2.1.1 SK स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् | BBस्_२,१.१ |
2 SK यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम् / कुतः स्मृत्यनवकाशदोषप्रसङ्गात् / स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसीरिण्यः स्मृतयः, एवं सत्यनवाकाशाः प्रसज्येरन् / तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते / मन्वादिसमृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यःसावकाशा भवन्ति / अस्य वर्णस्यास्मिन्काले ऽनेन विधानंनोपनयनं, ईदृशश्चाचारः, इत्थं वेदाध्ययनं, इत्थं सहधर्मचारिणीसंयोग इति / तथा पुरुषार्थाश्च वर्णाश्रमधर्मान्नानाविधान्विदधति / नैवं कपिलादिस्मृतीनामनुष्ठेये विषये ऽवकाशो ऽस्ति / मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः / यदि तत्राप्यनवकाशाः स्युरानर्थक्यमेवासां प्रसज्येत / तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः / कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते / भवदेयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् / परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् / तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् / अस्मत्कृते च व्याख्याने न विश्वस्युर्बहुमानात्स्मृतीनां प्रणेतृषु / कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते / श्रुतिश्च भवति- ऽऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्ऽ (श्वे. ५.२) इति / तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् / तर्कावष्टम्भेन चैतेर्ऽथं प्रतिष्ठापयन्ति / तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः / तस्य समाधिः नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति / यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयो ऽनवकाशाः प्रसज्येरन् / ता उदाहरिष्यामः - ऽयत्तत्सूक्ष्ममविज्ञेयम्ऽ इति परं ब्रह्म प्रकृत्य ऽस ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेऽ इति चोक्त्वा ऽतस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमऽ इत्याह / तथान्यत्रापि ऽअव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयतेऽ इत्याह / ऽअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः / स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयःऽ इति पुराणे / भगवद्गीतासु च- ऽअहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथाऽ (भ.गी. ७.६) इति / परमात्मानमेव च प्रकृत्यापस्तमबः पठति- ऽतस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः (ध.सू. १.८.२३.२) इति / एवमनेकशः स्मृतिश्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते / समृतिबलेन प्रत्यवतिष्टमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतो ऽयमन्यस्मृत्यनवकाशदोषोपन्यासः / दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् / विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्ये ऽन्यतरपरिग्रहे ऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणमनपेक्ष्या इतराः / तदुक्तं प्रमाणलक्षणे- ऽविरोधे त्वनपेक्षं स्यादस्ति ह्यनुमानम्ऽ (जै.सू. १.३.३) इति / नचातीन्द्रियानर्थञ्श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुं निमित्ताभावात् /
3 SK शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् /
4 SK न / सिद्धेरपि सापेक्षत्वात् / धर्मानुष्ठानापेक्षा हि सिद्धिः / स च धर्मश्चोदनालक्षणः / ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते / सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रद्रशितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति / परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः / कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवौश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् / तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन स्मृत्यनुसाराविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया / या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यं, कापिलमिति श्रुतिसामान्यमात्रत्वात् / अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् / अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् / भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः - ऽयद्वै किञ्च मनुरवदत्तद्भेषजम्ऽ (तै.सं २.२.१०.२) इति / मनुना च ऽसर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि / संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति //
5 SK ऽ (१२.११) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते / कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् / महाभारते ऽपि च ऽबहवः पुरुषा ब्रह्मन्नुताहो एक एव तुऽ इति विचार्य ऽबहवः पुरुषा राजन्सांख्ययोगविचारिणाम्ऽ इति परपक्षमुपन्यस्य तद्व्युदासेन- ऽबहूनां पुरुषाणां हि यथैका योनिरुच्यते / तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् //
6 SK ऽ इत्युपक्रम्य ऽममान्तरात्मा तव च ये चान्ये देहसंस्थिताः / सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित्क्वचित् //
7 SK विश्वमूर्धा विश्वभुजो विस्वपादाक्षिनासिकः / एकश्चरति भूतेषु स्वैरचारी यथासुखम् //
1 SK ऽ इति सर्वात्मतैव निर्धारिता / श्रुतिश्च सर्वात्मतायां भवति- ऽयस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः / तत्र को मोहः कः शोकः एकत्वमनुपश्यतःऽ (ई. ७) इत्येवंविधा / अतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति / वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये / पुरुषवचसां तु मूलान्तरापेक्षं वक्तुस्मृतिव्यवहितं चेति विप्रकर्षः / तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः
9 SK FN: ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता / भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धताऽ इति संग्रहश्लोकः / परमर्षिः कपिलः / अन्या आसुरिपञ्चशिखादिप्रणीताः / उपचरितं श्रुत्यर्थं प्रतिपद्येरन्नित्यर्थः / सूक्ष्मत्वमतीन्द्रियत्वम् / अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् / काया ब्रह्मादयः / शाश्वतिकः कूटस्थः / श्रुतिविरोधे स्मृतिप्रामाण्यं अनपेक्षं हेयम् / हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति / प्रतप्तुर्दाहकस्य / विश्वे मूर्धनो ऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् / एवं विश्वभुजादौ योज्यम् /
10 SK कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः -
2.1.2 SK इतरेषां चानुपलब्धेः | BBस्_२,१.२ |
12 SK प्रधानादितराणि यानि प्रधानपरिणामत्वं न समृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते /
2 SK भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् / अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते / यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातम् ऽआनुमानिकमप्येकेषाम्ऽ (ब्र. १.४.१) इत्यत्र / कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः / तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः / तर्कावष्टम्भं तु ऽन विलक्षणत्वात्ऽ (ब्र. २.१.४) इत्यारभ्योन्मथिष्यति
14 SK २ योगप्रत्युक्त्यधिकरणम् / सू. ३
2.1.3 SK एतेन योगः प्रत्युक्तः | BBस्_२,१.३ |
16 SK एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति / तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते /
17 SK नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतं किमर्थं पुनरतिदिश्यते /
3 SK अस्ति ह्यत्राभ्यधिकाशङ्का / सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. २.४.५) इति / ऽत्र्युन्नतं स्थाप्य समं शरीरम्ऽ (श्वे. २.८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते / लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते ऽतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्ऽ (का. २.६.१८) इति ऽविद्यामेतां योगविधिं च कृत्स्नम् (का. २.६.१८) इति चैवमादीनि / योगशास्त्रे ऽपि ऽअथ तत्त्वदर्शनोपायो योगःऽ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोङ्गीक्रियते / अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति / इयमप्यधिका शङ्कातिदेशेन निवर्त्यते / अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् / सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः / सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन न श्रौतेनोपबृंहितौ / ऽतत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैःऽ (श्वं. ६.१३) इति / निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति / श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वं. ३.८) इति / द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः / यत्तु दर्शनमुक्तं ऽतत्कारणं सांख्ययोगाभिपन्नम्ऽ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् / येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् / तद्यथा- ऽअसङ्गो ह्ययं पुरुषःऽ (बृ. ४.३.१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते / तथाच योगैरपि ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहःऽ (जाबा. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते / एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि / तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम / तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति ऽनावेदविन्मनुते तं बृहन्तम्ऽ (तै. ब्रा. ३.१२.९.७) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृ. ३.९.२३) इत्येवमादिश्रुतिभ्यः
19 SK FN: त्रीणि उरोग्रीवशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतम् /
20 SK तर्को ऽनुमानमनुग्राह्यं मानम् / उपपत्तिरनुग्राहिका युक्तिरिति भेदः /
21 SK विलक्षणत्वाधिकरणम् / सू. ४-१२
2.1.4 SK न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् | BBस्_२,१.४ |
23 SK ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः / तर्कनिमित्त इदानीमाक्षेपः परिह्रियते / कुतः पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः /
24 SK ननु धर्म इव ब्रह्मण्यनपेक्ष आगमो भवितुमर्हति / भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयो ऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः / परिनिष्पन्नरूपं तु ब्रह्मावगम्यते / परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु / यथाच श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधे ऽपि तद्वशेनैव श्रुतिर्नीयेत / दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते / विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् / अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते / श्रुतिरपि- ऽश्रोतव्यो मन्तव्यःऽ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति / अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ऽन विलक्षणत्वादस्यऽ इति / यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति / तन्नोपपद्यते / कस्मात् / विलक्षणत्वादस्य विकारस्य प्रकृत्याः / इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगत् ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते / ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते / नच विलक्षणत्वं प्रकृतिविकारभावो दृष्टः / नहि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः / मृदैव तु मृदान्विता विकाराः क्रियन्ते सुवर्णेन च सुवर्णान्विताः / तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सदचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रह्मणः / ब्रह्मविलक्षणं चास्य जगतो ऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् / अशुद्धं हि जगत्सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च / अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् / नहि साम्ये सत्युपकार्योपकारकभावो भवति / नहि प्रदीपौ परस्परस्योपकुरुतः /
25 SK ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति /
4 SK न / स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् / यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिचेतनभागः स एवान्यस्य चेतनस्योपकरोति नतु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा / निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते / तस्मादचेतनं कार्यकारणम् / नच काष्टलोष्टादीनां चेतनत्वे किं चित्प्रमाणमस्ति / प्रसिद्धश्चायं चेतनाचेतनविभागो लोके / तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् / यो ऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि / प्रकृतिरूपस्य विकारे ऽन्वयदर्शनात् / अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति / यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते / एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषे ऽपि गुणप्रधानभावो न विरोत्स्यते / यथा च पार्थिवत्वाविशेषे ऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति / प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति / तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत / शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते / नचेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह- तथात्वं च शब्दादिति / अनवगम्यमानमेवं हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षत, तच्च शब्देनैव विरुध्यते / यतः शब्दादपि तथात्वमवगम्यते / तथात्वमिति प्रकृतिविलक्षणत्वं कथयति / शब्द एव ऽविज्ञानं चाविज्ञानं चऽ (ते. २.६) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति
27 SK FN: अवष्टम्भो दृष्टान्तः / ऐतिह्यमात्रेण परोक्षतयेति यावत् / सुखदुःखमोहाः सत्त्वरजस्तमांसि / उपजनापायवद्धर्मयोगो ऽतिशयस्तदभावो निरतिशयत्वम् / इतरच्चेतनाचेतनत्वरूपम् /
28 SK ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते / यथा ऽमृदब्रवीत्ऽ ऽआपो ऽब्रुवन्ऽ ( श.प.ब्रा. ६.१.३.२.४) इति, ऽतत्तेज ऐक्षतऽ ऽता आप ऐक्षन्तऽ (छा. ६.२.३,४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः /
29 SK इन्द्रियविषयापि ऽते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुःऽ (बृ. ६.१.७) इति, ऽते ह वाचमूचुस्त्वं न उद्गायेतिऽ (बृ. १.३.२) इत्येवमाद्येन्द्रियविषयेति / अत उत्तरं पठति-
2.1.5 SK अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् | BBस्_२,१.५ |
5 SK तुशब्द आशङ्कामपनुदति / न खलु मृदब्रवीदित्येवञ्जातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् / यतो ऽभिमानिव्यपदेश एषः / मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् / कस्मात् / विशेषानुगतिभ्याम् / विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः / सर्वचेतनतायां चासौ नोपपद्येत / अपिच कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तये ऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति- ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ इति / ऽता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वाऽ (२.१४) इति च / अनुगताश्च सर्वत्राभिमानिन्यश्चेतनादेवता मन्त्रार्थवादेतिहासपुराणादिभ्यो ऽवगम्यन्ते / ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ.आ. २.४.२.४) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति / प्राणसंवादवाक्यशेषे च ऽते ह प्राणाः प्रजापतिं पितरमेत्योचुःऽ (छा. ५.१.७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं, तद्वचनाचैकैकोत्क्रमणेनान्वयव्यतिर्काभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः / ऽतस्मै बलिहरणम्ऽ (बृ. ६.१.१३) इति चैवञ्जातीयको ऽस्मदादिष्विव व्यवहारो ऽनुगम्यमानो ऽभिमानिव्यपदेशं द्रढयति / ऽतत्तेज ऐक्षतऽ इत्यपि परस्या एव देवताया अधिष्टात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् / तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् / विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते
32 SK FN: संवदनं विवादः / विशिंषन्ति वागादीन्प्राणादीनिति शेषः / अहंश्रेयसे स्वस्वश्रेष्ठत्वाय / निःश्रेयसं श्रैष्ठ्यम् /
2.1.6 SK दृश्यते तु | BBस्_२,१.६ |
34 SK तुशब्दः पक्षं व्यावर्तयति / यदुक्तं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति / नायमेकान्तः / दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् /
35 SK नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति /
6 SK उच्यते- एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् / महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् / तथा गोमयादीनां वृश्चिकादीनां च / अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत / अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्विति / ब्रह्मणो ऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानोदृश्यते / विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतित्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदस्य चैतन्यस्येति वक्तव्यम् / प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेदप्रसङ्गः / नह्यसत्यतिशये प्रकृतिविकार इति भवति / द्वितीये चासिद्धत्वम् / दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् / तृतीये तु दृष्टान्ताभावः / किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मवादिनं प्रत्युदाह्रियेत / समस्तस्य वस्तुजायस्य ब्रह्मप्रकृतित्वाभ्युपगमात् / आगमविरोधस्तु प्रसिद्ध एव / चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् / यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि संभवेयुरिति / तदपि मनोरथमात्रम् / रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः / लिङ्गाद्यभावाच्च नानुमानादीनाम् / आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् / तथाच श्रुतिः - ऽनैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठऽ (का. १.२.९) इति / ऽको अद्धा वेद क इह प्रवोचत्ऽ / ऽइयं विसृष्टिर्यत आबभूवऽ (ऋ.सं १.३०.६) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः / स्मृतिरपि भवति- ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्ऽ इति / ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्योयमुच्यतेऽ (गी. २.२५) इति च / ऽन मे विदुः सुरगणाः प्रभवं न महर्षयः / अहमादिर्हि देवानां महर्षीणां च सर्वशःऽ (गी. १०.२) इति चैवञ्जातीयका / यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् / नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति / श्रुत्यनुगृहीत एव ह्यत्र तर्को ऽनुभवाङ्गत्वेनाश्रीयते / स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनो ऽनन्वागतत्वं, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेक इत्येवञ्जातीयकः / ऽतर्काप्रतिष्ठानात्ऽ (ब्र. २.१.११) इति च केवलस्य तर्कस्यविप्रलम्भकत्वं दर्शयिष्यति / यो ऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षते तस्यापि विज्ञानं चाविज्ञानं च इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् / परस्यैव त्विदमपि विभागश्रवणं न युज्यते / कथम् / परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते ऽविज्ञानं चाविज्ञानं चाभवत्ऽ इति / तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते / प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथाश्रुत्यैव कारणं ग्रहीतव्यं भवति
37 SK FN: पारिणामिकस्तत्तत्केशादिगतपरिणामात्मक इत्यर्थः / एषा वेदान्तशास्त्रजन्या मतिस्तर्केण स्वमत्यूहमात्रेणापनेया बाधार्हा न / यद्वा तर्केण प्राप्तव्या नेत्यर्थः / किन्तु अन्येन निपुणेनाचार्येण प्रोक्तप्रबोधिता सती सुज्ञानाय साक्षात्काराय भवति / हे प्रेष्ठ प्रियतमेति नाचिकेतसंप्रति यमसंबोधनम् / इयं विसृष्टिराकाशादिसृष्टिः कुतः कस्माज्जाता कस्माच्च स्थितिं प्राप्तेत्यद्धा तत्त्वेन को वेद, न को ऽपि / कः प्रवोचत् न को ऽपि प्रवक्ताभूत् / विप्रलम्भकत्वं अर्थविशेषाव्यवस्थापकत्वम् /
2.1.7 SK असद् इति चेन् न प्रतिषेधमात्रत्वात् | BBस्_२,१.७ |
39 SK यदि चेतनं शुद्धं शब्दविहीनं च ब्रह्म तद्विपरूतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत / अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् /
40 SK नैष दोषः / प्रतिषेधमात्रत्वात् / प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति / नह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति / कथम् / यथैव हीदानामपीदं कार्यं कारणात्मना सदेवं प्रागुत्पत्तेरपीति गम्यते / नहीदानामपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति / ऽसर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेदऽ (बृ. २.४.६)
41 SK इत्यादिश्रवणात् / कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् /
42 SK ननु शब्दादिहीनं ब्रह्मजगतः कारणम् /
7 SK बाढम् / नतु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वास्ति / तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति / विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः
2.1.8 SK अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् | BBस्_२,१.८ |
8 SK अत्राह- यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणमभ्युपगम्येत तदपीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदित्यपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपप्रसङ्गात्सर्वज्ञं ब्रह्म जगत्कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् / अपिच समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् / अपिच भोक्तृणां परेण ब्रह्मणाविभागं गतानां कर्मादिनिमित्तप्रलये ऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्तत्तिप्रसङ्गादसमञ्जसम् / अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतीश्च न संभवति, कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति
2.1.9 SK न तु दृष्टान्तभावात् | BBस्_२,१.९ |
9 SK नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति / यत्तावदभिहितं कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तददूषणम् / कस्मात् / दृष्टान्ताभावात् / सन्ति हि दृष्टान्ता यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति / तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति / रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति / पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति / त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तो ऽस्ति / अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत / अनन्यत्वे ऽपि कार्यकारणयोः कार्यस्य कारणात्मत्वं नतु कारणस्य कार्यात्मत्वं ऽआरम्भणशब्दादिभ्यःऽ इति वक्ष्यामः (ब्र.सू. २.१.१४) / अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति / स्थितावपि समानो ऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् / ऽइदं सर्व यदयमात्माऽ (बृ. २.४.६), ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२), ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मु. २.२.११), ऽसर्वं खल्विदं ब्रह्मऽ (छा. ३.१४.१) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते / तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः / अस्ति चायमपरो दृष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पश्यते, अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति / यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यत इति / प्रबोधसंप्रदायोरनन्वागतत्वात् / एवमवस्थात्रयसाक्ष्येको ऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते / मायामात्रं ह्येतद्यत्परमात्मनो ऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति / अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः - ऽअनादिमायया सुप्तो यदा जीवः प्रबुध्यते / अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदाऽ (गौडपा. कारि. १.१६) इति / तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् / यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति / अयमप्यदोषः / दृष्टान्तभावादेव / यथाहि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवत्येवमिहापि भविष्यति / श्रुतिश्चात्र भवति- ऽइमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्तिऽ (छा. ६.९.२,३) इति / यथा ह्यविभागे ऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितो दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते / एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः / सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् / यः पुनरयमन्ते ऽपरो विकल्प उत्प्रेक्षितो ऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सो ऽप्यनभ्युपगमादेव प्रतिषिद्धः / तस्मात्समञ्जसमिदमौपनिषदं दर्शनम्
49 SK FN: अपिगच्छत् लीयमानम् /
50 SK विभागावस्था स्थितिकालः /
51 SK सति ब्रह्मणि एकीभूय न विदुरित्यज्ञानोक्तिः / इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः /
2.1.10 SK स्वपक्षदोषाच् च | BBस्_२,१.१० |
53 SK स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुष्युः / कथमित्युच्यते / यत्तावदभिहितं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् / अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः / तथापीतौ कार्यस्य कारणविभागाभ्युपगमात्तद्वत्प्रसङ्गो ऽपि समानः / तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनरुत्पतौ नियन्तुं शक्यन्ते कारणाभावात् / विनैव कारणेन नियमे ऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः /
54 SK अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केनचिन्नेति चेत् /
10 SK ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोतीत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति / अवश्याश्रयितव्यत्वात्
56 SK FN: प्रादुष्युः प्रादुर्भवेयुः /
2.1.11 SK तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः | BBस्_२,१.११ |
58 SK इतश्च नागमगम्येर्ऽथे केवलेन तर्केण प्रत्यवस्थातव्यम् / यस्मिन्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति / उत्प्रेक्षाया निरङ् कुशत्वात् / तथाहि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्तरैरन्यैराभास्यमाना दृश्यन्ते / तैरप्युत्प्रेक्षिताः सन्तस्ततो ऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं, पुरुषमतिवैरूप्यात् / अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत / एवमप्यप्रतिष्ठितत्वमेव / प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् / अतोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति / नहि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् / एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते / केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वात् / सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः / अतीतवर्तमानाध्वसाम्येन ह्यनागते ऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते / श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते / मनुरपि चैवं मन्यते- ऽप्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् / त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सिता //
59 SK ऽ इति / ऽआर्षं धर्मोपदेशं च वेदशास्त्रविरोधिना / यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः //
11 SK ऽ (१२.१०५,१०६) इति च ब्रुवन् / अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम / एवंहि तावद्यत्तर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति / नहि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् / तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत्, एवमप्यविमोक्षप्रसङ्गः / यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य / नहीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् / रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम / अपिच सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः / तच्च सम्यग्ज्ञानमेकरूपं वस्तुतन्त्रत्वात् / एकरूपेण ह्यवस्थितो योर्ऽथः स परमार्थः / लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते यथाग्निरुष्णा इति / तत्रैवं सति सम्ग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना / तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः / यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते, तेनापि प्रतिष्ठापितं ततो ऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके / कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् / नच प्रधानवादी तर्कविदामुत्तम इति सर्वास्तार्किकैः परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि / नच शक्यन्ते ऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात / वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेस्तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् / अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् / अतो ऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत / अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेति स्थितम्
61 SK FN: तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् /
62 SK धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः /
63 SK अतिगमभीरत्वमागमातिर्मेकामानायोग्यत्वम् / भावयाथात्म्यं कारणगतमद्वितीयत्वम् / मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् /
64 SK ४ शिष्टपरिग्रहाधिकरणम् / सू. १२
2.1.12 SK एतेन शिष्टापरिग्रहा अपि व्याख्याताः | BBस्_२,१.१२ |
12 SK वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्ठैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृतः / इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति / परिगृह्यन्त इति परिग्रहाः न परिग्रहा अपरिग्रहाः शिष्टानामपरिग्रहाः / एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदंशंनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति / तुल्यमात्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं तर्कस्याप्रतिष्ठितत्वमन्यथानुमाने ऽप्यविमोक्ष आगमविरोधश्चेत्येवञ्जातीयकं निराकरणम्
67 SK ५ भोक्त्रापत्त्याधिकरणम् / सू. १३
2.1.13 SK भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् | BBस्_२,१.१३ |
69 SK अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते / यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारे ऽन्यपरा भवितुमर्ति / यथा मन्त्रार्थवादौ / तर्के ऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् यथा धर्माधर्मयोः / किमतो यद्येवम् / अत इदमयुक्तं यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः / कथं पुनः प्रमाणान्तरप्रसिद्धोर्ऽथः श्रुत्या बाध्यत इति /
13 SK अत्रोच्यते- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरो भोग्याः शब्दादयो विषया इति / यथा भोक्ता देवदत्तो भोज्य ओदन इति / तस्य च विभागस्याभावः प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत / भोग्यं वा भोक्तृभावमापद्येत / तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणो ऽनन्यत्वात्प्रसज्येत / नचास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् / यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः / तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रतिब्रूयात्- स्याल्लोकवदिति / उपपद्यत एवायमस्मत्पक्षे ऽपि विभागः एवं लोके दृष्टत्वात् / तथाहि- समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनवीचीतरङ्गादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते / नच समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति / नच तेषामितरेतरभावानापत्तावपि समुद्रात्मनो ऽन्यत्वं भवति / एवमिहापि नच भोक्तृभोग्ययोरितरेतरभावापत्तिः, नच परस्माद्ब्रह्मणो ऽन्यत्वं भविष्यति / यद्यपि भोक्ता न ब्रह्मणो विकारः / ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यतः परमकारणब्रह्मणो ऽनन्यत्वंऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्
71 SK FN: अन्यपरत्वं गौणार्थकत्वम् / विभागो जन्म / यद्वा तथापीतिशब्देनैवोक्तः परिहारः /
72 SK ६ आरम्भणाधिकरणम् / सू. १४-२०
2.1.14 SK तदनन्यत्वम् आरम्भणशब्दादिभ्यः | BBस्_२,१.१४ |
74 SK अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोषऽभिहितः / नत्वयं विभागः परमार्थतो ऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते / कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परंब्रह्म, तस्मात्कारणात्परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते / कुतः / आरम्भणशब्दादिभ्यः / आरम्भणशब्दस्तावत् / एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- ऽयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ (छा. ६.१.१) इति / एतदुक्तं भवति- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् / यतो वाचारम्भणं विकारो नामधेयं वाचैव केवलमस्तीत्यारभ्यते / विकारो घटः शराव उदञ्चनं चेति / नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति / नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमिति / एष ब्रह्मणो दृष्टान्तः आम्नातः / तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते / पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- ऽअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्ऽ (छा. ६.४.१) इत्यादिना / आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽ (छा. ६.८.७), ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६), ऽब्रह्मैवेदं सर्वम्ऽ (मु. २.२.११), ऽआत्मैवेदं सर्वम्ऽ (छा. ७.२५.२), ऽनेह नानास्ति किञ्चनऽ (बृ.४.४.१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् / नचान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते / तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं, यथाच मृगतृष्णिकोदकादीनामूषरादिभ्यो ऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् /
75 SK नन्वनेकात्मकं ब्रह्म, यथा वृक्षो ऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म / अत एकत्वं नानात्वं चोभयमपि सत्यमेव / यथा वृक्ष इत्यनेकत्वं शाखा इति नानात्वम् / यथाच समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् / यथाच मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् / तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति / नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति / एवञ्च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति /
76 SK नैवं स्यात् / ऽमृत्तिकेत्येव सत्यम्ऽ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् / वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् / दार्ष्टान्तिके ऽपि ऽऐतदात्म्यमिदं सर्वं तत्सत्यम्ऽ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति च शारीरस्य ब्रह्मभावोपदेशात् / स्वयं प्रसिद्धं ह्येतच्छरीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् / अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् / बाधिते च शारीरात्मत्वस्य तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशो ऽपरो ब्रह्मणः कल्प्येत / दर्शयति च-
77 SK ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. ४.५.१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् / नचायं व्यवहाराभावोषऽवस्थाविशेषनिबद्धो ऽभिधीयत इति युक्तं वक्तुम्, ऽतत्त्वमसिऽ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् / तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति (छा. ६.१६) / मिथ्याज्ञानविजृम्भितं च नानात्वम् / उभयसत्यतायां हि कथं व्यवहारगोचरो ऽपि जन्तुरनृताभिसंध इत्युच्येत / ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. ४.४.१९) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति / नचास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञनापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् / उभयसत्यतायां हि कथमेकत्वविज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते /
78 SK नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावत्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि / तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत, मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघातः स्यात् / कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति /
79 SK अत्रोच्यते- नैष दोषः / सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः / स्वप्नव्यवहारस्येव प्राक्प्रबोधात् / यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते / विकारानेव त्वहं ममेत्यविद्यायामात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा / तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः / यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, नच प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् /
80 SK कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत / नहि रज्जुसर्पेण दृष्टो म्रियते / नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति /
81 SK नैष दोषः / शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः / स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् / तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् /
82 SK तत्र ब्रूमः- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगतिः सत्यमेव फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात् / नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् / एतेन स्वप्नदृशो ऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः / तथाच श्रुतिः - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति / समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शनेऽ (छा. ५.२.९) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति / तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ऽन चिरमिव जीविष्यतीति विद्यात्ऽ इत्युक्त्वा ऽअथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिऽ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति / प्रसिद्धं चेदं लोके ऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेनासाध्वागम इति / तथाकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्तेः / अपिचान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकाङ्क्ष्यमस्ति / यथाहि लोके यजेतेत्युक्ते किं केन कथमित्याकाङ्क्ष्यते नैवं ऽतत्त्वमसिऽ ऽअहं ब्रह्मास्मिऽ इत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति, सर्वात्मैकत्वविषयत्वावगतेः / सति ह्यस्मिन्नवशिष्यमाणेर्ऽथे आकाङ्क्षा स्यात् / नत्वात्मैकत्वव्यतिरेकेणावशिष्यमाणो ऽन्योर्ऽथो ऽस्ति य आकाङ्क्ष्येत / न चेयमवगतिर्नोपपद्यत इति शक्यं वक्तुम्, ऽतद्धास्य विजज्ञौऽ (छा. ६.१६.३) इत्यादिश्रुतिभ्यः / अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् / नचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् / अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च / प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम / तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशो ऽस्ति /
83 SK ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते / परिणामिनो हि मृदादयोर्ऽथा लोके समधिगता इति /
84 SK नेत्युच्यते / ऽस वा एष महाजन आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४.२५) ऽस एष नेति नेत्यात्माऽ (बृ. ३.९.२३), ऽअस्थूलमनणुऽ (बृ. ३.८.८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् / नह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च श्क्यं प्रतिपत्तुम् /
85 SK स्थितिगतिवत्स्यादिति चेत् /
86 SK न / कूटस्थस्येति विशेषणात् / नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति / कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम / नच यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते / प्रमाणाभावात् / कूटस्थब्रह्मात्मविज्ञानादेव हि फलं दर्शयति शास्त्रम्- ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्य ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. ४.२.४)
87 SK इत्येवञ्जातीयकम् / तत्रैतत्सिद्धं भवति- ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत् / नतु स्वतन्त्रं फलाय कल्प्यत इति / नहि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तं, कूटस्थनित्यत्वान्मोक्षस्य /
88 SK कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् /
89 SK न / अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य / ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थि तिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेत्येषोर्ऽथः प्रतिज्ञातः ऽजन्माद्यस्य यतःऽ (ब्र.सू. १.१.४) इति / सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोर्ऽथः पुनरिहोच्यते / कथं नोच्यते ऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता / श्रुणु यथा नोच्यते / सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते / ताभ्यामन्यः सर्वज्ञ ईश्वरः ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. ८.१४.१) इति श्रुतेः / ऽनामरूपे व्याकरवाणिऽ (छा. ६.३.२), ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै. आ. ३.१२.७), ऽएकं बीजं बहुधा यः करोतिऽ (श्वं. ६.१२) इत्यादिश्रुतिभ्यश्च / एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि / स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये / तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते / तथाचोक्तम्- ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा. ७.२४.१) इति ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन पश्येत्ऽ (बृ. ४.५.१५) इत्यादिना च / एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे / तथेश्वरगीतास्वपि- ऽन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः / न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते //
14 SK नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः / अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःऽ (गी. ५.१४.-१५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते / व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ. ४.४.२२) इति / तथाचेश्वरगीतास्वपि- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्ठति / भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ (गी. १८.६१) इति / सूत्रकारो ऽपि परमार्थाभिप्रायेण तदन्यत्वमित्याह / व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति / अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणोपासनेषूपयोक्ष्यत इति
91 SK FN: दृष्टं प्रातीतिकं नष्ठमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः / स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः / एकत्वस्यैकान्तः कैवल्यम् / व्याहन्येरन्नप्रमाणानि स्युः / सत्यत्वं बाधा भावः / बाधो मित्यात्वनिश्चयः / रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धम् /
2.1.15 SK भावे चोपलब्धेः | BBस्_२,१.१५ |
93 SK इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे / तद्यथा सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पटः / नच नियमेनान्यभावे ऽन्यस्योपलब्धिर्दृष्टा / नह्यश्वो गोरन्यः सन् गोर्भाव एवोपलभ्यते / नच कुलालभाव एव घट उपलभ्यते / सत्यपि निमित्तनैमित्तिकभावे ऽन्यत्वात् /
94 SK नन्वन्यस्य भावे ऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति /
95 SK नेत्युच्यते / उद्धापिते ऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् / अथ धूमं कयाचिदवस्थया विशिंष्यादीदृशो धूमो नासत्याग्नौ भवतीति / नैवमपि कश्चिद्दोषः तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः / नचासावग्निधूमयोर्विद्यते / भावाच्चोपलब्धेरिति वा सूत्रम् / न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं,
96 SK प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः / भवतिहि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे / तद्यथा-
15 SK तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशव्ॐऽशुषु तदवयवाः / अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि ततो रूपाणि वायुमात्रमाकाशमात्रं चेत्यनुमेयम् / (छा. ६.४) ततः परं ब्रह्मैकमेवाद्वितीयं, तत्र सर्वप्रमाणानां निष्ठामवोचाम
98 SK FN: कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः /
2.1.16 SK सत्वाच् चापरस्य | BBस्_२,१.१६ |
16 SK इतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते / ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. ६.२.१), ऽआत्मा वा इदमेक एवाग्र आसीत्ऽ (ऐ.आ. २.४.१.१) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् / यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् / तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते / यथाच कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरत्येवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति / एकं च पुनः सत्त्वमतो ऽप्यनन्यत्वं कारणात्कार्यस्य
2.1.17 SK असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात् | BBस्_२,१.१७ |
102 SK ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः - ऽअसदेवेदमग्र आसीत् (छा. ३.१९.१) इति, ऽअसद्वा इदमग्र आसीत्ऽ (तै. २.७.१) इति च / तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् /
17 SK नेति ब्रूमः / नह्ययमत्यन्तासत्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः,किं तर्हि व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य / कथमेतदवगम्यते / वाक्यशेषात् / यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते / इह च तावत् ऽअसदेवेदमग्र आसीत्ऽ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ऽतत्सदासीत्ऽ इति / असतश्च पूर्वापरकालासंबन्धादासीच्छब्दानुपपत्तेश्च / ऽअसद्वा इदमग्र आसीत्ऽ इत्यत्रापि ऽतदात्मानं स्वयमकुरुतऽ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् / तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य / नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् / अतः प्राङ्नामरूपव्याकरणादसदिवासीदिवासीदित्युपचर्यते
104 SK FN: अग्रे शून्यमासीच्छून्यादेव जगतभूदिति पूर्वः पक्षः / राद्धान्ते तु इदं जगदग्रे सृष्टेः प्रागसदव्याकृतनामरूपत्वादसत्तुल्यमतिसूक्ष्मं ब्रह्मैवासीत् / ततो ब्रह्मणः सत् व्याकृतनामरूपं जगदजायतेति /
2.1.18 SK युक्तेः शब्दान्तराच् च | BBस्_२,१.१८ |
106 SK युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च / युक्तिस्तावद्वर्ण्यते- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते / नहि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरं तदसत्कार्यवादे नोपपद्येत / अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् / अथाविशिष्टे ऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च / शक्तिश्च कारणस्य कार्यनियमार्था कल्पमाना नान्यासती वा कार्यं नियच्छेत् / असत्त्वाविशेषादन्यत्वाविशेषाच्च / तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् / अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् / समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धे ऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः / अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः / अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते, संयोगो ऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव समवायं संबध्येत / तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् / कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते / किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् / यदि तावत्समस्तेषु वर्तेत ततो ऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसमनिकर्षस्याशक्यत्वात् / नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते / अथावयवशः समस्तेषु वर्तेत तदाप्यरम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशो ऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति / अनवस्था चैवं प्रसज्येत / तेषु तेष्वयवयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् / अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारे.ऽन्यत्राव्यापारः स्यात् / नहि देवदत्तः स्नुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रे ऽपि संनिधीयेत / युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् / देवदत्तयज्ञदत्तयोरिव स्रुघ्नापाटलिपुत्रनिवासिनोः / गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् / न / तथा प्रतीत्यभावात् / यदि गोत्वादिवत्प्रत्येकं परिसमाप्तो ऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत / नचैवं नियतं गृह्यते / प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् / नचैवं दृश्यते / प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् / उत्पचत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत् / क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत / घटस्य चेत्पत्तिरुच्यमाना न घटकर्तृका किं तरिह्यन्यकर्तृकेति कल्प्या स्यात् / तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत / तथाच सति घट उत्पद्यत इत्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते / उत्पन्नताप्रतीतेश्च / अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् / सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा / अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् / सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य / नहि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकारणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यपुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते / यदि च वन्द्यापुत्रो ऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपात्स्यत कार्याभावो ऽपि कारकव्यापारादूर्ध्वं भविष्यतीति / वयं तु पश्यामो वन्द्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावो ऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति /
107 SK नन्वेवं सति कारकव्यापारो ऽनर्थकः प्रसज्येत / यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते / एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धये ऽपि न कश्चिद्व्याप्रियेत / व्याप्रियते च / अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव / कार्यस्येति /
108 SK नैष दोषः / यतः कार्याकारेण कारणं व्यवस्तापयतः कारकव्यापारस्यार्थवत्त्वमपपद्यते / कार्याकारो ऽपि कारणस्यात्मभूत एवानात्मभूतस्यानारभ्यत्वादित्यभाणि / नच विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति / नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषण दृश्यमानो ऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् / तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् / जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् /
109 SK न / क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् / अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ् कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा / तेषामेवायवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा / तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वपत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः / तथाच बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च / एतेन क्षणभङ्गवादः प्रतिवदितव्यः / यस्यपुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् / अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् /
110 SK समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् /
111 SK न / अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् / समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् /
18 SK न / सत्कार्यतापत्तेः / तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् / तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते / एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते / शब्दान्तराच्चैतदवगम्यते / पूर्वसूत्रे ऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततो ऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्यादि / ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इति चासत्पक्षमुपक्षिप्य ऽकथमसतः सज्जायेतऽ इत्याक्षिप्य ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. ६.२.१) इत्यवधारयति / तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः / यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यकारणात्स्यात् / तत्र ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. ६.१.३) इतीयं प्रतिज्ञा पीड्येत / सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते
113 SK FN: अतिशयः कार्यधर्मः कारणधर्मो वा / कार्याभावो ऽसत्कार्यमित्यर्थः उपापत्स्यत उपपन्नमभविष्यदित्यन्वयः / वस्त्वन्तरत्वं परमार्थतो भिन्नत्वम् / एतेन कारणस्य सर्वकार्येष्वन्वयकथनेन / विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् /
2.1.19 SK पटवच् च | BBस्_२,१.१९ |
19 SK यथा च संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वान्यद्द्रव्यमिति / स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते / यथाच संवेष्टनसमये पट इति गृह्यमाणे ऽपि न विशिष्टायामविस्तारो गृह्यते स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्यो ऽयं भिन्नः पट इति / एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापारदिभिर्व्यक्तं स्पष्टं गृह्यते / अतः संवेष्टितप्रसीरितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः
116 SK FN: आयामो दैर्घ्यम् /
2.1.20 SK यथा च प्राणादिः | BBस्_२,१.२० |
20 SK यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निवर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् / तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रासारणादिकमपि कार्यान्तरं निर्वर्त्यते / नच प्राणभेदानां प्रभेदवतः प्राणादन्यत्वं, समीरणस्वभावाविशेषात् / एवं कार्यस्य कारणादनन्यत्वम् / अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. ६.१.१) इति
119 SK ७ इतरव्यपदेशाधिकरणम् / सू. २१-२३
2.1.21 SK इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः | BBस्_२,१.२१ |
21 SK अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते / चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते / कुतः / इतरव्यपदेशात् / इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः - ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ (छा. ६.८.७) इति प्रबोधनात् / यद्वा / इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् / ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति / तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छरीरस्यैवेति / अतः स स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् / नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति / नच स्वयमत्यन्तनिर्मलः सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात् / कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् / सुखकरं चोपाददीत / स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति / सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति / यथाच मायावी स्वयं प्रसारितां मायामिच्छयानायासेनैवोपसंहरति, एवं शारीरो ऽपीमां सृष्टिमुपसंहरेत् / स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् / एवं हितक्रियाद्यदर्शनादन्याय्या चेतमाज्जगत्प्रक्रियेति गम्यते
2.1.22 SK अधिकं तु भेदनिर्देशात् | BBस्_२,१.२२ |
123 SK तुशब्दः पक्षं व्यावर्तयति / यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तद्वयं जगतः स्रष्टृ ब्रूमः / न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते / नहि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं, नित्यमुक्तस्वभावात् / नच तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च / शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः / नतु तं वयं जगतः स्रष्टारं ब्रूमः / कुत एतत् /
124 SK भेदनिर्देशात् / ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽऽ (बृ. २.४.५), ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. ८.७.१), ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८.१) ऽशारीर आत्मा प्राज्ञेनात्मनान्वारूढःऽ (बृ. ४.३.३५) इत्येवञ्जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति /
125 SK नन्वभेदनिर्देशो ऽपि दर्शितः ऽतत्त्वमसिऽ इत्येवञ्जातीयकः / कथं भेदाभेदौ विरुद्धौ संभवेयाताम् /
22 SK नैष दोषः / आकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठपितत्वात् / अपिच यदा तत्त्वमसीत्येवञ्जातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् / तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः / अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारो नतु परमार्थतो ऽस्तीत्यसकृदवोचाम / जन्ममरणच्छेदनभेदनाद्यभिमानवत् / अबाधिते तु भेदव्यवहारे ऽसे ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ इत्येवञ्जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणो ऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि
2.1.23 SK अश्मादिवच् च तदनुपपत्तिः | BBस्_२,१.२३ |
23 SK यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयो ऽन्ये मध्यमवीर्याः सूर्यकान्तादयो ऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते / यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते / यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति / एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यस्तदनुपपत्तिः / परपरिकल्पितदोषानुपपत्तिर्त्यर्थः / श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः
129 SK FN: किंपाको महातालफलम् /
130 SK ८ उपसंहारदर्शनाधिकरणम्. सू. २४-२५
2.1.24 SK उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि | BBस्_२,१.२४ |
132 SK चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते / कस्मात् / उपसंहारदर्शनात् / इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्राद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते / ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत / तस्मान्न ब्रह्म जगत्कारणमिति चेत् /
133 SK नैष दोषः / यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते / यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमते ऽनपेक्ष्य बाह्यं साधनं तथेहापि भविष्यति /
134 SK ननु क्षीराद्यपि दध्यादिभावेन परिणाममानपेक्षत एव बाह्यं साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धीति /
135 SK नैष दोषः / स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रमनुभवति तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय / यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत / नहि वायुराकाशो वौष्ण्यदिना बलाद्दधिभावमापद्यते / सादनसामग्र्या च तस्य पूर्णता संपाद्यते / परिपूर्णशक्तिकं तु ब्रह्म / न तस्यान्येन केनचित्पूर्णता संपादयितव्या / श्रुतिश्च भवति- ऽन तस्य कार्यं कारणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते / परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च //
24 SK ऽ (श्वे. ६.२) इति / तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते
137 SK FN: कारकाणामुपसंहारो मेलनम् / त्वार्यते शैघ्र्यं कार्यते क्षीरं दधिभावमौष्ण्यादिना /
2.1.25 SK देवादिवद् अपि लोके | BBस्_२,१.२५ |
25 SK स्यादेतत् / उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् / चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै कार्याय प्रवर्तमाना दृश्यन्ते / कथं ब्रह्म चेतनं सदसहायं प्रवर्तेतेति / देवादिवदिति ब्रूमः / यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तो ऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानि शरीरीणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् / तन्तुनाभश्च स्वत एव तन्तून्सृजति / बलाका चान्तरेणैव शुक्रं गर्भं धत्ते / पद्मिनी चानपेक्ष्य किञ्चित्प्रस्तानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते / एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति / स यदि ब्रूयाद्य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्ट्रान्तिकेन ब्रह्मणा न समाना भवन्ति / शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादन उपादानं नतु चेतन आत्मा / तन्तुनाभ्या च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति / बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते / पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेवैव शरीरेण सरोन्तरोपसर्पणे व्याप्रियते / तस्मानैते ब्रह्मणो दृष्टान्ता इति / तं प्रति ब्रूयान्नायं दोषः / कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति / यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतद्वाक्यं देवाद्युदाहरणेन विवक्ष्यामः / तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः
140 SK FN: लोक्यते ज्ञायतेर्ऽथोनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च / अभिध्यानं संकल्पः / यथा भारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः तथा असहायस्यापि ब्रह्मणः कारणत्वम् /
141 SK ९ कृत्स्नप्रसक्त्यधिकरणम् / सू. २६-२९
2.1.26 SK कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा | BBस्_२,१.२६ |
143 SK चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यसाधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् / शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति / कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति,
26 SK निरवयवत्वात् / यदि ब्रह्म पथिव्यादिवत्सावयवमभविष्यत्ततो ऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत् / निरवयवं तु ब्रह्म श्रुतिभ्यो ऽवगम्यते- ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे. ६.१९), ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजःऽ (मु. २.१.२), ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवऽ (बृ. २.४.१२), ऽस एष नेति नेत्यात्माऽ (बृ. ३.९.२६), ऽअस्थूलमनणुऽ (बृ. ३.८.८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः / ततश्चैकदेशपरिणामसंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत / द्रष्टव्यतोपदेशानर्थक्यं चापन्नमयत्नद्रष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणो ऽसंभवात् अजत्वादिशब्दकोपश्च / अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुष्येयुः / सावयवत्वे चानित्यत्वप्रसङ्ग इति / सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति
145 SK FN: पर्यणंस्यत् परिणतो ऽभविष्यत् / एकदेशश्चावस्थास्यदपरिणतो ऽभविष्यत् /
2.1.27 SK श्रुतेस् तु शब्दमूलत्वात् | BBस्_२,१.२७ |
147 SK तुशब्देनाक्षेपं परिहरति / न खल्वस्मत्पक्षे कश्चिदपि दोषो ऽस्ति / न तावत्कृत्स्नप्रसक्तिरस्ति / कुतः / श्रुतेः / यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत एवं विकारव्यतिरेकेणापि ब्रह्मणो ऽवस्तानं श्रूयते, प्रकृतिविकारयोर्भेदेन व्यपदेशात् ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२) इति, ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः / पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इति चैवञ्जातीयकात् / तथा हृदयायतनत्ववचनात्सत्संपत्तिवचनाच्च / यदि च कृत्स्नं ब्रह्म कार्याभावेनोपयुक्तं स्यात् ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. ६.८१) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् / विकृतेन ब्रह्मणा नित्यसंपन्नत्वादिविकृतस्य च ब्रह्मणो ऽभावात् / तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः / तस्मादस्त्यविकृतं ब्रह्म / नच निरवयवत्वशब्दकोपो ऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् / शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् / शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च / लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते / ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते ऽस्य वस्तुन एतावत्य एतत्सहाय एतद्विषया एतत्प्रयोजनाश्च शक्तय इति / किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत / तथाचाहुः पौराणिकाः - ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् / प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् //
148 SK ऽ इति तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः /
149 SK ननु शब्देनापि न शक्यते विरुद्धोर्ऽथः प्रत्याययितुं निरवयवं च ब्रह्म परिणमते नच कृत्स्नमिति / यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत / कृत्स्नमेव वा परिणमेत / अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत / क्रियाविषये हि ऽअतिरात्रे षोडशिनं गृह्णातिऽ ऽनातिरात्रे षोडशिनं गृह्णातिऽ इत्येवञ्जातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वाच्चानुष्ठानस्य / इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवत्यपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुर्घटमेतदिति /
27 SK नैष दोषः / अविद्याकल्पितरूपभेदाभ्युपगमात् / नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते / नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानो ऽनेक एव भवति / अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते / पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणमतवतिष्ठते / वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति / नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् / सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिफलावगमात् / ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्याह- ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. ४.२.४) इति / तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गो ऽस्ति
2.1.28 SK आत्मनि चैवं विचित्राश् च हि | BBस्_२,१.२८ |
28 SK अपिच नैवात्र विवदितव्यं कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति / यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते- ऽन तत्र रथा न रथयोगो न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजतेऽ ( बृ. ४.३.१०) इत्यादिना / लोके ऽपि देवादिषु मायाव्यादिषु च स्वप्नरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते / तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति
2.1.29 SK स्वपक्षदोषाच् च | BBस्_२,१.२९ |
154 SK परेषामप्येष समानः स्वपक्षे दोषः / प्रधानवादिनो ऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं साववस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः / तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा /
155 SK ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते, सत्त्वरजस्तमांसि त्रयो गुणा नित्यास्तेषां साम्यावस्था प्रधाने तैरेवावयवैस्तत्सावयवमिति / नैवञ्जातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते / यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् / एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य / तर्कप्रतिष्ठानात्सावयवत्वमेवेति चेत् /
29 SK एववमप्यनित्यत्वादिदोषप्रसङ्गः / अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः / तास्तु ब्रह्मवादिनो ऽप्यवशिष्टाः / तथाणुवादिनो ऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः / अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षे ऽपि समान एष दोषः / समानत्वाच्च नान्यन्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति / परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः
157 SK FN: वैशेषिकाणां ह्यणुभ्यां संयुज्य ह्यणुकमेकमारभ्यते, तैस्त्रिभिर्ह्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया /
158 SK १० सर्वोपेताधिकरणम् / सू. ३०-३१
2.1.30 SK सर्वोपेता च तद्दर्शनात् | BBस्_२,१.३० |
30 SK एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् / तत्पुनः कथमवगम्यते परं ब्रह्मेति / तदुच्यते / सर्वोपेता च तद्दर्शनात् / सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् / कुतः / तद्दर्शनात् / यथाहि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः - ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो ऽवाक्यनादरःऽ (छा. ३.१४.४), ऽसत्यकामः सत्यसंकल्पःऽ (छा. ८.७.१), ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. १.१.९), ऽएतस्य वा अक्षरस्य प्रशासने गार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ. ३.८.९) इत्येवञ्जातीयका
161 SK FN: अभ्यात्तः अभितोव्याप्तः / अवाकी वागिन्द्रियशून्यः / अनादरो निष्कामः /
2.1.31 SK विकरणत्वान् नेति चेत् तद् उक्तम् | BBस्_२,१.३१ |
163 SK स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम्- ऽअचक्षुष्कमश्रोत्रमवागमनाःऽ (बृ.३.८.८) इत्येवञ्जातीयकम् / कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् / देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यत्मिककार्यकरणसंपन्ना एव तस्मैतस्मै कार्याय प्रभवन्तो विज्ञायन्ते / कथञ्च ऽनेति नेतिऽ (बृ. ३.९.२३) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेदिति चेत् /
31 SK यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् / श्रत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् / नच यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमो ऽस्तीति / प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव / तथाच शास्त्रम्- ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णःऽ (श्वं. ३.१९) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति
165 SK ११ प्रयोजनवत्त्वाधिकरणम्. सू. ३२-३३
2.1.32 SK न प्रयोजनवत्त्वात् | BBस्_२,१.३२ |
32 SK अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति / न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति / कुतः / प्रयोजनवत्त्वात्प्रवृत्तीनाम् / चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनामारभमाणो दृष्टः / किमुत गुरुतरसंरम्भाम् / भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः- ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवतिऽ (बृ. २.४.५) इति गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् / यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तित्वं परमात्मनः श्रूयमाणं बाध्येत / प्रयोजनाभावे वा प्रवृत्त्यभावो ऽपि स्यात् / अथ चेतनो ऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत / तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत / तस्मादश्लिष्टा चेतनात्सृष्टिरिति
168 SK FN: बुद्ध्यपराधो विवेकाभावः /
2.1.33 SK लोकवत् तु लीलाकैवल्यम् | BBस्_२,१.३३ |
170 SK तुशब्देनाक्षेपं परिहरति / यथा लोके कस्यचिदाप्तैषणस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयो ऽनभिसंधाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव संभवन्ति एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति / न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति / नच स्वभावः पर्यनुयोक्तुं शक्यते /
33 SK यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्वरस्य लीलैव केवलेयं, अपरिमितशक्तित्वात् / यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः / नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च / नचेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात्, ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम्
172 SK FN: व्यतिरिक्तं लीलायाः सकाशादिति यावत् /
173 SK सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः /
174 SK वैषम्यनैर्घृण्याधिकरणम् / सू. ३४-३६
2.1.34 SK वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति | BBस्_२,१.३४ |
176 SK पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय / नेश्वरो जगतः कारणमुपपद्यते / कुतः / वैषम्यनैर्घृण्यप्रसङ्गात् / कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीनीत्येवं विषमां सृष्टिं निर्मिमाणस्यैश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः /
34 SK श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत / तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत / तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः - वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते / कस्मात् / सापेक्षत्वात् / यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च / नतु निरपेक्षस्य निर्मातृत्वमस्ति / सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते / किमपेक्षत इति चेत् / धर्माधर्मावपेक्षत इति वदामः / अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्लवरस्यापराधः / ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः / यथाहि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं क्षवति / देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्त्येवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति / कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति / तथाहि दर्शयति श्रुतिः - ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौ.ब्रा. ३.८) इति / ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽ (बृ. ३.२.१३) इति च / स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतत्वं च दर्शयति- ऽये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्ऽ (भ.गी. ४.११) इत्येवञ्जातीयका
178 SK FN: पृथग्जनः पामरः /
179 SK यं जनुमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः /
2.1.35 SK न कर्माविभागाद् इति चेन् नानादित्वाद् | BBस्_२,१.३५ |
181 SK ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् / सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत / अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम / प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणो ऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् /
35 SK नैष दोषः / अनादित्वात्संसारस्य / भवेदेष दोषो यद्यादिमान्संसारः स्यात् / अनादौ तु संसारे बीजाङ् कुरवद्धेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते
183 SK कथं पुनरवगम्यते ऽनादिरेष संसार इति / अत उत्तरं पठति -
2.1.36 SK उपपद्यते चाप्य् उपलभ्यते च | BBस्_२,१.३६ |
36 SK उपपद्यते च संसारस्यानादित्वम् / आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् / नचेश्वरो वैषम्यहेतुरित्युक्तम् / नचाविद्या केवला वैषम्यस्य कारणं, एकरूपत्वात् / रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् / नच कर्मान्तरेण शरीरं संभवति, नच शरीरमन्तरेण कर्म संभवतीतीतरेतराश्रयत्वप्रसङ्गः / अनादित्वे तु बीजाङ् कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति / उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः / श्रुतौ तावत् ऽअनेन जीवेनात्मनाऽ (छा. ६.३.२) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति / आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणादधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे ऽभिलप्येत / नच धारयिष्यतीत्यतो ऽभिलप्येत / अनागताद्धि संन्धादतीतः संबन्धो बलवान्भवति, अभिनिष्पन्नत्वात् / ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्ऽ (ऋ.सं १०.१९०.३) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति / स्मृतावप्यनादित्वं संसारस्योपलभ्यते- ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽ (गी. १५.३) इति / पुराणे चातीतानागतानां च कल्पनां न परिमाणमस्तीति स्थापितम्
186 SK १३ सर्वधर्मोपपत्त्यधिकरणम्. सू. ३७
2.1.37 SK सर्वधर्मोपपत्तेश् च | BBस्_२,१.३७ |
37 SK चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः / इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति / यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ऽसर्वज्ञं सर्वशक्ति महामायं च ब्रह्मऽ इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति
1 SK इति श्रीगोविन्दभगवत्पूज्यपादशिष्यशङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य प्रथमः पादः समाप्तः
190 SK ____________________________________________________________________________________________ ____________________________________________________________________________________________
2.2.1 SK रचनानुपपत्तेश् च नानुमानं | BBस्_२,२.१ |
1 SK यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तं न तर्क्शास्त्रवत् देवलाभिर् युक्तिभिः कंचित् सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् / तथापि वेदान्तवाक्यम् अपि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि सांख्यादिदर्शनानि निराकरणीयाणीति तदर्थः परः पादः प्रवर्तते / वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात् तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतं तद्द्यभ्यर्हितं परपक्षप्रत्याख्यानाद् इति / ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनम् एव केवलं कर्तुं युक्तं किं परपक्षनिराकरणेन परद्वेषकरेण / बाढम् एवम् / तथापि महाजनपरिगृहीतानि महान्ति सांख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत् केषांचिन् मन्दमतीनाम् एतान्य् अपि सम्यग्दर्शनायोपदेयानीत्यपेक्षा / तथा युक्तगाढत्वसंभवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेष्वित्यतस्तदसारतोपपादनाय प्रयत्यते / ननु ऽईक्षतेर्नाशब्दम्ऽ (ब्र,सू. १.१.५), ऽकामाच्च नानुमानापेक्षाऽ (ब्र,सू. १.१.१८) ऽएतेन सर्वे व्याख्याता व्याख्याताःऽ (ब्र,सू. १.४.२८) इति च पूर्वत्रापि सांख्यादिपक्षप्रतिक्षेपः कृतः, किं पुनः कृतकरणेनेति / तदुच्यते- सांख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुणेनैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्यनाभासं न सम्यग्व्यख्यानमित्येतावत्पूर्वं कृतम् / इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः / तत्र सांख्या मन्यन्ते- यथा घटशरावादयो भेदा मृदात्मनान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, तथा सर्व एव बाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्विका भवितुमर्हन्ति / यत्तत्सुखदुःखमोहात्मकं सामान्यं तत्त्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना विवर्तत इति / तथा परिणामादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिनुते / तत्र वदामः - यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किञ्चिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम् / गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते / तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यम्, आध्यत्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः संभाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् / लोष्टपाषाणादिष्वदृष्टत्वात् / मृदादिष्वपि कुमभकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते तद्वत्प्रधानस्यापि चेतनान्तरादिष्ठितत्वप्रसङ्गः / नच मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयं न बाह्यकुम्भकारादिव्यपाश्रयेणेति किञ्चिन्नियामकमस्ति / नचैवं सति किञ्चिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते चेतनकारणसमर्पणात् / अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमन्तव्यं भवति / अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति / नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः / तन्निमित्तत्वप्रतीतेश्च / शब्दाद्यविशेषे ऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः / तथा परिमितानां भेदानां मूलाङ् कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपीर्वकत्वप्रसङ्गः परिमितत्वविशेषात् / कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम्
193 SK FN: अपदेशेन व्याजेन /
2.2.2 SK प्रवृत्तेश् च | BBस्_२,२.२ |
195 SK आस्तां तावदियं रचना / तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात्प्रच्युतिः सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिर्विशिष्टकार्याभिमुखप्रवृत्तिता सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च / नहि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते दृष्टाच्चादृष्टिसिद्धिः / अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति /
196 SK ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा /
197 SK सत्यमेतत् / तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिदृष्टा / नत्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा / किं पुनरत्र युक्तम् / यस्मिन्प्रवृत्तिर्दृष्टा तस्य सोत यतसंयुक्तस्य दृष्टा तस्य सेति /
198 SK ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तमुभयोः प्रत्यक्षत्वात् / नतु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः / प्रवृत्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः केवलाचेतनरथादिवैलक्षण्यं जीवदेहस्य दृष्टमिति / अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लौकायतिकाः प्रतिपन्नाः / तस्मादचेतनस्यैव प्रवृत्तिरिति /
199 SK तदभिधीयते- न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति / भवतु तस्यैव सा / सा तु चेतनाद्भवतीति ब्रूमः / तद्भावे भावात्तदभावे चाभावात् / यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशलक्षणा विक्रियानुपलभ्यमानापि च केवले ज्वलने ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत् / लौकायतिकानामपि चेतन एव देहो ऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् /
200 SK ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् /
201 SK न / अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः / यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितो ऽप्ययसः प्रवर्तको भवति / यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तकाभवन्ति / एवं प्रवृत्तिरहितो ऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम् /
202 SK एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् /
2 SK न / अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् / तस्मात्संभवति प्रवृत्तिः सर्वज्ञकारणत्वे नत्वचेतनकारणत्वे
204 SK FN: उभयोः प्रवृत्तितदाश्रययोः /
2.2.3 SK पयो ऽम्बुवच् चेत् तत्रापि | BBस्_२,२.३ |
206 SK स्यादेतत् / यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथाच जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति /
3 SK नैतत्साधूच्यते / यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे / उभयवादिप्रसिद्धे रथादवचेतने केवले प्रवृत्त्यदर्शनात् / शास्त्रं च ऽयो ऽप्सु तिष्ठन् यो ऽपो ऽन्तरो यमयतिऽ (बृ. ३.७.४), ऽएतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योन्या नद्यः स्यन्दन्तेऽ (बृ. ३.८.९) इत्येवञ्जातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति / तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः / चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः / वत्सचोषणेन च पयस आकृष्यमाणत्वात् / नचाम्बुनो ऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य / चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् / ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र.सू. २.१.२४) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् / शास्त्रदृष्ट्या तु पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते
208 SK FN: साध्यवत्ता पक्षेण तुल्यत्वात् / अनुपन्यासः न विचारभूमिः /
2.2.4 SK व्यतिरेकानवस्थितेश् चानपेक्षत्वात् | BBस्_२,२.४ |
4 SK सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम् / नतु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्तितमस्ति / पुरुषस्तूदासीनो न प्रवर्तको न निवर्तक इत्यतो ऽनपेक्षं प्रधानं, अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम् / ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते
2.2.5 SK अन्यत्राभावाच् च न तृणादिवत् | BBस्_२,२.५ |
212 SK स्यादेतत् / यथा तृणपल्लवोदादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमत एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति / कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते / निमित्तान्तरानुपलम्भात् / यदि हि किञ्चिन्निमित्तमुपलभेमहि ततो यथाकामं तेन तृणाद्युपादाय क्षीरं संपादयेमहि, नतु संपादयामहे /
213 SK तस्मात्स्वाभाविकस्तृणादेः परिणामस्तथा प्रधानस्यापि स्यादिति /
5 SK अत्रोच्यते- भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परणामो यदि तृणादेरपि स्वाभाविकः परिणामो ऽभ्युपगम्येत / नत्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः / कथं निमित्तान्तरोपलब्धिः, अन्यत्राभावात् / धेन्वैव ह्युपयुक्तं तृणादि क्षीरो भवति न प्रहीणमनडुदाद्युपयुक्तं वा / यदि हि निर्निमित्तमेतत्स्याद्धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरीभवेत् / नच यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्निमित्तं भवति / भवति हि किञ्चित्कार्यं मानुषसंपाद्यं किञ्चिद्दैवसंपाद्यम् / मनुष्या अपि शक्नुवत्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम् / प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति / ततश्च प्रभूतं क्षीरं लभन्ते / तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः
215 SK FN: प्रहीणं नष्टम् /
2.2.6 SK अभ्युपगमे ऽप्य् अर्थाभावात् | BBस्_२,२.६ |
6 SK स्वाभाविकी प्रधानप्रवृत्तिर्न भवतीति स्थापितम् / अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषो ऽनुषज्येतैव / कुतः / अर्थाभावात् / यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किञ्चिन्नापेक्षत एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यते इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत / स यदि ब्रूयात्सहकार्येव केवलं नापेक्षते न प्रयोजनमपीति / तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यं भोगो वा स्यादपवर्गो वोभयं वेति / भोगश्चेत्कीदृशो ऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् / अनिर्मोक्षप्रसङ्गश्च अपवर्गश्चेत्प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् / शब्दाद्यनुपलब्धिप्रसङ्गश्च / उभयार्थताभ्युपगमे ऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव / नचौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः / नहि प्रधानस्याचेतनस्यौत्सुक्यं संभवति / नच पुरषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् / दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिस्तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव / तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्
218 SK FN: अर्थाभावात् पुरुषार्थाभावप्रसङ्गात् /
219 SK सुखदुःख प्राप्तिपरिहाररूपातिशयशून्यस्य /
220 SK मीयन्ते भुज्यन्ते इति मात्रा भोगाः /
2.2.7 SK पुरुषाश्मवद् इति चेत् तथापि | BBस्_२,२.७ |
222 SK स्यादेतत् / यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिशक्तिहीनः पङ्गुरपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिहीनमन्धमधिष्ठाय प्रवर्तयति / यथा वायस्कान्तो ऽश्मा स्वयमप्रवर्तमानो ऽप्ययः प्रवर्तयति / एवं पुरुषः प्रधानं प्रवर्तयिष्यतीति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम् /
7 SK अत्रोच्यते- तथापि नैव दोषान्निर्मोक्षो ऽस्ति / अभ्युपेतहानं तावद्दोष आपतति / प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात्, पुरुषस्य न प्रवर्तकत्वानभ्युपगमात् / कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् / पङ्गुरपि ह्यन्धं वागादिभिः पुरुषं प्रवर्तयति / नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारो ऽस्ति, निष्क्रियत्वाच्च / नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत् / संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् / अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः, परिमार्जनाद्यपेक्षा चास्यस्तीत्यनुपन्यासः पुरुषाश्मवदिति / तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संबन्धयितुरभावात्संबन्धानुपपत्तिः / योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः / पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः / परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यं मायाव्यपाश्रयं च प्रवर्तकत्वमित्यस्त्यतिशयः
2.2.8 SK अङ्गित्वानुपपत्तेश् च | BBस्_२,२.८ |
8 SK इतश्च न प्रधानस्य प्रवृत्तिरवल्पते / यद्धि सत्त्वरजस्तमसामान्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानं सा प्रधानावस्था / तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गिभावानुपपत्तेः / बाह्यस्य च कस्यचित्क्षोभयितुरभावाद्गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात्
2.2.9 SK अन्यथानुमितौ च ज्ञशक्तिवियोगात् | BBस्_२,२.९ |
227 SK अथापि स्यादन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोषः प्रसज्येत / नह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात् / कार्यवशेन तु गुणानां स्वभावो ऽभ्युपगम्यते /
228 SK यथा यथा कार्योत्पाद उपपद्यते तथा तथैषां स्वभावो ऽभ्युपगम्यते / चलं गुणवृत्तमिति चास्त्यभ्युपगमः / तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति / एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव / ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत /
9 SK चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् / वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् / भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन्निति प्रसज्यत एवायमनन्तरो ऽपि दोषः
2.2.10 SK विप्रतिषेधाच् चासमञ्जसम् | BBस्_२,२.१० |
231 SK परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः / क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश / तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहङ्कीरात् / तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति क्वचिदेकमिति / प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या / तस्मादप्यसमञ्जसं सांख्यानां दर्शनमिति /
232 SK अत्राह- नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् / एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यं स्यात् /
233 SK यदि चेतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यां तप्यतापकाभ्यां न निर्मुच्यत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् / नह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते / यो ऽपिजलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादन्यो विशेषा आविर्भावतिरोभावरूपेण नित्या एवेति समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः / प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके / तथाहि- अर्थी चार्थश्चान्योन्यभिन्नौ लभ्येते / यद्यर्थिनः स्वतो ऽन्योर्ऽथो न स्यात्, यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात्, यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति / अप्राप्ते ह्यर्थे ऽर्थिनो ऽर्थित्वं स्यादिति / तथार्थास्याप्यर्थत्वं न स्यात् / यदि स्यात्स्वार्थत्वमेव स्यात् / नचैतदस्ति / संबन्धिशब्दो ह्येतावर्थी चार्थश्चेति / द्वयोश्च संबन्धिनोः संबन्धः स्यान्नैकस्यैव / तस्माद्भिन्नावेतावर्थार्थिनौ / तथानर्थानर्थिनावपि / अर्थिनो ऽनुकूलोर्ऽथः प्रतिकूलो ऽनर्थस्ताभ्यामेकपर्यायेणोभाभ्यां संबध्यते / तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थानर्थावनर्थं एवेति तापकः स उच्यते / तप्यस्तु पुरुषो य एकः पर्यायेणोभाभ्यां संबध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः / जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति /
234 SK अत्रोच्यते- न / एकत्वादेव तप्यतापकभावानुपपत्तेः / भवेदेष दोषो यद्येकात्मतायां तप्यतापकावान्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् / नत्वेतदस्त्येकत्वादेव / नह्यग्निरेकः सन्स्वमात्मानं दहति प्रकाशयति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च / किं कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः संभवेत् / क्व पुनरयं तप्यतापकभावः स्यादिति /
235 SK उच्यते- किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यस्तापकः सवितेति /
236 SK ननु तप्तिर्नाम दुःखं सा चेतयितुर्नाचेतनस्य देहस्य / यदि हि देहस्यैव तप्तिः स्यात्सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति /
237 SK उच्यते- देहाभावे ऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा / नच त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते / नापि देहचेतनयोः संहतत्वमशुद्ध्यादिदोषप्रसङ्गात् / नच तप्तेरेव तप्तिमभ्युपगच्छति /
238 SK कथं तवापि तप्यतापकभावः सत्त्वं तप्यं तापकं रज इति चेत् /
239 SK न / ताभ्यां चेतनस्य संहतत्वानुपपत्तेः / सत्त्वानुरोधित्वाच्चेतनो ऽपि तप्यत इवेति चेत्, परमार्थतस्तर्हि नैव तप्यत इत्यापततीवशब्दप्रयोगात् / न चेत्तप्यते नेवशब्दो दोषाय / नहि डुण्डुभः सर्पं इवेत्येतावता सविषो भवति / सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति / अतश्चाविद्याकृतो ऽयं तप्यतापकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति / नैवं सति ममापि किञ्चिद्दुष्यति / अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्षः प्रसज्येत , नित्यत्वाभ्युपगमाच्च तापकस्य / तप्यतापकशक्त्योर्नित्यत्वे ऽपि सनिमित्तसंयोगापेक्षत्वापत्तेः संयोगनिमित्तादर्शननिवृत्तावात्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्न इति चेत् /
10 SK न / अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् / गुणानां चोद्भावाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्सांख्यस्यैवानिर्मोक्षो ऽपरिहार्यः स्यात् / औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तेर्विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादनिर्मोक्षशङ्का स्वप्ने ऽपि नोपजायते / व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न चोदयितव्यः परिहर्तव्यो वा भवति
241 SK FN: त्वड्यात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, सर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि /
242 SK ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश /
243 SK बुद्धिरहङ्कारो मन इति त्राणि /
245 SK २ महद्दीर्घाधिकरणम् / सू. ११
246 SK प्रधानकारणवादो निराकृतः / परमाणुकारणवाद इदानीं निराकर्तव्यः / तत्रादौ तावद्यो ऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते / तत्रायं वैशेषिकाणामभ्युपगमः - कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्ययादर्शनाच्च / तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वे ऽभ्युपगम्यमाने कार्ये ऽपि जगति चेतन्यं समवेयात् / तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति / इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति-
2.2.11 SK महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् | BBस्_२,२.११ |
248 SK एषा तेषां प्रक्रिया- परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमण्डल्यपरिमाणश्च तिष्ठन्ति / ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते / कारणगुणाश्च कार्ये गुणान्तरम् / यदा द्वौ परमाणू द्व्यणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शक्लादीनपरानारभन्ते / परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् / अणुत्वह्रस्वत्वे हि द्व्यमुकवर्तिनी परिमाणे वर्णयन्ति / यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् / अणुत्वह्रस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वादीर्घत्वपरिमाणयोगाभ्युपगमात् /
249 SK यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्यमारभते तदापि समानैषा योजना / तदेवं यथा परमाणोः परिमण्डलात्सतो ऽणु ह्रस्वं च द्व्यणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलम्, यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो ह्रस्वम्, एवं चेतनाद्ब्रह्मणो ऽचेतनं जगज्जनिष्यत इत्यब्युपगमे किं तव च्छिन्नम् / अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादीत्यतो नारम्भकाणि कारणगतानि पारिमण्डल्यादीनीत्यभ्युपगच्छामि, नतु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत / नह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणो ऽस्ति, चेतनाप्रतिषेधमात्रत्वात् / तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति /
250 SK नैवं मंस्थाः / यथा कारणे विद्यमानानामपि पारिमाण्डल्यादिनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् / नच परिमाणान्तरक्रान्तत्वं पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः / आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् / नच परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् / ऽकारणबहुत्वात्कारणमहत्वात्प्रचयविशेषाच्च महत्ऽ (वै. सू. ७.१.९) ऽतद्विपरीतमणुऽ (७.१.१० ) ऽएतेन दीर्घत्वह्रस्वत्वे व्याख्यातेऽ (७.१.१७) इति हि काणभुजानि सूत्राणि / नच संनिधानविशेषात्कुतश्च्त्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत, द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायविशेषात् / तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं, तथा चेतनाया अपीति द्रष्टव्यम् / संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचारः / द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेत् /
251 SK न / दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात् / नच द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति / सूत्रकारो ऽपि भवतां द्रव्यस्य गुणमुदाजहार- ऽप्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यतेऽ (वै. सू. ४.२.२) इति / यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन्संयोगो ऽप्रत्यक्ष एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् / प्रत्यक्षं हि शरीरम् / तस्मान्न पाञ्चभौतिकमिति / एतदुक्तं भवति- गुणश्च संयोगो द्रव्यं शरीरम् / ऽदृश्यते तुऽ (ब्र. सू. २.१.६) इति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता /
252 SK नन्वेवं सति तेनैवैतद्गतम् /
253 SK नेति ब्रूमः / तत्सांख्यं प्रत्युक्तम्, एतत्तु वैशेषिकं प्रति /
11 SK नन्वतिदेशो ऽपि समानन्यायतया कृतः ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽ (ब्र.सू. २.१.१२) इति / सत्यमेतत् / तस्यैव त्वयं वैशेषिकप्रक्रियारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः
255 SK FN: परमाणुः परिमण्डलः तद्गतं परिमाणं पारिमाण्डल्यम् /
256 SK द्वे द्वे इति पठितव्यम् /
257 SK ३ परमाणुजगदकारणत्वाधिकरणम् / सू. १२-१७
2.2.12 SK उभयथापि न कर्मातस्तदभावः | BBस्_२,२.१२ |
12 SK इदानीं परमाणुकारणवादं निराकरोति / स च वाद इत्थं समुत्तिष्ठत- पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतेरैव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि / तत्सामान्येन यावत्किञ्चित्सावयवं तत्सर्वं स्वानुगतेरैव संयोगसचिवैस्तैर्द्रव्यैरारब्धमिति गम्यते / स चायमवयवावयविविभागो यतो निवर्तते सो ऽपकर्षपर्यन्तगतः परमाणुः / सर्वं चेदं जगद्गिरिसमुद्रादिकं सावयवं, सावयवत्वाच्चाद्यन्तवत् / नचाकारणेन कार्येण भवितव्यमित्यतः परमाणवो जगतः कारणमिति कणभुगभिप्रायः / तानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्वनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति स प्रलयकालः / ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संनियुक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते / एवमग्निरेवमाप एवं पृथिवी / एवमेव शरीरं सेन्द्रियमिति / एवं सर्वमिदं जगदणुभ्यः संभवति / अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि संभवन्ति तन्तुपटन्यायेनेति काणादा मन्यन्ते / तत्रेदमभिधीयते- विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षो ऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात् / कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् / अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्मस्यात् / अभ्युपगमे ऽपि यदि प्रयत्नो ऽभिघातादिर्वा (अथा)यथादृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात् / नहि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति शरीराभावात् / शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सत्यात्मगुणः प्रयत्नो जायते / एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यतव्यम् / सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति / अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा / उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेतादृष्टस्याचेतनत्वात् / नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यप्रक्रियायामभिहितम् / आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् / आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यादसंबन्धात् / अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्, संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गो नियामकान्तराभावात् / तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् / कर्माभावात्तनिबन्धनः संयोगो न स्यात् / संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् / संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यादेकदेशेन वा / सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गो दृष्टविपर्ययप्रसङ्गश्च / प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् / एकदेशेन चेत्सावयवत्वप्रसङ्गः / परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् / कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात् / असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत / यथाचादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवत्येवं महाप्रलये ऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् / नहि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति / अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमित्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म / अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत / तस्मादनुपपन्नो ऽयं परमाणुकारणवादः
260 SK FN: स्वानुगतैः स्वसंबद्धैः / संबन्धश्चाधार्याधारभूतः प्रत्ययहेतुः समुदायः /
2.2.13 SK समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः | BBस्_२,२.१३ |
262 SK समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन संबध्यते / द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता / नचैवमभ्युपगच्छता शक्यते ऽणुकारणता समर्थयितुम् / कुतः / साम्यादनवस्थितेः / यथैव ह्यणुभ्यामत्यन्तभिन्नं सद्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यत एवं समवायो ऽपि समवायिभ्यो ऽत्यन्तभिन्नः सन्समवायलक्षणेनान्येनैव संवन्धेन समवायिभिः संबध्येतात्यन्तभेदसाम्यात् / ततश्च तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत /
263 SK नन्विह प्रत्ययग्राह्यः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्यते नासंबद्धः संबन्धान्तरापेक्षो वा / ततश्च न तस्यान्यः संबन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति /
13 SK नेत्युच्यते / संयोगो ऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत / अथार्थान्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत, समवोयो ऽपि तर्ह्यर्थान्तरत्वात्संबन्धान्तरमपेक्षेत / नच गुणत्वात्संयोगः संबन्धान्तरमपेक्षते न समवायो ऽगुणत्वादिति युज्यते वक्तुम् / अपेक्षाकारणस्य तुल्यत्वात् / गुणपरिभाषायाश्चातन्त्रत्वात् / तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था / प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुक नैवोत्पद्येत / तस्मादप्यनुपपन्नः परमाणुकारणवादः
2.2.14 SK नित्यम् एव च भावात् | BBस्_२,२.१४ |
14 SK अपिचाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वानुभयस्वभावा वाभ्युपगम्यन्ते गत्यन्तराभावात् / चतुर्धापि नोपपद्यते / प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः / निवृत्तिस्वभावत्वे ऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः / उभयस्वभावत्वं च विरोधादसमञ्जसम् / अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गात् / अतन्त्रत्वे ऽप्यदृष्टादेरनित्याप्रवृत्तिप्रसङ्गात् / तस्मादप्यनुपपन्नः परमाणुकारणवादः
2.2.15 SK रूपादिमत्त्वाच् च विपर्ययो दर्शनात् | BBस्_२,२.१५ |
268 SK सावयवानां द्रव्याणामवयववशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्बन एव / यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत / परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः / कुतः / एवं लोके दृष्टत्वात् / यदि लोके रूपादिमद्वस्तु तत्स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम् / तद्यथा पटस्तन्तूनपेक्ष्य स्थूले ऽनित्यश्च भवति तन्तवश्चंशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति, तथाचामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते, तस्मात्ते ऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति / यच्च नित्यत्वे कारणं तैरुक्तम्- ऽसदकारणवन्नित्यम्ऽ (वै. सू. ४.१.१) इति / तदप्येवं सत्यणुषु न संभवति / उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः / यदपि नित्यत्वे द्वितीयं कारणमुक्तम्- ऽअनित्यमिति च विशेषतः प्रतिषेधाभावःऽ (वै. सू. ४.१.४) इति / तदपि नावश्यं परमाणूनां नित्यत्वं साधयति / असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते / न पुनः परमाणुनित्यत्वमेवापेक्ष्यते /
15 SK तच्चास्त्येव नित्यं परमकारणं ब्रह्म / नच शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् / यदपि नित्यत्वे तृतीयं कारणमुक्तम्- ऽअविद्या चऽ (वै. सू. ४.१.५) इति, तद्यद्येवं विव्रीयते सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत / अथाद्रव्यत्वे सतीति विशेष्येत तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमाद्येत / तस्य च प्रागेवोक्तत्वात् ऽअविद्या चऽ इति पुनरुक्तं स्यात् / अथापि कारणविभागात्कारणविनाशाच्चन्यस्य तृतीयस्य विनाशहेतोरसंभवो ऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्याख्यायेत / नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतिति नियमो ऽस्ति / संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भके ऽभ्युपगम्यमान एतदेवं स्यात् / यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते / तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम् / तस्मादप्यनुपपन्नः परमाणुकारणवादः
2.2.16 SK उभयथा च दोषात् | BBस्_२,२.१६ |
271 SK गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुरित्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते / तद्वत्परमाणवो ऽप्युपचितापचितगुणाः कल्प्येरन्न वा / उभयथापि च दोषानुषङ्गो ऽपरिहार्य एव स्यात् / कल्प्यमाने तावदुपचितापचितगुणत्व उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः / नचान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्यते, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् / अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्वं एकैकगुणा एव कल्प्येरंस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः, पृथिव्यां च रसरूपस्पर्शानां,
16 SK कारणगुणपूर्वकत्वात्कार्यगुणानाम् / अथ सर्वे चतुर्गुणा एव कल्प्येतन्, ततो ऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् / नचैवं दृश्यते / तस्मादप्यनुपपन्नः परमाणुकारणवादः
273 SK FN: मूर्त्युपचयात् स्थौल्यादित्यर्थः /
2.2.17 SK अपरिग्रहाच् चात्यन्तम् अनपेक्षा | BBस्_२,२.१७ |
275 SK प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः / अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः / अपिच वैशेषिकास्तन्त्रार्थभूतान्षट्पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान्भिन्नलक्षणानभ्युपगच्छन्ति / यथा मनुष्यो ऽश्वः शश इति / तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणमभ्युपगच्छन्ति / तन्नोपपद्यते / कथम् / यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामत्यन्तभिन्नत्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति / अथ भवति द्रव्याधीनत्वं गुणादीनां ततो द्रव्यभावे भावाद्द्रव्याभावे ऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति / यथा देवदत्त एक एव सन्नवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् / तथा सति सांख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम् /
276 SK नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते /
277 SK सत्यं दृश्यते / भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते / इह तु शुक्लः कम्बलो रोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति / तस्माद्द्रव्यात्मकता गुणस्य / एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता / गुणा(दी)नां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्येत, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यादपृथक्कालत्वं वापृथक्स्वभावत्वं वा / सर्वथापि नोपपद्यते / अपृथकग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत / कथम् / तन्त्वारब्धो हि पटष्टन्तुदेशो ऽभ्युपगम्यते न पटदेशः / पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः / तथाचाहुः - ऽद्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्ऽ (वै. सू. १.१.१०) इति / तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते / तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्त इति हि ते ऽभ्युपगच्छन्ति / सो ऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वे ऽभ्युपगम्यमाने बाध्येत /
278 SK अथापृथक्कालत्वमयुतसिद्दत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत / तथापृथक्स्वभावत्वे त्वयुतसिद्धत्वेन द्रव्यगुणयोरात्मभेदः संभवति, तस्य तादात्म्येनैव प्रतीयमानत्वात् / युतसिद्धयोः संबन्धः संयोगो ऽप्युतसिद्धयोस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषां, प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः /
279 SK अथान्यतरापेक्ष एवायमभ्युपगमः स्यादयुतसिद्धस्य कार्यस्य कारणेन संबन्धः समवाय इति, एवमपि प्राग्सिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते द्वयायत्तत्वात्संबन्धस्य / सिद्धं भूत्वा संबध्यत इति चेत्, प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् / यथा चेत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः संबन्धः संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यान्न समवायः / नापि संयोगस्य समवायस्य वा संबन्धव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति / संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् /
280 SK न / एकत्वे ऽपि स्वरूपबाह्यरूपापेक्षयानेकशब्दप्रत्ययदर्शनात् / यथैको ऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति, मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्न्यत्वेन निविशमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथासंबन्धिनोरेव संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तवस्त्वस्तित्वेन , इत्युपलब्दिलक्षणप्राप्तस्यानुपलब्धेरभावो वस्त्वन्तरस्य / नापि संबन्दधिविषयत्वे संबन्धशब्दप्रत्यययोः संततभावप्रसङ्गः / स्वरूपाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् / तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् / कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् /
281 SK न / अविद्यामानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् / इयानेवाविद्यमानो विरुद्धो ऽविरुद्धो वार्थः कल्पनीयो नातो ऽधिक इति नियमहेत्वभावात् / कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभवाच्च / नच वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्यो ऽन्ये ऽधिकाः शतं सहस्रं वार्था न कल्पयितव्या इति निवारको हेतुरस्ति / तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिद्ध्येत् / कश्चित्कृपालुः प्राणिनां दुःखबहुलं संसार एव माभूदिति कल्पयेत् / अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् / कस्तयोर्निवारकः स्यात् / किञ्चान्यत् / द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः / नह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषो ऽस्ति / कार्यकारणद्रव्ययोराश्रिताश्रयभावो ऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् /
282 SK न / इतरेतराश्रयत्वात् / कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः कुण्डबदरवदितरेतराश्रयता स्यात् / नहि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् / किञ्चान्यत् / परमाणूनां परिच्छिन्नत्वाद्यावत्यो दिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत /
283 SK यांस्त्वं दिग्भेदभेदिनो ऽवयवान्कल्पयसि त एव परमाणव इति चेत् /
284 SK न / स्थूलसूक्ष्मतारतम्यक्रमेणापरमकारणाद्विनाशोपपत्तेः / यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजातीयकं विनश्यति, ततो द्व्यणुकं, तथा परमाणवो ऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः /
285 SK विनश्यन्तो ऽप्यवयवविभागेनैव विनश्यन्तीति चेत् /
17 SK नायं दोषः / यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम / यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगाद्द्रवभावापत्त्या काठन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति / तथा कार्यरम्भो ऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात् / तदेवमसारतरतर्कसंदृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुति प्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षास्मिन्परमाणुकारणवादे कार्या श्रेयोर्थिभिरिति वाक्यशेषः
287 SK FN: तथात्वमत्यन्तभिन्नत्वम् /
288 SK सांख्यो ऽत्रवेदान्ती ग्राह्यः / यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् /
289 SK प्रभूतत्वसंभवान्निरवधित्वसंभवात् /
290 SK संश्लेषः संग्रह एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः /
291 SK ४ समुदायाधिकरणम् . सू. १८-२७
2.2.18 SK समुदाय उभयहेतुके ऽपि तदप्राप्तिः | BBस्_२,२.१८ |
18 SK वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् / सोर्ऽधवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः / स च बहुप्रकारः प्रतिपत्तिभेदाद्विनेयभेदाद्वा / तत्रैते त्रयो वादिनो भवन्ति- केचित्सर्वास्तित्ववादिनः, केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिन इति / तत्र ते सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्तं च, तांस्तावत्प्रतिब्रूमः / तत्र भूतं पृथिवीधात्वादयः / भौतिकं रूपादयष्चक्षुरादयश्च / चतुष्टये च पृथिव्यादिपरमाणवः स्वरस्नेहोष्णस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते / तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः / ते ऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्त इति मन्यन्ते / तत्रेदमभिधीयते- यो ऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतो ऽणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुके ऽपि समुदाये ऽभिप्रेयमाणे तदप्राप्तिः स्यात्समुदायाप्राप्तिः / समुदायभावानुपपत्तिरित्यर्थः / कुतः / समुदायिनामचेतनत्वात् / चित्ताभिज्ज्वलनस्य च समुदायसिद्ध्यधीनत्वात् / अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् / आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् / क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः / तस्मात्समुदायानुपपत्तिः / समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत
294 SK FN: भूते भौतिकं बाह्यम्, चित्तं चैत्तं च कामाद्यन्तरमिति विभागः /
295 SK चतुष्टये चतुर्विधाः / स्वराः कठिनाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णस्तैजसाः, ईरणं चलनं स्वभावो वायव्यानामिति /
296 SK सविशेषेन्द्रियाणि रूपस्कन्धः, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदान्तस्कन्धः, गौरश्व इत्येवंनामविशिष्टसविकल्पप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माः संस्कारस्कन्धः /
297 SK आशेरते ऽस्मिन् रागादय इत्याशयः संतानः /
2.2.19 SK इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात् | BBस्_२,२.१९ |
299 SK यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा / तस्यां चोपपद्यमानायां वा किञ्चिदपरमपेक्षितव्यमस्ति / ते चाविद्यादयो ऽविद्या संस्कारो विज्ञानं नाम रूपं षडायतनं स्पर्शा वेदना तृष्णा उपादानं भवो जातिर्जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्तेत्येवञ्जातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः क्वचित्प्रपञ्चिताः / सर्वेषामप्ययमविद्यादिकलापो ऽप्रत्याख्येयः / तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेर्ऽथाक्षिप्त उपपन्नः संघात इति चेत् /
300 SK तन्न / कस्मात् / उत्पत्तिमात्रनिमित्तत्वात् / भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येत / न त्ववगम्यते / यत इतरेतरप्रत्ययत्वे ऽप्यविद्यादीनां पूर्वपूर्वमुत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवेद्भवेन्न तु संघातोत्पत्तेः किञ्चिन्निमित्तं संभवति /
301 SK नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् /
19 SK अत्रोच्यते- यदि तावदयमभिप्रायो ऽविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति, ततस्तस्य संघातस्य निमित्तं वक्तव्यम् / तच्च नित्येष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तेषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम् / किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयिशून्येषु वाभ्युपगम्यमानेषु संभवेत् / अथायमभिप्रायो ऽविद्यादय एव संघातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः / अथ मन्यसे संघाता एवानादौ संसारे संतत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति, तदपि संधातात्संघातान्तरमुत्पद्यमानं, नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत / नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् / अनियमाभ्युपगमे ऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् / उभयमप्यभ्युपगमविरुद्धम् / अपिच यद्भोगार्थः संघातः स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगमः / ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीयः / तथा मोक्षो मोक्षार्थं एवेति मुमुक्षुणा नान्येन भवितव्यम् / अन्येन चेत्प्रार्थ्येतोभयं भोगमोक्षकालावस्थायिना तेन भवितव्यम् / अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः / तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेद्भवतु नाम नतु संघातः सिद्ध्येत् / भोक्त्रभावादित्यभिप्रायः
303 SK FN: कार्यं प्रति अयते गच्छतीति प्रत्ययः कारणम् /
304 SK विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् /
305 SK तृष्ण्या वाक्कायचेष्टोपादानम् /
306 SK हा पुत्र, तातेत्यादिप्रलापः परिदेवना /
307 SK आश्रयेत्यादि भोक्तृविशेषणं अदृष्टाश्रयेष्वित्यर्थः /
2.2.20 SK उत्तरोत्पादे च पूर्वनिरोधात् | BBस्_२,२.२० |
20 SK उक्तमेतदविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघातसिद्धिरस्तीति / तदपि तूत्पत्तिमात्रनिमित्तत्वं न संभवतीतिदमिदानीमुपपाद्यते / क्षणभङ्गवादिनो ऽयमभ्युपगम उत्तरस्मिन्क्षण उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति / नचैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम् / निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः / अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायस्तथापि नोपपद्यते / भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात् / अथ भाव एवास्य व्यापार इत्यभिप्रायस्तथापि नैवोपपद्यते / हेतुस्वभावानुपरक्तस्य फलस्येत्पत्त्यसंभवात् / स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वे सति क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः / विनैव वा स्वभावोपरागेण हेतु फलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः / अपिचोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव वा / सर्वथापि नोपपद्यते / यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः / अस्थास्ति कश्चिद्विशेष इति मन्येतोत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यान्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः / अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्यातामश्वमहिषवत्, ततो वस्तु उत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः / यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम्, एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव / तस्मादप्यसंगतं सौगतं मतम्
310 SK FN: निरुध्यमानत्वं विनाशकसांनिध्यम् / निरुद्धत्वमतीतत्वम् /
2.2.21 SK असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा | BBस्_२,२.२१ |
21 SK क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् / अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात्, ततः प्रतिज्ञोपरोधः स्यात् / चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत / निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत / अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात्ततो यौगपद्यं हेतुफलयोः स्यात् / तथापि प्रतिज्ञोपरोध एव स्यात् / क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत
2.2.22 SK प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् | BBस्_२,२.२२ |
22 SK अपिच वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति / तदपि च क्षयं प्रतिसंख्याप्रतिसंखायानिरोधावकाशं चेत्याचक्षते / त्रयमपि चैतदवस्त्वभावमात्रं निरुपाख्यमिति मन्यन्ते, बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते, तद्विपरीतो ऽप्रतिसंख्यानिरोधः आवरणभावमात्रमाकाशमिति / तेषामाकाशं परस्तात्प्रत्याख्यास्यति / निरोधद्वयमिदानीं प्रत्याचष्टे / प्रतिसंख्याप्रतिसंख्यानिरोधयोरप्राप्तिः / असंभव इत्यर्थः / कस्मात् / अविच्छेदात् / एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ संतानगोचरौ वा स्यातां भावगोचरौ वा / न तावत्संतानगोचरौ संभवतः / सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात् / नापि भावगोचरौ संभवतः / नहि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् / अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् / तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः
315 SK FN: निरुपाख्यं निःस्वरूपम् /
316 SK प्रतीपा प्रतुकूलः संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या तया निरोधः /
2.2.23 SK उभयथा च दोषात् | BBस्_२,२.२३ |
23 SK यो ऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्स्वयमेव वा / पूर्वस्मिन्विकल्पे निहर्तुकविनाशाभ्युपगमहानिप्रसङ्गः / उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः / एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम्
319 SK FN: परिकरा यमनियमादयस्तत्सहितात् /
320 SK सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः /
2.2.24 SK आकाशे चाविशेषात् | BBस्_२,२.२४ |
322 SK यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति, तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् / आकाशस्येदानीं निराक्रियते / आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः / प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् / आगमप्रामाण्यात्तावत् ऽआत्मन आकाशः संभूतःऽ (तै. २.१) इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्राप्तिः / विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यं, गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् / अपि चावरणाभावमात्रमाकाशमिच्छतामेकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतो ऽनवकाशत्वप्रसङ्गः /
323 SK यत्रावरणाभावस्तत्र पतिष्यतीति चेत् /
24 SK येनावरणभावो विशेष्यते तत्तर्हि वस्तुभूतमेवाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत / सौगते हि समये ऽपृथिवी भगवः किंसंनिश्चयाऽ इत्यस्मिन्प्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायुः ऽकिंसंनिश्चयःऽ इत्यस्य प्रश्नस्य प्रतिवचनं भवति ऽवायुराकाशसंनिश्चयःऽ इति / तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् / तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् / अपिच निरोधद्वयमाकाशं च त्रयमप्येतन्निरूपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् / नह्यवस्तुनो नित्यत्वमनित्यत्वं वा संभवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य / धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यान्न निरुपाख्यत्वम्
325 SK FN: पतिष्यति संचरिष्यतीत्यर्थः / किं सम्यक् निश्चय आश्रयो ऽस्या इति किं संनिश्चया /
2.2.25 SK अनुस्मृतेश् च | BBस्_२,२.२५ |
327 SK अपिच वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन्नुपलब्धुरपि क्षणिकतामभ्युपेयात् / नच सा संभवति / अनुस्मृतेः अनुभवमुपलब्धिमनूत्पद्यमानं स्मरणमेवानुस्मृतिः / सा चोपलब्ध्येककर्तृका सती संभवति / पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् / कथं ह्यहमदो ऽद्राक्षमिदं पश्यामीति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् / अपिच दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धो ऽहमदो ऽद्राक्षमिदं पश्यामीति / यदि हि तयोर्भिन्नः कर्ता स्यात्ततो ऽहं स्माराम्यद्राक्षीदन्य इति प्रतीयात् / नत्वेवं प्रत्येति कश्चित् / यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोको ऽवगच्छति, स्मराम्यहमसावदो ऽद्राक्षीदिति / इह त्वहमदो ऽद्राक्षमिति दर्शनस्मरणयोर्विनाशिको ऽप्यात्मानमेवैकं कर्तारमवगच्छति / न नाहमित्यात्मनो दर्शनं निर्वृत्तं निह्नुते यथाग्निरनुष्णो ऽप्रकाश इति वा / तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् / तथानन्तरमनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकामोत्तमादुच्छ्वासादतीताश्च प्रतिपत्तीरा जन्मन आत्मैककर्तृकाः प्रतिसंदधानः कथं क्षणभङ्गवादी वैनाशिको नापपेत स यदि ब्रूयात्सादृश्यादेतत्समपत्स्यत इति / तं प्रतिब्रूयात् / तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात्, सादृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात् / स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथासत्येकस्य क्षणद्वयावस्थ४नात्क्षणिकत्वप्रतिज्ञा पीड्येत / तेनेदं सदृशमिति प्रत्ययान्तरमेवेदं न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमितिचेत् /
25 SK न / तेनेदमिति / भिन्नपदार्थोपादानात् / प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्तेनेदं सदृशमिति वाक्यप्रयोगो ऽनर्थकः स्यात् / सादृश्यमित्येव प्रयोगः प्राप्नुयात् / यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते तदा स्वपक्षसिद्धिः परपक्षदोषो वोभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसंतानमारोहति / एवमेवैषोर्ऽथ इति निश्चितं यत्तदेव वक्तव्यम् / ततो ऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् / नचायं सादृश्यात्संव्यवहारो युक्तः / तद्भावावगमात्तत्सदृशभावानवगमाच्च / भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसंभवात्तदेवेदं स्यात्तत्सदृशं वेति संदेहः / उपलब्धरि तु संदेहो ऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदृशो वेति / य एवाहंपूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामीति निश्चिततद्भावोपलम्भात् / तस्मादप्यनुपपन्नो वैनाशिकसमयः
2.2.26 SK नासतो ऽदृष्टत्वात् | BBस्_२,२.२६ |
330 SK इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छतामभावाद्भावोत्पत्तिरित्येतदापद्यते / दर्शयन्ति चाभावाद्भावोत्पत्तिम्- ऽनानुपमृद्य प्रादुर्भावात्ऽ इति / विनष्टाद्धि किल बीजादङ् कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः / कूटस्ताच्चेत्कारणात्कार्यमुत्पद्येताविशेषात्सर्वं सर्वत उत्पद्येत / तस्मादभावग्रस्तेभ्यो बीजादिभ्यो ऽङ् कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिरिति मन्यन्ते /
26 SK तत्रेदमुच्यते- ऽनासतो ऽदृष्टत्वात्ऽ इति / नाभावाद्भाव उत्पद्यते / यद्यभावाद्भाव उत्पद्येताभावत्वाविशेषात्कारणविशेषाभ्युपगमो ऽनर्थकः स्यात् / नहि बीजादीनामुपमृदितानां यो ऽभावस्तस्याभावस्य शशविषाणादीनां च निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषो ऽस्ति, येन बीजादेवाङ् कुरो जायते क्षीरादेव दधीत्येवञ्जातीयकः कारणिशेषणादिभ्युपगमोर्ऽथवान्स्यात् / निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्यो ऽप्यङ् कुरादयो जायेरन् / नचैवं दृश्यते / यदि पुनरभावस्यापि विशेषो ऽभ्युपगम्येतोत्पलादीनामिव नीलत्वादिस्ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत / नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात्, अभावत्वादेव, शशविषाणादिवत् / आभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् / नचैवं दृश्यते / सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् / नच मृदान्विताः शरावादयो भावस्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते / मृद्विकारानेव तु मृदान्वितान्भावांल्लोकः प्रत्येति / यत्तूक्तं स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वामुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति / तद्दुरुक्तम् / स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् / येष्वपि बीजादिषु स्वरूपोपमर्दे लक्ष्यते तेष्वरपि नासावुपमृद्यमाना पूर्वावस्थोत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानामेवानुयायिनां बीजाद्यवयवानामङ् कुरादिकारणभावाभ्युपगमात् / तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनादनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः / अपिच चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते
2.2.27 SK उदासीनानाम् अपि चैवं सिद्धिः | BBस्_२,२.२७ |
27 SK यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवंसत्युदासीनानामनीहमानानांपि जनानामभिमतसिद्धिः स्यात् / अभावस्य सुलभत्वात् / कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् / कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्याप्यमत्रोत्पत्तिः / तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः / स्वर्गापवर्गयोश्च न कश्चित्कथञ्चित्समीहेत / नचैतद्युज्यते ऽभ्युपगम्यते वा केनचित् / तस्मादप्यनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः
334 SK FN: अनीहमानानां प्रयत्नशून्यानाम् /
335 SK अमत्रं घटादिपात्रम् /
336 SK ५ अभावाधिकरणम् / सू. २८-३२
2.2.28 SK नाभाव उपलब्धेः | BBस्_२,२.२८ |
338 SK एवं बाह्यार्तवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठिते / केषाञ्चित्किल बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरोचिता / नासौ सुगताभिप्रायः / तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः / तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयव्यवहारः सर्व उपपद्यते / सत्यपि बाह्येर्थे बुद्ध्यारोहमन्तरेण प्रमाणप्रमेयफलव्यवहारानवतारात् / कथं पुनरवगम्यते ऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिक्तो बाह्योर्ऽथो ऽस्तीति / तदसंभवादित्याह / स हि बाह्योर्थो ऽभ्युपगम्यमानः परमाणवो वा स्युस्तत्समूहा वा स्तम्भादयः स्युः / तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति (परमाण्वाभासज्ञानानुत्पत्तेः) / नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्यो ऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् / एवं जात्यादीनपि प्रत्यक्षीत / अपिचानुभावमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य यो ऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् / अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना / अपिच सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति / नह्यनयोरेकस्यानुपलम्भे ऽन्यस्योपलम्भो ऽस्ति / नचैतत्स्वभावविवेके युक्तं, प्रतिबन्धकारणाभावात् / तस्मादप्यर्थाभावः / स्वप्नादिवच्चेदं द्रष्टव्यम् / यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति, एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते / प्रत्ययत्वाविशेषात् / कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते / वासनावैचित्र्यादित्याह / अनादौ हि संसारे बीजाङ् कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते / अपिचान्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते / स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्योभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् / अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मयानभ्युपगम्यमानत्वात् / तस्मादप्यभावो बाह्यार्थस्येति /
339 SK एवं प्राप्ते ब्रूमः - ऽनाभाव उपलब्धेःऽ इति / न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते / कस्मात् / उपलब्धेः / उपलभ्यते हि प्रतिप्रत्ययं बाह्योर्ऽथः स्तम्भः कुड्यं घटः पट इति / नचोपलभ्यमानस्यैवाभावो भवितुमर्हति / यथा हि कश्चिद्भुञ्जानो भुजितसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान्नाहं भुञ्जे न वा तृप्यामीति, तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्यमर्थं नाहमुपलभे नच सो ऽस्तीति ब्रुवन्कथमुपादेयवचनः स्यात् /
340 SK ननु नाहमहं ब्रवीमि न कञ्चिदर्थमुपलभ इति किं तूपलब्धिव्यतिरिक्तं नोपलभ इति ब्रवीमि / बाढमेवं ब्रवीषि निरङ् कुशत्वात्ते तुण्डस्य / नतु यक्त्युपेतं ब्रवीषि / यत उपलब्धिव्यतिरेको ऽपि बलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव / नहि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते / उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते यत्प्रत्याचक्षाणा अपि बाह्यार्थमेव व्याचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासत इति / ते ऽपि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाश्च बाह्यमर्थं बहिर्वदति वत्कारं कुर्वन्ति / इतरथा हि कस्माद्बहिर्वदति ब्रूयुः / नहि विष्णुमित्रो वन्ध्यापुत्रवदवभासत इति कश्चिदाचक्षीत / तस्माद्यथानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासत इति युक्तमभ्युपगन्तुं नतु बहिर्वदवभासत इति /
341 SK ननु बाह्यार्थस्यासंभवाद्बहिर्वदवभासत इत्यध्यवसितम् / नायं साधुरध्यवसायो यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संबवासंभवाववधार्येते न पुनः संभवासंभवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती / यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति / यत्तु न केनचिदपि प्रमाणेनोपलभ्यते तन्न संभवति / इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योर्ऽथ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्येतोपलब्धेरेव / नच ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य / अत एव सहोपलम्भनियमो ऽपि प्रत्ययविषययोरुपायोपेयभावहेतुको नाभेदहेतुक इत्यब्युपगन्तव्यम् / अपिच घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदो न विशेष्यस्य ज्ञानस्य / द्वाभ्यां च भेद एतस्य सिद्धो भवत्येकस्माच्च द्वयोः / तस्मादर्थज्ञानयोर्भेदः / तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् / अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदो न विशेषणस् घटस्य / यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदो न विशेषणस्य क्षीरस्य तद्वत् / अपिच द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैवोपक्षीणयोरितरेतरग्राह्यग्राहकत्वानुपपत्तिः / ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगतास्ता हीयेरन् / किञ्चान्यत् / विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योर्थः स्तम्भः कुड्यमित्येवञ्जातीयकः तस्मान्नाभ्युपगम्यत एवेति युक्तमभ्युपगन्तुम् / अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते न तथा बाह्यो ऽप्यर्थ इति चेत् /
342 SK अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छस्यग्निरात्मानं दहतीतिवत्, अविरुद्धं तु लोकप्रसिद्धं स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योर्ऽथोनुभूयत इति नेच्छास्यहो पाण्डित्यं महद्दर्शितम् /
343 SK नचार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव /
344 SK ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे तदप्यनेन ग्राह्यं तदप्यन्येनेत्यनवस्था प्राप्नोति / अपिच प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति / तदुभयमप्यसत् / विज्ञानग्तहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादानवस्ताशङ्कानुपपत्तेः / साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः / स्वयंसिद्धस्य च साक्षिणो ऽप्रत्याख्येयत्वात् / किञ्चान्यत् / प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् / शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् /
345 SK बाढमेवम्, अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वयानुज्ञायत इति चेत् /
28 SK न / अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् / अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते / साक्षिणो ऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानमित्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् / न / विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् / अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम्
347 SK FN: पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः / अविद्योपप्लवो ऽविद्यासंसर्गः /
2.2.29 SK वैधर्म्याच् च न स्वप्नादिवत् | BBस्_२,२.२९ |
349 SK यदुक्तं बाह्यार्थपलायिना स्वप्नादिप्रत्ययवजिजागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति / तत्प्रतिवक्तव्यम् /
29 SK अत्रोच्यते- न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति / कस्मात् / वैधर्म्यात् / वैधर्म्यं हि भवति स्वप्नजागरितयोः / किं पुनर्वैधर्म्यम् / बाधाबाधाविति ब्रूमः / बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्या मयोपलब्धो महाजनसमागम इति, नह्यस्ति मम महाजनसमागमो निद्रालग्नं तु मे मनो बभूव तेनैषा भ्रान्तिरुद्बभूवेति / एवं मायादिष्वपि भवति यताविधं बाधः / नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते / अपिच समृतिरेषा यत्स्वप्नदर्शनम् / उपलब्धिस्तु जागरितदर्शनम् / स्मृत्युपलब्धयोश्च प्रत्यक्षमन्तरं स्वयमनुभूयतेर्ऽथविप्रयोगसंयोगात्मकमिष्टं पुत्रं स्मरामि नोपलभ उपलब्धुमिच्छामीति / तत्रैवंसति न शक्यते वक्तुं मिथ्या जागरितोपलब्धिरूपलब्धित्वात्स्वप्नोपलब्धिवदित्युभयोरन्तरं स्वयमनुभवता / नच स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् / अपिचानुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते / नच यो यस्य स्वतो धर्मो न संभवति सो ऽन्यस्य साधर्म्यात्तस्य संभविष्यति / नह्यग्निरुष्णो ऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति / दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः
351 SK FN: निद्रालग्निमिति करणदोषाभिधानम् / संस्कारमात्रजं हि विज्ञानं समृतिः / प्रमाणजो ऽनुभव उपलब्धिः /
2.2.30 SK न भावो ऽनुपलब्धेः | BBस्_२,२.३० |
353 SK यदप्युक्तं विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्प्यत इति / तत्प्रतिवक्तव्यम् / अत्रोच्यते- नभावो वासनानामुपपद्येत त्वत्पक्षे ऽनुपलब्धेर्बाह्यानामर्थानाम् / अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति /
30 SK अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः / अनादित्वे ऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलोपिनी स्यान्नाभिप्रायसिद्धिः / यावप्यन्यव्यतिरेकावर्थापलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति, तावप्येवंसति प्रत्युक्तौ द्रष्टव्यौ / विनार्ऽथोपलब्ध्या वासनानुपपत्तेः / अपिच विनापि वासनाभिरर्थोपलब्ध्युपगमाद्विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमादर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः / अपिच वासना नाम संस्कारविशेषाः / संस्काराश्च नाश्रयमन्तरेणावकल्प्यन्ते / एवं लोके दृष्टत्वात् / नच तव वासनाश्रयः कश्चिदस्ति प्रमाणतो ऽनुपलब्धेः
355 SK FN: भाव उत्पत्तिः सत्ता वा /
2.2.31 SK क्षणिकत्वाच् च | BBस्_२,२.३१ |
357 SK यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितं तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति / नहि कालत्रयसंबन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि / देशकालनिमित्तापेक्षवासनाधानस्मृतिप्रतिसंधानादिव्यवहारः संभवति / स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिः / अपिच विज्ञानवादे ऽपि क्षणिकत्वाभ्युपगमस्य समानत्वाद्यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि ऽउत्तरोत्पादे च पूर्वनिरोधात्ऽ इत्येवमादीनि तानीहाप्यनुसंधातव्यानि /
31 SK एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ बाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्च / शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते / नह्ययं सर्वप्रमाणप्रसिद्धो लोकव्यवहारो ऽन्यत्तत्त्वमनधिगम्य शक्यते ऽपह्नोतुमपवादाभाव उत्सर्गप्रसिद्धेः
359 SK FN: नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योजयन्ते /
2.2.32 SK सर्वथानुपपत्तेश् च | BBस्_२,२.३२ |
32 SK किं बहुना / सर्वप्रकारेण यथायथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथातथा सिकताकूपवद्विदीर्यत एव / न काञ्चिदप्यत्रोपपत्तिं पश्यामः / अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः / अपिच बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनो ऽसंबद्धप्रलापित्वं, प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति / सर्वथाप्यनादरणीयो ऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः
362 SK FN: वेदबाह्या अत्र प्रजा ग्राह्याः /
363 SK ६ एकस्मिन्नसंभवाधिकरणम् / सू. ३३-३६
2.2.33 SK नैकस्मिन्न् असंभवात् | BBस्_२,२.३३ |
365 SK निरस्तः सुगतसमयः / विवसनसमय इदानीं निरस्यते / सप्त चैषां पदार्थाः संमता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम / संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ / यथायोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते / तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम- जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकाय आकाशास्तिकायश्चेति / सर्वेषामप्येषामवान्तरप्रभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति / सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति / स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति / एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति / अत्राचक्ष्महे- नायमभ्युपगमो युक्त इति कुतः / एकस्मिन्नसंभवात् / नह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् / य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युर्नैव वा तथा स्युः / इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् /
366 SK नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति /
367 SK नेति ब्रूमः / निरङ् कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वविशेषात्स्यादिति स्यानव्नास्तीत्यादिविकल्पोपनिपातादिनिर्धारणात्मकतैव स्यात् / एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षे ऽस्तिता स्याच्च पक्षे नास्तीति / एवंसति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितष्वनिर्धारितासूपदेष्टुं शक्नुयात् / कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेर्ऽथे ऽनिर्धारितरूपे प्रवर्तेरन् / ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोको ऽनाकुलः प्रवर्तते नान्यथा / अतश्चानिर्धार्तार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् / तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यादित्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् / नचैषां पदार्थानामवक्तव्यत्वं संभवति /
33 SK अवक्तव्याश्चेन्नोच्येरन् / उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् / उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च / तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा, एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्यायितव्यपक्षस्य / स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः / अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः / एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात्सत्त्वे चैकस्मिन्धर्मे ऽसत्त्वस्य धर्मान्तरस्यासंभवादसत्त्वे चैवं सत्त्वस्यासंभवादसंगतमिदमार्हतं मतम् / एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः / यत्तु पुद्गलसंज्ञकेभ्यो ऽणुभ्यः संगाताः संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते
369 SK FN: जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेनिद्रियाणां प्रवृत्तिरास्रवः, तां संवृणोतीति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् /
370 SK अस्तिकायशब्दः सांकेतिकः पदार्थवाची / जीवश्चासावस्तिकायश्चेति विग्रहः /
371 SK पूर्यन्ते गन्तीति पुद्गलाः परमाणुसंघाः कायाः /
372 SK सप्तानांस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी तस्या नयो न्यायः /
2.2.34 SK एवं चात्माकार्त्स्न्यम् | BBस्_२,२.३४ |
374 SK यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रसक्त एवमात्मनो ऽपि जीवस्याकार्त्स्न्यमपरो दोषः प्रसज्येत / कथम् / शरीरपरमात्माणो हि जीव इत्यार्हता मन्यन्ते / शरीरपरिमाणतायां च सत्यामकृत्स्नो ऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत / शरीरीणां चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् / पुत्तिकाजन्म च प्राप्मुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयेत / समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थविरेषु दोषः /
34 SK स्यादेतत् / अन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे संकुचेयुर्महति च विकुचेयुरिति / तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा नवेति वक्तव्यम् / प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् / अप्रतिघाते ऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात् / अपिच शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम्
376 SK FN: कर्मविपाकः कर्मणामभिव्यक्तिः /
377 SK अथ प्रयायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत तत्राप्युच्यते-
2.2.35 SK न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः | BBस्_२,२.३५ |
35 SK नच पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते / कुतः / विकारादिदोषप्रसङ्गात् / अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम्, विक्रियावत्त्वे च चर्मादिवदनित्यं प्रसज्येत / ततश्च बन्धमोक्षाभ्युपगमो बाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति / किञ्चान्यत् / आगच्छतामपगच्छतां चावयवानामागमापायधर्मवत्त्वादेवानामात्वं शरीरादिवत् / ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् / नच स निरूपयितुं शक्यते ऽयमसाविति / किञ्चान्यत् / आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्त्यपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् / नहि भूतेभ्यः प्रादुर्भवेयुर्भूतेषु च निलीयेरन्, अभौतिकत्वाज्जीवस्य / नापि कश्चिदन्यः साधारणो ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् / किञ्चान्यत् / अनवधृतस्वरूपश्चैवंसत्यात्मा स्यात् / आगच्छतामपगच्छतां चावयवानामनियतपरिमाणत्वात् / अत एवमादिदोषप्रसङ्गान्न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्यते / अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः पर्यायेण परिमाणानवस्थाने ऽपि स्रोतःसंताननित्यतान्यायेनात्मनो नित्यता स्यात् / यथा रक्तपटानां विज्ञानानवस्थाने ऽपि तत्संताननित्यता तद्वद्धिसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते / संतानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः / वस्तुत्वे ऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति
380 SK FN: देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि स्रोतःप्रवाहः /
381 SK विगतं सिग् वस्त्रं विसिचो दिगम्बरास्तेषामित्यर्थः /
2.2.36 SK अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः | BBस्_२,२.३६ |
36 SK अपिचान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः / तद्वत्पूर्वयोरप्यविद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात् / एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्तिः / अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीवः स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्महान्वा जीवो ऽभ्युपगन्तव्यो न शरीरपरिमाणः / अतश्च सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्
384 SK पत्यधिकरणम् / सू. ३७-४१
2.2.37 SK पत्युर् असामञ्जस्यात् | BBस्_२,२.३७ |
386 SK इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते / तत्कथमवगम्यते / ऽप्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ ऽअभिध्योपदेशाच्चऽ (ब्र. १.४.२३,२४) इत्यत्र प्रकृतिभावेनाधिष्ठातृभावेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् / यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत / तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते / सा चेयं वेदबाह्येश्वरकल्पनानेकप्रकारा /
387 SK केचित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वर इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति / माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति / तथा वैशेषिकादयो ऽपि केचित्कथञ्चित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति / अत उत्तरमुच्यते- ऽपत्युरसामञ्जस्यात्ऽ इति / पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते / कस्मात् / असामञ्स्यात् / किं पुनरसामञ्जस्यम् / हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत / प्राणिकर्मापेक्षितत्वाददोष इति चेत् /
388 SK न / कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात् /
389 SK नानादित्वादिति चेत् /
37 SK न / वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेः / अपिच ऽप्रवर्तनालक्षणा दोषाःऽ (न्यायसू. १.१.१८) इति न्यायवित्समयः / नहि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते / स्वार्थप्रयुक्त एव च सर्वो जनः परार्थे ऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यं, स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात् / पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्
391 SK FN: सांख्ययोगव्यपाश्रयाः हिरण्यगर्भपतञ्जलिप्रभृतयः /
392 SK माहेश्वराश्चत्वारः - शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति /
393 SK पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः /
2.2.38 SK संबन्धानुपपत्तेश् च | BBस्_२,२.३८ |
395 SK पुनरप्यस्माञ्जस्यमेव / नहि प्रधानपुरुषव्यतिरिक्त ईश्वरो ऽन्तरेणसंबन्धं प्रधानपुरुषयोरीशिता / न तावत्संयोगलक्षणः संबन्धः संभवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च / नापि समवायलक्षणः संबन्धः, आश्रयाश्रयिभावानिरूपणात् / नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुं, कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात् / ब्रह्मवादिनः कथमिति चेत् /
396 SK न / तस्य तादात्म्यलक्षणसंबन्धोपपत्तेः / अपिचागमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमो ऽस्ति / परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः / परस्यापि सर्वज्ञप्रणीतागमसद्भावात्समानमागमबलमिति चेत् /
38 SK न / इतरेतराश्रयत्वप्रसङ्गादागमप्रत्ययत्वात्सर्वज्ञत्वसिद्धिः सर्वज्ञप्रत्ययाच्चागमसिद्धिरिति / तस्मादनुपपन्ना सांख्ययोगवादिनामीश्वरकल्पना / एवमन्यास्वपि वेदब्रह्मास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम्
2.2.39 SK अधिष्ठानानुपपत्तेश् च | BBस्_२,२.३९ |
39 SK इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य / स हि परिकल्प्यमानः कुमभकार इव मृदादीनि प्रधानादीन्यधिष्ठाय प्रवर्तयेत् / नचैवमुपपद्यते / नह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति मृदादिवैलक्षण्यात्
2.2.40 SK करणवच् चेन् न भोगादिभ्यः | BBस्_२,२.४० | /
401 SK स्यादेतत् / यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषो ऽधितिष्ठत्येवं प्रधानमपीश्वरो ऽधिष्ठास्यतीति / तथापि नोपपद्यते / भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते / नचात्र भोगादयो दृश्यन्ते /
40 SK करणग्रामसाम्ये वाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन् / अन्यथा वा सूत्रद्वयं व्याख्यायते- अधिष्ठानानुपपत्तेश्च इतश्चानुपपत्तिस्तार्किकपरिकल्पिस्येश्वरस्य / साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते न निरधिष्ठानः / अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यपि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात् / नच तद्वर्णयितुं शक्यते / सृष्ट्युत्तरकालभावित्वाच्छरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः / निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः / एवं लोके दृष्टत्वात् / ऽकरणवच्चेन्न भोगादिभ्यःऽ / अथ लोकदर्शनानुसारेणेश्वरस्यापि किञ्चित्कारणानामायतनं शरीरं कामेन कल्प्येत / एवमपि नोपपद्यते / सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्वं प्रसज्येत
403 SK FN: भोगः सुखदुःखानुभवः / आदिपदाद्विषयानुभवग्रहः / करणान्यत्र सन्तीति करणवच्छरीरम् /
2.2.41 SK अन्तवत्त्वम् असर्वज्ञता वा | BBस्_२,२.४१ |
41 SK इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य / स हि सर्वज्ञस्तैरभ्युपगम्यते ऽनन्तश्च / अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यते / तत्र सर्वज्ञेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत / उभयथापि दोषो ऽनुषक्त एव / कथम् / पूर्वस्मिंस्तावद्विकल्प इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यं भाव्येवं लोके दृष्टत्वात् / यद्धि लोक इयत्तापरिच्छिन्नं वस्तु पटादि तदन्तवद्दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात् / संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् / स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येतेति / पुरुषगता च महासंख्या / ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारिणः संसारान्मुच्यन्ते तेषां संसारो ऽन्तवान्संसारित्वं च तेषामन्तवत् / एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् / प्रधानं च सविकारं पुरुषार्थमीश्वरस्याधिष्ठेयं संसारित्वेनाभिमतं तच्छून्यतायामीश्वरः किमधितिष्ठेत् / किंविषये वा सर्वज्ञतेश्वरते स्याताम् / प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सत्यादिमत्त्वप्रसङ्गः / आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः / अथ मा भूदेष दोष इत्युत्तरो विकल्पो ऽभ्युपगम्येत न प्रधानस्य पुरुषाणामात्मनश्चेयत्तेश्वरेण परिच्छिद्यत इति, तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येत / तस्मादप्यसंगतस्तार्किकपरिगृहीत ईश्वरकारणवादः
406 SK FN: संख्या वा परिमाणं वेयत्ता /
407 SK ८ उत्पत्त्यसंभवाधिकरणम् / सू. ४२-४५
2.2.42 SK उत्पत्त्यसंभवात् | BBस्_२,२.४२ |
409 SK येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्यातः / येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्याययते /
410 SK ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः प्रकृतिश्चाधिष्ठाता चेति / श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः / तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति /
411 SK उच्यते- यद्यप्येवजातीयक्ॐऽशः समानत्वान्न विसंवादगोचरो भवत्त्यस्तित्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारमभः / तत्र भागवता मन्यन्ते / भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च / वासुदेवो नाम परमात्मोच्यते / संकर्षणो नाम जीवः / प्रद्युम्नो नाम मनः /
412 SK अनिरुद्धो नामाहङ्कारः / तेषां वासुदेवः परा परकृतिरितरे संकर्षणादयः कार्यम् / तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति / तत्र यत्तावदुच्येत यो ऽसौ नारायणः परो ऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा स आत्मानात्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, ऽस एकधा भवति त्रिधा भवतिऽ (छा. ७.२६.२) इत्यादिश्रुतिभ्यः परमात्मनो ऽनेकधाभावस्याधिगतत्वात् / यदपि तस्य भगवतो ऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते,
413 SK तदपि न प्रतिषिध्यते / श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् / यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति / अत्र ब्रूमः - न वासुदेवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति / अनित्यत्वादिदोषप्रसङ्गात् / उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् / ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् / कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् / प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिम्- ऽनात्माश्रुतेर्नित्यत्वाच्च ताभ्यःऽ (ब्र.सू. २.३.१७) इति / तस्मादसंगतैषा कल्पना /
414 SK FN: व्यूहो मूर्तिः / वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम्, पूजाद्रव्याणामर्जनमुपादानम्, इज्या पूजा, स्वाध्यायो ऽष्टाक्षरादिजपः, योगो ध्यानम् /
2.2.43 SK न च कर्तुः करणम् | BBस्_२,२.४३ |
43 SK इतश्चासंगतैषा कल्पना / यस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते / वर्णयन्ति च भागवताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते / कर्तृजाच्च तस्मादनिरुद्धसंज्ञको ऽहङ्कार उत्पद्यत इति / नचैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः / नचैवंभूतां श्रुतिमुपलभामहे
2.2.44 SK विज्ञानादिभावे वा तदप्रतिषेधः | BBस्_२,२.४४ |
418 SK अथापि स्यान्न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यैर्धर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्देषा निरधिष्ठान निरवद्याश्चेति / तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति /
44 SK अत्रोच्यते- एवमपि तदप्रतिषेध उत्पत्त्यसंभवस्याप्रतिषेधः प्राप्नोत्येवामुत्पत्त्यसंभवो दोषः प्रकारान्तरेणेत्यभिप्रायः / कथम् / यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति, ततो ऽनेकेश्वरकल्पनानार्थक्यम्, एकेनैवेश्वरेणेश्वरकार्यसिद्धेः / सिद्धान्तहानिश्च / भगवानेकैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् / अथायमभिप्राय एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसंभवः / नहि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति संकर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात् / भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्घटयोः / नह्यसत्यतिशये कार्यं कारणमित्यवकल्पते / नच पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदो ऽभ्युपगम्यते / वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते / नचैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन्, ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात्
420 SK FN: निर्देषा रागादिशून्याः, निरधिष्ठाना प्रकृत्यजन्याः, निरवद्या नाशादिरहिता इत्यर्थः /
2.2.45 SK विप्रतिषेधाच् च | BBस्_२,२.४५ |
45 SK विप्रतिषेधश्चास्मिञ्छास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः / ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् / वेदविप्रतिषेधश्च भवति / चतुर्षु वेदेषु परं श्रेयो ऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् / तस्मादसंगतैषा कल्पनेति सिद्धम्
2 SK इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः
424 SK इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयः पादः //
425 SK ____________________________________________________________________________________________ ____________________________________________________________________________________________
426 SK द्वितीयाध्याये तृतीयः पादः /
427 SK अत्र पादे पञ्चमहाभूतजीवादिश्रुतीनां विरोधपरिहारः १ वियदधिकरणम् / सू. १-७
2.3.1 SK न वियदश्रुतेः | BBस्_२,३.१ |
1 SK वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते / केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न / तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न / एवं जीवस्य प्राणानां च / एवमेव क्रमादिद्वारको ऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते / विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः पप्रञ्च आरभ्यते / तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव / तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति / तत्र तावत्प्रतिपद्यते- ऽन वियदश्रुतेःऽ इति / न खल्वाकाशमुत्पद्यते / कस्मात् / अश्रुतेः / नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति / छान्दोग्ये हि ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इति च पञ्चानां महाभूतानां मध्यमं तेज आदिङ्कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते / श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ / नचात्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी / तस्मान्नास्त्याकाशस्योत्पत्तिरिति
2.3.2 SK अस्ति तु | BBस्_२,३.२ |
431 SK तुशब्दः पक्षान्तरपरिग्रहे / मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः, श्रुत्यन्तरे त्वस्ति / तैत्तिरीयका हि समामनन्ति- ऽसत्यं ज्ञानमन्तं ब्रह्मऽ इति प्रकृत्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इति / ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति /
432 SK नन्वेकवाक्यतानयोः श्रुत्योर्युक्ता /
433 SK सत्यम् / सा युक्ता नतु सावगन्तुं शक्यते / कुतः / ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्तेः, ऽतत्तेजो ऽसृजतऽ, ऽतदाकाशमसृजतऽ इति /
434 SK ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते,यथा सूपं पक्त्वौदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजो ऽसृजतीति योजयिष्यामि /
2 SK नैवं युज्यते / प्रथमजत्वं हि छान्दोग्ये तेजसो ऽवगम्यते तैत्तिरीयके चाकाशस्य / नचोभयोः प्रथमजत्वं संभवति / एतेनेतरश्रुत्यक्षरविरोधो ऽपि व्याख्यातः / ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इत्यत्रापि तस्मादाकाशः संभूतस्तस्मात्तेजः संभूतमिति सकृच्छ्रुतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः / ऽवायोरग्निःऽ (तै. २.१) इति च पृथगाम्नानात्
436 SK अस्मिन्विप्रतिषेधे कश्चिदाह-
2.3.3 SK गौण्यसंभवात् | BBस्_२,३.३ |
3 SK नास्ति वियत उत्पत्तिरश्रुतेरेव / या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति / कस्मात् / असंभवात् / नह्याकाशस्योत्पत्तिः संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु / ते हि कारणसामाग्र्यसंभवादकाशस्योत्पत्तिं वारयन्ति / समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते / द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति / नचाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति, यस्मिन्समवायिकारणे सत्यसमवायिकारणे च तत्संयोग आकाश उत्पद्येत / तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति / उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकायोर्विशेषः संभाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च भवतीति / आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते / किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यते ऽध्यवसातुम् / पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्वसिद्धिः / तस्माद्यथा लोक आकाशं कुर्वाकाशो जात इत्येवञ्जातीयको गौणः प्रयोगो भवति, यथाच घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवञ्जातीयको भेदव्यपदेशो गौणो भवति, वेदे ऽपि ऽआरण्यानाकाशेष्वालभेरन्ऽ इति, एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या
2.3.4 SK शब्दाच्च | BBस्_२,३.४ |
4 SK शब्दः खल्वाकाशस्याजत्वं ख्यापयति / यत आह- ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽ (बृ. २.३.३) इति / नह्यमृतस्योत्पत्तिरुपपद्यते / आकाशवत्सर्वगतश्च नित्यः इति चाकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमान आकाशस्यापि तौ धर्मौ सूचयति / नच तादृशस्योत्पत्तिरुपपद्यते / ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्मा वेदितव्यःऽ इति चोदाहरणम् / ऽआकाशशरीरं ब्रह्मऽ (तै. १.६.२), ऽआकाश आत्माऽ (तै. १.७.१) इति च / नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषेण संभवति नीलेनेवोत्पलस्य / तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते
2.3.5 SK स्याच् चैकस्य ब्रह्मशब्दवत् | BBस्_२,३.५ |
442 SK इदं पदोत्तरं सूत्रम् / स्यादेतत् / कथं पुनरेकस्य संभूतशब्दस्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै.
443 SK २.१) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभवत्याकाशे च गौणत्वमिति /
444 SK अत उत्तरमुच्यते- स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यस्य प्रयोगो ब्रह्मशब्दवत् / यथैकस्यापि ब्रह्मशब्दस्य ऽतपसा ब्रह्म विजिज्ञासस्व, तपो ब्रह्मऽ (तै. ३.२) इत्यस्मिन्नधिकारे ऽन्नादिषु गौणः प्रयोग आनन्दे च मुख्यः / यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते ऽञ्जसा तु विज्ञेये ब्रह्मणि तद्वत् / कथं पुनरनुत्पत्तौ नभसः ऽएकमेवाद्वितीयम्ऽ (छा. ६.२.१) इतीयं प्रतिज्ञा समर्थ्यते /
445 SK ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति / कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति /
5 SK तदुच्यते- एकमेवेति तावत्स्वकार्यापेक्षयोपपद्यते / यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयान्मृदेवैकाकिनी पूर्वेद्युरासीदिति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयान्न दण्डचक्रादि, तद्वदद्वितीयश्रुतिरधिष्ठात्रान्तरं वारयति / यथा मृदो ऽमत्रप्रकृतेः कुम्भकारो ऽधिष्ठाता दृश्यते नैवं ब्रह्मणो जगत्प्रकृतेरन्यो ऽधिकृतास्तीति / नच नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते / लक्षणान्यत्वनिमित्तं हि नानात्वम् / नच प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति क्षीरोदकयोरिव संसृष्ट्योर्व्यापित्वामूर्तत्वदिधर्मसामान्यात् / सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते स्तिमितमितरवत्तिष्टति / तेनान्यत्वमवसीयते / तथाच ऽआकाशशरीरं ब्रह्मऽ (तै. १.६.२) इत्यादिश्रुतिभ्यो ऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः / अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः / अपिच सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीति, अतो ब्रह्मणा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति / यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति, नहि क्षीरप्रहणादब्बिन्दवुग्रहणं परिशिष्यते, एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीतमेव ब्रह्मग्रहणेन नभो भवति / तस्माद्भाक्तं नभसः संभवश्रवणमिति
447 SK FN: अभेदोपचारो भक्तिः / कुलं गृहम् / अमत्राणि घटादीनि /
2.3.6 SK प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः | BBस्_२,३.६ |
450 SK ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. ६.१.१) इति, ऽआत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ (बृ. ४.५.६) इति, ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. १.१.३) इति, ऽन काचन मद्धहिर्धा विद्यास्तिऽ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते / तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात्, यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् / व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा ह्रीयेत / स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत / शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते / तथाहि- ऽयेनाश्रुतं श्रुतं भवतिऽ इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते / तत्साधनायैव चोत्तरे शब्दाः ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. ६.२.१), ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति- ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. ६.८.७)
451 SK इत्यारभ्याप्रपाठकपरिसमाप्तेः / तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञात आकाशं विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् / नच प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् / तथाहि- प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ख्यपयन्ति ऽइदं सर्वं यदयमात्माऽ (बृ. २.४.६),ऽ ब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड. २.२.११) इत्येवमादयः / तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते / यदुक्तमश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तं, वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१) इति / सत्यं दर्शितम् / विरुद्धं तु ऽतत्तेजो ऽसृजतऽ इत्यनेन श्रुत्यन्तरेण / न / एकवाक्यत्वात्सर्वश्रुतीनाम् / भवत्येकवाक्यत्वमविरुद्धानाम् / इह तु विरोध उक्तः, सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति /
452 SK नैष दोषः / तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः / आकाशाद्वायुः / वायोरग्निःऽ (तै. २.१) इति / अशक्या हीयं श्रुतिरन्यथा परिणेतुम् / शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्ट्वा ऽतत्तेजो ऽसृजतऽ इति / नहीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति / एकस्य वाक्यस्य व्यापारद्वयासंभवात् / स्रष्ट्वा त्वेको ऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् / इत्येकवाक्यत्वकल्पनायां संभवत्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या / नचास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धो ऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् / यथाच ऽसर्वं खल्विदं ब्रह्म तज्जलान्ऽ (छा. ३.१४.१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसो ऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति /
453 SK ननु शमविधानार्थमेतद्वाक्यम्, ऽतज्जलानिति शान्त उपासीतऽ इति श्रुतेः, नैतत्सृष्टिवाक्यं, तस्मादेतन्न प्रदेशान्तरसिद्धं क्रममुपरोद्धुमर्हतीति / ऽतत्तेजो ऽसृजतऽ इत्येतत्सृष्टिवाक्यम् / तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति /
454 SK नेत्युच्यते / नहि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य / अपिच ऽतत्तेजो ऽसृजतऽ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दो ऽस्ति /
455 SK अर्थात्तु क्रमो ऽवगम्यते / स च ऽवायोरग्निःऽ इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते / विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ / तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः / अपिच छान्दोग्ये ऽयेनाश्रुतं श्रुतं भवतिऽ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियदुत्पत्तावुपसंख्यातव्यं, किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते / यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते, नच ऽएकमेवाद्वितीयम्ऽ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति /
6 SK अत्रोच्यते / न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् / मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते / क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् / नहि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतमस्ति / नच वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते / सावधारणा चेयम् / ऽएकमेवाद्वितीयम्ऽ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत / नच स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यं, मृदादिष्वपि हि तत्संभवान्न तदपूर्ववदुपन्यसितव्यं भवति ऽश्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽस्युत तमादेशमप्राक्ष्यो ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. ६.१.१) इत्यादिना / तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम्
457 SK यत्पुनरेतदुक्तमसंभवाद् गौणी गनस्योत्पत्तिश्रुतिरिति / अत्र ब्रूमः -
2.3.7 SK यावद्विकारं तु विभागो लोकवत् | BBस्_२,३.७ |
459 SK तुशब्दो ऽसंभवाशङ्काव्यावृत्त्यर्थः / न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या / यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते / नत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यते / विभागश्चाकाशस्य पृथिव्यादिभ्यो ऽवगम्यते / तस्मात्सो ऽपि विकारो भवितुमर्हति / एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् /
460 SK नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति /
461 SK न / ऽआत्मन आकाशः संभूतःऽ (तै. २.१) इति श्रुतेः / यदि ह्यात्मापि विकारः स्यात्तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् / तथाच शून्यवादः प्रसज्येत / आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः / नह्यात्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात् / नह्यात्मात्मनः प्रमाणमपेक्ष्य सिध्यति / तस्य हि प्रत्यक्षादीनि प्रमाणान्यप्रसिद्धप्रमेयसिद्धय उपादीयन्ते / नह्याकाशादयः पदार्धाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचिदभ्युपगम्यन्ते / आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति / नचेद्दृशस्य निराकरणं संभवति / आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् / य एव हि निराकर्ता तदेव तस्य स्वरूपम् / नह्यग्नेरौष्ण्यमग्निना निराक्रियते / तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतमतीततरं चाज्ञासिषमहमेवानागतमनागततरं च ज्ञास्यामीत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावो ऽसति, सर्वदा वर्तमानस्वभावत्वात् / तथा भस्मीभवत्यपि देहे चात्मन उच्छेदो वर्तमानस्वभावादन्यथास्वभावत्वं वा न संभावयितुं शक्यम् / एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मनः कार्यत्वं चाकाशस्य / यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते- न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमो ऽस्ति / नहि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात् / नच निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमो ऽस्ति / स्यादेतत् / समवायिकारणविषय एव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति / तदप्यनैकान्तिकम् / सूत्रगोबालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते / तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते / सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यं, सर्वस्य सर्वेण समानजातीयकत्वात् / नाप्यनेकमेवारभते नैकमिति नियमो ऽस्ति / अणुमनसोराद्यकर्मारम्भाभ्युपगमात् / एकैको हि परमाणिर्मनश्चायं कर्मारभते न द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते /
462 SK द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् /
463 SK न / परिणामाभ्युपगमात् / भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत / तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते / तच्च क्वचिदनेकं परिणमते मृद्बीजाद्यङ् कुरादिभावेन / क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन / नेश्वरशासनमस्त्यनेकमेव कारणं कार्यं जनयतीति / अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते / तथाचोक्तम्- ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र. सू. २.१.१४) इति / यच्चोक्तमाकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यत इति / तदयुक्तम् / येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते / यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्, ऽअस्थूलमनणुऽ (बृ. ३.८.८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते / तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् / यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति / तदप्यसत् / श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्तेः / उत्पत्त्यनुमानस्य च दर्शितत्वात् / अनित्यमाकाशमनित्यगुणाश्रयत्वाद्घटादिवदित्यादिप्रयोगसंभवाच्च / आत्मन्यनैकान्तिकमिति चेत् /
464 SK न / तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः / विभुत्वादीनां चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् /
465 SK यच्चोक्तमेतच्छब्दाच्चेति, तत्रामृतत्वश्रुतिस्तावद्वियत्यमृता दिवौकस इतिवद्द्रष्टव्या / उत्पत्तिप्रलययोरुपपादितत्वात् / ऽआकाशवत्सर्वगतश्च नित्यःऽ इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमत्वाय / यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् / एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता / ऽज्यायानाकाशात्ऽ इत्यादिश्रुतिभ्यश्च ब्रह्मण आकाशस्योनपरिमाणत्वसिद्धिः / ऽन तस्य प्रतिमास्तिऽ (श्वे. ४.१९)
7 SK इति च ब्रह्मणो ऽनुपमानत्वं दर्शयति / ऽअतो ऽन्यदार्तम्ऽ (बृ. ३.४.२) इति च ब्रह्मणो ऽन्येषामाकाशादीनामार्तत्वं दर्शयति / तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम् / तस्माद्ब्रह्मकार्यं वियदिति सिद्धम्
467 SK FN: द्रव्यान्तरैः समवायिभिः / शब्दाश्रयत्वं विशेषः /
468 SK २ मातरिश्वाधिकणम् / सू. ८
2.3.8 SK एतेन मातरिश्वा व्याख्यातः | BBस्_२,३.८ |
470 SK अतिदेशो ऽयम् / एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातः / तत्राप्येते यथायोगं पक्षा रचयितव्याः / न वायुरुत्पद्यते छान्दोगानामुत्पत्तिप्रकरणे ऽनाम्नानादित्येकः पक्षः / अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरण आम्नानम् ऽआकाशाद्वायुःऽ (तै. २.१) इति पक्षान्तरम् / ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिसंभवादित्यपरो ऽभिप्रायः / असंभवश्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ. १.५.२२) इत्यस्तमयप्रतिषेधात्, अमृतत्वादिश्रवणाच्च / प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः / अस्तमयप्रतिषेधो ऽपरविद्याविषय आपेक्षिकः / अग्न्यादीनामिव वायोरस्तमयाभावात् //
471 SK कृतप्रतिविधानं चामृतत्वादिश्रवणम् /
472 SK ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति /
8 SK उच्यते- सत्यमेवमेतत् / तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थो ऽयमतिदेशः क्रियते / संवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात्, अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति
474 SK ३ असंभवाधिकरणम् / सू. ९
2.3.9 SK असंभवस् तु सतो ऽनुपपत्तेः | BBस्_२,३.९ |
9 SK वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रह्मणो ऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः / तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्याकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत / तामाशङ्कामपनेतुमिदं सूत्रम्- ऽअसंभवस्तुऽ इति / न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या / कस्मात् / अनुपपत्तेः / सन्मात्रं हि ब्रह्म / न तस्य सन्मात्रादेवोत्पत्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः / नापि सद्विशेषाद्दृष्टविपर्ययात् / सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयो नतु विशेषेभ्यः सामान्यम् / नाप्यसतो निरात्मकत्वात् / ऽकथमसतः सज्जायेतऽ (छा. ८.७.१) इति चाक्षेपश्रवणात् / ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे. ६.९) इति च ब्रह्मणो जनयितारं वारयति / विवत्वपवनयोः पुनरुत्पत्तिः प्रदर्शिता नतु ब्रह्मणः सास्तीति वैषम्यम् / नच विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणो ऽपि विकारत्वं भवितुमर्हतीति मूलप्रकृत्यनभ्युपगमे ऽनवस्ताप्रसङ्गात् / या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः
477 SK ४ तेजो ऽधिकरणम् / सू. १०
2.3.10 SK तेजो ऽतस् तथा ह्य् आह | BBस्_२,३.१० |
479 SK छान्दोग्ये सन्मूलत्वं तेजसः श्रावितं, तैत्तिरीयके तु वायुमूलत्वं, तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां प्राप्तं तावद्ब्रह्मयोनिकं तेज इति / कुतः / ऽसदेवऽ इत्युपक्रम्य ऽतत्तेजो ऽसृजतऽ इत्युपदेशात् / सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य संभवात् / ऽतज्जलान्ऽ (छा. ८.७.१) इति चाविशेषश्रुतेः ऽएतस्माज्जायते प्राणःऽ (मुण्ड. २.१.३) इति चोपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात् / तैत्तिरीयके च ऽस तपस्तप्त्वा / इदं सर्वमसृजत / यदिदं किञ्चऽ (तै. ३.६.१) इत्यविशेषश्रवणात् / तस्मात् ऽवायोरग्निःऽ इति क्रमोपदेशो द्रष्टव्यो वायोरनन्तरमग्निः संभूत इति / एवं प्राप्त उच्यते- तेजो ऽतो मातरिश्वनो जायत इति / कस्मात् / तथाह्याह- ऽवायोरग्निःऽ इति / अव्यवहिते हि तेजसो ब्रह्मजत्वे सत्यसति वायुजत्वे वायोरग्निरितीयं श्रुतिः कदर्थिता स्यात् /
480 SK ननु क्रमार्थैषा भविष्यतीत्युक्तम् /
481 SK नेति ब्रूमः - ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. २.१.१) इति पुरस्तात्संभवत्यपादानस्यात्मनः पञ्चमीनिर्देशात्स, तस्यैव च संभवतेरिहाधिकारात्, परस्तादपि च तदधिकारे ऽपृथिव्या ओषधयःऽ (तै. २.१.१) इत्यपादानपञ्चमीदर्शनाद्वायोरग्निरित्यपादानपञ्चम्येवैषेति गम्यते / अपिच वायोरूर्ध्वमग्निः संभूत इति कल्प्य उपपदार्थयोगः कॢप्तस्तु कारकार्थयोगो वायोरग्नि संभूत इति / तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसो ऽवगमयति /
482 SK नन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसो ऽवगमयति ऽतत्तेजो ऽसृजतऽ इति /
10 SK न / तस्याः पारम्पर्यजत्वे ऽप्यविरोदात् / यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजो ऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते / यथा तस्याः श्रुतं तस्या दधि तस्या आमिक्षेत्यादि / दर्शयति च ब्रह्मणो विकारात्मनावस्तानं ऽतदात्मानं स्वयमकुरुतऽ (तै. २.७.१) इति / तथाचेश्वरस्मरणं भवति- ऽबुद्दिर्ज्ञानमसंमोहःऽ (भ.गी. १०.४) इत्याद्यनुक्रम्य ऽभवति भावा भूतानां मत्त एव पृथग्विधाःऽ (भ.गी. १०.५) इति / यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वेश्वरवंश्यत्वात् / एतेनाक्रमवत्सृष्टिवादिन्यः श्रुतयो व्याख्याताः / तासां सर्वथोपपत्तेः / क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः / प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोधः
484 SK FN: कदर्थिता पीडिता बाधितेति यावत् /
485 SK तदधिकारे संभूत्यधिकारे /
486 SK तस्या धेनोः श्रुतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः / दधिसंसृष्टं कठिनक्षीरमामिक्षा /
487 SK प्रणाड्या परम्परया /
488 SK ५ अबधिकरणम् / सू. ११
2.3.11 SK आपः | BBस्_२,३.११ |
11 SK ऽअतस्तथाह्याहऽ इत्यनुवर्तते / आपो ऽतस्तेजसो जायन्ते / कस्मात् / तथाह्याह- ऽतदपो ऽसृजतऽ इति ऽअग्नेरापःऽ इति च वचने नास्ति संशयः / तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन्नपो ऽन्तरियामित्याप इति सूत्रयांबभूव
491 SK ६ पृथिव्यधिकाराधिकरणम् / सू. १२
2.3.12 SK पृथिव्य् अधिकाररूपशब्दान्तरेभ्यः | BBस्_२,३.१२ |
493 SK ऽता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्तऽ (छा. ६.२.४) इति श्रूयते / तत्र संशयः - किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यै चौदनाद्युच्यते किं वा पृथिवीति / तत्र प्राप्तं तावद्व्रीहियवाद्योदनादि वा परिग्रहीतव्यमिति / तत्र ह्यन्नशब्दः प्रसिद्धो लोके वाक्यशेषो ऽप्येतमर्थमुपोद्वलयति / ऽतस्माद्यत्र क्वच वर्षति तदेव भूयिष्टमन्नं भवतीतिऽ / व्रीहियवाद्येव हि सति वर्षणे बहु भवति न पृथिवीति / एवं प्राप्ते ब्रूमः पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति / कस्मात् / अधिकाराद्रूपाच्छब्दान्तराच्च / अधिकारस्तावत्- ऽतत्तेजो ऽसृजतऽ ऽतदपो ऽसृजतऽ इति महाभूतविषयो वर्तते / तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यः / तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते ऽयत्कृष्णं तदन्नस्यऽ इति / नह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमो ऽस्ति / नापि व्रीह्यादीनाम् /
494 SK ननु पृथिव्या अपि नैव कृष्णत्वनियमो ऽस्ति पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् /
12 SK नायं दोषः / बाहुल्यापेक्षत्वात् / भूयिष्ठं हि पृथिव्याः कृष्णं रूपं न तथा श्वेतरोहिते / पौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति / सा च कृष्णाभासेत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते / श्रुत्यन्तरमपि समानाधिकारमद्भ्यः पृथिवीति भवति / ऽतद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्ऽ (बृ. १.२.२) इति च / पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति- ऽपृथिव्या ओषधय ओषधीभ्यो ऽन्नम्ऽ इति च / एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः / प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते / वाक्यशेषो ऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम् / तस्मात्पृथिवीयमन्नशब्देति
496 SK FN: तत्तत्र सृष्टिकाले यदपां शरःमण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् /
497 SK ७ तदभिध्यानाधिकरणम् / सू. १३
2.3.13 SK तदभिध्यानाद् एव तु तल्लिङ्गात् सः | BBस्_२,३.१३ |
499 SK किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्त्याहोस्वत्परमेश्वर एव तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति संदेहे सति प्राप्तं तावत्स्वयमेव सृजन्तीति / कुतः / ऽआकाशाद्वायुर्वायोरग्निःऽ इत्यादिस्वातन्त्र्यश्रवणात् /
500 SK नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा /
501 SK नैष दोषः / ऽतत्तेज ऐक्षत ता आप ऐक्षन्तऽ (छा. ६.२.४) इति च भूतानामपि चेतनत्वश्रवणादिति / एवं प्राप्ते ऽभिधीयते- स एव परमेश्वरस्तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति / कुतः / तल्लिङ्गात् / तथाहि शास्त्रम्- ऽयः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयतिऽ (बृ. ३.७.३) इत्येवञ्जातीयकं साध्यक्षाणमेव भूतानां प्रवृत्तिं दर्शयति / तथा सो ऽकामयत बहु स्यां प्रजायेय इति प्रस्तुत्य ऽसच्च त्यच्चाभवत् / तदात्मानं स्वयमकुरुतऽ (तै. २.६.१) इति च तस्यैव च सर्वात्मभावं दर्शयति /
13 SK यत्त्वीक्षणश्रवणमप्तेजसोस्तत्परमेश्वरावेशवशादेव द्रष्टव्यम् ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ३.७.२३) इतीक्षित्रन्तरप्रतिषेधात्, प्रकृतत्वाच्च सत ईक्षितुः ऽतदैक्षत बहु स्यां प्रजायेयऽ इत्यत्र
503 SK FN: परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणं श्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः /
504 SK ८ विपर्ययाधिकरणम् / सू. १४
2.3.14 SK विपर्ययेण तु क्रमो ऽत उपपद्यते च | BBस्_२,३.१४ |
14 SK भूतानामुत्पत्तिक्रमश्चिन्तितः / अथेदानीमप्ययक्रमश्चिन्त्यते / किमनियतेन क्रमेणाप्यय उत्पत्तिक्रमेणाथवा तद्विपरीतेनेति / त्रयो ऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते- ऽयतो वा इमानि भूतानि जायन्ते / येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तिऽ (तै. ३.१.१) इति / तत्रानियमो ऽविशेषादिति प्राप्तम् / अथवोत्पत्तेः क्रमस्य श्रुतत्वाप्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति / एवं प्राप्तं ततो ब्रूमः विपर्ययेण तु प्रलयक्रमो ऽत उत्पत्तिक्रमाद्भवितुमर्हति / तथाहि लोके दृश्यते येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति / अपिच दृश्यते मृदो जातं घटशरावाद्यप्ययकाले मृद्भावमप्येत्यद्भ्यश्च जातं हिमकरकाद्यब्भावमप्येतीति / अतश्चोपपद्यत एतत् / यद्पृथिव्यद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तावपो ऽपीयादापश्च तेजसो जाताः सत्यस्तेजो ऽपीयुः / एवं क्रमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् / नहि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः / स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः - ऽजगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते / ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयतेऽ इत्येवमादौ / उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति / नचासावयोग्यत्वादप्ययेनाकाङ्क्ष्यते / नहि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः कारणाप्यये कार्यस्यावस्थानानुपपत्तेः / कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्
507 SK FN: क्रमेण परम्परया /
508 SK ९ अन्तराविज्ञानाधिकरणम् / सू. १५
2.3.15 SK अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् | BBस्_२,३.१५ |
510 SK भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् / आत्मादिरुत्पत्तिः प्रलयश्चात्मान्त इत्यप्युक्तम् / सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः / ऽबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च / इन्द्रियाणि हयानाहुःऽ (कठ. ३.३) इत्यादिलिङ्गेभ्यः / तयोरपि कस्मिश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात् / अपिचाथर्वण उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च / खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुणड. २.१.३) इति / तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् /
15 SK न / अविशेषात् / यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् / भवति च भौतिकत्वे लिङ्गं करणानाम् / ऽअन्नमयं हि सोम्य मन ओषधयः प्राणस्तेजोमयी वाक्ऽ (छा. ६.५.४) इत्येवजातीयकम् / व्यपदेशो ऽपि क्वचिद्भूतानां करणानां च ब्राह्मणपरिव्राजकन्यायेन नेतव्यः / अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशेष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं वा करणानीति / आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च / न तत्रोत्पत्तिक्रम उच्यते / तथान्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते- ऽप्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनो ऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतऽ इत्यादिना / तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः
512 SK FN: अन्यपराः शब्दा लिङ्गानीत्युच्यन्ते /
513 SK इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मा आसीत् /
514 SK १० चराचरव्यपाश्रयाधिकरणम् / सू. १६
2.3.16 SK चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् | BBस्_२,३.१६ |
516 SK स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्चेति स्यात्कस्यच्द्भ्रान्तिस्तामपनुदामः / न जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसंबन्धोपपत्तेः / शरीरानुविनाशिनि हि जीवे शरीरान्तकगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्तकौ स्याताम् / श्रूयते च- ऽजीवापेतं वाव किलेदं म्रियते न जीवो म्रियतेऽ (छा. ६.११.३) इति /
517 SK ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः /
518 SK सत्यं दर्शितः / भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः /
519 SK किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इति /
16 SK उच्यते- चराचरव्यपाश्रयः / स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ / स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्यते, तद्भावभावित्वात् / शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतो नासतोः / नहि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते / ऽस वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाणः (बृ. ४.३.८) इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति / जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् / अभावाज्जीवप्रादुर्भावस्य / जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति / देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्त इत्येतदनेन सूत्रेणावोचत्
521 SK FN: जीवापेतं जीवेन त्यक्तमिदं शरीरम् /
522 SK ११ आत्माधिरणम् / सू. १७
2.3.17 SK नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः | BBस्_२,३.१७ |
524 SK अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसंबन्धी / स किं व्योमादिवदुत्पद्यते ब्रह्मण आहोस्विद्ब्रह्मवदेव नोत्पद्यत इति श्रुतिविप्रतिपत्तेर्विशयः / कासुचिच्छ्रुतिष्वग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते, कासुचित्त्वविकृतस्य परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते नचोत्पत्तिराम्नायत इति / तत्र प्राप्तं तावदुत्पद्यते जीव इति / कुतः / प्रतिज्ञानुपरोधादेव / एकस्मिन्विदिते सर्वमिदं विदितम् इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत / तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत / नचाविकृतः परमात्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् / अपहृतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः / विभागाच्चास्य विकारत्वसिद्धिः / यावान्ह्याकाशादिः प्रविभक्तः स सर्वो विकारस्तस्य चाकाशादेरुत्पत्तिः समधिगता / जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक्प्रतिशरीरं प्रविभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति / अपिच ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवास्मादात्मनः सर्वे प्राणाःऽ (बृ. २.१.२०) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा ऽसर्व एव आत्मनो व्युच्चरन्तिऽ इति भोक्तृणीमात्मनां पृथक्सृष्टिं शास्ति / ऽयथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः / तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तिऽ (मुण्ड. २.१.१) इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते / सरूपवचनात्,
525 SK जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् / नच क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति / श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात् / प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या, ऽतदात्मानं स्वयमकुरुतऽ इत्यादिवत् / तस्मादुत्पद्यते जीव इति / एवं प्राप्ते ब्रूमः - नात्मा जीव उत्पद्यत इति / कस्मात् / अश्रुतेः / नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु /
526 SK ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयितीत्युक्तम् /
527 SK सत्यमुक्तम् / उत्पत्तिरेव त्वस्य न संभवतीति वदामः / कस्मात् / नित्यत्वाच्च ताभ्यः / चशब्दादजत्वादिभ्यश्च / नित्यत्वं ह्यस्य श्रुतिभ्यो ऽवगम्यते तथाजत्वमविकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति / नचैवंरूपस्योत्पत्तिरुपपद्यते / ताः काः श्रुतयः / ऽन जीवो म्रियतेऽ (छा. ६.११.३), ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. ४.४.२२), ऽन जायते म्रियते वा विपश्चित्ऽ (कठं २.१८), ऽअजो नित्यः शाश्वतो ऽयं पुराणःऽ (कठ. २.१८). ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. २.६.१), ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. ६.३.२), ऽस एष इह प्रविष्ट आ नखाग्रेभ्यःऽ (बृ. १.४.७), ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१९), ऽअयमात्मा ब्रह्म सर्वानुभूःऽ (बृ. २.५.१९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिबध्नन्ति /
528 SK ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यत इत्युक्तम् /
17 SK अत्रोच्यते- नास्य प्रविभागः स्वतो ऽस्ति / ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे. ६.११) इति श्रुतेः / बुद्ध्याद्यपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसंबन्धनिमित्तम् / तथाच शास्त्रम्- ऽस वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ (बृ. ४.४.५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतो ऽप्येकस्यानेकबुद्ध्यादिमयत्वं दर्शयति / तन्मयत्वं चास्य विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवद्द्रष्टव्यम् / यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसंबन्धान्नेतव्यम् / उपाध्युत्पत्त्यास्योत्पत्तिस्तत्प्रलयेन च प्रलय इति / तथाच दर्शयति- ऽप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तिऽ (बृ. ४.५.१३) इति / तथोपाधिप्रलय एवायं नात्मविलय इत्येतदप्यत्रैव ऽमा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्तिऽ इति प्रश्नपूर्वकं प्रतिपादयति- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ (बृ. ४.५.१४) इति / प्रतिज्ञानुपरोधो ऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् / लक्षणभेदो ऽप्यनयोरुपाधिनिमित्त एव / ऽअत ऊर्ध्वं विमोक्षायैव ब्रूहिऽ (बृ. ४.३.१५) इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् / तस्मानैवात्मोत्पद्यते प्रविलीयते चेति
531 SK सरूपशब्दो जीववाचीति शेषः /
532 SK जाल्मः कामजडः / स यथा स्त्रीपरतन्त्रः स्त्रीमयो व्पदिश्यते /
533 SK एतेभ्यो देहात्मना परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति /
534 SK मोहं मोहकरं वाक्यम् /
535 SK १२ ज्ञाधिकरणम् / सू. १८
2.3.18 SK ज्ञो ऽत एव | BBस्_२,३.१८ |
537 SK स किं कणभुजानामिवागन्तुकचैतन्यः स्वतो ऽचेतन आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एवेति वादिविप्रतिपत्तेः संशयः / किं तावत्प्राप्तम् / आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजमग्निघटसंयोगजरोह् इतादिगुणवदिति प्राप्तम् /
538 SK नित्यचैतन्यत्वे हि सुप्तमूर्च्छितग्रहाविष्टानामपि चातन्यं स्यात् / ते पृष्टाः सन्तो न किञ्चिद्वयमचेतयामहीति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्ते / अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति /
539 SK एवं प्राप्ते ऽभिधीयते- ज्ञो नित्यचैतन्यो ऽयमात्मात एव, यस्मादेव नोत्पद्यते परमेव ब्रह्माविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते / परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम्- ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. ३.९.२८), ऽसत्यं ज्ञानमन्तं ब्रह्मऽ (तै. २.१.१), ऽअनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. ४.५.१३), इत्यादिषु श्रुतिषु / तदेव चेत्परं ब्रह्म जीवस्तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते / विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति- असुप्तः ऽसुप्तानभिचाकशीतिऽ (बृ. ४.३.११) ऽअत्रायं पुरुषः स्वयञ्ज्योतिर्भवतिऽ (बृ. ४.३.९) इति, ऽनहि विज्ञातुर्निर्विज्ञातेर्विपरिलापो विद्यतेऽ (बृ. ४.३.३०) इत्येवंरूपाः / ऽअथ यो वेदेदं जिघ्राणीति स आत्माऽ (छा. ८.१२.४) इति च सर्वैः करणद्वारैरिदं वेदेदं वेदेति विज्ञानेनानुसंधानात्तद्रूपत्वसिद्धिः /
540 SK नित्यस्वरूपचैतन्यत्वे घ्राणाद्यानर्थक्यमिति चेत् /
18 SK न / गन्धादिविषयविशेषपरिच्छेदार्थत्वात् / तथाहि दर्शयति- ऽगन्धाय घ्राणम्ऽ इत्यादि / यत्तु सुप्तादयो न चेतयन्त इति तस्य श्रुत्यैव परिहारो ऽभिहितः / सुषुप्तं प्रकृत्य ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति- नहि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते ऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. ४.३.२३) इत्यादिना / एतदुक्तं भवति- विषयाभावादियमचेतयमानता न चैतन्याभावादिति / यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्यभावादनभिव्यक्तिर्न स्वरूपाभावात्तद्वत् / वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति / तस्मान्नित्यचैतन्यस्वरूप एवात्मेति निश्चिनुमः
542 SK FN: स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरव्यापारानभिचाकशीति अभिपश्यति /
544 SK गन्धाय तद्गोचरान्तःकरणवृत्तये /
545 SK १३ उत्क्रान्तिगत्यधिकरणम् / सू. १९-३२
2.3.19 SK उत्क्रान्तिगत्यागतीनाम् | BBस्_२,३.१९ |
547 SK इदानीं तु किंपरिमाणो जीव इति चिन्त्यते / किमणुपरिमाण उत मध्यमपरिमाण आहोस्विन्महापरिमाण इति /
548 SK ननु च नात्मोत्पद्यते नित्यचैतन्यश्यायमित्युक्तम् / अतश्च पर एवात्मा जीव इत्यापतति / परस्या चात्मनो ऽनन्तरत्वमाम्नातं, तत्र कुतो जीवस्य परिमाणचिन्तावतार इति /
19 SK उच्यते- सत्यमेतत् / उत्क्रान्तिगत्याहगतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति / स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमाम्नायते / तस्य सर्वस्यानाकुलत्वोपपादानायायमारम्भः / तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नो ऽणुपरिमाणो जीव इति / उत्क्रान्तिस्तावत्- ऽस यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामतिऽ (कौषीत. ३.३) इति / गतिरपि ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषीत. १.२) इति / आगतिरपि ऽतस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणेऽ (बृ. ४.४.६) इति / आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति / नहि विभोश्चलनमवकल्पत इति / सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते
2.3.20 SK स्वात्मना चोत्तरयोः | BBस्_२,३.२० |
20 SK उत्क्रान्तिः कदाचिदचलतो ऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत / उत्तरे तु गत्यागती नाचलतः संभवतः / स्वात्मना हि तयोः संबन्धो भवति, गमेः कर्तृस्थक्रियात्वात् / अमध्यमपरिमाणस्य च गत्यागती अणुत्व एव संभवतः / सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते / नह्यनपसृत्य देहाद्गत्यागती स्याताम् / देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् / ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. ४.४.२) इति / ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ (बृ. ४.४.१), ऽशुक्रमादाय पुनरैति स्थानम्ऽ (बृ. ४.३.११) इति चोत्तरे ऽपि शरीरे शरीरस्य गत्यागती भवतः / तस्मादप्यस्याणुत्वसिद्धिः
552 SK FN: अपादानत्वमवधित्वम् /
2.3.21 SK नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् | BBस्_२,३.२१ |
554 SK अथापि स्यान्नाणुरयमात्मा / कस्मात् / अतच्छ्रुतेः / अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः / ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु (बृ. ४.४.१२), ऽआकाशवत्सर्वगतश्च नित्यःऽ, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. २.१.१) इत्येवञ्जातीयका हि श्रुतिरात्मनो ऽणुत्वे विप्रतिषिध्येतेति चेत् /
555 SK नैष दोषः / कस्मात् / इतराधिकारात् / परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः / परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् / विरजः पर आकाशादित्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् /
21 SK ननु ऽयो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. ४.४.२२) इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते / शास्त्रदृष्ट्या त्वेष निर्देशो वामदेववद्द्रष्टव्यः / तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य च जीवस्याणुत्वं विरुध्यते
557 SK FN: इतराधिकारात् ब्रह्मप्रकरणात् /
2.3.22 SK स्वशब्दोन्मानाभ्यां च | BBस्_२,३.२२ |
22 SK इतश्चाणुरात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते- ऽएषो ऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेशऽ (मुण्ड. ३.१.९) इति / प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति गम्यते / तथोन्मानमपि जीवस्याणिमानं गमयति- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च / भागो जीवः स विज्ञेयःऽ (श्वे. ५.८) इति / ऽआराग्रमात्रो ह्यवरोषपि दृष्टःऽ (श्वे. ५.८) इति चोन्मानान्तरम्
560 SK नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते / दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोपलब्धिरिति /
561 SK FN: उद्धृत्यमानमुन्मानम् / बालः केशः / तोत्रप्रोतायःशलाकाग्रमराग्रं तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा /
2.3.23 SK अविरोधश् चन्दनवत् | BBस्_२,३.२३ |
23 SK यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धो ऽपि सन्सकलदेहव्यपिनमाह्लादं करोत्येवमात्मापि देहैकदेशेभ्यः सकलदेहव्यापिनीमुपलब्धिं करिष्यति / त्वक्संबन्धनाच्चास्य सकलशरीरगता वेदना न विरुध्यते / त्वगात्मनोर्हि संबन्धः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति
2.3.24 SK अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि | BBस्_२,३.२४ |
566 SK अत्राह यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तं दृष्टान्तदार्ष्ट्रान्तिकयोरतुल्यत्वात् / सिद्धे ह्यात्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति / प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च / आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् / अनुमेयं तु तदिति यदप्युच्येत / नचात्रानुमानं संभवति / किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः किंवा विभोर्नभस इवाहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्येति संशयानतिवृत्तेरिति /
567 SK अत्रोच्यते- नायं दोषः / कस्मात् / अभ्युपगमात् / अभ्युपगम्यते ह्यात्मनो ऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् / कथमित्युच्यते / हृदि ह्येष आत्मा पठ्यते वेदान्तषु / ऽहृदि ह्येष आत्माऽ
24 SK (प्रश्न. ३.६), ऽस वा एष आत्मा हृदिऽ (छा. ८.३.३), ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. ४.३.७) इत्याद्युपदेशेभ्यः / तस्माद्दृष्टान्तदार्ष्ट्रान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति
2.3.25 SK गुणाद्वा लोकवत् | BBस्_२,३.२५ |
25 SK चैतन्यगुणव्याप्तेर्वाणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते / यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभापवरकव्यापिनी सती कृत्स्ने ऽपवरके कार्यं करोति तद्वत् / स्यात्कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वं व त्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विप्रसर्पेदित्याशङ्क्य गुणाद्वा लोकवदित्युक्तम्
571 SK कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत / नहि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते / प्रदीपभावद्भवेदिति चेत् /
572 SK न / तस्या अपि द्रव्यत्वाभ्युपगमात् / निबिडावयवं हि तेजोद्रव्यं प्रदीपः / प्रविरलावयवं तु तेजोद्रव्यमेव प्रभेति / अत उत्तरं पठति-
2.3.26 SK व्यतिरेको गन्धवत् | BBस्_२,३.२६ |
574 SK यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति / अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः / एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति / अतश्चानैकान्तिकमेतद्गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति / गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् / गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् /
575 SK न / यस्मान्मूलद्रव्याद्विश्लेषितस्य क्षयप्रसङ्गात् / अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते / अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत / स्यादेतत् / गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात्सन्नपि विशेषो नोपलक्ष्यते /
576 SK सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृप्ता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् /
577 SK न / अतीन्द्रियत्वात्परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेसरादिषु / नच लोके प्रतीतिर्गन्धवद्द्रव्यमाघ्रातमिति / गन्ध एवाघ्रात इति तु लौकिकाः प्रतीयन्ति / रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् /
26 SK न / प्रत्यक्षत्वादनुमानाप्रवृत्तेः / तस्माद्यद्यथा लोके दृष्टं तत्तथैवानुमन्तव्यं निरूपकैर्नान्यथा / नहि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयो ऽपि गुणा जिह्वायैवोपलभ्येरग्निरिति नियन्तुं शक्यते
579 SK FN: गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः /
2.3.27 SK तथा च दर्शयति | BBस्_२,३.२७ |
27 SK हृदयायतनत्वमणुपरिमाणत्वं चात्मनो ऽभिधाय तस्यैव ऽआ लोमस्य आ नखाग्रेभ्यःऽ (छा. ८.८.१) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति
2.3.28 SK पृथगुपदेशात् | BBस्_२,३.२८ |
28 SK ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी. ३.६) इति चात्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशाच्चैतन्यगुणेनैवास्य शरीरव्यापिता गम्यते / ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. २.१.१७) इति च कर्तुः शारीरत्पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्बलयति / तस्मादणुरात्मेति
584 SK FN: विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः /
585 SK एवं प्राप्ते ब्रूमः -
2.3.29 SK तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् | BBस्_२,३.२९ |
587 SK तुशब्दः पक्षं व्यवर्तयति / नैतदस्त्यणुरात्मेति / उत्पत्त्यश्रवणाद्धि परस्यैव तु ब्रह्मणः प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् / परमेव चेद्ब्रह्म जीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति / परस्य च ब्रह्मणो विभुत्वमाम्नातम् / तस्माद्विभुर्जीवः / तथाच ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. ४.४.२२) इत्येवञ्जातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति / नचाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते / त्वक्संबन्धात्स्यादिति चेत् /
588 SK न / कण्टकतोदने ऽपि सकलशरीरगतैव वेदना प्रसज्येत / त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति / पादतल एव तु कण्टकनुन्नो वेदनां प्रति लभते / नचाणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात् / गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत / प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् / गन्धो ऽपि गुणत्वाभ्युपगमात्साश्रय एव संचरितुमर्हति / अन्यथा गुणत्वहानिप्रसङ्गात् / तथाचोक्तं द्वैपायनेन- ऽउपलभ्याप्सु चेद्गन्दं केचिद्ब्रूयुरनैपुणाः / पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्ऽ इति / यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् / चैतन्यमेव ह्यस्य स्वरूपमग्नेरिवौष्ण्यप्रकाशौ /
29 SK नात्र गुणगुणिविभागो विद्यत इति शरीरपरिमाणत्वं च प्रत्याख्यातम् / परिशेषाद्विभुर्जीवः / कथं तर्ह्यणुत्वादिव्यपदेश इत्यत आह- तद् गुणसारत्वात्तु तद्व्यपदेशः इति / तस्या बुद्धेर्गुणास्तद्गुणा इच्छा द्वेषः सुखं दुःखमित्येवमादयस्तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे संभवति स तद्गुणसारस्तस्य भावस्तद्गुणसारत्वम् / नहि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति / बुद्ध्युपाधिर्धर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तृरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः / तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः / तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यदिव्यपदेशो न स्वतः / तथाच- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च / भागो जीवः स विज्ञेयः स चानन्त्याय कल्पतेऽ (श्वे. ५.९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह / तच्चैवमेव समञ्जसं स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् / नह्युभयं मुख्यमवकल्पेत / नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं, सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपादयिषितत्वात् / तथेतरस्मिन्नप्युन्माने ऽबुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरो ऽपि दृष्टःऽ (श्वे. ६.८) इति च बुद्धिगुणसंबन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना / ऽएषो ऽणुरात्मा चेतसा वेदितव्यःऽ (मुण्ड. ३.१.९) इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् / जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः / तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् / तथा ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी. ३.६) इत्येवञ्जातीयकेष्वपि भेदोपदेशेषु बुद्ध्यौवोपाधिभूतया जीवः शरीरं समारुह्येत्येवं योजयितव्यम् / व्यपदेशमात्रं वा, शिलापुत्रकस्य शरीरमित्यवदत् / नह्यत्र गुणगुणिविभागो ऽपि विद्यत इत्युक्तम् / हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् / तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति- ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीतिऽ (प्रश्न. ६.३) ऽस प्राणमसृजतऽ (प्र. ६.४) इति / उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते / नह्यनपसृपस्य देहाद्गत्यागती स्याताम् / एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः प्राज्ञवत् / यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः- ऽअणीयान्व्रीहेर्वा यवाद्वाऽ (छा. ३.१.१४.२) ऽमनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पःऽ (छा. ३.१४.२) इत्येवंप्रकारस्तद्वत् / स्यादेतद्यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति
2.3.30 SK यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् | BBस्_२,३.३० |
592 SK नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया / कस्मात् / यावदात्मभावित्वाद्बुद्धिसंयोगस्य / यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति / यावदेव चायं बुद्ध्युपाधिसंबन्धस्तावज्जीवस्य जीवत्वं संसारित्वं च /
30 SK परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिसंबन्धपरिकल्पितस्वरूपव्यतिरेकेणास्ति / नहि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते / ऽनान्यो ऽतो ऽस्ति द्रष्टा श्रोता मन्ता विज्ञाताऽ (बृ. ३.७.२३), ऽनान्यदतो ऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृऽ (छा. ६.८.७), ऽतत्त्वमसिऽ (छा. ६.१.६), ऽअहं ब्रह्मास्मिऽ (बृ. १.४.७) इत्यादिश्रुतेभ्यः / कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति / तद्दर्शनादित्याह / तथाहि शास्त्रं दर्शयति- ऽयो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीवऽ (बृ. ४.३.४) इत्यादि / तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति / प्रदेशान्तरे ऽविज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ इति विज्ञानमयस्य मनआदिभिः सह पाठात् / बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते / यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानो ऽभिधीयते तद्वत् / ऽस समानः सन्नुभौ लोकावनुसंचरतिऽ इति च लोकान्तरगमने ऽप्यवियोगं बुद्ध्या दर्शयति / केन समानस्तस्यैवबुद्ध्येति गम्यते संनिधानात् / तच्च दर्शयति - ऽध्यायतीव लेलायतीवऽ (बृ. ४.३.७) इति / एतदुक्तं भवति- नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति / अपिच मिथ्याज्ञानपुरःसरो ऽयमात्मनो बुद्ध्युपाधिसंबन्धः / नच मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधस्यावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति / दर्शयति च- ऽवेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः पुरस्तात् / तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे. ३.८) इति
594 SK FN: विज्ञानमयो बुद्धिप्रचुरः / आदित्यवर्णं स्वप्रकाशम् / तमसः परस्तादज्ञानास्पृष्टम् / सता परमात्मना /
595 SK ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्धं आत्मनो ऽभ्युपगन्तुम् / ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. ६.८.१) इति वचनात् / कृत्स्नविकारप्रलयाभ्युपगमाच्च / तत्कथं यावदात्मभावित्वं बुद्धिसंबन्धस्येत्यत्रोच्यते-
2.3.31 SK पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् | BBस्_२,३.३१ |
31 SK यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति, नाविद्यमानान्युत्पद्यन्ते षण्डादीनामपि तदुत्पत्तिप्रसङ्गात्, एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति / एवं ह्येतद्युज्यते / नह्याकस्मिकी कस्यचिदुत्पत्तिः संभवति / अतिप्रसङ्गात् / दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम्- ऽसति संपद्य न विदुः सति संपद्यमाहऽ इति त इह व्याघ्रो वा संहो वाऽ (छा. ६.९.३) इत्यादिना / तस्मात्सिद्धमेतद्यावदात्मभावी बुद्ध्याद्युपाधिसंबन्ध इति
2.3.32 SK नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा | BBस्_२,३.३२ |
32 SK तच्चात्मन उपाधिभूतमन्तःकरणं मनो बुद्धिर्विज्ञानं च्तितमिति चानेकधा तत्र तत्राभिलप्यते / क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति / तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् / अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् / आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां संनिधाने सति नित्यमेवोपलब्धिः प्रसज्येत / अथ सत्यपि हेतुसमवधाने फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत / नचैवं दृश्यते / अथवान्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धो ऽभ्युपगन्तव्यः / नचात्मनः शक्तिप्रतिबन्धः संभवति / अविक्रियत्वात् / नापीन्द्रियस्य / नहि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतो ऽकस्माच्छक्तिः प्रतिबध्येत / तस्माद्यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मनः / तथाच श्रुतिः - ऽअन्यत्रात्मना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्ऽ (बृ. १.५.३) इति, ऽमनसा ह्येव पश्यति मनसा शृणोतिऽ (बृ. १.५.३) इति / कामादयश्चास्य वृत्तय इति दर्शयति ऽकामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्हीर्भीरित्येतत्सर्वं मन एवऽ (बृ. १.५.३) इति / तस्माद्युक्तमेतत् / ऽतद्गुणसारत्वात्तद्व्यपदेशःऽ इति
600 SK १४ कर्त्राधिकरणम् / सू. ३३-४०
2.3.33 SK कर्ता शास्त्रार्थवत्त्वात् | BBस्_२,३.३३ |
33 SK तद्गुणसारत्वाधिकारेणैवापरो ऽपि जीवधर्मः प्रपञ्च्यते / कर्ता चायं जीवः स्यात् / कस्मात् / शास्त्रार्थत्वात् / एवञ्च ऽयजेतऽ ऽजुहुयात्ऽ ऽदद्यात्ऽ इत्येवंविधं विदिशास्त्रमर्थवद्भवति / अन्यथा तदनर्थकं स्यात् / तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति / नचासति कर्तृत्वे तदुपपद्येत / तथेदमपि शास्त्रमर्थवद्भवति एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः (प्र. ५.९) इति
2.3.34 SK विहारोपदेशात् | BBस्_२,३.३४ |
34 SK इतश्च जीवस्य कर्तृत्वं, यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति- ऽस ईयते ऽमृतो यत्र कामम्ऽ (बृ. ४.३.१२) इति, ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ. २.१.१८) इति च
605 SK FN: संध्ये स्थाने स्वप्नावस्थानम् /
2.3.35 SK उपादानात् | BBस्_२,३.३५ |
35 SK इतश्चास्य कर्तृत्वं, यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति- ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. २१.१.१७) इति, ऽप्राणान्गृहीत्वाऽ (बृ. २.१.१८) इति च
609 SK FN: प्राणानामिन्द्र्याणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना /
2.3.36 SK व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः | BBस्_२,३.३६ |
611 SK इतश्च जीवस्य कर्तृत्वं, यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम्- ऽविज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि चऽ (तै. २.५.१) इति /
612 SK ननु विज्ञानच्छब्दो बुद्धौ समधिगतः / कथमनेन जीवस्य कर्तृत्वं सूच्यत इति /
36 SK नेत्युच्यते / जीवस्यैवैष निर्देशो न बुद्धेः / न चेज्जीवस्य स्यान्निर्देशविपर्ययः स्यात् / विज्ञानेनेत्येवं निरदेक्ष्यात् / तथा ह्यन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. २.१.१७) इति / इह तु ऽ विज्ञानं यज्ञं तनुतेऽ (तै. २.५.१) इति कर्तृसमानाधिकरणनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः
614 SK अत्राह- यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्स स्वतन्त्रः सन्प्रियं हितं चैवात्मनो नियमेन संपादयेन्न विपरीतम् / विपरीतमपि तु संपादयन्नुपलभ्यते / नच स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति / अत उत्तरं पठति-
2.3.37 SK उपलब्धिवदनियमः | BBस्_२,३.३७ |
616 SK यथायमात्मोपलब्धिं प्रति स्वतन्त्रो ऽप्यनियमेनेष्टमनिष्टं चोपलभत एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति / उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेत् /
37 SK न / विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् / उपलब्धौ त्वनन्यापेक्षत्वमात्मनश्चैतन्ययोगात् / अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् / नच सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते / भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् / सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते
2.3.38 SK शक्तिविपर्ययात् | BBस्_२,३.३८ |
38 SK इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति / यदि पुर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात्ततः शक्तिविपर्ययः स्यात् / करणशक्तिर्बुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत / सत्यां च बुद्धेः कर्तृशक्तौ तस्या एवाहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् / अहङ्कारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् / अहं गच्छाम्यहमागच्छाम्यहं भुञ्जो ऽहं पिबामीति च / तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारी करणमन्यत्कल्पयितव्यम् / शक्तो ऽपि हि सन्कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इति / ततश्च संज्ञामात्रे विवादः स्यान्न वस्तुभेदः कश्चित् / करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात्
2.3.39 SK समाध्यभावाच् च | BBस्_२,३.३९ |
39 SK यो ऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु- ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसितव्य सो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (बृ. २.४.५), ऽआत्मेत्येवं ध्यायथ आत्मानम्ऽ (मुण्ड. २.२.६) इत्येवंलक्षणः, सो ऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत / तस्मादप्यस्य कर्तृत्वसिद्धिः
622 SK १५ तक्षाधिकरणम् // सू. ४०
2.3.40 SK यथा च तक्षोभयथा | BBस्_२,३.४० |
624 SK एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितं, तत्पुनः स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते / तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वमपवादहेत्वभावादिति /
625 SK एवं प्राप्ते ब्रूमः / न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात् / कर्तृत्वस्वभावे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति, अग्नेरिवौष्ण्यात् / नच कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात् /
626 SK ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति / तत्परिहारश्च निमित्तपरिहारात् / यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावात् /
627 SK न / निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् /
628 SK ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति /
629 SK न / साधनायत्तस्यानित्यत्वात् / अपिच नित्यशुद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता / तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वे ऽवकल्पेत / तस्मादुपाधिधर्माध्यासेनैवात्मनः कर्तृत्वं न स्वाभाविकम् / तथाच श्रुतिः - ऽध्यायतीव लेलायतीवऽ (बृ. ४.३.७) इति / ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः(कण्ठ. ३.४) इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तेत्यादिविशेषलाभं दर्शयति / नहि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते / ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ४.३.२३) इत्यादिश्रवणात् / पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत, परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् /
630 SK न / अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः / तथाच शास्त्रम्- ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ. २.४.१४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. २.४.१४) इति / तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति- ऽतद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् (बृ. ४.३.२१) इत्यारभ्य एषास्य परमा गतिरेषास्य परमा संपदेषो ऽस्य परमो लोक एषो ऽस्यपरम आनन्दः (बृ. ४.३.३२) इत्युपसंहारात् / तदेतदाहाचार्यः - यथा च तक्षोभयथा इति / त्वर्थे चायं चः पठितः / नैवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तृत्वमग्नेरिवौष्ण्यमिति / यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निवृत्तो निर्व्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो ऽकर्ता सुखी भवति संप्रसादावस्थायाम् / तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निवृत्तः सुखी भवति / तक्षदृष्टान्तश्चैतावतांऽशेन द्रष्टव्यः / तक्षा हि विशिष्ठेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति / स्वशरीरेण त्वकर्तैव / एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैवेति / नत्वात्मनस्थक्ष्ण इवावयवाः सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा / यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति / तन्न / विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मनः प्रतिपादयति / नच स्वाभाविकमस्य कर्तृत्वमिति ब्रह्मात्मत्वोपदेशादित्यवोचाम / तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते /
631 SK कर्ता विज्ञानात्मा पुरुष इत्येवञ्जातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्यमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति / एतेन विहारोपादाने परिहृते / तयोरप्यनुवादरूपत्वात् /
632 SK ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति / तथोपादाने ऽपि ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति /
40 SK अत्रोच्यते- न तावत्संध्ये स्थाने ऽत्यन्तमात्मनः करणविरमणमस्ति / ऽसधीः स्वप्नो भूत्वेमं लोकमतिक्रामतिऽ (बृ.४.३.७) इति तत्रापि धीसंबन्धश्रवणात् / तथाच स्मरन्ति- ऽइन्द्रियाणामुपरमे मनो ऽनुपरतं यदि / सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्ऽ इति / ऽकामादयश्च मनसो वृत्तयःऽ इति श्रुतिः / ताश्च स्वप्ने दृश्यन्ते / तस्मात्समना एव स्वप्ने विहरति / विहारो ऽपि च तत्रत्यो वासनामय एव नतु पारमार्थिको ऽस्ति / तथाच श्रुतिरिवाकारानुबद्धमेव स्वप्नव्यापारं वर्णयति- ऽउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्ऽ (बृ. ४.३.१३) इति / लौकिका अपि तथैव स्वप्नं कथयन्ति- आरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति / तथोपादाने ऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् / केवले कर्तृत्वासंभवस्य दर्शितत्वात् / भवति च लोके ऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति / अपिचास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् / यस्त्वयं व्यपदेशो दर्शितः ऽविज्ञानं यज्ञं तनुतेऽ इति, स बुद्धेरेव कर्तृत्वं प्रापयति / विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् / मनोनन्तरं पाठाच्च / ऽतस्य श्रद्धैव शिरःऽ (तै. २.४) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् / श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः / ऽविज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासतेऽ (तै. २.५.१) इति च वाक्यशेषात् / ज्येष्ठत्वस्य च प्रथमजत्वमस्य बुद्धौ प्रसिद्धत्वात् / ऽस एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःऽ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारमात् / नच बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति / सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् / उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं, सा चात्मनः / नच तस्यामप्यस्य कर्तृत्वमस्ति / नित्योलब्धिस्वरूपत्वात् / अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति / अहङ्कारस्याप्युपलभ्यमानत्वात् / नचैवं सति करणान्तरकल्पनाप्रसङ्गः / बुद्धेः करणत्वाभ्युपगमात् / समाध्यभावस्तु शास्त्रार्थत्त्वेनैव परिहृतः / यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् / तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम्
634 SK FN: शोकान्तरं दुःखास्पृष्टम् /
635 SK गतिः प्राप्यं, लोको भोग्यं सुखम् /
636 SK अन्यैरप्रेर्यत्वं स्वस्थत्वम्, मानसप्रयत्नराहित्यं निर्वृतत्वम्, कायचेष्टाशून्यत्वं निर्व्यापारत्वम् /
637 SK संप्रसादः सुषुप्तिः / जक्षत् भुञ्जानैव /
638 SK १६ परायत्ताधिकरणम् / सू. ४१-४२
2.3.41 SK परात् तु तच्छ्रुतेः | BBस्_२,३.४१ |
640 SK यदिदमविद्यावस्थायामुपादिनिबन्धनं कर्तृत्वं जीवस्याभिहितं, तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा / तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति / कस्मात् / अपेक्षाप्रयोजनाभावात् / अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसमपन्नः कर्तृत्वमनुभवितुं शक्नोति / तस्य किमीश्वरः करिष्यति / नच लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिवदीश्वरो ऽपरो ऽपेक्षितव्य इति / क्लेषात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलं चैषां कर्तृत्वं विदधतो वैषम्यम् /
641 SK ननु ऽवैषम्यनैर्घृण्ये न सापेक्षत्वात्ऽ (ब्र. १.४.१७) इत्युक्तम् /
41 SK सत्यमुक्तम् सति त्वीश्वरस्य सापेक्षत्वसंभवे / सापेक्षत्वं चेश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोस्तयोश्च सद्भावः सति जीवस्य कर्तृत्वे / तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्किंविषयमीश्वरस्य सापेक्षत्वमुच्येत / अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत / तस्मात्स्वत एवास्य कर्तृत्वमिति / एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते- ऽपरात्ऽ इति / अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः, तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति / कुतः / तच्छ्रुतेः / यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते / तथाहि श्रुतिर्भवति- ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीयते / एष ह्येवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौषी. ३.८) इति / ऽय आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयका
643 SK नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घण्ये स्यातामकृताभ्यागमश्च जीवस्येति / नेत्युच्यते-
2.3.42 SK कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः | BBस्_२,३.४२ |
645 SK तुशब्दश्चोदितदोषव्यावर्तनार्थः / कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति / ततश्चैते चोदिता दोषा न प्रसज्यन्ते / जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवदीश्वरो निमित्तत्वमात्रेण / यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां चासाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः / नह्यसति पर्जन्ये रसपष्पपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु, एवं जीवकृतप्रयत्नापेक्ष ईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते /
646 SK ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते /
42 SK नैष दोषः / परायत्ते ऽपि हि कर्तृत्वे करोत्येव जीवः / कुर्वन्तं हि तमीश्वरः कारयति / अपिच पूर्वप्रयत्नमपेक्ष्येदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात्संसारस्येत्यनवद्यम् / कथं पुनरवगम्यते कृतप्रत्नापेक्ष ईश्वर इति / विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह / एवं हि ऽस्वर्गकामो यजेतऽ ऽब्राह्मणो न हन्तव्यःऽ, इत्येवञ्जातीयकस्य विहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति / अन्यथा तदनर्थकं स्यात् / ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत / अत्यन्तपरतन्त्रत्वाज्जीवस्य / तथा विहितकारिणमप्यनर्थेन संसृजेत्प्रतिषिद्धकारिणमप्यर्थेन / ततश्च प्रामाण्यं वेदस्यास्तमियात् / ईश्वरस्य चात्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषप्रसङ्गश्चेत्येवञ्जातीयकं दोषजातमादिग्रहणेन दर्शयति
648 SK १७ अंशाधिकरणम् / सू. ४३-५३
2.3.43 SK अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके | BBस्_२,३.४३ |
650 SK जीवेश्वरयोरुपकार्योपकारभाव उक्तः / स च संबद्धयोरेव लोके दृष्टो यथा स्वामिभृत्ययोर्यथा वाग्निविस्फुलिङ्गयोः / ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात्किं स्वामिभृत्यवत्संबन्ध आहोस्विदग्निविस्फुलिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति / अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति / अतो ब्रवीत्यंश इति / जीव ईश्वस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः / अंश इवांशो नहि निरवयवस्य मुख्य्ॐऽशः संभवति / कस्मात्पुनर्निरवयवत्वात्स एव न भवति / नानाव्यपदेशात् / ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. ८.७.१) ऽएतमेव विदित्वा मुनिर्भवतिऽ ऽ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयको भेदनिर्देशो नासति भेदे युज्यते /
43 SK ननु चायं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इत्यत आह- अन्यथा चापीति / नच नानाव्यपदेशादेव केवलादंशत्वप्रतिप्तिः / किं तर्ह्यन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः / तथाहि- एके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते- ऽब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाःऽ इत्यादिना / दाशा य एते कैवर्ताः प्रसिद्धाः, ये चामी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये चान्ये कितवा द्यूतकृतस्ते सर्वे ब्रह्मैवेति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह / तथान्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते- ऽत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी / त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे. ४.३) इति / ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ इति च / ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृच ३.७.२३) इत्यादिश्रुतिभ्यश्चास्यार्थस्य सिद्धिः / चैतन्यं चाविशिष्टं जीवेश्वरयोर्यथाग्निविस्फुलिङ्गयोरौष्ण्यम् / अतो भेदाभेदावगमाभ्यामंशत्वावगमः
2.3.44 SK मन्त्रवर्णाच् च | BBस्_२,३.४४ |
44 SK मन्त्रवर्णश्चैतमर्थमवगमयति ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः / पादो ऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिविऽ (छा. ३.१२.६) इति / अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति / ऽअहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यःऽ इति प्रयोगात् / अंशः पादो भाग इत्यनर्थान्तरम् / तस्मादप्यंशत्वावगमः
2.3.45 SK अपि च स्मर्यते | BBस्_२,३.४५ |
45 SK ईश्वरगीतास्वपि चेश्वरंशत्वं जीवस्य स्मर्यते- ऽममैवांशो जीवलोके जीवभूतः सनातनःऽ (१५.७) इति / तस्मादप्यंशत्वावगमः / यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति / यद्यप्येषा लोके प्रसिद्धस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते / निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान्प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते
658 SK अत्राह- ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् / यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेनाङ्गिनो देवदत्तस्य दुःखित्वं तद्वत् / ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् / अतो वरं पूर्वावस्थः संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यादिति /
2.3.46 SK प्रकाशादिवन् नैवं परः | BBस्_२,३.४६ |
46 SK यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरो ऽनुभवतीति प्रतिजानीमहे / जीवो ह्यविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःख्यहमित्यविद्यया कृतं दुःखोपभोगमभिमन्यते / नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वास्ति / जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानो नतु पारमार्थिको ऽस्ति / यथाच स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रो ऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः / ततश्च निश्चितमेतदवगम्यते- मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति / व्यतिरेकदर्शनाच्चैवमवगम्यते / तथाहि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाद्युद्घोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् / अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टं, किमुत विषयशून्यादात्मनो ऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति / तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः / प्रकाशादिवदिति निदर्शनोपन्यासः / यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यवतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानो ऽपि न परमार्थतस्तद्भावं प्रतिपद्यते / यथा चाकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानो ऽपि न परमार्थतो गच्छति, यथा चोदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमाने ऽपि न तद्वान्सूर्यः कम्पते, एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्येंऽशे दुःखायमाने ऽपि न तद्वानीश्वरो दुःखायते / जीवस्यापि तु दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम् / तथाचाविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः ऽतत्त्वमसिऽ इत्येवमादयः, तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः
662 SK FN: इतरेष्वभिमानशून्येषु /
2.3.47 SK स्मरन्ति च | BBस्_२,३.४७ |
47 SK स्मरन्ति च व्यासादयो यथा जैवेन दुःखेन न परमात्मा दुःखायत इति / ऽतत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः / न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा / कर्मात्मा त्वपरो यो ऽसौ मोक्षबन्धनैः स युज्यते / स सप्तदशकेनापि राशिना युज्यते पुनःऽ इति / चशब्दात्समामनन्ति चेति वाक्यशेषः / ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (श्वे. ४.६) इति / ऽएकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यःऽ (कठ. ५.११) इति च
665 SK अत्राह- यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात्कथमनुज्ञापरिहारौ स्यातां लोकिकौ वैदिकौ चेति /
666 SK ननु चांशो जीव ईश्वरस्येत्युक्तम् / तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति /
667 SK उच्यते- नैतदेवम् / अनंशित्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति- ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (ते. २.६.१), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. ३.७.२३), ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. ४.४.१९), ऽतत्त्वमसिऽ (छा. ६.८.७) ऽअहं ब्रह्मास्मिऽ (बृ. १.४.१०) इत्येवञ्जातीयकाः /
47 SK ननु भेदाभेदावगमाभ्यामंशत्वं सिद्ध्यतीत्युक्तम् / स्यादेतदेवं यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्, अभेद एव त्वत्र प्रतिपिपादयिषितो ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः / स्वभावप्राप्तस्तु भेदो ऽनूद्यते / नच निरवयवस्य ब्रह्मणो मुख्य्ॐऽशो जीवः संभवतीत्युक्तम् / तस्मात्परः एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्यानुज्ञापरिहारोपपत्तिः
669 SK FN: तत्र जीवपरयोर्मध्ये / कर्मात्मा कर्माश्रयो जीवः / सप्तदशकेन दशेन्द्रयाणि पञ्च प्राणः मनो बुद्दिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् /
670 SK मृत्योः स मृत्यु - इह ब्रह्मणि यो नानेव कल्पितभेदशालि चेतनाचेतनात्मकं विश्वं पश्यति स मृत्योरनन्तरं मृत्युं जन्ममरणादिपरम्परारूपं संसारं प्राप्नोतीत्यर्थः /
2.3.48 SK अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् | BBस्_२,३.४८ |
673 SK ऽऋतौ भार्यामुपेयात्ऽ इत्यनुज्ञा / ऽऽगुर्वाङ्गनां नोपगच्छेत्ऽ इति परिहारः / तथा ऽअग्नीषोमीयं पशुं संज्ञपयेत्ऽ इत्यनुज्ञा / ऽन हिंस्यात्सर्वाभूतानिऽ इति परिहारः / एवं लोके ऽपि मित्रमुपसेवितव्यमित्यनुज्ञा / शत्रुः परिहर्तव्य इति परिहारः / एवंप्रकारावनुज्ञापरिहारावेकत्वे ऽप्यात्मनो देहसंबन्धात्स्याताम् / देहैः संबन्धो देहसंबन्धः / कः पुनर्देहसंबन्धः / देहादिरयं संघातो ऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः / दृष्टा च सा सर्वप्राणिनामहं गच्छाम्यहमागच्छाम्यहमन्धो ऽहमनन्धो ऽहं मूढो ऽहममूढ इत्येवमात्मिका / नह्यस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति /
674 SK प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु / तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे ऽप्यनुज्ञापरिहाराववकल्प्येते / सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् /
675 SK न / तस्यकृतार्थत्वान्नियोज्यत्वानुपपत्तेः / हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् /
676 SK आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन्कथं नियुज्येत /
677 SK नचात्मात्मन्येव नियोज्यः स्यात् / शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् /
48 SK न / तत्संहतत्वाभिमानात् / सत्यं व्यतिरेकदर्शिनो नियोज्यत्वं तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एवात्मनो नियोज्यत्वाभिमानः / नहि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः / किमुतैकात्म्यदर्शिनः / नच नियोगाभावात्सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः / सर्वत्राभिमानस्यैव प्रवर्तकत्वादिभिमानाभावाच्च सम्यग्दर्शिनः / तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ / ज्योतिरादिवत् / यथा ज्योतिष एकत्वे ऽप्यग्निः क्रव्यात्परिह्रियते नेतरः / यथाच प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्रियते नेतरः शुचिभूमिष्ठः / यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते / भौमा अपि सन्तो नरकलेवरादयः परिह्रियन्ते / यथा मूत्रपरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत्
681 SK क्रव्यं मांसमत्तीति क्रव्यात् स्माशानाग्निः /
2.3.49 SK असन्ततेश् चाव्यतिकरः | BBस्_२,३.४९ |
683 SK स्यातां नामानुज्ञापरिहरावेकस्याप्यत्मनो देहविशेषयोगात् / यत्स्वयं कर्मफलसंबन्धः स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् /
684 SK नैतदेवम् / असंततेः / नहि कर्तृभोक्तृश्चात्मनः संततः सर्वैः शरीरैः संबन्धो ऽस्ति / उपाधितन्त्रो हि जीव इत्युक्तम् /
49 SK उपाध्यसंतानाच्च नास्ति जीवसंतानः / ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति
2.3.50 SK आभास एव च | BBस्_२,३.५० |
50 SK आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः / न स एव साक्षात् / नापि वस्त्वन्तरम् / अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः / एवमप्यव्यतिकर एव कर्मफलयोः / आभासस्य चाविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति / तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः / येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति / कथम् / बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः / सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतो ऽचेतना आत्मनस्तदुपकरणानि चाणूनि मनांस्यचेतनानि / तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते / ते चाव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः / तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः / तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति / स्यादेतत् / प्रधानप्रवृत्तेः परुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति / अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् / तथाचानिर्मोक्षः प्रसज्येतेति / नैतत्सारम् / नह्यभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् / उपपत्त्या तु कयाचिद्व्यवस्थोच्येत / असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यं, प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः / काणादानामपि यदैकेनात्मना मनः संयुज्यते तदात्मान्तरैरपि नान्तरीयकः संयोगः स्यात्संनिधानाद्यविशेषात् / ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत
688 SK स्यादेतत् / अदृष्टनिमित्तो नियमो भविष्यतीति / नेत्याह-
2.3.51 SK अदृष्टानियमात् | BBस्_२,३.५१ |
51 SK बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्मलक्षणमदृष्टमुपर्ज्यते / सांख्यानां तावत्तदनात्मसमवायि प्रधानवर्ति प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते / काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः
691 SK स्यादेतत् / अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयता इत्थं करवाणीत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति / नेत्याह-
2.3.52 SK अभिसन्ध्यादिष्व् अपि चैवम् | BBस्_२,३.५२ |
52 SK अभिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव
2.3.53 SK प्रदेशाद् इति चेन् नान्तर्भावात् | BBस्_२,३.५३ |
695 SK अथोच्येत विभुत्वे ऽप्यत्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एवात्मप्रदेशे भविष्यतीति अतः प्रदेशकृता व्यवस्थाभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति / तदपि नोपपद्यते / कस्मात् / अन्तर्भावात् / विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति / तत्र न वैशेषिकैः शरीरावच्छिन्नो ऽप्यात्मानः प्रदेशः कल्पयितुं शक्यः / कल्प्यमानो ऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति / शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् / प्रदेशविशेषाभ्युपगमे ऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् / समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् / तथाहि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समानः सुखदुःखानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमनिष्टं न स्यात् / स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् / ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वार्गाद्युपभोगस्य / सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां, दृष्टान्ताभावात् / वद तावत्त्वं के बहवः समानप्रदेशाश्चेति / रूपादय इति चेत् / न / तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च / नतु बहूनामात्मनां लक्षणभेदो ऽस्ति / अन्त्यविशेषवशाद्भेदोपपत्तिरितिचेत् /
53 SK न / भेदकल्पनाय अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् / आकाशादीनामपि विभुत्वं ब्रह्मवादिनो ऽसिद्धं कार्यत्वाभ्युपगमात्, तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्
3 SK इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीयः पादः समाप्तः
698 SK ____________________________________________________________________________________________ ____________________________________________________________________________________________
699 SK द्वितीयाध्याये चतुर्थः पादः /
700 SK अत्र पादे लिङ्गशरीरश्रुतीनां विरोधपरिहारः
701 SK १ प्राणोत्पत्त्यधिकरणम् / सू. १-४
2.4.1 SK तथा प्राणाः | BBस्_२,४.१ |
703 SK वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतः / चतुर्थेनेदानीं प्राणविषयः परिह्रियते / ऽतत्र तावत् तत्तेजो ऽसृजतऽ (छान्दो. ६.२.३) इति, ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तैत्ति. २.१.१) इति चैवमादिषूत्पत्तिप्रकरणेषु प्राणानामुत्पजिर्नाम्नायते क्वचिच्चानुत्पत्तिरेवैषामाम्नायते ऽअसद्वा इदमग्र आसीत्ऽ (तै. २.७) ऽतदाहुः किं तदसदासीदित्यृषयो वाव ते ऽग्रे ऽसदासीत् / तदाहुः के ते ऋषय इति / प्राणा वाव ऋषयःऽ इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् / अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते- ऽयथाग्नेर्ज्वलतः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ इति, ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. २.१.३) इति, ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मु. २.१.८) इति, ऽस प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो ऽन्नम्ऽ (प्र. ६.४) इति चैवमादिप्रदेशेषु / तत्र तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्चाप्रतिपत्तिः प्राप्नोति / अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिरिति प्राप्नोति / अत उत्तरमिदं पठति- ऽतथा प्राणाःऽ इति / कथं पुनरत्र तथेत्यक्षरानुलोम्यं प्रकृतोपमानाभावात् / सर्वगतात्मबहुत्ववादिदूषणमतीतानन्तरपादान्ते प्रकृतं तत्तावन्नोपमानं संभवति सादृश्याभावात् / सादृश्ये हि सत्युपमानं स्यात् / यथा सिंहस्तथा बलवर्मोति / अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत, यथादृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वमेवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति / तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् / नच जीवेन प्राणा उपमीयेरन्सिद्धान्तविरोधात् / जीवस्य ह्यनुत्पत्तिराख्याता / प्राणानां तूत्पत्तिर्व्याचिख्यासिता / तस्मात्तथेत्यसंबद्धमिव प्रतिभाति /
704 SK न / उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः / अत्र प्राणोत्पत्तिवादिवाक्यजातमुजदाहरणम्- ऽएतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्तिऽ (बृ. २.१.२०) इत्येवञ्जातीयकम् / तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते तथा प्राणा अपीत्यर्थः / तथा- ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुण्ड. २.१.३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् / अथवा ऽपानव्यापच्च तद्वत्ऽ (जै.अ. ३.४.१५) इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् / यथातीतानन्तरपादाद्युक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगतास्तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् / कः पुनः प्राणानां विकारत्वे हेतुः / श्रुतत्वमेव /
1 SK ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तं तदयुक्तम् / प्रदेशान्तरेषु श्रवणात् / नहि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते / तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम्
706 SK FN: प्राणविषयः प्राणोत्पत्तिसंख्यातत्त्वादिविषयः / आनुलोम्यमाञ्जस्यम् / यथा तृतीयाध्यये चतुर्थपादेष्वप्रतिग्रहेष्वधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितो ऽपि सोमवमने परामृश्यते तद्वदत्रापि ज्ञेयम् /
2.4.2 SK गौण्यसंभवात् | BBस्_२,४.२ |
2 SK यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति / तत्प्रत्याह- गौण्यसंभवादिति / गौण्या असंभवो गौण्यसंभवः / नहि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति / प्रतिज्ञाहानिप्रसङ्गात् / ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. १.१.३) इति ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते- ऽएतस्माज्जायते प्राणःऽ (मुण्ड. २.१.३) इत्यादि / सा च प्रतिज्ञा प्राणादेः समस्तस्य जागतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिद्ध्यति / गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञेयं हीयेत / तथाच प्रतिज्ञातार्थमुपसंहरति- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ (मुण्ड. २.२.११) इति, ऽब्रह्मैवेदं विश्वमिदं वरिष्टम्ऽ (मुण्ड. २.२.११) इति च / तथा ऽआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ इत्येवञ्जातीयकासु श्रुतिष्वेषैव प्रतिज्ञा योजयितव्या / कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् / नैतन्मूलप्रकृतिविषयम् / ऽअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परःऽ (मुण्ड, २.१.२) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् / अवान्तरप्रकृतिविषयं त्वेतत्स्ववविकारापेक्षं प्रगुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् / व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः / वियदधिकरणे हि ऽगौण्यसंभवात्ऽ इति पूर्वपक्षसूत्रत्वाद्गौणी जन्मश्रुतिरसंभवादिति व्याख्यातम् / प्रतिज्ञाहान्या च तत्र सिद्धान्तो ऽभिहितः / इह तु सिद्धान्तसूत्रत्वाद्गोण्या जन्मश्रुतेरसंभवादिति व्याक्यातम् / तदनुरोदेन त्विहापि गौणी जन्मश्रुतिसंभवादिति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात्
2.4.3 SK तत्प्राक्श्रुतेश् च | BBस्_२,४.३ |
3 SK इतश्चाकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः / यज्जायत इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सदुत्तरेष्वप्याकाशादिष्वनुवर्तते / ऽएतस्माज्जायते प्राणःऽ (मु. २.१.३) इत्यत्राकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितं तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति / नह्येकस्मिन्प्रकरण एकस्मिंश्च वाक्य एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् / वैरूप्यप्रसङ्गात् / तथा ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्रश्न. ६.४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते / यत्रापि पश्चच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः / यथा ऽसर्वाणि भूतानि व्युच्चरन्तिऽ इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते
2.4.4 SK तत्पूर्वकत्वाद् वाचः | BBस्_२,४.४ |
4 SK यद्यपि ऽतत्तेजो ऽसृजतऽ (छा. ६.२.३) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव च त्रयाणां भूतानामुत्पत्तिश्रवणात् / तथापि ब्रह्मप्रकृतिकतेजोबन्नपीर्वकत्वाभिधानाद्वाक्प्राणमनसां तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति / तथाहि- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते- ऽअन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्ऽ (छा. ६.५.४) इति / तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वं ततो वर्तत एव ब्रह्मप्रभवत्वम् / अथ भाक्तं ततापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. ६.१.३) इति चोपक्रमात् ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. ६.८.७) इति चोपसंहाराच्छ्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते / तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः
713 SK २ सप्तगत्यधिकरणम् / सू. ५-६
2.4.5 SK सप्त गतेर् विशेषितत्वाच् च | BBस्_२,४.५ |
715 SK उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः / संख्यविषय इदानीं परिह्रियते / तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति / संप्रति तु कतीतरे प्राणा इति संप्रधारयति / श्रुतिविप्रतिपत्तेश्चात्र विशयः / क्वचित्सप्त प्राणाः संकीर्त्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. २.१.८) इति / क्वचिच्चाष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते- ऽ अष्टौ ग्रहा अष्टावतिग्रहाःऽऽ (बृ. ३.२.१) इति / क्वचिन्नव- ऽसप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौऽ (तै. सं. ५.१.७.१) इति / क्वचिद्दश- ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ इति / क्वचिदेकादश- ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. ३.९.४) इति / क्वचिद्द्वादश- ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ (बृ. २.४.११) इत्यत्र / क्वचित्त्रयोदश ऽचक्षुश्च द्रष्टव्यं चऽ (बृ. ४.८) इत्यत्र / एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः / किं तावत्प्राप्तम् / सप्तैव प्राणा इति / कुतः गतेः / यतस्तावन्तो ऽवगम्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. २.१.८) इत्येवंविधासु श्रुतिषु / विशेषिताश्चैते ऽसप्त वै शीर्षण्याः प्राणाःऽ इत्यत्र /
716 SK ननु ऽप्राणा गुहाशया निहिताः सप्त सप्तऽ (मुण्ड. २.१.८) इति वीप्सा श्रूयते, सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयति /
717 SK नैष दोषः / पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति, न तत्त्वभेदाभिप्राया सप्त सप्तान्ये ऽन्ये प्राणा इति /
718 SK नन्वष्टत्वादिकापि संखाया प्राणेषूदाहृता कथं सप्तैव स्युः /
5 SK सत्यमुदाहृता / विरोधात्त्वन्यतमा संक्याध्यवसातव्या / तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् / वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते
720 SK FN: विशयः संशयः / ग्रहत्वं बन्धकत्वम् / गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि / अतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः / अवाञ्चौ पायूपस्थौ / गतेः अवगतेः /
2.4.6 SK हस्तादयस् तु स्थिते ऽतो नैवम् | BBस्_२,४.६ |
723 SK हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः श्रूयन्ते- ऽहस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोतिऽ (बृ. ३.२.८) इत्येवमाद्यासु श्रुतिषु / स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् / हीनाधिकसंख्याविप्रतिपत्तौ ह्यधिका संख्या संग्राह्या भवति तस्यां हीनान्तर्भवति नतु हीनायामधिका / अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति / उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः / तथा चोदाहृता श्रुतिः - ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. ३.९.४) इति / आत्मशब्देन चात्रान्तःकरणं परिगृह्यते, करणाधिकारात् /
724 SK नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते /
725 SK सत्यमुदाहृते / नन्वेकादशाभ्यः कार्यजातेभ्यो ऽधिकं कार्यजातमस्ति यदर्थमधिकं करणं कल्प्येत /
726 SK शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धीन्द्रियाणि / वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च कर्मेन्द्रियाणि / सर्वार्थविषयं त्रैकाल्यवृत्ति मनत्वेकमनेकवृत्तिकम् / तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते- ऽमनो बुद्धिरङंकारश्चित्तं चऽ इति / तथाच श्रुतिः कामाद्या नानाविधा वृत्तिरनुक्रम्याह- ऽएतत्सर्वं मन एवऽ (बृ. १.५.३) इति / अपिच सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः / स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते ऽद्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्ऽ इति / नच तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं, हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् / तथा ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ
727 SK इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण / नाभिद्दशमिति वचनात् / नहि नाभिर्नाम कश्चित्प्राणः प्रसिद्धो ऽस्ति / मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते / क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते क्वचित्प्रदर्शनार्थम् / तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति विवेक्तव्यम् / कार्यजातवशात्त्वेकादशात्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् / इयमपरा सूत्रद्वययोजना / सप्तैव प्राणाः स्युर्यतः सप्तानामेव गतिः श्रूयते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२) इत्यत्र /
728 SK ननु सर्वशब्दो ऽप्यत्र पठ्यते, तत्कथं सप्तनामेव गतिः प्रतिज्ञायत इति / विशेषितत्वादित्याह / सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः ऽस यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवतिऽ (बृ. ४.४.१) ऽएकीभवति न पश्यतीत्याहुःऽ (बृ. ४.४.२) इत्येवमादिनानुक्रमणेन / प्रकृतगामी च सर्वशब्दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये / एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति /
729 SK नन्वत्र विज्ञानमष्टममनुक्रान्तं, कथं सप्तानामेवानुक्रमणम् /
6 SK नैष दोषः / मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदे ऽपि सप्तत्वोपपत्तेः / तस्मात्सप्तैव प्राणा इति / एवंप्राप्ते ब्रूमः - हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः प्रतीयन्ते-ऽ हस्तौ वै ग्रहःऽ (बृ. ३.२.८) इत्यादिश्रुतिषु / ग्रहत्वं च बन्धनभावो गृह्यते,बध्यते क्षेत्रज्ञो ऽनेन ग्रहसंज्ञकेन बन्धनेनेति / स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वि तुल्यत्वाद्बन्धनस्य / तस्माच्छरीरान्तरसंचारीदं ग्रहसंज्ञकं बन्दनमित्यर्थादुक्तं भवति / तथाच स्मृतिः - पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते / तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च / इति प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति / आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुष द्रष्टव्यं च इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति-ऽ हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं चऽ ( प्र. ४.८) इति / तथा ऽदशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तिऽ (बृ. ३.९.४) इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति / सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो दर्शयति / सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात् / सर्वे ब्राह्मणा भोजयितव्या इत्यत्रापि सर्वेषामेवावनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यं, सर्वशब्दसामर्थ्यात् / सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता / इह तु न किञ्चित्सर्वशब्दार्थसंकोचने कारणमस्ति / तस्मात्सर्वशब्देनात्राशेषाणां प्राणानां परिग्रहः / प्रदर्शनार्थे च सप्तानामनुक्रमणमित्यनवद्यम् / तस्मादेकादशैव प्राणाः शब्दतः कार्यतश्चेति सिद्धम्
731 SK FN: गुहायां हृदये शेरत इति गुहाशयाः स्वस्तानेषु निहिताः निक्षिप्ताः / कर्मणा हस्तनिर्वर्त्यादानेन गृहीतः संबद्धः / त्रयः कालास्त्रैकाल्यं तद्विषय वृत्तिर्यस्य तन्त्रैकाल्यवृत्ति / चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः / इह उत्क्रान्तिप्रकरणे / प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं अन्तःकरणचतुष्टयं अविद्या कामः कर्म चेति पर्युष्टकम् /
732 SK प्राणाणुत्वाधिकरणम् / सू. ७
2.4.7 SK अणवश् च | BBस्_२,४.७ |
734 SK अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति / अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः / अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् / सूक्ष्मा एते प्राणाः स्थूलाश्चेत्स्युर्मरणकाले शरीरान्निर्गच्छन्तो बिलादहिरिवोपलभ्येरन्म्रियमाणस्य पार्श्वस्थैः / परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत्स्युरुत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् / तद्गुणसारत्वं च जीवस्य न सिद्ध्येत् / सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् /
7 SK न. वृत्तिमात्रस्य करणत्वोपपत्तेः / यदेव ह्युपलब्धिसाधनं वृत्तिरन्यद्वा तस्यैव नः करणत्वं संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका / तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः
736 SK FN: अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् / परिच्छेदो ऽल्पत्वम् /
737 SK ४ प्राणश्रैष्ठ्याधिकरणम् / सू. ८
2.4.8 SK श्रेष्ठश् च | BBस्_२,४.८ |
739 SK मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति / तच्चाविसेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. २.१.३) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् / ऽस प्राणमसृजतऽ (प्र. ६.४) इत्यादि श्रवणेभ्यश्च / किमर्थः पुनरतिदेशः,
8 SK अधिकाशङ्कापाकरणार्थः / नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति ऽन मृत्युरासीदमृतं न तर्हि न रात्र्या अह्नु आसीत्प्रकेतः / आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनासऽ (ऋ.सं. ८.७.१७) इति / आनीदिति प्राणकर्मोपादानात्प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति / तस्मादजः प्राण इति जायते कस्यचिन्मतिः / तामतिदेशेनापनुदति / आनीच्छब्दो ऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति / अवातमिति विशेषणात् / ऽअप्राणो ह्यमनाः शुभ्रःऽ इति च मुलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् / तस्मात्कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति / श्रेष्ठ इति च मुख्यं प्राणमभिदधाति- ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. ५.१.१) इति श्रुतिनिर्देशात् / ज्येष्ठश्च प्राणः शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् / न चेतस्य तदानीं वृत्तिलाभः स्याद्योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा / श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् / श्रेष्ठश्च प्राणो गुणाधिक्यात्, ऽन वै शक्ष्यामस्त्वदृते जीवितुम्ऽ (बृ. ६.१.१३) इति श्रुतेः
741 SK FN: तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अहः प्रकेतः सूर्यश्च नास्तां, स्वधया पितृदेयाग्नेन सह, आनीत् चेष्टां कृतवत् /
742 SK ५ वायुक्रियाधिकरणम् / सू. ९-१२
2.4.9 SK न वायुक्रिये पृथगुपदेशात् | BBस्_२,४.९ |
744 SK स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते / तत्र प्राप्तं तावच्छ्रुतेर्वायुः प्राण इति / एवं हि श्रूयते- ऽयः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणो ऽपानो व्यान उदानः समानःऽ इति / अथवा तन्त्रान्तरीयाभिप्रायात्समस्तकरणवृत्तिः प्राण इति प्राप्तम् / एवं हि तन्त्रान्तरीया आचक्षते- ऽसामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेऽ ति / अत्रोच्यते- न वायुः प्राणो नापि करणव्यापारः / कुतः - पृथगुपदेशात् / वायोस्तावत्प्राणस्य पृथगुपदेशो भवति- ऽप्राण एव ब्रह्मणश्चश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति चऽ (छान्दो. ३.१८.४) इति / नहि वायुरेव सन् वायोः पृथगुपदिश्येत / तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् / वृत्तिवृत्तिमतोश्चाभेदात् / नहि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत / तथा ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च / खं वायुःऽ (मु. २.१.३) इत्येवमादयो ऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः / नच समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात्समुदायस्य चाकारकत्वात् /
745 SK ननु पञ्जरचालनन्यायेनैतद्भविष्यति / यथैतपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादश प्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूयैकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति /
746 SK नेत्युच्यते / युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूयैकं पञ्जरं चालयेयुरिति / तथा दृष्टत्वात् / इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राण न संभूय प्राण्युरिति युक्तम्, प्रमाणाभावात् / अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य / तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणं गुणभावोपगमश्च तं प्रति वागादीनां, न करणवृत्तिमात्रे प्राणे ऽवकल्पते / तस्मादन्यो वायुक्रियाभ्यां प्राणः / कथं तर्हीयं श्रुतिः ऽयः प्राणः स वायुःऽ इति /
9 SK उच्यते- वायुरेवायमध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रम् / अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते
748 SK स्यादेतत् / प्राणो ऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति / श्रेष्ठत्वाद्गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् / तथाह्यनेकविधा विभूतिः प्राणस्य श्राव्यते- ऽसुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एको मृत्युनानाप्तः प्राणः संवर्गो वागादीन्संवृङ् क्ते प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान्ऽ इति / तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्गः / तं परिहरति-
2.4.10 SK चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः | BBस्_२,४.१० |
10 SK तुशब्दः प्राणस्य जीववत्स्वातन्त्र्यं व्यवर्तयति / यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि / तथा मुख्यो ऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वार्थकरत्वेनोपकरणभूतो न स्वतन्त्रः / कुतः / तत्सहशिष्ट्यादिभ्यः / तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु / समानधर्माणां च सह शासनं युक्तं बृहद्रथन्तरादिवत् / आदिशब्देन संहतत्वाचेतनत्वादीन्प्राणस्य स्वातन्त्र्यनिराकरणहेतून्दर्शति
751 SK स्यादेतत् / यदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावो ऽभायुपगम्येत,विषयान्तरं रूपादिवत्प्रसज्येत / रूपाद्यालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति / अपिचैकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः नतु द्वादशमपरं कार्यजातमधिगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायेतेति / अत उत्तरं पठति-
2.4.11 SK अकरणत्वाच् च न दोषस् तथा हि दर्शयति | BBस्_२,४.११ |
753 SK न तावद्विषयान्तरप्रसङ्गो दोषः / अकरणत्वात्प्राणस्य / नहि चक्षुरादिवत्प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते / नचास्यैतावता कार्याभाव एव / कस्मात् / तथाहि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु- ऽअथ ह प्राणा अहंश्रेयसि व्यूदिरेऽ इत्युपक्रम्य ऽयस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठःऽ (छा. ५.१.६,७) इति चोपन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति / ऽतावन्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि, इति चैतमेवार्थं श्रुतिराह- ऽप्राणेन रक्षन्नवरं कुलायम्ऽ (बृ.
11 SK ४.३.१२) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति / ऽयस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदैव तच्छुष्यतिऽ (बृ. १.३.१९) / ऽतेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिऽ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति / ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिऽ इति, ऽस प्राणमसृजतऽ इति च प्राणनिमित्ते जीवस्योत्क्रान्तप्रतिष्ठे दर्शयति
755 SK FN: अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तं, व्यूदिरे विवादं चक्रिरे /
756 SK अपरं नीचं, कुलायं देहाख्यं गृहम् /
2.4.12 SK पञ्चवृत्तिर् मनोवत् व्यपदिश्यते | BBस्_२,४.१२ |
758 SK इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु ऽप्राणो ऽपानो व्यान उदानः समानःऽ (बृ. १.५.३) इति / वृत्तिभेदश्चायं कार्यभेदापेक्षः / प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा / अपानोर्ऽवाग्वृत्तिर्निश्वासादिकर्मा / व्यानस्तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः / उदान ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः / समानः समं सर्वेष्वङ्गेषु यो ऽन्नरसान्नयतीति / एवं पञ्चवृत्तिः प्राणो मनोवत् / यथा मनसः पञ्च वृत्तय एवं प्राणस्यापीत्यर्थः / श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः, नतु कामः संकल्पः इत्याद्याः परिपठिताः परिगृह्येरन् / पञ्चसंख्यातिरेकात् /
12 SK नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषयापरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः / एवं तर्हि ऽपरमतमप्रतिषिद्धमनुमतं भवतिऽ इति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्चवृत्तयः परिगृह्यन्ते ऽप्रमाणविपर्ययविकल्पनिद्रास्मृतयःऽ (पात. योग. सू. १.१.६) नाम / बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् / जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्
760 SK FN: प्रमाणं प्रमितिः, विपर्ययो भ्रमः, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः, तामसी वृत्तिर्निद्रा /
761 SK ६ श्रेष्ठाणुत्वाधिकरणम् / सू. १३
2.4.13 SK अणुश् च | BBस्_२,४.१३ |
763 SK अणुश्चायं मुख्यः प्राणः प्रत्येतव्य इतरप्राणवत् / अणुत्वं चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् / पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् / सूक्ष्मः प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात् / परिच्छिन्नश्चोत्क्रान्तिगत्यागतिश्रुतिभ्यः /
764 SK ननु विभुत्वमपि प्राणस्य समाम्नायते- ऽसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन सर्वेण (बृ. १.३.२२) इत्येवमादिप्रदेशेषु /
13 SK तदुच्यते- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्णेण प्राणात्मनैवैतद्विभुत्वमाम्नायते नाध्यात्मिकेन / अपिच समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः
766 SK FN: प्लुषिर्मशकादपि सूक्ष्मो जन्तुः, नागो हस्ती /
767 SK ७ ज्योतिराद्यधिकरणम् / सू. १४-१६
2.4.14 SK ज्योतिराद्यधिष्ठानं तु तदामननात् | BBस्_२,४.१४ |
14 SK ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै कार्याय प्रभवन्त्याहोस्विद्देवताधिष्ठिताः प्रभवन्तीति विचार्यते- तत्र प्राप्तं तावद्यथा स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति / अपिच देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गाच्छरीरस्य भोक्तृत्वं प्रलीयेत / अतः स्वमहिम्नैवैषां प्रवृत्तिरिति / एवं प्राप्तं इदमुच्यते- ज्योतिराद्यधिष्ठानं तु इति / तुशब्देन पूर्वपक्षो व्यावर्त्यते / ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादि करणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते / हेतुं व्याचष्टे- तदामननादिति / तथाह्यामनन्ति- ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐत. २.४) इत्यादि / अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाधिष्ठातृत्वमङ्गीकृत्योच्यते / नहि देवतासंबन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते / तथा ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽ (ऐत. २.४) इत्येवमाद्यपि यौजयितव्यम् / तथान्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सो ऽग्निना ज्योतिषा भाति च तपति चऽ (छा. ३.१८.३) इत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्वादिवचनेनैतमेवार्थं द्रढयति / ऽस वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सो ऽग्निरभवत्ऽ (बृ. १.३.१२) इति चैवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थं द्योतयति / सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति / समृतावपि- ऽवागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः / वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवचतम् / ऽ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं दर्शितम् / यदुक्तं स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति / तदयुक्तम् / शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात् / उभयथोपपत्तौ चागमाद्देवताधिष्ठितत्वमेव निश्चीयते
770 SK FN: भाति दीप्यते / तपति स्वकार्यं करोति /
771 SK स प्राणो वाचं प्रथमामुद्गीथकर्माणि प्रधानां अनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवान् /
772 SK यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्येति तत्परिह्रियते-
2.4.15 SK प्राणवता शब्दात् | BBस्_२,४.१५ |
774 SK सतीष्वपि प्राणानामधिष्टात्रीषु देवतासु प्राणवता कार्यकरणसंघातस्वामिना शारीरेणैवैषां प्राणानां संबन्धः श्रुतेरवगम्यते / तथाहि श्रुतिः - ऽअथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय तक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्ऽ (छा. ८.१२४) इत्येवञ्जातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति /
15 SK अपिचानेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वमस्मिञ्शरीरे ऽवकल्पते / एको ह्येवमस्मिञ्शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते
776 SK FN: अथ देहे प्रागप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः /
2.4.16 SK तस्य च नित्यत्वात् | BBस्_२,४.१६ |
778 SK तस्य च शारीरस्यास्मिञ्शरीरे भोक्तृत्वेन नित्यत्वेन पुण्यपापोपलेपसंभवात्सुखदुःखोपभोगसंभवाच्च न देवतानाम् / ता हि परस्मिन्नैश्वर्ये पदे ऽवतिष्ठमाना न हिने ऽस्मिञ्शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति / श्रुतिश्च भवति- ऽपुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ (बृ. १.५.३) इति शारीरेणैव च नित्यः प्राणानां संबन्ध उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् / ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. ४.४.२)
779 SK इत्यादिश्रुतिभ्यः / तस्मात्सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति /
16 SK करणपक्षस्यैव हि देवता न भोक्तृपक्षस्येति
781 SK ८ इन्द्रियाधिकरणम् / सू. १७-१९
2.4.17 SK त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् | BBस्_२,४.१७ |
783 SK मुख्यश्चैक इतरे चैकादश प्राणा अनुक्रान्ताः / तत्रेदमपरं संदिह्यते / किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित्तत्त्वान्तराणीति / किं तावत्प्राप्तं, मुख्यस्यैवेतरे वृत्तिभेदा इति / कुतः - श्रुतेः / तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति- ऽहन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्ऽ (बृ. १.५.२१) इति / प्राणैकशब्दत्वाच्चैकत्वाध्यवसायः / इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत / एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वामापद्येत / तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तय एवं वागाद्या अप्येकादशेति / एवं प्राप्ते ब्रूमः - तत्त्वान्तराण्येव प्राणाद्वागादीनीति / कुतः -
784 SK व्यपदेशाभावात् / को ऽयं व्यपदेशभेदः / ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वावशिष्टा एकादशेन्जद्रियाणीत्युच्यन्ते / श्रुतावेवं व्यपदेशदर्शनात् / ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मु. २.१.३) इति ह्येवञ्जातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक्त्चेन्द्रियाणि /
17 SK ननु मनसो ऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात्, ऽमनः सर्वेन्द्रियाणि चऽ इति पृथग्व्यपदेशदर्शनात् / सत्यमेतत् / स्मृतौ त्वेकादशेन्द्रियाणीति मनो ऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते / प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति / व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते / तत्त्वैकत्वे तु स एवैकः सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चेति विप्रतिषिद्धम् / तस्मात्तत्त्वान्तरभूता मुख्यादितरे
786 SK FN: अस्यैव मुख्यप्राणस्य रूपं असाम भवेमेति संकल्प्य, ते वागादयः /
787 SK कुतश्च तत्तवान्तरभूताः -
2.4.18 SK भेदश्रुतेः | BBस्_२,४.१८ |
18 SK भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- ऽते ह वाचमूचुःऽ (बृ. १.३.२) इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम् ऽअथ हेममासन्यं प्राणमूचुःऽ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमात् / तथा ऽमनो वाचं प्राणं तान्यात्मने ऽकुरुतऽ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः / तस्मादपि तत्त्वान्तरभूता मुख्यादितरे
790 SK कुतश्च तत्त्वान्तरभूताः -
2.4.19 SK वैलक्षण्याच् च | BBस्_२,४.१९ |
19 SK वैलक्षण्यं च भवति मुख्यस्येतरेषां च / सुषुप्तेषु वागादिषु मुख्य एको जागर्ति स एव चैको मृत्युनानाप्त आप्तास्त्वितरे / तस्यैव च स्थित्युक्रान्तिभ्यां देहधारणपतनहेतुत्वं नेन्द्रियाणाम् / विषयालोचनहेतुत्वं चेन्द्रियाणां न प्राणस्येवञ्जातीयको भूयाल्लक्षणभेदः प्राणेन्द्रियाणाम् / तस्मादप्येषां तत्त्वान्तरभावसिद्धिः / यदुक्तम्- ऽत एतस्यैव सर्वे रूपमभवन्ऽ (बृ. १.५.२१) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् / तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः / तथाहि- वदिष्याम्येवाहमिति वाग्दध्रेऽ (बृ. १.५.२१) इति वागादीनीन्द्रियाण्यनुक्रम्य ऽतानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक्ऽ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय ऽअथेममेव नाप्नोद्यो ऽयं मध्यमः प्राणःऽ (बृ. १.५.२१) इति पृथक्प्राणं मृत्युनानभिभूतं तमनुक्रामति / ऽअयं वै नः श्रेष्ठःऽ (बृ. १.५.२१) इति च श्रेष्ठतामस्यावधारयति / तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् / अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः / तथाच श्रुतिः - ऽत एतस्यैव सर्वे रूपमभवन् / तस्मादेत एतेनाख्यायन्ते प्राणाःऽ (बृ. १.५.२१) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति / तस्मात्तत्त्वान्तराणि प्राणादिन्द्रियाणीति
793 SK FN: मृत्युरासङ्गदोषः /
794 SK वाद्गग्ध्रे धारणाभिप्रायं चक्रे /
795 SK ९ संज्ञामूर्तिकॢप्त्यधिकरणम् / सू. २०-२२
2.4.20 SK संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् | BBस्_२,४.२० |
797 SK सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति / तासां त्रिवृतं त्रिवृतमेकैकां करवाणीतिऽ (छा. ६.३.२) / तत्र संशयः - किं जीवकर्तृकमिदं नामरूपव्याकरणमाहोस्वित्परमेश्वरकर्तृकमिति / तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति / कुतः - ऽअनेन जीवेनात्मनाऽ इति विशेषणात् / यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानीत्येवञ्जातीयके प्रयोगे चारकर्तृकमेव सत्सैन्यसंकलनं हेतुकर्तृत्वाद्राजात्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण, एवं जीवकर्तृकमेव सन्नामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण / अपिच डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् / तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते ऽभिधत्ते-
798 SK ऽसंज्ञामूर्तिकॢप्तस्तुऽ इति / तुशब्देन पक्षं व्यावर्तयति / संज्ञामूर्तिकॢप्तिरिति नामरूपव्याक्रियेत्येतत् / त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् / येयं संज्ञाकॢप्तिमूर्तिकॢप्तिश्चाग्निरादित्यश्चन्द्रमा विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति चानेकप्रकारा / सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति / कुतः - उपदेशात् / तथाहि- ऽसेयं देवतैक्षतऽ इत्युपक्रम्य ऽव्याकरवाणिऽ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते /
799 SK ननु जीवेनेति विशेषणाज्जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् /
20 SK नैतदेवम् / जीवेनेत्येतदनुप्रविश्येत्यनेन संबध्यत आनन्तर्यात्, न व्याकरवाणीत्यनेन / तेन हि संबन्धे व्याकरवाणीत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत / नच गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति / येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् / नच जीवो नाम परमेश्वरादत्यन्तभिन्नश्चार इव राज्ञः, आत्मनेति विशेषणात् / उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य / तेन, तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति / परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः / ऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽ (छा. ८.१४.१) इत्यादिश्रुतिभ्यः / तस्मात्परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम् / त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् / तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- ऽयदग्रे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ (छा. ६.४.१) इत्यादिना / तत्राग्निरितीदं रूपं व्याक्रियते / सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरितीदं नाम व्याक्रियते / एवमादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् / अनेन चाग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति / उपक्रमोपसंहारयोः साधारणत्वात् / तथाह्यविशेषेणैवोपक्रमः - ऽइमास्तिस्रो देवतास्त्रिवृदेकैका भवतिऽ (छा. ६.३.४) इति / अविशेषेणैव चोपसंहारः - ऽयदु रोहितमिवाभूदिति तेजसस्तद्रूपम्ऽ इत्येवमादिः ऽयदविज्ञातमिवाभूदित्येतासामेव देवतानां समास इतिऽ (छा. ६.४.६.७) एवमन्तः
801 SK FN: प्रक्रिया प्रकरणम् /
802 SK तासां तिसृणामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था /
803 SK तासां तिसृणां देवतानां बहिस्त्रिवृत्कृतानां सतीनामध्यात्ममपरं त्रिवृत्करणमुक्तम्- ऽइमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवतिऽ (छा. ६.४.७) इति / तदिदानीमाचार्यो यथाश्रुत्येवोपदर्शयत्याशङ्कितं कञ्चिद्दोषं परिहरिष्यन्-
2.4.21 SK मांसादि भौमं यथाशब्दमितरयोश् च | BBस्_२,४.२१ |
805 SK भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते / तथाहि श्रुतिः - ऽअन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो ऽणिष्ठस्तन्मनःऽ (छा. ६.५.१) इति /
21 SK त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यत इत्यभिप्रायः / तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति / मध्यममध्यात्मं मांसं वर्धयति / अणिष्ठं तु मनः / एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् / एवं मूत्रं लोहितं प्राणश्चापां कार्यम् / अस्थि मज्जा वाक्तेजस इति
807 SK अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेः ऽतास त्रिवृतं त्रिवृतमेकैकामकरोत्ऽ इति / किङ्कृतस्तर्ह्ययं विशेषव्यपदेशः ऽइदं तेज इमा आप इदमन्नम्ऽ इति / तथा ऽअध्यात्ममिदमन्नस्याशितस्य कार्यं मांसादि / इदमपां पीतानां कार्यं लोहितादि / इदं तेजसो ऽशितस्य कार्यमस्थ्यादिऽ इति / अत्रोच्यते-
2.4.22 SK वैशेष्यात् तु तद्वादस् तद्वादः | BBस्_२,४.२२ |
809 SK तुशब्देन चोदितं दोषमपनुदति / विशेषस्य भावो वैशेष्यम् / भूयस्त्वमिति यावत् / सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते ऽअग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वम्ऽ इति /
22 SK व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् / व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरो लोकस्य प्रसिद्ध्येत् / तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते / तद्वादस्तद्वाद इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति
4 SK इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः
812 SK इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः //
814 SK तृतीये साधनाख्याध्याये प्रथमपादे गत्यागतिचिन्ता-वैराग्यनिरूपणविचारश्च
815 SK १ तदनन्तरप्रतिपत्त्यधिकरणम् / सू. १-७
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Brahmasūtra Śāṅkara-bhāṣya: corpustei HTML transform (Brahmasūtra with Śāṅkara-bhāṣya).
Source