1.1.1 SK कथं चिद् आसाद्य महेश्वरस्य दास्यं जनस्याप्य् उपकारम् इच्छन् समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयामि //
2 SK Iप्व्: परमेश्वरप्रसादाद् एव लब्धात्यन्तदुर्लभतद्दास्यलक्ष्मीर् अहम् एकाकिसंपदा लज्जमानो जनम् अपीमम् अखिलं स्वस्वामिनं वक्ष्यमाणोपायेन प्रत्यभिज्ञापयामि येन परमार्थलाभेन परितुष्येयम् //
1.1.2 SK कर्तरि ज्ञातरि स्वात्मन्य् आदिसिद्धे महेश्वरे अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः //
4 SK Iप्व्: सर्वेषां स्वात्मनः सर्वार्थसिद्धिसमाश्रयस्य तत्तत्सर्वार्थसाधनान्यथानुपपत्त्या क्रोडीकृतसिद्धेः स्वप्रकाशस्य प्रमात्रेकवपुषः पूर्वसिद्धस्य पुराणस्य ज्ञानं क्रिया च / स्वसंवेदनसिद्धम् ऐश्वर्यं, तेनेश्वरस्य सिद्धौ निराकरणे च जडानाम् एवोद्यमः //
1.1.3 SK किं तु मोहवशाद् अस्मिन् दृष्टे ऽप्य् अनुपलक्षिते शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते //
6 SK Iप्व्: केवलम् अस्य स्वसंवेदनसिद्धस्यापीश्वरस्य मायाव्यामोहाद् अहृदयंगमत्वाद् असाधारणप्रभावाभिज्ञानख्यापनेन दृढनिश्चयरूपं प्रत्यभिज्ञानमात्रम् उपदर्श्यते //
1.1.4 SK तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् //
8 SK Iप्व्: वस्तूनां जडाजडभेदेन द्वैविध्यम् / तत्र जडस्वरूपस्य जीवन्निष्ठा सिद्धिः, जीवतां पुनो जीवत्वं जीवनं ज्ञानक्रिये एव //
1.1.5 SK तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते //
10 SK Iप्व्: जीवतां क्रिया कायपरिस्पन्दपर्यन्तीभूतान्यत्रापि प्रत्यक्षा, ज्ञानम् आत्मवेद्यं परत्रापि क्रिययैव प्रसिध्यतीति सिद्ध एव स्वसंवेदनसंवेद्यतया स्वपरयोर् ईश्वरो ऽहंप्रत्येय आत्मा, तस्य मायाशक्त्या निसर्गतिरोधानाद् एवं विमतिः //
12 SK इति ज्ञानाधिकारे प्रथमम् आह्निकम् //
1.2.1 SK ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् //
1.2.2 SK नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी //
15 SK Iप्व्: ज्ञानम् एकं स्फुटावभासस्वलक्षणानुभवस्वरूपं निर्विकल्पकं ते कथयन्ति / अपरं तु शब्दारुषणया स्मृतिसंशयोत्प्रेक्षादिबहुभेदं विकल्पसंज्ञम् / उभयम् अप्य् एतन् न युज्यते बोधरूपज्ञानातिरिक्तस्यान्यस्य संबन्धितया तस्यानुपलब्धेः / को ऽसौ स्थिररूप आत्मा ? साभिलापाहंप्रत्ययेनापि शरीरादिकवेद्यवस्तूत्तीर्णो वेदयिता न कश् चिद् लोकैर् अवधार्यते //
1.2.3 SK अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः //
17 SK Iप्व्: स्मृतिकाले पूर्वानुभवनाशात् कथं पूर्वार्थानुभवावष्टम्भधर्मा स्मृतिर् जायेत यदि तदापि तदनुभवबोधो नानुवर्तेत, यश् चानेककालस्थायी बोधः स एवात्मानुभाविता //
1.2.4 SK सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु स्मृतिः केनाथ यत्रैवा-नुभवस् तत्पदैव सा //
19 SK Iप्व्: अर्थाभासनाशात् तन्मुखावलम्बनीयो विषयो ऽप्य् अत्र नास्ति स्मृतेर् इत्य् एकबोधात्मनि सत्य् अपि आत्मनि सा निर्विषयैवेतिव्यवहारोच्छेदः / असतो ऽप्य् अर्थानुभवस्य विषयेण सा विषयवती यदि //
1.2.5 SK यतो हि पूर्वानुभवसंस्कारात् स्मृतिसंभवः यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना //
21 SK Iप्व्: अनुभवात् संस्कारः संस्काराच् च स्मृतिर् जायमाना तं पूर्वानुभवम् अनुकुर्वत्य् एवावगाहितविषयं तम् अनुभवम् आभासयति / एवम् आत्मस्थैर्येण किम् अनुपयोगिना संस्कारस्यात्मवादे ऽप्य् अङ्गीकरणात् तेनैव च सिद्धेः //
1.2.6 SK ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् संस्कारात् स्मृइतिसिद्धौ स्यात् स्मर्ता द्रष्टेव कल्पितः //
23 SK Iप्व्: सुखदुःखज्ञानादिभिन्नधर्माश्रयत्वेनाप्य् आत्मनो ऽनुपयोगो भिन्नैर् धर्मैर् असंभिन्नस्यानुपजातविशेषस्य स्मृतव् अव्यापृतेः / तद् द्रष्टृवत् कल्पनामात्रम् एतद् आत्मा स्मृतेति //
1.2.7 SK ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किम् आत्मवत् अथापि जडम् एतस्य कथम् अर्थप्रकाशता //
25 SK Iप्व्: चित्स्वाभाव्ये ज्ञानस्य चेत्य् अधर्मदेशकालावेशयोगाद् आत्मन इव नित्यतादिप्रसङ्गः / जडत्वे कथम् अर्थस्यासौ प्रकाशः //
1.2.8 SK अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता //
27 SK Iप्व्: ज्ञानं बुद्धिः / सा जडापि यथा विषयरूपछायां धत्ते तथात्मनो ऽपि चैतन्यछायाम्, अतो ऽसव् अर्थप्रकाशस् तथा च तस्याश् चित्स्वरूपता स्यात् / एवं ज्ञानं सद् अपि नान्यस्य संबन्धि, अनुपपत्तेः / क्रिया तु न स्वरूपेणास्ति नान्यसंबन्धितया //
1.2.9 SK क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता //
29 SK Iप्व्: क्रियापि पूर्वापरीभूतवयवैका कारकव्यापाररूपा न युक्ता क्रमिकस्यानेककालस्पृशह् स्वात्माइक्यायोगात्, नापि कालक्रमव्यापी चैकस्वभावश् च तस्या आश्रयो युक्तः, केवलं गमनपरिणामादिरूपा सा क्रिया / कायादीनां तु तत्तद्भिन्नदेशकालगतपूर्वसत्तामात्रम् एतद् अतिरिक्तस्यान्यस्यानुपलम्भात् //
1.2.10 SK तत्र तत्र स्थिते तत् तद् भवतीत्य् एव दृश्यते नान्यन् नान्यो ऽस्ति संबन्धः कार्यकारणभावतः //
31 SK Iप्व्: पूर्वस्मिन् सति परस्य सत्तेत्य् एतावन्मात्रे ऽनुभवः / क्रियावच् च न क्रियाकारकसंबन्धः कश् चिद् भिन्नस्यास्यानुपलम्भात् / कार्यकारणभावाद् ऋते नान्यद् वस्तूनां ज्ञातेयम् //
1.2.11 SK द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् पारतन्त्र्याद्ययोगाच् च तेन कर्तापि कल्पितः //
33 SK Iप्व्: सम्बन्धो द्विष्ठो न चैकेनात्मनोभयत्रावस्थितिर् युक्ता न च द्वयोः सिद्धयोर् अन्योन्यापेक्षात्मा नापि स्वात्ममात्रनिष्ठयोः पारतन्त्र्यरूपः संबन्धः / ततो यथा ज्ञातृत्वं कल्पितं तथा कर्तृत्वम् अपीति कथम् आत्मा सर्वेशर इति ? //
1.3.1 SK सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः जातम् अप्य् आत्मनिष्ठं तन् नाद्यानुभववेदकम् //
35 SK Iप्व्: पूर्वानुभवसंस्कारप्रबोधजन्मापि स्मृतिर् आत्ममात्रनिष्ठत्वात् स्वरूपसंवेदिकैव न तु पूर्वानुभवावेशाभावात् पूर्वानुभूतार्थव्यवस्थापिका घटते //
1.3.2 SK दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः //
37 SK Iप्व्: सर्वा हि ज्ञप्तिः स्वसंवेदनैकरूपानन्यसंविद् द्वेधा, रूपरसज्ञानयोर् अन्योन्यवेदने ऽन्योन्यविषयवेदनम् अपि स्यात् ततश् चेन्द्रियनियमाभावः / पूर्वानुभवसंस्कारजत्वेन तत्सादृश्यमात्रं न तु पूर्वानुभवावगतिः, तत्सादृश्यम् अपि नावसेयम् //
1.3.3 SK अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् //
39 SK Iप्व्: न चापि भ्रान्त्या पूर्वानुभवं तद्विषयं च शुक्तौ रजतम् इवासंवेद्यमानम् अध्यवस्यतीति स्मृतिस् तद्विषया //
1.3.4 SK स्मृतितैव कथं तावद् भ्रान्तेश् चार्थस्थितिः कथम् पूर्वानुभवसंकारा-पेक्षा च किम् इतीष्यते //
41 SK Iप्व्: पूर्वानुभवाप्रकाशात् तद्विषयसंप्रमोषे ऽध्यवसायमात्रात् स्मृतित्वं न युक्तम् / न च भ्रान्त्या पूर्वानुभूतार्थव्यवस्थापनम्, पूर्वानुभवास्पर्शे च तद्भिन्नयोगक्षेमाया भ्रान्तेः संस्कारजत्वे को ग्रहः //
1.3.5 SK भ्रान्तित्वे चावसायस्य न जडाद् विषयस्थितिः ततो ऽजाड्ये निजोल्लेखनिष्ठान् नार्थस्थितिस् ततः //
43 SK Iप्व्: अध्यवसाय एव भ्रान्त्या विषयव्यवस्थापको न तु स्वसंवित्, स च जडः कथम् अर्थव्यवस्थाया हेतुः ? चिद्रूपो ऽप्य् अतीतार्थमात्रम् आभासयेद् अबाह्यस्वात्मोल्लेखमात्रप्रकाशो वा न तद्धेतुः //
1.3.6 SK एवम् अन्योन्यभिन्नानाम् अपरस्परवेदिनाम् ज्ञानानाम् अनुसंधानजन्मा नश्येज् जनस्थितिः //
45 SK Iप्व्: ज्ञानानि स्वात्ममात्रपरिनिष्ठितानि स्वसंविद्रूपतया अपरसंवेद्यानि / तेषाम् अन्योन्यसंघट्टनामयः परमार्थोपदेशपर्यन्तो लोकव्यवहारः कथम् //
1.3.7 SK न चेद् अन्तःकृतानन्तविश्वरूपो महेश्वरः स्याद् एकश् चिद्वपुर् ज्ञानस्मृत्यपोहनशक्तिमान् //
47 SK Iप्व्: चित्तत्वम् एव विश्वरूपमतो ऽतिरिक्तस्यानुपपत्तेः, अशेषपदार्थज्ञानानाम् अन्योन्यानुसंधानम् / अस्यैव ज्ञानादिकाः शक्तयः / मत्तः स्मृतिर् ज्ञानम् अपोहनं चेति ह्य् उक्तम् //
48 SK इति ज्ञानाधिकारे तृतीयम् आह्निकम् //
1.4.1 SK स हि पूर्वानुभूतार्थो-पलब्धा परतो ऽपि सन् विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते //
50 SK Iप्व्: पश्चाद् अपि पूर्वानुभूतार्थानुभवितृत्वात् पूर्वानुभूतार्थप्रकाशासंप्रमोषणम्, तस्यैकस्य विभोः कर्तुः स इत्य् अत्र पूर्वानुभूतत्वेन प्रत्यवमर्शः स्मृतिर् नाम व्यापरः //
1.4.2 SK भासयेच् च स्वकाले ऽर्थात् पूर्वाभासितम् आमृशन् स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना //
52 SK Iप्व्: स्मृतिशक्त्या स इति पूर्वानुभूतं स्वलक्षणं परामृशन्न् आभासयत्य् एवान्यथा प्रकाशितस्य परामर्शो न कृतः स्यात् स्वसत्ताकाल एव च, तेन स्मरणकाले नष्टस्याप्य् आभासो न दुष्यति / कदा चित् त्व् अर्थितावशाद् घटकाञ्चनद्रव्यसत्ताद्यन्यतमैकाभासरूपेणैवास्य स्फुटावभासः, अन्यदा तु सर्वात्मनार्थित्वेन तथैव / अतिशयनिरन्तरावहितचेतसस् तु दृष्टार्थप्रत्यक्षीकार एव //
1.4.3 SK न च युक्तं स्मृतेर् भेदे स्मर्यमाणस्य भासनम् तेनैक्यं भिन्नकालानां संविदां वेदितैष सः //
54 SK Iप्व्: पूर्वानुभूतश् चार्थो ऽनुभवेन सह तात्कालिकस्मृतिप्रकाशे ऽवभासमानः स्मृत्यभिन्न एव प्रकाशाद् भिन्नस्य प्रकाशमानतानुपपत्तेः / एवं चानुभवस्मृत्यादिसंविदाम् ऐक्यं स एव चात्मा वेदकः / तथा हि //
1.4.4 SK नैव ह्य् अनुभवो भाति स्मृतौ पूर्वो ऽर्थवत् पृथक् प्राग् अन्वभूवम् अहम् इत्य् आत्मारोहणभासनात् //
56 SK Iप्व्: स्मृतौ स्मर्यमाणो ऽनुभूतार्थो यथा पृथग्भूतो भाति न तथानुभवः स्वात्मन एवाहंताप्रत्येयस्यानुभवमयत्वेन प्रथनात्, यश् चानेककालो ऽहंवेद्यो ऽर्थः स एवात्मा //
1.4.5 SK योगिनाम् अपि भासन्ते न दृशो दर्शनान्तरे स्वसंविदेकमानास् ता भान्ति मेयपदे ऽपि वा //
58 SK Iप्व्: सर्वज्ञानाम् अपि प्रमात्रान्तरगतोपलम्भाः स्वसंविन्मात्रवेद्यस्वभावाः स्वात्मारूढा एव भासेरन्, अतश् च तेषां योगिनां परात्मतापत्तिर् एव तत्त्वम् / प्रमेयकक्ष्यायाम् अपि घटादिवत् प्रातिस्विकेन शुद्धबोधात्मना रूपेणावभासेरन् यदि तथा संभवेत् /
1.4.6 SK स्मर्यते यद् दृग् आसीन् मे सैवम् इत्य् अपि भेदतः तद् व्याकरणम् एवास्या मया दृष्टम् इति स्मृतेः //
60 SK Iप्व्: मया दृष्टम् इति प्रमात्रान्तर्गतदर्शनपरामर्शात्मिकाया एव स्मृतेर् विभज्य कथनम्, एतद् एवम् अनुभवो ऽसौ ममाभूद् इति भेदेनापि निर्देशः /
1.4.7 SK या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा मन्यते समवेतं साप्य् अवसातरि दर्शनम् //
62 SK Iप्व्: परःस्थितार्थविकल्पने ऽपि घटम् इमं पश्यामि घटो ऽयम् इति वा प्रमातृमयम् एव दर्शनं प्रत्यवमृश्यते //
1.4.8 SK तन् मया दृश्यते दृष्टो ऽयं स इत्य् आमृशत्य् अपि ग्राह्यग्राहकताभिन्नाव् अर्थौ भातः पमातरि //
64 SK Iप्व्: तस्माद् दृक्परामर्शपुरःसारायां स्मृतौ विकल्पमात्रे वा दृक्षब्दानुवेधं विनापि स इत्य् अयम् इति वार्थमात्रनिर्देशेन सर्वत्रैकप्रमातृलीनव् एवानुभाव्यानुभावकौ मायाकृतविच्छिन्नावभासव् अपि प्रकाशेते //
65 SK इति ज्ञानाधिकारे चतुर्थम् आह्निकम् //
1.5.1 SK वर्तमानावभासानां भावानाम् अवभासनम् अन्तःस्थितवताम् एव घटते बहिर् आत्मना //
67 SK Iप्व्: प्रत्यक्षे ऽपि यावद् अर्थानां भेदेनावभासः प्रमात्रन्तर्लीनानाम् एव सतां युक्तः //
1.5.2 SK प्रागिवार्थो ऽप्रकाशः स्यात् प्रकाशात्मतया विना न च प्रकाशो भिन्नः स्याद् आत्मार्थस्य प्रकाशता //
69 SK Iप्व्: प्रमातृसंज्ञप्रकाशस्वरूपतां विना यथादौ घटो ऽस्य नावभासस् तथा ज्ञानकाले ऽपि स्यात्, प्रकाशमानता चार्थस्य प्रकाशः स्वरूपतो न तु भिन्नः //
1.5.3 SK भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् प्रकाशात्मा प्रकाश्यो ऽर्थो नाप्रकाशश् च सिद्ध्यति //
71 SK Iप्व्: प्रकाशमात्रं चार्थाद् भिन्नं सर्वार्थसाधारणं तस्य घटस्य प्रकाशो ऽयम् अयं पटस्यैवेति विषयनियमो निर्निबन्धनः / तस्माद् अर्थस्य सिद्धिः प्रकाशात्मतायत्ता //
1.5.4 SK तत्तदाकस्मिकाभासो बाह्यं चेद् अनुमापयेत् न ह्य् अभिन्नस्य बोधस्य विचित्राभासहेतुता //
73 SK Iप्व्: जडानाम् आभासमानतैव सत्तासिद्धिः सा च आभासात्मतैव / ततश् च बोधमात्रम् एकम् एवात्र तत्त्वम् / तस्याविशेषे ऽपि क्रमेण विशिष्यमाणो ऽर्थावभासस् ततो ऽन्यम् अप्रकाशमानं हेतुतया बाह्यम् अर्थम् ऊहयेद् इन्दियवत् //
1.5.5 SK न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात् तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् //
75 SK Iप्व्: विचित्रवासनाप्रबोधो न बोधाद् भिन्नः, तस्यापि वैचित्र्ये को हेतुः / ततो बाह्य एवार्थो भिन्नाभासहेतुः //
1.5.6 SK स्याद् एतद् अवभासेषु तेष्व् एवावसिते सति व्यवहारे किम् अन्येन बाह्येनानुपपत्तिना //
77 SK Iप्व्: आभासमानैर् एव अर्थैर् व्यवहारः, ते चाभासात्मकाः सन्तु का क्षतिः / तत् किं बाह्येन कार्यं तावता लोकयात्रासमाप्तेः / बाह्यश् चार्थः प्रमाणबाधितः सावयवो विरुद्धधर्माध्यासादेर् निरवयवश् च दिक्षट्कयोगादेर् बहुशः //
1.5.7 SK चिदात्मैव हि देवो ऽन्तःस्थितम् इच्छावशाद् बहिः योगीव निरुपादानम् अर्थजातं प्रकाशयेत् //
79 SK Iप्व्: चित्तत्त्वम् एव ईश्वरत्वात् स्वात्मरूपतया उपपन्नाभासनम् अनन्तशक्तित्वाद् इच्छावशान् मृदादिकारणं विनैव बाह्यत्वेन घटपटादिकम् अर्थराशिं प्रकाशयेत् //
1.5.8 SK अनुमानम् अनाभातपूर्वे नैवेष्टम् इन्द्रियम् आभातम् एव बीजादेर् आभासाद् धेतुवस्तुनः //
81 SK Iप्व्: पूर्वावभातान्तःस्थित एवार्थे नान्तरीयकार्थदर्शनवशात् तत्तद्देशकालादियोजनया विमर्शनम् अनुमानम् / इन्द्रियम् अप्य् अनुमीयते किंचिन्मात्रं निमित्तं तच् च बीजाद्याभासाद् आभासितम् एव //
1.5.9 SK आभासः पुनराभासद् बाह्यस्यासीत् कथं चन अर्थस्य नैव तेनास्य सिद्धिर् नाप्य् अनुमानतः //
83 SK Iप्व्: घटाद्याभासाद् बाह्यस्यानुपपत्तेर् नासीद् आभासः, ततस् तत्र नानुमानाद् अपि सिद्धिः //
1.5.10 SK स्वामिनश् चात्मसंस्थस्य भावजातस्य भासनम् अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते //
85 SK Iप्व्: चिदात्मनश् चेश्वरस्य आत्मनीवाभेदेनार्थेष्व् अपि प्रकाशे ऽस्त्य् अन्यथा प्रतिभासमानार्थैकविषयो निर्मातृतामयो विमर्श इच्छारूपो न स्यात् //
1.5.11 SK स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा प्रकाशो ऽर्थोपरक्तो ऽपि स्फटिकादिजडोपमः //
87 SK Iप्व्: प्रकाशस्य मुख्य आत्मा प्रत्यवमर्शः, तं विना अर्थभेदिताकारस्याप्य् अस्य स्वच्छतामात्रं न त्व् अजाड्यं चमत्कृतेर् अभावात् //
1.5.12 SK आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः //
89 SK Iप्व्: आत्मद्रव्यस्य भावात्मकम् अप्य् एतज् जडाद् भेदकतया विमर्शाख्यं मुख्यं रूपम् उक्तं चैतन्यं दृशिशक्तिश् चितिर् इति [अदोप्त् वर्: चितिशक्तिर् दृशिर् इति] / सा चेतनक्रिया चितिकर्तृतैव //
1.5.13 SK चितिः प्रत्यवमर्शात्मा परा वाक् स्वरसोदिता स्वातन्त्र्यम् एतन् मुख्यं तद् ऐश्वर्यं परमात्मनः //
91 SK Iप्व्: अभिन्नवाच्याद्या वाग् एषा नित्यचित्स्वरूपत्वेनानाद्यन्तापरतन्त्रा, भावान्तरानपेक्षं शुद्धम् एतत् स्वातन्त्र्यम् ऐश्वर्यसंज्ञम् //
1.5.14 SK सा स्फुरत्ता महासत्ता देशकालाविशेषिनी सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः //
93 SK Iप्व्: स्फुरद्रूपता स्फुरणकर्तृता अभावाप्रतियोगिन्य् अभावव्यापिनी सत्ता भवत्ता भवनकर्तृता नित्या देशकालास्पर्शात् सैव प्रत्यवमर्शात्मा चितिक्रियाशाक्तिः / सा विश्वात्मनः परमेश्वरस्य स्वात्मप्रतिष्ठारूपा हृदयम् इति तत्र तत्रागमे निगद्यते //
1.5.15 SK आत्मानम् अत एवायं ज्ञेयीकुर्यात् पृथक्स्थिति ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता //
95 SK Iप्व्: एतादृशशुद्धस्वातन्त्र्यवशान् नैष पृथग् एव लब्धप्रतिष्ठं वस्त्व् अवैति, अपि त्व् अज्ञेयम् आत्मानम् अनियन्त्रितप्रभावतया ज्ञेयीकरोति / भिन्नज्ञेयसापेक्षत्वे ज्ञानकर्तृता म्लायेत् //
1.5.16 SK स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्याद् अद्वयात्मनः प्रभुर् ईशादिसंकल्पैर् निर्माय व्यवहारयेत् //
97 SK Iप्व्: अत एव वेद्यैकीभावलक्षणपूर्णतामयात् स्वातन्त्र्यात् तदानीन्तनम् एव वेदकम् आत्मानम् ईश्वरः शिवो वेदितेत्य् एवमादिविकल्पैर् आभासयति भावनादिव्यवहारार्थम् //
1.5.17 SK नाहन्तादिपरामर्शभेदाद् अस्यानयतात्मनः अहंमृश्यतयाइवास्य सृष्तेस् तिङ्वाच्यकर्मवत् //
99 SK Iप्व्: वर्तमानप्रमातृभावे नाहंप्रत्यवमर्शस्य प्रमेयत्वेनेदन्ता / विमर्शभेदे चाभासभेदे च प्रमातैवेश्वरशब्देन सृष्टो ऽहं परामर्शव्यवधानेन केवलम्, यथा क्रियादिशब्देन पचत्यादिवाच्यो ऽर्थः / यथाहुः क्रियागुणजातिसंबन्धादिशाब्दैर् न क्रियादय उच्यन्ते पचत्यादिमुखेनाभिधानात् / ईश्वरशब्दाद् आत्मशब्दाच् चाहम् इति परामृशन् न एवात्मानम् अवैति न साक्षात्, प्रतीतिस् त्व् अस्त्य् एव स्मृत्येवानुभवमुखेनानुभूतस्य //
1.5.18 SK मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा कथिता ज्ञानसंकल्पा-ध्यवसायादिनामभिः //
101 SK Iप्व्: प्रकाशात्मनः परमेश्वरस्य मायाशक्त्या स्वात्मरूपं विश्वं भेदे आभास्यते / ततः सैव चितिर् ज्ञानम् अध्यक्षम् / तस्यैव भिन्नस्याभातस्य स्मृतिः संकल्पो ऽध्यवसायो मनोबुद्धिरूपत्वे ऽपि चितिर् एव //
1.5.19 SK साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् //
103 SK Iप्व्: साक्षात्कारलक्षणे ज्ञाने ऽपि चितो ऽर्थप्रत्यवमर्शो ऽस्ति सूक्ष्मः, वाचनधावनादौ शीघ्रक्रिया तत्तद्दृश्यमानदेशाद्युपादित्साजिहासानुसंधानेन हि भवेत् //
1.5.20 SK घटो ऽयम् इत्य् अध्यवसा नामरूपातिरेकिणी परेशशक्तिर् आत्मेव भासते न त्व् इदन्तया //
105 SK Iप्व्: अयम् इति घट इति वाध्यवसायो भिन्नप्रकाशमाननामरूपातिरिक्तश् चितिशक्तिमय एवात्मेवाभेदेन अवभासते //
1.5.21 SK केवलं भिन्नसम्वेद्यदेशकालानुरोधतः ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते //
107 SK Iप्व्: चित्तत्त्वस्य मायाशक्त्या भिन्नं घटादि संवेद्यं तत्तद्देशकालभिन्नं प्रकाश्यते यस्याभेदेनावष्टम्भाद् विभिन्नदेशकालादिना ज्ञानस्मृत्याद्याभासते //
108 SK इति ज्ञानाधिकारे पञ्चमम् आह्निकम् //
1.6.1 SK अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः //
110 SK Iप्व्: प्रकाशस्यात्मन्य् अहमिति परावाग्रूपत्वात् साभिलापो ऽपि स्वभावभूतः प्रत्यवमर्शो न विकल्प इत्य् उच्यते, स हि प्रतियोगिनिषेधपूर्वो निश्चयो न चात्र प्रतियोगिसंभवः //
1.6.2 SK भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् //
112 SK Iप्व्: प्रकाशाद् द्वितीयस्य भिन्नस्य प्रतियोगिनो ऽप्रकाशसंज्ञस्यानवभासने प्रकाशेतरत्वं न स्यात् / तस्यानाभासे व्यपोहनायोगाद् विकल्पताहानिः //
1.6.3 SK तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् तन्निश्चयनमुक्तो हि विकल्पो घट इत्य् अयम् //
115 SK Iप्व्: प्रमातुर् एव स्वतन्त्रस्यान्तर्लीनतदतदर्थाभासस्य अतदपोहनेन घट इति निश्चयो विकल्पो नाम व्यापारः //
1.6.4 SK चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः देहे बुद्धाव् अथ प्राणे कल्पिते नभसीव वा //
1.6.5 SK प्रमातृत्वेनाहम् इति विमर्शो ऽन्यव्यपोहनात् विकल्प एव स परप्रतियोग्य् अवभासजः //
118 SK Iप्व्: चिदचित्तत्त्वस्यैवेश्वरस्य मायाशक्त्या भेदावभासिनि शरीरे बुद्धव् आन्तरे वा स्पर्शे तदुत्तीर्णे वाकाश इव शून्य एव विकल्पिते ऽहमिति प्रमातृभावेन विमर्शः, तत्तदाभासमानशरीरादिप्रतियोग्यपोहनकरणाद् घटो ऽयम् इतिवद् विकल्प एव //
1.6.6 SK कादाचित्कावभासे या पूर्वाभासादियोजना संस्कारात् कल्पना प्रोक्ता सापि भिन्नावभासिनि //
120 SK Iप्व्: विछिन्नविच्छिन्नेषु शून्यदेहाद्याभासभेदेषु पूर्वाभासाहंकाराख्यानाम् ऐक्ययोजनान्तःपूर्वाभासस्थितिलक्षणसंस्काराश्रिता प्रमातृव्यापाररूपा कल्पनैव प्रत्यभिज्ञाख्या //
1.6.7 SK तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन् भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः //
122 SK Iप्व्: आदिसर्गे वा व्यवहारे ऽपि वा महेश्वरो मायाशक्त्या देहादिम् आत्मत्वेन अभिनिविश्य प्रमातारं कुर्वन्न् अन्तःस्थितं विभान्तम् एव तं तम् अर्थं क्रमेण बहीरूपं कर्तृशक्त्या भासयति / तथाभासनम् एवोत्पादनम् / अस्य देहाद्यनाविष्टस्य तु स्वतो युगपद् अहमिदम् इति सर्वार्थप्रकाशः //
1.6.8 SK एवं स्मृतौ विकल्पे वाप्य् अपोहनपरायणे ज्ञाने वाप्य् अन्तराभासः स्थित एवेति निश्चितम् //
124 SK Iप्व्: सर्वसंवित्सु सर्वार्थावभासः प्रमातृसंलीनश् चित्तत्त्ववद् आनुरूप्येण प्रकाशमानः सदा स्थित एव //
1.6.9 SK किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि पूर्वानुभवरूपस् तु स्थितः स स्मरणादिषु //
126 SK Iप्व्: ज्ञाने बहिराभासनरूपे सहज एव चित्तत्त्वस्यान्तरर्थावभासः, स्मृत्यादौ तु पूर्वानुभवात्मा / अत एव स्मृतिः संस्कारजोच्यते //
1.6.10 SK स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि यथाभिमतसंस्थाना-भासनाद् बुद्धिगोचरे //
128 SK Iप्व्: अवतन्त्रस् तु विकल्पश् चक्षुराद्यगोचरम् अपि बुद्धविषयतापादनेन यथारुचि पूर्वानुभूतत्वाविमर्शनेन नवम् एव तं तम् अर्थम् आभासयति संनिवेशविशेषं च / तत्रासव् अर्थः सहज एवास्ति //
1.6.11 SK अत एव यथाभीष्टसमुल्लेखावभासनात् ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः //
130 SK Iप्व्: अपूर्वार्थनिर्माणज्ञानसामार्थ्याच् च विकल्प एव सर्वस्य सर्वज्ञत्वं सर्वकर्तृत्वं च स्फुटम्
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarapratyabhijñākārikā with Vṛtti: GRETIL corpustei HTML transform of Utpaladeva's kārikās with Vṛtti.
Source