Verses on the Recognition of the Lord, with Autocommentary

Īśvarapratyabhijñākārikā with Vṛtti · ईश्वरप्रत्यभिज्ञाकारिका (सवृत्तिः)

Verses on the Recognition of the Lord, with Autocommentary

Īśvarapratyabhijñākārikā with Vṛtti

ईश्वरप्रत्यभिज्ञाकारिका (सवृत्तिः)

iti jñānādhikāre ṣaṣṭham āhnikam

SK
या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः //
SK
Iप्व्: तत्तत्पदार्थक्रमाच्छुरितश् चैषो ऽन्तःस्थित एव आभासः सर्वसंवित्कालव्याप्यक्रमानन्तचिन्मय आत्मसंज्ञः प्रमाता स्वाङ्गभूते प्रमेये निर्मातृतया महेश्वरश् च //
SK
तत्तद्विभिन्नसंवित्तिमुखैर् एकप्रमातरि प्रतितिष्ठत्सु भावेषु ज्ञातेयम् उपपद्यते //
SK
Iप्व्: अनेकसंवित्स्रोतोमुखैर् एकप्रमातृसिन्धुम् उपलीय भावभेदाः कार्यकारणतादिव्यवहारसमन्वयं भजन्ते //
SK
देशकालक्रमजुषाम् अर्थानां स्वसमापिनाम् सकृदाभाससाध्यो ऽसाव् अन्यथा कः समन्वयः //
SK
Iप्व्: स्वरूपम् अवभासनं च भावानां स्वात्मपरिनिष्ठितम् एव / युगपदेकाभासनिबन्धनश् चैषां समन्वयः / स अभिन्नः प्रमातृलीनतया कल्पते /
SK
प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् कार्यकारणतासिद्धिहेतुतैकप्रमातृजा //
SK
Iप्व्: कार्यकारणभाव इव तत्सिद्धिर् अपि प्रत्यक्षानुपलम्भैर् एकप्रमातृमुखेन समन्वयम् आगत्य क्रियते, असमन्विताः प्रत्यक्षानुपलम्भाः क्रमिकस्वविषयमात्रज्ञापनक्षीणा नान्योन्यापेक्षोपलक्षणक्षमाः //
SK
स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे पूर्वानुभवसद्भावे साधनं सैव नापरम् //
SK
Iप्व्: पूर्वानुभस्वसंवेदनस्य अभावात् स्मृतिस्वसंवेदनम् एव अत्रैकार्थाभासमयप्रमातृरूपं स्मृतिस्वरूप इव प्रमाणम् / स्मृतेः पूर्वानुभवाभासाभावे कार्यकारणभावासिद्धेर् न कार्यलिङ्गता //
SK
बाध्यबाधकभावो ऽपि स्वात्मनिष्ठाविरोधिनाम् ज्ञानानाम् उदियाद् एकप्रमातृपरिनिष्ठितेः //
SK
Iप्व्: भिन्नस्वाभासमात्रनिष्ठानां ज्ञानानां को विरोधः, तत् कथं बाध्यबाध्कत्वम् / एकप्रामातृविश्रान्तौ तु युक्तम् //
SK
विविक्तभूतलज्ञानं घटाभावमतिर् यथा तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् //
SK
Iप्व्: इह भूतले घटो नास्तीति घटाभावज्ञानं केवलभूतलज्ञानम् एव शून्यभूतलस्य घटाभावरूपत्वात् / तथैव यदि शुक्तिकारजतयोर् अपरस्परात्मत्वाच् छुक्तिकाज्ञानं रजताज्ञानम् इति प्रत्यक्षं बाधकम् //
SK
नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः //
SK
Iप्व्: केवलभूतलज्नानाद् भूतलस्याघटात्मता सिध्यति, न तु तत्राधारे भिन्नो दर्शनयोग्यो ऽपि घटो नास्ति //
SK
विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः तत् कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् //
SK
Iप्व्: भूतलम् अभूतलविविक्तं सदैव तत् कथं तज्ज्ञानं कदाचिद् एव तत्र भिन्नघटाभावं साधयेत् / भिन्नघटविविक्तता च भूतलस्य कदाचित् कं रूपं स्याद् यदि घटसहिततापि कदाचित् स्वरूपं भवेत्, न त्व् एवम् / पदार्तौ द्वव् एव स्वात्मपरिनिष्ठितौ, साहित्यं न तदतिरिक्तम् उभयात्मकम् एकरूपम् / ज्ञानम् एकं तूभयाभाससंसर्गात्मकम् अप्य् एकाभासज्ञानान्तराभावरूपम् / वस्तु पुनः स्वात्मनिष्ठम् एव परिच्छिनत्तीति न वस्तुबलेन प्रदेशदर्शनात् प्रदेशसिद्धिवद् घटाभावसिद्धिः / उभयाभासैकज्ञानात्मककार्याभावात् तु स्यात् / न चैवं व्यवधानेन प्रतीतिः प्रदेशदर्शनाद् एव तत्सिद्धेः //
SK
किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् //
SK
Iप्व्: प्रदेशेष्व् आलोकपुरं सन्तमसे मृदुम् उष्णादिकं स्पर्शं वा घटरूपस्पर्शाभावात्मकम् अनुभूयालोकादि घटाभावो ऽत्रास्ति, घटो नास्तीति व्यवहर्तुं युक्तम् //
SK
पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा //
SK
Iप्व्: न चैवम् आलोकस्य पिशाचान्यत्वात् तत्र पिशाचनिषेधप्रसङ्गः, स ह्य् अदृश्यो ऽन्यत्वे ऽपि यथा मृद्गोलकस्याप्य् अन्तरनिवार्यस् तथालोकस्यान्तरे / ततस् तस्य अन्यमत इवास्मन्मते ऽपि नादृश्यत्वाद् अभावसिद्धिः //
SK
एवं रूप्यविदाभावरूपा शुक्तिमतिर् भवेत् न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका //
SK
Iप्व्: शुक्तिज्ञानम् एव रजतज्ञानाभावरूपं सिध्यति, तदानीन्तनशुक्तिज्ञानानुभवेन न भिन्नस्यातीतस्य रूप्यज्ञानस्याप्रामाण्यम् //
SK
धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा //
SK
Iप्व्: शुक्तिकाज्ञानकाले च न पूर्वं रजतज्ञानम् अस्ति / ततः स धर्मी न सिद्ध इति नानुमानेन बाधा, एकप्रमातृमयस्वसंवेदने त्व् एकदेशावष्टम्भ्युभयज्ञानमयसंबन्धभासनात् सिध्यति / पश्चात्संवादः प्रत्यक्षस्वसंवेदने पूर्वस्यापि तस्य भासनाद् एकं प्रमाणम् इतरद् अन्यथेति भवति / संवादो ऽप्य् एकप्रमातृकृतः //
SK
इत्थम् अत्यर्थभिन्नार्था-वभासखचिते विभौ समलो विमलो वापि व्यवहारो ऽनुभूयते //
SK
Iप्व्: मायाशक्त्या भेदविषयो ऽयं सर्वो व्यवहारस् तथाज्ञानैनां शुद्धो ऽज्ञानान्धानां तु मलिनस् तत्तद्भिन्नार्थावभासभाजि भगवति संभाव्यते ऽनुभवेन //
SK
इति ज्ञानाधिकारे सप्तमम् आह्निकम् //
SK
तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्व चित् आभासा अन्यथान्यत्र त्व् अन्धान्धतमसादिषु //
SK
Iप्व्: आभासाः कदाचित् सन्निहितप्रत्यक्षाक्षिप्ता घटो ऽयम् इति व्यवहारहेतवः, अन्धतमसादौ तु पूर्वानुभवोत्थिताः //
SK
विशेषो ऽर्थावभासस्य सत्तायां न पुनः क्व चित् विकल्पेषु भवेद् भाविभवद्भूतार्थगामिषु //
SK
Iप्व्: स्मृत्युत्प्रेक्षारूपेषु प्रत्यक्षपृष्ठपातिषु स्वतन्त्रेषु वान्येषु विकल्पेषु कालत्रयविषयेष्व् अर्थावभासो ऽन्तस् तुल्य एवावस्थितः //
SK
सुखादिषु च सौख्यादिहेतुष्व् अपि च वस्तुषु अवभासस्य सद्भावे ऽप्य् अतीतत्वात् तथा स्थितिः //
SK
Iप्व्: सुखदुःखाद्याभासास् तत्साधनाभासाश् च सदैवान्तः सन्तो ऽपि न तदाह्लादादिमयीं स्थितिं कुर्वन्त्य् अतीतत्वाद् बहिस् तदानीम् अभावात् तदात्वविशिष्टानां च तथाकारित्वात् //
SK
गाढम् उल्लिख्यमाने तु विकल्पेन सुखादिके तथा स्थितिस् तथैव स्यात् स्फुटम् अस्योपलक्षणात् //
SK
Iप्व्: कुतश् चित् प्रयत्ननिवेशात् स्वतन्त्रविकल्पोल्लिखितं स्फुटम् एव सुखादि जातं विकासादिहेतुः //
SK
भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा //
SK
Iप्व्: सर्वेषाम् आभासानां भावाभावविषयानाम् अबहीरूपत्वे ऽपि सत्तास्त्य् एव स्मृत्यादौ, बाह्यत्वम् हि तेषाम् उपाधिर् न स्वरूपम् / अभावाभासस्यान्तःसत्तायाम् अपि बहिरभावात् तथात्वम् //
SK
आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः //
SK
Iप्व्: अन्तश् च सर्वेषाम् एव नीलसुखाद्या भासानाम् सदा सत्त्वे ऽपि प्रमातृमात्ररूपत्वात् कार्यकारणादिभेदाश्रया नार्थक्रिया, प्रमातुर् भेदे ऽपि बौद्धचाक्षुषत्वादिभेदेनाभासभेदाद् आभासाश्रितार्थकारितापि भिद्यते रूपादीनाम् //
SK
चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ //
SK
Iप्व्: चित्स्वरूपत्वेनाभासानां सदान्तस्तत्त्व एव स्थितिः / मायाशक्त्या बहिः प्रत्यक्षत्वेन प्रकाश्यमानेषु भावेषु प्रकाशाव्यतिरिक्तेषु बहिराभास इत्य् उच्यते, तद् अपि तेषाम् आन्तरत्वम् एव सिसृक्षादौ तु भावानाम् अपि //
SK
विकल्पे यो ऽयम् उल्लेखः सो ऽपि बाह्यः पृथक्प्रथः प्रमात्रैकात्म्यम् आन्तर्यं ततो भेदो हि बाह्यता //
SK
Iप्व्: विकल्पे घटाद्युल्लेखश् चक्षुराद्यगोचरे ऽपि पृथगाभासाद् बाह्य एव / अहंविमर्शो ह्य् आन्तरत्वं, इदम् इति तु बाह्यता / एवं च घटादीनाम् उभयी बाह्यता बाह्यान्तःकरणद्वयीवेद्यता, सुखादेस् त्व् एकान्तःकरणवेद्यतैव //
SK
उल्लेखस्य सुखादेश् च प्रकाशो बहिर् आत्मना इच्छातो भर्तुर् अध्यक्षरूपो ऽक्षादिभुवां यथा //
SK
Iप्व्: उल्लेखसुखदुःखलज्जादीनां चाक्षुषानां रूपादीनाम् इवेश्वरस्य शक्त्या साक्षात्करणरूपो बौद्धः प्रकाशः //
SK
तदैक्येन विना न स्यात् संविदां लोकपद्धतिः प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् //
SK
Iप्व्: तत्तद्विभिन्नसंविदनुसन्धानेन हि व्यवहारः / एकश् च प्रकाशात्मा तदनुसन्धानरूपः स एव चैकः प्रमाता परमात्मसंज्ञः //
SK
स एव विमृशत्त्वेन नियतेन महेश्वरः विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः //
SK
Iप्व्: स परमात्मा चिद्रूपोविमर्शाख्येनैव मुख्यस्वभावेनाव्यबिचारिणा महेश्वरः / चित्तत्त्वस्य विश्वात्मनः शिवसंज्ञस्याहंविमर्शनम् एव शुद्धे ज्ञानक्रिये, भिन्नाभिन्नज्ञेयकार्यगते त्व् ईश्वरस्य शुद्धाशुद्धे, भिन्नार्थविषये तु पुंसः सत्त्वरजोवृत्तिरूपे प्रकाशप्रवृत्तिसंज्ञे तमसा संकुचिते ऽशुद्धे एव//
SK
इति ज्ञानाधिकारे ऽष्टमाह्निकम् //
SK
इति ज्ञानाधिकारः //
SK
अत एव यद् अप्य् उक्तं क्रिया नैकस्य सक्रमा एकेत्यादि प्रतिक्षिप्तं तद् एकस्य समर्थनात् //
SK
Iप्व्: एकचित्तत्त्वसमर्थनाद् एकसंबन्धी व्यापार एक एवेति क्रियाप्य् अपकृतदूषणा //
SK
सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः घटते न तु शाश्वत्याः प्राभव्याः स्यात् प्रभोर् इव //
SK
Iप्व्: मायाशक्तेर् भिन्नभावावभासानां क्रिया च कालशक्तिवशात् सक्रमा न त्व् आत्मविमर्शरूपानादिनिधना प्रभोः स्वभावभूता //
SK
कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः //
SK
Iप्व्: सा सा प्रसिद्धा क्रिया कालः शीतादि वा तदुपलक्षितः सर्वभिन्नावभासमानभावोपाधिभूतः क्रम एव वासौ तस्यैवोपयोगात् //
SK
क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः //
SK
Iप्व्: अन्योन्याभासशून्यभिन्नभावावभासवैचित्र्यक्रियैव प्रभोर् भावेषु क्रमहेतुः //
SK
मूर्तिवैचित्र्यतो देशक्रमम् आभासयत्य् असौ क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः //
SK
Iप्व्: अनेकस्यान्योन्यभेदाभासाद् देशक्रमः क्रियामुखेन कालक्रमो ऽपि / एकस्य तु भावस्य तत्तज्जन्मसत्ताविपरिणामादिक्रियाभेदात् कालक्रम एव //
SK
सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् //
SK
Iप्व्: सर्वत्रार्थे विचित्रो ऽवभासः शून्यदेहादेर् एव प्रमातुः कालक्रमाभासहेतुर्, स हि प्राक्कालो न तथा तदानीं भासते स्मृतिं विहाय स्ववर्तमानापेक्षया चासौ भूतभविष्यत्ते व्यवहरति / सकृद्विभातस्य तु भासनक्रियाविच्छेदाद् आवृत्तिगणनाभावान् नात्मनीवार्थेष्व् अपि कालभेदः /
SK
देशक्रमो ऽपि भावेषु भाति मातुर् मितात्मनः स्वात्मेव स्वात्मना पूर्णा भावा भान्त्य् अमितस्य तु //
SK
Iप्व्: परिमितं प्रमातरम् अपेक्ष्य भावस् ततो ऽन्योन्यं च भिन्ना दूरादिव्यपदेशभाजश् च, प्रकाशैकरूपत्वेन त्व् ईश्वरस्य न क्वाप्य् \वर्{क्वाप्य्\लेम् \एम् क्वप्य् \एद्} अप्रकाशसंभवात् परमाणव् अपि / प्रकाशघनस्य नात्मनो भिन्नं दूरं वान्यान्यतो वा किंचिद् आभाति //
SK
किं तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः तथा विज्ञातृविज्ञेयभेदो यद् अवभास्यते //
SK
Iप्व्: एवं पूर्णतया प्रकाशमानस्यापि परमेश्वरस्य सैषा सृष्टिशक्तिर् यज् ज्ञातृज्ञेयस्वभावा भावाः स्वतो ऽन्योन्यं च विभागेनावसीयन्ते, न च तथावसायेन तस्य स्वरूपस्थितिस् तिरोधीयते //
SK
इति क्रियाधिकारे प्रथमम् आह्निकम् //
SK
क्रियासंबन्धसामान्यद्रव्यदिक्कालबुद्धयः सत्याः स्थैर्योपयोगाभ्याम् एकानेकाश्रया मताः //
SK
Iप्व्: क्रियावद् अन्ये ऽपि संबन्धादय एकानेकविषया अपि सत्याभासाः, सर्वदोपयोगिनाम् एषाम् अर्थवत्त्वेनापरिहरणीयत्वात् //
SK
तत्रैकम् आन्तरं तत्त्वं तद् एवेन्द्रियवेद्यताम् संप्राप्यानेकतां याति देशकालस्वभावतः //
SK
Iप्व्: अभिन्नम् एव तत्त्वम् अन्तो बहिर् आभासभेदाद् एकानेकम्, बहिर्देशकालस्वभावभेदाभाससंभेदमयैकैकः स्वलक्षणाभासानाम् अनेकत्वात् //
SK
तद्द्वयालम्बना एता मनो ऽनुव्यवसायि सत् करोति मातृव्यापारमयीः कर्मादिकल्पनाः //
SK
Iप्व्: मध्यस्थतयान्तर्बहिस्तत्त्वविषया मानस्यः क्रियादिकल्पनाः प्रमातृव्यापाररूपाः //
SK
स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि अन्योन्यान्वयरूपैक्ययुजः संबन्धधीपदम् //
SK
Iप्व्: राज्ञः पुरुष इत्यादिसंबन्धधियो ऽन्तःसमन्वयाद् ऐक्यं बहिः संबन्धिभेदं चालम्बन्ते //
SK
जातिद्रव्यावभासानाम् बहिर् अप्य् एकरूपताम् व्यक्त्येकदेशभेदं चाप्य् आलम्बन्ते विकल्पनाः //
SK
Iप्व्: गवश् चैत्र इति च मतयो बहिर् अपि गोमात्रैकघनपुरुषविशेषाकाराभासैक्यं स्वलक्षणावयवाभासबहुत्वं च परामृशन्ति //
SK
क्रियाविमर्शविषयः कारकाणां समन्वयः अवध्यवधिमद्भावा-न्वयालम्बा दिगादिधीः //
SK
Vऋ: काष्ठस्थलीदेवदत्तौदनानां पचतीत्य् अन्तःसमन्वयाद् बहिर्भेदाच् चैकानेकविषया क्रियामतिः / देशकालक्रमो ऽपि भावानाम् अवध्यवधिमद्रूपाणाम् अन्योन्यापेक्षः संबन्धभेद एव तथैवैकानेकमयः / जातिद्रव्यक्रियासंख्यादिमतयः सर्वा एव संबन्धविशेषसमवायविषया एव //
SK
एवम् एवर्थसिद्धिः स्यान् मातुर् अर्थक्रियार्थिनः भेदाभेदवतार्थेन तेन न भ्रान्तिर् ईदृशी //
SK
Iप्व्: एकानेकरूपैर् एव क्रियादिभिर् एवम् आभासानुगुण्यरूपः प्रमातुस् तदर्थिनो ऽर्थक्रियासंवादः / ततो न तद्बुद्धयो भ्रान्ताः //
SK
इति क्रियाधिकारे द्वितीयम् आह्निकम् //
SK
इदम् एतादृगित्येवं यद् वशाद् व्यवतिष्ठते वस्तु प्रमाणं तत् सो ऽपि स्वाभासो ऽभिनवोदयः //
SK
सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता //
SK
Iप्व्: यदायत्ता हि वस्तुनः स्वरूपेण नित्यताविशेषणैर् वा व्यवस्थाप्यमानता स प्रमातुः स्वत्वेनापूर्ववस्त्वाभासैव स्थितः प्रमाणम् / स एव चाभासो ऽयम् इति नित्य इति वा तथैव पृथक्तयाभिनवत्वेन च प्रमातर्य् उपरूढो विमर्शरूपताम् आपन्नो विमर्शभेदानुसार्यैकैकशब्दवाच्ये पृथक्पृथग् एव तिरस्कृतदेशादिभेदे तस्मिन्न् आभात एव सामान्यरूपे वस्तुनि स्वकार्थक्रियाप्राप्ते प्रमाणान्तरेणाबाधितस्थैर्या प्रमितिः प्रमातृव्यापारः //
SK
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते //
SK
Iप्व्: एकस्मिन्न् एव चैकप्रत्यवमर्शसामर्थ्योपपादिते वस्तुनि स्वेच्छावशाद् अर्थित्वानुरोधाद् वा नैपुण्यवशाद् वावभासभेदः //
SK
तथा हि
SK
दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः यथाभासा विभिद्यन्ते देशकालाविभेदिनः //
SK
तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः आभासभेदा भिन्नार्थकारिणस् ते पदं ध्वनेः //
SK
Iप्व्: एकस्मिन्न् एव घटादव् अर्थे ऽवधित्सावशाद् दीर्घता त्र्यश्रतापारिमाण्डल्यादि वाभाति, चिह्नव्यवधानछायामात्रार्थितायां पुरुष एवोर्ध्वतामात्रं प्रतिभाति, तत्कार्यार्थितायां तु न्यक्षेणेक्षमाणस्य पुरुषः / धूममात्रम् एव कस्य चिद् आभासते, तद्विदस् तु तार्णतादि मणिरूप्यादिविशेष इव / स च तथा भिद्यमानो ऽपि देशकालभेदं न स्पृशति / तथैव घट एव सन् नित्याभासो ऽन्यादृग् एव पटाद्यनन्ताशेषार्थसाधारँअः सत्तामात्रसाध्यसत्परामर्शाद्यर्थक्रियाकारी, तत्रैव घट इति चाभासो ऽन्तर्बहिष्करणज्ञेयः पृथुबुध्नोदराकारार्थसामान्यो ऽन्य एव यः पटादिषु नास्ति, काञ्चन इति चापरो यो मृण्मयादिषु नास्ति स च तथार्थितादिवशाद् ऐन्द्रियक एव जायते / एकैकश् चासव् आभास एकैकेन शब्देन व्यवहारार्थं तत्तन्नियतार्थक्रियार्थिभिर् अभिधीयते, घट इति न सत्ताभिधीयते न च काञ्चन इति घटाभासः / चैत्र इति बाल्यादिसाधारणो देशादिरहितस् तथैव च / ततो ऽर्थक्रिया भिन्ना //
SK
आभासभेदाद् वस्तूनां नियतार्थक्रिया पुनः सामानाधिकरण्येन प्रतिभासाद् अभेदिनाम् //
SK
Iप्व्: एकस्मिन्न् एव स्वलक्षणे प्रत्याभासं नियतिशक्त्या कार्यं नियमितं तथाभूतानेककार्यकृदाभासभेदाधिकरणम् एकं च / सामानाधिकरण्याभासवशाद् वस्तु / अनेकस्यैकता हि सामानाधिकरण्यम् //
SK
पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा अविरुद्धावभासानाम् एककार्या तथैक्यधीः //
SK
Iप्व्: भिन्नाः प्रदीपप्रभा अविभागेनावभासन्ते नदीप्रवाहाश् च सिन्धुबुद्धौ पानके च ते ते रसास्, तथा शौक्ल्यमहत्त्वपटत्वाद्यवभासाः परस्परानुप्रवेशक्षमाः, न तु नीलपीताद्यवभासास् तत्तदेककार्यैकद्रव्याभासभावेन कल्पन्ते प्रत्यक्ष एव / तद् एतत् सामानाधिकरण्यम् //
SK
तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता तत्तच्छब्दार्थताद्यात्मा प्रमाणाद् एकतो मतः //
SK
Iप्व्: कदा चिद् देशादिसहभावावछिन्नस्वलक्षणरूपविशेषत्यागेनैकसामान्यरूपाग्न्याभासमात्र एव त्रैलोक्यत्रैकाल्यगामित्वेन निजप्रमाणाद् एकस्माद् एव विशिष्टकार्यकारणतोष्णोर्ध्वभाग् अग्निशब्दवाच्यतादिस्वभावसिद्धिः //
SK
सा तु देशादिकाध्यक्ष-न्तरभिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः //
SK
Iप्व्: कायप्रवृत्तिः पुनो देशकालादिप्रत्यक्षभेदसाहित्येन स्वलक्षण एव तदर्थितया प्रमाणसमूहाद् एव / अनुमानाद् अपि धर्मिप्रत्यक्षविशिष्टाद् एव प्रवृत्तिः //
SK
दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना बाह्यान्तरतया दोषैर् व्यञ्जकस्यान्यथापि वा //
SK
भिन्नावभासच्छायानाम् अपि मुख्यावभासतः एकप्रत्यवमर्शाख्याद् एकत्वम् अनिवारितम् //
SK
Iप्व्: दूरान्तिकादिस्फुटास्फुटत्वादिना बहिरन्तश्चरत्वेन वाभासस्य च्छायामात्रभेदे ऽपि तन्मुख्यस्वभावरूपप्रत्यवमर्शैक्याद् अर्थानाम् ऐक्यम् अबाधितम् //
SK
अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् //
SK
Iप्व्: उल्लेखघटादीनां बाह्यार्थक्रियाविरहे ऽपि घटादितयैव, अस्वभाविकत्वात् तस्या ईश्वरेण प्रत्याभासं नियमितायाः //
SK
रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा //
SK
Iप्व्: रजते शुक्तौ च रजतावमर्शैक्येन रजतत्वे ऽपि पुनः शुक्तिदेशसङ्गतिबाधेनोपाधिसंवादाभावात् तद्बुद्धिर् अस्थैर्याद् भ्रान्ता / द्विचन्द्रे ऽपि नभोदेशासंवादान् मिथ्या //
SK
गुणैः शब्दादिभिर् भेदो जात्यादिभिर् अभिन्नता भावानाम् इत्थम् एकत्र प्रमातर्य् उपपद्यते //
SK
Iप्व्: भावानां शब्दरूपसंस्थानादिना भेदाक्षेपो जात्यादिना चैकताक्षेपो ऽनुभूयमानः प्रमात्रैक्ये घटते / अन्योन्यभेदव्यवस्थाप्य् अनुसंधानायत्ता //
SK
विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे //
SK
प्रमातरि पुराणे तु सर्वदा भातविग्रहे किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि //
SK
Iप्व्: अपूर्वाभासस्यासिद्धवस्तुसाधनान् नित्यावभासिनः प्रमातुर् न प्रमाणोपयोगः / तत्तन्नवाभासानां तत्तत्प्रमाणत्वात् कामं स प्रमाणम् अन्यस्य स्यान् न तु स्वात्मनः सदा सिद्धस्य, केवलं विभुः प्रमितौ स्वातन्त्र्यात् प्रमातैव / ते ते विचित्रा विश्वाभासास् तस्मिन् स्थायिनि वैचित्र्येणोपपद्यन्ते / तद् इच्छातो ऽपरावभासमानार्थानां तत्सारस्वरूपभ्रंशे मायाशक्तिवशाद् उन्मज्जननिमज्जने, तत्त्वतस् तस्यैवापराधीना सत्ता सदातनी विरुद्धप्राक्प्रध्वंसाभावादिप्रयोगात्, स अपि यावद् उपदिश्यते भावाभावाभ्यां तावत् स एव प्रमातृतां भजत उपदिदिक्षोर् अभावाद् उपदेशानुपपत्तेः //
SK
अप्रवर्तितपूर्वो ऽत्र केवलं मूढतावशात् शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते //
SK
Iप्व्: मायाव्यामोहवशात् केवलम् अस्मिन्न् आत्मनि प्रमातृरूपे शिवेश्वरादिव्यवहारो यो न प्रवर्तितः स शुद्धस्वातन्त्र्यादिहेतुप्रदर्शनेन भावनाद्युपदेशाय साध्यते //
SK
इति क्रियाधिकारे तृतीयम् आह्निकम् //
SK
एष चानन्तशक्तित्वाद् एवम् आभासयत्य् अमून् भावान् इच्छावशाद् एषा क्रिया निर्मातृतास्य सा //
SK
Iप्व्: प्रमाता चिद्रूपो ऽनन्तशक्तिर् ईश्वरः स्वेच्छावशात् तथा तान् भावान् आभासयेत् / सैव चेच्छाशक्तिर् निर्मातृताख्या क्रिया तस्य //
SK
जडस्य तु न सा शक्तिः सत्ता यद् असतः सतः कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः //
SK
Iप्व्: जडं प्रधानपरमाणुबीजादि तु न शक्तम् असतो निर्माणे, कर्तृत्वम् एव हि कारणत्वं कर्मतैव च कार्यत्वं न त्व् अन्यत् //
SK
यद् असत् तद् असद्युक्ता नासतः सत्स्वरूपता सतो ऽपि न पुनः सत्ता-लाभेनार्थो ऽथ चोच्यते //
SK
कार्यकारणता लोके सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः //
SK
Iप्व्: असतः सत्स्वभावता विरुद्धा सतश् च सिद्धा / सिद्धस्यैवान्तर्बाह्यान्तःकरणद्वयीवेद्यतापादनम् ईश्वरेणोत्पादनम् //
SK
एवम् एका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः एकस्यैवोभयाकारसहिष्णोर् अपपादिता //
SK
Iप्व्: सैषा क्रियान्तर्बहिःस्थितिरूपतया सक्रमाप्य् एकस्य स्वसंवित्सिद्धस्य कर्तुर् आभासछायाभेदे ऽप्य् ऐक्येन प्रत्यवमृश्यस्य कर्मणश् चैकस्य संनंधिनी तदभिन्नाश्रयत्वाद् एकत्वेन साधिता //
SK
बहिस् तस्यैव तत्कार्यं यद् अन्त यद् अपेक्षया प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः //
SK
Iप्व्: अर्थस्य बाह्यतापादनं कार्यत्वं, ततो बाह्यता कार्यता चैकापेक्षया प्रमातरम् अपेक्ष्य चान्तर्बहिर्व्यवहारः / ततस् तस्यैव कार्यम् //
SK
मातैव कारणं तेन स चाभासद्वयस्थितौ कार्यस्य स्थित एवैकस् तद् एकस्य क्रियोदिता //
SK
Iप्व्: एवं प्रमातैव कारणं स च बाह्यान्तरकार्याभासक्रमे ऽप्य् एक एवेत्य् एवम् अप्य् एकस्य कर्तुः सिद्धा क्रिया //
SK
अत एवाङ्कुरे ऽपीष्टो निमित्तं परमेश्वरः तद् अन्यस्यापि बीजादेर् हेतुता नोपपद्यते //
SK
Iप्व्: बाह्याभासतापादनम् उत्पादनम् इति चिद्रूपस्यैव कारणता ततो ऽङ्कुरादौ निमित्तकारणत्वेश्वरः कैश् चिद् इष्टो, न चापि बीजादेर् जडस्य कारणता निरनुसंधानस्य युक्ता //
SK
तथा हि कुम्भकारो ऽसाव् ऐश्वर्यैव व्यवस्थया तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् //
SK
Iप्व्: कुम्भकाररूपे प्रमातरि कारणे स्थिते ऽपि मृदादिसंस्कारापेक्षा घटस्येश्वरकृतनियतिसंज्ञमर्यादया न स्वभावेन //
SK
योगिनाम् अपि मृद्बीजे विनैवेच्छावशेन तत् घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् //
SK
Iप्व्: मृदाद्यनपेक्षस्य योगिनाम् इच्छामात्रेण घटादेः स्थिरस्य घटाद्यर्थक्रियाकारिणश् च निर्वृत्तिः //
SK
योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते कार्यं हेतुः स्वभावो वा-त एवोत्पत्तिमूलजः //
SK
Iप्व्: अत एव कार्यं स्वभावो वा तदुत्पत्तिगर्भो योगिनिर्मितत्वाभावनिश्चयाभावे हेत्वाभासः / तन्निश्चये पुन ईश्वरनियत्यपेक्षया हेतुता स्यात् //
SK
भूयस् तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् परोक्षाद् अप्य् अधिपतेर् धूमाभासादि नूतनम् //
SK
कार्यम् अव्यभिचार्यस्य लिङ्गम् अन्यप्रमातृगात् तदाभासस् तदाभासाद् एव त्व् अधिपतेः परः //
SK
Iप्व्: अवह्न्याभासस्फुरणपूर्वको ऽपि जायमानो धूमाभासो दूरादौ नियतिशक्त्या कृतसामर्थ्याद् अग्न्याभासाद् एव तद्देशगततत्तत्प्रमात्रन्तरसाधारणात् तस्यैव स अव्यभिचारेण गमको, जातरूढस् तु धूमाभासस् तद्वह्न्याभासस्यात्यन्तपरिक्षयात् तत्तत्प्रमात्रन्तरगाद् धूमाभासाद् एव परोक्षाद् अपि पूर्ववत् कृताधिपत्यात् //
SK
अस्मिन् सतीदम् अस्तीति कार्यकारणतापि या साप्य् अपेक्षाविहीनानां जाडानां नोपपद्यते //
SK
Iप्व्: अस्मिन् सतीदं भवतीति नियतं पौर्वापर्यं कृत्तिकारोहिन्युदययोर् अकार्यकारणयोर् अप्य् अस्तीति पूर्वस्य सामर्थ्ये परस्य सत्तेति स्यात् कार्यकारणभावस्, तच् चापेक्षारहितानां जाडानां न युक्तम् / एतावद् एतत् स्यात् पूर्वस्य सामर्थ्यं परस्य सत्ता न चैवं किंचिद् उक्तं स्यान् न च पूर्वस्य सामर्थ्यलक्षणः स्वभावः परसत्तारूपः //
SK
न हि स्वात्मैकनिष्ठानाम् अनुसन्धानवर्जिनाम् सदसत्तापदे ऽप्य् एष सप्तम्यर्थः प्रकल्प्यते //
SK
Iप्व्: सद् असद् वा कार्यं कारणम् अप्य् आत्मपर्यवसितं जडम् अनुसन्धानशून्यं नान्यापेक्षस्वभावं ततश् च नात्र प्रधानापेक्षामयो गुणविभक्त्यर्थो घटते //
SK
अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः क्रियाकारकभावाख्यो युक्तो भावसमन्वयः //
SK
Iप्व्: एकप्रमातृसंलग्नस् तु क्रियाकारकभावाख्यो विभक्त्यर्थो भूमिबीजोदकादीनां समन्वयो युक्तो न तु शुष्को ऽन्यः कार्यकारणभावः //
SK
परस्परस्वभावत्वे कार्यकारणयोर् अपि एकत्वम् एव भेदे हि नैवान्योन्यस्वरूपता //
SK
Iप्व्: कार्यकारणयोर् अन्योन्यरूपत्वे ऽप्य् एकतैव स्यान् न तद्भावः //
SK
एकात्मनो विभेदश् च क्रिया कालक्रमानुगा तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया //
SK
Iप्व्: एकस्वभावस्य भेदेन स्थितिः परिणामः कालकलितः क्रियैव, ततः परिणामे स्वतन्त्रस्य शाक्तिमतः कर्तृतैव हेतुना //
SK
न च युक्तं जडस्यैवं भेदाभेदविरोधतः आभासभेदाद् एकत्र चिदात्मनि तु युज्यते //
SK
Iप्व्: जडस्याभिन्नात्मनो भेदेनावस्थितेर् विरोधाद् अयुक्तं, स्वच्छे चिदात्मन्य् एकस्मिन्न् एवम् अनेकप्रतिबिम्बधारणेनाविरोधाद् युज्यते //
SK
वास्तवे ऽपि चिदेकत्वे न स्याद् आभासभिन्नयोः चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया //
SK
Iप्व्: एकस्मिञ् चित्तत्त्वे ऽप्य् अकस्माद् आभासभेदो न घटते, न च तत्र क्रियात्वम् / यदा तु स चिदात्मा तथाचिकीर्षया परामृशन् बहिर् आभासयति तदा तद् उपपद्यते / जडस्याप्य् अस्ति भवतीत्य् अस्याम् अपि सत्ताक्रियायां बुभूषायोगेन स्वातन्त्र्याभावाद् अकर्तृत्वं, तेन प्रमातैव तं भावयति तेन तेन वा हिमाचलादिना रूपेण स भवतीत्य् अत्र परमार्थः //
SK
इत्थं तथा घटपटा-द्याभासजगदात्मना तिष्ठासोर् एवम् इच्छैव हेतुता कर्तृता क्रिया //
SK
Iप्व्: चिद्वपुषः स्वतन्त्रस्य विश्वात्मना स्थातुम् इच्छैव जगत् प्रति कारणता कर्तृतारूपा सैव क्रियाशक्तिः / एवं चिद्रूपस्यैकस्य कर्तुर् एव चिकीर्षाख्या क्रिया मुख्या, नाकर्तृकं कर्मास्ति कर्मादीनां कर्तृमुखेनोपचारतः //
SK
इति क्रियाधिकारे चतुर्थम् आह्निकम् //
SK
इति क्रियाधिकारः //
SK
एवम् अन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा मातुर् एव तदन्योन्या-वियुक्ते ज्ञानकर्मणी //
SK
Iप्व्: प्रमातुर् अन्तःस्थितस्यात्मनो बहिष्कार एव क्रमानुगता क्रियेति परस्पराविरहिते तस्य ज्ञानक्रिये //
SK
किं त्व् आन्तरदशोद्रेकात् सादाख्यं तत्त्वम् आदितः बहिर्भावपरत्वे तु परतः पारमेश्वरम् //
SK
Iप्व्: ईशितुर् अन्तर्बहिःस्थितव् अन्तर्भावप्राधान्ये पुनः सादाख्यं तत्त्वम्, अपरं बहिर्भावोद्रेकाद् ऐश्वरम् //
SK
ईश्वरो बहिर् उन्मेषो निमेषो ऽन्तः सदाशिवः सामानाधिकरण्यं च सद्विद्याहमिदंधियोः //
SK
Iप्व्: उन्मेषनिमेषौ बहिरन्तःस्थिती एवेश्वरसदाशिवौ, बाह्यान्तरयोर् वेद्यवेदकयोर् एकचिन्मात्रविश्रान्तेर् अभेदात् सामानाधिकरण्येनेदं विश्वम् अहम् इति विश्वात्मनो मतिः शुद्धविद्या //
SK
इदंभावोपपन्नानां वेद्यभूमिम् उपेयुषाम् भावानां बोधसारत्वाद् यथावस्त्ववलोकनात् //
SK
Iप्व्: बिन्नवेद्यभूमव् इदन्तया दृश्यताम् आपादितानाम् अपि भावानां चिन्मात्रसारत्वाद् अहम् इदम् इति तत्त्वप्रतिपत्तिः शुद्धताज्ञाप्तिः //
SK
अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात् परताहन्तयाच्छादात् परापरदशा हि सा //
SK
Iप्व्: अत्रेदंतामतेर् अपरत्वम् अहंतया सर्वस्य वेद्यस्याच्छादनात् परतेति परापरावस्थैषा //
SK
भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा //
SK
Iप्व्: बोधकर्तृतामयस्यापि भेदेन विश्वेक्षणं विद्येति के चित् / मायाशक्तिर् अप्य् एषा विद्यैव / संसारोत्तीर्णत्वात् तत्रस्था मन्त्रेश्वरविद्येश्वराः //
SK
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका विद्याशक्तिः तिरोधानकरी मायाभिधा पुनः //
SK
Iप्व्: संसारिणाम् ऐश्वर्यस्य स्वात्मनस्प्रत्यभिज्ञानं विद्यया, पशुभावो मायया //
SK
भेदे त्व् एकरसे भाते ऽहंतयानात्मनीक्षिते शून्ये बुद्धे शरीरे वा मायाशक्तिर् विजृम्भते //
SK
Iप्व्: यदा भावा भेदेनेदंतयैव भासन्ते ऽहम् इति प्रमातृत्वेन च देहादिस्, तदा विपर्यद्वयहेतुर् मायाशक्तिर् विमोहिनी नाम विभोर् विजृम्भते //
SK
यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि माता स मेयः सन् काला-दिकपञ्चकवेष्टितः //
SK
Iप्व्: यश् च व्यतिरिक्तप्रमेयजाते प्रमाता शून्यादिः स इदम् इति वेद्य एव वस्तुतः कालाद्यैः पञ्चभिश् च परतन्त्रीकृतः / तत्र कालाद् वर्तमानाभासेन तस्य भूतबह्विष्यत्संभवो, नियतेः कार्यकर्मफलनियमो, रागाद् भोगाभिष्वङ्गो, विद्याकलाभ्याम्, अचिदात्मनो ऽस्वतन्त्रस्यापीषज्ज्ञानक्रिये चित्स्वातन्त्र्यरूपे //
SK
त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम् तस्याविभागरूप्य् एकं प्रधानं मूलकारणम् //
SK
त्रयोदशविधा चात्र बाह्यान्तःकरणावली कार्यवर्गश् च दशधा स्थूलसूक्ष्मत्वभेदतः //
SK
Iप्व्: कार्याणि द्विधा / शब्दस्पर्शरूपरसगन्धानि सूक्ष्मत्वेन तन्मात्रसंज्ञानि पञ्च, अन्योन्यव्यूहेन स्थूलानि पृथिव्यादिबुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, मनोबुद्ध्यहङ्कारा इति त्रिधान्तह्करणम् इति त्रयोविंशतिभेदस्य कार्यकारणात्मनः प्रमेयस्य मूलभूतैकाविभागदशा प्राधानाख्या //
SK
इत्य् आगमाधिकारे प्रथमम् आह्निकम् //
SK
तत्रैतन् मातृतामात्रस्थितौ रुद्रो ऽधिदैवतम् भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ //
SK
Iप्व्: शून्ये पुर्यष्टकात्मके ऽत्यन्तसूक्ष्मदेह एव वा प्रमातृमात्रे स्थितव् अन्यप्रमेयोपसंहारे रुद्रो ऽधिष्ठाता, भिन्नप्रमेयाभासे सर्गस्थितिहेतू ब्रह्मविष्णू //
SK
एष प्रमाता मायान्धः संसारी कर्मबन्धनः विद्याभिज्ञापितैश्वर्यश् चिद्घनो मुक्त उच्यते //
SK
Iप्व्: मायीयशून्यासिप्रमाता नियत्य कर्माधीनः संसारी, विद्यावशाद् आत्मतत्त्वाभिज्ञया मुक्तः //
SK
स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः //
SK
Iप्व्: ऐश्वर्यदशायां प्रमाता विश्वं शारीरतया पश्यन् पतिः पुंस्त्वावस्थायां तु रागादिक्लेशकर्मविपाकाशयैः परीतः पशुः //
SK
स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता द्विधाणवं मलम् इदं स्वस्वरूपापहानितः //
SK
Iप्व्: स्वतन्त्रो बोधः परमार्थस्, तथारूपत्वाद् एव पूर्णः / तस्य स्वातन्त्र्याद् एव तथेच्छया स्वातन्त्र्यं विना बोधमात्रनिर्माणे बोधितां विना स्वातन्त्र्यमात्रनिर्माणे वा पूर्णत्वाभावेन परिमितत्वाद् द्विधाणुत्वं तात्त्विकस्वरूपविपर्यासान् मलत्वम् //
SK
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् कर्तर्य् अबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् //
SK
Iप्व्: अत्रैव द्विधाणवे वेद्यम् अभिन्नम् अपि भेदेन यदा भाति तदातो ऽपि विपर्यासान् नाम्ना मायीयं मलम् / अहेतूनाम् अपि कर्मणां जन्मादिहेतुभावविषयविपर्यासाद् अबोधात्मककर्तृगतं कार्मम् / तन्मलत्रयनिर्माणे प्रभोर् इच्छा मायाशक्तिर् उच्यते //
SK
शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् //
SK
Iप्व्: वेद्यानुपरक्तबोधानाम् अपि पूर्णकर्तृत्वशून्यत्वात् स्वरूपान्यत्वेन प्रभुणा निर्माणम् //
SK
बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः //
SK
Iप्व्: शुद्धबोधानां बोधत्वनित्यत्वाद्\वर्{#नित्यत्वाद्\लेम् \चोर्र्; #नित्यत्वाध्# \Eद्} भेदे ऽप्य् अन्योन्यभेदस् तथैवेश्वरेण निर्माणान् नान्यथा / ते च सांख्यपुरुषप्राया विज्ञानकेवला इत्य् उच्यते //
SK
शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः //
SK
Iप्व्: शून्यप्राणादौ बोधरूपतातिक्रमेणाहंतया स्थिताः प्रलयकेवलिनः / तेषाम् अणूनां कर्मसंस्कारो ऽप्य् अस्ति, मायामलस् तु वेद्ययोगायोगाभ्यां विकल्पितः //
SK
बोधानाम् अपि कर्तृत्वजुषां कार्ममलक्षतौ भिन्नवेद्यजुषां मायामलो विद्येश्वराश् च ते //
SK
Iप्व्: कर्तृतायोगे ऽपि बोधानां कर्मोत्तीर्णानां विद्येश्वरत्वे ऽपि भिन्नवेद्ययोगान् मायामलम् अस्त्य् एव / पूर्णकर्तृत्वाभावाद् ईश्वराद् भिन्ना अन्योन्यं च पूर्ववद् अत एवैषाम् अणुत्वम् अपि स्यात् //
SK
देवादीनां च सर्वेषां भविनां त्रिविधं मलम् तत्रापि कार्मम् एवैकम् मुख्यं संसारकारणम् //
SK
Iप्व्: देवादीनां स्थावरान्तानां संसारिणां त्रयो ऽपि मलाः, कार्म एव संसारप्रयोजकः //
SK
कलोद्बलितम् एतच् च चित्तत्त्वं कर्तृतामयम् अचिद्रूपस्य शून्यादेर् मितं गुणतया स्थितम् //
SK
Iप्व्: संसारिणाम् एतच् च चित्तत्त्वं कर्तृतारूपं शून्यप्राणादौ जडे देवस्य कलाशक्त्योपोद्बल्यमानम् उपसर्जनत्वेनावस्थानात् परिमितम् / अतश् चात्रैव मुख्यम् अणुत्वम् //
SK
मुख्यत्वं कर्तृतायाश् च बोधस्य च चिदात्मनः शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् //
SK
Iप्व्: एतद् एव पुनः शून्यादि कर्तृतात्मनो बोधस्य यदोपसर्जनत्वेनास्ते तदास्य प्रमातुर् एतद् बोधमयताम् आपन्नस्य ज्ञानं तच्छक्तिसमावेशलक्षणम् उच्यते //
SK
शून्ये बुद्ध्याद्यभावात्मन्य् अहन्ताकर्तृतापदे अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता //
SK
Iप्व्: बुद्धिप्राणादिनिषेधमात्रे यदाहंताभिमानेन प्रमातृता तदा सौषुप्ते तावन्मात्रावस्थितौ वेद्याभावः संस्कारस्य संभवे ऽप्य् अरूपत्वेनानुपलक्ष्यत्वात् / तावतैव सांख्यपुरुषाद् विशेषः //
SK
साक्षाणाम् आन्तरी वृत्तिः प्राणादिप्रेरिका मता जीवनाख्याथवा प्राणे ऽहन्ता पुर्यष्टकात्मिका //
SK
Iप्व्: एष एव शून्यप्रमाता सर्वेन्द्रियशक्तिसाधारणजीवनाख्यप्राणादिप्रेरणान्तर्वृत्तिर् जीवाख्यस्, तासाम् इन्द्रियशक्तीनाम् अहंतया सह पुर्यष्टकत्वम् अथवा प्राणाहंतया प्रमातृत्वेन पुर्यष्टकता //
SK
तावन् मात्रस्थितौ प्रोक्तं सौषुप्त[ं] प्रलयोपमम् सवेद्यम् अपवेद्यं च मायामलयुतायुतम् //
SK
Iप्व्: शून्यतायां स्थितौ वेद्याभावान् मायामलाभावः, प्राणादौ सुखस्पर्शादिवेद्ययोगान् मायामलवत् प्रलय इव सौषुप्तं पदम् //
SK
मनोमात्रपथे ऽप्य् अक्षविषयत्वेन विभ्रमात् स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् //
SK
Iप्व्: चक्षुरादीन्द्रियशक्त्यप्रवृत्तव् अपि मनःशक्त्यैव दृष्टरूपाद्याभासेश्वरसृष्टिर् अणोः स्वप्नपदम् / अन्यप्रमातृसाधारणरूपाद्याभासानुवृत्तितः कालान्तराननुवृत्तेर् भ्रान्तिर् एषा //
SK
सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः //
SK
Iप्व्: सर्वान्तर्बहिःकरणशक्त्या सृष्टिर् जागरा, तत्रापि पूर्ववद् द्विचन्द्रादिभ्रान्तिः //
SK
हेया त्रयीयं प्राणादेः प्राधान्यात् कर्तृतागुणे तद्धानोपचयप्रायसुखदुःखादियोगतः //
SK
Iप्व्: एतानि जागरस्वप्नसुषुप्तानि प्राणादेर् आत्मत्वेनाभिमन्यमानस्योद्रेकात् स्वातन्त्र्यस्यापह्रासाद् धेयानि, स्वातन्त्र्यस्य मात्रयोपचयः सुखहर्षादयस् तथैव न्यूनता दुःखद्वेषादयः / सर्वभोगात्मा संसारो बन्धः //
SK
प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्व् इव //
SK
Iप्व्: स च प्राणात्मा [स्वप्ने] प्राणापानरूपश्वासप्रश्वासरूपो जागरे ऽथ सुप्ते [अत्र] तयोर् अपि विषुवतीव रात्रिदिनयोः साम्ये तन्न्यूनताधिक्यरोधात् समानसंज्ञः //
SK
मध्योर्ध्वगाम्युदानाख्यस् तुर्यगो हुतभुङ्मयः विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः //
SK
Iप्व्: प्राणापानयोः पार्श्वद्वयतिर्यक्प्रवाहविच्छेदेनैकताम् आपाद्योर्ध्वरूपमध्यमार्गप्रवाहेणोद्गमनाद् उदानः / मध्यनेत्रम् इवोर्ध्वभाक्त्वाद् अग्निधर्मा तुर्यदशायाम् / तुर्यातीते दिक्कालानवच्छेदे पूर्णे प्रवाहतां हित्वातिनिर्भरावस्थो व्यानसंज्ञः / एतच् च दशाद्वयम् उपादेयं प्राणशक्तेः परमेश्वरकल्पत्वेनावस्थानात् //
SK
इत्य् आगमाधिकारे द्वितीयम् आह्निकम् //
SK
इत्य् आगमाधिकारः //
SK
स्वात्मैव सर्वजन्तूनाम् एक एव महेश्वरः विश्वरूपो ऽहम् इदम् इत्य् अखण्डामर्शबृंहितः //
SK
Iप्व्: एकः प्रथमोपादेयतुर्यदशायाम् अखण्डितग्राहकाखण्डितग्राह्यतन्मेलनाचमत्कारोपबृंहितः साधारण एव सर्वप्राणिनाम् आत्मा विश्वरूपो महेश्वरः //
SK
तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना अहंकारपरामर्शपदम् नीतम् अनेन तत् //
SK
स्वस्वरूपापरिज्ञानमयो ऽनेकः पुमान् मतः तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः //
SK
Iप्व्: एतद् एव विश्वात्मनः परिमितत्वकरणम् अप्रत्यभिज्ञानम् उच्यते / एवं चानेकबुद्धिप्राणादिखण्डगतापराहंकारपरामर्शः परापरिज्ञानसंज्ञः / प्रत्यकात्मनो बहवस्, तेषु प्रमातृरूपेषु महेश्वरेण स्वानन्दः स्वक्रियैककर्तृतानुसारिणी निर्मिता / स एव भोग आनन्दलेशाख्यः सुखसंज्ञितः क्रियालवात्मा दुःखरूपः क्रिया दुःखं च वक्ष्यते //
SK
स्वाङ्गरूपेषु भावेषु पत्युर् ज्ञानं क्रिया च या मायातृतीये ते एव पशोः सत्त्वं रजस् तमः //
SK
Iप्व्: ईश्वरस्य ज्ञानक्रिये ते मायया सहिते पशोः सत्त्वरजस्तमांसि //
SK
भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते एषां गुणानां करणकार्यत्वपरिणामिनाम् //
SK
Iप्व्: सत्त्वरजस्तमसां च भेदेनावभासान् न शक्तिव्यपदेशः शक्तिशक्तिमतोर् अभेदात् / वस्तुतः शक्तिविकासो विश्वम् //
SK
सत्तानन्दः क्रिया पत्युस् तदभावो ऽपि सा पशोह् द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम् //
SK
Iप्व्: ईश्वरस्यानन्तकर्तृता चमत्काररूपा क्रियोक्ता परमप्रकाशानन्दमयी, प्रत्यगात्मनस् तु तौ प्रकाशानन्दौ ग्राह्यभूतौ सत्त्वम् उच्यते / तदभावश् च तमः, सत्त्वतमसी प्रकाशानन्दतदभावरूपे द्वे अपि श्लेषात्मनी [रजः] / पशोः रजःसंज्ञया क्रिया च दुःखं चोच्यते //
SK
ये ऽप्य् असामयिकेदन्ता-परामर्शभुवः प्रभोः ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः //
SK
Iप्व्: ये चैते महेश्वरस्येदंशब्दसंकेतानुसंधानं विनापि प्रकाशस्य परामर्शसारत्वाद् बालदशायाम् इवेदमर्थनिर्देश्या भावास्, ते ऽनेकाभाससामानाधिकरण्येन स्वलक्षणात्मनः पृथक्सामान्यरूपतया नानाकाराश् च तथा तन्निर्माणात् प्रथन्ते //
SK
ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे //
SK
Iप्व्: ते विभिन्नावभासाः सामान्यात्मनो ऽर्थास् तदनुभवसंस्कृतैः कृशो ऽहं दुःखी सुखी वाहम् इति विचित्रव्यपदेशविषयीक्रियमाणात्मभिः क्षेत्रज्ञैर् विकल्पनशक्त्या तत्तद्घटरजतशुक्लपटशकटादिनाम्नान्तस्प्रत्यवमर्शनीयत्वेन प्रदर्श्यन्ते स्मृतौ पूर्वानुभवाप्रमोषे, विचित्रोत्प्रेक्षादिषु तु स्वातन्त्र्येण / अयम् एव ग्राह्यग्राहकभेदावभासः शब्दमयः पशुभावे संसारबन्धः //
SK
तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी सैषाप्य् अज्ञतया सत्यै-वेशशाक्त्या तदात्मनः //
SK
स्वविश्रान्त्युपरोधाया-चलया प्राणरूपया विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया //
SK
Iप्व्: क्षेत्रश् चेश्वररूप एव तत्तत्सामान्यरूपानर्थान् ईशशक्त्यैवापरिज्ञातया सर्वसाधारणार्थदर्शनसंस्कृतानन्यवेद्यान् निर्मिमीते / सा चेश्वरशाक्तिः स्वात्ममात्रविश्रान्तिविरोधाय मायाव्यपदेश्या तत्तत्ककारादिवर्णभेदशतानन्तगणना प्राणरूपेण चञ्चलताम् आपन्ना विकल्पाख्यव्यापारा तथान्तः सृजत्य् अर्थान् //
SK
साधारणो ऽन्यथा चैशः सर्गः स्पष्टावभासनात् विकल्पहानैकाग्र्यात् क्रमेणेश्वरतापदम् //
SK
Iप्व्: ईश्वरस्य तु सृष्टिः सर्वप्रमातॄणां साधारणी तेषां तन्मध्य एवोत्पादाद्, एकप्रमातृनियता चैकप्रमात्रावेशेन स्वप्नभ्रान्त्यादौ सृष्टिः / सा चाहम् इदम् इत्य् एतावत् परामर्शमयी भेदानुदयाद् विकल्पोज्झिता स्पष्टावभासा च / तत्रान्तरान्तरोद्यत्क्षेत्रज्ञव्यापारविकल्पननिर्ह्रासपरिशीलनेन संसारिणां क्रमेणैकरसैश्वर्योद्गमात् क्षेत्रज्ञताविमुक्तिः //
SK
सर्वो ममायं विभव इत्येवं परिजानतः विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता //
SK
Iप्व्: क्षेत्रज्ञस्यापीश्वरशाक्त्यैव विकल्पारम्भ इति तद्दशायाम् अपि परिज्ञातेश्वरभावस्य ममायं संसारमयो विभव इत्य् अभेदेन विश्वम् आविशतः परामर्शमात्रान् अशेषान् विकल्पान् संपादयतो महेश्वरतैव //
SK
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् //
SK
Iप्व्: बद्धमुक्तयोर् वेद्यम् एकं, किं तु बद्धो ऽत्यन्तविभेदेन तद् वेत्ति विमुक्तः स्वात्मदेहत्वेन //
SK
सर्वथा त्व् अन्तरालीना-नन्ततत्त्वौघनिर्भरः शिवः चिदानन्दघनः परमाक्षरविग्रहः //
SK
Iप्व्: सर्वथा त्व् अन्तर्लीने प्रमेये ऽहंमतौ पूर्णायां शिवतैव //
SK
एवम् आत्मानम् एतस्य सम्यग्ज्ञानक्रिये तथा जानन् यथेप्सितान् पश्यञ् जानाति च करोति च //
SK
Iप्व्: इत्थम् आविष्कृतशक्त्यभिज्ञानम् आत्मानम् अनन्तज्ञानक्रियाशक्तिनिभृतम् ईश्वरं प्रत्यभिज्ञाय यथेच्छं सर्वं पश्यति निर्मिमीते //
SK
इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति //
SK
Iप्व्: यत्र यथावस्थित एव व्यवहारे प्रत्यभिज्ञामात्राच् छिवतालाभः / स अयम् अवक्र एवाभिनवो मार्गः साक्षात्कृतपरमेश्वरभट्टारकाकारैर् भट्टश्रीसोमानन्दपादैः शिवदृष्टिनाम्नि प्रकरणे निर्दिष्टो मया युक्तिनिबन्धनेन हृदयंगमीकृतः / एतत् परिशीलनेन शिवतावेशाज् जीवन्न् एव मुक्तो भवति //
SK
तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता //
SK
Iप्व्: कान्तदृष्टान्तेनेश्वरप्रत्यभिज्ञोपपादनीया चापूर्वफला च //
SK
जनस्यायत्नसिद्ध्यर्थम् उदयाकरसूनुना ईश्वरप्रत्यभिज्ञेयम् उत्पलेनोपपादिता //
SK
Iप्व्: सुलभो ऽयं सिद्धिमार्गः प्रदर्शितः //
SK
इति तत्त्वसंग्रहाधिकारः //
SK
//समाप्तेयम् ईश्वरप्रत्यभिज्ञावृत्तिः //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarapratyabhijñākārikā with Vṛtti: GRETIL corpustei HTML transform of Utpaladeva's kārikās with Vṛtti.

Source