A Thousand Teachings

Upadeśasāhasrī · उपदेशसाहस्री

A Thousand Teachings

Upadeśasāhasrī

उपदेशसाहस्री

Part II

SK
अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानाम् अर्थिनाम् अर्थाय // Sअम्Uपद्_II,१.१ //
SK
तद् इदं मोक्षसाधनं ज्ञानं साधनसाध्याद् अनित्यात् सर्वस्माद् विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवद् उपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय ब्रूयत् पुनः पुनर् यावद् ग्रहणं दृढीभवति // Sअम्Uपद्_II,१.२ //
SK
श्रुतिश् च -- ᳚परीक्ष्य ... तत्त्वतो ब्रह्मविद्याम्᳚ इति / दृढगृहीता हि विद्यात्मनः श्रेयसे सन्तत्यै च भवति / विद्यासन्ततिश् च प्राण्यनुग्रहाय भवति नौर् इव नदीं तितीर्षोः / शास्त्रं च -- ᳚यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूयः᳚ इति / अन्यथा च ज्ञानप्राप्त्यभावात् -- ᳚आचार्यवान् पुरुषो वेद᳚, ᳚आचार्याद् धैव विद्या विदिता [साधिष्ठं प्रापत्]᳚, ᳚आचार्यः प्लावयिता तस्य [सम्यग्]ज्ञानं प्लव इहोच्यते᳚ इत्यादिश्रुतिभ्यः स्मृतिभ्यश् च // Sअम्Uपद्_II,१.३ //
SK
शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर् बुद्ध्वा तदग्रहणहेतून् अधर्मलौकिकप्रमादनित्यानित्य[वस्तु]विवेकविषयासंजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षणजात्याद्यभिमानादींस् तत्प्रतिपक्षैः श्रुतिस्मृतिविहितैर् अपनयेद् अक्रोधादिभिर् अहिंसादिभिश् च यमैर् ज्ञानाविरुद्धैश् च नियमैः // Sअम्Uपद्_II,१.४ //
SK
अमानित्वादिगुणं च ज्ञानोपायं सम्यग् ग्राहयेत् // Sअम्Uपद्_II,१.५ //
SK
आचार्यश् चोहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्व् अनासक्तस् त्यक्तसर्वकर्मसाधनो ब्रह्मविद् ब्रह्मणि स्थितो ऽभिन्नवृत्तो दम्भदर्पकुहकशाठ्यमायामात्सर्यानृताहंकारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वम् उपदिशेत् -- ᳚सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्᳚, ᳚यत्र नान्यत् पश्यति᳚, ᳚आत्मैवेदं सर्वम्᳚, ब्रह्मैवेदं सर्वम्᳚, ᳚आत्मा वा इदम् एक एवाग्र आसीत्᳚, ᳚सर्वं खल्व् इदं ब्रह्म᳚ इत्य्[आद्याः] आत्मैकत्वप्रतिपादनपराः श्रुतिः // Sअम्Uपद्_II,१.६ //
SK
उपदिश्य च ग्राहयेद् ब्रह्मणो लक्षणम् -- ᳚य आत्मापहतपाप्मा᳚, ᳚यत् साक्षाद् अपरोक्षाद् ब्रह्म᳚, ᳚यो ऽशनायापिपासे᳚, ᳚नेति नेति᳚, ᳚अस्थूलम् अनणु᳚, ᳚स एष नेति नेति᳚, ᳚अदृष्टं द्रष्टृ᳚, ᳚विज्ञानम् आनन्दम्᳚, ᳚सत्यं ज्ञानम् अनन्तम्᳚, ᳚अदृश्ये ऽनात्म्ये᳚, ᳚स वा एषः᳚, ᳚अप्राणो ह्य् अमनाः᳚, ᳚सबाह्याभ्यन्तरो ह्य् अजः᳚, ᳚विज्ञानघन एव᳚, ᳚अनन्तरम् अबाह्यम्᳚, ᳚अन्यद् एव तद् विदिताद् अथो अविदितात्᳚, ᳚आकाशो वै नाम᳚ इत्यादिश्रुतिभिः // Sअम्Uपद्_II,१.७ //
SK
स्मृतिभिश् च -- ᳚न जायते म्रियते वा᳚, ᳚नादत्ते कस्यचित् पापम्᳚, ᳚यथाकाशस्थितो नित्यम्᳚, ᳚क्षेत्रज्ञां चापि मां विद्धि᳚, ᳚न सत् तन् नासद् उच्यते᳚, ᳚अनादित्वान् निर्गुणत्वत्᳚, ᳚समं सर्वेषु भूतेषु᳚, ᳚उत्तमः पुरुषः᳚ इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिस् तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश् च // Sअम्Uपद्_II,१.८ //
SK
एवं श्रुतिस्मृतिभिर् गृहीतपरमात्मलक्षणं शिष्यं संसारसागराद् उत्तितीर्षुं पृच्छेत् -- कस् त्वम् असि सोम्येति // Sअम्Uपद्_II,१.९ //
SK
स यदि ब्रूयात् -- ब्राह्मणपुत्रो ऽदोन्वयो ब्रह्मचार्य् आसं गृहस्थो वेदानीम् अस्मि परमहंसपरिव्राट् संसारसागराज् जन्ममृत्युमहाग्राहाद् उत्तितीर्षुर् इति // Sअम्Uपद्_II,१.१० //
SK
आचार्यो ब्रूयद् -- इहैव ते सोम्य मृतस्य शरीरं वयोभिर् अद्यते मृद्भावं वापद्यते, तत्र कथं संसारसागराद् उत्तर्तुम् इच्छसीति / नहि नद्या अवरे कूले भस्मीभूतो नद्याः पारं तरिष्यसीति // Sअम्Uपद्_II,१.११ //
SK
स यदि ब्रूयात् -- अन्यो ऽहं शरीरात् / शरीरं तु जायते म्रियते, वयोभिर् अद्यते मृद्भावम् आपद्यते, शस्त्राग्न्यादिभिश् च विनाश्यते, व्याध्यादिभिश् च युज्यते / तस्मिन्न् अहं स्वकृतधर्माधर्मवशात् पक्षी नीडम् इव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशाच् छरीरान्तरं यास्यामि, पूर्वनीडविनाशे पक्षीव नीडान्तरम् / एवम् एवाहम् अनादौ संसारे देवतिर्यङ्मनुष्यनिरयस्थानेषु स्वकर्मवशाद् उपात्तम् उपात्तं शरीरं त्यजन्, नवं नवं चान्यद् उपाददानो, जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरम् आसाद्य संसारचक्रभ्रमणाद् अस्मान् निर्विण्णो भगवन्तम् उपसन्नो ऽस्मि संसारचक्रभ्रमणप्रशमायेति / तस्मान् नित्य एवाहं शरीराद् अन्यः / शरीराण्य् आगच्छन्त्य् अपगच्छन्ति च वासांषीव पुरुषस्येति // Sअम्Uपद्_II,१.१२ //
SK
आचार्यो ब्रूयत् -- साध्व् अवादिः सम्यक् पश्यसि / कथं मृषावादीर् ब्राह्मणपुत्रो ऽदोन्वयो ब्रह्मचार्य् आसम्, गृहस्थो वा, इदानीम् अस्मि परमहंसपरिव्राड् इति // Sअम्Uपद्_II,१.१३ //
SK
स यदि ब्रूयात् -- भगवन्, कथम् अहं मृषावादिषम् इति // Sअम्Uपद्_II,१.१४ //
SK
तं प्रति ब्रूयाद् आचार्यः -- यतस् त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयसंस्कारवर्जितस्यात्मनः प्रत्यज्ञासीर् ब्राह्मणपुत्रो ऽदोन्वय इत्यादिना वाक्येनेति // Sअम्Uपद्_II,१.१५ //
SK
स यदि पृच्छेत् -- कथं भिन्नजात्यन्वयसंस्कारं शरीरम्, कथं वाहं जात्यन्वयसंस्कारवर्जित इति // Sअम्Uपद्_II,१.१६ //
SK
आचार्यो ब्रूयत् -- शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं त्वं च जात्यन्वयसंस्कारवर्जित इत्य् उक्त्वा तं स्मारयेत् -- स्मर्तुम् अर्हसि सोम्य, परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितो ऽसि ᳚सद् एव सोम्येदम्᳚ इत्यादि[भिः] श्रुतिभिः स्मृतिभिश् च / लक्षणं च तस्य श्रुतिभिः स्मृतिभिश् च // Sअम्Uपद्_II,१.१७ //
SK
लब्धपरमात्मलक्षणस्मृतये ब्रूयात् -- यो ऽसाव् आकाशनामा नामरूपाभ्याम् अर्थान्तरभूतो ऽशरीरो ऽस्थूलादिलक्षणो ऽपहतपाप्मत्वादिलक्षणश् च सर्वैः संसारधर्मैर् अनागन्धितः ᳚यत् साक्षाद् अपरोक्षाद् ब्रह्म ... एष त आत्मा सर्वान्तरः᳚, ᳚अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञात᳚ नित्यविज्ञानस्वरूपो ऽनन्तरो ऽबाह्यः, ᳚विज्ञानघन एव᳚, परिपूर्ण आकाशवत्, अनन्तशक्तिः, आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश् च स्वात्मविलक्षणयोर् नामरूपयोर् जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्याम् अनिर्वचनीययोः स्वसंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ताव्याकृतयोः // Sअम्Uपद्_II,१.१८ //
SK
ते नामरूपे ऽव्याकृते सती व्याक्रियमाणे तस्माद् एतस्माद् आत्मन आकाशनामाकृती संवृत्ते / तच् चाकाशख्यं भूतम् अनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नात् सलिलान् मलम् इव फेनम् / न सलिलं न च सलिलाद् अत्यन्तभिन्नं फेनम् / सलिलव्यतिरेकेणादर्शनात् / सलिलं तु स्वच्छम् अन्यत् फेनान् मलरूपात् / एवं परमात्मा नामरूपाभ्याम् अन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नस् तद्विलक्षणः / ते नामरूपे ऽव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते // Sअम्Uपद्_II,१.१९ //
SK
ततो ऽपि स्थूलभावम् आपद्यमाने नामरूपे व्याक्रियमाणे वायुभावम् आपद्येते, ततो ऽप्य् अग्निभावम्, अग्नेर् अभावम्, ततः पृथ्वीभावम् इत्य् एवंक्रमेण पूर्वपूर्वो[त्तरो]त्तरानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्य् उत्पन्नानि / ततः पञ्चमहाभूतगुणविशिष्टा पृथ्[इ]वी / पृथ्[इ]व्याश् च पञ्चात्मक्यो व्रीहियवाद्या ओषधयो जायन्ते / ताभ्यो भक्षिताभ्यो लोहितं शुक्रं च स्त्रीपुंसशरीरसंबन्धि जायते / तद् उभयम् ऋतुकाले ऽविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते / तत् स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं दशमे नवमे वा मासि सञ्जायते // Sअम्Uपद्_II,१.२० //
SK
तज् जातं लब्धनामाकृतिकं जातकर्मादिभिर् मन्त्रसंस्कृतं पुनर् उपनयनसंस्कारयोगेन ब्रह्मचारिसंज्ञं भवति / तद् एव शरीरं पत्नीसंयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति / तद् एव वनस्थसंस्कारेण तापससंज्ञं भवति / तद् एव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति / इत्य् एवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् // Sअम्Uपद्_II,१.२१ //
SK
मनश् चेन्द्रियाणि च नामरूपात्मकान्य् एव ᳚अन्नमयं हि सोम्य मनः᳚ इत्यादिश्रुतिभ्यः // Sअम्Uपद्_II,१.२२ //
SK
कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्य् एतच् छृणु / यो ऽसौ नामरूपयोर् व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूप इह प्रविष्टो ऽन्यैर् अदृष्टः स्वयं पश्यंस् तथाश्रुतः शृण्वन्न् अमतो मन्वानो ऽविज्ञातो विजानन् -- ᳚सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते᳚ इति / अस्मिन्न् अर्थे श्रुतयः सहस्रशः ᳚तत् सृष्ट्वा तद् एवानुप्राविषत्᳚. ᳚अन्तः प्रविष्टः शास्ता जनानाम्᳚, ᳚स एष इह प्रविष्टः᳚, ᳚एष त आत्मा᳚, ᳚स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत᳚, ᳚एष सर्वेषु भूतेषु गूढो ऽत्मा᳚, ᳚सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवताः᳚, ᳚अशरीरं शरीरेषु᳚ इत्याद्याः // Sअम्Uपद्_II,१.२३ //
SK
स्मृतयो ऽपि ᳚आत्मैव देवताः सर्वाः᳚, ᳚नवद्वारे पुरे देही᳚, ᳚क्षेत्रज्ञं चापि मां विद्धि᳚, ᳚समं सर्वेषु भूतेषु᳚, ᳚उपद्रष्टानुमन्ता च᳚, ᳚उत्तमः पुरुषस् त्व् अन्यः᳚ इत्याद्याः / तस्माज् जात्यन्वयसंस्कारवर्जितस् त्वम् इति सिद्धम् // Sअम्Uपद्_II,१.२४ //
SK
स यदि ब्रूयात् -- अन्य एवाहम् अज्ञः सुखी दुःखी बद्धः संसारी, अन्यो ऽसौ मद्विलक्षणो ऽसंसारी देवः, तम् अहं बल्युपहारनमस्कारादिभिर् वर्णाश्रमकर्मभिश् चाराध्य संसारसागराद् उत्तितीर्षुर् अस्मि, कथम् अहं स एवेति // Sअम्Uपद्_II,१.२५ //
SK
आचार्यो ब्रूयत् -- नैवं सोम्य प्रतिपत्तुम् अर्हसि, प्रतिषिद्धत्वाद् भेदप्रतिपत्तेः / कथं प्रतिषिद्धा भेदप्रतिपत्तिर् इत्य् अत आह -- ᳚अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद᳚, ᳚ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो ब्रह्म वेद᳚, मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति᳚ इत्येवमाद्याः // Sअम्Uपद्_II,१.२६ //
SK
एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति // Sअम्Uपद्_II,१.२७ //
SK
अभेदप्रतिपत्तेश् च मोक्षं दर्शयन्ति सहस्रशः -- ᳚स आत्मा तत् त्वम् असि᳚ इति परमात्मभावं विधाय ᳚आचार्यवान् पुरुषो वेद᳚ इत्य् उक्त्वा ᳚तस्य तावद् एव चिरम्᳚ इति मोक्षं दर्शयन्त्य् अभेदविज्ञानाद् एव सत्यसन्धस्यातस्करस्येव दाहाद्यभावदृष्टान्तेन संसाराभावं दर्शयन्ति, भेददर्शनाद् असत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन // Sअम्Uपद्_II,१.२८ //
SK
᳚त इह व्याघ्रो वा᳚ इत्यादिना चाभेददर्शनात् ᳚[स] सर्वाड् भवति᳚ इत्य् उक्त्वा तद्विपरीतेन भेददर्शनेन संसारगमनं दर्शयन्ति -- ᳚अथ ये ऽन्यथातो विदुर् अन्यराजानस् ते क्षय्यलोका भवन्ति᳚ इति प्रतिशाखम् / तस्मान् मृषैवावादीः -- ब्राह्मणपुत्रो ऽदोन्वयः संसारी परमात्मविलक्षण इति // Sअम्Uपद्_II,१.२९ //
SK
तस्मात् प्रतिषिद्धत्वाद् भेददर्शनस्य, भेदविषयत्वाच् च कर्मोपादानस्य, कर्मसाधनत्वाच् च यज्ञोपवीतादेः कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः / कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् / संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि, न परमात्मनो ऽभेददर्शिनः / भेददर्शनमात्रेण च ततो ऽन्यत्वम् // Sअम्Uपद्_II,१.३० //
SK
यदि च कर्माणि कर्तव्यानि न निवर्तयिषितानि कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश् च परमात्मन आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् ᳚स आत्मा तत् त्वम् असि᳚ इत्येवमादिभिर् निश्चितरूपैर् वाक्यैः, भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् ᳚एष नित्यो महिमा ब्राह्मणस्य᳚, ᳚अनन्वागतं पुण्येनानन्वागतं पापेन᳚, ᳚अत्र स्तेनो ऽस्तेनः᳚ इत्यादिना // Sअम्Uपद्_II,१.३१ //
SK
कर्मासम्बन्धरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां [च] नाभ्यधास्यत्, कर्माणि [च] कर्मसाधनानि [च] यज्ञोपवीतादीनि यद्य् अपरितित्याजयिषितानि / तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा परमात्माभेददर्शनविरोधात् / आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः // Sअम्Uपद्_II,१.३२ //
SK
स यदि ब्रूयात् -- भगवन्, दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम / परश् चात्मा ᳚अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः᳚ सर्वसंसारधर्मविवर्जितः श्रूयते सर्वश्रुतिषु स्मृतिषु च / कथं तद्विलक्षणो ऽनेकसंसारधर्मसंयुक्तः परमात्मानम् आत्मत्वेन मां च संसारिणं परमात्मत्वेनाग्निम् इव शीतत्वेन प्रतिपद्येयम् / संसारी च सन् सर्वाभ्युदयनिःश्रेयससाधने ऽधिकृतो ऽभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीतादीनि कथं परित्यजेयम् इति // Sअम्Uपद्_II,१.३३ //
SK
तं प्रति ब्रूयात् -- यद् अवोचो दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तद् असत् / कस्मत् / दह्यमाने छिद्यमान इव व्र्क्ष उपलब्धुर् उपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वाद् दाहादिसमानाश्रयैव वेदना / यत्र हि दाहश् छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोको न दाहाद्युपलब्धरीति / कथम् / क्व ते वेदनेति पृष्टः शिरसि मे वेदनोरस्य् उदर इति यत्र दाहादिस् तत्र व्यपदिशति, नोपलब्धरीति / यद्य् उपलब्धरि वेदना स्याद् वेदनानिमित्तं वा दाहच्छेदादि, वेदनाश्रयत्वेनोपदिशेद् दाहाद्याश्रयावत् // Sअम्Uपद्_II,१.३४ //
SK
स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् / तस्माद् दाहच्छेदादिसमानाश्रयत्वेनोपलभ्यमानत्वाद् दाहादिवत् कर्मभूतैव वेदना / भावरूपत्वाच् च साश्रया तण्डुलपाकवत् / वेदनासमानाश्रय एव तत्संस्कारः / स्मृतिसमानकाल एवोपलभ्यमानत्वात् / वेदनाविषयस् तन्निमित्तविषयश् च द्वेषो ऽपि संस्कारसमानाश्रय एव / तथा चोक्तम् -- ᳚रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत् / गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धो ऽभयः सदा᳚ // Sअम्Uपद्_II,१.३५ //
SK
किमाश्रयः पुना रूपादिसंस्कारादय इति / उच्यते / यत्र कामादायः / क्व पुनस् ते कामादयः / ᳚कामः सङ्कल्पो विचिकित्सा᳚ इत्यादिश्रुतेर् बुद्धाव् एव / तत्रैव रूपादिसंस्कारदयो ऽपि, ᳚कस्मिन् नु रूपाणि प्रतिष्ठितानीति हृदये᳚ इति श्रुतेः / ᳚कामा ये ऽस्य हृदि श्रिताः᳚, ᳚तीर्णो हि ᳚, ᳚असङ्गो ह्य् अयम्᳚, ᳚तद् वा अस्यैतद् अतिच्छन्दाः᳚ इत्यादिश्रुतिशतेभ्यः, ᳚अविकार्यो ऽयम् उच्यते᳚, ᳚अनादित्वान् निर्गुणत्वात्᳚ इत्यादि -- इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति -- स्मृतिभ्यश् च कर्मस्थैवाशुद्धिर् नात्मस्था इति // Sअम्Uपद्_II,१.३६ //
SK
अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावान् न परस्माद् आत्मनो विलक्षणस् त्वम् इति प्रत्यक्षादिविरोधाभावाद् युक्तं पर एवात्माहम् इति प्रतिपत्तुम् -- ᳚तद् आत्मानम् एवावेद् [अहं ब्रह्मास्मि]᳚, ᳚एकधैवानुद्रष्टव्यम्᳚, ᳚अहम् एवाधस्तात्᳚, ᳚आत्मैवाधस्तात्᳚, ᳚सर्वम् आत्मानं पश्येत्᳚, ᳚यत्र त्व् अस्य सर्वम् आत्मैव᳚, ᳚इदं सर्वं यद् अयम् आत्म᳚, ᳚स एषो [ऽकलः ]᳚, ᳚अनन्तरम् अबाह्यम्᳚, ᳚सबाह्याभ्यन्तरो ह्य् अजः᳚, ᳚ब्रह्मैवेदम्᳚, ᳚एतया द्वारा प्रापद्यत᳚, ᳚प्रज्ञानस्य नामधेयानि᳚, ᳚सत्यं ज्ञानम् अनन्तं ब्रह्म᳚, ᳚तस्माद् वा᳚, ᳚तत् सृष्ट्वा तद् एवानुप्राविशत्᳚, ᳚एको देवः सर्वभूतेषु गूढः᳚, ᳚अशरीरं शरीरेषु᳚, ᳚न जायते म्रियते᳚, ᳚स्वप्नान्तं जागरितान्तम्᳚, ᳚स म आत्मेति विद्यात्᳚, ᳚यस् तु सर्वाणि भूतानि᳚, ᳚तद् एजति तन् नैजति᳚, ᳚वेनस् तत् पश्यन्᳚, ᳚तद् एवाग्निः᳚, ᳚अहम्, मनुर् अभवम् सूर्यश् च᳚ ᳚अन्तः प्रविष्टः शास्ता जनानाम्᳚, ᳚सद् एव सोम्य᳚, ᳚तत् सत्यं स आत्मा तत् त्वम् असि᳚ इत्यादिश्रुतिभ्यः // Sअम्Uपद्_II,१.३७ //
SK
स्मृतिभ्यश् च -- ᳚पूः प्राणिनः ... गुहाशयस्य᳚, ᳚आत्मैव देवताः᳚, ᳚नवद्वारे पुरे᳚, ᳚समं सर्वेषु भूतेषु᳚, ᳚विद्याविनयसंपन्ने᳚, ᳚अविभक्तंविभक्तेषु ᳚, ᳚वासुदेवः सर्वम्᳚ इत्यादिभ्यः, एक एवात्मा परं ब्रह्म [सर्व]संसारधर्मविनिर्मुक्तस् त्वम् इति सिद्धम् // Sअम्Uपद्_II,१.३८ //
SK
स यदि ब्रूयात् -- यदि भगवन् ᳚अनन्तरो ऽबाह्यः᳚, ᳚सबाह्याभ्यन्तरो ह्य् अजः᳚, ᳚कृत्स्नः प्रज्ञानघन एव᳚ सैन्धवघनवद् आत्मा सर्वमूर्तिभेदवर्जित आकाशवद् एकरसः, किम् इदं दृश्यते श्रूयते वा सध्यं साधनं [वा] साधकश् चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति // Sअम्Uपद्_II,१.३९ //
SK
आचार्यो ब्रूयात् -- अविद्याकृतम् एतद् यद् इदं दृश्यते श्रूयते वा, परमार्थतस् त्व् एक एवात्मा अविद्याद्र्ष्टेर् अनेकवद् अवाभासते, तिमिरदृष्ट्यानेकचन्द्रवत् / ᳚यत्र वान्यद् इव स्यात्᳚, ᳚यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति᳚, ᳚मृत्योः स मृत्युम् आप्नोति᳚, ᳚अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम्, ... अथ यद् अल्पं तन् मर्त्यम्᳚, इति, ᳚वाचारम्भणं विकारो नामधेयम्᳚, [᳚अनृतम्᳚,] ᳚अन्यो ऽसाव् अन्यो ऽहम्᳚ इति भेददर्शननिन्दोपपत्तेर् अविद्याकृतं द्वैतम् ᳚एकम् एवाद्वितीयम्᳚, ᳚यत्र त्व् अस्य᳚, ᳚को मोहः कः शोकः᳚ इत्याद्येकत्वविधिश्रुतिभ्यश् चेति // Sअम्Uपद्_II,१.४० //
SK
यद्य् एवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश् चेति // Sअम्Uपद्_II,१.४१ //
SK
अत्रोच्यते -- अविद्यावत उपात्तशरीरादिभेदस्येष्टानिष्टयोगिनम् आत्मानं मन्यमानस्य साधनैर् एवेष्टानिष्टप्राप्तिपरिहारोपायविवेकम् अजानत इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस् तद्विषयम् अज्ञानं निवर्तयति शास्त्रं न साध्यसाधनादिभेदं विधत्ते / अनिष्टरूपः संसारो हि स इति तद् भेददृष्टिम् एवाविद्यां संसारमूलम् उन्मूलयति उत्पत्तिप्रलयाद्येकत्वोपपत्तिप्रदर्शनेन // Sअम्Uपद्_II,१.४२ //
SK
अविद्यायाम् उन्मूलितायां श्रुतिस्मृतिन्यायेभ्यः ᳚अनन्तरम् अबाह्यम्᳚, ᳚सबाह्याभ्यन्तरो ह्य् अजः᳚ सैन्धवघनवत् ᳚प्रज्ञानघन एव᳚, एकरस आत्मा आकाशवत् परिपूर्ण इत्य् अत्रैवैका प्रज्ञा प्रतिष्ठिता परमार्थदर्शिनो भवति, न साध्यसाधनोत्पत्तिप्रलयादिभेदेनाशुद्धिगन्धो ऽप्य् उपपद्यते // Sअम्Uपद्_II,१.४३ //
SK
तच् चैतत् परमार्थदर्शनं प्रतिपत्तुम् इच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् / सम्यक्प्रत्ययविरोधात् तदभिमानस्य भेददर्शनप्रतिषेधार्थोपपत्तिश् चोपपद्यते / न ह्य् एकस्मिन्न् आत्मन्य् असंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर् भवति / न ह्य् अग्नौ शीतत्वबुद्धिः, शरीरे वाजरामरणबुद्धिः / तस्माद् अविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः // Sअम्Uपद्_II,१.४४ //
SK
इति शिष्यप्रतिबोधन[विधि]प्रकरणम् // Sअम्Uपद्_II,१ //
SK
सुखम् आसीनं ब्राह्मणं ब्रह्मनिष्ठं कश्चिद् ब्रह्मचारी जन्ममरणलक्षणात् संसारान् निर्विण्णो मुमुक्षुर् विधिवद् उपसन्नः पप्रच्छ -- भगवन्, कथम् अहं संसारान् मोक्षिष्ये / शरीरेन्द्रियविषयवेदनावान् जागरिते दुःखम् अनुभवामि तथा स्वप्ने ऽनुभवामि पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य / किम् अयम् एव मम स्वभावः, किं वान्यस्वभावस्य सतो नैमित्तिक इति / यदि स्वभावो न मे मोक्षाशा स्वभावस्यावर्जनीयत्वात् / अथ नैमित्तिको निमित्तपरिहारे स्यान् मोक्षोपपत्तिः // Sअम्Uपद्_II,२.४५ //
SK
तं गुरुर् उवाच -- शृणु वत्स, न तवायं स्वभावः / नैमित्तिकः // Sअम्Uपद्_II,२.४६ //
SK
इत्य् उक्तः शिष्य उवाच -- किं निमित्तम्, किं वा तस्य निवर्तकम्, को वा मम स्वभावः, यस्मिन् निमित्ते निवर्तिते नैमित्तिकाभावो रोगनिमित्तनिवृत्ताव् इव रोगी स्वभावं प्रतिपद्येयेति // Sअम्Uपद्_II,२.४७ //
SK
गुरुर् उवाच -- अविद्या निमित्तम्, विद्या तस्या निवर्तिका, अविद्यायां निवृत्तायां तन्निमित्ताभावान् मोक्ष्यसे जन्ममरणलक्षणात् संसारात्, स्वप्नजाग्रद्दुःखं च नानुभविष्यसीति // Sअम्Uपद्_II,२.४८ //
SK
शिष्य उवाच -- का साविद्या, किंविषया वा, विद्या च काविद्यानिवर्तिका यया स्वभावं प्रतिपद्येयेति // Sअम्Uपद्_II,२.४९ //
SK
गुरुर् उवाच-- त्वं परमात्मानं सन्तम् असंसारिणं संसार्य् अहम् अस्मीति विपरीतं प्रतिपद्यसे, अकर्तारं सन्तं कर्तेति, अभोक्तारं सन्तं भोक्तेति, विद्यमानं चाविद्यमानम् इति, इयम् अविद्या // Sअम्Uपद्_II,२.५० //
SK
शिष्य उवाच -- यद्य् अप्य् अहं विद्यमानस् तथापि न परमात्मा / कर्तृत्वभोक्तृत्वलक्षणः संसारो मम स्वभावः, प्रत्यक्षादिभिः प्रमाणैर् अनुभूयमानत्वात् / नाविद्यानिमित्तः, अविद्यायाः स्वात्मविषयत्वानुपपत्तेः / अविद्या नामान्यस्मिन्न् अन्यधर्माध्यारोपणा / यथा प्रसिद्धं रजतं प्रसिद्धायां शुक्तिकायाम्, यथा प्रसिद्धं पुरुषं स्थाणाव् अध्यारोपयति, प्रसिद्धं वा स्थाणुं पुरुषे / नाप्रसिद्धं प्रसिद्धे, प्रसिद्धं वाप्रसिद्धे / न चात्मन्य् अनात्मानम् अध्यारोपयति, आत्मनो ऽप्रसिद्धत्वात् / तथात्मानम् अनात्मनि, आत्मनो ऽप्रसिद्धत्वाद् एव // Sअम्Uपद्_II,२.५१ //
SK
तं गुरुर् उवाच -- न, व्यभिचारात् / न हि वत्स, प्रसिद्धं प्रसिद्ध एवाध्यारोपयतीति नियन्तुं शक्यम् / आत्मन्य् अध्यारोपणदर्शनात् / गौरो ऽहं कृष्णो ऽहम् इति देहधर्मस्याहंप्रत्ययविषय आत्मन्य् अहंप्रत्ययविषयस्य च देहे ऽयम् अहम् अस्मीति // Sअम्Uपद्_II,२.५२ //
SK
शिष्य आह -- प्रसिद्ध एव तर्ह्य् आत्माहंप्रत्ययविषयतया देहश् चायम् इति / तत्रैवं सति प्रसिद्धयोर् एव देहात्मनोर् इतरेतराध्यारोपणा[त्] स्थाणुपुरुषयोः शुक्तिकारजतयोर् इव / तत्र कं विसेषम् आश्रित्य भगवतोक्तं प्रसिद्धयोर् इतरेतराध्यारोपणेति नियन्तुं न शक्यत इति // Sअम्Uपद्_II,२.५३ //
SK
गुरुर् उवाच -- शृणु / सत्यं प्रसिद्धौ देहात्मानौ न तु स्थाणुपुरुषाव् इव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ / कथं तर्हि / नित्यम् एव निरन्तराविविक्तप्रत्ययविषयतया / न ह्य् अयं देहो ऽयम् आत्मेति विविक्ताभ्यां प्रत्ययाभ्यां देहात्मानौ गृह्णाति यतः कश्चित् / अत एव हि मोमुह्यते लोक आत्मानात्मविषये, एवम् आत्मा नैवम् आत्मेति / इमं विशेषम् आश्रित्यावोचं नैवं शक्यम् इति // Sअम्Uपद्_II,२.५४ //
SK
नन्व् अविद्याध्यारोपितं [यत्र] यत् तद् असत् [तत्र] दृष्टम्, यथा रजतं शुक्तिकायाम्, स्थाणौ पुरुषः, रज्ज्वां सर्पः, आकाशे तलमलिनत्वम् इत्यादि / तथा देहात्मनोर् अपि नित्यम् एवो निरन्तराविविक्तप्रत्ययतयेतरेतराध्यारोपणा कृता स्यात्, तद् इतरेतरयोर् नित्यम् एवासत्त्वं स्यात् / यथा शुक्तिकादिष्व् अविद्याध्यारोपितानां रजतादीनां नित्यम् एवात्यन्तासत्त्वम्, तद्विपरीतानां च विपरीतेषु, तद्वद् देहात्मनोर् अविद्ययैवेतरेतराध्यारोपणा कृता स्यात् / तत्रैवं सति देहात्मनोर् असत्त्वं प्रसज्येत / तच् चानिष्टम्, वैनाशिकपक्षत्वात् / अथ तद्विपर्ययेण देह आत्मन्य् अविद्ययाध्यारोपितः, देहस्यात्मनि सति असत्त्वं प्रसज्येत / तच् चानिष्टम्, प्रत्यक्षादिविरोधात् / तस्माद् देहात्मानौ नाविद्ययेतरेतरस्मिन्न् अध्यारोपितौ / कथं तर्हि / वंशस्तम्भवन् नित्यसंयुक्तौ // Sअम्Uपद्_II,२.५५ //
SK
न / अनित्यत्वपरार्थत्वप्रसङ्गात् / संहतत्वात् [परार्थत्वम् अनित्यत्वं च] वंशस्तम्भादिवद् एव / किं च यस् तु परैर् देहेन संहतः कल्पित आत्मा स संहतत्वात् परार्थः / तेनासंहतः परो ऽन्यो नित्यः सिद्धस् तावत् // Sअम्Uपद्_II,२.५६ //
SK
तस्यासंहतस्य देहे देहमात्रतयाध्यारोपितत्वेनासत्त्वानित्यत्वादिदोषप्रसङ्गो भवति / तत्र निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात् // Sअम्Uपद्_II,२.५७ //
SK
न / स्वत एवात्मन आकाशस्येवासंहतत्वाभ्युपगमात् / सर्वेणासंहतः सन्न् आत्मेति न निरात्मको देहादिः सर्वः स्यात् / यथा चाकाशं सर्वेणासंहतम् इति सर्वं न निराकाशं भवति, एवम् / तस्मान् न वैनाशिकपक्षप्राप्तिदोषः स्यात् // Sअम्Uपद्_II,२.५८ //
SK
यत् पुनर् उक्तम्, देहस्यात्मन्य् असत्त्वे प्रत्यक्षादिविरोधः स्याद् इति / तन् न / प्रत्यक्षादिभिर् आत्मनि देहस्य सत्त्वानुपलब्धेः / न ह्य् आत्मनि, कुण्डे बदरम्, क्षीरे सर्पिः, तिले तैलम्, भित्तौ चित्रम् इव च, प्रत्यक्षादिभिर् देह उपलभ्यते / तस्मान् न प्रत्यक्षादिविरोधः // Sअम्Uपद्_II,२.५९ //
SK
कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपण, देहे चात्मारोपणा // Sअम्Uपद्_II,२.६० //
SK
नायं दोषः / स्वभाव[प्र]सिद्धत्वाद् आत्मनः / न हि कादाचित्कसिद्धाव् एवाध्यारोपणा न नित्यसिद्धाव् इति नियन्तुं शक्यम्, आकाशे तलमलाद्यध्यारोपणदर्शनात् // Sअम्Uपद्_II,२.६१ //
SK
किं भगवन्, देहात्मनोर् इतरेतराध्यारोपणा देहादिसंघाटकृताथवात्मकृतेति // Sअम्Uपद्_II,२.६२ //
SK
गुरुर् उवाच -- यदि देहादिसंघातकृता, यदि वात्मकृता, किं तव स्यात् // Sअम्Uपद्_II,२.६३ //
SK
इत्य् उक्तः शिष्य आह -- यद्य् अहं देहादिसंघातमात्रः, ततो ममाचेतनत्वात् परार्थत्वम् इति न मत्कृता देहात्मनोर् इतरेतराध्यारोपणा / अथाहम् आत्मा परो ऽन्यः संघातात्, चितिमत्त्वात् स्वार्थ इति मयैव चितिमतात्मन्य् अध्यारोपणा क्रियते सर्वानर्थबीजभूता // Sअम्Uपद्_II,२.६४ //
SK
इत्य् उक्तो गुरुर् उवाच -- अनर्थबीजभूतां चेन् मिथ्याध्यारोपणां जानीषे, मा कार्षीस् तर्हि // Sअम्Uपद्_II,२.६५ //
SK
नैव भगवन्, शक्नोमि न कर्तुम् / अन्येन केनचित् प्रयुक्तो ऽहं न स्वतन्त्र इति // Sअम्Uपद्_II,२.६६ //
SK
न तर्ह्य् अचितिमत्त्वात् स्वार्थस् त्वम् / येन प्रयुक्तो ऽस्वतन्त्रः प्रवर्तसे, स चितिमान् स्वार्थः, संघाट एव त्वम् // Sअम्Uपद्_II,२.६७ //
SK
यद्य् अचेतनो ऽहम्, कथं सुखदुःखवेदनां भवदुक्तं च जानामि // Sअम्Uपद्_II,२.६८ //
SK
गुरुर् उवाच -- किं सुखदुःखवेदनाया मदुक्ताच् चान्यस् त्वं किं वानन्य एवेति // Sअम्Uपद्_II,२.६९ //
SK
शिष्य उवाच -- नाहं तावद् अनन्यः / कस्मात् / यस्मात् तदुभयं कर्मभूतं गटादिम् इव जानामि / यदि अनन्यो ऽहम्, तेन तदुभयं न जानीयाम्, किं तु जानामि, तस्माद् अन्यः / सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति, त्वदुक्तं च स्यात्, अनन्यत्वे, न च तयोः स्वार्थता युक्ता / न हि चन्दनकण्टककृते सुखदुःखे चन्दनकण्टकार्थे, घटोपयोगो वा घटार्थः / तस्मात् तद्विज्ञातुर् मम चन्दनादिकृतो ऽर्थः / अहं हि ततो ऽन्यः समस्तम् अर्थं जानामि बुद्ध्यारूढम् // Sअम्Uपद्_II,२.७० //
SK
तं गुरुर् उवाच -- एवं तर्हि स्वार्थस् त्वं चितिमत्त्वान् न परेण प्रयुज्यसे / न हि चितिमान् परतन्त्रः परेण प्रयुज्यते, चितिमतश् चितिमदर्थत्वानुपपत्तेः, समत्वात्, प्रकाशयोर् इव / नाप्य् अचितिमदर्थत्वं चितिमतो भवति, अचितिमतो ऽचितिमत्त्वाद् एव स्वार्थसंबन्धानुपपत्तेः / नाप्य् अचितिमतोर् अन्योन्यार्थत्वं दृष्टम् / न हि काष्ठकुड्ये ऽन्योन्यार्थं कुर्वाते // Sअम्Uपद्_II,२.७१ //
SK
ननु चितिमत्त्वे समे ऽपि भृत्यस्वामिनोर् अन्योन्यार्थत्वं दृष्टम् // Sअम्Uपद्_II,२.७२ //
SK
नैवम्, अग्नेर् उष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षितत्वात् / दर्शितश् च दृष्टान्तः प्रकाशयोर् इवेति / तत्रैवं सति स्वबुद्ध्यारूढम् एव सर्वम् उपलभसे ऽग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचैतन्यस्वरूपेण / यदि चैवम् आत्मनः सर्वदा निर्विशेषत्वम् अभ्युपगच्छसि / किम् इत्य् ऊचिवान्, सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर् दुःखम् अनुभवामि / किम् अयम् एव मम स्वभावः, किं वा नैमित्तिक इति च / किम् असौ व्यामोहो ऽपगतः, किं वा न // Sअम्Uपद्_II,२.७३ //
SK
इत्य् उक्तः शिष्य उवाच -- भगवन्, अपगतस् त्वत्प्रसादाद् व्यामोहः, किं तु मम कूटस्थतायां संशयः / कथम् / शब्दादीनां स्वतःसिद्धिर् नास्ति, अचेतनत्वात् / शब्दाद्याकारप्रत्ययोत्पत्तेस् तु तेषाम् / प्रत्ययानाम् इतरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां स्वतःसिद्ध्यसंभवात् / तस्माद् बाह्याकारनिमित्तत्वं गम्यत इति बाह्याकारवच्छब्दाद्याकारत्वसिद्धिः / तथा प्रत्ययानाम् अप्य् अहंप्रत्ययालम्बनवस्तुभेदानां संहतत्वाद् अचैतन्योपपत्तेः स्वार्थत्वासंभवात् स्वरूपव्यतिरिक्तग्राहकग्राह्यत्वेन सिद्धिः शब्दादिवद् एव / असंहतत्वे सति चैतन्यात्मकत्वात् स्वार्थो ऽप्य् अहं प्रत्ययानां नीलपीताद्याकाराणाम् उपलब्धेति विक्रियावान् एव, कूटस्थ इति संशयः // Sअम्Uपद्_II,२.७४ //
SK
तं गुरुर् उवाच -- न युक्तस् तव संशयः / यतस् तेषां प्रत्ययानां नियमेनाशेषत उपलब्धेर् एवापरिणामित्वात् कूटस्थत्वसिद्धौ निश्चयहेतुम् एवाशेषचित्तप्रचारोपलब्धिं संशयहेतुम् आत्थ / यदि हि तव परिणामित्वं स्यात्, अशेषस्वविषयचित्तप्रचारोपलब्धिर् न स्यात्, चित्तस्येव स्वविषये यथा चेन्द्रियाणां स्वविषयेषु / न च तथात्मनस् तव स्वविषयैकदेशोपलब्धिः / अतः कूटस्थतैव तवेति // Sअम्Uपद्_II,२.७५ //
SK
तत्राह -- उपलब्धिर् नाम धात्वर्थो विक्रियैव, उपलब्धुः कूटस्थ्[आत्म्]अता चेति विरुद्धम् // Sअम्Uपद्_II,२.७६ //
SK
न / धात्वर्थविक्रियायाम् उपलब्ध्युपचारात् / यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मक आत्मन उपलब्ध्याभासफलावसान इत्य् उपलब्धिशब्देनोपचर्यते / यथा छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थत्वेनोपचर्यते, तद्वत् // Sअम्Uपद्_II,२.७७ //
SK
इत्य् उक्तः शिष्य आह -- ननु भगवन्, मम कूटस्थत्वप्रतिपादनं प्रत्य् असमर्थो दृष्टान्तः / कथम् / छिदिश् छेद्यविक्रियावसानोपचर्यते यथा धात्वर्थत्वेन, तथोपलब्धिशब्दोपचरितो ऽपि धात्वर्थो बौद्धप्रत्यय आत्मन उपलब्धिविक्रियावसानश् चेन् नात्मनः कूटस्थतां प्रतिपादयितुं समर्थः // Sअम्Uपद्_II,२.७८ //
SK
गुरुर् उवाच -- सत्यम् एवं स्यात्, यद्य् उपलब्ध्युपलब्ध्रोर् विशेषः / नित्योपलब्धिमात्र एव ह्य् उपलब्धा / न तु तार्किकसमय इवान्योपलब्धिर् अन्य च उपलब्धा च // Sअम्Uपद्_II,२.७९ //
SK
ननूपलब्धिफलावसानो धात्वर्थः कथम् इति // Sअम्Uपद्_II,२.८० //
SK
उच्यते -- शृणु, उपलब्ध्याभासफलावसान इत्य् उक्तम्, किं न श्रुतं त्वया / न त्व् आत्मनो विक्रियोत्पादनावसान इति मयोक्तम् // Sअम्Uपद्_II,२.८१ //
SK
शिष्य आह -- कथं तर्हि कूटस्थे मय्य् अशेषस्वविषयचित्तप्रचारोपलब्धृत्वम् इत्य् आत्थ // Sअम्Uपद्_II,२.८२ //
SK
तं गुरुर् उवाच -- सत्यम् एवावोचम्, तेनैव कूटस्थताम् अब्रुवं तव // Sअम्Uपद्_II,२.८३ //
SK
यद्य् एवं भगवन्, कूटस्थनित्योपलब्धिस्वरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु मत्स्वरूपोपलब्ध्याभासफलावसानवत्सूत्पद्यामनेषु, कस् त्व् अपराधो मम // Sअम्Uपद्_II,२.८४ //
SK
सत्यम्, नास्त्य् अपराधः, किं त्व् अविद्यामात्रस् तु अपराध इति प्राग् एवावोचम् // Sअम्Uपद्_II,२.८५ //
SK
यदि भगवन्, सुषुप्त इव मम विक्रिया नास्ति, कथं स्वप्नजागरिते // Sअम्Uपद्_II,२.८६ //
SK
तं गुरुर् उवाच -- किं त्व् अनुभूयेते त्वया स[न्]ततम् // Sअम्Uपद्_II,२.८७ //
SK
बाढम् अनुभवामि, किं तु विच्छिद्य विच्छिद्य न तु सन्ततम् // Sअम्Uपद्_II,२.८८ //
SK
[तं] गुरुर् उवाच -- आगन्तुके त्व् एते न तवात्मभूते / यदि तवात्मभूते चैतन्यस्वरूपवत् स्वतःसिद्धे सन्तते एव स्याताम् / किं च स्वप्नजागरिते न तवात्मभूते, व्यभिचारित्वात्, वस्त्रादिवत् / न हि यस्य यत् स्वरूपं तत् तद्व्यभिचारि दृष्टम् / स्वप्नजागरिते तु चैतन्यमात्रत्वाद् व्यभिचरतः / सुषुप्ते चेत् स्वरूपं व्यभिचरेत्, तन् नष्टं नास्तीति वा बाध्यम् एव स्यात्, आगन्तुकानाम् अतद्धर्माणाम् उभयात्मकत्वदर्शनात्, यथा धनवस्त्रादीनां नाशो दृष्टः, स्वप्नभ्रान्तिलब्धानां त्व् अभावो दृष्टः // Sअम्Uपद्_II,२.८९ //
SK
नन्व् एवं भगवन्, चैतन्यस्वरूपम् अप्य् आगन्तुकं प्राप्तम्, स्वप्नजागरितयोर् इव सुषुप्ते ऽनुपलब्धेः / अचैतन्यस्वरूपो वा स्याम् अहम् // Sअम्Uपद्_II,२.९० //
SK
न, पश्य, तदनुपपत्तेः / चैतन्यस्वरूपं चेद् आगन्तुकं पश्यसि, पश्य / नैतद् वर्शशतेनाप्य् उपपत्त्या कल्पयितुं शक्नुमो वयम्, अन्यो वाचैतन्यो ऽपि / [तस्य] संहतत्वात् पारार्थ्यम् अनेकत्वं नाशित्वं च न केनचिद् उपपत्त्या वारयितुं शक्यम् / अस्वार्थस्य स्वतःसिद्ध्यभावाद् इत्य् अवोचाम / चैतन्यस्वरूपस्य त्व् आत्मनः स्वतःसिद्धेर् अन्यानपेक्षत्वं न केनचिद् वारयितुं शक्यम्, अव्यभिचारात् // Sअम्Uपद्_II,२.९१ //
SK
ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामीति // Sअम्Uपद्_II,२.९२ //
SK
न / व्याहतत्वात् / कथं व्याघातः / पश्यतस् तव न पश्यामीति व्याहतं वचनम् / न हि कदाचिद् भगवन्, सुषुप्ते मया चैतन्यम् अन्यद् वा किंचिद् दृष्टम् / पश्यंस् तर्हि सुषुप्ते त्वम् / यस्माद् दृष्टम् एव प्रतिषेधसि, न दृष्टिम् / या तव दृष्टिस् तच् चैतन्यम् इति मयोक्तम् / यया त्वं विद्यमानया न किंचिद् दृष्टम् इति प्रतिषेधसि, सा दृष्टिस् तच् चैतन्यम् / तर्हि सर्वत्राव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव, न प्रमाणापेक्षम् / स्वतःसिद्धस्य हि प्रमातुर् अन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा / या त्व् अन्या नित्या परिच्छित्तिर् अपेक्ष्यते ऽन्यस्यापरिच्छित्तिरूपस्य परिच्छेदाय, सा हि नित्यैव कूटस्था स्वयंज्योतिःस्वभावा / आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा, तत्स्वभावत्वात् / यथा प्रकाशनम् उष्णत्वं वा लोहोदकादिषु परतो ऽपेक्ष्यते ऽग्न्यादित्यादिभ्यः, अतत्स्वभावत्वात्, नाग्न्यादित्यादीनां तदपेक्षा, सर्वदा तत्स्वभावत्वात् // Sअम्Uपद्_II,२.९३ //
SK
अनित्यत्व एव प्रमा स्यान् न नित्यत्व इति चेत् // Sअम्Uपद्_II,२.९४ //
SK
न / अवगतेर् नित्यत्वानित्यत्वयोर् विशेषानुपपत्तेः / न ह्य् अवगतेः प्रमात्वे ऽनित्यावगतिः प्रमा न नित्येति विशेषो ऽवगम्यते // Sअम्Uपद्_II,२.९५ //
SK
नित्यायां प्रमातुर् अपेक्षाभावः / अनित्यायां तु यत्नान्तरितत्वाद् अवगतिर् अपेक्ष्यत इति विशेषं स्याद् इति चेत् // Sअम्Uपद्_II,२.९६ //
SK
सिद्धा तर्ह्य् आत्मनः प्रमातुः स्वतःसिद्धिः, प्रनाणनिरपेक्षतयैवेति // Sअम्Uपद्_II,२.९७ //
SK
अभावे ऽप्य् अपेक्षाभावः, नित्यत्वाद् इति चेत् / न / अवगतेर् एवात्मनि सद्भावाद् इति परिहृतम् एतत् // Sअम्Uपद्_II,२.९८ //
SK
प्रमातुश् चेत् प्रमाणापेक्षासिद्धिः, कस्य प्रमित्सा स्यात् / यस्य प्रमित्सा स एव प्रमाताभ्युपगम्यते / तदीया च प्रमित्सा प्रमेयविषयैव, न प्रमातृविषया / प्रमातृविषयत्वे ऽनवस्थाप्रसङ्गात् प्रमातुस् तदिच्छायाश् च, तस्याप्य् अन्यः प्रमाता, तस्याप्य् अन्य इति / एवम् एवेच्छायाः प्रमातृविषयत्वे / प्रमातुर् आत्मनो ऽव्यवहितत्वाच् च प्रमेयत्वनुपपत्तिः / लोके हि प्रमेयं नाम प्रमातुर् इच्छास्मृतिप्रयत्नप्रमाणजन्मव्यवहितं सिद्ध्यति, नान्यथावगतिः प्रमेयविषया दृष्टा / न च प्रमातुः प्रमाता स्वस्य स्वयम् एव केनचिद् व्यवहितः कल्पयितुं शक्य इच्छादीनाम् अन्यतमेनापि / स्मृतिश् च स्मर्तव्यविषया, न स्मर्तृविषया / तथेच्छाया इष्टविषयत्वम् एव, नेच्छावद्विषयत्वम् / स्मर्त्रिच्छावद्विषयत्वे ऽपि ह्य् उभयोर् अनवस्था पूर्ववद् अपरिहार्या स्यात् // Sअम्Uपद्_II,२.९९ //
SK
ननु प्रमातृविषयावगत्यनुत्पत्ताव् अनवगत एव प्रमाता स्याद् इति चेत् // Sअम्Uपद्_II,२.१०० //
SK
न, अवगन्तुर् अवगतेर् अवगन्तव्यविषयत्वात् / अवगन्तृविषयत्वे चानवस्था पूर्ववत् स्यात् / अवगतिश् चात्मनि कूटस्थनित्यात्मज्योतिर् अन्यतो ऽनपेक्षैव सिद्धा, अग्न्यादित्याद्युष्णप्रकाशवद् इति पूर्वम् एव प्रसाधितम् / अवगतेश् चैतन्यात्मज्योतिषः स्वात्मन्य् अनित्यत्व आत्मनः स्वार्थतानुपपत्तिः, कार्यकरण[संघात]वत् संहतत्वात् पारार्थ्यं दोषवत्त्वं चावोचाम / कथम् / चैतन्यात्मज्योतिषः स्वात्मन्य् अनित्यत्वे स्मृत्यादिव्यवधानात् संहतत्वम् / ततश् च तस्य चैतन्यज्योतिषः प्राग् उत्पत्तेः प्रध्वंसाच् चोर्ध्वम् आत्मन्य् एवाभावात्, चक्षुरादीनाम् इव संहतत्वात्, पारार्थ्यं स्यात् / यदा च तद् उत्पन्नम् आत्मनि विद्यते, न तदात्मनः स्वार्थत्वम् / तद्भावाभावापेक्षा ह्य् आत्मानात्मनोः स्वार्थत्वपरार्थत्वसिद्धिः / तस्माद् आत्मनो ऽन्यनिरपेक्षम् एव नित्यचैतन्यज्योतिष्ट्वं सिद्धम् // Sअम्Uपद्_II,२.१०१ //
SK
नन्व् एवं सति, असति प्रमातृत्वे कथं प्रमातुः प्रमातृत्वम् // Sअम्Uपद्_II,२.१०२ //
SK
उच्यते -- प्रमाया नित्यत्वे ऽनित्यत्वे च रूपविशेषाभावात् / अवगतिर् हि प्रमा / तस्याः स्मृतीच्छादिपूर्विकाया अनित्यायः कूटस्थनित्याया वा, न [स्व]रूपविशेषो विद्यते / यथा धात्वर्थस्य तिष्ठत्यादेः फलस्य गत्यादिपूर्वकस्यानित्यस्यापूर्वस्य नित्यस्य वा, रूपविशेषो नास्तीति तुल्यो व्यपदेशो दृष्टः -- तिष्ठन्ति मनुष्याः, तिष्ठन्ति पर्वता इत्यादि / तथा नित्यावगतिस्वरूपे ऽपि प्रमातरि प्रमातृत्वव्यपदेशो न विरुध्यते, फलसामान्याद् इति // Sअम्Uपद्_II,२.१०३ //
SK
अत्राह शिष्यः -- नित्यावगतिस्वरूपस्यात्मनो ऽविक्रियत्वात् कार्यकरणैर् असंहत्य, तक्षादीनाम् इव वास्यादिभिः, कर्तृत्वं नोपपद्यते, असंहतस्वभावस्य च कार्यकरणोपादाने ऽनवस्था प्रसज्येत / तक्षादीनां तु कार्यकरणैर् नित्यम् एव संहतत्वम् इति वास्याद्युपादाने नानवस्था स्याद् इति // Sअम्Uपद्_II,२.१०४ //
SK
इह त्व् असंहतस्वभावस्य करणानुपादाने कर्तृत्वं नोपपद्यत इति करणम् उपादेयम्, तदुपादानम् अपि विक्रियैवेति तत्कर्तृत्वे करणान्तरम् उपादेयम्, तदुपादाने ऽप्य् अन्यद् इति प्रमातुः स्वातन्त्र्ये ऽनवस्थापरिहार्या स्यात् / न च क्रियैवात्मानं कारयति, अनिर्वर्तितायाः स्वरूपाभावात् / अथान्यद् आत्मानम् उपेत्य क्रियां कारयतीति चेत् / न / अन्यस्य स्वतःसिद्धत्वाविषयत्वाद्यनुपपत्तेः / न ह्य् आत्मनो ऽन्यद् अचेतनं वस्तु स्वप्रमाणकं दृष्टम् / शब्दादिसर्वम् एवावगतिफलावसानप्रत्ययप्रमितं सिद्धं स्यात् / अवगतिश् चेद् आत्मनो ऽन्यस्य स्यात्, सो ऽप्य् आत्मैवासंहतः स्वार्थः स्यान् न परार्थः / न च देहेन्द्रियविषयाणां स्वार्थताम् अवगन्तुं शक्नुमो ऽवगत्यवसानप्रत्ययापेक्षसिद्धिदर्शनात् // Sअम्Uपद्_II,२.१०५ //
SK
ननु देहस्यावगतौ न कश्चित् प्रत्यक्षादिप्रत्ययान्तरम् अपेक्षते // Sअम्Uपद्_II,२.१०६ //
SK
बाढम्, जाग्रत्य् एवं स्यात् / मृतिसुषुप्त्योस् तु देहस्यापि प्रत्यक्षादिप्रमाणापेक्षयैव सिद्धिः / तथैवेन्द्रियाणाम् / बाह्या एव हि शब्दादयो देहेन्द्रियाकारपरिणता इति प्रत्यक्षादिप्रमाणापेक्षयैव [हि] सिद्धिः / सिद्धिर् इति च प्रमाणफलम् अवगतिम् अवोचाम, सा चावगतिः कूटस्था स्वयंसिद्धात्मज्योतिःस्वरूपेति च // Sअम्Uपद्_II,२.१०७ //
SK
अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिःस्वरूपेति च विप्रतिषिद्धम् / इत्य् उक्तवन्तम् आह -- न विप्रतिषिद्धम् / कथं तर्हि / कूटस्थनित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते, तादर्थ्यात् / प्रत्यक्षादिप्रत्ययस्यानित्यत्वे ऽनित्येव भवति / तेन प्रमाणानां फलम् इत्य् उपचर्यते // Sअम्Uपद्_II,२.१०८ //
SK
यद्य् एवं भगवन्, कूटस्थनित्यावगतिर् आत्मज्यतिःस्वरूपैव स्वयंसिद्धा, आत्मनि प्रमाणनिरपेक्षत्वात्, ततो ऽन्यद् अचेतनं संहत्यकारित्वात् परार्थम् / येन च सुखदुःखमोहप्रत्ययावगतिरूपेण पारार्थ्यं तेनैव स्वरूपेणानात्मनो ऽस्तित्वं नान्येन रूपान्तरेण, अतो नास्तित्वम् एव परमार्थतः / यथा हि लोके रज्जुसर्पमरीच्युदकादीनां तदवगतिव्यतिरेकेणाभावो दृष्टः, एवं जाग्रत्स्वप्नद्वैतभावस्यापि तदवगतिव्यतिरेकेणाभावो युक्तः / एवम् एव, भगवन्, अवगतेर् आत्मज्योतिषो नैरन्तर्यभावात् कूटस्थनित्यता, अद्वैतभावश् च सर्वप्रत्ययभेदेष्व् अव्यभिचारात् / प्रत्यभेदास् त्व् अवगतिं व्यभिचरन्ति / यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास् तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्य् उच्यन्ते, एवं जाग्रत्य् अपि नीलपीतादिप्रत्ययभेदास् ताम् एवावगतिं व्यभिचरन्तो ऽसत्यरूपा भवितुम् अर्हन्ति / तस्याश् चावगतेर् अन्यो ऽवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयम् उपादातुं हातुं वा शक्यते, अन्यस्य चाभावात् // Sअम्Uपद्_II,२.१०९ //
SK
तथैवेति / एषाविद्या, यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः / तस्या अविद्याया विद्या निवर्तिका / इत्येवं त्वम् अभयं प्राप्तो ऽसि / नातःपरं जाग्रत्स्वप्नदुःखम् अनुभविष्यसि, संसारदुःखान् मुक्तो ऽसीति // Sअम्Uपद्_II,२.११० //
SK
ओम् इति // Sअम्Uपद्_II,२.१११ //
SK
इति अवगतिप्रकरणम् // Sअम्Uपद्_II,२ //
SK
मुमुक्षूणाम् उपात्तपुण्यापुण्यक्षपणपराणाम् अपूर्वानुपचयार्थिनां परिसंख्यानम् इदम् उच्यते / अविद्याहेतवो दोषा वाङ्मनण्कायप्रवृत्तिहेतवः, प्रवृत्तेश् चेष्टानिष्टमिश्रफलानि कर्माण्य् उपचीयन्त इति तन्मोक्षार्थम् // Sअम्Uपद्_II,३.११२ //
SK
तत्र शब्दस्पर्शरूपरसगन्धानां विषयाणां श्रोत्रादिग्राह्यत्वात् स्वात्मनि परेषु वा विज्ञानाभावः, तेषाम् एव परिणतानां यथा लोष्टादीनाम् / श्रोत्रादिद्वारैश् च ज्ञायन्ते / येन च ज्ञायन्ते स ज्ञातृत्वाद् अतज्जातीयः / ते हि शब्दादयो ऽन्योन्यसंसर्गित्वाज् जन्मवृद्धि[वि]परिणामापक्षयनाशसंयोगवियोगाविर्भावतिरोभावविकारविकारिक्षेत्रबीजाद्यनेकधर्माणः, सामान्येन च सुखदुःखाद्यनेकधर्माणः / तद्विज्ञातृत्वाद् एव तद्विज्ञाता सर्वशब्दादिधर्मविलक्षणः // Sअम्Uपद्_II,३.११३ //
SK
तत्र शब्दादिभिर् उपलभ्यमानैः पीड्यमानो विद्वान् एवं परिसंचक्षीत // Sअम्Uपद्_II,३.११४ //
SK
शब्दस् तु ध्वनिसामान्यमात्रेण विशेषधर्मैर् वा षड्जादिभिः प्रियैः, स्तुत्यादिभिर् इष्टैः, अनिष्टैश् चासत्यबीभत्सपरिभवाक्रोशादिभिर् वचनैः, मां दृक्स्वभावम् असंसर्गिणम् अविक्रियम् अचलम् अनिधनम् अभयम् अत्यन्तसूक्ष्मम् अविषयं गोचरीकृत्य स्प्रष्टुं नैवार्हत्य् असंसर्गित्वाद् एव मम / अत एव न शब्दनिमित्ता हानिर् वृद्धिर् वा / अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वादिलक्षणः शब्दः / अविवेकिनं हि शब्दम् आत्मत्वेन गतं प्रियः शब्दो वर्धयेद् अप्रियश् च क्षपयेत्, अविवेकित्वान् न तु मम विवेकिनो वालाग्रमात्रम् अपि कर्तुम् उत्सहत इति / एवम् एव स्पर्शसामान्येन तद्विशेषैश् च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश् चाप्रियैः, प्रियैश् च कैश्चिच् छरीरसमवायिभिर् बाह्यागन्तुकनिमित्तैश् च, न मम काचिद् विक्रिया वृद्धिहानिलक्षणा अस्पर्शत्वात् क्रियते, व्योम्न इव मुष्टिघाटादिभिः / तथा रूपसामान्येन तद्विशेषैश् च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः, अरूपत्वान् न मम काचिद् धानिर् वृद्धिर् वा क्रियते / तथा रससामान्येन तद्विशेषैश् च [प्रियाप्रियैः] मधुराम्ललवणकटुतिक्तकषायैर् मूढबुद्धिभिः परिगृहीतैः, अरसात्मकस्य न मम काचिद् धानिर् वृद्धिर् वा क्रियते / तथा गन्धसामान्येन तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैः, अगन्धात्मकस्य न मम काचिद् धानिर् वृद्धिर् वा क्रियते / ᳚अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत्᳚ इति श्रुतेः // Sअम्Uपद्_II,३.११५ //
SK
किं च य एव बाह्यः शब्दादयस् ते शरीराकारेण संस्थिताः, तद्ग्राहकैश् च श्रोत्राद्याकारैर् अन्तःकरणद्वयतद्विषयाकारेण च, अन्योन्यसंसर्गित्वात् संहतत्वाच् च सर्वक्रियासु / तत्रैवं सति विदुषो मम न कश्चिच् छत्रुर् मित्रम् उदासीनो वास्ति / तत्र यदि [कश्चिन्]मिथ्याज्ञानाभिमानेन प्रियम् अप्रियं वा प्रयुयुङ्क्षेत क्रियाफललक्षणम्, तन् मृषैव प्रयुयुङ्क्षति सः / तस्याविषयत्वान् मम -- ᳚अव्यक्तो ऽयम् अचिन्त्यो ऽयम्᳚ इति स्मृतेः / तथा [सर्वेषां] पञ्चानाम् अपि भूतानाम् अविकार्यः, अविषयत्वात् / ᳚अच्छेद्यो ऽयम् अदाह्यो ऽयम्᳚ इति स्मृतेः / यापि शरीरेन्द्रियसंस्थानमात्रम् उपलक्ष्य मद्भक्तानां विपरीतानां च प्रियाप्रियादिप्रयुयुङ्क्षा, तज्जा च धर्माधर्मादिप्राप्तिः, सा तेषाम् एव, न तु मय्य् अजरे ऽमृते ऽभये, ᳚नैनं कृताकृते तपतः᳚, ᳚न कर्मणा वर्धते नो कनीयान्᳚, ᳚सबाह्याभ्यन्तरो ह्य् अजः᳚, ᳚न लिप्यते लोकदुःखेन बाह्यह्᳚ इत्यादिश्रुतिस्मृतिभ्यः / अनात्मवस्तुनश् चासत्त्वाद् इति परमो हेतुः / आत्मनश् चाद्वयत्वविषयाणि, द्वयस्यासत्त्वात्, यानि सर्वाण्य् उपनिषद्वाक्यानि, विस्तरशः समीक्षितव्यानि समीक्षितव्यानीति // Sअम्Uपद्_II,३.११६ //
SK
इति परिसंख्यानप्रकरणम् // Sअम्Uपद्_II,३ //
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादपूज्यशिष्यस्य श्रीशंकरभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसाहस्री समाप्ता

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Upadeśasāhasrī: corpustei HTML transform of the Upadeśasāhasrī.

Source