A Thousand Teachings Upadeśasāhasrī
उपदेशसाहस्री
SamUpad_I.1.1 SK चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् / यत् सर्वविषयातीतं तस्मै सर्वविदे नमः // Sअम्Uपद्_I,१.१ //
SamUpad_I.1.2 SK समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः / ब्रह्मविद्याम् अथेदानीं वक्तुं वेदः प्रचक्रमे // Sअम्Uपद्_I,१.२ //
SamUpad_I.1.3 SK कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये / ध्रुवे स्यातां ततो रागो द्वेषश् चैव ततः क्रियाः // Sअम्Uपद्_I,१.३ //
SamUpad_I.1.4 SK धर्माधर्मौ ततो ऽज्ञस्य देहयोगस् तथा पुनः एवं नित्यप्रवृत्तो ऽयं संसारश् चक्रवद् भृशम् // Sअम्Uपद्_I,१.४ //
SamUpad_I.1.5 SK अज्ञानं तस्य मूलं स्याद् इति तद्धानम् इष्यते / ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् // Sअम्Uपद्_I,१.५ //
SamUpad_I.1.6 SK विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः / नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत् // Sअम्Uपद्_I,१.६ //
SamUpad_I.1.7 SK रागद्वेषक्षयाभावे कर्म दोषोद्भवं ध्रुवम् / तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते // Sअम्Uपद्_I,१.७ //
SamUpad_I.1.8 SK ननु कर्म तथा नित्यं कर्तव्यं जीवने सति / विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत् // Sअम्Uपद्_I,१.८ //
SamUpad_I.1.9 SK यथा विद्या तथा कर्म चोदितत्वाविशेषतः / प्रत्यवायस्मृतेश् चैव कार्यं कर्म मुमुक्षुभिः // Sअम्Uपद्_I,१.९ //
SamUpad_I.1.10 SK ननु ध्रुवफला विद्या नान्यत् किंचिद् अपेक्षते / नाग्निष्टोमो यथैवान्यद् ध्रुवकार्यो ऽप्य् अपेक्षते // Sअम्Uपद्_I,१.१० //
SamUpad_I.1.11 SK तथा ध्रुवफला विद्या कर्म नित्यम् अपेक्षते / इत्य् एवं केचिद् इच्छन्ति न कर्म प्रतिकूलतः // Sअम्Uपद्_I,१.११ //
SamUpad_I.1.12 SK विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः / निर्विकारात्मबुद्धिश् च विद्येतीह प्रकीर्तिता // Sअम्Uपद्_I,१.१२ //
SamUpad_I.1.13 SK अहं कर्ता ममेदं स्याद् इति कर्म प्रवर्तते / वस्त्वधीना भवेद् विद्या कर्त्रधीनो भवेद् विधिः // Sअम्Uपद्_I,१.१३ //
SamUpad_I.1.14 SK कारकाण्य् उपमृद्नाति विद्याब्बुद्धिम् इवोषरे / तत्सत्यमतिम् आदाय कर्म कर्तुं व्यवस्यति // Sअम्Uपद्_I,१.१४ //
SamUpad_I.1.15 SK विरुद्धत्वाद् अतः शक्यं कर्म कर्तुं न विद्यया / सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुणा // Sअम्Uपद्_I,१.१५ //
SamUpad_I.1.16 SK देहाद्यैर् अविशेषेण देहिनो ग्रहणं निजम् / प्राणिनां तद् अविद्योत्थं तावत् कर्मविधिर् भवेत् // Sअम्Uपद्_I,१.१६ //
SamUpad_I.1.17 SK नेति नेतीति देहादीन् अपोह्यात्मावशेषितः / अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता // Sअम्Uपद्_I,१.१७ //
SamUpad_I.1.18 SK निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः / असत्य् एवाविशेषे हि प्रत्यगात्मनि केवले // Sअम्Uपद्_I,१.१८ //
SamUpad_I.1.19 SK न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् / सद् अस्मीति च विज्ञाने तस्माद् विद्यासहायिका // Sअम्Uपद्_I,१.१९ //
SamUpad_I.1.20 SK अत्यरेचयद् इत्य् उक्तो न्यासः श्रुत्यात एव हि / कर्मभ्यो मानसान्तेभ्य एतावद् इति वाजिनाम् // Sअम्Uपद्_I,१.२० //
SamUpad_I.1.21 SK अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः / अग्निष्टोमवद् इत्य् उक्तं तत्रेदम् अभिधीयते // Sअम्Uपद्_I,१.२१ //
SamUpad_I.1.22 SK नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः / विद्या तद्विपरीतातो दृष्टान्तो विषमो भवेत् // Sअम्Uपद्_I,१.२२ //
SamUpad_I.1.23 SK कृष्यादिवत् फलार्थत्वाद् अन्यकर्मोपबृंहणम् / अग्निष्टोमस् त्व् अपेक्षेत विद्यान्यत् किम् अपेक्षते // Sअम्Uपद्_I,१.२३ //
SamUpad_I.1.24 SK प्रत्यवायस् तु तस्यैव यस्याहंकार इष्यते / अहंकारफलार्थित्वे विद्येते नात्मवेदिनः // Sअम्Uपद्_I,१.२४ //
SamUpad_I.1.25 SK तस्माद् अज्ञानहानाय संसारविनिवृत्तये / ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्व् इयम् // Sअम्Uपद्_I,१.२५ //
SamUpad_I.1.26 SK सदेर् उपनिपूर्वस्य क्विपि चोपनिषद् भवेत् / मन्दीकरणभावाच् च गर्भादेः शातनात् तथा // Sअम्Uपद्_I,१.२६ //
SamUpad_I.1 SK इति चैतन्यप्रकरणम् // Sअम्Uपद्_I,१ //
SamUpad_I.2.1 SK प्रतिषेद्धुम् अशक्यत्वान् नेति नेतीति शेषितम् / इदं नाहम् इदं नाहम् इत्य् अद्धा प्रतिपद्यते // Sअम्Uपद्_I,२,१ //
SamUpad_I.2.2 SK इदंधीर् इदमात्मोत्था वाचारम्भणगोचरा / निषिद्धात्मोद्भवत्वात् सा न पुनर् मानतां व्रजेत् // Sअम्Uपद्_I,२.२ //
SamUpad_I.2.3 SK पूर्वबुद्धिम् अबाधित्वा नोत्तरा जायते मतिः / दृशिर् एकः स्वयंसिद्धः फलत्वात् स न बाध्यते // Sअम्Uपद्_I,२.३ //
SamUpad_I.2.4 SK इदंवनम् अतिक्रम्य शोकमोहादिदूषितम् / वनाद् गान्धारको यद्वत् स्वम् आत्मानं प्रपद्यते // Sअम्Uपद्_I,२.४ //
SamUpad_I.2 SK इति प्रतिषेधप्रकरणम् // Sअम्Uपद्_I,२ //
SamUpad_I.3.1 SK ईश्वरश् चेद् अनात्मा स्यान् नासाव् अस्मीति धारयेत् / आत्मा चेद् ईश्वरो ऽस्मीति विद्या सान्यनिवर्तिका // Sअम्Uपद्_I,३.१ //
SamUpad_I.3.2 SK आत्मनो ऽन्यस्य चेद् धर्मा अस्थूलत्वादयो मताः / अज्ञेयत्वे ऽस्य किं तैः स्याद् आत्मत्वे त्व् अन्यधीह्नुतिः // Sअम्Uपद्_I,३.२ //
SamUpad_I.3.3 SK मिथ्याध्यासनिषेधार्थं ततो ऽस्थूलादि गृह्यताम् / परत्र चेन् निषेधार्थं शून्यतावर्णनं हि तत् // Sअम्Uपद्_I,३.३ //
SamUpad_I.3.4 SK बुभुत्सोर् यदि चान्यत्र प्रत्यगात्मन इष्यते / अप्राणो ह्य् अमनाः शुभ्र इति चानर्थकं वचः // Sअम्Uपद्_I,३.४ //
SamUpad_I.3 SK इतीश्वरप्रकरणम् // Sअम्Uपद्_I,३ //
SamUpad_I.4.1 SK अहंप्रत्ययबीजं यद् अहंप्रत्ययवत्स्थितम् / नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति // Sअम्Uपद्_I,४.१ //
SamUpad_I.4.2 SK दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते / तन्निरोधे कथं तत् स्यात् पृच्छामो वस् तद् उच्यताम् // Sअम्Uपद्_I,४.२ //
SamUpad_I.4.3 SK देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि / अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानम् उद्भवेत् // Sअम्Uपद्_I,४.३ //
SamUpad_I.4.4 SK आरब्धस्य फले ह्य् एते भोगो ज्ञानं च कर्मणः / अविरोधस् तयोर् युक्तो वैधर्म्यं चेतरस्य तु // Sअम्Uपद्_I,४.४ //
SamUpad_I.4.5 SK देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम् / आत्मन्य् एय भवेद् यस्य स नेच्छन्न् अपि मुच्यते // Sअम्Uपद्_I,४.५ //
SamUpad_I.4.5 SK [ततः सर्वम् इदं सिद्धं प्रयोगो ऽस्माभिर् ईरितः // Sअम्Uपद्_I,४.५ //]
SamUpad_I.4 SK इत्य् अहंप्रत्ययप्रकरणम् // Sअम्Uपद्_I,४ //
SamUpad_I.5.1 SK मूत्राशङ्को यथोदङ्को नाग्रहीद् अमृतं मुनिः / कर्मनाशभयाज् जन्तोर् आत्मज्ञानाग्रहस् तथा // Sअम्Uपद्_I,५.१ //
SamUpad_I.5.2 SK बुद्धिस्थश् चलतीवात्मा ध्यायतीव च दृश्यते / नौगतस्य यथा वृक्षास् तद्वत् संसारविभ्रमः // Sअम्Uपद्_I,५.२ //
SamUpad_I.5.3 SK नौस्थस्य प्रातिलोम्येन नगानां गमनं यथा / आत्मनः संसृतिस् तद्वद् ध्यायतीवेति हि श्रुतिः // Sअम्Uपद्_I,५.३ //
SamUpad_I.5.4 SK चैतन्यप्रतिबिम्बेन व्याप्तो बोधो हि जायते / बुद्धेः शब्दादिनिर्भासस् तेन मोमुह्यते जगत् // Sअम्Uपद्_I,५.४ //
SamUpad_I.5.5 SK चैतन्याभासताहमस् तादर्थ्यं च तद् अस्य यत् / इदमंशप्रहाणे न परः सो ऽनुभवो भवेत् // Sअम्Uपद्_I,५.५ //
SamUpad_I.5 SK इति मूत्राशङ्कप्रकरणम् // Sअम्Uपद्_I,५ //
SamUpad_I.6.1 SK छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते / तथा शिष्टेन सर्वेण येन येन विशेष्यते // Sअम्Uपद्_I,६.१ //
SamUpad_I.6.2 SK तस्मात् त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् / अनात्मत्वेन तस्माज् ज्ञो मुक्तः सर्वविशेषणैः // Sअम्Uपद्_I,६.२ //
SamUpad_I.6.3 SK विशेषणम् इदं सर्वं साध्वलंकरणं यथा / अविद्यास्तम् अतः सर्वं ज्ञात आत्मन्य् असद् भवेत् // Sअम्Uपद्_I,६.३ //
SamUpad_I.6.4 SK ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयम् उत्सृज्य केवलः / अहम् इत्य् अपि यद् ग्राह्यं व्यपेताङ्गसमं हि तत् // Sअम्Uपद्_I,६.४ //
SamUpad_I.6.5 SK यावान् स्याद् इदमंशो यः स स्वतो ऽन्यो विशेषणम् / विशेषप्रक्षयो यत्र सिद्धो ज्ञश् चित्रगुर् यथा // Sअम्Uपद्_I,६.५ //
SamUpad_I.6.6 SK इदम् अंशो ऽहम् इत्य् अत्र त्याज्यो नात्मेति पण्डितैः / अहं ब्रह्मेति शिष्टो ऽंशो भूतपूर्वगतेर् भवेत् // Sअम्Uपद्_I,६.६ //
SamUpad_I.6 SK इति छित्त्वाप्रकरणम् // Sअम्Uपद्_I,६ //
SamUpad_I.7.1 SK बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा / मया तस्मात् परं ब्रह्म सर्वज्ञश् चास्मि सर्वगः // Sअम्Uपद्_I,७.१ //
SamUpad_I.7.2 SK यथात्मबुद्धिचाराणां साक्षी तद्वत् परेष्व् अपि / नैवापोढुं न वादातुं शक्यस् तस्मात् परो ह्य् अहम् // Sअम्Uपद्_I,७.२ //
SamUpad_I.7.3 SK विकारित्वम् अशुद्धत्वं भौतिकत्वं न चात्मनः / अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना // Sअम्Uपद्_I,७.३ //
SamUpad_I.7.4 SK मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे / मयि संदृश्यते सर्वम् आतपेनेव तन् मया // Sअम्Uपद्_I,७.४ //
SamUpad_I.7.5 SK बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये / द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते // Sअम्Uपद्_I,७.५ //
SamUpad_I.7.6 SK अविवेकात् पराभावं यथा बुद्धिर् अवेत् तथा / विवेकात् तु पराद् अन्यः स्वयं चापि न विद्यते // Sअम्Uपद्_I,७.६ //
SamUpad_I.7 SK इति बुद्ध्यारूढप्रकरणम् // Sअम्Uपद्_I,७ //
SamUpad_I.8.1 SK चितिस्वरूपं स्वत एव मे मते रसादियोगस् तव मोहकारितः / अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः // Sअम्Uपद्_I,८.१ //
SamUpad_I.8.2 SK विमुच्य मायामयकार्यताम् इह प्रशान्तिम् आयाह्य् असदीहितात् सदा / अहं परं ब्रह्म सदा विमुक्तवत् तथाजम् एकं द्वयवर्जितं यतः // Sअम्Uपद्_I,८.२ //
SamUpad_I.8.3 SK सदा च भूतेषु समो ऽस्मि केवलो यथा च खं सर्वगम् अक्षरं शिवम् / निरन्तरं निष्कलम् अक्रियं परं ततो न मे ऽस्तीह फलं तवेहितैः // Sअम्Uपद्_I,८.३ //
SamUpad_I.8.4 SK अहं ममैको न तदन्यद् इष्यते तथा न कस्याप्य् अहम् अस्म्य् असङ्गतः / असङ्गरूपो ऽहम् अतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः // Sअम्Uपद्_I,८.४ //
SamUpad_I.8.5 SK फले च हेतौ च जनो विषक्तवान् इति प्रचिन्त्याहम् अतो विमोक्षणे / जनस्य संवादम् इमं प्रकॢप्तवान् स्वरूपतत्त्वार्थविबोधकारणम् // Sअम्Uपद्_I,८.५ //
SamUpad_I.8.6 SK संवादम् एतं यदि चिन्तयेन् नरो विमुच्यते ऽज्ञानमहाभयागमात् / विमुक्तकामश् च तथा जनः सदा चरत्य् अशोकः सम आत्मवित् सुखी // Sअम्Uपद्_I,८.६ //
SamUpad_I.8 SK इति चितिस्वरूपप्रकरणम् // Sअम्Uपद्_I,८ //
SamUpad_I.9.1 SK सूक्ष्मताव्यापिते ज्ञेये गन्धादेर् उत्तरोत्तरम् / प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः // Sअम्Uपद्_I,९.१ //
SamUpad_I.9.2 SK शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः / अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः // Sअम्Uपद्_I,९.२ //
SamUpad_I.9.3 SK वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा / अहम् एकः सदा सर्वश् चिन्मात्रः सर्वगो ऽद्वयः // Sअम्Uपद्_I,९.३ //
SamUpad_I.9.4 SK ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः / कामक्रोधादयो दोषा जायेरन् मे कुतो ऽन्यतः // Sअम्Uपद्_I,९.४ //
SamUpad_I.9.5 SK भूतदोषैः सदास्पृष्टं सर्वभूतस्थम् ईश्वरम् / नीलं व्योम यथा बालो दुष्टं मां वीक्षते जनः // Sअम्Uपद्_I,९.५ //
SamUpad_I.9.6 SK मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा / पूर् मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः // Sअम्Uपद्_I,९.६ //
SamUpad_I.9.7 SK जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवद् इष्यते / नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते // Sअम्Uपद्_I,९.७ //
SamUpad_I.9.8 SK ज्ञातुर् ज्ञातिर् हि नित्योक्ता सुषुप्ते त्व् अन्यशून्यतः / जाग्रज्ज्ञातिस् त्व् अविद्यातस् तद् ग्राह्यं चासद् इष्यताम् // Sअम्Uपद्_I,९.८ //
SamUpad_I.9.9 SK रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा / एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते // Sअम्Uपद्_I,९.९ //
SamUpad_I.9 SK इति सूक्ष्मताप्रकरणम् // Sअम्Uपद्_I,९ //
SamUpad_I.10.1 SK दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्व् अजम् एकम् अक्षरम् / अलेपकं सर्वगतं यद् अद्वयं तद् एव चाहं सततं विमुक्त ओम् // Sअम्Uपद्_I,१०.१ //
SamUpad_I.10.2 SK दृशिस् तु शुद्धो ऽहम् अविक्रियात्मको न मे ऽस्ति कश्चिद् विषयः स्वभावतः / पुरस् तिरश् चोर्ध्वम् अधश् च सर्वतः सुपूर्णभूमा त्व् अज आत्मनि स्थितः // Sअम्Uपद्_I,१०.२ //
SamUpad_I.10.3 SK अजो ऽमरश् चैव तथाजरो ऽमृतः स्वयंप्रभः सर्वगतो ऽहम् अद्वयः / न कारणं कार्यम् अतीव निर्मलः सदैव तृप्तश् च ततो विमुक्त ओम् // Sअम्Uपद्_I,१०.३ //
SamUpad_I.10.4 SK सुषुप्तजाग्रत्स्वपतश् च दर्शनं न मे ऽस्ति किंचित् स्वम् इवेह मोहनम् / स्वतश् च तेषां परतो ऽप्य् असत्त्वतस् तुरीय एवास्मि सदा दृग् अद्वयः // Sअम्Uपद्_I,१०.४ //
SamUpad_I.10.5 SK शरीरबुद्धीन्द्रियदुःखसंततिर् न मे न चाहं मम निर्विकारतः / असत्त्वहेतोश् च तथैव संततेर् असत्त्वम् अस्याः स्वपतो हि दृश्यवत् // Sअम्Uपद्_I,१०.५ //
SamUpad_I.10.6 SK इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर् न हि मे ऽद्वयत्वतः / न पुण्यपापे न च मोक्षबन्धने न चास्ति वर्णाश्रमताशरीरतः // Sअम्Uपद्_I,१०.६ //
SamUpad_I.10.7 SK अनादितो निर्गुणतो न कर्म मे फलं च तस्मात् परमो ऽहम् अद्वयः / यथा नभः सर्वगतं न लिप्यते तथा ह्य् अहं देहगतो ऽपि सूक्ष्मतः // Sअम्Uपद्_I,१०.७ //
SamUpad_I.10.8 SK सदा च भूतेषु समो ऽहम् ईश्वरः क्षराक्षराभ्यां परमो ह्य् अथोत्तमः / परात्मतत्त्वश् च तथाद्वयो ऽपि सन् विपर्ययेणाभिवृतस् त्व् अविद्यया // Sअम्Uपद्_I,१०.८ //
SamUpad_I.10.9 SK अविद्यया भावनया च कर्मभिर् विविक्त आत्माव्यवधिः सुनिर्मलः / दृगादिशक्तिप्रचितो ऽहम् अद्वयः स्थितः स्वरूपे गगनं यथाचलम् // Sअम्Uपद्_I,१०.९ //
SamUpad_I.10.10 SK अहं परं ब्रह्म विनिश्चयात्मदृङ् न जायते भूय इति श्रुतेर् वचः / न चैव बीजे त्व् असति प्रजायते फलं न जन्मास्ति ततो ह्य् अमोहता // Sअम्Uपद्_I,१०.१० //
SamUpad_I.10.11 SK ममेदम् इत्थं च तवाद ईदृशं तथाहम् एवं न परो ऽपि चान्यथा / विमूढतैवास्य जनस्य कल्पना सदा समे ब्रह्मणि वाद्वये शिवे // Sअम्Uपद्_I,१०.११ //
SamUpad_I.10.12 SK यद् अद्वयं ज्ञानम् अतीव निर्मलं महात्मनां तत्र न शोकमोहता / तयोर् अभावे न हि कर्म जन्म वा भवेद् अयं वेदविदां विनिश्चयः // Sअम्Uपद्_I,१०.१२ //
SamUpad_I.10.13 SK सुषुप्तवज् जाग्रति यो न पश्यति द्वयं तु पश्यन्न् अपि चाद्वयत्वतः / तथा च कुर्वन्न् अपि निष्क्रियश् च यः स आत्मविन् नान्य इतीह निश्चयः // Sअम्Uपद्_I,१०.१३ //
SamUpad_I.10.14 SK इतीदम् उक्तं परमार्थदर्शनं मया हि वेदान्तविनिश्चितं परम् / विमुच्यते ऽस्मिन् यदि निश्चितो भवेन् न लिप्यते व्योमवद् एव कर्मभिः // Sअम्Uपद्_I,१०.१४ //
SamUpad_I.10 SK इति दृशिप्रकरणम् // Sअम्Uपद्_I,१० //
SamUpad_I.11.1 SK ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततो ऽन्यता / अज्ञानाद् इत्य् अतो ऽन्यत्वं सद् असीति निवर्त्यते // Sअम्Uपद्_I,११.१ //
SamUpad_I.11.2 SK एतावद् ध्य् अमृतत्वं न किंचिद् अन्यत् सहायकम् / ज्ञानस्येति ब्रुवच् छास्त्रं सलिङ्गं कर्म बाधते // Sअम्Uपद्_I,११.२ //
SamUpad_I.11.3 SK सर्वेषां मनसो वृत्तम् अविशेषेण पश्यतः / तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन // Sअम्Uपद्_I,११.३ //
SamUpad_I.11.4 SK मनोवृत्तं मनश् चैव स्वप्नवज् जाग्रतीक्षितुः / संप्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगो ऽद्वयः // Sअम्Uपद्_I,११.४ //
SamUpad_I.11.5 SK स्वप्नः सत्यो यथाबोधाद् देहात्मत्वं तथैव च / प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्याद् आत्मवेदनात् // Sअम्Uपद्_I,११.५ //
SamUpad_I.11.6 SK व्योमवत् सर्वभूतस्थो भूतदोषैर् विवर्जितः / साक्षी चेतागुणः शुद्धो ब्रह्मैवास्मीति केवलः // Sअम्Uपद्_I,११.६ //
SamUpad_I.11.7 SK नामरूपक्रियाभ्यो ऽन्यो नित्यमुक्तस्वरूपवान् / अहम् आत्मा परं ब्रह्म चिन्मात्रो ऽहं सदाद्वयः // Sअम्Uपद्_I,११.७ //
SamUpad_I.11.8 SK अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः / ते नष्टा ज्ञनकर्मभ्यां नास्तिकाः स्युर् न संशयः // Sअम्Uपद्_I,११.८ //
SamUpad_I.11.9 SK धर्माधर्मफलैर् योग इष्टो ऽदृष्टो यथात्मनः / शास्त्राद् ब्रह्मत्वम् अप्य् अस्य मोक्षो ज्ञानात् तथेष्यताम् // Sअम्Uपद्_I,११.९ //
SamUpad_I.11.10 SK या माहारजनाद्यास् ता वासनाः स्वप्नदर्शिभिः / अनुभूयन्त एवेह ततो ऽन्यः केवलो दृशिः // Sअम्Uपद्_I,११.१० //
SamUpad_I.11.11 SK कोशाद् इव विनिष्कृष्टः कार्यकारणवर्जितः / यथासिर् दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः // Sअम्Uपद्_I,११.११ //
SamUpad_I.11.12 SK आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् / उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा // Sअम्Uपद्_I,११.१२ //
SamUpad_I.11.13 SK महाराजादयो लोका मयि यद्वत् प्रकल्पिताः / स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह // Sअम्Uपद्_I,११.१३ //
SamUpad_I.11.14 SK देहलिङ्गात्मना कार्या वासनारूपिणा क्रिया / नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् // Sअम्Uपद्_I,११.१४ //
SamUpad_I.11.15 SK न ततो ऽमृतताशास्ति कर्मणो ऽज्ञानहेतुतः / मोक्षस्य ज्ञानहेतुत्वान् न तदन्यद् अपेक्षते // Sअम्Uपद्_I,११.१५ //
SamUpad_I.11.16 SK अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम / विपरीतम् अतो ऽन्यद् यत् त्यजेत् तत् सक्रियं ततः // Sअम्Uपद्_I,११.१६ //
SamUpad_I.11 SK इतीक्षितृत्वप्रकरणम् // Sअम्Uपद्_I,११ //
SamUpad_I.12.1 SK प्रकाशस्थं यथा देहं सालोकम् अभिमन्यते / द्रष्ट्राभासं तथा चित्तं द्रष्टाहम् इति मन्यते // Sअम्Uपद्_I,१२.१ //
SamUpad_I.12.2 SK यद् एव दृष्यते लोके तेनाभिन्नत्वम् आत्मनः / प्रपद्यते ततो मूढस् तेनात्मानं न विन्दति // Sअम्Uपद्_I,१२.२ //
SamUpad_I.12.3 SK दशमस्य नवात्मत्वप्रतिपत्तिवद् आत्मनः / दृश्येषु तद्वद् एवायं मूढो लोको न चान्यथा // Sअम्Uपद्_I,१२.३ //
SamUpad_I.12.4 SK त्वं कुरु त्वं तद् एवेति प्रत्ययाव् एककालिकौ / एकनीडौ कथं स्यातां विरुद्धौ न्यायतो वद // Sअम्Uपद्_I,१२.४ //
SamUpad_I.12.5 SK देहाभिमानिनो दुःखं नादेहस्य स्वभावतः / स्वापवत् तत्प्रहाणाय तत् त्वम् इत्य् उच्यते दृशेः // Sअम्Uपद्_I,१२.५ //
SamUpad_I.12.6 SK दृशेश् छाया यदारूढा मुखच्छायेव दर्शने / पश्यंस् तं प्रत्ययं योगी दृष्ट अत्मेति मन्यते // Sअम्Uपद्_I,१२.६ //
SamUpad_I.12.7 SK तं च मूढं च यद्य् अन्यं प्रत्ययं वेत्ति नो दृशेः / स एव योगिनां श्रेष्ठो नेतरः स्यान् न संशयः // Sअम्Uपद्_I,१२.७ //
SamUpad_I.12.8 SK विज्ञातेर् यस् तु विज्ञाता स त्वम् इत्य् उच्यते यतः / स स्याद् अनुभवस् तस्य ततो ऽन्यो ऽनुभवो मृषा // Sअम्Uपद्_I,१२.८ //
SamUpad_I.12.9 SK दृशिरूपे सदा नित्ये दर्शनादर्शने मयि / कथं स्यातां ततो नान्य इष्यते ऽनुभवस् ततः // Sअम्Uपद्_I,१२.९ //
SamUpad_I.12.10 SK यत्स्थस् तापो रवेर् देहे दृशेः स विषयो यथा / सत्त्वस्थस् तद्वद् एवेह दृशेः स विषयस् तथा // Sअम्Uपद्_I,१२.१० //
SamUpad_I.12.11 SK प्रतिषिद्धेदमंशो ज्ञः खम् इवैकरसो ऽद्वयः / नित्यमुक्तस् तथा शुद्धः सो ऽहं ब्रह्मास्मि केवलः // Sअम्Uपद्_I,१२.११ //
SamUpad_I.12.12 SK विज्ञातुर् नैव विज्ञाता परो ऽन्यः संभवत्य् अतः / विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा // Sअम्Uपद्_I,१२.१२ //
SamUpad_I.12.13 SK यो वेदालुप्तदृष्टित्वम् आत्मनो ऽकर्तृतां तथा / ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः // Sअम्Uपद्_I,१२.१३ //
SamUpad_I.12.14 SK ज्ञातैवाहम् अविज्ञेयः शुद्धो मुक्तः सदेत्य् अपि / विवेकी प्रत्ययो बुद्धेर् दृश्यत्वान् नाशवत्त्वतः // Sअम्Uपद्_I,१२.१४ //
SamUpad_I.12.15 SK अलुप्ता त्व् आत्मनो दृष्टिर् नोत्पाद्या कारकैर् यतः / दृश्यया चान्यया दृष्ट्या जन्यतास्याः प्रकल्पिता // Sअम्Uपद्_I,१२.१५ //
SamUpad_I.12.16 SK देहात्मबुद्ध्यपेक्षत्वाद् आत्मनः कर्तृता मृषा / नैव किंचित् करोमीति सत्या बुद्धिः प्रमाणजा // Sअम्Uपद्_I,१२.१६ //
SamUpad_I.12.17 SK कर्तृत्वं कारकापेक्षम् अकर्तृत्वं स्वभावतः / कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश्चितम् // Sअम्Uपद्_I,१२.१७ //
SamUpad_I.12.18 SK एवं शास्त्रानुमानाभ्यां स्वरूपे ऽवगते सति / नियोज्यो ऽहम् इति ह्य् एषा सत्या बुद्धिः कथं भवेत् // Sअम्Uपद्_I,१२.१८ //
SamUpad_I.12.19 SK यथा सर्वान्तरं व्योम व्योम्नो ऽप्य् अभ्यन्तरो ह्य् अहम् / निर्विकारो ऽचलः शुद्धो ऽजरो मुक्तः सदाद्वयः // Sअम्Uपद्_I,१२.१९ //
SamUpad_I.12 SK इति प्रकाशस्थप्रकरणम् // Sअम्Uपद्_I,१२ //
SamUpad_I.13.1 SK अचक्षुष्ट्वान् न दृष्टिर् मे तथाश्रोत्रस्य का श्रुतिः / अवाक्त्वान् न तु वक्तिः स्याद् अमनस्त्वान् मतिः कुतः // Sअम्Uपद्_I,१३.१ //
SamUpad_I.13.2 SK अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता / विद्याविद्ये ततो न स्तश् चिन्मात्रज्योतिषो मम // Sअम्Uपद्_I,१३.२ //
SamUpad_I.13.3 SK नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः / अमृतस्याक्षरस्यैवम् अशरीरस्य सर्वदा // Sअम्Uपद्_I,१३.३ //
SamUpad_I.13.4 SK जिघत्सा वा पिपासा वा शोकमोहौ जरामृती / न विद्यन्ते ऽशरीरत्वाद् व्योमवद् व्यापिनो मम // Sअम्Uपद्_I,१३.४ //
SamUpad_I.13.5 SK अस्पर्शत्वान् न मे स्पृष्टिर् नाजिह्वत्वाद् रसज्ञता / नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा // Sअम्Uपद्_I,१३.५ //
SamUpad_I.13.6 SK या तु स्यान् मानसी वृत्तिश् चाक्षुष्का रूपरञ्जना / नित्यम् एवात्मनो दृष्ट्या नित्यया दृश्यते हि सा // Sअम्Uपद्_I,१३.६ //
SamUpad_I.13.7 SK तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः / स्मृती रागादिरूप च केवलान्तर् मनस्य् अपि // Sअम्Uपद्_I,१३.७ //
SamUpad_I.13.8 SK मानस्यस् तद्वद् अन्यस्य दृश्यन्ते स्वप्नवृत्तयः / द्रष्टुर् दृष्टिस् ततो नित्या शुद्धानन्ता च केवला // Sअम्Uपद्_I,१३.८ //
SamUpad_I.13.9 SK अनित्या साविशुद्धेति गृह्यते ऽत्राविवेकतः / सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया // Sअम्Uपद्_I,१३.९ //
SamUpad_I.13.10 SK मूढया मूढ इत्य् एवं शुद्धया शुद्ध इत्य् अपि / मन्यते सर्वलोको ऽयं येन संसारम् ऋच्छति // Sअम्Uपद्_I,१३.१० //
SamUpad_I.13.11 SK अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्य् अजम् / नित्यमुक्तम् इहात्मानं मुमुक्षुश् चेत् सदा स्मरेत् // Sअम्Uपद्_I,१३.११ //
SamUpad_I.13.12 SK अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम / अप्राणो ह्य् अमनाः शुभ्र इति चाथर्वणे वचः // Sअम्Uपद्_I,१३.१२ //
SamUpad_I.13.13 SK शब्दादीनाम् अभावश् च श्रूयते मम काठके / अप्राणो ह्य् अमना यस्माद् अविकारी सदा ह्य् अहम् // Sअम्Uपद्_I,१३.१३ //
SamUpad_I.13.14 SK विक्षेपो नास्ति तस्मान् मे न समाधिस् ततो मम / विक्षेपो वा समाधिर् वा मनसः स्याद् विकारिणः // Sअम्Uपद्_I,१३.१४ //
SamUpad_I.13.15 SK अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम / अमनस्त्वाविकारित्वे विदेहव्यापिनो मम // Sअम्Uपद्_I,१३.१५ //
SamUpad_I.13.16 SK इत्य् एतद् यावद् अज्ञानं तावत् कार्यं ममाभवत् / नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम // Sअम्Uपद्_I,१३.१६ //
SamUpad_I.13.17 SK समाधिर् वासमाधिर् वा कार्यं वान्यत् कुतो भवेत् / मं हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम् // Sअम्Uपद्_I,१३.१७ //
SamUpad_I.13.18 SK अहं ब्रह्मास्मि सर्वो ऽस्मि शुद्धो बुद्धो ऽसितः सदा / अजः सर्वग एवाहम् अजरश् चामृतो ऽक्षयः // Sअम्Uपद्_I,१३.१८ //
SamUpad_I.13.19 SK मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते / कर्माध्यक्षश् च साक्षी च चेता नित्यो ऽगुणो ऽद्वयः // Sअम्Uपद्_I,१३.१९ //
SamUpad_I.13.20 SK न सच् चाहं न चासच् च नोभयं केवलः शिवः / न मे संध्या न रात्रिर् वा नाहर् वा सर्वदा दृशेः // Sअम्Uपद्_I,१३.२० //
SamUpad_I.13.21 SK सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्मम् अद्वयम् / तेनाप्य् अस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् // Sअम्Uपद्_I,१३.२१ //
SamUpad_I.13.22 SK ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत् / एकस्य सुषिभेदेन तथा मम विकल्पितः // Sअम्Uपद्_I,१३.२२ //
SamUpad_I.13.23 SK भेदो ऽभेदस् तथा चैको नाना चेति विकल्पितम् / ज्ञेयं ज्ञाता गतिर् गन्ता मय्य् एकस्मिन् कुतो भवेत् // Sअम्Uपद्_I,१३.२३ //
SamUpad_I.13.24 SK न मे हेयं न चादेयम् अविकारी यतो ह्य् अहम् / सदा मुक्तस् तथा शुद्धः सदा बुद्धो ऽगुणो ऽद्वयः // Sअम्Uपद्_I,१३.२४ //
SamUpad_I.13.25 SK इत्य् एवं सर्वदात्मानं विद्यात् सर्वं समाहितः / विदित्वा मां स्वदेहस्थम् ऋषिर् मुक्तो ध्रुवो भवेत् // Sअम्Uपद्_I,१३.२५ //
SamUpad_I.13.26 SK कृतकृत्यश् च सिद्धश् च योगी ब्राह्मण एव च / यदैवं वेद तत्त्वार्थम् अन्यथा ह्य् आत्महा भवेत् // Sअम्Uपद्_I,१३.२६ //
SamUpad_I.13.27 SK वेदार्थो निश्चितो ह्य् एष समासेन मयोदितः / संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना // Sअम्Uपद्_I,१३.२७ //
SamUpad_I.13 SK इत्य् अचक्षुष्ट्वप्रकरणम् // Sअम्Uपद्_I,१३ //
SamUpad_I.14.1 SK स्वप्नस्मृत्योर् घटादेर् हि रूपाभासः प्रदृश्यते / पुरा नूनं तदाकरा धीर् दृष्टेत्य् अनुमीयते // Sअम्Uपद्_I,१४.१ //
SamUpad_I.14.2 SK भिक्षाम् अटन् यथा स्वप्ने दृष्टो देहो न स स्वयम् / जाग्रद्दृश्यात् तथा देहाद् द्रष्टृत्वाद् अन्य एव सः // Sअम्Uपद्_I,१४.२ //
SamUpad_I.14.3 SK मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा / रूपादीन् व्याप्नुवच् चित्तं तन्निभं दृश्यते ध्रुवम् // Sअम्Uपद्_I,१४.३ //
SamUpad_I.14.4 SK व्यञ्जको वा यथालोको व्यङ्ग्यस्याकारताम् इयात् / सर्वार्थव्यञ्जकत्वाद् धीर् अर्थाकरा प्रदृश्यते // Sअम्Uपद्_I,१४.४ //
SamUpad_I.14.5 SK धिर् एवार्थस्वरूपा हि पुंसा दृष्टा पुरापि च / न चेत् स्वप्ने कथं पश्येत् स्मरतो वाकृतिः कुतः // Sअम्Uपद्_I,१४.५ //
SamUpad_I.14.6 SK व्यञ्जकत्वं तद् एवास्य रूपाद्याकारदृश्यता / द्रष्टृत्वं च दृशेस् तद्वद् व्याप्तिः स्याद् धिय उद्भवे // Sअम्Uपद्_I,१४.६ //
SamUpad_I.14.7 SK चिन्मात्रज्योतिषा सर्वः सर्वदेहेषु बुद्धयः / मया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो ह्य् अहम् // Sअम्Uपद्_I,१४.७ //
SamUpad_I.14.8 SK करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः / जाग्रत्य् एवं यतो दृष्टा द्रष्टा तस्मात् ततो ऽन्यथा // Sअम्Uपद्_I,१४.८ //
SamUpad_I.14.9 SK बुद्ध्यादीनाम् अनात्मत्वं हेयोपादेयरूपतः / हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते // Sअम्Uपद्_I,१४.९ //
SamUpad_I.14.10 SK सबाह्याभ्यन्तरे शुद्धे प्रज्ञानैकरसे घने / बाह्यम् आभ्यन्तरं चान्यत् कथं हेयं प्रकल्प्यते // Sअम्Uपद्_I,१४.१० //
SamUpad_I.14.11 SK य आत्मा नेति नेतीति परापोहेन शेषितः / स चेद् ब्रह्मविदात्मेष्टो यतेतातः परं कथम् // Sअम्Uपद्_I,१४.११ //
SamUpad_I.14.12 SK अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् / कार्यवान् स्यां कथं चाहं विमृशेद् एवम् अञ्जसा // Sअम्Uपद्_I,१४.१२ //
SamUpad_I.14.13 SK पारगस् तु यथा नद्यास् तत्स्थः परं यियासति / आत्मज्ञश् चेत् तथा कार्यं कर्तुम् अन्यद् इहेच्छति // Sअम्Uपद्_I,१४.१३ //
SamUpad_I.14.14 SK आत्मज्ञस्यापि यस्य स्याद् धानोपादानता यदि / न मोक्षार्हः स विज्ञेयो वान्तो ऽसौ ब्रह्मणा ध्रुवम् // Sअम्Uपद्_I,१४.१४ //
SamUpad_I.14.15 SK सादित्यं हि जगत् प्राणस् तस्मान् नाहर् निशैव वा / प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदो ऽद्वये // Sअम्Uपद्_I,१४.१५ //
SamUpad_I.14.16 SK न स्मरत्य् आत्मनो ह्य् आत्मा विस्मरेद् वाप्य् अलुप्तचित् / मनो ऽपि स्मरतीत्य् एतज् ज्ञानम् अज्ञानहेतुजम् // Sअम्Uपद्_I,१४.१६ //
SamUpad_I.14.17 SK ज्ञातुर् ज्ञेयः परो ह्य् आत्मा सो ऽविद्याकल्पितः स्मृतः / अपोढे विद्यया तस्मिन् रज्ज्वां सर्प इवाद्वयः // Sअम्Uपद्_I,१४.१७ //
SamUpad_I.14.18 SK कर्तृकर्मफलाभावात् सबाह्याभ्यन्तरं ह्य् अजम् / ममाहं चेति यो भावस् तस्मिन् कस्य कुतो भवेत् // Sअम्Uपद्_I,१४.१८ //
SamUpad_I.14.19 SK आत्मा ह्य् आत्मीय इत्य् एष भावो ऽविद्याप्रकल्पितः / आत्मैकत्वे ह्य् असौ नास्ति बीजभावे कुतः फलम् // Sअम्Uपद्_I,१४.१९ //
SamUpad_I.14.20 SK द्रष्टृ स्रोतृ तथा मन्तृ विज्ञातृ एव तद् अक्षरम् / द्रष्ट्राद्यन्यन् न तद् यस्मात् तस्माद् द्रष्टाहम् अक्षरम् // Sअम्Uपद्_I,१४.२० //
SamUpad_I.14.21 SK स्थावरं जङ्गमं चैव द्रष्टृत्वादिक्रियायुतम् / सर्वम् अक्षरम् एवातः सर्वस्यात्माक्षरं त्व् अहम् // Sअम्Uपद्_I,१४.२१ //
SamUpad_I.14.22 SK अकार्यशेषम् आत्मानम् अक्रियात्मक्रियाफलम् / निर्ममं निरहंकारं यः पश्यति स पश्यति // Sअम्Uपद्_I,१४.२२ //
SamUpad_I.14.23 SK ममाहंकारयत्नेच्छाः शून्या एव स्वभावतः / आत्मनीति यदि ज्ञातम् आध्वं स्वस्थाः किम् ईहितैः // Sअम्Uपद्_I,१४.२३ //
SamUpad_I.14.24 SK यो ऽहंकर्तारम् आत्मानं तथा वेत्तारम् एव यः / वेत्त्य् अनात्मज्ञ एवासौ यो ऽन्यथाज्ञः स आत्मवित् // Sअम्Uपद्_I,१४.२४ //
SamUpad_I.14.25 SK यथान्यत्वे ऽपि तादात्म्यं देहादिष्व् आत्मनो मतम् / तथाकर्तुर् अविज्ञानात् फलकर्मात्मतात्मनः // Sअम्Uपद्_I,१४.२५ //
SamUpad_I.14.26 SK दृष्टिः श्रुतिर् मतिर् ज्ञातिः स्वप्ने दृष्टा जनैः सदा / तासाम् आत्मस्वरूपत्वाद् अतः प्रत्यक्षतात्मनः // Sअम्Uपद्_I,१४.२६ //
SamUpad_I.14.27 SK परलोकभयं यस्य नास्ति मृत्युभयं तथा / तस्यात्मज्ञस्य शोच्यः स्युः सब्रह्मेन्द्रा अपीश्वराः // Sअम्Uपद्_I,१४.२७ //
SamUpad_I.14.28 SK ईश्वरत्वेन किं तस्य ब्रह्मेन्द्रत्वेन वा पुनः / तृष्णा चेत् सर्वतश् छिन्ना सर्वदैन्योद्भवाशुभा // Sअम्Uपद्_I,१४.२८ //
SamUpad_I.14.29 SK अहम् इत्य् आत्मधीर् या च ममेत्य् आत्मीयधीर् अपि / अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत् तदा // Sअम्Uपद्_I,१४.२९ //
SamUpad_I.14.30 SK बुद्ध्यादौ सत्य् उपाधौ च तथासत्य् अविशेषता / यस्य चेद् आत्मनो ज्ञाता तस्य कार्यं कथं भवेत् // Sअम्Uपद्_I,१४.३० //
SamUpad_I.14.31 SK प्रसन्ने विमले व्योम्नि प्रज्ञानैकरसे ऽद्वये / उत्पन्नात्मधियो ब्रूत किम् अन्यत् कार्यम् इष्यते // Sअम्Uपद्_I,१४.३१ //
SamUpad_I.14.32 SK आत्मानं सर्वभूतस्थम् अमित्रं चात्मनो ऽपि यः / पश्यन्न् इच्छत्य् असौ नूनं शीतीकर्तुं विभावसुम् // Sअम्Uपद्_I,१४.३२ //
SamUpad_I.14.33 SK प्रज्ञाप्राणानुकार्य् आत्मा छायेवाक्षादिगोचरः / ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः स्वतो हि सः // Sअम्Uपद्_I,१४.३३ //
SamUpad_I.14.34 SK अप्राणस्यामनस्कस्य तथासंसर्गिणो दृशेः / व्योमवद् व्यापिनो ह्य् अस्य कथं कार्यं भवेन् मम // Sअम्Uपद्_I,१४.३४ //
SamUpad_I.14.35 SK असमाधिं न पश्यामि निर्विकारस्य सर्वदा / ब्रह्मणो मे विशुद्धस्य शोध्यं चान्यद् विपाप्मनः // Sअम्Uपद्_I,१४.३५ //
SamUpad_I.14.36 SK गन्तव्यं च तथैवाहं सर्वगस्याचलस्य च / नोर्ध्वं नाधस् तिरो वापि निष्कलस्यागुणत्वतः // Sअम्Uपद्_I,१४.३६ //
SamUpad_I.14.37 SK चिन्मात्रज्योतिषो नित्यं तमस् तस्मिन् न विद्यते / कथं कार्यं ममैवाद्य नित्यमुक्तस्य शिष्यते // Sअम्Uपद्_I,१४.३७ //
SamUpad_I.14.38 SK अमनस्कस्य का चिन्ता क्रिया वानिन्द्रियस्य का / अप्राणो ह्य् अमनाः शुभ्र इति सत्यं श्रुतेर् वचः // Sअम्Uपद्_I,१४.३८ //
SamUpad_I.14.39 SK अकालत्वाद् अदेशत्वाद् अदिक्त्वाद् अनिमित्ततः / आत्मनो नैव कालादेर् अपेक्षा ध्यायतः सदा // Sअम्Uपद्_I,१४.३९ //
SamUpad_I.14.40 SK यस्मिन् देवाश् च वेदाश् च पवित्रं कृत्स्नम् एकताम् / व्रजेत् तन् मानसं तीर्थं यस्मिन् स्नात्वामृतो भवेत् // Sअम्Uपद्_I,१४.४० //
SamUpad_I.14.41 SK न चास्ति शब्दादिर् अनन्यवेदनः परस्परेणापि न चैव दृश्यते / परेण दृश्यास् तु यथा रसादयस् तथैव दृश्यत्वत एव दैहिकाः // Sअम्Uपद्_I,१४.४१ //
SamUpad_I.14.42 SK अहं ममेत्य् एषणयत्नविक्रियाः सुखादयस् तद्वद् इह प्रदृश्यतः / दृश्यत्वयोगाच् च परस्परेण ते न दृश्यतां यान्ति ततः परो भवेत् // Sअम्Uपद्_I,१४.४२ //
SamUpad_I.14.43 SK अहंक्रियाद्या हि समस्तविक्रिया सकर्तृका कर्मफलेन संहिता / चितिस्वरूपेण समन्ततो ऽर्कवत् प्रकाश्यमानासिततात्मनो ह्य् अतः // Sअम्Uपद्_I,१४.४३ //
SamUpad_I.14.44 SK दृशिस्वरूपेण हि सर्वदेहिनां वियद् यथा व्याप्य मनांस्य् अवस्थितः / अतो न तस्माद् अपरो ऽस्ति वेदिता परो ऽपि तस्माद् अत एक ईश्वरः // Sअम्Uपद्_I,१४.४४ //
SamUpad_I.14.45 SK शरीरबुद्ध्योर् यदि चान्यदृश्यता निरात्मवादाः सुनिराकृटा मया / परश् च सिद्धो ह्य् अविशुद्धिकर्मतः सुनिर्मलः सर्वगतो ऽसितो ऽद्वयः // Sअम्Uपद्_I,१४.४५ //
SamUpad_I.14.46 SK घटादिरूपं यदि ते न गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः / अशुद्ध्यचिद्रूपविकारदोषता मतेर् यथा वारयितुं न पार्यते // Sअम्Uपद्_I,१४.४६ //
SamUpad_I.14.47 SK यथा विशुद्धं गगनं निरन्तरं न सज्जते नापि च लिप्यते तथा / समस्तभूतेषु सदैव तेष्व् अयं समः सदात्मा ह्य् अजरो ऽमरो ऽभयः // Sअम्Uपद्_I,१४.४७ //
SamUpad_I.14.48 SK अमूर्तमूर्तानि च कर्मवासना दृशिस्वरूपस्य बहिः प्रकल्पिताः / अविद्यया ह्य् आत्मनि मूढदृष्टिभिर् अपोह्य नेतीत्य् अवशेषितो दृशिः // Sअम्Uपद्_I,१४.४८ //
SamUpad_I.14.49 SK प्रबोधरूपं मनसो ऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यते ऽर्थवत् / तथैव देहप्रतिमानतः पृथग् दृशेः शरीरं च मनश् च दृश्यतः // Sअम्Uपद्_I,१४.४९ //
SamUpad_I.14.50 SK स्वभावशुद्धे गगने घनादिके मले ऽपयाते सति चाविशेषता / यथा च तद्वच् छ्रुतिवारितद्वये सदाविशेषो गगनोपमे दृशौ // Sअम्Uपद्_I,१४.५० //
SamUpad_I.14 SK इति स्वप्नस्मृतिप्रकरणम् // Sअम्Uपद्_I,१४ //
SamUpad_I.15.1 SK नान्यद् अन्यद् भवेद् यस्मान् नान्यत् किंचिद् विचिन्तयेत् / अन्यस्यान्यत्वभावे हि नाशस् तस्य ध्रुवो भवेत् // Sअम्Uपद्_I,१५.१ //
SamUpad_I.15.2 SK स्मरतो दृश्यते दृष्टं पटे चित्रम् इवार्पितम् / यत्र येन च तौ ज्ञेयौ सत्त्वक्षेत्रज्ञसंज्ञकौ // Sअम्Uपद्_I,१५.२ //
SamUpad_I.15.3 SK फलान्तं चानुभूतं यद् युक्तं कर्त्रादिकारकैः / स्मर्यमाणं हि कर्मस्थं पूर्वं कर्मैव तत् ततः // Sअम्Uपद्_I,१५.३ //
SamUpad_I.15.4 SK द्रष्टुश् चान्यद् भवेद् दृश्यं दृश्यत्वाद् घटवत् सदा / दृश्याद् द्रष्टासजातीयो न धीवत् साक्षितान्यथा // Sअम्Uपद्_I,१५.४ //
SamUpad_I.15.5 SK स्वात्मबुद्धिम् अपेक्ष्यासौ विधीनां स्यात् प्रयोजकः / जात्यादिः शववत् तेन तद्वन् नानात्मतान्यथा // Sअम्Uपद्_I,१५.५ //
SamUpad_I.15.6 SK न प्रियाप्रिय इत्य् उक्तेर् नादेहत्वं क्रियाफलम् / देहयोगः क्रियाहेतुस् तस्माद् विद्वान् क्रियास् त्यजेत् // Sअम्Uपद्_I,१५.६ //
SamUpad_I.15.7 SK कर्मस्व् आत्मा स्वतन्त्रश् चेन् निवृत्तौ च तथेष्यताम् / अदेहत्वे फले ऽकार्ये ज्ञाते कुर्यात् कथं क्रियाः // Sअम्Uपद्_I,१५.७ //
SamUpad_I.15.8 SK जात्यादिन् संपरित्यज्य निमित्तं कर्मणां बुधः / कर्महेतुविरुद्धं यत् स्वरूपं शास्त्रतः स्मरेत् // Sअम्Uपद्_I,१५.८ //
SamUpad_I.15.9 SK आत्मैकः सर्वभूतेषु तानि तस्मिंश् च खे यथा / पर्यगाद् व्योमवत् सर्वं शुक्रं दीप्तिमद् इष्यते // Sअम्Uपद्_I,१५.९ //
SamUpad_I.15.10 SK व्रणस्नाय्वोर् अभावेन स्थूलं देहं निवारयेत् / शुद्धापापतया लेपं लिङ्गं चाकायम् इत्य् उत // Sअम्Uपद्_I,१५.१० //
SamUpad_I.15.11 SK वासुदेवो यथाश्वत्थे स्वदेहे चाब्रवित् समम् / तद्वद् वेत्ति य आत्मानं समं स ब्रह्मवित्तमः // Sअम्Uपद्_I,१५.११ //
SamUpad_I.15.12 SK यथा ह्य् अन्यशरीरेषु ममाहन्ता न चेष्यते / अस्मिंश् चापि तथा देहे धीसाक्षित्वाविशेषतः // Sअम्Uपद्_I,१५.१२ //
SamUpad_I.15.13 SK रूपसंस्कारतुल्याधि रागद्वेषौ भयं च यत् / गृह्यते धीश्रयं तस्माज् ज्ञाता शुद्धो ऽभयः सदा // Sअम्Uपद्_I,१५.१३ //
SamUpad_I.15.14 SK यन्मनास् तन्मयो ऽन्यत्वे नात्मत्वाप्तौ क्रियात्मनि / आत्मत्वे चानपेक्षत्वात् सापेक्षं हि न तत् स्वयम् // Sअम्Uपद्_I,१५.१४ //
SamUpad_I.15.15 SK खम् इवैकरसा ज्ञप्तिर् अविभक्ताजरामला / चक्षुराद्युपधानात् सा विपरीता विभाव्यते // Sअम्Uपद्_I,१५.१५ //
SamUpad_I.15.16 SK दृश्यत्वाद् अहम् इत्य् एष नात्मधर्मो घटादिवत् / तथान्ये प्रत्यया ज्ञेया दोषाश् चात्मामलो ह्य् अतः // Sअम्Uपद्_I,१५.१६ //
SamUpad_I.15.17 SK सर्वप्रत्ययसाक्षित्वाद् अविकारी च सर्वगः / विक्रियेत यदि द्रष्टा बुद्ध्यादीवाल्पविद् भवेत् // Sअम्Uपद्_I,१५.१७ //
SamUpad_I.15.18 SK न दृष्टिर् लुप्यते द्रष्टुश् चक्षुरादेर् यथैव तु / नहि द्रष्टुर् इति ह्य् उक्तं तस्माद् द्रष्टा सदैव भुक् // Sअम्Uपद्_I,१५.१८ //
SamUpad_I.15.19 SK संघातो वास्मि भूतानां करणानां तथैव च / व्यस्तं वान्यतमो वास्मि को आस्मीति विचारयेत् // Sअम्Uपद्_I,१५.१९ //
SamUpad_I.15.20 SK व्यस्तं नाहं समस्तं वा भूतम् इन्द्रियम् एव वा / ज्ञेयत्वात् करणत्वाच् च ज्ञातान्यो ऽस्माद् घटादिवत् // Sअम्Uपद्_I,१५.२० //
SamUpad_I.15.21 SK आत्माग्नेर् इन्धना बुद्धिर् अविद्याकामकर्मभिः / दीपिता प्रज्वलत्य् एष द्वारैः श्रोत्रादिभिः सदा // Sअम्Uपद्_I,१५.२१ //
SamUpad_I.15.22 SK दक्षिणाक्षिप्रधानेषु यदा बुद्धिर् विचेष्टते / विषयैर् हविषा दीप्ता आत्माग्निः स्थूलभुक् तदा // Sअम्Uपद्_I,१५.२२ //
SamUpad_I.15.23 SK हूयन्ते तु हवींषीति रूपादिग्रहणे स्मरन् / अरागद्वेष आत्माग्नौ जाग्रद्दोषैर् न लिप्यते // Sअम्Uपद्_I,१५.२३ //
SamUpad_I.15.24 SK मानसे तु गृहे व्यक्ता अविद्याकर्मवासनाः / पश्यंस् तैजस आत्मोक्तः स्वयंज्योतिःप्रकाशिताः // Sअम्Uपद्_I,१५.२४ //
SamUpad_I.15.25 SK विषया वासना वापि चोद्यन्ते नैव कर्मभिः / यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा ह्य् अनन्यदृक् // Sअम्Uपद्_I,१५.२५ //
SamUpad_I.15.26 SK मनोबुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः / चैतन्येनैव भास्यन्ते रविणेव घटादयः // Sअम्Uपद्_I,१५.२६ //
SamUpad_I.15.27 SK तत्रैवं सति बुद्धीर् ज्ञ आत्मभासावभासयन् / कर्ता तासां यदर्थास् ता मूढैर् एवाभिधीयते // Sअम्Uपद्_I,१५.२७ //
SamUpad_I.15.28 SK सर्वज्ञो ऽप्य् अत एव स्यात् स्वेन भासावभासयन् / सर्वं सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः // Sअम्Uपद्_I,१५.२८ //
SamUpad_I.15.29 SK सोपाधिश् चैवम् आत्मोक्तो निरुपाख्यो ऽनुपाधिकः / निष्कलो निर्गुणः शुद्धस् तं मनो वाक् च नाप्नुतः // Sअम्Uपद्_I,१५.२९ //
SamUpad_I.15.30 SK चेतनो ऽचेतनो वापि कर्ताकर्ता गतो ऽगतः / बद्धो मुक्तस् तथा चैको नैकः शुद्धो ऽन्यथेति वा // Sअम्Uपद्_I,१५.३० //
SamUpad_I.15.31 SK अप्राप्यैव निवर्तन्ते वाचो धीभिः सहैव तु / निर्गुणत्वात् क्रियाभावाद् विशेषाणां ह्य् अभावतः // Sअम्Uपद्_I,१५.३१ //
SamUpad_I.15.32 SK व्यापकं सर्वतो व्योम मूर्तैः सर्वैर् वियोजितम् / यथा तद्वद् इहात्मानं विद्याच् छुद्धं परं पदम् // Sअम्Uपद्_I,१५.३२ //
SamUpad_I.15.33 SK दृष्टं हित्वा स्मृतिं तस्मिन् सर्वग्रश् च तमस् त्यजेत् / सर्वदृग् ज्योतिषा युक्तो दिनकृच् छार्वरं यथा // Sअम्Uपद्_I,१५.३३ //
SamUpad_I.15.34 SK रूपस्मृत्यन्धकारार्थाः प्रत्यया यस्य गोचराः / स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः // Sअम्Uपद्_I,१५.३४ //
SamUpad_I.15.35 SK आत्मबुद्धिमनश्चक्षुर्विषयालोकसंगमात् / विचित्रो जायते बुद्धेः प्रत्ययो ऽज्ञानलक्षणः // Sअम्Uपद्_I,१५.३५ //
SamUpad_I.15.36 SK विविच्यास्मात् स्वम् आत्मानं विद्याच् छुद्धं परं पदम् / द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम् // Sअम्Uपद्_I,१५.३६ //
SamUpad_I.15.37 SK समस्तं सर्वगं शान्तं विमलं व्योमवत् स्थितम् / निष्कलं निष्क्रियं सर्वं नित्यं द्वन्द्वैर् विवर्जितम् // Sअम्Uपद्_I,१५.३७ //
SamUpad_I.15.38 SK सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्य् उत / विमृश्यैवं विजानीयाज् ज्ञातं ब्रह्म न वेति वा // Sअम्Uपद्_I,१५.३८ //
SamUpad_I.15.39 SK अदृष्टं द्रष्ट्र् अविज्ञातं दभ्रम् इत्यादिशासनात् / नैव ज्ञेयं मयान्यैर् वा परं ब्रह्म कथंचन // Sअम्Uपद्_I,१५.३९ //
SamUpad_I.15.40 SK स्वरूपाव्यवधानाभ्यां ज्ञानालोकस्वभावतः / अन्यज्ञानानपेक्षत्वाज् ज्ञातं चैव सदा मया // Sअम्Uपद्_I,१५.४० //
SamUpad_I.15.41 SK नान्येन ज्योतिषा कार्यं रवेर् आत्मप्रकाशने / स्वबोधान् नान्यबोधेच्छा बोधस्यात्मप्रकाशने // Sअम्Uपद्_I,१५.४१ //
SamUpad_I.15.42 SK न तस्यैवान्यतो ऽपेक्षा स्वरूपं यस्य यद् भवेत् / प्रकाशान्तरदृश्यो न प्रकाशो ह्य् अस्ति कश्चन // Sअम्Uपद्_I,१५.४२ //
SamUpad_I.15.43 SK व्यक्तिः स्याद् अप्रकाशस्य प्रकाशात्मसमागमात् / प्रकाशस् त्व् अर्ककार्यः स्याद् इति मिथ्य वचो ह्य् अतः // Sअम्Uपद्_I,१५.४३ //
SamUpad_I.15.44 SK यतो ऽभूत्वा भवेद् यच् च तस्य तत् कार्यम् इष्यते / स्वरूपत्वाद् अभूत्वा न प्रकाशो जायते रवेः // Sअम्Uपद्_I,१५.४४ //
SamUpad_I.15.45 SK सत्तामात्रे प्रकाशस्य कर्तादित्यादिर् इष्यते / घटादिव्यक्तितो यद्वत् तद्वद् बोधात्मनीष्यताम् // Sअम्Uपद्_I,१५.४५ //
SamUpad_I.15.46 SK बिलात् सर्पस्य निर्याणे सूर्यो यद्वत् प्रकाशकः / प्रयत्नेन विना तद्वज् ज्ञातात्मा बोधरूपतः // Sअम्Uपद्_I,१५.४६ //
SamUpad_I.15.47 SK दग्धैवम् उष्णः सत्तायां तद्वद् बोधात्मनीष्यताम् / सत्य् एव यद् उपाधौ तु ज्ञाते सर्प इवोत्थिते // Sअम्Uपद्_I,१५.४७ //
SamUpad_I.15.48 SK ज्ञातायत्नो ऽपि तद्वज् ज्ञः कर्ता भ्रामकवद् भवेत् / स्वरूपेण स्वयं नात्मा ज्ञेयो ऽज्ञेयो ऽथवा ततः // Sअम्Uपद्_I,१५.४८ //
SamUpad_I.15.49 SK विदिताविदिताभ्यां तद् अन्यद् एवेति शासनात् / बन्धमोक्षादयो भावास् तद्वद् आत्मनि कल्पिताः // Sअम्Uपद्_I,१५.४९ //
SamUpad_I.15.50 SK नाहोरात्रे यथा सूर्ये प्रभारूपाविशेषतः / बोधरूपाविशेषान् न बोधाबोधौ तथात्मनि // Sअम्Uपद्_I,१५.५० //
SamUpad_I.15.51 SK यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम् / यथोक्तेन विधानेन स सत्यं नैव जायते // Sअम्Uपद्_I,१५.५१ //
SamUpad_I.15.52 SK जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात् / इत उद्धर्तुम् आत्मानं ज्ञानाद् अन्येन केनचित् // Sअम्Uपद्_I,१५.५२ //
SamUpad_I.15.53 SK ᳚भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः / क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट᳚ इति श्रुतेः // Sअम्Uपद्_I,१५.५३ //
SamUpad_I.15.54 SK ममाहम् इत्य् एतद् अपोह्य सर्वतो विमुक्तदेहं पदम् अम्बरोपमम् / सुदृष्टशास्त्रानुमितिभ्य ईरितं विमुच्यते ऽस्मिन् यदि निश्चितो नरः // Sअम्Uपद्_I,१५.५४ //
SamUpad_I.15 SK इति नान्यदन्यत्प्रकरणम् // Sअम्Uपद्_I,१५ //
SamUpad_I.16.1 SK पार्थिवः कठिनो धातुर् द्रवो देहे स्मृतो ऽम्मयः / पक्तिचेष्टावकाशाः स्युर् वह्निवाय्वम्बरोद्भवाः // Sअम्Uपद्_I,१६.१ //
SamUpad_I.16.2 SK घ्राणादीनि तदर्थाश् च पृथिव्यादिगुणाः क्रमात् / रूपालोकवद् इष्टं हि सजातीयार्थम् इन्द्रियम् // Sअम्Uपद्_I,१६.२ //
SamUpad_I.16.3 SK बुद्ध्यर्थान्य् आहुर् एतानि वाक्पाण्यादीनि कर्मणे / तद्विकल्पार्थम् अन्तस्थं मन एकादशं भवेत् // Sअम्Uपद्_I,१६.३ //
SamUpad_I.16.4 SK निश्चयार्था भवेद् बुद्धिस् तां सर्वार्थानुभाविनीम् / ज्ञातात्मोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा // Sअम्Uपद्_I,१६.४ //
SamUpad_I.16.5 SK व्यञ्जकस् तु यथालोको व्यङ्ग्यस्याकारतां गतः / व्यतिकीर्णो ऽप्य् असंकीर्णस् तद्वज् ज्ञः प्रत्ययैः सदा // Sअम्Uपद्_I,१६.५ //
SamUpad_I.16.6 SK स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत् / शब्दाद्याकारबुद्धीर् ज्ञः प्राप्तास् तद्वत् प्रपश्यति // Sअम्Uपद्_I,१६.६ //
SamUpad_I.16.7 SK शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् / नित्यात्मज्योतिषा दीप्तां विशिंषन्ति सुखादयः // Sअम्Uपद्_I,१६.७ //
SamUpad_I.16.8 SK शिरोदुःखादिनात्मानं दुःख्य् अस्मीति हि पश्यति / द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वच् च न दुःख्य् असौ // Sअम्Uपद्_I,१६.८ //
SamUpad_I.16.9 SK दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा / संहते ऽङ्गादिभिर् द्रष्टा दुःखी दुःखस्य नैव सः // Sअम्Uपद्_I,१६.९ //
SamUpad_I.16.10 SK चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकम् एव तत् / संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत् // Sअम्Uपद्_I,१६.१० //
SamUpad_I.16.11 SK ज्ञानयत्नाद्यनेकत्वम् आत्मनो ऽपि मतं यदि / नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता // Sअम्Uपद्_I,१६.११ //
SamUpad_I.16.12 SK ज्योतिषो द्योतकत्वे ऽपि यद्वन् नात्मप्रकाशनम् / भेदे ऽप्य् एवं समत्वाज् ज्ञ आत्मानं नैव पश्यति // Sअम्Uपद्_I,१६.१२ //
SamUpad_I.16.13 SK यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम् / न ह्य् आत्मानं दहत्य् अग्निस् तथा नैव प्रकाशयेत् // Sअम्Uपद्_I,१६.१३ //
SamUpad_I.16.14 SK एतेनैवात्मनात्मनो ग्रहो बुद्धेर् निराकृतः / अंशो ऽप्य् एवं समत्वाद् धि निर्भेदत्वान् न युज्यते // Sअम्Uपद्_I,१६.१४ //
SamUpad_I.16.15 SK शून्यतापि न युक्तैवं बुद्धेर् अन्येन दृश्यता / उक्तातो घटवत् तस्याः प्राक् सिद्धेश् च विकल्पतः // Sअम्Uपद्_I,१६.१५ //
SamUpad_I.16.16 SK अविकल्पं तद् अस्त्य् एव यत् पूर्वं स्याद् विकल्पतः / विकल्पोत्पत्तिहेतुत्वाद् यद्य् अस्यैव च कारणम् // Sअम्Uपद्_I,१६.१६ //
SamUpad_I.16.17 SK अज्ञानं कल्पनामूलं संसारस्य नियामकम् / हित्वात्मानं परं ब्रह्म विद्यान् मुक्तं सदाभयम् // Sअम्Uपद्_I,१६.१७ //
SamUpad_I.16.18 SK जाग्रत्स्वप्नौ तयोर् बीजं सुषुप्ताख्यं तमोमयम् / अन्योन्यस्मिन्न् असत्त्वाच् च नास्तीत्य् एतत् त्रयं त्यजेत् // Sअम्Uपद्_I,१६.१८ //
SamUpad_I.16.19 SK आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् भ्रान्तिः स्याद् आत्मकर्मेति क्रियाणां संनिपाततः // Sअम्Uपद्_I,१६.१९ //
SamUpad_I.16.20 SK निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः / प्रकाशत्वान् मनस्य् एवं बुद्धौ न स्तः प्रकाशतः // Sअम्Uपद्_I,१६.२० //
SamUpad_I.16.21 SK संकल्पाध्यवसायौ तु मनोबुद्ध्योर् यथाक्रमात् / नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम् // Sअम्Uपद्_I,१६.२१ //
SamUpad_I.16.22 SK स्थानावच्छेददृष्टिः स्याद् इन्द्रियाणां तदात्मताम् / गता धीस् तं हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते // Sअम्Uपद्_I,१६.२२ //
SamUpad_I.16.23 SK क्षणिकं हि तद् अत्यर्थं धर्ममात्रं निरन्तरम् / सादृश्याद् दीपवत् तद्धीस् तच्छान्तिः पुरुषार्थता // Sअम्Uपद्_I,१६.२३ //
SamUpad_I.16.24 SK स्वाकारान्यावभासं च येषां रूपादि विद्यते / येषां नास्ति ततश् चान्यत् पूर्वासंगतिर् उच्यते // Sअम्Uपद्_I,१६.२४ //
SamUpad_I.16.25 SK बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् / क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धिः // Sअम्Uपद्_I,१६.२५ //
SamUpad_I.16.26 SK आधारस्याप्य् असत्त्वाच् च तुल्यतानिर्निमित्ततः / स्थाने वा क्षणिकत्वस्य हानं स्यान् न तद् इष्यते // Sअम्Uपद्_I,१६.२६ //
SamUpad_I.16.27 SK शान्तेश् चायत्नसिद्धत्वात् साधनोक्तिर् अनर्थिका / एकैकस्मिन् समाप्तत्वाच् छान्तेर् अन्यानपेक्षता // Sअम्Uपद्_I,१६.२७ //
SamUpad_I.16.28 SK अपेक्षा यदि भिन्ने ऽपि परसंतान इष्यताम् / सर्वार्थे क्षणिके कस्मिंस् तथाप्य् अन्यानपेक्षता // Sअम्Uपद्_I,१६.२८ //
SamUpad_I.16.29 SK तुल्यकालसमुद्भूताव् इतरेतरयोगिनौ / योगाच् च संस्कृतो यस् तु सो ऽन्यं हीक्षितुम् अर्हति // Sअम्Uपद्_I,१६.२९ //
SamUpad_I.16.30 SK मृषाध्यासस् तु यत्र स्यात् तन्नाशस् तत्र नो मतः / सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद // Sअम्Uपद्_I,१६.३० //
SamUpad_I.16.31 SK अस्ति तावत् स्वयं नाम ज्ञानं वात्मान्यद् एव वा / भावाभावज्ञतस् तस्य नाभावस् त्व् अधिगम्यते // Sअम्Uपद्_I,१६.३१ //
SamUpad_I.16.32 SK येनाधिगम्यते ऽभावस् तत् सत् स्यात् तन् न चेद् भवेत् / भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते // Sअम्Uपद्_I,१६.३२ //
SamUpad_I.16.33 SK सद् असत् सदसच् चेति विकल्पात् प्राग् यद् इष्यते / तद् अद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात् // Sअम्Uपद्_I,१६.३३ //
SamUpad_I.16.34 SK विकल्पोद्भवतो ऽसत्त्वं स्वप्नदृश्यवद् इष्यताम् / द्वैतस्य प्राग् असत्त्वाच् च सदसत्त्वादिकल्पनात् // Sअम्Uपद्_I,१६.३४ //
SamUpad_I.16.35 SK वाचारम्भणशास्त्राच् च विकाराणां ह्य् अभावता / मृत्योः स मृत्युम् इत्यादेर् मम मायेति च स्मृतेः // Sअम्Uपद्_I,१६.३५ //
SamUpad_I.16.36 SK विशुद्धिश् चात एवास्य विकल्पाच् च विलक्षणात् / उपादेयो न हेयो ऽत आत्मा नान्यैर् अकल्पितः // Sअम्Uपद्_I,१६.३६ //
SamUpad_I.16.37 SK अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः / नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वद् आत्मनि // Sअम्Uपद्_I,१६.३७ //
SamUpad_I.16.38 SK तथाविक्रियरूपत्वान् नावस्थान्तरम् आत्मनः / अवस्थान्तरवत्त्वे हि नाशो ऽस्य स्यान् न संशयः // Sअम्Uपद्_I,१६.३८ //
SamUpad_I.16.39 SK मोक्षो ऽवस्थान्तरं यस्य कृतकः स चलो ह्य् अतः / न संयोगो वियोगो वा मोक्षो युक्तः कथंचन // Sअम्Uपद्_I,१६.३९ //
SamUpad_I.16.40 SK संयोगस्याप्य् अनित्यत्वाद् वियोगस्य तथैव च / गमनागमने चैव स्वरूपं तु न हीयते // Sअम्Uपद्_I,१६.४० //
SamUpad_I.16.41 SK स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे / अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च // Sअम्Uपद्_I,१६.४१ //
SamUpad_I.16.42 SK स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्य् अनन्यतः / गृहीतुं वा ततो नित्यो ऽविषयत्वापृथक्त्वतः // Sअम्Uपद्_I,१६.४२ //
SamUpad_I.16.43 SK आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः / त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित् // Sअम्Uपद्_I,१६.४३ //
SamUpad_I.16.44 SK आत्मलाभः परो लाभ इति शास्त्रोपपत्तयः / अलाभो ऽन्यात्मलाभस् तु त्यजेत् तस्माद् अनात्मताम् // Sअम्Uपद्_I,१६.४४ //
SamUpad_I.16.45 SK गुणानां समभावस्य भ्रंशो न ह्य् उपपद्यते / अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुर् इष्यते // Sअम्Uपद्_I,१६.४५ //
SamUpad_I.16.46 SK इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा / नियमो न प्रवृत्तीनां गुणेष्व् आत्मनि वा भवेत् // Sअम्Uपद्_I,१६.४६ //
SamUpad_I.16.47 SK विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते / अर्थार्थिनोश् च संबन्धो नार्थी ज्ञो नेतरो ऽपि वा // Sअम्Uपद्_I,१६.४७ //
SamUpad_I.16.48 SK प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः / न युक्तं सांख्यशास्त्रे ऽपि विकारे ऽपि न युज्यते // Sअम्Uपद्_I,१६.४८ //
SamUpad_I.16.49 SK संबन्धानुपपत्तेश् च प्रकृतेः पुरुषस्य च / मिथो ऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः // Sअम्Uपद्_I,१६.४९ //
SamUpad_I.16.50 SK क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् / निर्निमित्ते त्व् अनिर्मोक्षः प्रधानस्य प्रसज्यते // Sअम्Uपद्_I,१६.५० //
SamUpad_I.16.51 SK न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः / एकनीडत्वतो ऽग्राह्याः स्युः कणादादिवर्त्मनाम् // Sअम्Uपद्_I,१६.५१ //
SamUpad_I.16.52 SK युगपच् चासमेतत्वात् सुखविज्ञानयोर् अपि / मनोयोगैकहेतुत्वाद् अग्राह्यत्वं सुखस्य च // Sअम्Uपद्_I,१६.५२ //
SamUpad_I.16.53 SK तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते / गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात् // Sअम्Uपद्_I,१६.५३ //
SamUpad_I.16.54 SK ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेस् तथा / सुखं ज्ञातं मयेत्य् एवं तवाज्ञानात्मकत्वतः // Sअम्Uपद्_I,१६.५४ //
SamUpad_I.16.55 SK सुखादेर् नात्मधर्मत्वम् आत्मनस् ते ऽविकारतः / भेदाद् अन्यस्य कस्मान् न मनसो वाविशेषतः // Sअम्Uपद्_I,१६.५५ //
SamUpad_I.16.56 SK स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत् / युगपद् वापि चोत्पत्तिर् अभ्युपेते ऽन्त इष्यते // Sअम्Uपद्_I,१६.५६ //
SamUpad_I.16.57 SK अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते / नाशुद्धिश् चाप्य् असङ्गत्वाद् असङ्गो हीति च श्रुतेः // Sअम्Uपद्_I,१६.५७ //
SamUpad_I.16.58 SK सूक्ष्मैकागोचरेभ्यश् च न लिप्यत इति श्रुतेः / एवं तर्हि न मोक्षो ऽस्ति बन्धाभावात् कथंचन // Sअम्Uपद्_I,१६.५८ //
SamUpad_I.16.59 SK शास्त्रानर्थक्यम् एवं स्यान् न बुद्धेर् भ्रान्तिर् इष्यते / बन्धो मोक्षश् च तन्नाशः स यथोक्तो न चान्यथा // Sअम्Uपद्_I,१६.५९ //
SamUpad_I.16.60 SK बोधात्मज्योतिषा दीप्ता बोधम् आत्मनि मन्यते / बुद्धिर् नान्यो ऽस्ति बोद्धेति सेयं भ्रान्तिर् हि धीगता // Sअम्Uपद्_I,१६.६० //
SamUpad_I.16.61 SK बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते / अविवेको ऽप्य् अनाद्यो ऽयं संसारो नान्य इष्यते // Sअम्Uपद्_I,१६.६१ //
SamUpad_I.16.62 SK मोक्षस् तन्नाश एव स्यान् नान्यथानुपपत्तितः / येषां वस्त्वन्तरापत्तिर् मोक्षो नाशस् तु तैर् मतः // Sअम्Uपद्_I,१६.६२ //
SamUpad_I.16.63 SK अवस्थान्तरम् अप्य् एवम् अविकारान् न युज्यते / विकारे ऽवयवित्वं स्यात् ततो नाशो घटादिवत् // Sअम्Uपद्_I,१६.६३ //
SamUpad_I.16.64 SK तस्माद् भ्रान्तिर् अतो ऽन्या हि बन्धमोक्षादिकल्पनाः / सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः // Sअम्Uपद्_I,१६.६४ //
SamUpad_I.16.65 SK शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन / शक्यन्ते शतशो वक्तुं दोषास् तासां सहस्रशः // Sअम्Uपद्_I,१६.६५ //
SamUpad_I.16.66 SK अपि निन्दोपपत्तेश् च यान्य् अतो ऽन्यानि चेत्य् अतः / त्यक्त्वातो ह्य् अन्यशास्त्रोक्तीर् मतिं कुर्याद् दृढां बुधः // Sअम्Uपद्_I,१६.६६ //
SamUpad_I.16.67 SK श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वम् अनार्जवम् / वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा // Sअम्Uपद्_I,१६.६७ //
SamUpad_I.16.63 SK इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश् च तथा हि युक्तितः / व्यपेतशङ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युर् इत्य् उत // Sअम्Uपद्_I,१६.६३ //
SamUpad_I.16.69 SK स्वसाक्षिकं ज्ञानम् अतीव निर्मलं विकल्पनाभ्यो विपरीतम् अद्वयम् / अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिम् एति शाश्वतीम् // Sअम्Uपद्_I,१६.६९ //
SamUpad_I.16.70 SK इदं रहस्यं परमं परायणं व्यपेतदोषैर् अभिमानवर्जितैः / समीक्ष्य कार्या मतिर् आर्जवे सदा न तत्त्वदृक् स्वान्यमतिर् हि कश्चन // Sअम्Uपद्_I,१६.७० //
SamUpad_I.16.71 SK अनेकजन्मान्तरसंचितैर् नरो विमुच्यते ऽज्ञाननिमित्तपातकैः / इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः // Sअम्Uपद्_I,१६.७१ //
SamUpad_I.16.72 SK प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे / गुणान्वितायानुगताय सर्वदा प्रदेयम् एतत् सततं मुमुक्षवे // Sअम्Uपद्_I,१६.७२ //
SamUpad_I.16.73 SK परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थम् ईक्ष्य च / इदं हि विज्ञानम् अतीव निर्मलं संप्राप्य मुक्तो ऽथ भवेच् च सर्वतः // Sअम्Uपद्_I,१६.७३ //
SamUpad_I.16.74 SK न हीह लाभो ऽभ्यधिको ऽस्ति कश्चन स्वरूपलाभात् स इत हि नान्यतः / न देयम् ऐन्द्राद् अपि राज्यतो ऽधिकं स्वरूपलाभं त्व् अपरीक्ष्य यत्नतः // Sअम्Uपद्_I,१६.७४ //
SamUpad_I.16 SK इति पार्थिवप्रकरणम् // Sअम्Uपद्_I,१६ //
SamUpad_I.17.1 SK आत्मा ज्ञेयः परो ह्य् आत्मा यस्माद् अन्यन् न विद्यते / सर्वज्ञः सर्वदृक् शुद्धस् तस्मै ज्ञेयात्मने नमः // Sअम्Uपद्_I,१७.१ //
SamUpad_I.17.2 SK पदवाक्यप्रमाणज्ञैर् दीपभूतैः प्रकाशितम् / ब्रह्म वेदरहस्यं यैस् तान् नित्यं प्रणतो ऽस्म्य् अहम् // Sअम्Uपद्_I,१७.२ //
SamUpad_I.17.3 SK यद्वाक्सूर्यांशुसंपातप्रणष्टध्वान्तकल्मषः / प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम् // Sअम्Uपद्_I,१७.३ //
SamUpad_I.4 SK आत्मलाभात् परो नान्यो लाभः कश्चन विद्यते / यदर्था वेदवादाश् च स्मार्ताश् चापि तु याः क्रियाः // Sअम्Uपद्_I,४ //
SamUpad_I.17.5 SK आत्मार्थो ऽपि हि यो लाभः सुखायेष्टो विपर्ययः / आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः // Sअम्Uपद्_I,१७.५ //
SamUpad_I.17.6 SK स्वयं लब्धस्वभावत्वाल् लाभस् तस्य न चान्यतः / अन्यापेक्षस् तु यो लाभः सो ऽन्यदृष्टिसमुद्भवः // Sअम्Uपद्_I,१७.६ //
SamUpad_I.17.7 SK अन्यदृष्टिस् त्व् अविद्या स्यात् तन्नाशो मोक्ष उच्यते / ज्ञानेनैव तु सो ऽपि स्याद् विरोधित्वान् न कर्मणा // Sअम्Uपद्_I,१७.७ //
SamUpad_I.17.8 SK कर्मकार्यस् त्व् अनित्यः स्याद् अविद्याकामकारणः / प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः // Sअम्Uपद्_I,१७.८ //
SamUpad_I.17.9 SK ज्ञानैकार्थपरत्वात् तं वाक्यम् एकं ततो विदुः / एकत्वं ह्य् आत्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः // Sअम्Uपद्_I,१७.९ //
SamUpad_I.17.10 SK वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्यो ऽपि तच्छ्रुतेः / त्रयं त्व् एतत् ततः प्रोक्तं रूपं नाम च कर्म च // Sअम्Uपद्_I,१७.१० //
SamUpad_I.17.11 SK असद् एतत् त्रयं तस्माद् अन्योन्येन हि कल्पितम् / कृतो वर्णो यथा शब्दाच् छ्रुतो ऽन्यत्र धिया बहिः // Sअम्Uपद्_I,१७.११ //
SamUpad_I.17.12 SK दृष्टं चापि यथा रूपं बुद्धेः शब्दाय कल्पते / एवम् एतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम् // Sअम्Uपद्_I,१७.१२ //
SamUpad_I.17.13 SK असद् एतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम् / वेदश् चापि स एवाद्यो वेद्यश् चान्यस् तु कल्पितः // Sअम्Uपद्_I,१७.१३ //
SamUpad_I.17.14 SK येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया / येन पश्यति तच् चक्षुः शृणोति श्रोत्रम् उच्यते // Sअम्Uपद्_I,१७.१४ //
SamUpad_I.17.15 SK येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च / रसनस्पर्शने चैव मनश् चान्यत् तथेन्द्रियम् // Sअम्Uपद्_I,१७.१५ //
SamUpad_I.17.16 SK कल्प्योपाधिभिर् एवैतद् भिन्नं ज्ञानम् अनेकधा / आधिभेदाद् यथा भेदो मणेर् एकस्य जायते // Sअम्Uपद्_I,१७.१६ //
SamUpad_I.17.17 SK जाग्रतश् च तथा भेदो ज्ञानस्यास्य विकल्पितः / बुद्धिस्थं व्याकरोत्य् अर्थं भ्रान्त्या तृष्णोद्भवक्रियः // Sअम्Uपद्_I,१७.१७ //
SamUpad_I.17.18 SK स्वप्ने यद्वत् प्रबोधे च बहिश् चान्तस् तथैव च / आलेख्याध्ययने यद्वत् तद् अन्योन्यधियोद्भवम् // Sअम्Uपद्_I,१७.१८ //
SamUpad_I.17.19 SK यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः / यत्कामस् तत्क्रतुर् भूत्वा कृतं यत् तत् प्रपद्यते // Sअम्Uपद्_I,१७.१९ //
SamUpad_I.17.20 SK अविद्याप्रभवं सर्वम् असत् तस्माद् इदं जगत् / तद्वता दृश्यते यस्मात् सुषुप्ते न च गृह्यते // Sअम्Uपद्_I,१७.२० //
SamUpad_I.17.21 SK विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ हि नः / तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते // Sअम्Uपद्_I,१७.२१ //
SamUpad_I.17.22 SK चित्ते ह्य् आदर्शवद् यस्माच् छुद्धे विद्या प्रकाशते / यमैर् नित्यैश् च यज्ञैश् च तपोभिस् तस्य शोधनम् // Sअम्Uपद्_I,१७.२२ //
SamUpad_I.17.23 SK शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थम् उत्तमम् / मनआदिसमाधानं तत्तद्देहविशोषणम् // Sअम्Uपद्_I,१७.२३ //
SamUpad_I.17.24 SK दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तद् एव तु / सुषुप्तं तदभवं च स्वम् आत्मानं परं पदम् // Sअम्Uपद्_I,१७.२४ //
SamUpad_I.17.25 SK सुषुप्ताख्यं तमो ऽज्ञानं बीजं स्वप्नप्रबोधयोः / स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम् // Sअम्Uपद्_I,१७.२५ //
SamUpad_I.17.26 SK तद् एवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् / मायाव्य् आत्माविकारो ऽपि बहुधैको जलार्कवत् // Sअम्Uपद्_I,१७.२६ //
SamUpad_I.17.27 SK बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस् तथा / स्वप्नजाग्रच्छरीरेषु तद्वच् चात्मा जलेन्दुवत् // Sअम्Uपद्_I,१७.२७ //
SamUpad_I.17.28 SK मायाहस्तिनम् आरुह्य मायाव्य् एको यथा व्रजेत् / आगच्छंस् तद्वद् एवात्मा प्राणस्वप्नादिगो ऽचलः // Sअम्Uपद्_I,१७.२८ //
SamUpad_I.17.29 SK न हस्ती न तदारूढो मायाव्य् अन्यो यथा स्थितः / न प्राणादि न तद्द्रष्टा तथा ज्ञो ऽन्यः सदा दृशिः // Sअम्Uपद्_I,१७.२९ //
SamUpad_I.17.30 SK अबद्धचक्षुषो नास्ति माया मायाविनो ऽपि वा / बद्धाक्षस्यैव सा मायामायाव्य् एव ततो भवेत् // Sअम्Uपद्_I,१७.३० //
SamUpad_I.17.31 SK साक्षाद् एव स विज्ञेयः साक्षाद् आत्मेति च श्रुतेः / भिद्यते हृदयग्रन्थिर् न चेद् इत्यादितः श्रुतेः // Sअम्Uपद्_I,१७.३१ //
SamUpad_I.17.32 SK अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर् भवेत् / सुखादिभ्यस् तथान्यत्वाद् बुद्ध्या वापि कथं भवेत् // Sअम्Uपद्_I,१७.३२ //
SamUpad_I.17.33 SK अदृश्यो ऽपि यथा राहुश् चन्द्रे बिम्बं यथाम्भसि / सर्वगो ऽपि तथैवात्मा बुद्धाव् एव स गृह्यते // Sअम्Uपद्_I,१७.३३ //
SamUpad_I.17.34 SK भानोर् बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः / बुद्धौ बोधो न तद्धर्मस् तथैव स्याद् विधर्मतः // Sअम्Uपद्_I,१७.३४ //
SamUpad_I.17.35 SK चक्षुर्युक्ता धियो वृत्तिर् या तां पश्यन्न् अलुप्तदृक् / दृष्टेर् द्रष्टा भवेद् आत्मा श्रुतेः श्रोता तथा श्रुतेः // Sअम्Uपद्_I,१७.३५ //
SamUpad_I.17.36 SK केवलां मनसो वृत्तिं पश्यन् मन्ता मतेर् अजः / विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्य् अतः // Sअम्Uपद्_I,१७.३६ //
SamUpad_I.17.37 SK ध्यायतीत्य् अविकारित्वं तथा लेलायतीत्य् अपि / अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः // Sअम्Uपद्_I,१७.३७ //
SamUpad_I.17.38 SK शक्त्यलोपात् सुषुप्ते ज्ञस् तथा बोधे ऽविकारतः / ज्ञेयस्यैव विशेषस् तु यत्र वेति श्रुतेर् मतः // Sअम्Uपद्_I,१७.३८ //
SamUpad_I.17.39 SK व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेर् अनात्मनः / दृष्टेर् आत्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम् // Sअम्Uपद्_I,१७.३९ //
SamUpad_I.17.40 SK न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने / बोधस्यात्मस्वरूपत्वान् न बोधो ऽन्यस् तथेष्यते // Sअम्Uपद्_I,१७.४० //
SamUpad_I.17.41 SK विषयत्वं विकारित्वं नानात्वं वा न हीष्यते / न हेयो नाप्य् उपादेय आत्मा नान्येन वा ततः // Sअम्Uपद्_I,१७.४१ //
SamUpad_I.17.42 SK सबाह्याभ्यन्तरो ऽजीर्णो जन्ममृत्युजरातिगः / अहम् आत्मेति यो वेत्ति कुतो न्व् एव बिभेति सः // Sअम्Uपद्_I,१७.४२ //
SamUpad_I.17.43 SK प्राग् एवैतद्विधेः कर्म वर्णित्वादेर् अपोहनात् / तद् अस्थूलादिशास्त्रेभ्यस् तत् त्वम् एवेति निश्चयात् // Sअम्Uपद्_I,१७.४३ //
SamUpad_I.17.44 SK पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः / देहस्यैव तु जात्यादिस् तस्याप्य् एवं ह्य् अनात्मता // Sअम्Uपद्_I,१७.४४ //
SamUpad_I.17.45 SK ममाहं चेत्य् अतो ऽविद्या शरीरादिष्व् अनात्मसु / आत्मज्ञानेन हेया स्याद् असुराणाम् इति श्रुतेः // Sअम्Uपद्_I,१७.४५ //
SamUpad_I.17.46 SK दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम् / यथा ज्ञानस्य संप्राप्तौ तद्वज् जात्यादिकर्मणाम् // Sअम्Uपद्_I,१७.४६ //
SamUpad_I.17.47 SK यत्कामस् तत्क्रतुर् भूत्वा कृतं त्व् अज्ञः प्रपद्यते / यदा स्वात्मदृशः कामाः प्रमुच्यन्ते ऽमृतस् तदा // Sअम्Uपद्_I,१७.४७ //
SamUpad_I.17.48 SK आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम् / न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर् मतः // Sअम्Uपद्_I,१७.४८ //
SamUpad_I.17.49 SK उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम् / नातो ऽन्यत् कर्मणः कार्यं त्यजेत् तस्मात् ससाधनम् // Sअम्Uपद्_I,१७.४९ //
SamUpad_I.17.50 SK तापान्तत्वाद् अनित्यत्वाद् आत्मार्थत्वाच् च या बहिः / संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुम् आश्रयेत् // Sअम्Uपद्_I,१७.५० //
SamUpad_I.17.51 SK शान्तं प्राज्ञं तथा मुक्तं निष्क्रियं ब्रह्मणि स्थितम् / श्रुतेर् आचार्यवान् वेद तद् विद्धीति स्मृतेस् तथा // Sअम्Uपद्_I,१७.५१ //
SamUpad_I.17.52 SK स गुरुस् तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम् / ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् // Sअम्Uपद्_I,१७.५२ //
SamUpad_I.17.53 SK दृष्टिः स्पृष्टिः श्रुतिर् घ्रातिर् मतिर् विज्ञातिर् एव च / शक्तयो ऽन्याश् च भिद्यन्ते चिद्रूपत्वे ऽप्य् उपाधिभिः // Sअम्Uपद्_I,१७.५३ //
SamUpad_I.17.54 SK अपायोद्भूतिहीनाभिर् नित्यं दीप्यन् रविर् यथा / सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा // Sअम्Uपद्_I,१७.५४ //
SamUpad_I.17.55 SK अन्यदृष्टिः शरीरस्थस् तावन्मात्रो ह्य् अविद्यया / जलेन्द्वाद्युपमाभिस् तु तद्धर्मा च विभाव्यते // Sअम्Uपद्_I,१७.५५ //
SamUpad_I.17.56 SK दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च / अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्य् अनध्वगः // Sअम्Uपद्_I,१७.५६ //
SamUpad_I.17.57 SK प्राणाद्य् एवं त्रिकं हित्वा तीर्णो ऽज्ञानमहोदधिम् / स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः // Sअम्Uपद्_I,१७.५७ //
SamUpad_I.17.58 SK अजो ऽहं चामरो ऽमृत्युर् अजरो ऽभय एव च / सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते // Sअम्Uपद्_I,१७.५८ //
SamUpad_I.17.59 SK पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः / तदभावे कुतो जन्म ब्रह्मैकत्वं विजानतः // Sअम्Uपद्_I,१७.५९ //
SamUpad_I.17.60 SK क्षीरात् सर्पिर् यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत् / बुद्ध्यादेर् ज्ञस् तथासत्यान् न देही पूर्ववद् भवेत् // Sअम्Uपद्_I,१७.६० //
SamUpad_I.17.61 SK सत्यं ज्ञानम् अनन्तं च रसादेः पञ्चकात् परम् / स्याम् अदृश्यादिशास्त्रोक्तम् अहं ब्रह्मेति निर्भयः // Sअम्Uपद्_I,१७.६१ //
SamUpad_I.17.62 SK यस्माद् भीताः प्रवर्तन्ते वाङ्मनःपावकादयः / तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन // Sअम्Uपद्_I,१७.६२ //
SamUpad_I.17.63 SK नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितो ऽद्वये / प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा // Sअम्Uपद्_I,१७.६३ //
SamUpad_I.17.64 SK विराड् वैश्वानरो बाह्यः स्मरन्न् अन्तः प्रजापतिः / प्रविलीने तु सर्वस्मिन् प्राज्ञो ऽव्याकृतम् उच्यते // Sअम्Uपद्_I,१७.६४ //
SamUpad_I.17.65 SK वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्व् असत् / सत्यो ज्ञश् चाहम् इत्य् एवं सत्यसन्धो विमुच्यते // Sअम्Uपद्_I,१७.६५ //
SamUpad_I.17.66 SK भारूपत्वाद् यथा भानोर् नाहोरात्रे तथैव तु / ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः // Sअम्Uपद्_I,१७.६६ //
SamUpad_I.17.67 SK शास्त्रस्यानतिशङ्क्यत्वाद् ब्रह्मैव स्याम् अहं सदा / ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत् // Sअम्Uपद्_I,१७.६७ //
SamUpad_I.17.68 SK अहम् एव च भूतेषु सर्वेष्व् एको नभो यथा / मयि सर्वाणि भूतानि पश्यन्न् एवं न जायते // Sअम्Uपद्_I,१७.६८ //
SamUpad_I.17.69 SK न बाह्यं मध्यतो वान्तर् विद्यते ऽन्यत् स्वतः क्वचित् / अबाह्यान्तःश्रुतेः किंचित् तस्माच् छुद्धः स्वयंप्रभः // Sअम्Uपद्_I,१७.६९ //
SamUpad_I.17.70 SK नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमो ऽद्वयः / अविज्ञातादिशास्त्राच् च नैव ज्ञेयो ह्य् अतो ऽन्यथा // Sअम्Uपद्_I,१७.७० //
SamUpad_I.17.71 SK सर्वस्यात्माहम् एवेति ब्रह्म चेद् विदितं परम् / स आत्मा सर्वभूतानाम् आत्मा ह्य् एषाम् इति श्रुतेः // Sअम्Uपद्_I,१७.७१ //
SamUpad_I.17.72 SK जीवश् चेत् परम् आत्मानं स्वात्मानं देवम् अञ्जसा / देवोपास्यः स देवानां पशुत्वाच् च निवर्तते // Sअम्Uपद्_I,१७.७२ //
SamUpad_I.17.73 SK अहम् एव सदात्मज्ञः शून्यस् त्व् अन्यैर् यथाम्बरम् / इत्य् एवं सत्यसंधत्वाद् असद्धाता न बध्यते // Sअम्Uपद्_I,१७.७३ //
SamUpad_I.17.74 SK कृपणास् ते ऽन्यथैवातो विदुर् ब्रह्म परं हि ये / स्वराड् यो ऽनन्यदृक् स्वस्थस् तस्य देवा असन् वशे // Sअम्Uपद्_I,१७.७४ //
SamUpad_I.17.75 SK हित्वा जात्यादिसंबन्धं वाचो ऽन्याः सह कर्मभिः / ओम् इत्य् एवं स्वम् आत्मानं सर्वं शुद्धं प्रपद्यथ // Sअम्Uपद्_I,१७.७५ //
SamUpad_I.17.76 SK सेतुं सर्वव्यवस्थानाम् अहोरात्रादिवर्जितम् / तिर्यग् ऊर्ध्वम् अधः सर्वं सकृज्ज्योतिर् अनामयम् // Sअम्Uपद्_I,१७.७६ //
SamUpad_I.17.77 SK धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात् / स्वम् आत्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः // Sअम्Uपद्_I,१७.७७ //
SamUpad_I.17.78 SK अकुर्वन् सर्वकृच् छुद्धस् तिष्ठन्न् अत्येति धावतः / मायया सर्वशक्तित्वाद् अजः सन् बहुधा मतः // Sअम्Uपद्_I,१७.७८ //
SamUpad_I.17.79 SK राजवत् साक्षिमात्रत्वात् संनिध्याद् भ्रामको यथा / भ्रामयञ् जगद् आत्माहं निष्क्रियो ऽकारको ऽद्वयः // Sअम्Uपद्_I,१७.७९ //
SamUpad_I.17.80 SK निर्गुणं निष्क्रियं नित्यं निर्द्वन्द्वं यन् निरामयम् / शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत् // Sअम्Uपद्_I,१७.८० //
SamUpad_I.17.81 SK बन्धं मोक्षं च सर्वं यत इदम् उभयं हेयम् एकं द्वयं च / ज्ञेयाज्ञेयाभ्यतीतं परमम् अधिगतं तत्त्वम् एकं विशुद्धम् / विज्ञायैतद् यथावच् छ्रुतिमुनिगदितं शोकमोहाव् अतीतः / सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणो ऽवाप्तकृत्यः // Sअम्Uपद्_I,१७.८१ //
SamUpad_I.17.82 SK न स्वयं स्वस्य नान्यश् च नान्यस्यात्मा च हेयगः / उपादेयो न चाप्य् एवम् इति सम्यङ्मतिः स्मृता // Sअम्Uपद्_I,१७.८२ //
SamUpad_I.17.83 SK आत्मप्रत्यायिका ह्य् एषा सर्ववेदान्तगोचरा / ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः // Sअम्Uपद्_I,१७.८३ //
SamUpad_I.17.84 SK रहस्यं सर्ववेदानां देवानां चापि यत् परम् / पवित्रं परमं ह्य् एतत् तद् एतत् संप्रकाशितम् // Sअम्Uपद्_I,१७.८४ //
SamUpad_I.17.85 SK नैतद् देयम् अशान्ताय रहस्यं ज्ञानम् उत्तमम् / विरक्ताय प्रदातव्यं शिष्यायानुगताय च // Sअम्Uपद्_I,१७.८५ //
SamUpad_I.17.86 SK ददतश् चात्मनो ज्ञानं निष्क्रियो ऽन्यो न विद्यते / ज्ञानम् इच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा // Sअम्Uपद्_I,१७.८६ //
SamUpad_I.17.87 SK ज्ञानं ज्ञेयं तथा ज्ञाता यस्माद् अन्यन् न विद्यते / सर्वज्ञः सर्वशक्तिर् यस् तस्मै ज्ञानात्मने नमः // Sअम्Uपद्_I,१७.८७ //
SamUpad_I.17.88 SK विद्यया तारिताः स्मो यैर् जन्ममृत्युमहोदधिम् / सर्वज्ञेभ्यो नमस् तेभ्यो गुरुभ्यो ऽज्ञानसंकुलम् // Sअम्Uपद्_I,१७.८८ //
SamUpad_I.17 SK इति सम्यङ्मतिप्रकरणम् // Sअम्Uपद्_I,१७ //
SamUpad_I.18.1 SK येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः / नित्यावगतये तस्मै नमो धीप्रत्ययात्मने // Sअम्Uपद्_I,१८.१ //
SamUpad_I.18.2 SK प्रमथ्य वज्रोपमयुक्तिसंभृतैः श्रुतेर् अरातिञ् शतशो वचो ऽसिभिः / ररक्ष वेदार्थनिधिं विशालधीर् नमो यतीन्द्राय गुरोर् गरीयसे // Sअम्Uपद्_I,१८.२ //
SamUpad_I.18.3 SK नित्यमुक्तः सद् एवास्मीत्य् एवं चेन् न भवेन् मतिः / किमर्थं श्रावयत्य् एवं मातृवच् छ्रुतिर् आदृता // Sअम्Uपद्_I,१८.३ //
SamUpad_I.18.4 SK सिद्धाद् एवाहम् इत्य् अस्माद् युष्मद्धर्मो निषिध्यते / रज्ज्वाम् इवाहिधीर् युक्त्या तत् त्वम् इत्यादिशासनैः // Sअम्Uपद्_I,१८.४ //
SamUpad_I.18.5 SK शास्त्रप्रामाण्यतो ज्ञेया धर्मादेर् अस्तिता यथा / विषापोहो यथा ध्यानाद् ध्नुतिः स्यात् पाप्मनस् तथा // Sअम्Uपद्_I,१८.५ //
SamUpad_I.18.6 SK सद् ब्रह्माहं करोमीति प्रत्ययाव् आत्मसाक्षिकौ / तयोर् अज्ञानजस्यैव त्यागो युक्ततरो मतः // Sअम्Uपद्_I,१८.६ //
SamUpad_I.18.7 SK सद् अस्मीति प्रमाणोत्था धीर् अन्या तन्निभोद्भवा / प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत् // Sअम्Uपद्_I,१८.७ //
SamUpad_I.18.8 SK कर्ता भोक्तेति यच् छास्त्रं लोकबुद्ध्यनुवादि तत् / सद् अस्मीति श्रुतेर् जाता बाध्यते ऽन्यैतयैव धीः // Sअम्Uपद्_I,१८.८ //
SamUpad_I.18.9 SK सद् एव त्वम् असीत्य् उक्ते नात्मनो मुक्ततां स्थिराम् / प्रपद्यते प्रसंचक्षाम् अतो युक्त्यानुचिन्तयेत् // Sअम्Uपद्_I,१८.९ //
SamUpad_I.18.10 SK सकृद् उक्तं न गृह्णाति वाक्यार्थज्ञो ऽपि यो भवेत् / अपेक्षते ऽत एवान्यद् अवोचाम द्वयं हि तत् // Sअम्Uपद्_I,१८.१० //
SamUpad_I.18.11 SK नियोगो ऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत् / अविरुद्धो भवेत् तावद् यावत् संवेद्यतादृढा // Sअम्Uपद्_I,१८.११ //
SamUpad_I.18.12 SK चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते / प्रसंख्यानम् अतः कार्यं यावद् आत्मानुभूयते // Sअम्Uपद्_I,१८.१२ //
SamUpad_I.18.13 SK सद् अस्मीति च विज्ञानम् अक्षजो बाधते ध्रुवम् / शब्दोत्थं दृढसंस्कारो दोषैश् चाक्र्ष्यते बहिः // Sअम्Uपद्_I,१८.१३ //
SamUpad_I.18.14 SK श्रुतानुमानजन्मानौ सामान्यविषयौ यतः / प्रत्ययाव् अक्षजो ऽवश्यं विशेषार्थो निवारयेत् // Sअम्Uपद्_I,१८.१४ //
SamUpad_I.18.15 SK वाक्यार्थप्रत्ययि कश्चिन् निर्दुःखो नोपलभ्यते / यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः // Sअम्Uपद्_I,१८.१५ //
SamUpad_I.18.16 SK निर्दुःखो ऽतीतदेहेषु कृतभावो ऽनुमीयते / चर्या नो ऽशास्त्रसंवेद्या स्याद् अनिष्टं तथा सति // Sअम्Uपद्_I,१८.१६ //
SamUpad_I.18.17 SK सद् असीति फलं चोक्त्वा विधेयं साधनं यतः / न तद् अन्यत् प्रसंख्यानात् प्रसिद्धार्थम् इहेष्यते // Sअम्Uपद्_I,१८.१७ //
SamUpad_I.18.18 SK तस्माद् अनुभवायैव प्रसंचक्षीत यत्नतः / त्यजन् साधनतत्साध्यविरुद्धं शमनादिमान् // Sअम्Uपद्_I,१८.१८ //
SamUpad_I.18.19 SK नैतद् एवं रहस्यानां नेतिनेत्यवसानतः / क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः // Sअम्Uपद्_I,१८.१९ //
SamUpad_I.18.20 SK पुत्रदुःखं यथाध्यस्तं पित्रादुःखे स्व आत्मनि / अहंकर्त्रा तथाध्यस्तं नित्यादुःखे स्व आत्मनि // Sअम्Uपद्_I,१८.२० //
SamUpad_I.18.21 SK सो ऽध्यासो नेति नेतीति प्राप्तवत् प्रतिषिध्यते / भूयो ऽध्यासविधिः कश्चित् कुतश्चिन् नोपपद्यते // Sअम्Uपद्_I,१८.२१ //
SamUpad_I.18.22 SK आत्मनीह यथाध्यासः प्रतिषेधस् तथैव च / मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः // Sअम्Uपद्_I,१८.२२ //
SamUpad_I.18.23 SK प्राप्तश् चेत् प्रतिषिध्येत मोक्षो ऽनित्यो भवेद् ध्रुवम् / अतो ऽप्राप्तनिषेधो ऽयं दिव्य् अग्निचयनादिवत् // Sअम्Uपद्_I,१८.२३ //
SamUpad_I.18.24 SK संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा / न संभाव्यौ तदात्मत्वाद् अहंकर्तुस् तथैव च // Sअम्Uपद्_I,१८.२४ //
SamUpad_I.18.25 SK अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् / नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते // Sअम्Uपद्_I,१८.२५ //
SamUpad_I.18.26 SK उपलब्धिः स्वयंज्योतिर् दृशिः प्रत्यक्सदक्रियः / साक्षात् सर्वान्तरः साक्षी चेता नित्यो ऽगुणो ऽद्वयः // Sअम्Uपद्_I,१८.२६ //
SamUpad_I.18.27 SK संनिधौ सर्वदा तस्य स्यात् तदाभो ऽभिमानकृत् / आत्मात्मीयं द्वयं चातः स्याद् अहंममगोचरः // Sअम्Uपद्_I,१८.२७ //
SamUpad_I.18.28 SK जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दास् त्व् अहंकृति / न कश्चिद् वर्तते शब्दस् तदभावात् स्व आत्मनि // Sअम्Uपद्_I,१८.२८ //
SamUpad_I.18.29 SK आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः / लक्षयेयुर् न साक्षात् तम् अभिदध्युः कथंचन // Sअम्Uपद्_I,१८.२९ //
SamUpad_I.18.30 SK नह्य् अजात्यादिमान् कश्चिद् अर्थः शब्दैर् निरूप्यते / आत्माभासो यतो ऽहंकृद् आत्मशब्दैस् तथोच्यते // Sअम्Uपद्_I,१८.३० //
SamUpad_I.18.31 SK उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान् न चाञ्जसा / मुखाद् अन्यो मुखाभासो यथादर्शानुकारतः // Sअम्Uपद्_I,१८.३१ //
SamUpad_I.18.32 SK आभासान् मुखम् अप्य् एवम् आदर्शाननुवर्तनात् / अहंकृत्य् आत्मनिर्भासो मुखाभासवद् इष्यते // Sअम्Uपद्_I,१८.३२ //
SamUpad_I.18.33 SK मुखवत् स्थित आत्मान्यो ऽविविक्तौ तौ तथैव च / संसारी च स इत्य् एक आभासो यस् त्व् अहंकृति // Sअम्Uपद्_I,१८.३३ //
SamUpad_I.18.34 SK वस्तु च्छाया स्मृतेर् अन्यन् माधुर्यादि च कारणम् / ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे // Sअम्Uपद्_I,१८.३४ //
SamUpad_I.18.35 SK अहंकर्तैव संसारी स्वतन्त्र इति केचन / अहंकारादिसंतानः संसारी नान्वयि पृथक् // Sअम्Uपद्_I,१८.३५ //
SamUpad_I.18.36 SK इत्य् एवं सौगता आहुस् तत्र न्यायो विचार्यताम् / संसारिणां कथा त्व् आस्तां प्रकृतं त्व् अधुनोच्यते // Sअम्Uपद्_I,१८.३६ //
SamUpad_I.18.37 SK मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः / द्वयोर् एकस्य चेद् धर्मो वियुक्ते ऽन्यतरे भवेत् // Sअम्Uपद्_I,१८.३७ //
SamUpad_I.18.38 SK मुखेन व्यपदेशात् स मुखस्यैवेति चेन् मतम् / नादर्शानुविधानाच् च मुखे सत्य् अविभावतः // Sअम्Uपद्_I,१८.३८ //
SamUpad_I.18.39 SK द्वयोर् एवेति चेत् तन् न द्वयोर् एवाप्य् अदर्शनात् / अदृष्टस्य सतो दृष्टिः स्याद् राहोश् चन्द्रसूर्ययोः // Sअम्Uपद्_I,१८.३९ //
SamUpad_I.18.40 SK राहोः प्राग् एव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः / छायापक्षे त्व् अवस्तुत्वं तस्य स्यात् पूर्वयुक्तितः // Sअम्Uपद्_I,१८.४० //
SamUpad_I.18.41 SK छायाक्रान्तेर् निषेधो ऽयं न तु वस्तुत्वसाधकः / न ह्य् अर्थान्तरनिष्ठं सद् वाक्यम् अर्थान्तरं वदेत् // Sअम्Uपद्_I,१८.४१ //
SamUpad_I.18.42 SK माधुर्यादि च यत् कार्यम् उष्णद्रव्याद्यसेवनात् / छायाया न त्व् अदृष्टत्वाद् अपाम् एव च दर्शनात् // Sअम्Uपद्_I,१८.४२ //
SamUpad_I.18.43 SK आत्माभासाश्रयाश् चैवं मुखाभासाश्रया यथा / गम्यते शास्त्रयुक्तिभ्याम् आभासासत्त्वम् एव च // Sअम्Uपद्_I,१८.४३ //
SamUpad_I.18.44 SK न दृशेर् अविकारित्वाद् आभासस्याप्य् अवस्तुतः / नाचितित्वाद् अहंकर्तुः कस्य संसारिता भवेत् // Sअम्Uपद्_I,१८.४४ //
SamUpad_I.18.45 SK अविद्यामात्र एवातः संसारो ऽस्त्व् अविवेकतः / कूटस्थेनात्मना नित्यम् आत्मवान् आत्मनीव सः // Sअम्Uपद्_I,१८.४५ //
SamUpad_I.18.46 SK रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग् विवेकतः / अवस्तुसन्न् अपि ह्य् एष कूटस्थेनात्मना तथा // Sअम्Uपद्_I,१८.४६ //
SamUpad_I.18.47 SK आत्माभासाश्रयश् चात्मा प्रत्ययैः स्वैर् विकारवान् / सुखी दुःखी च संसारी नित्य एवेति केचन // Sअम्Uपद्_I,१८.४७ //
SamUpad_I.18.48 SK आत्माभासापरिज्ञानाद् याथात्म्येन विमोहिताः / अहंकर्तारम् आत्मेति मन्यन्ते ते निरागमाः // Sअम्Uपद्_I,१८.४८ //
SamUpad_I.18.49 SK संसारो वस्तुसंस् तेषां कर्तृभोक्तृत्वलक्षणः / आत्माभासाश्रयाज्ञानात् संसरन्त्य् अविवेकतः // Sअम्Uपद्_I,१८.४९ //
SamUpad_I.18.50 SK चैतन्याभासता बुद्धेर् आत्मनस् तत्स्वरूपता / स्याच् चेत् तं ज्ञानशब्दैश् च वेदः शास्तीति युज्यते // Sअम्Uपद्_I,१८.५० //
SamUpad_I.18.51 SK प्रकृतिप्रत्ययार्थौ यौ भिन्नाव् एकाश्रयौ यथा / करोति गच्छतीत्यादौ दृष्टौ लोकप्रसिद्धितः // Sअम्Uपद्_I,१८.५१ //
SamUpad_I.18.52 SK नानयोर् द्व्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा / जानात्यर्थेषु को हेतुर् द्व्याश्रयत्वे निगद्यताम् // Sअम्Uपद्_I,१८.५२ //
SamUpad_I.18.53 SK आत्माभासस् तु तिङ्वाच्यो धात्वर्थश् च धियः क्रिया / उभयं चाविवेकेन जानातीत्य् उच्यते मृषा // Sअम्Uपद्_I,१८.५३ //
SamUpad_I.18.54 SK न बुद्धेर् अवबोधो ऽस्ति नात्मनो विद्यते क्रिया / अतो नान्यतरस्यापि जानातीति च युज्यते // Sअम्Uपद्_I,१८.५४ //
SamUpad_I.18.55 SK नाप्य् अतो भावशब्देन ज्ञप्तिर् इत्य् अपि युज्यते / न ह्य् आत्मा विक्रियामात्रो नित्य आत्मेतिशासनात् // Sअम्Uपद्_I,१८.५५ //
SamUpad_I.18.56 SK न बुद्धेर् बुद्धिवाच्यत्वं करणं न ह्य् अकर्तृकम् / नापि ज्ञायत इत्य् एवं कर्मशब्दैर् निरुच्यते // Sअम्Uपद्_I,१८.५६ //
SamUpad_I.18.57 SK न येषाम् एक एवात्मा निर्दुःखो ऽविक्रियः सदा / तेषां स्याच् छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा // Sअम्Uपद्_I,१८.५७ //
SamUpad_I.18.58 SK यदाहंकर्तुर् आत्मत्वं तदा शब्दार्थमुख्यता / नाशनायादिमत्त्वात् तु श्रुतौ तस्यात्मतेष्यते // Sअम्Uपद्_I,१८.५८ //
SamUpad_I.18.59 SK हन्त तर्हि न मुख्यार्थो नापि गौणः कथंचन / जानातीत्यादिशब्दस्य गतिर् वाच्या तथापि तु // Sअम्Uपद्_I,१८.५९ //
SamUpad_I.18.60 SK शब्दानाम् अयथार्थत्वे वेदस्याप्य् अप्रमाणता / सा च नेष्टा ततो ग्राह्या गतिर् अस्य प्रसिद्धितः // Sअम्Uपद्_I,१८.६० //
SamUpad_I.18.61 SK प्रसिद्धिर् मूढलोकस्य यदि ग्राह्या निरात्मता / लोकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते // Sअम्Uपद्_I,१८.६१ //
SamUpad_I.18.62 SK अभियुक्तप्रसिद्धिश् चेत् पूर्ववद् दुर्विवेकता / गतिशून्यं न वेदो ऽयं प्रमाणं संवदत्य् उत // Sअम्Uपद्_I,१८.६२ //
SamUpad_I.18.63 SK आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः / मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते // Sअम्Uपद्_I,१८.६३ //
SamUpad_I.18.64 SK यत्र यस्यावभासस् तु तयोर् एवाविवेकतः / जानातीति क्रियां सर्वो लोको वक्ति स्वभवतः // Sअम्Uपद्_I,१८.६४ //
SamUpad_I.18.65 SK बुद्धेः कर्तृत्वम् अध्यस्य जानातीति ज्ञ उच्यते / तथा चैतन्यम् अध्यस्य ज्ञत्वं बुद्धेर् इहोच्यते // Sअम्Uपद्_I,१८.६५ //
SamUpad_I.18.66 SK स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर् यतः / न बुद्ध्या क्रियते तस्मान् नात्मनान्येन वा सदा // Sअम्Uपद्_I,१८.६६ //
SamUpad_I.18.67 SK देहे ऽहंप्रत्ययो यद्वज् जानातीति च लौकिकाः / वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस् तथात्मनः // Sअम्Uपद्_I,१८.६७ //
SamUpad_I.18.68 SK बौद्धैस् तु प्रत्ययैर् एवं क्रियमाणैश् च चिन्निभैः / मोहिताः क्रियते ज्ञानम् इत्य् आहुस् तार्किका जनाः // Sअम्Uपद्_I,१८.६८ //
SamUpad_I.18.69 SK तस्माज् ज्ञाभासबुद्धीनाम् अविवेकात् प्रवर्तिताः / जानातीत्यादिशब्दश् च प्रत्ययो या च तत्स्मृतिः // Sअम्Uपद्_I,१८.६९ //
SamUpad_I.18.70 SK आदर्शानुविधायित्वं छायाया अस्यते मुखे / बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते // Sअम्Uपद्_I,१८.७० //
SamUpad_I.18.71 SK बुद्धेस् तु प्रत्ययास् तस्माद् आत्माभासेन दीपिताः / ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः // Sअम्Uपद्_I,१८.७१ //
SamUpad_I.18.72 SK स्वयम् एवावभास्यन्ते ग्राहकाः स्वयम् एव च / इत्य् एवं ग्राहकास्तित्वं प्रतिषेधन्ति सौगताः // Sअम्Uपद्_I,१८.७२ //
SamUpad_I.18.73 SK यद्य् एवं नान्यदृश्यास् ते किं तद्वारणम् उच्यताम् / भावाभावौ हि तेषां यौ नान्यग्राह्यौ सदा यदि // Sअम्Uपद्_I,१८.७३ //
SamUpad_I.18.74 SK अन्वयी ग्राहकस् तेषाम् इत्य् एतद् अपि तत्समम् / अचितित्वस्य तुल्यत्वाद् अन्यस्मिन् ग्राहके सति // Sअम्Uपद्_I,१८.७४ //
SamUpad_I.18.75 SK अध्यक्षस्य समीपे तु सिद्धिः स्याद् इति चेन् मतम् / नाध्यक्षे ऽनुपकारित्वाद् अन्यत्रापि प्रसङ्गतः // Sअम्Uपद्_I,१८.७५ //
SamUpad_I.18.76 SK अर्थी दुःखी च यः श्रोता स त्व् अध्यक्षो ऽथवेतरः / अध्यक्षस्य च दुःखित्वम् अर्थित्वं च न ते मतम् // Sअम्Uपद्_I,१८.७६ //
SamUpad_I.18.77 SK कर्ताध्यक्षं सद् अस्मीति नैव सद्ग्रहम् अर्हति / सद् एवासीति मिथ्योक्तिः श्रुतेर् अपि न युज्यते // Sअम्Uपद्_I,१८.७७ //
SamUpad_I.18.78 SK अविविच्योभयं वक्ति श्रुतिश् चेत् स्याद् ग्रहस् तथा / अस्मदस् तु विविच्यैव त्वम् एवेति वदेद् यदि // Sअम्Uपद्_I,१८.७८ //
SamUpad_I.18.79 SK प्रत्ययान्वयिनिष्ठत्वम् उक्तो दोषः प्रसज्यते / त्वम् इत्य् अध्यक्षनिष्ठश् चेद् अहमध्यक्षयोः कथम् // Sअम्Uपद्_I,१८.७९ //
SamUpad_I.18.80 SK संबन्धो वाच्य एवात्र येन त्वम् इति लक्षयेत् / द्रष्टृदृश्यत्वसंबन्धो यद्य् अध्यक्षे ऽक्रिये कथम् // Sअम्Uपद्_I,१८.८० //
SamUpad_I.18.81 SK अक्रियत्वे ऽपि तादात्म्यम् अध्यक्षस्य भवेद् यदि / आत्माध्यक्षो ममास्तीति संबन्धाग्रहणे न धीः // Sअम्Uपद्_I,१८.८१ //
SamUpad_I.18.82 SK संबन्धग्रहणं शास्त्राद् इति चेन् मन्यसे न हि / पूर्वोक्ताः स्युस् त्रिधा दोषा ग्रहो वा स्यान् ममेति च // Sअम्Uपद्_I,१८.८२ //
SamUpad_I.18.83 SK अदृशिर् दृशिरूपेण भाति बुद्धिर् यदा सदा / प्रत्यया अपि तस्याः स्युस् तप्तायोविस्फुलिङ्गवत् // Sअम्Uपद्_I,१८.८३ //
SamUpad_I.18.84 SK आभासस् तदभावश् च दृशेः सीम्नो न चान्यथा / लोकस्य युक्तितः स्यातां तद्ग्रहश् च तथा सति // Sअम्Uपद्_I,१८.८४ //
SamUpad_I.18.85 SK नन्व् एवं दृशिसंक्रान्तिर् अयःपिण्डे ऽग्निवद् भवेत् / मुखाभासवद् इत्य् एतद् आदर्शे तन् निराकृतम् // Sअम्Uपद्_I,१८.८५ //
SamUpad_I.18.86 SK कृष्णायो रोहिताभासम् इत्य् एतद् दृष्टम् उच्यते / दृष्टदार्ष्टान्ततुल्यत्वं न तु सर्वात्मना क्वचित् // Sअम्Uपद्_I,१८.८६ //
SamUpad_I.18.87 SK तथैव चेतनाभासं चित्तं चैतन्यवद् भवेत् / मुखाभासो यथादर्श आभासश् चोदितो मृषा // Sअम्Uपद्_I,१८.८७ //
SamUpad_I.18.88 SK चित्तं चेतनम् इत्य् एतच् छास्त्रयुक्तिविवर्जितम् / देहस्यापि प्रसङ्गः स्याच् चक्षुरादेस् तथैव च // Sअम्Uपद्_I,१८.८८ //
SamUpad_I.18.89 SK तद् अप्य् अस्त्व् इति चेत् तन् न लोकायतिकसंगतेः / न च धीर् दृशिर् अस्मीति यद्य् आभासो न चेतसि // Sअम्Uपद्_I,१८.८९ //
SamUpad_I.18.90 SK सद् अस्मीति धियो ऽभावे व्यर्थं स्यात् तत् त्वम् अस्य् अपि / युष्मदस्मद्विवेकज्ञे स्याद् अर्थवद् इदं वचः // Sअम्Uपद्_I,१८.९० //
SamUpad_I.18.91 SK ममेदंप्रत्ययौ ज्ञेयौ युष्मद्य् एव न संशयः / अहम् इत्य् अस्मदीष्टः स्याद् अयम् अस्मीति चोभयोः // Sअम्Uपद्_I,१८.९१ //
SamUpad_I.18.92 SK अन्योन्यापेक्षया तेषां प्रधानगुणतेष्यते / विशेषणविशेष्यत्वं तथा ग्राह्यं हि युक्तितः // Sअम्Uपद्_I,१८.९२ //
SamUpad_I.18.93 SK ममेदं द्वयम् अप्य् एतन् मध्यमस्य विशेषणम् / धनी गोमान् यथा तद्वद् देहो ऽहंकर्तुर् एव च // Sअम्Uपद्_I,१८.९३ //
SamUpad_I.18.94 SK बुद्ध्यारूढं सदा सर्वं साहंकर्त्रा च साक्षिणः / तस्मात् सर्वावभासो ज्ञः किंचिद् अप्य् अस्पृशन् सदा // Sअम्Uपद्_I,१८.९४ //
SamUpad_I.18.95 SK प्रतिलोमम् इदं सर्वं यथोक्तं लोकबुद्धितः / अविवेकधियाम् अस्ति नास्ति सर्वं विवेकिनाम् // Sअम्Uपद्_I,१८.९५ //
SamUpad_I.18.96 SK अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च / स्याद् एतद् अहम् इत्य् अत्र युक्तिर् एवावधारणे // Sअम्Uपद्_I,१८.९६ //
SamUpad_I.18.97 SK नाद्राक्षम् अहम् इति अस्मिन् सुषुप्ते ऽन्यन् मनाग् अपि / न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति // Sअम्Uपद्_I,१८.९७ //
SamUpad_I.18.98 SK स्वयंज्योतिर् न हि द्रष्टुर् इत्य् एवं संविदो ऽस्तिताम् / कौटस्थ्यं च तथा तस्याः प्रत्ययस्य च लुप्तताम् / स्वयम् एवाब्रवीच् छास्त्रं प्रत्ययावगती पृथक् // Sअम्Uपद्_I,१८.९८ //
SamUpad_I.18.99 SK एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः / श्रुतिस् तत् त्वम् असीत्य् आह श्रोतुर् मोहापनुत्तये // Sअम्Uपद्_I,१८.९९ //
SamUpad_I.18.100 SK ब्रह्मा दाशरथेर् यद्वद् उक्त्यैवापानुदत् तमः / तस्य विष्णुत्वसंबोधे न यत्नान्तरम् ऊचिवान् // Sअम्Uपद्_I,१८.१०० //
SamUpad_I.18.101 SK अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि / सैवोक्ता सद् असीत्य् एवं फलं तत्र विमुक्तता // Sअम्Uपद्_I,१८.१०१ //
SamUpad_I.18.102 SK श्रुतमात्रे न चेत् तत् स्यात् कार्यं तत्र भवेद् ध्रुवम् / व्यवहारात् पुरापीष्टः सद्भावः स्वयम् आत्मनः // Sअम्Uपद्_I,१८.१०२ //
SamUpad_I.18.103 SK अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा / तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्व् असंशयः // Sअम्Uपद्_I,१८.१०३ //
SamUpad_I.18.104 SK प्रतिबन्धविहीनत्वात् स्वयं चानुभवात्मनः / जायेतैव प्रमा तत्र स्वात्मन्य् एव न संशयः // Sअम्Uपद्_I,१८.१०४ //
SamUpad_I.18.105 SK किं सद् एवाहम् अस्मीति किं वान्यत् प्रतिपद्यते / सद् एव चेद् अहंशब्दः सता मुख्यार्थ इष्यताम् // Sअम्Uपद्_I,१८.१०५ //
SamUpad_I.18.106 SK अन्यच् चेत् सदहंग्राहप्रतिपत्तिर् मृषैव सा / तस्मान् मुख्यग्रहे नास्ति वारणावगतेर् इह // Sअम्Uपद्_I,१८.१०६ //
SamUpad_I.18.107 SK प्रत्ययी प्रत्ययश् चैव यदाभासौ तदर्थता / तयोर् अचितिमत्त्वाच् च चैतन्ये कल्प्यते फलम् // Sअम्Uपद्_I,१८.१०७ //
SamUpad_I.18.108 SK कूटस्थे ऽपि फलं योग्यं राजनीव जयादिकम् / तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च // Sअम्Uपद्_I,१८.१०८ //
SamUpad_I.18.109 SK आदर्शस् तु यदाभासो मुखाकारः स एव सः / यथैवं प्रत्ययादर्शो यदाभासस् तदा ह्य् अहम् // Sअम्Uपद्_I,१८.१०९ //
SamUpad_I.18.110 SK इत्य् एवं प्रतिपत्तिः स्यात् सद् अस्मीति च नान्यथा / तत् त्वम् इत्य् उपदेशो ऽपि द्वाराभावाद् अनर्थकः // Sअम्Uपद्_I,१८.११० //
SamUpad_I.18.111 SK श्रोतुः स्याद् उपदेशश् चेद् अर्थवत्त्वं तथा भवेत् / अध्यक्षस्य न चेद् इष्टं श्रोतृत्वं कस्य तद् भवेत् // Sअम्Uपद्_I,१८.१११ //
SamUpad_I.18.112 SK अध्यक्षस्य समीपे बुद्धेर् एवेति चेन् मतम् / न तत्कृतोपकारो ऽस्ति काष्ठाद् यद्वन् न कल्प्यते // Sअम्Uपद्_I,१८.११२ //
SamUpad_I.18.113 SK बुद्धौ चेत् तत्कृतः कश्चिन् नन्व् एवं परिणामिता / आभासे ऽपि च को दोषः सति श्रुत्याद्यनुग्रहे // Sअम्Uपद्_I,१८.११३ //
SamUpad_I.18.114 SK आभासे परिणामश् चेन् न रज्ज्वादिनिभत्ववत् / सर्पादेश् च तथावोचम् आदर्शे च मुखत्ववत् // Sअम्Uपद्_I,१८.११४ //
SamUpad_I.18.115 SK नात्माभासत्वसिद्धिश् चेद् आत्मनो ग्रहणात् पृथक् / मुखादेस् तु पृथक्सिद्धिर् इह त्व् अन्योन्यसंश्रयः // Sअम्Uपद्_I,१८.११५ //
SamUpad_I.18.116 SK अध्यक्षस्य पृथक्सिद्धाव् आभासस्य तदीयता / आभासस्य तदीयत्वे ह्य् अध्यक्षव्यतिरिक्तता // Sअम्Uपद्_I,१८.११६ //
SamUpad_I.18.117 SK नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस् तथा / रथादेस् तत्र शून्यत्वात् प्रत्ययस्यात्मना ग्रहः // Sअम्Uपद्_I,१८.११७ //
SamUpad_I.18.118 SK अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः / जायते स यदाकारः स बाह्यो विषयो मतः // Sअम्Uपद्_I,१८.११८ //
SamUpad_I.18.119 SK कर्मेप्सिततमत्वात् स तद्वान् कार्ये नियुज्यते / आकारो यत्र चार्प्येत करणं तद् इहोच्यते // Sअम्Uपद्_I,१८.११९ //
SamUpad_I.18.120 SK यदाभासेन संव्याप्तः स ज्ञातेति निगद्यते / त्रयम् एतद् विविच्यात्र यो जानाति स आत्मवित् // Sअम्Uपद्_I,१८.१२० //
SamUpad_I.18.121 SK सम्यक्संशयमिथ्योक्ताः प्रत्यया व्यभिचारिणः / एकैवावगतिस् तेषु भेदस् तु प्रत्ययार्पितः // Sअम्Uपद्_I,१८.१२१ //
SamUpad_I.18.122 SK आधिभेदाद् यथा भेदो मणेर् अवगतेस् तथा / अशुद्धिः परिणामश् च सर्वं प्रत्ययसंश्रयात् // Sअम्Uपद्_I,१८.१२२ //
SamUpad_I.18.123 SK प्रथनं ग्रहणं सिद्धिः प्रत्ययानाम् इहान्यतः / आपरोक्ष्यात् तद् एवोक्तम् अनुमानं प्रदीपवत् // Sअम्Uपद्_I,१८.१२३ //
SamUpad_I.18.124 SK किम् अज्ञं ग्राहयेत् कश्चित् प्रमाणेन तु केनचित् / विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः // Sअम्Uपद्_I,१८.१२४ //
SamUpad_I.18.125 SK शब्देनैव प्रमाणेन निवृत्तिश् चेद् इहोच्यते / अध्यक्षस्याप्रसिद्धत्वाच् छून्यतैव प्रसज्यते // Sअम्Uपद्_I,१८.१२५ //
SamUpad_I.18.126 SK चेतनस् त्वं कथं देह इति चेन् नाप्रसिद्धितः / चेतनस्यान्यतासिद्धाव् एवं स्याद् अन्यहानतः // Sअम्Uपद्_I,१८.१२६ //
SamUpad_I.18.127 SK अध्यक्षः स्वयम् अस्त्य् एव चेतनस्यापरोक्षतः / तुल्य एवं प्रबोधः स्याद् अज्ञस्यासत्त्ववादिना // Sअम्Uपद्_I,१८.१२७ //
SamUpad_I.18.128 SK अहम् अज्ञासिषं चेदम् इति लोकस्मृतेर् इह / करणं कर्म कर्ता च सिद्धास् त्व् एकक्षणे किल // Sअम्Uपद्_I,१८.१२८ //
SamUpad_I.18.129 SK प्रामाण्ये ऽपि स्मृतेः शैघ्र्याद् यौगपद्यं विभाव्यते / क्रमेण ग्रहणं पूर्वं स्मृतेः पश्चात् तथैव च // Sअम्Uपद्_I,१८.१२९ //
SamUpad_I.18.130 SK अज्ञासिषम् इदं मां चेत्य् अपेक्षा जायते ध्रुवम् / विशेषो ऽपेक्ष्यते यत्र तत्र नैवैककालता // Sअम्Uपद्_I,१८.१३० //
SamUpad_I.18.131 SK आत्मनो ग्रहणे चापि त्रयाणाम् इह संभवात् / आत्मन्य् आसक्तकर्तृत्वं न स्यात् करणकर्मणोः // Sअम्Uपद्_I,१८.१३१ //
SamUpad_I.18.132 SK व्याप्तुम् इष्टं च यत् कर्तुः क्रियया कर्म तत् स्मृतम् / अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता // Sअम्Uपद्_I,१८.१३२ //
SamUpad_I.18.133 SK शब्दाद् वानुमितेर् वापि प्रमाणाद् वा ततो ऽन्यतः / सिद्धिः सर्वपदार्थानां स्याद् अज्ञं प्रति नान्यथा // Sअम्Uपद्_I,१८.१३३ //
SamUpad_I.18.134 SK अध्यक्षस्यापि सिद्धिः स्यात् प्रमाणेन विनैव वा / विना स्वस्य प्रसिद्धिस् तु नाज्ञं प्रत्य् उपयुज्यते // Sअम्Uपद्_I,१८.१३४ //
SamUpad_I.18.135 SK तस्यैवाज्ञत्वम् इष्टं चेज् ज्ञातत्वे ऽन्या मितिर् भवेत् / अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् // Sअम्Uपद्_I,१८.१३५ //
SamUpad_I.18.136 SK ज्ञातता स्वात्मलाभो वा सिद्धिः स्याद् अन्यद् एव वा / ज्ञातत्वे ऽनन्तरोक्तौ त्वं पक्षौ संस्मर्तुम् अर्हसि // Sअम्Uपद्_I,१८.१३६ //
SamUpad_I.18.137 SK सिद्धिः स्यात् स्वात्मलाभश् चेद् यत्नस् तत्र निरर्थकः / सर्वलोकप्रसिद्धत्वात् स्वहेतुभ्यस् तु वस्तुनः // Sअम्Uपद्_I,१८.१३७ //
SamUpad_I.18.138 SK ज्ञानज्ञेयादिवादे ऽतः सिद्धिर् ज्ञातत्वम् उच्यते / अध्यक्षाध्यक्ष्ययोः सिद्धिर् ज्ञेयत्वं नात्मलाभता // Sअम्Uपद्_I,१८.१३८ //
SamUpad_I.18.139 SK स्पष्टत्वं कर्मकर्त्रादेः सिद्धता यदि कल्प्यते / स्पष्टतास्पष्टते स्याताम् अन्यस्यैव न चात्मनः // Sअम्Uपद्_I,१८.१३९ //
SamUpad_I.18.140 SK अद्रष्टुर् नैव चान्धस्य स्पष्टीभावो घटस्य तु / कर्त्रादेः स्पष्टतेष्टा चेद् द्रष्टृताध्यक्षकर्तृका // Sअम्Uपद्_I,१८.१४० //
SamUpad_I.18.141 SK अनुभूतेः किम् अन्तस्मिन् स्यात् तवापेक्षया वद / अनुभवितरीष्टा स्यात् सो ऽप्य् अनुभूतिर् एव नः // Sअम्Uपद्_I,१८.१४१ //
SamUpad_I.18.142 SK ᳚अभिन्नो ऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः / ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते᳚ // Sअम्Uपद्_I,१८.१४२ //
SamUpad_I.18.143 SK [भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते / ] सत्त्वं नाशित्वम् अस्याश् चेत् सकर्तृत्वं तथेष्यताम् / न कश्चिच् चेष्यते धर्म इति चेत् पक्षहानता // Sअम्Uपद्_I,१८.१४३ //
SamUpad_I.18.144 SK नन्व् अस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः / न भूतेस् तर्हि नाशित्वं स्वालक्षण्यं हि ते // Sअम्Uपद्_I,१८.१४४ //
SamUpad_I.18.145 SK स्वलक्षणावधिर् नाशो नाशो ऽनाशनिवृत्तिता / अगोर् असत्त्वं गोत्वं ते न तु तद् गोः स्वलक्षणम् // Sअम्Uपद्_I,१८.१४५ //
SamUpad_I.18.146 SK क्षणवाच्यो ऽपि यो ऽर्थः स्यात् सो ऽप्य् अन्याभाव एव ते / भेदाभावे ऽप्य् अभावस्य भेदो नामभिर् इष्यते // Sअम्Uपद्_I,१८.१४६ //
SamUpad_I.18.147 SK नामभेदैर् अनेकत्वम् एकस्य स्यात् कथं तव / अपोहो यदि भिन्नानां वृत्तिस् तस्य कथं गवि // Sअम्Uपद्_I,१८.१४७ //
SamUpad_I.18.148 SK नाभावा भेदकाः सर्वे विशेषा वा कदाचन / नामजात्यादयो यद्वत् संविदस् ते ऽविशेषतः // Sअम्Uपद्_I,१८.१४८ //
SamUpad_I.18.149 SK प्रत्यक्षम् अनुमानं वा व्यवहारे यदीच्छसि / क्रियाकारकभेदैस् तद् अभ्युपेयं ध्रुवं भवेत् // Sअम्Uपद्_I,१८.१४९ //
SamUpad_I.18.150 SK तस्मान् नीलं तथा पीतं घटादिर् वा विशेषणम् / संविदस् तद् उपेत्यं स्याद् येन चाप्य् अनुभूयते // Sअम्Uपद्_I,१८.१५० //
SamUpad_I.18.151 SK रूपादीनां यथान्यः स्याद् ग्राह्यत्वाद् ग्राहकस् तथा / प्रत्ययस्य तथान्यं स्याद् व्यञ्जकत्वाच् च दीपवत् // Sअम्Uपद्_I,१८.१५१ //
SamUpad_I.18.152 SK अध्यक्षस्य दृशेः कीदृक् संबन्धः संभविष्यति / अध्यक्ष्येण तु दृश्येन मुक्त्वान्यो द्रष्टृदृश्यताम् // Sअम्Uपद्_I,१८.१५२ //
SamUpad_I.18.153 SK अध्यक्षेण कृता दृष्टिर् दृश्यं व्याप्नोत्य् अथापि वा / नित्याध्यक्षकृतः कश्चिद् उपकारो भवेद् धियाम् // Sअम्Uपद्_I,१८.१५३ //
SamUpad_I.18.154 SK स चोक्तस् तन्निभत्वं प्राक् संव्याप्तिश् च घटादिषु / यथालोकादिसंव्याप्तिर् व्यञ्जकत्वाद् धियस् तथा // Sअम्Uपद्_I,१८.१५४ //
SamUpad_I.18.155 SK आलोकस्थो घटो यद्वद् बुद्ध्यारूढो भवेत् तथा / धीव्याप्तिः स्याद् घटारोहो धियो व्याप्तौ क्रमो भवेत् // Sअम्Uपद्_I,१८.१५५ //
SamUpad_I.18.156 SK पूर्वं स्यात् प्रत्ययव्याप्तिस् ततो ऽनुग्रह आत्मनः / कृत्स्नाध्यक्षस्य सो ऽयुक्तः कालाकाशादिवत् क्रमः // Sअम्Uपद्_I,१८.१५६ //
SamUpad_I.18.157 SK विषयग्रहणं यस्य कारणापेक्षया भवेत् / सत्य् एव ग्राह्यशेषे च परिणामी स चित्तवत् // Sअम्Uपद्_I,१८.१५७ //
SamUpad_I.18.158 SK अध्यक्षो ऽहम् इति ज्ञानं बुद्धेर् एव विनिश्चयः / नाध्यक्षस्याविशेषत्वान् न तस्यास्ति परो यतः // Sअम्Uपद्_I,१८.१५८ //
SamUpad_I.18.159 SK कर्त्रा चेद् अहम् इत्य् एवम् अनुभूयेत मुक्तता / सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते // Sअम्Uपद्_I,१८.१५९ //
SamUpad_I.18.160 SK देहादाव् अभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम् / कुण्डलिप्रत्ययो यद्वत् प्रत्यगात्माभिमानिना // Sअम्Uपद्_I,१८.१६० //
SamUpad_I.18.161 SK बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् / विपर्यये ऽसदन्तं स्यात् प्रमाणस्याप्रमाणतः // Sअम्Uपद्_I,१८.१६१ //
SamUpad_I.18.162 SK दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः / नैव ह्य् अन्यस्य दाहादाव् अन्यो दुःखी भवेत् क्वचित् // Sअम्Uपद्_I,१८.१६२ //
SamUpad_I.18.163 SK अस्पर्शत्वाद् अदेहत्वान् नाहं दाह्यो यतः सदा / तस्मान् मिथ्याभिमानोत्थं मृते पुत्रे मृतिर् यथा // Sअम्Uपद्_I,१८.१६३ //
SamUpad_I.18.164 SK कुण्डल्य् अहम् इति ह्य् एतद् बाध्येतैव विवेकिना / दुःखीति प्रत्ययस् तद्वत् केवलाहंधिया सदा // Sअम्Uपद्_I,१८.१६४ //
SamUpad_I.18.165 SK सिद्धे सुःखित्व इष्टं स्यात् तच्चक्तित्वं सदात्मनः / मिथ्याभिमानतो दुःखी तेनार्थापादनक्षयः // Sअम्Uपद्_I,१८.१६५ //
SamUpad_I.18.166 SK अस्पर्शो ऽपि यथा स्पर्शम् अचलश् चलनादि च / अविवेकात् तथा दुःखं मानसं चात्मनीक्षते // Sअम्Uपद्_I,१८.१६६ //
SamUpad_I.18.167 SK विवेकात्मधिया दुःखं नुद्यते चलनादिवत् / अविवेकस्वभावेन मनो गच्छत्य् अनिच्छतः // Sअम्Uपद्_I,१८.१६७ //
SamUpad_I.18.168 SK तदानुदृश्यते दुःखं नैश्चल्ये नैव तस्य तत् / प्रत्यगात्मनि तस्मात् तद् दुःखं नैवोपपद्यते // Sअम्Uपद्_I,१८.१६८ //
SamUpad_I.18.169 SK त्वंसतोस् तुल्यनीडत्वान् नीलाश्ववद् इदं भवेत् / निर्दुःखवाचिना योगात् त्वंशब्दस्य तदर्थता // Sअम्Uपद्_I,१८.१६९ //
SamUpad_I.18.170 SK प्रत्यगात्माभिधानेन तच्छब्दस्य युतेस् तथा / दशमस् त्वम् असीत्य् एवं वाक्यं स्यात् प्रत्यगात्मनि // Sअम्Uपद्_I,१८.१७० //
SamUpad_I.18.171 SK स्वार्थस्य ह्य् अप्रहाणेन विशिष्टार्थसमर्पकौ / प्रत्यगात्मावगत्यन्तौ नान्यो ऽर्थो ऽर्थाद् विरोध्य् अतः // Sअम्Uपद्_I,१८.१७१ //
SamUpad_I.18.172 SK नवबुद्ध्यपहाराद् धि स्वात्मानं दशपूरणम् / अपश्यञ् ज्ञातुम् एवेच्छेत् स्वम् आत्मानं जनस् तथा // Sअम्Uपद्_I,१८.१७२ //
SamUpad_I.18.173 SK अविद्याबद्धचक्षुष्ट्वात् कामापहृतधीः सदा / विविक्तं दृशिम् आत्मानं नेक्षते दशमं यथा // Sअम्Uपद्_I,१८.१७३ //
SamUpad_I.18.174 SK दशमस् त्वम् असीत्य् एवं तत्त्वमस्यादिवाक्यतः / स्वम् आत्मानं विजानाति कृत्स्नान्तःकरणेक्षणम् // Sअम्Uपद्_I,१८.१७४ //
SamUpad_I.18.175 SK इदं पूर्वम् इदं पश्चात् पदं वाक्ये भवेद् इति / नियमो नैव वेदे ऽस्ति पदसांगत्यम् अर्थतः // Sअम्Uपद्_I,१८.१७५ //
SamUpad_I.18.176 SK वाक्ये हि श्रूयमाणानां पदानाम् अर्थसंस्मृतिः / अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् // Sअम्Uपद्_I,१८.१७६ //
SamUpad_I.18.177 SK यदा नित्येषु वाक्येषु पदार्थस् तु विविच्यते / वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते // Sअम्Uपद्_I,१८.१७७ //
SamUpad_I.18.178 SK अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु / स्मृत्यभावे न वाक्यार्थो ज्ञातुं शक्यो बि केनचित् // Sअम्Uपद्_I,१८.१७८ //
SamUpad_I.18.179 SK तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः / व्यज्यते नैव वाक्यार्थो नित्यमुक्तो ऽहम् इत्य् अतः // Sअम्Uपद्_I,१८.१७९ //
SamUpad_I.18.180 SK अन्वयव्यतिरेकोक्तिस् तद्विवेकाय नान्यथा / त्वंपदार्थविवेके हि पाणाव् अर्पितविल्ववत् // Sअम्Uपद्_I,१८.१८० //
SamUpad_I.18.181 SK वाक्यार्थो व्यज्यते चैवं केवलो ऽहंपदार्थतः / दुःखीत्य् एतदपोहेन प्रत्यगात्मविनिश्चयात् // Sअम्Uपद्_I,१८.१८१ //
SamUpad_I.18.182 SK तत्रैवं संभवत्य् अर्थे श्रुतहानाश्रुतार्थधीः / नैवं कल्पयितुं युक्ता पदवाक्यार्थकोविदैः // Sअम्Uपद्_I,१८.१८२ //
SamUpad_I.18.183 SK प्रत्यक्षादीनि बाधेरन् कृष्णलादिषु पाकवत् / अक्षजादिनिभैर् एतैः कथं स्याद् वाक्यबाधनम् // Sअम्Uपद्_I,१८.१८३ //
SamUpad_I.18.184 SK दुःख्य् अस्मीति सति ज्ञाने निर्दुःखीति न जायते / प्रत्यक्षादिनिभत्वे ऽपि वाक्यान् न व्यभिचारतः // Sअम्Uपद्_I,१८.१८४ //
SamUpad_I.18.185 SK स्वप्ने दुःख्य् अहम् अद्यासं दाहच्छेदादिहेतुतः / तत्कालभाविभिर् वाक्यैर् न बाधः क्रियते यदि // Sअम्Uपद्_I,१८.१८५ //
SamUpad_I.18.186 SK समाप्तेस् तर्हि दुःखस्य प्राक् च तद्बाध इष्यताम् / न हि दुःखस्य संतानो भ्रान्तेर् वा दृश्यते क्वचित् // Sअम्Uपद्_I,१८.१८६ //
SamUpad_I.18.187 SK प्रत्यगात्मन आत्मत्वं दुःख्य् अस्मीत्य् अस्य बाधया / दशमं नवम् अस्येव वेद चेद् अविरुद्धता // Sअम्Uपद्_I,१८.१८७ //
SamUpad_I.18.188 SK नित्यमुक्तत्वविज्ञानं वाक्याद् भवति नान्यतः / वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् // Sअम्Uपद्_I,१८.१८८ //
SamUpad_I.18.189 SK अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् / एवं निर्दुःखम् आत्मानम् अक्रियं प्रतिपद्यते // Sअम्Uपद्_I,१८.१८९ //
SamUpad_I.18.190 SK सद् एवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् / दशमस् त्वम् असीत्य् अस्माद् यथैवं प्रत्यगात्मनि // Sअम्Uपद्_I,१८.१९० //
SamUpad_I.18.191 SK प्रबोधेन यथा स्वाप्नं सर्वं दुःखं निवर्तते / प्रत्यगात्मधिया तद्वद् दुःखित्वं सर्वदात्मनः // Sअम्Uपद्_I,१८.१९१ //
SamUpad_I.18.192 SK कृष्णलादौ प्रमाजन्म तदन्यार्थामृदुत्वतः / तत्त्वमस्यादिवाक्येषु न त्व् एवम् अविरोधतः // Sअम्Uपद्_I,१८.१९२ //
SamUpad_I.18.193 SK वाक्ये तत् त्वम् असीत्य् अस्मिञ् ज्ञातार्थं तदसिद्वयम् / त्वमर्थस्मृत्यसाहाय्याद् वाक्यं नोत्पादयेत् प्रमाम् // Sअम्Uपद्_I,१८.१९३ //
SamUpad_I.18.194 SK तत्त्वमोस् तुल्यनीडार्थम् असीत्य् एतत् पदं भवेत् / तच्छब्दः प्रत्यगात्मार्थस् तच्छब्दार्थस् त्वमस् तथा // Sअम्Uपद्_I,१८.१९४ //
SamUpad_I.18.195 SK दुःखित्वाप्रत्यगात्मत्वं वारयेताम् उभाव् अपि / एवं च नेतिनेत्यर्थं गमयेतां परस्परम् // Sअम्Uपद्_I,१८.१९५ //
SamUpad_I.18.196 SK एवं तत् त्वम् असीत्य् अस्य गम्यमाने फले कथम् / अप्रमाणत्वम् अस्योक्त्वा क्रियापेक्षत्वम् उच्यते // Sअम्Uपद्_I,१८.१९६ //
SamUpad_I.18.197 SK तस्माद् आद्यन्तमध्येषु कुर्व् इत्य् एतद् विरोध्य् अतः / न कल्प्यम् अश्रुतत्वाच् च श्रुतत्यागो ऽप्य् अनर्थकः // Sअम्Uपद्_I,१८.१९७ //
SamUpad_I.18.198 SK यथानुभूयते तृप्तिर् भुजेर् वाक्यान् न गम्यते / वाक्यस्य विधृतिस् तद्वद् गोशकृत्पायसीक्रिया // Sअम्Uपद्_I,१८.१९८ //
SamUpad_I.18.199 SK सत्यम् एवम् अनात्मार्थे वाक्यात् पारोक्ष्यबोधनम् / प्रत्यगात्मनि न त्व् एवं संख्याप्राप्तिवद् अध्रुवम् // Sअम्Uपद्_I,१८.१९९ //
SamUpad_I.18.200 SK स्वसंवेद्यत्वपर्यायः / स्वप्रमाणक इष्यताम् / निवृत्ताव् अहमः सिद्धः स्वात्मनो ऽनुभवश् च नः // Sअम्Uपद्_I,१८.२०० //
SamUpad_I.18.201 SK बुद्धीनां विषयो दुःखं ता यस्य विषया मताः / कुतो ऽस्य दुःखसंबन्धो दृशेः स्यात् प्रत्यगात्मनः // Sअम्Uपद्_I,१८.२०१ //
SamUpad_I.18.202 SK दृशिर् एवानुभूयेत स्वेनैवानुभवात्मना / तदाभासतया जन्म धियो ऽस्यानुभवः स्मृतः // Sअम्Uपद्_I,१८.२०२ //
SamUpad_I.18.203 SK अशनायादिनिर्मुक्तः सिद्धो मोक्षस् त्वम् एव सः / श्रोतव्यादि तवेत्य् एतद् विरुद्धं कथम् उच्यते // Sअम्Uपद्_I,१८.२०३ //
SamUpad_I.18.204 SK सेत्स्यतीत्य् एव चेत् तत् स्याच् छ्रवणादि तदा भवेत् / मोक्षस्यानित्यतैवं स्याद् विरोध्य् एवान्यथा वचः // Sअम्Uपद्_I,१८.२०४ //
SamUpad_I.18.205 SK श्रोतृश्रोतव्ययोर् भेदो यदीष्टः स्याद् भवेद् इदम् / इष्टार्थकोप एवं स्यान् न युक्तं सर्वथा वचः // Sअम्Uपद्_I,१८.२०५ //
SamUpad_I.18.206 SK सिद्धो मोक्षो ऽहम् इत्य् एवं ज्ञात्वात्मानं भवेद् यदि / चिकीर्षुर् यः स मूढात्मा शास्त्रं चोद्घाटयत्य् अपि // Sअम्Uपद्_I,१८.२०६ //
SamUpad_I.18.207 SK न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता / उभयालम्बनं कुर्वन्न् आत्मानं वञ्चयत्य् असौ // Sअम्Uपद्_I,१८.२०७ //
SamUpad_I.18.208 SK सिद्धो मोक्षस् त्वम् इत्य् एतद् वस्तुमात्रं प्रदर्श्यते / श्रोतुस् तथात्वविज्ञाने प्रवृत्तिः स्यात् कथं त्व् इति // Sअम्Uपद्_I,१८.२०८ //
SamUpad_I.18.209 SK कर्ता दुःख्य् अहम् अस्मीति प्रत्यक्षेणानुभूयते / कर्ता दुःखी च मा भूवम् इति यत्नो भवेत् ततः // Sअम्Uपद्_I,१८.२०९ //
SamUpad_I.18.210 SK तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिर् अब्रवीत् / कर्तृत्वाद्यनुवादेन सिद्धत्वानुभवाय तु // Sअम्Uपद्_I,१८.२१० //
SamUpad_I.18.211 SK निर्दुःखो निष्क्रियो ऽकामः सिद्धो मोक्षो ऽहम् इत्य् अपि / गृहीत्वैव विरुद्धार्थम् आदध्यात् कथम् एव सः // Sअम्Uपद्_I,१८.२११ //
SamUpad_I.18.212 SK सकामः सक्रियो ऽसिद्ध इति मे ऽनुभवः कथम् / अतो मे विपरीतस्य तद् भवान् वक्तुम् अर्हति // Sअम्Uपद्_I,१८.२१२ //
SamUpad_I.18.213 SK इहैव घटते प्रश्नो न मुक्तत्वानुभूतये / प्रमाणेन विरोधी यः सो ऽत्रार्थः प्रश्नम् अर्हति // Sअम्Uपद्_I,१८.२१३ //
SamUpad_I.18.214 SK अहं निर्मुक्त इत्य् एष सद् असीत्य् अन्यमानजः / प्रत्यक्षाभासजन्यत्वाद् दुःखित्वं प्रश्नम् अर्हति // Sअम्Uपद्_I,१८.२१४ //
SamUpad_I.18.215 SK पृष्टम् आकाङ्क्षितं वाच्यं दुःखाभावम् अभीप्सितम् / कथं हीदं निवर्तेत दुःखं सर्वात्मना मम // Sअम्Uपद्_I,१८.२१५ //
SamUpad_I.18.216 SK इति प्रश्नानुरूपं यद् वाच्यं दुःखनिवर्तकम् / श्रुतेः स्वात्मनि नाशङ्का प्रामाण्ये सति विद्यते // Sअम्Uपद्_I,१८.२१६ //
SamUpad_I.18.217 SK तस्माद् आत्मविमुक्तत्वं प्रत्याययति तद्वचः / वक्तव्यं तु तथार्थं स्याद् विरोधे ऽसति केनचित् // Sअम्Uपद्_I,१८.२१७ //
SamUpad_I.18.218 SK इतो ऽन्यो ऽनुभवः कश्चिद् आत्मनो नोपपद्यते / अविज्ञातं विजानतां विज्ञातारम् इति श्रुतेः // Sअम्Uपद्_I,१८.२१८ //
SamUpad_I.18.219 SK त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् / साधनत्वं व्रजत्य् एव शान्तो दान्तादिशासनात् // Sअम्Uपद्_I,१८.२१९ //
SamUpad_I.18.220 SK त्वमर्थं प्रत्यगात्मानं पश्येद् आत्मानम् आत्मनि / वाक्यार्थं तत आत्मानं सर्वं पश्यति केवलम् // Sअम्Uपद्_I,१८.२२० //
SamUpad_I.18.221 SK सर्वम् आत्मेति वाक्यार्थे विज्ञाते ऽस्य प्रमाणतः / असत्त्वे ह्य् अन्यमानस्य विधिस् तं योजयेत् कथम् // Sअम्Uपद्_I,१८.२२१ //
SamUpad_I.18.222 SK तस्माद् वाक्यार्थविज्ञानान् नोर्ध्वं कर्मविधिर् भवेत् / न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियौ // Sअम्Uपद्_I,१८.२२२ //
SamUpad_I.18.223 SK ब्रह्मास्मीति हि विद्येयं नैव कर्तेति बाध्यते / सकामो बद्ध इत्य् एवं प्रमाणाभासजातया // Sअम्Uपद्_I,१८.२२३ //
SamUpad_I.18.224 SK शास्त्राद् ब्रह्मास्मि नान्यो ऽहम् इति बुद्धिर् भवेद् दृढा / यदायुक्ता तदैवं धीर् यथा देहात्मधीर् इति // Sअम्Uपद्_I,१८.२२४ //
SamUpad_I.18.225 SK सभयाद् अभयं प्राप्तस् तदर्थं यतते च यः / स पुनः सभयं गन्तुं स्वतन्त्रश् चेन् न हीच्छति // Sअम्Uपद्_I,१८.२२५ //
SamUpad_I.18.226 SK यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः / पदार्थाज्ञानबुद्धस्य वाक्यार्थानुभवार्थिनः // Sअम्Uपद्_I,१८.२२६ //
SamUpad_I.18.227 SK अतः सर्वम् इदं सिद्धं यत् प्राग् अस्माभिर् ईरितम् // Sअम्Uपद्_I,१८.२२७ //
SamUpad_I.18.228 SK यो हि यस्माद् विरक्तः स्यान् नासौ तस्मै प्रवर्तते / लोकत्रयाद् विरक्तत्वान् मुमुक्षुः किम् इतीहते // Sअम्Uपद्_I,१८.२२८ //
SamUpad_I.18.229 SK क्षुधया पीड्यमानो ऽपि न विषं ह्य् अत्तुम् इच्छति / मिष्टान्नध्वस्ततृड् जानन् नामूढस् तज् जिघत्सति // Sअम्Uपद्_I,१८.२२९ //
SamUpad_I.18.230 SK वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम् / उज्जहारालिवद् यो नस् तस्मै सद्गुरवे नमः // Sअम्Uपद्_I,१८.२३० //
SamUpad_I.18 SK इति तत्त्वमसिप्रकरणम् // Sअम्Uपद्_I,१८ //
SamUpad_I.19.1 SK प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम् / न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम् // Sअम्Uपद्_I,१९.१ //
SamUpad_I.19.2 SK अहं ममेति त्वम् अनर्थम् ईहसे परार्थम् इच्छन्ति तवान्य ईहितम् / न ते ऽर्थबोधो न हि मे ऽस्ति चार्थिता ततश् च युक्तः शम एव ते मनः // Sअम्Uपद्_I,१९.२ //
SamUpad_I.19.3 SK यतो न चान्यः परमात् सनातनात् सदैव तृप्तो ऽहम् अतो न मे ऽर्थिता / सदैव मुक्तश् च न कामये हितं यतस्व चेतः प्रशमाय ते ऽधिकम् // Sअम्Uपद्_I,१९.३ //
SamUpad_I.19.4 SK षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश् च नः श्रुतेः / प्रमाणतश् चापि मया प्रवेद्यते मुधैव तस्माच् च मनस् तवेहितम् // Sअम्Uपद्_I,१९.४ //
SamUpad_I.19.5 SK त्वयि प्रशान्ते न हि सास्ति भेदधीर् यतो जगन् मोहम् उपैति मायया / ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित् // Sअम्Uपद्_I,१९.५ //
SamUpad_I.19.6 SK न मे ऽस्ति मोहस् तव चेष्टितेन हि प्रबुद्धतत्त्वस् त्व् असितो ह्य् अविक्रियः / न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस् तवेहितम् // Sअम्Uपद्_I,१९.६ //
SamUpad_I.19.7 SK यतश् च नित्यो ऽहम् अतो न चान्यथा विकारयोगे हि भवेद् अनित्यता / सदा प्रभातो ऽहम् अतो हि चाद्वयो विकल्पितं चाप्य् असद् इत्य् अवस्थितम् // Sअम्Uपद्_I,१९.७ //
SamUpad_I.19.8 SK अभावरूपं त्वम् असीह हे मनो निरीक्ष्यमाणे न हि युक्तितो ऽस्तिता / सतो ह्य् अनाशाद् असतो ऽप्य् अजन्मतो द्वयं च ते ऽतस् तव नास्तितेष्यते // Sअम्Uपद्_I,१९.८ //
SamUpad_I.19.9 SK द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस् तव कल्पितो हि सः / दृशेश् च भिन्नं न हि दृश्यम् ईक्ष्यते स्वपन् विबोधे च तथा न भिद्यते // Sअम्Uपद्_I,१९.९ //
SamUpad_I.19.10 SK विकल्पना चापि तथाद्वया भवेद् अवस्तुयोगात् तद् अलातचक्रवत् / न शक्तिभेदो ऽस्ति यतो न चात्मनां ततो ऽद्वयत्वं श्रुतितो ऽवसीयते // Sअम्Uपद्_I,१९.१० //
SamUpad_I.19.11 SK मिथश् च भिन्ना यदि ते हि चेतनाः क्षयस् तु तेषां परिमाणयोगतः / ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश् चापि समस्तमोक्षतः // Sअम्Uपद्_I,१९.११ //
SamUpad_I.19.12 SK न मे ऽस्ति कश्चिन् न च सो ऽस्मि कस्यचिद् यतो ऽद्वयो ऽहं न हि चास्ति कल्पितम् / अकल्पितश् चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयम् एव कल्पितम् // Sअम्Uपद्_I,१९.१२ //
SamUpad_I.19.13 SK विकल्पना चाप्य् अभवे न विद्यते सद् अन्यद् इत्य् एवम् अतो न नास्तिता / यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर् न च तद् विकल्पितम् // Sअम्Uपद्_I,१९.१३ //
SamUpad_I.19.14 SK असद् द्वयं ते ऽपि हि यद् यद् ईक्ष्यते न दृष्टम् इत्य् एव न चैव नास्तिता / यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत् // Sअम्Uपद्_I,१९.१४ //
SamUpad_I.19.15 SK सद् अभ्युपेतं भवतोपकल्पितं विचारहेतोर् यदि तस्य नास्तिता / विचारहानाच् च तथैव संस्थितं न चेत् तद् इष्टं नितरां सद् इष्यते // Sअम्Uपद्_I,१९.१५ //
SamUpad_I.19.16 SK असत्समं चैव सद् इत्य् अपीति चेद् अनर्थवत्त्वात् खरशृङ्गतुल्यतः / अनर्थवत्त्वं त्व् असति ह्य् अकारणं न चैव तस्मान् न विपर्यये ऽन्यथा // Sअम्Uपद्_I,१९.१६ //
SamUpad_I.19.17 SK असिद्धतश् चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया / श्रुतेः स्मृतेश् चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यते ऽन्यथा // Sअम्Uपद्_I,१९.१७ //
SamUpad_I.19.18 SK विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश् च विकल्पतो ऽद्वयम् / न चेति नेतीति तथा विकल्पितं निषिध्यते ऽत्राप्य् अवशेषसिद्धये // Sअम्Uपद्_I,१९.१८ //
SamUpad_I.19.19 SK अकल्पिते ऽप्य् एवम् अजाद्वयाक्षरे विकल्पयन्तः सद् असच् च जन्मभिः / स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम् // Sअम्Uपद्_I,१९.१९ //
SamUpad_I.19.20 SK भवाभवत्वं तु न चेद् अवस्थितिर् न तस्य चान्यस् त्व् इति जन्म नान्यथा / सतो ह्य् असत्त्वाद् असतश् च सत्त्वतो न च क्रिया कारकम् इत्य् अतो ऽप्य् अजम् // Sअम्Uपद्_I,१९.२० //
SamUpad_I.19.21 SK अकुर्वद् इष्टं यदि वास्य कारकं न किंचिद् अन्यन् ननु नास्त्य् अकारकम् / सतो ऽविशेषाद् असतश् च सच्च्युतौ तुलान्तयोर् यद्वद् अनिश्चयान् न हि // Sअम्Uपद्_I,१९.२१ //
SamUpad_I.19.22 SK न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ / विभक्तम् एतद् द्वयम् अप्य् अवस्थितं न जन्म तस्माच् च मनो हि कस्यचित् // Sअम्Uपद्_I,१९.२२ //
SamUpad_I.19.23 SK अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस् तव चेष्टितेन मे / न हानवृद्धी न यतः स्वतो ऽसतो भवो ऽन्यतो वा यदि वास्तिता तयोः // Sअम्Uपद्_I,१९.२३ //
SamUpad_I.19.24 SK ध्रुवा ह्य् अनित्याश् च न चान्ययोगिनो मिथश् च कार्यं न च तेषु युज्यते / अतो न कस्यापि हि किंचिद् इष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम् // Sअम्Uपद्_I,१९.२४ //
SamUpad_I.19.25 SK समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात् / निरीक्ष्य युक्त्या श्रुतितश् च बुद्धिमान् अशेषनिर्वाणम् उपैति दीपवत् // Sअम्Uपद्_I,१९.२५ //
SamUpad_I.19.26 SK अवेद्यम् एकं यद् अनन्यवेदिनां कुतार्किकाणां च सुवेद्यम् अन्यथा / निरीक्ष्य चेत्थं त्व् अगुणग्रहो ऽगुणं न याति मोहं ग्रहदोषमुक्तितः // Sअम्Uपद्_I,१९.२६ //
SamUpad_I.19.27 SK अतो ऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर् ग्रह एव कारणम् / ग्रहो ऽप्य् अहेतुर् ह्य् अनलस् त्व् अनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत् // Sअम्Uपद्_I,१९.२७ //
SamUpad_I.19.28 SK विमथ्य वेदोदधितः समुद्धृतं सुरैर् महाब्धेस् तु यथा महात्मभिः / तथामृतं ज्ञानम् इदं हि यैः पुरा नमो गुरुभ्यः परम् ईक्षितं च यैः // Sअम्Uपद्_I,१९.२८ //
SamUpad_I.19 SK इति ज्वरनाशप्रकरणम् // Sअम्Uपद्_I,१९ //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Upadeśasāhasrī: corpustei HTML transform of the Upadeśasāhasrī.
Source