतापादिकार्यदर्शनात् / स्तोक अनुवृत्तेः तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेषु इव दुर्दिनेषु / ऽअहरेवैतद्रात्रौ दधातिऽ इति च एतदेव दर्शयति / यदि च रात्रौ प्रेतो विना एव रश्मि अनुसारेण ऊर्ध्वम् आक्रमेत रश्मि अनुसार आनर्थक्यं भवेत् / न हि एतत् विशिष्य अधीयते यो दिवा प्रैति स रश्मीन् अपेक्ष्य ऊर्द्वम् आक्रमते यः तु रात्रौ सः अनपेक्ष्य एव इति / अथ तु विद्वान् अपि रात्रिप्रायण अपराधमात्रेण न ऊर्ध्वम् आक्रमेत पाक्षिकफला विद्या इति अप्रवृत्तिः एव तस्यां स्यात् / मृत्युकालानियमात् / अथ अपि रात्रौ उपरतः अहरागमम् उदीक्षेत / अहरागमे अपि अस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् / ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. ८.६.५) इति च श्रुतिः अनुदीक्षां दर्शयति / तस्मात् तत् अविशेषेण एव इदं रात्रिदिवं रश्मि अनुसारित्वम्
SK
११ दक्षिणायन अधिकरणम् / सू. २०-२१
SK
अतश् चायने ऽपि दक्षिणे | BBस्_४,२.२० |
SK
अत एव च उदीक्षा अनुपपत्तेः अपाक्षिकफलत्वात् च विद्याया अनियतकालत्वात् च मृत्योः दक्षिण अयने अपि म्रियमाणो विद्वान् प्राप्नोति एव विद्याफलम् / उत्तरायण मरण प्राशस्ति अप्रसिद्धेर्भीष्मस्य च प्रतीक्षादर्शनात् ऽआपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्ऽ (छा. ४.१५.५) इति च श्रुतेः अपेक्षितव्यम् उत्तरायणम् इति इमाम् आशङ्काम् अनेन सूत्रेण अपनुदति / प्राशस्त्यप्रसिद्धिः अविद्वत् विषया / भीष्मस्य प्रतिपालनम् आचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च / श्रुतेः तु अर्थं वक्ष्यति ऽआतिवाहिकास्तल्लिङ्गात्ऽ (ब्र. सू. ४.३.४) इति
SK
ननु च - ऽयत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः / प्रयाता यान्ति तं फलं वक्ष्यामि भरतर्षभऽ (गी. ८.२३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतौ अपुनरावृत्तये नियमितः कथं रात्रौ दक्षिणायने वा प्रयातो अनावृत्तिं यायादिति /
SK
अत्र उच्यते -
SK
योगिनः प्रति च स्मर्येते स्मार्ते चैते | BBस्_४,२.२१ |
SK
योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते / स्मार्ते च एते योगसांख्ये न श्रौते / अतो विषयभेदात् प्रमाणाविशेषात् च न अस्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः /
SK
ननु - ऽअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्ऽ / ऽधूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्ऽ (गी. ८. २४,२५) इति च श्रौतौ एतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतौ अपि इति /
SK
उच्यते - ऽतं कालं वक्ष्यामिऽ (गी. ८.२३) इति स्मृतौ कालप्रतिज्ञानात् विरोधम् आशङ्क्य परिहार उक्तः / यदा पुनः स्मृतौ अपि अग्न्याद्या देवता एव अतिवाहिक्यो गृह्यन्ते तदा न कश्चित् विरोध इति
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः
SK
____________________________________________________________________________________________ ____________________________________________________________________________________________
SK
चतुर्थे ऽध्याये तृतीयः पादः /
SK
अत्र पादे सगुणविद्यावतो मृतस्य उत्तरमार्ग अभिधानम्
SK
१ अर्चिरादि अधिकरणम् / सू. १
SK
अर्चिरादिना तत्प्रथितेः | BBस्_४,३.१ |
SK
आसृति उपक्रमात् समान उत्क्रान्तिः इति उक्तम् / सृतिस्तु श्रुत्यन्तरेषु अनेकधा श्रूयते / नाडीरश्मिसंबन्धेन एकधा ऽअथैतैरेव रश्मिभिरूर्ध्व आक्रमतेऽ (छा. ८.६.५) इति / अर्चिरादिक एका ऽते ऽर्चिषमभिसंभवन्त्यर्चिषो ऽहःऽ (बृ. ६.२.१५) इति / ऽस एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छतिऽ (कौ. १.३) इति अन्या / ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छतिऽ (बृ. ५.१०.१) इति अपरा / ऽसूर्यद्वारेण ते विरजाः प्रयान्तिऽ (मुण्ड, १.२.११) इति च अपरा / तत्र संशयः - किं परस्परं भिन्ना एताः सृतय किं व एक एव अनेकविशेषण इति / तत्र प्राप्तं तावत् भिन्नाः एताः सृतय इति / भिन्नप्रकरणत्वात् / भिन्न उपासनाशेषत्वात् च / अपि च ऽअथैतैरेव रश्मिभिःऽ(छा. ८.६.५) इति अवधारणम् अर्चिरादि अपेक्षायाम् उपरुध्येत / त्वरावचनं च पीड्येत ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. ८.६.५) इति / तस्मात् अन्योन्यभिन्ना एव एते पन्थान इति / एवं प्राप्ते अभिदध्महे - अर्चिरादिन इति - सर्वो ब्रह्मप्रेप्सुः अर्चिरादिन एव अध्वना रंहति इति प्रतिजानीमहे / कुतः - तत् प्रथितेः / प्रथितो हि एष मार्गः सर्वेषां विदुषाम् / तथा हि पञ्चाग्निविद्याप्रकरणे ऽये ऽचामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ. ६.२.१५) इति विद्यान्तरशीलिनाम् अपि अर्चिरादिका सृतिः श्राव्यते / स्यात् एतत् / यासु विद्यासु न काचित् गतिः उच्यते तासु इयम् अर्चिरादिक उपतिष्ठतां यासु तु अन्या श्राव्यते तासु किम् इति अर्चिरादि आश्रयणम् इति /
SK
अत्र उच्यते - भवेत् एतदेवं यदि अत्यन्तभिन्ना एव एताः सृतयः स्युः / एक एव तु एषा सृतिःअनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेन उपलक्षित इति वदामः / सर्वत्र एकदेशप्रत्यभिज्ञानात् इतरेतर विशेषणविशेष्यभाव उपपत्तेः / प्रकरणभेदे अपि हि विद्या एकत्वे भवति इतरेतर विशेषण उपसंहारवत् गतिविशेषणानाम् अपि उपसंहारः / विद्याभेदे अपि तु गति एकदेशप्रत्यभिज्ञानात् गन्तव्य अभेदात् च गति अभेद एव / तथा हि ऽते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ. ६.२.१५) ऽतस्मिन्वसन्ति शाश्वतीः समाःऽ (बृ. ५.१०१) ऽसा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुतेऽ (कौषी. १.४) ऽतद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दतिऽ (छा. ८.४.३) इति च तत्र तत्र तत् एव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते / यत् तु एतैः एव इति अवधारणम् अर्चिरादि आश्रयणे न स्यात् इति /
SK
न एष दोषः / रश्मिप्राप्तिपरत्वात् अस्य / न हि एक एव शब्दो रश्मीन् च प्रापयितुम् अर्हति अर्चिरादीन् च व्यावर्तयितुम् / तस्मात् रश्मिसंबन्ध एव अयमवधार्यत इति द्रष्टव्यम् / त्वरावचनं तु अर्चिरादि अपेक्षायाम् अपि गन्तव्यान्तरापेक्षा शैघ्र्यार्थत्वात् न उपरुध्यते / यथा निमिषमात्रेण अत्र आगम्यत इति / अपि च ऽअथैतयोः पथोर्नकतरेणाचनऽ (छा. ५.१०८) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानम् आचक्षाणा पितृयाणव्यतिरिक्तम् एकमेव देवयानम् अर्चिरादिपर्वाणं पन्थानं प्रथयति / भूयांसि अर्चिरादिसृतौ मार्गपर्वाणि अल्पीयांसि तु अन्यत्र / भूयसां च अनुगुण्येन अल्पीयसां नयनं न्याय्यम् इति अतः अपि अर्चिरादिना तत् प्रथितेः इति उक्तम्
SK
२ वायु अधिकरणम् / सू. २
SK
वायुम् अब्दाद् अविशेषविशेषाभ्याम् | BBस्_४,३.२ |
SK
केन पुनः संनिवेशविशेषेण गतिविशेषाणानाम् इतरेतर विशेषणविशेष्यभाव इति तत् एतत् सुहृत् भूत्वा आचार्यो ग्रथयति / ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्ऽ(कौ. १.३) इति कौषीतकीनां देवयानः पन्थाः पठ्यते / तत्र अर्चिः अग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वात् इति न अत्र संनिवेशक्रमः क्वचित् अन्वेष्यः / वायुः तु अर्चिरादौ वर्त्मनि न श्रुतः कतम् अस्मिन् स्थाने निवेशयितव्य इति /
SK
उच्यते - ऽते ऽर्चिषमेवाभिसंभवन्त्यर्चिषो ऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मांसास्तान् मासेभ्यःसंवत्सरं संवत्सरादित्यम्ऽ (छा. ५.१०.१,२) इति अत्र संवत्सरात् पराञ्चम् आदित्यात् अर्वाञ्चं वायुम् अभिसंभवन्ति / कस्मात् / अविशेषविशेषाभ्याम् / तथा हि - ऽस वायुलोकम् ऽ(कौ. १.३) इति अत्राविशेष उपदिष्टस्य वायोः श्रुत्यन्तरे विशेष उपदोशो दृश्यते ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छतिऽ (बृ. ५.१०१) इति / एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्द आदित्ययोः अन्तराले वायुः निवेशयितव्यः / कस्मात् पुनः अग्नेः परत्वदर्शनात् विशेषात् अर्चिषः अनन्तरं वायुः न निवेश्यते / न एषः अस्ति विशेष इति वदामः /
SK
ननु उदाहृता श्रुतिः - ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम्ऽ (कौषी. १.३) इति /
SK
उच्यते - केवल- अत्र पाठः पौर्वापर्येणावस्थितो न अत्र क्रमवचनः / कश्चित् शब्दः अस्ति / पदार्थ उपदर्शनमात्रं हि अत्र क्रियते एतम् एतं च आगच्छति इति इतरत्र पुनः वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वम् आक्रम्य आदित्यम् आगच्छति इति अवगम्यते क्रमः / तस्मात् सूक्तम् अविशेषविशेषाभ्याम् इति / वाजसनेयिनः तु ऽमासेभ्यो देवलोकं देवलोकादादित्यम्ऽ (बृ. ६.२.१५) इति समामनन्ति / तत्र आदित्यान् अन्तर्याय देवलोकात् वायुम् अभिसंभवेयुः / वायुम् अब्दात् इति तु छन्दोगश्रुति अपेक्षया उक्तम् / छान्दोग्य वाजसनेयकयोः तु एकत्र देवलोको न विद्यते परत्र संवत्सरः / तत्र श्रुतिद्वयप्रत्ययात् उभौ अपि उभयत्र ग्रथयितव्यौ / तत्र अपि माससंबन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम्
SK
३ तडिदधिकरणम् / सू. ३
SK
तटितो ऽधि वरुणः संबन्धात् | BBस्_४,३.३ |
SK
ऽआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्ऽ (छा. ४.१५.५) इति अस्या विद्युत उपरिष्टात् स वरुणलोकम् इति अयं वरुणः संबध्यते / अस्ति हि संबन्धो विद्युत् वरुणयोः / यदा हि विशाल अविद्युतः तीव्रः तनितनिः घोषा जीमूत उदरेषु प्रनृत्यन्ति आथापः प्रपतन्ति / विद्योतते स्तनयति ऽवर्षिष्यति वाऽ (छा. ७.११.१) इति च ब्राह्मणम् / अपां च अधिपतिः वरुण इति श्रुतिस्मृतिप्रसिद्धिः / वरुणात् अधीन्द्रप्रजापती स्थानान्तर अभावात् पाठसामर्थ्यात् च / आनन्तुकत्वात् अपि वरुणादीनाम् अन्त एव निवेशो वैशेषिकस्थानाभावात् विद्युत् च अन्त्य अर्चिरादौ वर्त्मनि
SK
४ आतिवाहिक अधिकरणम् / सू. ४-६
SK
आतिवाहिकास् तल्लिङ्गात् | BBस्_४,३.४ |
SK
तेषु एव अर्चिरादिषु संशयः - किम् एतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तृणाम् इति / तत्र मार्गलक्षणभूता अर्चिरादय इति तावत् प्राप्तम् / तत्स्वरूपत्वात् उपदेशस्य / यथा हि लोके कश्चित् ग्रामं नगरं वा प्रतिष्ठासमानः अनुशिष्यते गच्छेतः त्वम् अमुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसि इति एवम् इह अपि अर्चिषो अहरह्न आपूर्यमाणपक्षिम् इत्यादि आह / अथवा भोगभूमय इति प्राप्तम् / तथा हि - ऽलोकशब्देनाग्न्यादीननुबध्नाति अग्निलोकमागच्छतिऽ (कौषी. १.३) इत्यादि / लोकशब्दः च प्राणिनां भोगायतनेषु भाष्यते - ऽमनुष्यलोकः पितृलोको देवलोकःऽ (बृ. १.५.१६) इति च / तथा च ब्राह्मणम् - ऽअहोरात्रेषु ते लोकेषु सज्जन्तेऽ इत्यादि / तस्मात् न अतिवाहिका अर्चिरादयः / अचेतनत्वात् अपि एतेषाम् अतिवाहिकत्व अनुपपत्तिः / चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेषु अतिवाह्यान् अतिवाहयन्ति इति / एवं प्राप्ते ब्रूमः - आतिवाहिका एव एते भवितुम् अर्हन्ति / कुतः - तल्लिङ्गात् / तथा हि ऽचन्द्रमसो विद्युतं तत्पुरुषो ऽमानवः स एतान्ब्रह्म गमयतिऽ (छा. ४.१५.५) इति सिद्धत् गमयितृत्वं दर्शयति /
SK
तत् वचनं तत् विषयम् एव उपक्षीणम् इति चेत् /
SK
न / प्राप्तमानवत्व निवृत्तिपरत्वात् विशेषणस्य / यदि अर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः ततो युक्तं तत् निवृत्त्यर्थं पुरुषविशेषणम् अमानव इति
SK
ननु तल्लिङ्गमात्रम् अगमकं न्याय अभावात् /
SK
न एष दोषः /
SK
उभयव्यामोहात् तत् सिद्धेः | BBस्_४,३.५ |
SK
ये तावत् अर्चिरादिमार्गाः ते देहवियोगात् संपिण्डितकरणग्रामा इति अस्वतन्त्रा अर्चिरादीनाम् अपि अचेतनत्वात् अस्वातन्त्र्यम् इति अतः अर्चिरादि अभिमानिनः चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते / लोके अपि हि मत्त मूर्च्छितादयः संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति /
SK
अनवस्थितत्वात् अपि अर्चिरादीनां न मार्गलक्षणत्व उपपत्तिः / न हि रात्रौ प्रेतस्य अहःस्वरूप अभिसंभव उपपद्यते / न च प्रतिपालनमस्ति इति उक्तं पुरस्तात् / ध्रुवत्वात् तु देवता आत्मानां न अयं दोषो भवति / अर्चिरादि शब्दता च एषाम् अर्चिरादि अभिमानात् उपपद्यते ऽअर्चिषो ऽहःऽ(छा. ४.१५.५, ५,१०.१) इत्यादिनिर्देशः तु अतिवाहिकत्वे अपि न विरुध्यते अर्चिषा हेतुना अहः अभिसंभवति / अह्ना हेतुना आपूर्यमाणपक्षम् इति / तथा च लोके प्रसिद्धेषु अपि अतिवाहिकेषु एवञ्जातीयक उपदेशो दृश्यते / गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तम् इति / अपि च उपक्रमे ऽते ऽर्चिरभिसंभवन्तिऽ (बृ. ६.२.१५) इति संबन्धमात्रमुक्तं न संबन्धविशेषः कश्चित् / उपसंहारे तु ऽस एतान्ब्रह्म गमयति (छा. ४.१५.६) इति संबन्धविशेषः अतिवाहि अतिवाहकत्व लक्षण उक्तः तेन स एव उपक्रमे अपि इति निर्धार्यते / संपिण्डितकरणत्वात् एव च गन्तृषु न तत्र उपभोगसंभवः / लोकशब्दः तु अनुपभुञ्जानेषु अपि गन्तृषु गमयितुं शक्यते / अन्येषां तत् लोकवासिनां भोगभूमित्वात् / अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते वायुस्वामिकं प्राप्तो वायुना इति योजयितव्यम्
SK
कथं पुनः अतिवाहिकत्वपक्षे वरुणादिषु तत्संभवः / विद्युतो हि अधि वरुणादय उपक्षिप्ता विद्युतः तु अनन्तरमा ब्रह्मप्राप्तेः अमानवस्य एव पुरुषस्य गमयितृत्वं श्रुतम् इति / अत उत्तरं पठति -
SK
वैद्युतेनैव ततस् तच्छ्रुतेः | BBस्_४,३.६ |
SK
ततो विद्युत् अभिसंभवनात् ऊर्ध्वं विद्युत् अनन्तरवर्तिन एव अमानवेन पुरुषेण वरुणलोकादिषु अतिवाह्यमाना ब्रह्मलोकं गच्छन्ति इति अवगन्तव्यम् / ऽतान्वैद्युतात्पुरुषो ऽमानवः स एत्य ब्रह्मलोकं गमयतिऽ इति तस्य एव गमयितृत्वश्रुतेः / वरुणादयः तु तस्य एव अप्रतिबन्धकरणेन साहाय्य अनुष्ठानेन वा केनचित् अनुग्राहका इति अवगन्तव्यम् / तस्मात् साधु उक्तम् अतिवाहिका देवतात्मानः अर्चिरादय इति
SK
५ कार्य अधिकरणम् / सू. ७-१४
SK
कार्यं बादरिरस्य गत्युपपत्तेः | BBस्_४,३.७ |
SK
ऽस एनान्ब्रह्म गमयति (छा. ४.१५.५) इति अत्र विचिकित्स्यते - किं कार्यम् अपरं ब्रह्म गमयति आहोस्वित् परम् एव अविकृतं मुख्यं ब्रह्म इति / कुतः संशयः / ब्रह्मशब्दप्रयोगात् गतिश्रुतेः च / तत्र कार्यमेव सगुणम् अपरं ब्रह्म एनान् गमयति अमानवः पुरुष इति बादरिः आचार्यो मन्यते / कुतः - अस्य गति उपपत्तेः / अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपत्तेः / अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपद्यते प्रदेशवत्त्वात् / न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिः वा अवकल्पते / सर्वगतत्वात् प्रत्यगात्मत्वात् च गन्तृणाम्
SK
विशेषितत्वाच् च | BBस्_४,३.८ |
SK
ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ. ६.२.१५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषय एव गतिः इति गम्यते / नहि बहुवचनेन विशेषणं परस्मिन् ब्रह्मणि अवकल्पते / कार्ये तु अवस्थाभेद उपपत्तेः संभवति बहुवचनम् / लोकश्रुतिः अपि विकारगोचरायाम एव संनिवेशविशिष्टायां भोगभूमावौ आञ्जसी / गौणी तु अन्यत्र ऽब्रह्मैव लोक एष सम्राट्ऽ इत्यादिषु / अधिकरण अधिकर्तव्यनिर्देशः अपि परस्मिन् ब्रह्मणि अनाञ्जसः स्यात् /
SK
तस्मात् कार्यविषयमेव इदं नयनम्
SK
ननु कार्यविषये अपि ब्रह्मशब्दो न उपपद्यते समन्वये हि समस्तस्य जगतो जन्मादिकारणं स्थापितम् इति /
SK
अत्र उच्यते -
SK
सामीप्यात् तु तद्व्यपदेशः | BBस्_४,३.९ |
SK
तु शब्द आशङ्का व्यावृत्त्यर्थः / परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः तस्मिन् अपि ब्रह्मशब्दप्रयोगो न विरुध्यते / परम् एव हि ब्रह्म विशुद्ध उपाधिसंबन्धं क्वचित् कैश्चित् विकारधर्मैः मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरम् इति स्थितिः
SK
ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते / न हि परस्मात् ब्रह्मणः अन्यत्र क्वचित् नित्यतां संभावयन्ति / दर्शयति च देवयानेन पथा प्रस्थितानाम् अनावृत्तिम् / ऽएतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्तेऽ (छा. ४.१५.६) इति तेषाम् इह न पुनरावृत्तिः अस्ति ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६), क. ६.१६) इति चेत् / अत्र ब्रूमः -
SK
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् | BBस्_४,३.१० |
SK
कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्र एव उत्पन्नसम्यग्दर्शनाः सन्तः तत् अध्यक्षेण हिरण्यगर्भेण सहातः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्त इति / क्रममुक्तिः अनावृत्त्यादि श्रुति अभिधानेभ्यो अभ्युपगन्तव्या / न हि आञ्जस एव गतिपूर्विका परप्राप्तिः संभवति इति उपपदितम्
SK
स्मृतेश् च | BBस्_४,३.११ |
SK
स्मृतिः अपि एतम् अर्थम् अनुजानाति - ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे / परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽइति / तस्मात् कार्यब्रह्मविषया गतिः श्रूयत इति सिद्धान्तः
SK
कं पुन- पूर्वपक्षम् आशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ऽकार्यं बादरिःऽ (ब्र.सू. ४.३.७) इत्यादिन इति / स इदानीं सूत्रैः एव उपदर्श्यते -
SK
परं जैमिनिर् मुख्यत्वात् | BBस्_४,३.१२ |
SK
जैमिनिः तु आचार्यः ऽस एनान्ब्रह्म गमयतिऽ(छा. ४.१५.६) इति अत्र परमेव ब्रह्म प्रापयति इति मन्यते / कुतः - मुख्यत्वात् / परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यम् आलम्बनं, गौणम् अपरं, मुख्यगौणयोगः च मुख्ये संप्रत्ययो भवति
SK
दर्शनाच् च | BBस्_४,३.१३ |
SK
ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६, क. ६.१६) इति च गतिपूर्वकम् अमृतत्वं दर्शयति / अमृतत्वं च परस्मिन् ब्रह्मणि उपपद्यते न कार्ये, विनाशित्वात् कार्यस्य / ऽअथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम्ऽ (छा. ७.२४.१) इति प्रवचनात् / परविषय एव च एषा गतिः कठवल्लीषु पठ्यते / न हि तत्र विद्यान्तरप्रक्रमः अस्ति ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. २.१४) इति परस्य एव ब्रह्मणः प्रक्रान्तत्वात्
SK
न च कार्ये प्रतिपत्त्यभिसंधिः | BBस्_४,३.१४ |
SK
अपि च ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा. ८.१४.१) इति न अयं कार्यविषयः प्रतिपत्ति अभिसंधिः ऽनामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. ८.१४.१) इति कार्यविलक्षणस्य परस्य एव ब्रह्मणः प्रकृतत्वात् / ऽयशो ऽहं भवामि ब्राह्मणानाम्ऽ (छा. ८.१४.१) इति च सर्वात्मत्वेन उपक्रमणात् / ऽन तस्य प्रतिमा अस्ति, यस्य नाममहद्यशःऽ (श्वेता. ४.१९) इति च परस्य एव ब्रह्मणो यशोनामत्व प्रसिद्धेः / ऽसा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम्ऽ (छा. ८.५.३) इति अत्र / पदेरपि च गत्यर्थत्वात् मार्ग अपेक्षा अवसीयते / तस्मात् परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् / तौ एतौ द्वौ पक्षौ आचार्येण सूत्रितौ गति उपपत्त्यादिभिः
SK
एको मुख्यत्वादिभिः अपरः / तत्र गति उपपत्त्यादयः प्रभवन्ति मुख्यत्वादीन आभासयितुं न तु मुख्यत्वादयो गति उपपत्त्यादीन् इत्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयः पूर्वपक्षः / न हि असति अपि संभवे मुख्यस्य एव अर्थस्य ग्रहणम् इति कश्चित् आज्ञापयिता विद्यते / परविद्याप्रकरणे अपि च तत् स्तुत्यर्थं विद्यान्तर आश्रयगति अनुकीर्तनम् उपपद्यते ऽविष्वङ्ङन्या उत्क्रमणे भवन्तिऽ (छा. ८.६.६) इतिवत् / ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा. ८.१४.१) इति तु पूर्ववाक्यविच्छेदेन कार्ये अपि प्रतिपत्ति अभिसंधिः न विरुध्यते / सगुणे अपि च ब्रह्मणि सर्वात्मत्व संकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवत् अवकल्पते / तस्मात् अपरविषया एव गतिश्रुतयः / केचित् पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इति एतां व्यवस्थानम् अनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नं गन्तव्यत्व अनुपपत्तेः ब्रह्मणः / यत् सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ. ३.४.१) ऽय आत्मा सर्वान्तरःऽ (बृ. ३.४.१) ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२) ऽब्रह्मैवेदं विश्वमिदं वरिष्ठम्ऽ (मु. २.२.११) इत्यादि श्रुतिनिर्धारित विशेषं तस्य गन्तव्यता न कदाचित् अपि उपपद्यते / न हि गतमेव गम्यते / अन्यो हि अन्यत् गच्छति इति प्रसिद्धं लोके /
SK
ननु लोके गतस्य अपि गन्तव्यता देशान्तरविशिष्टा दृष्टा / यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति इति / तथा अनन्यत्वे अपि सर्वशक्ति उपेतत्वात् कथञ्चित् गन्तव्यता स्यात् इति /
SK
न / प्रतिषिद्धसर्वविशेषत्वात् ब्रह्मणः / ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ(श्वेता. ६.१९) ऽअस्थूलमनण्वह्रस्वमदीर्घम्ऽ(बृ. ३.८.८) ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु. २.१.२) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ(बृ. ४.४.२५) ऽस एष नेति नेत्यात्माऽ(बृ. ३.९.२३) इत्यादि श्रुति स्मृति न्यायेभ्यो न देशकालादि विशेषयोगः परमात्मनि कल्पयितुं शक्यते / येन भूप्रदेश वयोवस्था न्यायेन अस्य गन्तव्यता स्यात् / भूवयसोः तु प्रदेश अवस्थादि विशेषयोगात् उपपद्यते देश काल विशिष्टा गन्तव्यता / जगत् उत्पत्ति स्थिति प्रलयहेतुत्व श्रुतेः अनेकशक्तित्वं ब्रह्मण इति चेत् /
SK
न / विशेषनिराकरणश्रुतीनाम् अनन्यार्थत्वात् /
SK
उत्पत्त्यादिश्रुतीनाम् अपि समानम् अनन्यार्थत्वम् इति चेत् /
SK
न / तासाम् एकत्वप्रतिपादनपरत्वात् / मृदादि दृष्टान्तैः हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च आवृतत्वं प्रतिपादयत् शास्त्रं न उत्पत्त्यादिपरं भवितुम् अर्हति / कस्मात् पुनः उत्पत्त्यादि श्रुतीनां विशेषत्वं न पुनः इतर शेषत्वम् इतरासाम् इति /
SK
उच्यते - विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् / न हि आत्मन एकत्व नित्यत्व शुद्धत्वादि अवगतौ सत्यां भूयः काचित् आकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्धि उपपत्तेः / ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा. ७) ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. ४.२.४) ऽविद्वान्न बिभेति कुतश्चन / एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्ऽ (तैत्ति. २.९.१) इत्यादिश्रुतिभ्यः / तथा एव च विदुषां तुष्टि अनुभवादि दर्शनात् / विकार अनृत अभिसंधि अपवादात् च ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इति / अतो न विशेषनिराकरण श्रुतीनाम् अन्यशेषत्वम् अवगन्तुं शक्यते / न एवम् उत्पत्त्यादि श्रुतीनां निराकाङ्क्षार्थ प्रतिपादनसामर्थ्यम् अस्ति / प्रत्यक्षं तु तासाम् अन्यार्थत्वं समनुगम्यते / तथा हि ऽतत्रैतच्छ्रुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतिऽ (छा. ६.८.३) इति उपन्यस्य उदर्के सत एव एकस्य जगत् मूलस्य विज्ञेयत्वं दर्शयति / ऽयतो वा इमानि भूतानि जायन्ते / येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति / तद्विजिज्ञासस्व / तद्ब्रह्मेतिऽ (तै. ३.१.१) इति च / एवम् उत्पत्त्यादिश्रुतीनाम् ऐकात्म्य अवगमपरत्वात् न अनेकशक्तियोगो ब्रह्मणः / अतः च गन्तव्यत्व अनुपपत्तिः / ऽन तस्य प्राणा उत्क्रमन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इति च परस्मिन् ब्रह्मणि गतिं निवारयति / तत् व्याख्यातं ऽस्पष्टो ह्येकेषाम्ऽ (ब्र. सू. ४.२.१३) इत्यत्र / गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवो विकारो वा ततः स्यात् / अत्यन्त तादात्म्ये गमन अनुपपत्तेः / यदि एवं ततः किं स्यात् / उच्यते / यदि एकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनः ब्रह्मगमनम् उपपद्यते / एकदेशित्व कल्पना च ब्रह्मणि अनुपपन्ना निरवयवत्व प्रसिद्धेः / विकारपक्षे अपि एतत् अतुल्यं विकारेण अपि विकारिणो नित्यप्राप्तत्वात् / न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः / विकार अवयवपक्षयोः च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनम् अपि अनवकॢप्तम् / अथ अन्य एव जीवो ब्रह्मणः / सः अणुः व्यापी मद्यम परिमाणो वा भवितुम् अर्हति / व्यापित्वे गमन अनुपपत्तिः / मध्यम परिमाणत्वे च अनित्यत्वप्रसङ्गः / अणुत्वे कृत्स्नशरीरवेदना अनुपपत्तिः / प्रतिषिद्धे च अणुत्व मध्यम परिमाणत्वे विस्तरेण पुरस्तात् / परस्मात् च अन्यत्वे जीवस्य ऽतत्त्वमसिऽ (छा. ६.८.७) इत्यादि शास्त्र बाध प्रसङ्गः / विकार अवयवपक्षयोः अपि समानः अयं दोषः /
SK
विकार अवयवयोः तद्वतोः अनन्यत्वात् अदोष इति चेत् /
SK
न / मुख्य एकत्व अनुपपत्तेः / सर्वेषु एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः / संसारि आत्मत्व अनिवृत्तेः / निवृत्तौ वा स्वरूपनाशप्रसङ्गः / ब्रह्मात्मत्व अनभ्युपगमात् च / यत् तु कैश्चित् जल्प्यते नित्यानि नैमित्तिकानि कर्माणि अनुष्ठीयन्ते प्रत्यवाय अनुत्पत्तये काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकान् अवाप्तये सांप्रतदेह उपभोग्यानि च कर्माणि उपभोगेन एव क्षप्यन्त इत्यतो वर्तमानदेहपातात् ऊर्ध्वं देहान्तर प्रतिसंधान कारण अभावात् स्वरूप अवस्थानलक्षणं कैवल्यं विना अपि ब्रह्मात्मतय एवंवृत्तस्य सेत्स्यति इति / तत् असत् / प्रमाण अभावात् / न हि एतत् शास्त्रेण केनचित् प्रतिपादितं मोक्षार्थि इत्थं समाचरेत् इति / स्वमनीषया तु एतत् तर्कितं यस्मात् कर्मनिमित्तः संसारः तस्मात् निमित्त अभावात् न भविष्यति इति / न च एतत् तर्कयितुम् अपि शक्यते निमित्त अभावस्य दुर्ज्ञानत्वात् / बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्ट अनिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते / तेषां विरुद्ध फलानां युगपत् उपभोग असंभवात् कानिचित् लब्ध अवसराणि इदं जन्म निर्मिमते कानिचित् तु देशकालनिमित्तप्रतीक्षाणि असत इति अतः तेषाम् अवशिष्टानां सांप्रतेन उपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्य अपि वर्तमानदेहपाते देहान्तरनिमित्त अभावः शक्यते निश्चेतुम् / कर्मशेषसद्बावसिद्धः च ऽतद्य इह रमणीयचरणास्ततः शेषेणऽ इत्यादि श्रुति स्मृतिभ्यः / स्यात् एतत् / नित्य नैमित्तिकानि तेषां क्षेपकाणि भविष्यन्ति इति / तत् न / विरोध अभावात् / सति हि विरोधे क्षेप्यक्षेपकभावो भवति / न च जन्मान्तर संचितानां सुकृतानां नित्य नैमित्तिकैः अस्ति विरोधः / शुद्धरूपत्व अविशेषात् / दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणं न तु तावता देहान्तर निमित्त अभावसिद्धिः / सुकृतनिमित्तत्व उपपत्तेः / दुश्चरितस्य अपि अशेषक्षपण अनवगमात् / न च नित्य नैमित्तिकानुष्ठानात् प्रत्यवाय अनुत्पत्तिमात्रं न पुनः फलान्तर उत्पत्तिः इति प्रमाणम् अस्ति फलान्तरस्य अपि अनुनिष्पादिनः संभवात् / स्मरति हि आपस्तम्बः - ऽतद्यथाम्रे फलार्ते निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणार्था अनूत्पद्यन्तेऽ इति / न च असति सम्यक् दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तरालं केनचित् प्रतिज्ञातुं शक्यम् / सुनिपुणानम् अपि सूक्ष्म अपराधदर्शनात् / संशयितव्यं तु भवति तथा अपि निमित्त अभावस्य दुर्ज्ञानत्वमेव / न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्व भोक्तृत्व स्वभावस्य आत्मनः कैवल्यम् आकाङ्क्षितुं शक्यम् / अग्नि औष्ण्यवत् स्वभावस्य अपरिहार्यत्वात् /
SK
स्यात् एतत् / कर्तृत्व भोक्तृत्व कार्यम् अनर्थो न तत् शक्तिः तेन शक्ति अवस्थाने ऽपि कार्यपरिहारत् उपपन्नो मोक्ष इति / तत्च न / शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् / अथ अपि स्यात् न केवला शक्तिः कार्यम् आरभते अनपेक्ष्य अन्यानि निमित्तानि / अत एकाकिनी सा स्थितापि न अपराध्यति इति / तत् च न / निमित्तानाम् अपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् / तस्मात् कर्तृत्व भोक्तृत्व स्वभावे सत्याम् अन्यसत्यां विद्यागम्यायां ब्रह्मात्मतायां न कथञ्चन मोक्षं प्रत्याशा अस्ति / श्रुतिः च - ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वेता. ३.८) इति ज्ञानात् अन्यं मोक्षमार्गं वारयति / परस्मात् अनन्यत्वे अपि जीवस्य सर्वव्यवहार लोपप्रसङ्गः /
SK
प्रत्यक्षादि प्रमाण अप्रवृत्तेः इति चेत् /
SK
न / प्राक् प्रबोधात् स्वप्नव्यवहारवत् तत् उपपत्तेः / शास्त्रं च ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ. २.४.१४, ४.५.१५) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादि व्यवहारम् उक्त्वा पुनः प्रबुद्धविषये ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. २.४.१४, ४.५.१५) इत्यादिना तत् अभावं दर्शयति / तत् एवं परब्रह्मविदो गन्तव्यादि विज्ञानस्य बाधितत्वात् न कथञ्चन गतिः उपपादयितुं शक्या / किंविषयाः पुनः गतिश्रुतय इति / उच्यते - सगुणविद्याविषया भविष्यन्ति / तथा हि क्वचित् पञ्चाग्निविद्यां प्रकृत्य गतिः उच्यते यथा ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ (छा. ४.१०.५) इति ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. ८.१.१) इति च तत्र अपि वामनीत्वादिभिः सत्यकामादिभिः च गुणैः सगुणस्य एव उपास्यत्वात् संभवति गतिः / न क्वचित् परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. ४.४.६) इति / ऽब्रह्मविदाप्नोति परम्ऽ(तै. २.१.१) इत्यादिषु तु सत्यपि आप्नोतेः गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्ति असंभवात् स्वरूपप्रतिपत्तिः एव इयम् अविद्या अध्यारोपित नाम रूप प्रविलय अपेक्षया अभिधीयते ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.७) इत्यादिवत् इति द्रष्टव्यम् / अपि च परविषया गतिः व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा / तत्र प्ररोचनं तावत्
SK
ब्रह्मविदो न गति उक्त्या क्रियते / स्वसंवेद्येन एव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत् सिद्धेः / न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गति अनुचिन्तने काचित् अपेक्षा उपपद्यते / तस्मात् अपरब्रह्मणि वर्तमाना गतिः /
SK
तत्र पर अपरब्रह्मविवेक अनवधारणेन अपरस्मिन् ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन् अध्यारोप्यन्ते / किं द्वे ब्रह्मणी परम् अपरं च इति / बाढं द्वे ऽएतद्वै सत्यकाम परं चापरं ब्रह्मयदोङ्कारःऽ (प्र. ५.२) इत्यादि दर्शनात् / किं पुनः परं ब्रह्म किम् अपरम् इति /
SK
उच्यते / यत्र अविद्याकृत नाम रूपादि विशेषप्रतिषेधात् अस्थूलादिशब्दैः ब्रह्म उपदिश्यते तत् परम् / तत् एव यत्र नामरूपादिविशेषेण केनचित् विशिष्टम् उपासनाय उपदिश्यते ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. ३.१४.२) इत्यादिशब्दैस्तदपरम् /
SK
ननु एवम् अद्वितीयश्रुतिः उपरुध्येत /
SK
न / अविद्याकृत नाम रूप उपाधिकतया परिहृतत्वात् / तस्य च अपरब्रह्म उपासनस्य तत् संनिधौ श्रूयमाणम् ऽस यदि पितृलोककामो भवतिऽ (छा. ८.२.१) इत्यादि जगत् ऐश्वर्यलक्षणं संसारगोचरम् एव फलं भवति / अनिवर्तितत्वात् अविद्यायाः / तस्य च देशविशेष अवबद्धत्वात् तत्प्राप्त्यर्थं गमनम् अविरुद्धम् / सर्वगतत्वे अपि च आत्मन आकाशस्य इव घटादिगमने बुध्यादि उपाधिगमने गमनप्रसिद्धिः इति अवादिष्म ऽतद्गुणसारत्वात्ऽ (ब्र.सू. २.३.२९) इत्यत्र / तस्मात् ऽकार्यं बादरिः (ब्र. सू. ४.३.७) इत्येष एव स्थितः पक्षः / ऽपरं जैमिनिःऽ (ब्र.सू. ४.३.१२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनाय इति द्रष्टव्यम्
SK
६ अप्रतीक आलम्बन अधिकरणम् / सू. १५-१६
SK
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च | BBस्_४,३.१५ |
SK
स्थितम् एतत् कार्यविषया गतिः न परविषया इति / इदम् इदानीं संदिह्यते किं सर्वान् विकार आलम्बनान् अविशेषेण एव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् उत कांश्चित् एव इति / किं तावत् प्राप्तं सर्वेषाम् एव एषां विदुषाम् अन्यत्र परस्मात् ब्रह्णणो गतिः स्यात् / तथा हि - ऽअनियमः सर्वासाम्ऽ - (ब्र. सू. ३.३.३१) इति अत्राविशेषेण एव एषां विद्यान्तरेषु अवतारित इति / एवं प्राप्ते प्रत्याह - अप्रतीक आलम्बनान् इति / प्रतीक आलम्बनान् वर्जयित्वा सर्वान् अन्यान् विकार आलम्बनान् नयति ब्रह्मलोकम् इति बादरायण आचार्यो मन्यते / न हि एवम् उभयथा
SK
अभाव अभ्युपगमे कश्चित् दोषः अस्ति / अनियम न्यायस्य प्रतीकव्यतिरिक्तेषु अपि उपासनेषु उपपत्तेः / तत्क्रतुः च अस्य उभयथाभावस्य समर्थको हेतुः द्रष्टव्यः / यो हि ब्रह्मक्रतुः स ब्राह्मम् ऐश्वर्यम् आसीदेदिति श्लिष्यते ऽतं यथा यतोपासते तदेव भवतिऽ इति श्रुतेः / न तु प्रतीकेषु ब्रह्म अक्रतुत्वम् अस्ति प्रतीकप्रधानत्वात् उपासनस्य /
SK
ननु अब्रह्मक्रतुः अपि ब्रह्मगच्छति इति श्रूयते यथा पञ्चाग्नि विद्यायाम् ऽस एनान्ब्रह्म गमयतिऽ (छा. ४.१५.५) इति भवतु यत्र एवम् आहत्यवाद उपलभ्यते तत् अभावे तु औत्सर्गिकेण तत् क्रतुन्यायेन ब्रह्मक्रतूनाम् एव तत्प्राप्तिः न इतरेषाम् इति गम्यते
SK
विशेषं च दर्शयति | BBस्_४,३.१६ |
SK
नामादिषु प्रतीक उपासनेषु पूर्वस्मात् पूर्वस्मात् फलविशेषम् उत्तरस्मिन् उत्तरस्मिन् उपासने दर्शयति - ऽयावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतिऽ (छा. ७.१.५) ऽवाग्वाव नाम्नो भूयसीऽ (छा. ७.२.१) ऽयावद्वाचो गतं तत्रास्य यथाकामचारो भवतिऽ(छा. ७.२.२) ऽमनो वाव वाचो भूयःऽ (छा. ७.३.१)
SK
इत्यादिना / स च अयं फलविशेषः प्रतीक तन्त्रत्वात् उपासनानाम् उपपद्यते / ब्रह्म तन्त्रत्वे तु ब्रह्मणः अविशिष्टत्वात् कथं फलविशेषः स्यात् / तस्मात् न प्रतीक आलम्बनानाम् इतरैः तुल्यफलत्वम् इति
SK
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीशङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य तृतीयः पादः
SK
____________________________________________________________________________________________ ____________________________________________________________________________________________
SK
चतुर्थो ऽध्याये चतुर्थः पादः /
SK
[अत्र पादे ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणम्]
SK
१ संपद्याविर्भाव अधिकरणम् / सू. १-३
SK
संपद्याविर्भावः स्वेन शब्दात् | BBस्_४,४.१ |
SK
एवम् एव एष संप्रसादः अस्मात् शरीरात् समुत्थाय परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यत इति श्रूयते / तत्र संशयः - किं देवलोकादि उपभोगस्थानेषु इव आगन्तुकेन केनचित् विशेषेण अभिनिष्पद्यत आहोत् आत्ममात्रेण इति / किं तावत् प्राप्तम् / स्थानान्तरेषु इव आगन्तुकेन केनचित् रूपेण अभिनिष्पत्तिः स्यात् / मोक्षस्य अपि फलत्वप्रसिद्धेः / अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् / स्वरूपमात्रेण चेत् अभिनिष्पत्तिः पूर्वासु अपि अवस्थासु स्वरूप अनापायात् विभाव्येत / तस्मात् विशेषेण केनचित् अभिनिष्पद्यत इति / एवं प्राप्ते ब्रूमः - केवलेन एव आत्मन आविर्भवति न धर्मान्तरेण इति / कुतः - स्वेन रूपेण अभिनिष्पद्यत इति स्वशब्दात् / अन्यथा हि स्वशब्देन इति विशेषणम् अनवकॢप्तं स्यात् /
SK
ननु आत्मीय अभिप्रायः स्वशब्दो भविष्यति /
SK
न / तस्य अवचनीयत्वात् / येन एव हि केनचित् रूपेण अभिनिष्पद्यते तस्य एव आत्मीयत्व उपपत्तेः स्वेन इति विशेषणम्न अर्थकं स्यात् / आत्मवचनतायां तु अर्थवत् केवलेन एव आत्मरूपेण अभिनिष्पद्यते न आगन्तुकेन अपररूपेणापि इति
SK
कः पुनः विशेषः पूर्वासु अवस्थासु इह च स्वरूप अनपायसाम्ये सति इत्यत आह -
SK
मुक्तः प्रतिज्ञानात् | BBस्_४,४.२ |
SK
यः अत्र अभिनिष्पद्यत इति उक्तः स सर्वबन्ध विनिर्मुक्तः शुद्धेन एव आत्मना अवतिष्ठते / पूर्वत्र तु अन्धो भवति अपि रोदिति इव विनाशमेव अपीतो भवति इति च अवस्थात्रय कलुषितेन आत्मन इति अयं विशेषः / कथं पुनः अवगम्यते मुक्तः अयम् इदानीं भवति इति - प्रतिज्ञानात् इत्याह / तथा हि ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. ८.९.३, ८.१०.४, ८.११.३) इति अवस्थात्रय दोषविहीनम् आत्मानं व्याख्येयत्वेन प्रतिज्ञाय ऽअशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छा. ८.१२.१) इति च उपन्यस्य ऽस्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. ८.१२.३) इति च उपसंहरति / तथा आख्यायिक उपक्रमे अपि ऽय आत्मापहतपाप्माऽ (छा. ८.७.१) इत्यादि मुक्त आत्मविषयम् एव प्रतिज्ञानम् / फलत्वप्रसिद्धिः अपि मोक्षस्य बन्धनिवृत्तिमात्र अपेक्षा न अपूर्व उपजनन अपेक्षा / यत् अपि अभिनिष्पद्यत इति उत्पत्तिपर्यायत्वं तत् अपि पूर्व अवस्थापेक्षं यथा रोगनिवृत्तौ अरोगःअभिनिष्पद्यत इति तद्वत् / तस्मात् अदोषः
SK
आत्मा प्रकरणात् | BBस्_४,४.३ |
SK
कथं पुनः मुक्त इति उच्यते - यावता ऽपरं ज्योतिरुपसंपद्यऽ (छा. ८.१२.३) इति कार्यगोचरम् एव एनं श्रावयति / ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् / न च अनतिवृत्तो विकारविषयात् कश्चित् मुक्तो भवितुम् अर्हति / विकारस्य आर्तत्वप्रसिद्धेः इति /
SK
न एष दोषः / यत ज्योतिः शब्देन आवेद्यते प्रकरणात् ऽय आत्मापहतपाप्मा विजरो विमृत्युःऽ (छा. ८.७.१) इति हि प्रकृते परस्मिन् आत्मनि न अकस्मात् भौतिकं ज्योतिः शक्यं ग्रहीतुम् / प्रकृतहान अप्रकृतप्रक्रिया प्रसङ्गात् / ज्योतिःशब्दः तु आत्मनि अपि दृश्यते ऽतद्देवा ज्योतिषं ज्योतिः (बृ. ४.४.१६) इति / प्रपञ्चितं चैतत्ऽ(ब्र. सू. १.३.४०) इत्यत्र
SK
२ अविभागेन दृष्टत्व अधिकरणम् / सू. ४
SK
अविभागेन दृष्टत्वात् | BBस्_४,४.४ |
SK
परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते यः स किं परस्मात् आत्मनः पृथगेव भवति उत अविभागेन एव अवतिष्ठत वीक्षायाम् स ऽतत्र पर्येतिऽ ( ८.१२.३) इति अधिकरण अधिकर्तव्य निर्देशात् ज्योतिः उपसंपद्य (छा. ८.१२.३) इति च कर्तृकर्मनिर्देशात् भेदेन एव अवस्थानम् इति यस्य मतिः तं व्युत्पादयति अविभक्त एव परेण आत्मना मुक्तः अवतिष्ठते / कुतः - दृष्टत्वात् / तथा हि ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१०) ऽयत्र नान्यत्पश्यतिऽ (छा. ७.२४.१) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. ४.३.२३) इति एवमादीनि वाक्यानि अविभागेन एव परमात्मानं दर्शयन्ति / यथादर्शनम् एव च फलं युक्तं तत्क्रतु न्यायात् / ऽयथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति / एवं मुनेः विजानत आत्मा भवति गौतमऽ (क. ४.१५) इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यानि अविभागमेव दर्शयन्ति / नदी समुद्रादि निदर्शनानि च / भेदनिर्देशः तु अभेदे अपि उपचर्यते / ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. ७.२४.१) इति ऽआत्मरतिरात्मक्रीडःऽ (छा. ७.२५.२) इति च एवमादिदर्शनात्
SK
३ ब्राह्म अधिकरणम् / सू. ५-७
SK
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः | BBस्_४,४.५ |
SK
स्थितम् एतत् ऽस्वेन रूपेणऽ(छा. ८.३.४) इति अत्र आत्ममात्ररूपेण अभिनिष्पद्यत न आगन्तुकेन अपररूपेण इति / अधुना तु तत् विशेषबुभुत्सायाम् अभिधीयते स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादि सत्यसंकल्पत्व अवसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेण अभिनिष्पद्यत इति जैमिनिः आचार्यो मन्यते / कुतः - उपन्यासादिभ्यः तथात्व अवगमात् / तथा हि - ऽय आत्मापहतपाप्माऽ (छा. ८.७.१) इत्यादिना ऽसत्यकामः सत्यसंकल्पःऽ (छा. ८.७.१) इति एवम् अन्तेन उपन्यासेन एवम् आत्मकताम् आत्मनो बोधयति / तथा ऽस तत्र पर्येति जक्षन्क्रीडन्रममाणःऽ (छा. ८.१२.३) इति ऐश्वर्यरूपम् आवेदयति / ऽतस्य सर्वेषु लोकेषु कामचारो भवतिऽ (छा. ७.२५.२) इति च / ऽसर्वज्ञः सर्वेश्वरःऽ इत्यादि व्यपदेशाः च एवम् उपपन्ना भविष्यन्ति इति
SK
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः | BBस्_४,४.६ |
SK
यद्यपि अपहपाप्मत्वादयोभेदेन एव धर्मा निर्दिश्यन्ते तथा अपि शब्दविकल्पजा एव एते / पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते / चैतन्यमेव तु अस्य आत्मनः स्वरूपम् इति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिः युक्ता / तथा च श्रुतिः - ऽएवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. ४.५.१३) इति एवञ्जातीयका अनुगृहीता भविष्यति / सत्यकामत्वादयः तु यदि अपि वस्तुस्वरूपेण एव धर्मा उच्यन्ते सत्याः कामा अस्य इति / तथा अपि उपाधिसंबन्ध अधीनत्वात् तेषां न चैतन्यवत् स्वरूपसंभवः / अनेक आकारत्वप्रतिषेदात् / प्रतिषिद्धं हि ब्रह्मणः अनेक आकारत्वम् ऽन स्थानतो ऽपि परस्योभयलिङ्गम्ऽ (ब्र.सू, ३.२.११) इत्यत्र / अत एव च जक्षणादि संकीर्तनम् अपि दुःख अभावमात्र अभिप्रायं स्तुत्यर्थम् आत्मरतिः इत्यादिवत् / न हि मुख्यानि एव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुं द्वितीय विषयत्वात् तेषाम् / तस्मात् निरस्त अशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इति औडुलोमिः आचार्यो मन्यते
SK
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः | BBस्_४,४.७ |
SK
एवम् अपि पारमार्थिक चैतन्यमात्रस्वरूप अभ्युपगमे अपि व्यवहार अपेक्षया पूर्वस्य अपि उपन्यासादिभ्यः अवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्ययाख्यानात् अविरोधं बादरायण आचार्यो मन्यते
SK
४ संकल्प अधिकरणम् / सू. ८-९
SK
संकल्पाद् एव तु तच्छ्रुतेः | BBस्_४,४.८ |
SK
हार्दविद्यायां श्रूयते - ऽस यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. ८.२.१) इत्यादि / तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुः उत निमित्तान्तर सहित इति / तत्र सति अपि संकल्पादेव इति श्रवणे लोकवत् निमित्तान्तर अपेक्षता युक्ता / यथा लोके अस्मदादीनां संकल्पात् गमनादिभ्यः च हेतुभ्यः पित्रादि संपत्तिः भवति एवं मुक्तस्य अपि स्यात् / एवं दृष्टविपरीतं न कल्पितं भविष्यति / संकल्पादेव इति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभाम् अपेक्ष्य उच्यते / न च संकल्पमात्रसम् उत्थानाः पित्रादयो मनोरथाविजृम्भितवत् चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युः इति /
SK
एवं प्राप्ते ब्रूमः संकल्पादेव तु केवलात् पित्रादिसमुत्थानम् इति / कुतः - तत् श्रुतेः / ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. ८.२.१) इत्यादिका हि श्रुतिः निमित्तान्तर अपेक्षायां पीड्येत / निमित्तान्तरम् अपि तु यदि संकल्प अनुविधायि एव स्यात् भवतु न तु प्रयत्नान्तरसंपाद्यं निमित्तान्तरम् इति इष्यते / प्राक् तत् संपत्तेः वन्ध्यसंकल्पत्व प्रसङ्गात् / न च श्रुति अवगम्ये अर्थे लोकवत् इति सामान्यतो दृष्टं क्रमते / संकल्पबलात् एव च एषां यावत् प्रयोजनं स्थैर्य उपपत्तिः. प्राकृतसंकल्पविलक्षणत्वात् मुक्तसंकल्पस्य
SK
अत एव चानन्याधिपतिः | BBस्_४,४.९ |
SK
अत एव च अवन्ध्यसंकल्पत्वात् अनन्य अधिपतिः विद्वान् भवति न अस्य अन्यः अधिपतिः भवति इत्यर्थः /
SK
न हि प्राकृतो अपि संकल्पयन् अन्यस्वामिकत्वम् आत्मनः सत्यां गतौ संकल्पयति / श्रुतिः च एतत् दर्शयति - ऽअथ य इहात्मानमनुविद्य व्रजन्त्येश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. ८.१.६) इति
SK
अभाव अधिकरणम् / सू. १०-१४
SK
अभावं बादरिर् आह ह्य् एवम् | BBस्_४,४.१० |
SK
ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. ८.२.१) इत्यादि श्रुतेः मनः तावत् संकल्पसाधनं सिद्धम् / शरीर इन्द्रियाणि पुनः प्राप्त ऐश्वर्यस्य विदुषः सन्ति न वा सन्ति इति समीक्ष्यते / तत्र बादरिः तावत् आचार्यः शरीरस्य इन्द्रियाणां च अभावं महीयमानस्य विदुषो मन्यते / कस्मात् / एवं हि आह आम्नायः ऽमनसैतान्कामान्पश्यन्रमतेऽ (छा. ८.१२.५) ऽय एते ब्रह्मलोकेऽ (छा. ८.१३.१) इति / यदि मनसा शरीर इन्द्रियाणां मोक्षे
SK
भावं जैमिनिर् विकल्पामननात् | BBस्_४,४.११ |
SK
जैमिनिः तु आचार्यो मनोवत् शरीरस्य अपि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते / यतः ऽस एकधा भवति त्रिधा भवतिऽ(छा. ७.२३.२) इत्यादिना अनेकधा अभावविकल्पम् आमनन्ति / न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् / यदि अपि निर्गुणायां भूमविद्यायाम् अयम् अनेकधा अभावविकल्पः पठ्यते तथा अपि विद्यमानमेव इदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्या स्तुतये संकीर्त्यत इति अतः सगुणविद्याफलभावेन उपतिष्ठत इति
SK
उच्यते -
SK
द्वादशाहवद् उभयविधं बादरायणो ऽतः | BBस्_४,४.१२ |
SK
बादरायणः पुनः आचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यते यदा सशरीरतां संकल्पयति तदा सशरीरो भवति यदा तु अशरीरतां तदा अशरीर इति / सत्यसंकल्पत्वात् / संकल्प वैचित्र्यात् च / द्वादश अहवत् / यथा द्वादश अहःसत्रम् अहीनः च भवति / उभयलिङ्ग श्रुतिदर्शनात् एवम् इदम् अपि इति
SK
तन्वभावे सन्ध्यवद् उपपत्तेः | BBस्_४,४.१३ |
SK
यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा यथा संध्ये स्थाने शरीर इन्द्रियविषयेषु अविद्यमानेषु अपि उपलब्धिमात्रा एव पित्रादिकामा भवति एवं मोक्षे अपि स्युः एवं हि एतत् उपपद्यते
SK
भावे जाग्रद्वत् | BBस्_४,४.१४ |
SK
भावे पुनः तनोः यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति एवं मुक्तस्य अपि उपपद्यते
SK
६ प्रदीप अधिकरणम् / सू. १५-१६
SK
प्रदीपवदावेशस् तथा हि दर्शयति | BBस्_४,४.१५ |
SK
भावं ऽजैमिनिर्विकल्पामननात्ऽ ( ब्र.सू. ४.४.११) इति अत्र सशरीरत्वं मुक्तस्य उक्तम् / तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्राणि इव सृज्यन्ते किं वा सात्मकानि अस्मदादि शरीरवत् इति भवति वीक्षा / तत्र च आत्म मनसोः भेद अनुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि इति / एवं प्राप्ते प्रतिपद्यते - प्रदीपवत् आवेश इति / यथा प्रदीप एकः अनेकप्रदीपभावम् आपद्यते विकारशक्तियोगात् / एवम् एकः अपि सन् विद्वान ऐश्वर्ययोगात् अनेकभावम् आपद्य सर्वाणि शरीराणि आविशति / कुतः, तथा हि दर्शयति शास्त्रम् एकस्य अनेकभावम् - ऽस एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधाऽ (छा. ७.२६.२) इत्यादि /
SK
न एतत् दारुयन्त्र उपमा अभ्युपगमे अवकल्पते न अपि जीवान्तरावेशे / न च निरात्मकानां शरीराणां प्रवृत्तिः संभवति / यत् तु आत्म मनसोः भेद अनुपपत्तेः अनेकशरीरयोग असंभव इति /
SK
न एष दोषः / एकमनोनुवर्तिनि समनस्कानि एव अपराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति / सृष्टेषु च तेषु उपाधिभेदात् आत्मनः अपि भेदेन अधिष्ठातृत्वं योक्ष्यते / एष एव च योगशास्त्रेषु योगिनाम् अनेकशरीरप्रयोगक्रिया
SK
कथं पुनः मुक्तस्य अनेकशरीर आवेशादिलक्षणम् ऐश्वर्यम् अभ्युपगम्यते यावता ऽतत्केन कं विजानीयात्ऽ (बृ. ४.५.१५) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यद्विजानीयात्ऽ (बृ. ४.३.३०) ऽसलिल एको द्रष्टाद्वैतो भवतिऽ (बृ. ४.३.३२) इति च एवञ्जातीयका श्रुतिः विशेषविज्ञानं वारयति इत्यत उत्तरं पठति -
SK
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि | BBस्_४,४.१६ |
SK
स्वाप्ययः सुषुप्तम् ऽस्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षतेऽ (छा. ६.८.१) इति श्रुतेः / संपत्तिः कैवल्यम्, ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. ४.४.६) इति श्रुतेः / तयोः अन्यतराम् अवस्थाम् अपेक्ष्य एतत् विशेषसंज्ञाभाव वचनम् / क्वचित् सुषुप्त अवस्थाम् अपेक्ष्य उच्यते क्वचित् कैवल्य अवस्थाम् / कथम् अवगम्यते यतः तत्र एव एतत् अधिकारवशात् आविष्कृतम् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीतिऽ (बृ. २.४.१४) ऽयत्र त्वस्य सर्वमात्मैवाभूत्ऽ (बृ. २.४.१४) ऽयत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतिऽ (बृ. ४.३.१९, माण्डू. ५) इत्यादि श्रुतिभ्यः / सगुणविद्याविपाक अवस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरं यत्र एतत् ऐश्वर्यम् उपवर्ण्यते / तस्मात् अदोषः
SK
७ जगत् व्यापार अधिकरणम् / सू. १७-२२
SK
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च | BBस्_४,४.१७ |
SK
ये सगुणब्रह्म उपासनात् सह एव मनसा ईश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहम् ऐश्वर्यं भवति आहोस्वित् सावग्रहम् इति संशयः / किं तावत् प्राप्तम् / निरङ् कुशमेव एषाम् ऐश्वर्यं भवितुम् अर्हति ऽआप्नोति स्वाराज्यम्ऽ (तै. १.६.२) ऽसर्वे ऽस्मै देवा बलिमावहन्तिऽ (तै. १.५.३) ऽतेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. ७.२५.२, ८.१.६) इत्यादि श्रुतिभ्य इति / एवं प्राप्ते पठति - जगत् व्यापारवर्जम् इति / जगत् उत्पत्त्यादि व्यापारं वर्जयित्वा अन्यत् अणिमादि आत्मकम् ऐश्वर्यं मुक्तानां भवितुम् अर्हति जगत् व्यापारः तु नित्यसिद्धस्य एव ईश्वरस्य / कुतः - तस्य तत्र प्रकृतत्वात् असंनिहितत्वात् च इतरेषाम् / पर एव हि ईश्वरो जगत् व्यापारे अधिकृतः / तम् एव प्रकृत्य उत्पत्त्यादि उपदेशात् / नित्यशब्दनिबन्धनत्वात् च / तत् अन्वेषणविजिज्ञासनपूर्वकं तु इतरेषाम् अणिमादि ऐश्वर्यं श्रूयते / तेन असंनिहिताः ते जगत् व्यापारे / समनस्कत्वात् एव च एतेषाम् अनैकमत्ये कस्यचित् स्थिति अभिप्रायः कस्यचित् संहार अभिप्राय इति एवं विरोधः अपि कदाचित् स्यात् / अथ कस्यचित् संकल्पम् अन्वयस्य संकल्प इति अविरोधः समर्थ्येत ततः परमेश्वर आकूततन्त्रत्वम् एव इतरेषाम् इति व्यवतिष्ठते
SK
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः | BBस्_४,४.१८ |
SK
अथ यत् उक्तम् ऽआप्नोति स्वाराज्यम्ऽ (तै. १.६.२) इत्यादि प्रत्यक्ष उपदेशात् निरवग्रहम् ऐश्वर्यं विदुषां न्याय्यम् इति तत्परिहर्तव्यम् /
SK
अत्र उच्यते / न अयं दोषः / आधिकारिकमण्डलस्थ उक्तेः / आधिकारिको यः सवितृमण्डलादिषु विशेष आयतनेषु अवस्थितः पर ईश्वरः तदायत्त एव इयं स्वाराज्यप्राप्तिः उच्यते / यत्कारणम् अनन्तरम् ऽआप्नोति मनसस्पतिम्ऽ (तै. १.६.२) इत्याह / यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोति इति एतत् उक्तं भवति / तत् अनुसारेण एव च अनन्तरम् ऽवाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवतिऽ (तै. १.६.२) इत्याह / एवम् अन्यत्र अपि यथासंभवं नित्यसिद्ध ईश्वर आयत्तम् एव इतरेषाम् ऐश्वर्यं योजयितव्यम्
SK
विकारावर्ति च तथा हि स्थितिम् आह | BBस्_४,४.१९ |
SK
विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपं न केवलं विकारमात्रगोचरं सवितृमण्डलादि अधिष्ठानम् / तथा हि अस्य द्विरूपां स्थितिम् आह आम्नायः ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः / पादो ऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इति एवमादिः / न च तत् निर्विकारं रूपम् इतर आलम्बनाः प्राप्नुवन्ति इति शक्यं वक्तुम् अतत्क्रतुत्वात् तेषाम् / अतः च यथा एव द्विरूपे परमेश्वरे निर्गुणं रूपम् अनवाप्य सगुण एव अवतिष्ठन्त एवं सगुणः अपि निरवग्रहम् ऐश्वर्यम् अनवाप्य सावग्रह एव अवतिष्ठन्त इति द्रष्टव्यम्
SK
दर्शयतश् चैवं प्रत्यक्षानुमाने | BBस्_४,४.२० |
SK
दर्शयतः च विकार आवर्तित्वं परस्य ज्योतिषः श्रुति स्मृती / ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमग्निःऽ (कठ. ५.१५, श्वेता. ६.१४, मुण्ड. २.२.१०) इति / ऽन तद्भासयते सूर्यो न शशाङ् को न पावकःऽ (गी. १५.६) इति च / तत् एवं विकार आवर्तित्वं परस्य ज्योतिषः प्रसिद्धम् इति अभिप्रायः
SK
भोगमात्रसाम्यलिङ्गाच् च | BBस्_४,४.२१ |
SK
इतः च न निरङ् कुशं विकार आलम्बनानाम् ऐश्वर्यं यस्मात् भोगमात्रम् एव एषाम् अनादिसिद्धेन ईश्वरेण समानम् इति श्रूयते - ऽतमाहापो वै खलु मीयन्ते लोको ऽसौऽ इति ऽस यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयतिऽ(बृ. १.५.२३) इत्यादिभेदव्यपदेशलिङ्गेभ्यः
SK
ननु एवं सति सातिशयत्वात् अन्तवत्त्वम् ऐश्वर्यस्य स्यात् ततः च एषाम् आवृत्तिः प्रसज्येत इत्यत उत्तरं भगवान् बादरायण आचार्यः पठति -
SK
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् | BBस्_४,४.२२ |
SK
नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नश्वत्थः सोमसवनो यस्मिन्नपराजिता पूर्ब्रह्मणो यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिवभुक्तभोगा आवर्तन्ते / कुतः / ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. ८.६.६, कठ. ६.१६) ऽतेषां न पुनरावृत्तिःऽ (बृ. ६.२.१५) ऽब्रह्मलोकमभिसंपद्यतेऽ (छा. ८.१५.१) ऽन च पुनरावर्ततेऽ (छा. ८.१५.१) इत्यादि शब्देभ्यः / अन्तवत्त्वे अपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् ऽकार्यात्यये तदध्यक्षेण सहातःपरम्ऽ (ब्र.सू. ४.३.१०) इत्यत्र / सम्यक् दर्शनविध्वस्त तमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्ध एव अनावृत्तिः तदाश्रयणेन एव हि नित्यसिद्धनिर्वाणपरायणानां सिद्धा एव अनावृत्तिः तदाश्रयणेन एव हि सगुणशरणानाम् अपि अनावृत्तिसिद्धिः इति / अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इति सूत्र अभ्यासः शास्त्रपरिसमाप्तिं द्योतयति
SK
इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ चतुर्थाध्यायस्य चतुर्थः पादः
SK
समाप्तमिदं ब्रह्मसूत्रशाङ् करभाष्यम् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Brahmasūtra Śāṅkara-bhāṣya: corpustei HTML transform (Brahmasūtra with Śāṅkara-bhāṣya).

Source