Ornament of the Mahāyāna Sūtras Mahāyānasūtrālaṃkāra
Mअहायानसूत्रालंकार
3 SK नमः सर्वबुद्धबोधिसत्त्वेभ्यः
5 SK अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै- र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः | धर्मस्योत्तमयानदेशितविधेः सत्त्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् || Mस_१.१ ||
6 SK अर्थज्ञो ऽर्थविभावनां प्रकुरुते.........[इत्यादि] कोषदेशमारभ्य को ऽलंकरोति | अर्थज्ञः | कमलंकारमलंकरोति अर्थविभावनां कुरुते | केन वाचा पदैश्चामलैः | अमलया वाचेतिष........[पौर्यादिना] अमलैः पदैरिति युक्तैः सहितैरिति विस्तरः | न हि विना वाचा पदव्यञ्जनैरर्थो विभावयितुं शक्यत इति | कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः | दुःखितजने यत्कारुण्यं तस्मात्कारुण्यतस्तन्मय इति कारुण्यमयः | कस्यालंकारं करोति | धर्मस्योत्तमयानदेशितविधेः | उत्तमयानस्य देशितो विधिर्यस्मिन्धर्मे तस्य धर्मस्य | कस्मिन्नलंकरोति | सत्त्वेषु तद्गामिषु | निमित्तसप्तम्येषा.........[महायान]गामिसत्त्वनिमित्तमित्यर्थः | कतिविधमलंकारं करोति | पञ्चविधम् | श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् | श्लिष्टामिति युक्ताम् | निरुत्तरगतामित्यनुत्तरज्ञान[यान]गताम् |
7 SK तामिदानीं पञ्चात्मिकामर्थगतिं द्वितीयेन श्लोकेन दर्शयति |
8 SK घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः | विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति || Mस_१.२ ||
9 SK अनेन श्लोकेन पञ्चभिर्दृष्टान्तैः स हि धर्मः पञ्चविधमर्थमधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यमचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावम् | सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिमग्र्यां दधाति | यथाक्रमं घटितसुवर्णादिवत् |
10 SK यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्यस्य चोद्यस्य परिहारार्थं तृतीयः श्लोकः |
11 SK यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् | तथा धर्मः सूक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम् || Mस_१.३ ||
12 SK अनेन किं दर्शयति | यथा बिम्बं भूषया प्रकृत्यैव गुणवत् आदर्शगतं दर्शनवशाद्विशिष्टं प्रामोद्यं जनयत्येवं स धर्मः सुभाषितैः प्रकृत्यैव गुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं विशिष्टां जनयति | बुद्धिमतामतस्तुष्टिविशेषोत्पादनादलंकृत इव भवतीति |
13 SK अतः परं त्रिभिः श्लोकैस्तस्मिन्धर्मे त्रिविधमनुशंसं दर्शयत्यादरोत्पादनार्थम् |
14 SK आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् | धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतो ऽर्थो न च[र्थतश्च]ज्ञेयः || Mस_१.४ ||
15 SK राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः | आराधितश्च तद्वद्वरगुणधनदायको भवति || Mस_१.५ ||
16 SK रत्नं जात्यमनर्थं[र्घं]यथापरीक्षकजनं न तोषयति | धर्मस्तथायमबुघं विपर्ययात्तोषयति तद्वत् || Mस_१.६ ||
17 SK त्रिविधो ऽनुशंसः | आवरणप्रहाणहेतुत्वमौषधोपमत्वेन | द्वयव्यवस्थ इति व्यञ्जनार्थव्यवस्थः | विभुत्वहेतुत्वमभिज्ञादिवैशेषिकगुणैर्श्वर्यदानाद्राजोपमत्वेन | आर्यध[ज]नोपभोगहेतुत्वं च अनर्थ[र्घ]जात्यरत्नोपमत्वेन | परीक्षकजन आर्यजनो वेदितव्यः |
18 SK नैवेदं महायानं बुद्धवचनं कुतस्तस्यायमनुशंसो भविष्यतीत्यत्र विप्रतिपन्नास्तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यमारभ्य श्लोकः |
19 SK आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः | भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात् || Mस_१.७ ||
20 SK आदावव्याकरणात् यद्येतत्सद्धर्मान्तरायिपश्चात्केनाप्युत्पादितम् | कस्मादादौ भगवता न व्याकृतमनागतभय[भंग]वत् | समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तिरुपलभ्यते न पश्चादिति कथमस्याबुद्धवचनत्वं विज्ञायते | अगोचरान्नायमेवमुदारो गम्भीरश्च धर्मस्तार्किकाणां गोचरः | तीर्थिकशास्त्रेषु तत्प्रकारानुपलम्भादिति | नायमन्यैर्भाषितो युज्यते | उच्यमाने ऽपि तदनधिमुक्तेः | सिद्धेरथान्येनाभिसंबुध्य भाषितः | सिद्धमस्य बुद्धवचनत्वम् | स एव बुद्धो यो ऽभिसंबुध्य एवं भाषते | भावाभावे ऽभावाद्यदि महायानं किंचिदस्ति तस्य भाव[वे] सिद्धमिदं बुद्धवचनमतो ऽन्यस्य महायानस्याभावात् | अथ नास्ति तस्याभावे श्रावकयानस्याप्यभावात् | श्रावकयानं बुद्धवचनं न महायानमिति न युज्यते विना बुद्धयानेन बुद्धानामनुत्पादात् | प्रतिपक्षत्वात् | भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनम् | रुतान्यत्वात् | न चास्य यथारुतमर्थस्तस्मान्न यथारुतार्थानुसारेणेदमबुद्धवचनं वेदितब्यम् |
21 SK यदुक्तमादावव्याकरणादित्यनाभोगादेतदनागतां भगवता न व्याकृतमिति कस्यचित् स्यादत उपेक्षाया अयोगे श्लोकः |
22 SK प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः | अध्मन्यनावृतज्ञाना उपेक्षातो न युज्यते || Mस_१.८ ||
23 SK अनेन किं दर्शयति | त्रिभिः कारणैरनागतस्य महतः शासनोपद्रवस्योपेक्षा न युज्यते | बुद्धानामयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षायाश्च[यां च] यत्नवत्वात् | अनागतज्ञानसमर्थ्याच्च सर्वकालाव्याहतज्ञानतयेति |
24 SK यदुक्तं भावाभावे ऽभावादिति | एतदेव श्रावकयानं महायानमेतेनैव महाबोधिप्राप्तिरिति कस्यचित्स्यादतः श्रावकयानस्य महायानत्वायोगे श्लोकः |
25 SK वैकल्यतो विरोधादनुपायत्वात्तथाप्यनुपदेशात् | न श्रावकयानमिदं भवति महायानधर्माख्यम् || Mस_१.९ ||
26 SK वैकल्यात्परार्थोपदेशस्य | न हि श्रावकयाने कश्चित्परार्थ उपदिष्टः श्रावकाणामात्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् | न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुमर्हति | विरोधात् | स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति विरुद्धमेतत् | न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुमर्हति | अनुपायत्वात् | अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरमपि प्रयुज्यमानः प्रार्थितमर्थं प्राप्नोति | श्रृङ्गादिव दुग्धं न भस्रया[भस्रायाः] | अथान्यथाप्यत्रोपदिष्टं यथा बोधिसत्त्वेन प्रयोक्तव्यम् | तथाप्यनुपदेशान्न श्रावकयानमेव महायानं भवितुर्महति | न हि स तादृश उपदेश एतस्मिन्नुपलभ्यते |
27 SK विरुद्धमेव चान्योन्यं श्रावकयानं महायानं चेत्यन्योन्यविरोधे श्लोकः |
28 SK आशयस्योपदेशस्य प्रयोगस्य विरोधतः | उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत् || Mस_१.१० ||
29 SK कथं विरुद्धम् | पञ्चभिर्विरोधैः | आशयोपदेशप्रयोगोपस्तम्भकालविरोधैः | श्रावकयाने ह्यात्मपरिनिर्वाणायैवाशयस्तदर्थमेवोपदेशस्तदर्थमेव प्रयोगः परीत्तश्च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः, कालेन चाल्पेन तदर्थप्राप्तिर्यावत्त्रिभिरपि जन्मभिः | महायाने तु सर्वं विपर्ययेण | तस्मादन्योन्यविरोधाद् यद् यानं हीनं हीनमेव तत् | न तन्महायानं भवितुमर्हति |
30 SK बुद्धवचनस्येदं लक्षणं यत्सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति | न चैवं महायानम्, सर्वधर्मनिःस्वभावत्वोपदेशात् | तस्मान्न बुद्धवचनमिति कस्यचित्स्यादतो लक्षणाविरोधे श्लोकः |
31 SK स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि | औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता || Mस_१.११ ||
32 SK अनेन श्लोकेन किं दर्शयति | अवतरत्येवेदं स्वस्मिन् महायानसूत्रे स्वस्य च क्लेशस्य[क्लेशः?] विनयः[विनये]संदृश्यते | यो महायाने बोधिसत्त्वानां क्लेशः उक्तः | विकल्पक्लेशा हि बोधिसत्त्वाः | औदार्यगाम्भीर्यलक्षणत्वाच्च | न धर्मतां विलोमयत्यथैव हि धर्मता महाबोधिप्राप्तये तस्मान्नास्ति लक्षणविरोधः |
33 SK अगोचरादित्युक्तमतर्स्तकगोचरत्वायोगे श्लोकः |
34 SK निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि | बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत् || Mस_१.१२ ||
35 SK अदृष्टसत्याश्रयो हि तर्कः कश्चिदागमनिश्रितो भवति | अनियतश्च भवति कालान्तरेणान्यथाप्रत्यवगमात् | अव्यापी च न सर्वज्ञेयविषयः | संवृतिसत्यविषयश्च न परमार्थविषयः | खेदवांश्च प्रतिभानपर्यादानात् | महायानं तु न निश्रितं यावदखेदवत् | शतसाहस्रिकाद्यनेकसूत्रोपदेशात् | अतो न तर्कस्य तद्विषयः |
36 SK अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तमित्युक्तम्, अथ महायानं कथमुपायो युक्त इत्युपायत्वयोगे श्लोकः |
37 SK औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना | देशनातो द्वयस्यास्मिन् स चोपायो निरुत्तरे || Mस_१.१३ ||
38 SK अनेन श्लोकेन किं दर्शयति | प्रभावौदार्यदेशनया सत्त्वानां परिपाकः प्रभावाधिमुक्तितो घटनात् | गाम्भीर्यदेशनया अविकल्पना, अत एतस्य द्वयस्यास्मिन् महायाने देशना | स चोपायो निरुत्तरे ज्ञाने, ताभ्यां यथाक्रमं सत्त्वानां परिपाचनादात्मनश्च बुद्धधर्मपरिपाकादिति |
39 SK ये पुनरस्मात् त्रसन्ति तदर्थमस्थानत्रासादीनवे कारणत्वेन श्लोकः |
40 SK तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद्दीर्घसमयम् | अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाचित्तशुभ- स्त्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत् इह || Mस_१.१४ ||
41 SK त्रासास्थाने त्रासस्तदस्थानत्रासः | दाहकरणो भवत्यपायेषु | किं कारणम् | महतः अपुण्यस्कन्धप्रसवस्य करणात् | कियन्तं कालमिति दीर्घसमयम् | एवं पश्चादादीनवः | येन च कारणेन यावन्तं च कालं तत् संदर्शयति | किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति | गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर्वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति | पतति महतो ऽर्थादिति महाबोधिसंभारार्थात् | अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति |
42 SK त्रासकारणमुक्तमत्रासकारणं वक्तव्यमित्यत्रासकारणत्वे श्लोकः |
43 SK तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्वहुमुखात् | यथाख्यानं नार्थाद्भगवति च भावातिगहनात् न धर्मे ऽस्मिंस्त्रासो भवति विदुषां योनिविचयात् || Mस_१.१५ ||
44 SK तदन्यान्या[न्यस्या?]भावादिति ततो ऽन्यस्य महायानस्याभावात् | अथ श्रावकयानमेव महायानं स्यादन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् | सर्व एव हि बुद्धा भवेयुः | परमगहनत्वाच्च | सर्वज्ञज्ञानमार्गस्यानुगमाच्च तुल्यकालप्रवृत्त्या | विचित्रस्याख्यानात् | विचित्रश्चात्र संभा[सा?]रमार्ग आख्यायते न केवलं शून्यतैव | तस्माद[आ]भिप्रायिकेनानेन भवितव्यमिति | ध्रुवकथनयोगाद्, बहुमुखादभीक्ष्णं चात्र शून्यता कथ्यते बहुमिश्च पर्यायैस्तेषु तेषु सूत्रान्तेषु तस्माद्भवितव्यमत्र महता प्रयोजनेन | अन्यथा हि सत्कृत्प्रतिषेधमात्रकृतमभबिष्यदिति | यथाख्यानं नार्थात् न चास्य यथारुतमर्थो ऽस्मादपि त्रासो न युक्तः | भगवति च भावातिगहनादतिगहनश्च बुद्धानां भावो दुराज्ञेयस्तस्मान्नास्माभिस्तदज्ञानात्त्रसितव्यमिति | एवं योनिशः प्रविचयाद्विदुषां त्रासो न भवति |
45 SK दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः |
46 SK श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज्ज्ञानं प्रभवति च तत्त्वार्थविषयम् | ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः || Mस_१.१६ ||
47 SK श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्यर्थः | योनिशो मनस्कारात्तत्त्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिः, ततस्तत्फलस्य धर्मस्य प्राप्तिः, ततस्तस्मिन् प्राप्ते मतिर्विमुक्तिज्ञानं प्रादुर्भवति | एवं यदा प्रत्यात्मं सा मतिर्भवति, कथमसति तस्मिन्नेषा व्यवसितिर्निश्चयो भवति नैवेदं बुद्धवचनमितिए |
48 SK अत्रासपदस्थानत्वे श्लोकः |
49 SK अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् | कस्माद् गभीरार्थविदां च मोक्ष इत्येतदुत्त्रासपदं न युक्तम् || Mस_१.१७ ||
50 SK यदि तावदहमस्य न बोद्धेत्युत्त्रासपदम्, तन्न युक्तम् | अथ बुद्धो ऽपि गम्भी[भी?] रस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्युत्त्रासपदम्, तदयुक्तम् | अथ गम्भी[भी]रं कस्मादतर्कगम्यमित्युत्त्रासपदम्, तन्न युक्तम् | अथ कस्माद् गभीरार्थविदामेव मोक्षो न तार्किकाणामित्युत्त्रासपदम्, तन्न युक्तम् |
51 SK अनधिमुक्तित एव तत्सिद्वौ श्लोकः |
52 SK हीनाधिमुक्तेः सुनिहीनधातोर्ही नैः सहायैः परिवारितस्य | औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर्यदि नास्ति सिद्धम् || Mस_१.१८ ||
53 SK यस्य हीना चाधिक[चाधि]मुक्तिः, ततश्च हीन एव धातुः समुदागत आलयविज्ञानभावना | हीनैरेव सहायैः समानाधिमुक्तिधातुकैर्यः परिवारितस्तस्यास्मिन्नौदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्यधिमुक्तिर्नास्ति, अत एव सिद्धमुत्कृष्टमिदं महायानमिति |
54 SK अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः |
55 SK श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वाश्रुते यः प्रकरोत्यवज्ञाम् | श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः || Mस_१.१९ ||
56 SK कामं तावदधिमुक्तिर्न स्यादश्रुतानां तु सूत्रान्तानामविशेषेण प्रतिक्षेपो न युक्तः | श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्येवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः कारणान्निश्चयमेति न तद्बुद्धवचनमिति | न हि तस्य श्रुतादन्यब्दलमस्ति तस्मादश्रुत्वा प्रतिक्षेपो न युक्तः |
57 SK यदपि च श्रुतं तद्योनिशो मनसि कर्तव्यं नायोनिश इत्ययोनिशोमनसिकारादीनवे श्लोकः |
58 SK यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः | स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतीघातमेव] || Mस_१.२० ||
59 SK स्वप्रत्यय इति स्वयंदृष्टिपरामर्शको, न विज्ञानामन्तिकादर्थपर्येषी | हानिमुपैति बुद्धेरिति यथाभू[रु]तज्ञानादप्राप्तिपरिहानितः | धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन्निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति | धर्मे च प्रतिघातमावरणं च धर्मव्यसनसंवर्तनीयं कर्मेत्ययमत्रादीनवः |
60 SK अयथावतश्चा[अयथारुतञ्चा]र्थमविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः |
61 SK मनः प्रदोषः प्रकृतिप्रदुष्टो [ऽयथारुते चापि]ह्ययुक्तरूपः | प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा || Mस_१.२१ ||
62 SK प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः | तस्मादुपेक्षैव वरम् | कस्मात् | सा ह्यदोषा | प्रतिघातस्तु सदोषः |
63 SK | महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः ||
65 SK शरणगमनविशेषसंग्रहश्लोकः |
66 SK रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् | सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन || Mस_२.१ ||
67 SK स एव परमः शरणं गतानामिति | केन कारणेन | चतुर्विधस्वभावार्थविशेषणेन | चतुर्विधो ऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः | सर्वत्रगार्थः | अभ्युपगमार्थः | अधिगमार्थः | अभिभवार्थः | ते पुनरुत्तरत्र निर्देक्ष्यन्ते |
68 SK तथाप्यत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन्नोत्सहन्ते | श्लोकः |
69 SK यस्मादादौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैरपि कल्पैः | सिद्धो यस्मात्सत्त्वहिताधानमहार्थस्तस्मादग्रे यान इहाग्रशरणार्थः || Mस_२.२ ||
70 SK एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति | फलप्राप्तिविशेषेण महार्थत्वम् |
71 SK पूर्वाधिकृते सर्वत्रगार्थे श्लोकः |
72 SK सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो याने ज्ञाने सर्वगते कौशल्ययुक्तः | यो निर्वाणे संसरणे ऽप्येकरसो ऽसौ [संसृतिशान्त्येकरसो ऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम् || Mस_२.३ ||
73 SK एतेन चतुर्विधं सर्वत्रगार्थं...........................
74 SK असांकेतिकं धर्मताअप्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिरौदारिकसूक्ष्मप्रभेदेन |
75 SK शरणप्रतिपत्तिविशेषणे श्लोकः |
76 SK शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सो ऽप्रमेयाम् | स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्य]धर्मम् || Mस_२.४ ||
77 SK अत्र शरणगमनस्थां महार्थतां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति | स्वार्थप्रतिपत्तिः पुनर्बहुप्रकाराप्रमेयगुणवृद्ध्या | अप्रमेयत्वं तर्कसंख्याकालाप्रमेयतया वेदितव्यम् | न हि सा गुणवृद्धिस्तर्केण प्रमेया न संख्यया न कालेनात्यन्तिकत्वात् | परार्थप्रतिपत्तिराशयतश्च करुणास्फुरणेन प्रयोगतश्च महायानधर्मप्रथनेन | महायानं हि महार्यदृशां धर्मः |
78 SK || महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः ||
80 SK गोत्रप्रभेदसंग्रहश्लोकः
81 SK सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता | आदीनवो ऽनुशंसश्च द्विधौपम्यं चतुर्विधा || Mस_३.१ ||
82 SK अनेन गोत्रस्यास्तित्वमग्रत्वं स्वभावो लिङ्गं भेद आदीनप्रवो ऽनुशंसो द्विधौपम्यं चेत्येष प्रभेदः संगृहीतः | एते च प्रभेदाः प्रत्येकं चतुर्विधाः |
83 SK अनेन गोत्रास्तित्वविभागे श्लोकः |
84 SK धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः | फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते || Mस_३.२ ||
85 SK नानाधातुकत्वात्सत्त्वानामपरिमाणो धातुप्रभेदो यथोक्तमक्षराशिसूत्रे | तस्मादेवंजातीयको ऽपि धातुभेदः प्रत्येतव्यः इति | अस्ति यानत्रये गोत्रभेदः | अधिमुक्तिभेदो ऽपि सत्त्वानामुपलभ्यते | प्रथमत एव कस्यचित् क्वचिदेव याने ऽधिमुक्तिर्भवति | सो ऽन्तरेण गोत्रभेदं न स्यात् | उत्पादितायामपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन्निर्बोढा भवति कश्चिन्नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् | फलभेदश्चोपलभ्यते हीनमध्यविशिष्टा बोधयः | सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य |
86 SK अग्रत्वविभागे श्लोकः |
87 SK उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च | शुभस्य तन्निमित्तत्वात् गोत्रग्रत्वं विधीयते || Mस_३.३ ||
88 SK अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति | तद्धि गोत्रं कुशलमूलानामुदग्रत्वे निमित्तं, सर्वत्वे, महार्थत्वे, अक्षयत्वे च | न हि श्रावकाणां तथोदग्राणि कुशलमूलानि, न च सर्वाणि सन्ति, बलवैशारद्याद्यभावात् | न च महार्थान्यपरार्थत्वात् | न चाक्षयाण्यनुपधिशेषनिर्वाणावसानत्वात् |
90 SK प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् | सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः || Mस_३.४ ||
91 SK एतेन चतुर्विधं गोत्रं दर्शयति | प्रकृतिस्थं समुदानीतमाश्रयस्वभावमाश्रितस्वभावं च तदेव यथाक्रमम् | तत्पुनर्हेतुभावेन सत् फलभावेनासत् गुणोत्तारणार्थेन गोत्रं वेदितव्यं गुणा उत्तरन्त्यस्मादुद्भवन्तीति कृत्वा |
93 SK कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः | समाचारः शुभस्यापि गोत्रलिङ्गं निरूप्यते || Mस_३.५ ||
94 SK चतुर्विधं लिङ्गं बोधिसत्त्वगोत्रे | आदिप्रयोगत एव कारुण्यं सत्त्वेषु | अधिमुक्तिर्महायानधर्मे | क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन | समाचारश्च पारमितामयस्य कुशलस्येति |
95 SK प्रभेदविभागे श्लोकः |
96 SK नियतानियतं गोत्रमहार्यं हार्यमेव च | प्रत्ययैर्गोत्रभेदो ऽयं समासेन चतुर्विधः || Mस_३.६ ||
97 SK समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति |
99 SK क्लेशाभ्यासः कुमित्रत्वं विघातः परतन्त्रता | गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः || Mस_३.७ ||
100 SK बोधिसत्त्वगोत्रे समासेन चतुर्विध आदीनवो येन गोत्रस्थो ऽगुणेषु प्रवर्तते | क्लेशबाहुल्यम्, अकल्याणमित्रता, उपकरणविघातः, पारतन्त्र्यं च |
101 SK अनुशंसविभागे श्लोकः |
102 SK चिरादपायगमनमाशुमोक्षश्च तत्र च | तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना || Mस_३.८ ||
103 SK चतुर्विधो बोधिसत्त्वस्य गोत्रे ऽनुशंसः | चिरेणापायान् गच्छति | क्षिप्रं च तेभ्यो मुच्यते | मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते | संविग्नचेतास्तदुपपन्नांश्च सत्त्वान्करुणायमानः परिपाचयति |
104 SK महासुवर्णगोत्रौपम्ये श्लोकः |
105 SK सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः | ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः || Mस_३.९ ||
106 SK महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति | प्रभूतस्य, प्रभास्वरस्य, निर्मलस्य, कर्मण्यस्य च | तत्साधर्म्येण बोधिसत्त्वगोत्रमप्रमेयकुशलमूलाश्रयः | ज्ञानाश्रयः | क्लेशनैर्मल्याप्राप्त्याश्रयः | अभिज्ञादिप्रभावाश्रयश्च | तस्मान्महासुवर्णगोत्रोपमं वेदितव्यम् |
107 SK महारत्नगोत्रौपम्ये श्लोकः |
108 SK सुरत्नगोत्रवज्ज्ञेयं महाबोधिनिमित्ततः | महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात् || Mस_३.१० ||
109 SK महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति | जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च | तदुपमं बोधिसत्त्वगोत्रं वेदितव्यम्, महाबोधिनिमित्तत्वात्, महाज्ञाननिमित्तत्वात्, आर्यसमाधिनिमित्तत्वात्, चित्तस्य हि संस्थितिः समाधिः, महासत्त्वपरिपाकनिमित्तत्वाच्च बहुसत्त्वपरिपाचनात् |
110 SK अगोत्रस्थविभागे श्लोकः |
111 SK ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा | अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्यपि हेतुहीनः || Mस_३.११ ||
112 SK अपरिनिर्वाणधर्मक एतस्मिन्नगोत्रस्थो ऽभिप्रेतः | स च समासतो द्विविधः | तत्कालापरिनिर्वाणधर्मा अत्यन्तं च | तत्कालापरिनिर्वाणधर्मा चतुर्विधः | दुश्चरितैकान्तिकः, समुच्छिन्नकुशलमूलः, अमोक्षभागीयकुशलमूलः, हीनकुशलमूलश्चापरिपूर्णसंभारः | अत्यन्तापरिनिर्वाणधर्मा तु हेतुहिनो यस्य परिनिर्वाणगोत्रमेव नास्ति |
113 SK प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः |
114 SK गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च | संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात् || Mस_३.१२ ||
115 SK यद्गाभी[म्भी]र्योदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्यौदार्यार्थमज्ञात्वैवाधिमुक्तिर्विपुला भवति, प्रतिपत्तौ चोत्साहः [चाखेदः] संपत्तिश्चावसाने महाबोधिर्द्वयगतायाः (MSA_Bअग्छि १४) संपत्तेः परमा, तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्त्वगोत्रस्य माहात्म्यं वेदितव्यम् | द्वयगता इति द्वये लौकिकाः श्रावकाश्च | परमेति विशिष्टा |
116 SK फलतो गोत्रविशेषणे श्लोकः |
117 SK सुविपुलगुणबोधिवृक्षवृद्ध्यै घनसुखदुःखशमोपलब्धये च | स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत् || Mस_३.१३ ||
118 SK स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वमनेन बोधिसत्त्वगोत्रं संदर्शितम् |
119 SK || महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः ||
121 SK चित्तोत्पादलक्षणे श्लोकः |
122 SK महोत्साहा महारम्भा महार्थाथ महोदया | चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः || Mस_४.१ ||
123 SK महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिपक्षोत्स[त्त्यु]त्सहनात् | महारम्भा यथासंनाहप्रयोगवीर्येण | महार्था आत्मपरहिताधिकारात् | महोदया महाबोधिसमुदागमत्वात् | सो ऽयं त्रिविधो गुणः परिदीपितः, पुरुषकारगुणो द्वाभ्यां पदाभ्यामर्थक्रियागुणः फलपरिग्रहगुणश्च द्वाभ्याम् | द्वयार्था महाबोधिसत्त्वार्थक्रियालम्बनत्वात् | इति त्रिगुणा द्वयालम्बना च चतेना चित्तोत्पाद इत्युच्यते |
124 SK चित्तोत्पादप्रभेदे श्लोकः |
125 SK चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः | वैपाक्यो भूमिषु मतस्तथावरणवर्जितः || Mस_४.२ ||
126 SK चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः | आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ | शुद्धाध्याशयिकः सप्तसु भूमिषु | वैपाकिको ऽष्टम्यादिषु | अनावरणिको बुद्धभूमौ |
127 SK चित्तोत्पादविनिश्चये चत्त्वारः श्लोकाः |
128 SK करुणामूल इष्टो ऽसौ सदासत्त्वहिताशयः | धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा || Mस_४.३ ||
129 SK उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः | उत्थापना विपक्षस्य परिपन्थो ऽधिवासना || Mस_४.४ ||
130 SK शुभवृद्ध्यनुसंसो ऽसौ पुण्यज्ञानमयः स हि | सदापारमितायोगनिर्याणश्च स कथ्यते || Mस_४.५ ||
131 SK भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः | विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः || Mस_४.६ ||
132 SK तथायं विनिश्चयः | किंमूल एष चतुविर्धो बोधिसत्त्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः (MSA_Bअग्छि १६) किंपर्यवसान इति | आह | करुणामूलः | सदासत्त्वहिताशयः | महायानधर्माधिमोक्षः | तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् [नः] | उत्तरोत्तरच्छन्दयानः | बोधिसत्त्वशीलसंवरप्रतिष्ठः | परिपन्थ आदीनवः | कः पुनस्तत्परिपन्थो विपक्षस्यान्ययानचित्तस्योत्थापनाधिवासना वा | पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः | सदापारमिताभ्यासनिर्याणः | भूमिपर्यवसानश्च प्रतिस्वं भूमिप्रयोगात् | यस्यां भूमौ यः प्रयुक्तस्तस्य तद्भूमिपर्यवसानः |
133 SK समादानसांकेतिकचित्तोत्पादे श्लोकः |
134 SK मित्रबलाद् हेतुबलान्मूलबलाच्छ्रू तबलाच्छुभाभ्यासात् | अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात् || Mस_४.७ ||
135 SK यो हि पराख्यानाच्चित्तोत्पादः परविज्ञापनात्स उच्यते समादानसांकेतिकः | स पुनर्मित्रबलाद्वा भवति कल्याणमित्रानुरोधात् | हेतुबलाद्वा गोत्रसामर्थ्यात् | कुशलमूलद्वातीत[तद्गोत्र]पुष्टितः | श्रुतबलाद्वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् | शुभाभ्यासाद्वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः | स पुनर्मित्रबलाददृढोदयो वेदितव्यः | हेत्वादिबलाद् दृढोदयः |
136 SK पारमार्थिकचित्तोत्पादे सप्त श्लोकाः |
137 SK सूपासितसंबुद्धे सुसंभूतज्ञानपुण्यसंभारे | धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य || Mस_४.८ ||
138 SK धर्मेषु च सत्त्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे | समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य || Mस_४.९ ||
139 SK जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि | कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् || Mस_४.१० ||
140 SK धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः | ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री || Mस_४.११ ||
141 SK औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् | उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् || Mस_४.१२ ||
142 SK आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि | आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम् || Mस_४.१३ ||
143 SK निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण | तत्कल्पनताज्ञानादविकल्पनया च तस्यैव || Mस_४.१४ ||
144 SK प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति | स च पारमार्थिकश्चित्तोत्पादः प्रमुदितायां भूमाविति [प्रमुदिताभूमिः] | प्रामोद्यविशिष्टतायास्तत्र कारणं दर्शयति | तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् | सत्त्वेषु समचित्तता आत्मपरसमतोपगमात् | सत्त्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् | बुद्धत्वे समचित्तता तद्धर्मधातोरात्मन्यभेदप्रतिबोधात् | तस्मिन्नेव च पारमार्थिकचित्तोत्पादे षडर्था वेदितव्याः | जन्म औदार्यमुत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च | तत्र जन्म बीजमातृगर्भधात्रीविशेषाद्वेदितव्यम् | औदार्यं दशमहाप्रणिधानाभिनिर्हारात् | उत्साहो दीर्घकालिकदुष्कराखेदात् | आशयशुद्धिरासन्नबोधिज्ञानात्तदुपायज्ञानलाभाच्च | परिशिष्टकौशल्यमन्यासु भूमिषु कौशल्यम् | निर्याणं यथाव्यवस्थानभूमिमनसिकारेण | कथं मनसिकारेण, तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात्कल्पनामात्रमेतदिति | तस्यैव च कल्पनाज्ञानस्याविकल्पनात् |
145 SK औपम्यमाहात्म्ये षट् श्लोकाः |
146 SK पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः | शुक्लनवचन्द्रसदृशो बह्निप्रख्यो ऽपरोच्छ्रायः [ज्ञेयः] || Mस_४.१५ ||
147 SK भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः | सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः || Mस_४.१६ ||
148 SK भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः | चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः || Mस_४.१७ ||
149 SK गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः | कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः || Mस_४.१८ ||
150 SK यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः | आनन्दशब्दसदृशो महानदीश्रोत[स्त्रोतः]सदृशश्च || Mस_४.१९ ||
151 SK मेघसदृशश्च कथितश्चित्तोत्पादो जिनात्मजानां हि | तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् || Mस_४.२० ||
152 SK प्रथमचित्तोत्पादो बोधिसत्त्वानां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवरस्य प्रतिष्ठाभूतत्वात् | आशयसहगतश्चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् | प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् | अध्याशयसहगतो बह्निसदृश इन्धनाकरविशेषेणेवाग्निस्तस्योत्तरोत्तरविशेषाधिगमनात् | विशेषाधिगमाशयो ह्यध्याशयः | दानपारमितासहगतो महानिधनोपम आमिषसंभोगेनाप्रमेयसत्त्वसंतर्पणादक्षयत्वाच्च | शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् | क्षान्तिपारमितासहगतः सागरोपमः सर्वानिष्टोपरिपातैरक्षोभ्यत्वात् | वीर्यपारमितासहगतो वज्रोपमो दृढत्वादभेद्यतया | ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वादविक्षेपतः | प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् | अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् | अभिज्ञासहगतश्चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः | संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् | प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् | प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् | पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् | बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयतत्वात् | शमथविपश्यनासहगतो यानोपमः सुखवहनात् | धारणा-प्रतिभानसहगतो गन्धर्वोपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मार्थधारणाक्षयोद्भेदतः | धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रावणात् | एकायनमार्गसहगतो नदीश्रो[स्रो]तः समः स्वरसवाहित्वात् | अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्त्वानामभिन्नकार्यक्रियात्वात् | उपायकौशल्यसहगतो मेघोपमः सर्वसत्त्वार्थक्रियातदधीनत्वात्तुषितभवनवासादिसंदर्शनतः | यथा मेघात्सर्वभाजनलोकसंपत्त्यः | एष च द्वाविंशत्युपमश्चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः |
153 SK चित्तानुत्पादपरिभाषायां श्लोकः |
154 SK परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् | महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम् || Mस_४.२१ ||
155 SK तेन चित्तोत्पादेन वर्जिताः सत्त्वाश्चतुर्विधं सुखं न लभन्ते यद्बोधिसत्त्वानां परार्थचिन्तनात्सुखम् | (MSA_Bअग्छि १९) यच्च परार्थोपायलाभात् | यच्च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वतो[सूत्रा]भिप्रायिकार्थविबोधतः | यच्च परमतत्त्वस्य धर्मनैरात्म्यस्य संदर्शनात्सुखम् |
156 SK चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयतामुपादाय श्लोकः |
157 SK सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् | सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन[यन्] द्वयम् || Mस_४.२२ ||
158 SK तस्य चित्तवरस्य सहोदयाब्दोधिसत्त्वस्य सुसंवृतं चित्तं भवत्यनन्तसत्त्वाधिष्ठानाद् दुष्कृतादतो ऽस्य दुर्गतितो भयं न भवति | स च द्वयं वर्धयन् शुभं च कर्म-कृपां च नित्यं च शुभी भवति कृपालुश्च तेन सदा मोदते | सुखेनापि शुभित्वात् | दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् | अतो ऽस्य बहुकर्त्तव्यतापरिखेदादपि भयं न भवति |
159 SK अकरणसंवरलाभे श्लोकः |
160 SK यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् | परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवर्त्स्यति || Mस_४.२३ ||
161 SK अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते निरपेक्षत्वात् | स कथमात्मार्थं परोपघातेन दुष्कृते कर्मणि प्रवर्त्स्यतीति |
162 SK चित्ताव्यावृत्तौ श्लोकौ |
163 SK मायोपमान्वीक्ष्य स सर्वधर्मानुद्यानयात्रामिव चोपपत्तीः | क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले || Mस_४.२४ ||
164 SK स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च | विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम् || Mस_४.२५ ||
165 SK मायोपमसर्वधर्मेक्षणात्स बोधिसत्त्वः संपत्तिकाले क्लेशेभ्यो न विभेति | उद्यानयात्रोपमोपपत्तीक्षणात् विपत्तिकाले दुःखान्न बिभेति | तस्य कुतो भयाब्दोधिचित्तं व्यावर्तिष्यते | अपि च स्वगुणा मण्डनं बोधिसत्त्वानाम् | परहितात्प्रीतिर्भोजनम् | संचिन्त्योपपत्तिरुद्यानभूमिः | ऋद्धिविकुर्वितं क्रीडारतिर्बोधिसत्त्वानामेवास्ति | नाबोधिसत्त्वानाम् | तेषां कथं चित्तं व्यावर्तिष्यते |
166 SK दुःखत्रासप्रतिषेधे श्लोकः |
167 SK परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतो ऽस्य रम्यताम् | कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे || Mस_४.२६ ||
168 SK अपि च यस्य परार्थमुद्योगवतः करुणात्मकत्वादवीचिरपि रम्यः स कथं परार्थनिमित्तैर्दुःखोत्पादैर्भवे पुनस्त्रासमापत्स्यते | यतो ऽस्य दुःखात्त्रासः स्याच्चित्तस्य व्यावृत्तिर्भवति |
169 SK सत्त्वोपेक्षाप्रतिषेधे श्लोकः |
170 SK महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः | परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना || Mस_४.२७ ||
171 SK यस्य महाकरुणाचार्येण नित्योषितः आत्मा परदुःखैश्च दुःखितं चेतस्तस्योत्पन्ने परार्थं करणीये यदि परैः कल्याणमित्रैः समादापना कर्तव्या भवति अतिलज्जना |
172 SK कौशीद्यपरिभाषायां श्लोकः |
173 SK शिरसि विनिहितोच्चसत्त्वभारः शिथिलगतिर्नहि शोभते ऽग्रसत्त्वः | स्वपरविविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्त्तुम् || Mस_४.२८ ||
174 SK शिरसि महान्तं सत्त्वभारं विनिधाय बोधिसत्त्वः शिथिलं पराक्रममाणो न शोभते | शतगुणं हि स वीर्यं कर्तुमर्हति श्रावकवीर्यात् तथा हि स्वपरबन्धनैर्विविधैरत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः |
175 SK || महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः ||
177 SK प्रतिपत्तिलक्षणे श्लोकः |
178 SK महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते | सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका || Mस_५.१ ||
179 SK तत्र महाश्रया चित्तोत्पादाश्रयत्वात् | महारम्भा स्वपरार्थारम्भात् | महाफलोदया महाबोधिफलत्वात् | अत एव यथाक्रमं महादाना सर्वसत्त्वोपादानात् | महाधिवासना सर्वदुःखाधिवासनात् | महार्थसंपादनकृत्यकारिका विपुलसत्त्वार्थसंपादनात् |
180 SK स्वपरार्थनिर्विशेषत्वे श्लोकः |
181 SK परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे | तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता || Mस_५.२ ||
182 SK परत्रात्मसमानचित्ततां लब्ध्वाधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे | आत्मतो वा पुनः परत्र विशिष्टतरामिष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्त्वस्य कः स्वार्थः परार्थो वा | निर्विशेषं हि तस्योभयमित्यर्थः |
183 SK परार्थविशेषणे श्लोकः |
184 SK परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ | यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते || Mस_५.३ ||
185 SK यथा स्वात्मनः परार्थो विशिष्यते तत्साधयति परार्थमात्मनो ऽत्यर्थं संतापनात् |
186 SK परार्थप्रतिपत्तिविभागे द्वौ श्लोकौ |
187 SK निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनतावतारणा | विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः || Mस_५.४ ||
188 SK गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता | तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः || Mस_५.५ ||
189 SK त्रिविधे सत्त्वनिकाये हीनमध्यविशिष्टगोत्रस्थेः त्रयोदशविधो बोधिसत्त्वस्य परार्थः | सुदेशनानुशासन्यादेशनाप्रतिहार्याभ्याम् | आवर्जना ऋद्धिप्रातिहायेर्ण | अवतारणा शासनाभ्युपगमनात् | विनीतिरर्थे ऽवतीर्णानां संशयच्छेदनम् | परिपाचना कुशले | अववादश्चित्तस्थितिः प्रज्ञाविमुक्तिः, अभिज्ञादिभिर्विशेषकैर्गुणैः समुदागमः | तथागतकुले जन्म, अष्टभ्यां भूमौ व्याकरणं दशम्यामभिषेकश्च | सह तथागतज्ञानेनेत्येष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्त्वस्य |
190 SK परार्थप्रतिपत्तिसंपत्तौ श्लोकः |
191 SK जनानुरूपाविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा | क्षमा च दान्ता च सुदूरगाक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा || Mस_५.६ ||
192 SK यथासौ परार्थपतिपत्तिः संपन्ना भवति तथा संदर्शयति | कथं चासौ संपन्ना भवति | यदि गोत्रस्थजनानुरूपाविपरीता च देशना भवति | अनुन्नता चावर्जना | अममा चावतारणा | न ऋद्धया मन्यते न चावतारितान्सत्त्वान्ममायति | विचक्षणा चार्थे विनीतिप्रतिपत्तिर्भवति | क्षमा च शुभे परिपाचनाप्रतिपत्तिः | दान्ता चाववादादिप्रतिपत्तिः | न ह्यदान्तो ऽववादादिषु परेषां समर्थः | सुदूरगा च कुलोदयादिप्रतिपत्तिः | न ह्यदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः | सर्वा चैषा, परार्थप्रतिपत्तिर्बोधिसत्त्वानामक्षया भवत्यभ्युपगतसत्त्वाक्षयत्वादतो ऽपि संपन्ना वेदितव्या |
193 SK प्रतिपत्तिविशेषणे द्वौ श्लोकौ |
194 SK महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः | प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः || Mस_५.७ ||
195 SK जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् | सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम् || Mस_५.८ ||
196 SK तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् | चलं विपर्याससुखं रूपारूप्यभवप्रियाणामनित्यत्वात्परमार्थदुःखत्वाच्च संस्कारदुःखतया | आधयः क्लेशा वेदितव्या दुःखाधानात् | विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखमेवाप्नोति | बोधिसत्त्वस्तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्ययमस्यापरः प्रतिपत्तिविशेषः |
197 SK गोचरपरिणामने श्लोकः |
198 SK यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः | तथा तथा युक्तसमानतापदैर्हिताया सत्त्वेष्वभिसंस्करोति तत् || Mस_५.९ ||
199 SK येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्त्वः प्रवर्तते | ईर्यापथव्यापारचारे वर्तमानस्तेन तेन प्रकारेण संबद्धसादृश्यवचनैर्हितार्थं सत्त्वेषु तत्सर्वमभिसंस्करोति | यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टम् |
200 SK सत्त्वेष्वक्षान्तिप्रतिषेधे श्लोकः |
201 SK सदास्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् | अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः || Mस_५.१० ||
202 SK सदा क्लेशैरस्वतन्त्रीकृतचेतने जने न संदोषमुपैति बोधिसत्त्वः | किं कारणम् | अकामकारेणैषां विप्रतिपत्तयो भवन्तीति विदित्वा करुणावृद्धिगमनात् |
203 SK प्रतिपत्तिमाहात्म्ये श्लोकः |
204 SK भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव | विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन || Mस_५.११ ||
205 SK चतुर्विधं माहात्म्यं संदर्शयति | अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधामभिभूयगमनात् | यथोक्तं प्रज्ञापारमितायां, रूपं चेत्सुभूत[ते] भावो ऽभविष्यन्नाभावो नेदं महायानं सदेवमानुषासुरलोकमभिभूय निर्यास्यतीति विस्तरः | निर्वृतिमाहात्म्यमप्रतिष्ठनिर्वाणानुगतत्वात् | गुणवृद्धिमाहात्म्यं सत्त्वापरित्यागमाहात्म्यं चेति |
206 SK || महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः ||
208 SK परमार्थलक्षणविभागे श्लोकः |
209 SK न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चा[ना]वहीयते | न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम् || Mस_६.१ ||
210 SK अद्वयार्थो हि परमार्थः | तमद्वयार्थं पञ्चभिराकारैः संदर्शयति | न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां, न चासत्परिनिष्पन्नलक्षणेन | न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् | न चान्यथा ताभ्यमेवान्यत्वाभावात् | न जायते न च व्येत्यनभिसंस्कृतत्वाद्धर्मधातोः | न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर्निरोधोत्पादे तद्[था]वस्थत्वात् | न विशुध्यति प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् | इत्येतत्पञ्चविभमद्वयलक्षणं परमार्थलक्षणं वेदितव्यम् |
211 SK आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः |
212 SK न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा | द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः || Mस_६.२ ||
213 SK न तावदात्मदृष्टिरेवात्मलक्षणा | नापि दुःसंस्थितता | तथा हि सा विलक्षणा आत्मलक्षणात्परिकल्पितात् | सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् | नाप्यतो द्वयादन्यदात्मलक्षणमुपपद्यते | तस्मान्नास्त्यात्मा | भ्रम एष तूत्पन्नो येयमात्मदृष्टिस्तस्मादेव चात्माभावोन्मोक्षो ऽपि भ्रममात्रसंक्षयो वेदितव्यः, न तु कश्चिन्मुक्तः |
214 SK विपर्यासपरिभाषायां द्वौ श्लौकौ |
215 SK कथं जनो विभ्रममात्रामाश्रितः परैति दुःखप्रकृतिं न संतताम् | अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः || Mस_६.३ ||
216 SK प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् | तमः प्रकारः कतमो ऽयमीदृशो यतो ऽविपश्यन्सदसन्निरीक्षते || Mस_६.४ ||
217 SK कथं नामायं लोको भ्रान्तिमात्रमात्मदर्शनं निःश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति | अवेदको ज्ञानेन तस्या दुःखप्रकृतेः | वेदको ऽनुभवेन (MSA_Bअग्छि २५) दुःखस्या[स्य] दुःखितो दुःखस्याप्रहीणत्वात् | न दुःखिउतो दुःखयुक्तस्यात्मनो ऽसत्वात् | धर्ममयो धर्ममात्रत्वात् पुद्गलनैरात्म्येन | न च धर्ममयो धर्मनैरात्म्येन | यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति | तत्कथमेतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नमिति | कतमो ऽयमीदृशस्तमः प्रकारो लोकस्य यद्विद्यमानं प्रतीत्यसमुत्पादमविपश्यन्नविद्यमानमात्मानं निरीक्षते | शक्यं हि नाम तमसा विद्यमानमद्रष्टुं स्यान्न त्वविद्यमानं द्रष्ठुमिति |
218 SK असत्यात्मनि शमजन्मयोगे श्लोकः |
219 SK त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह | तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् || Mस_६.५ ||
220 SK न चास्ति संसारनिर्वाणयोः किंचिन्नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया | तथापि जन्मक्षयान्मोक्षप्राप्तिर्भवत्येव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति | विपर्यासपरिभाषां कृत्वा-
221 SK तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः |
222 SK संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः | धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति || Mस_६.६ ||
223 SK अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे | प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन || Mस_६.७ ||
224 SK नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् | द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मधातौ || Mस_६.८ ||
225 SK अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा | तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते || Mस_६.९ ||
226 SK एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रि[श्चि]तत्वं समाधि[धिं]निश्रित्यभावनान्मनोजल्पाच्च तेषां धर्माणामर्थप्रख्यानावगमात्तत्प्रवेशं दर्शयति | असंख्येयप्रभेदकालं पारमस्य (MSA_Bअग्छि २६) परिपूरणमित्यनन्तपारम् | द्वितीयेन मनोजल्पमात्रानर्थान्विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्त्वस्य निर्वेधभागीयावस्था | ततः परेण धर्मधातोः प्रत्यक्षतो[ऽव?] गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन | इयं दर्शनमार्गावस्था | तृतीयेन यथासौ धर्मधातुः प्रत्यक्षतामेति तद् दर्शयति | कथं चासौ धर्मधातुः प्रत्यक्षतामेति | चित्तादन्यदालम्बनं ग्राह्यं नास्तीत्यवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्य[आ]भावे ग्राहकाभावात् | द्वये चास्य [द्वयस्यास्य?] नास्तित्वं विदित्वा धर्मधाताववस्थानमतद्गतिर्ग्राह्यग्राहकलक्षणाभ्यां रहितं एवं धर्मधातुः प्रत्यक्षतामेति | चतुर्थेन भावनामार्गावस्थायामाश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति | सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूरानुप्रविष्टस्य दोषसंचस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् |
227 SK परमार्थज्ञानमाहात्म्ये श्लोकः |
228 SK मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ | स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः || Mस_६.१० ||
229 SK बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्त्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिमुपनिविधाय या स्मृतिरूपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्रामवगच्छत्येवं गुणार्णवस्य पारंबुद्धत्वमाशु व्रजतीत्येतत्परमार्थज्ञानस्य माहात्म्यम् |
230 SK || महायानसूत्रालंकारे तत्त्वाधिकारः षष्ठः ||
232 SK प्रभावलक्षणविभागे श्लोकः |
233 SK उत्पत्तिवाक्चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् | ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः || Mस_७.१ ||
234 SK परेषामुपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा | वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां[यया] वाचं तत्र गत्वोपपन्ना भाषन्ते | चित्ते ज्ञानं चेतः पर्यायाभिज्ञा | पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा | यत्र विनेयास्तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा | निःसरणे ज्ञानमास्रवक्षयाभिज्ञा, यथा सत्त्वा उपपत्तितो निःसरन्तीति | एषु षट्स्वर्थेषु सर्वत्र लौकधातौ सप्रभेदेषु पदापरोक्षमव्याहतं ज्ञानं स प्रभावो बोधिसत्त्वानां षडभिज्ञासंगृहीतः | प्रभावलक्षणविभागे स्वभावार्थं उक्तः |
235 SK हेत्वर्थमारभ्य श्लोकः |
236 SK ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण | यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति || Mस_७.२ ||
237 SK येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस्तत्संदर्शयति |
238 SK फलार्थमारभ्य श्लोकः |
239 SK येनार्यदिव्याप्रतिमैर्विहारैर्ब्राह्मैश्च नित्यं विहरत्युदारैः | बुद्धांश्च सत्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम् || Mस_७.३ ||
240 SK त्रिविधं फलमस्य प्रभावस्य संदर्शयति | आत्मन आर्यादिसुखविहारमतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्त्वानां विशोधनं च |
241 SK कर्मार्थं षड्विधमारभ्य चत्वारः श्लोकाः |
242 SK दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः |
243 SK मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् | संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः || Mस_७.४ ||
244 SK स्वयं च सर्वलोकधातूनां ससत्त्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात् | परेषां यथेष्टं तत्संदर्शनात् | अन्यैश्च विचित्रैः कम्पनज्वलनादिप्रकारैः | दशवशितालाभात् | यथा दशभूमिके ऽष्टम्यां भूमौ निर्दिष्टाः |
245 SK रश्मिकर्मारभ्य श्लोकः |
246 SK रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति | मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्त्रासयते समारान् || Mस_७.५ ||
247 SK द्विविधं रश्मिकर्म संदर्शयति | अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनम् | मारभवनानां च समारकाणां कम्पनोद्वेजनम् |
248 SK विक्रीडनकर्म चारभ्य श्लोकः |
249 SK समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये | सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम् || Mस_७.६ ||
250 SK अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्त्वार्थकरणाच्च | त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणम् | विनेयवशेनयथेष्टोपपत्तिनिर्माणम् | उत्तमनिर्माणं च तुषितभवनवासादिकम् |
251 SK क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः |
252 SK ज्ञानवसित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय | अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तन्क्षिपते ऽन्यधातौ || Mस_७.७ ||
253 SK द्विविधपापविशोधनया | भाजनपरिशोधनया ज्ञानवशित्वाद्यथेष्टं स्फटिकवैदूर्यादिमयबुद्धक्षेत्रसंदर्शनतः | सत्त्वपरिशोधनया च बुद्धनामविरहितेषु लोकधातुषूपपन्नानां सत्त्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् |
254 SK योगार्थमारभ्य श्लोकः |
255 SK शक्तो भवत्येव च सत्त्वपाके संजातपक्षः शकुनिर्यथैव | बुद्धात्प्रशंसां लभते ऽतिमात्रामादेयवाक्यो भवति प्रजानाम् || Mस_७.८ ||
256 SK त्रिविधं योगं प्रदर्शयति | सत्त्वपरिपाचनशक्तियोगं प्रशंसायोगमादेयवाक्यतायोगं च |
257 SK वृत्त्यर्थमारभ्य श्लोकः |
258 SK षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षाभिभुवस्तथाष्टौ | दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः || Mस_७.९ ||
259 SK षड्भिः प्रभेदैर्बोधिसत्त्वस्य प्रभावो वर्तते | अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः |
260 SK एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः |
261 SK स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् | परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः || Mस_७.१० ||
262 SK त्रिविधं माहात्म्यं दर्शयति | वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् | अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् | भवनिर्भयतामाहात्म्यं च |
263 SK || प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः ||
265 SK बोधिसत्त्वपरिपाके संग्रहः श्लोकः |
266 SK रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च | अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् || Mस_८.१ ||
267 SK रूचिर्महायानदेशनाधर्मे, प्रसादस्तद्देशिके, प्रशमः क्लेशानाम्, अनुकम्पा सत्त्वेषु, क्षमा दुष्करचर्यायां, मेधा ग्रहणधारणप्रतिवेधेषु, प्रबलत्वमधिगमे, अहार्यता मारपरप्रवादिभिः, प्राहाणिकाङ्गैः समन्वागतत्वम् | भृशमिति रूच्यादीनामधिमात्रत्वं दर्शयति | एष समासेन बोधिसत्त्वानां नवप्रकार आत्मपरिपाको वेदितव्यः |
268 SK रूचिपरिपाकमारभ्य श्लोकः |
269 SK सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः | कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् || Mस_८.२ ||
270 SK सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश्च | उग्रवीर्यता अधिमात्रो वीर्यारम्भः | परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता | उत्तमधर्मसंग्रहो महायानधर्मरक्षा, तत्प्रतिपन्नानामुपद्रवेभ्यो रक्षणात् |
271 SK बोधिसत्त्वस्य महायानधर्मपरिग्रहमधिकृत्येदं रूचिपरिपाकलक्षणं वेदितव्यम् | येन कारणेन परिपच्यते सुमित्रतादित्रयेण | यश्च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः | यत्कर्म चोत्तमधर्मसंग्रहकरणात्तदेतेन परिदीषितम् |
272 SK प्रसादपरिपाकमारभ्य श्लोकः |
273 SK गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसो ऽध्यभेद[द्य?]ता | जीनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् || Mस_८.३ ||
274 SK तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः | गुणज्ञता इत्यपि स भगवांस्तथागत इति विस्तरेण कारणम् | अवेत्यप्रभाव[साद]लाभादभेद्यचित्तता स्वभावः |
275 SK आशुसमाधिलाभस्तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म |
276 SK प्रशमपरिपाकमारभ्य श्लोकः |
277 SK सुसंवृतिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता | जिनात्मजे क्लेशविनोदनायतन्मतं हि सम्यक्परिपाकलक्षणम् || Mस_८.४ ||
278 SK क्लेशविनोदना बोधिसत्त्वस्य प्रशमः | तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः | इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणम् | क्लिष्टवितर्कवर्जना स्वभावः | प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म |
279 SK कृपापरिपाकलक्षणमधिकृत्य श्लोकः |
280 SK कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् | विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् || Mस_८.५ ||
281 SK स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इतिकारणम् | विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः | सर्वलोकश्रेष्ठात्मभावता कर्म अविनिवर्तनीयभूमौ |
282 SK क्षान्तिपरिपाकलक्षणमारभ्य श्लोकः |
283 SK घृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा | विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् || Mस_८.६ ||
284 SK धृतिः सहनं क्षान्तिरिति पर्यायाः ततत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणम् | तीव्राणां शीतादिदुःखानामधिवासनास्वभावः | क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म |
285 SK मेधापरिपाकमारभ्य श्लोकः |
286 SK विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा | स्मृतेर्महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् || Mस_८.७ ||
287 SK तत्र मेधानुकूला विपाकविशुद्धिः कारणम् | श्रुतचिन्तितभावितचिरकृतचिरभाषितानामसंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर्मेधापरिपाकस्वभावः | लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म |
288 SK बलवत्वप्रतिलम्भपरिपाकमारभ्य श्लोकः |
289 SK शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा | मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् || Mस_८.८ ||
290 SK तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणम् | अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः | मनोरथसंपत्तिर्जगदग्रभूतता च कर्म |
291 SK अहार्यतापरिपाकमारभ्य श्लोकः |
292 SK सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् | पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् || Mस_८.९ ||
293 SK तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणम् | मारनिरन्तरायता स्वभावो यदा मारो न पुनः शन्कोत्यन्तरायं कर्तुम् | विशेषाधिगमः परपक्षदूषणं च कर्म |
294 SK प्राहाणिकाङ्गसमन्वागमपरिपाकमधिकृत्य श्लोकः |
295 SK शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता | जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम् || Mस_८.१० ||
296 SK तत्परिपाकस्य कारणं कुशलमूलोपचयः | आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः | विवेकोत्कृष्टता कुशलाभिरामता च कर्म |
297 SK नवविधात्मपरिपाकमाहात्म्यमारभ्य श्लोकः |
298 SK इति नवविधवस्तुपचितात्मा परपरिपाचनयोग्यतामुपेतः | शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः || Mस_८.११ ||
299 SK द्विविधं तन्माहात्म्यम् | परपरिपाके प्रतिशरणत्वम् | सततं धर्मकायवृद्धिश्च | तत एव जगतो ऽग्रबन्धुभूतः |
300 SK सत्त्वपरिपाकविभागे एकादश श्लोकाः |
301 SK व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता | तथाश्रये ऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता[मुशन्तिपव्कताम्] || Mस_८.१२ ||
302 SK अनेन परिपाकस्वभावं दर्शयति | यथा व्रणस्य स्रावणयोग्यता परिपाकः | भोजनस्य च भोगयोग्यता | एवं सत्त्वानामाश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनम् | भोगस्थानीयश्च प्रतिपक्षोपभोगः | तद्योग्यता आश्रयस्य परिपाक इति | विपक्षप्रतिपक्षावत्र पक्षद्वयं वेदितव्यम् |
304 SK विपाचनोक्ता परिपाचना तथा परिपाचना चाप्यनुपाचनापरा | सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु || Mस_८.१३ ||
305 SK अनेन परिपाकप्रभेदं दर्शयति | क्लेशविगमेन पाचनना [पाचना?] विपाचना | सर्वतो यानत्रयेण पाचना परिपाचना | बाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना | यथाविनेयधर्मदेशनात्तदनुरूपा पाचना अनुपाचना | सत्कृत्य पाचना सुपाचना | अधिगमेन पाचना अधिपाचना अविपरीतार्थेन | नित्या पाचना निपाचना अपरिहाणीयार्थेन | क्रमेणोत्तरोत्तरपाचना उत्पाचना | इत्ययमष्टप्रकारः परिपरिपाकप्रभेदः |
306 SK तृतीयचतुर्थौ श्लोकौ |
307 SK हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् | तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः || Mस_८.१४ ||
308 SK तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने | यथा कृपात्मा परसत्त्ववत्सलो हिते सुखे चैव नियोजनान्मतः || Mस_८.१५ ||
309 SK आभ्यां किं दर्शयति | यादृशेनाशयेन बोधिसत्त्वः सत्त्वान्परिपाचयति तमाशयं दर्शयति | मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् | आत्मवत्सलस्तु लोक आत्मानं हिते च सुखे च संनियोजयति |
310 SK अवशिष्टैः श्लोकैर्येन प्रयोगेण सत्त्वान्परिपाचयति तं पारमिता प्रतिपत्त्या संदर्शयति |
311 SK यादृशेन दानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः |
312 SK न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा | अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते || Mस_८.१६ ||
313 SK त्रिविधेन दानेन पाचयति | सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च | कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण | अविघातेनेच्छापरिपूर्णात् [पूरणात्] | अनागतेन [तेन] च संगृह्य कुशलप्रतिष्ठापनात् |
314 SK यादृशेन शीलेन यथा सत्वान्परिपाचयति तदारभ्य श्लोकः |
315 SK सदाप्रकृत्याध्यविहिंसकः स्वयं रतो ऽप्रमत्तो ऽत्र परं निवेशयन् | परंपरानुग्रहकृदूद्विधा परे विपाकनिष्यन्दगुणेन पाचकः || Mस_८.१७ ||
316 SK पञ्चविधेन शीलेन | ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविंहिंसकत्वात् | परिपूर्णो ह्यविहिंसको ऽध्यविहिंसको दशकुशलकर्मपथपरिपूरितः | यथोक्तं द्वितीयायां भूमौ | अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया | कथं च (MSA_Bअग्छि ३५) परिपाचयति | शीले संनिवेशनात् | द्विधानुग्रहक्रियया दृष्टधर्मे संपराये च | संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति | तद्विपाकनिष्यन्दयोरन्योन्यानुकूल्येनाव्यवच्छेदात् |
317 SK यादृश्या क्षान्त्या यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः |
318 SK परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् | उपायचित्तैरपकारमर्षणैः शुभे समादापयते ऽपकारिणः || Mस_८.१८ ||
319 SK अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति | उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यम् | कथं परिपाचयति | दृष्टधर्मानुग्रहेण चापकारमर्षणात् | संपरायानुग्रहेण चोपायज्ञस्तैरपकारमर्षणैरावर्ज्यापकारिणां कुशले समादापनात् |
320 SK यादृशेन वीर्येण यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः |
321 SK पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः | जिनात्मजः स[त्त्व]गणं प्रपाचयन्परैकचित्तस्य शुभस्य कारणात् || Mस_८.१९ ||
322 SK अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वमनन्तसत्त्वपरिपाचनात् | परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिरखेदात् | अत एवोक्तं भवति यथा परिपाचयति | कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति |
323 SK यादृशेन ध्यानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः |
324 SK वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयते ऽत्र शासने | निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः || Mस_८.२० ||
325 SK प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति | बुद्धशासने परस्यावर्जनादावर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति |
326 SK यादृश्या प्रज्ञया यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः |
327 SK स तत्त्वभावार्थनये सुनिश्चितः करोति सत्त्वान्सुविनीत संशयान् | ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः || Mस_८.२१ ||
328 SK स बोधिसत्त्वस्तत्त्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति | कथं परिपाचयति सत्त्वानां संशयविनयनात् | ततश्च शासनबहुमानात्तेषामात्मपरगुणसंवर्धकत्वेन |
330 SK इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः | तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या || Mस_८.२२ ||
331 SK अनेन यत्र च विनयति, सुगतिगमने यानत्रये वा | यच्च विनयति, जगदखिलम् | येन च विनयति, कृपया | यश्च विनयति बोधिसत्त्वः | यादृशैश्च परिपाचनप्रकारै तनुपरमविमध्यमप्रकारैः | यावन्तं च कालं, तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति | तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्त्वस्य परमो ऽष्टाम्यादिषु विमध्यमः सप्तसु वेदितव्यः | यावल्लोकस्य भावस्तत्समानया गत्या अत्यन्तमित्यर्थः |
332 SK || महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः ||
334 SK सर्वाकारज्ञतायां द्वौ श्लोकौ | तृतीयस्तयोरेव निर्देशभूतः | अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः | अप्रमेयेण कालेन अमेयावरणक्षयात् || Mस_९.१ ||
335 SK सर्वकारज्ञतावाप्तिः सर्वावरणनिर्मला | विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् || Mस_९.२ ||
336 SK कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वंशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् | सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता || Mस_९.३ ||
337 SK समुदागमतः स्वभावत औपम्यतश्च बुद्धत्वमुद्भावितम् | यावद्भिर्दुष्करशतैर्यावद्भिः कुशलसंभारैर्यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात्समुदागच्छति, अयं समुदागमः | सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः | विवृतारत्नपेटा तदौपम्यम् |
338 SK तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ लोकौ |
339 SK सर्वधर्माश्च बुद्धत्वं धर्मो नैव च कश्चन | शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते || Mस_९.४ ||
340 SK धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् | शुभसस्यनिमित्तत्वाल्लब्धमेघोपमं मतम् || Mस_९.५ ||
341 SK सर्वधर्माश्च बुद्धत्वं, तथताया अभिन्नत्वात्तद्विशुद्धिप्रभावितत्वाच्च | बुद्धत्वस्य न च कश्चिद्धर्मो ऽस्ति | परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं, पारमितादिनां कुशलानां तद्भावेन परिवृत्तेः | न च तैस्तन्निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेरिदमद्वयलक्षणम् | रत्नाकरमेघोपमत्वमनुभावः, देशनाधर्मरत्नानां तत्प्रभवत्वात्, कुशलसस्यानां च विनेयसंतानक्षेत्रेषु |
342 SK बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मत्नाकराभम् | भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु || Mस_९.६ ||
343 SK अनेन तृतीयेन श्लोकेन तमेवार्थं निर्दिशति | सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेनिमित्तत्वाद्रत्नाकराभम्, भूतानां महतः शुक्लसस्यप्रसवहेतुत्वान्मेघभूतम् | महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्वित्ययमत्र पदविग्रहो वेदितव्यः |
344 SK तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः |
345 SK परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा | सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च || Mस_९.७ ||
346 SK अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति |
347 SK उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः | सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम् || Mस_९.८ ||
348 SK अनेन द्वितियेनोपद्रवादिपरित्राणाद्विस्तरेण | तत्र सर्वोपद्रवपरित्राणत्वं यद् बुद्धानुभावेन अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोतं, विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्येवमादि | अपायपरित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात्, तदगमने च प्रतिष्ठापनात् | अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् | सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् |
349 SK हीनयानपरित्राणत्वमनियतगोत्राणां महायानैकायनीकरणात् | शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं जननमरणसर्वक्लेशपापेषु रक्षा | विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां || Mस_९.९ ||
350 SK अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति |
351 SK बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति च सत्त्वान्प्रविनेतुम् | यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम् || Mस_९.१० ||
352 SK अनेन चतुर्थेन यैः कारणैस्तत्तथानुत्तरं शरणं भवति तत्संदर्शयति | बौद्धैर्धर्मैर्बलवैशारद्यादिभिः सुसंपूर्णस्वभावत्वात् स्वार्थनिष्ठामधिकृत्य सद्धर्मसत्त्वविनयोपायज्ञानात् करुणापारगमनाच्च परार्थनिष्ठामधिकृत्य |
353 SK आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् | सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् || Mस_९.११ ||
354 SK अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्त्वानां यत्रार्थे शरणं भवति तत्समासेन दर्शयति | यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च |
355 SK आश्रयपरावृत्तौ षट् श्लोकाः |
356 SK क्लेशज्ञेयवृत्तीनां सततमनुगतं बीजमुत्कृष्टकालं यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः | बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्ति- स्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात् || Mस_९.१२ ||
357 SK अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश्चाश्रयपरिवृत्तिः परिदीपिता | यथा च तत्प्राप्तिर्द्विविधमार्गलाभात् | सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् | तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच्च | उत्कृष्टकालमित्यनादिकालं |
358 SK सुविपुलैः सर्वहानिप्रकारैरिति भूमिप्रकारैः |
359 SK स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते | शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा || Mस_९.१३ ||
360 SK अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस्तद्विशेषं दर्शयति | तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति |
361 SK दृष्ट्वा च करूणायते श्रावकप्रत्येकबुद्धानपि प्रागेव तदन्यान् |
362 SK प्रवृत्तिरूद्वित्तिरवृत्तिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया | समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते || Mस_९.१४ ||
363 SK अनेन तृतीयेन तद्दशप्रभेदंदर्शयति | सा हि तथागतानां परिवृत्तिः परार्थवृत्तिरिति प्रवृत्तिः | सर्वधर्मविशिष्टत्वादुष्कृष्टा वृत्तिरित्युद्वृत्तिः | संक्लेशहेताववृत्तिः | आश्रय इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति | संक्लेशान्निवृत्तितो निवृत्तिः | आत्यन्तिकत्वादायता वृत्तिरित्यावृत्तिः | अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः | संसारनिर्वाणाप्रतिष्ठितत्वात्संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः | विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः | बलवैशारद्यादिभिः बुद्धधर्मैरसमत्वाद्विशिष्टा वृत्तिः |
364 SK सर्वयानोपदेशगतत्वात्सर्वगतावृत्तिः |
365 SK यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् | यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगम् || Mस_९.१५ ||
366 SK अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति | आकाशसाधर्म्येणौद्देशनिर्देशतः पूर्वापरार्धाभ्याम् | सत्त्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्त्वोपगमने परिनिष्पत्तितो वेदितव्यम् |
367 SK यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते | तथा दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते || Mस_९.१६ ||
368 SK अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्त्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति |
369 SK यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति | बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम् || Mस_९.१७ ||
370 SK अनेन षष्ठेन बुद्धविनेयेषु सत्सुबुद्धोत्पादात्तद्दर्शनं | विनीतेषु परिनिर्वाणात्तददर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति |
371 SK अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः |
372 SK अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः | तथा जिने विनाभोगं देशनायाः समुद्भवः || Mस_९.१८ ||
373 SK यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् | बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम् || Mस_९.१९ ||
374 SK आभ्यां श्लोकाभ्यामनाभोगेन बुद्धकार्यं साधयत्यघटिततूर्यशब्दमणिप्रभाव[स]साधर्म्येण |
375 SK यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः | तथैवानास्रवे धातौ अविच्छिन्ना जिनक्रियाः || Mस_९.२० ||
376 SK यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा | तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः || Mस_९.२१ ||
377 SK आभ्यामप्यप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् | आकाश इव लोकक्रियाणामविच्छेदे ऽपि चान्यान्यक्रियोदयव्ययस्तथैव |
378 SK अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः |
379 SK पौर्वापर्य[आ]विशिष्टापि सर्वावरणनिर्मला | नशुद्धा नापि चाशुद्धा तथता बुद्धता मता || Mस_९.२२ ||
380 SK पौर्वापर्येण[आ]विशिष्टत्वान्न शुद्धा | पश्चात्सर्वावरणनिर्मलत्वान्नाशुद्धा मलविगमात् |
381 SK शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः | बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् || Mस_९.२३ ||
382 SK तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते | किं कारणम् | अग्रनैरात्म्यात्मकत्वात् | अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानामात्मा स्वभावार्थेन तस्यां विशुद्धायामग्रं नैरात्म्यमात्मानं बुद्धा लभन्ते शुद्धम् | अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्यनेनाभिसंधिना बुद्धानामनास्रवे धातौ परमात्मा व्यवस्थाप्यते |
383 SK न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते | तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः || Mस_९.२४ ||
384 SK तेनैव कारणेन बुद्धत्वं न भाव उच्यते | पुद्गलधर्माभावलक्षणत्वात्तदात्मकत्वाच्च बुद्धत्वस्य | नाभाव उच्यते तथतालक्षणभावात् | अतो बुद्धस्य भावाभावप्रश्ने, भवति तथागतः परं मरणान्न भवतीत्येवमादिरव्याकृतनयोमतः |
385 SK दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च | चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते || Mस_९.२५ ||
386 SK यथा च लोहे दाहशान्तिर्दर्शने च तिमिरमेत[?]स्य शान्तिर्न भावो दाहतिमिरयोरभावलक्षणात् | नाभावः शान्तिलक्षणेन भावात् | एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर्न भावः शस्यते तदभावप्रभावितत्वाच्चेतः प्रज्ञाविमुक्त्या नाभावस्तेन तेन विमुक्तिलक्षणेन भावात् |
387 SK बुद्धानाममले धातौ नैकता बहुता न च | आकाशवददेहत्वात्पूर्वदेहानुसारतः || Mस_९.२६ ||
388 SK बुद्धानामनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण | न बहुत्वं देहाभावादाकाशवत् |
389 SK बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा | जगत्कुशलसस्येषु महामेघोपमा मता || Mस_९.२७ ||
390 SK पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता | ज्ञानालोककरत्वाच्च महादित्योपमा मता || Mस_९.२८ ||
391 SK एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ |
392 SK अमेया रश्मयो यद्वद्वयामिश्रा भानुमण्डले | सदैककार्या वर्तन्ते लोकमालोकयन्ति च || Mस_९.२९ ||
393 SK तथैवानास्रवे धातौ बुद्धानामप्रमेयता | मिश्रैककार्या कृत्येषु ज्ञानालोककरामता || Mस_९.३० ||
394 SK एकेन व्यामिश्ररश्म्येककार्यस्योपमतया साधारणकर्मतां दर्शयति | रश्मीनामेककार्यत्वं पाचनशोषणसमानकार्यत्वाद्वेदितव्यं | द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु |
395 SK यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः | भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः || Mस_९.३१ ||
396 SK एककाले सर्वरश्मिविनिःसृत्या स च [सह?]बुद्धानामेककाले ज्ञानप्रवृत्तिं दर्शयति |
397 SK यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् | तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् || Mस_९.३२ ||
398 SK यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् | सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते || Mस_९.३३ ||
399 SK ममत्वाभावे जगज्ज्ञेयप्रभासेन[सने] च यथाक्रमं श्लोकौ गतार्थौ |
400 SK यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् | तथैव बुद्धज्ञानानामावृतिः सत्त्वदुष्टता || Mस_९.३४ ||
401 SK यथा रश्मीनां मेघाद्यावरणमप्रभासेन | तथा बुद्धज्ञानानामावरणं सत्त्वानामा[म]भाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया |
402 SK यथा पांशुवशाद्वस्त्रे रङ्गचित्राविचित्रता | तथावेधवशान्मुक्तौ ज्ञानचित्राविचित्रता || Mस_९.३५ ||
403 SK यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिदविचित्रता | तथैव पूर्वप्रणिधानचर्याबलाधानविशेषाद् बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति |
404 SK श्रावकप्रत्येकबुद्धानां विमुक्तावविचित्रता |
405 SK गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु | बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा || Mस_९.३६ ||
406 SK एतदनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यमेवमुत्तम् | लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः | स्थानगाम्भीर्यंपञ्चमेनैकत्वपृथक्त्वाभ्यामस्थितत्वात् | कर्मगाम्भीर्यं दशभिः | तत्पुनर्लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणमव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तम् | कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्त्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तम् | सेयमनास्रवे धातौ निष्प्रपञ्चत्वादाकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैराकाशचित्रणी वेदितव्या |
407 SK सर्वेषामविशिष्टापि तथता शुद्धिमागता | तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः || Mस_९.३७ ||
408 SK सर्वेषां निर्विशिष्टा तथता तद्धिशुद्धिस्वभावश्च तथागतः | अतः सर्वे सत्त्वास्तथागतगर्भा इत्युच्यते |
409 SK विभुत्वविभागे श्लोका एकादश | श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते | प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते || Mस_९.३८ ||
410 SK बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति | तथागतविभुत्वस्य तत्कलां नानुगच्छति || Mस_९.३९ ||
411 SK आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति |
412 SK अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते | यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते || Mस_९.४० ||
413 SK अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथमप्रमेयं कथं वा चिन्त्यमित्याह | यस्य पुद्गलस्यार्थे तत्प्रवर्त्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर्यावदल्पं वा बहु वा यस्मिन्काले |
414 SK अवशिष्टैः श्लोकैः मनो[परा]वृत्तिभेदेन विभुत्वभेदं दर्शयति |
415 SK पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् | सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये || Mस_९.४१ ||
416 SK पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते | सर्वेषां पञ्चानामिन्द्रियाणां सर्वपञ्चार्थवृत्तौ | तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ |
417 SK मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् | विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले || Mस_९.४२ ||
418 SK मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते | येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते |
419 SK सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् | क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि || Mस_९.४३ ||
420 SK अर्थपरावृत्तौ उद्ग्रहपरावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति |
421 SK विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् | अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् || Mस_९.४४ ||
422 SK विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालमव्याघाते परमं विभुत्वं लभ्यते |
423 SK प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् | अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले] पदे || Mस_९.४५ ||
424 SK प्रतिष्ठापरावृत्तावप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते | बुद्धानामनास्रवेधातौ |
425 SK मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् | बुद्धसौख्यबिहारे ऽथ दारासंक्लेशदर्शने || Mस_९.४६ ||
426 SK मैथुनस्य परावृत्तौ द्वयोर्बुद्धसुखविहारे च दारासंक्लेशदर्शने च |
427 SK आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् | चिन्तितार्थसमृद्धौ च गतिरूपविभावने || Mस_९.४७ ||
428 SK आकाशसंज्ञाव्यावृत्तौ द्वयोरेव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति | गतिरूपविभावेन च यथेष्टगमनादाशवशी[काशी]करणाच्च |
429 SK इत्यमेयपरावृत्तावमेयविभुता मता | अचिन्त्यकृत्यानुष्ठानाब्दुद्धानाममलाश्रये || Mस_९.४८ ||
430 SK इत्यनेन मुखेनाप्रमेया परावृत्तिः |
431 SK तत्र चाप्रमेयं विभुत्वमचिन्त्यकर्मानुष्ठानं बुद्धानामनास्रवे धातौ वेदितव्यम् |
432 SK तस्यैव बुद्धस्य सत्त्वपरिपाकनिमित्तत्वे सप्त श्लोकाः |
433 SK शुभे बृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् | व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितै- रपक्वः पक्वो वा [न] च पुनरशेषं ध्रुवमिह || Mस_९.४९ ||
434 SK अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति | उपचितकुशलमूलानां च विमुक्तौ परमतायामनुपचितकुशलमूलानां च कुशलमूलोपचये | अपक्वः शुभवृद्धौ परमतां व्रजन[न्] पाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति | एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् |
435 SK तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवतीं महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् | लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा] सर्वसमयं तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि || Mस_९.५० ||
436 SK अनेन द्वितीयेन परिपव्कानां बोधिसत्त्वानां परिपाकस्याश्चर्यं नाश्चर्यं लक्षणम् | सदा सर्वसमयमिति नित्यं निरन्तरं च तदनुभूय[रूप]मार्गचरणं सुविधिचरणम् |
437 SK क्वचिद्धर्माञ्चकं[धर्म्यं चक्रं] बहुमुखशतैर्दर्शयतिः यः क्वचिज्जन्मान्तर्धि क्वचिदपि विचित्रां जनचरीम् | क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत् न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते || Mस_९.५१ ||
438 SK अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति | यथा यत्रस्थः सत्त्वान् विनयति | विचित्रा जनचरी जातकभेदेन | न च स्थानाच्चलतीत्यनास्रवाद्धातोः |
439 SK न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्र- पाच्यो ऽयं देही अपि च अधुनापाच्यत इति | विना संस्कारं तु प्रपचमुपयात्येव जनता शुभैर्धर्मैर्नित्यं दिशि दिशि समन्तात्रयमुखम् || Mस_९.५२ ||
440 SK अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वमनभिसंस्कारेण दर्शयति |
441 SK त्रयमुखमिति यानत्रयेण |
442 SK यथायत्नं भानुः प्रततविषदैरंशविसरैः प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते | तथा धर्मार्को ऽपि प्रशमविधिधर्माशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते || Mस_९.५३ ||
443 SK अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति |
444 SK यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः | तथैकस्माद् बुद्धाद् [पाका]द्भवति सुमहान् परिपाक[पाक]निचयो ऽप्रमेयो ऽसंख्येयो न च स पुनरेति[पुनरुपैति] व्ययमतः || Mस_९.५४ ||
445 SK अनेन षष्ठेन परंपरया परिपाचनम् |
446 SK यथा तोयैस्तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः | तथा बौद्धो धातुः सततसमितैः शुद्धिविशनै- र्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत् || Mस_९.५५ ||
447 SK अनेन सप्तमेन परिपव्कानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोरतृप्तिं चावकाशदानादवृद्धिं ध्याना[चान]धिकत्वात् |
448 SK धर्मधातुविशुद्धौ चत्वारः श्लोकाः |
449 SK सर्वधर्मद्वयावारतथताशुद्धिलक्षणः | वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः || Mस_९.५६ ||
450 SK एष स्वभावार्थमारभ्यैकः श्लोकः |
451 SK क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च | वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च | सर्वतस्तथताज्ञानभावना समुदागमः | सर्वसत्त्वद्वयाधानसर्वथाक्षयता फलम् || Mस_९.५७ ||
452 SK एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः | सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः | सर्वत इति सर्वधर्मपर्यायमुखैः | सर्वसत्त्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलम् |
453 SK कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः | समाधिधारणीद्वारद्वयामेयसमन्वितः || Mस_९.५८ ||
454 SK एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः | त्रिविधं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः |
455 SK स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः | धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः || Mस_९.५९ ||
456 SK एष वृत्त्यर्थमारभ्य चतुर्थः श्लोकः | स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः |
457 SK बुद्धकायविभागे सप्तश्लोकाः |
458 SK स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः | कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः || Mस_९.६० ||
459 SK त्रिविधः कायो बुद्धानाम् | स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः | सांभोगिको येन पर्षन्मण्डलेषु धर्मसंभोगं करोति | नैर्माणिको येन निर्माणेन सत्त्वार्थं करोति |
460 SK सर्वधातुषु सांभोग्यो भिन्नो गणपरिग्रहैः | क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः || Mस_९.६१ ||
461 SK तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनामशरीरधर्मसंभोगक्रियाभिर्भिन्नः |
462 SK समः सूक्ष्मश्च तच्छिष्टः[च्छिलष्टः] कायः स्वाभाविको मतः | संभोगाविभुताहेतुर्यथेष्टं भोगदर्शने || Mस_९.६२ ||
463 SK स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया | सूक्ष्मो दुर्ज्ञानतया | तेन संभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर्यथेष्टं भोगदर्शनाय |
464 SK अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः | द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता || Mस_९.६३ ||
465 SK नैर्माणिकस्तु कायो बुद्धानामप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वार्थसंपत्तिलक्षणः | नैर्माणिकः परार्थसंपत्तिलक्षणः | एवं द्वयार्थसंपत्तिर्यथाक्रमं द्वयोः प्रतिष्ठिता सांभोगिके च काये नैर्माणिके च |
466 SK शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः | बुद्धनिर्माणकायो ऽयं महामायो[महोपायो] विमोचने || Mस_९.६४ ||
467 SK स पुनर्निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः | जन्मनश्चाभिसंबोधेश्च निर्वाणस्य च दर्शनैर्विमोचने महोपायत्वात्परार्थसंपत्तिलक्षणो वेदितव्यः |
468 SK त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः | साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निदर्शितः || Mस_९.६५ ||
469 SK त्रिभिश्च कायैर्बुद्धानां सर्वकायसंग्रहो वेदितव्यः | एभिस्त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः | द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश्च तदाश्रितत्वाद्यथा पूर्वमुक्तम् |
470 SK आश्रयेणाशयेनापि कर्मणा ते समा मताः | प्रकृत्यास्रंसनेनापि प्रबन्धेनैषु नित्यता || Mस_९.६६ ||
471 SK ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर्निर्विशेषाः, आश्रयेण धर्मधातोरभिन्नत्वात्, आशयेन पृथग्बुद्धाशयस्याभावात् | कर्मणा च साधारणकर्मकत्वात् | तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास्तथागता उच्यन्ते | प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् | अस्रंसनेन सांभोगिकस्य धर्मसंभोगाविच्छेदात् | प्रबन्धेन नैर्माणिकस्यान्तर्व्यये[र्धाय]पुनः पुनर्निर्माणदर्शनात् |
472 SK बुद्धज्ञानविभागे दश श्लोकाः |
473 SK आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् | समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च || Mस_९.६७ ||
474 SK चतुर्विधं बुद्धानां ज्ञानमादर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च | आदर्शज्ञानमचलं त्रीणी ज्ञानानि तदाश्रितानि चलानि |
475 SK आदर्शज्ञानममापरिच्छिन्नं सदानुगम् | सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा || Mस_९.६८ ||
476 SK आदर्शज्ञानममपरिच्छिन्नं देशतः सदानुगं कालतः | सएर्वज्ञेयेष्वसंमूढं सदावरणविगमात्, न च तेष्वामुखमनाकारत्वात् |
477 SK सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् | संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत् || Mस_९.६९ ||
478 SK तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात्सर्वज्ञानानामाकरोपम् | संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानामित्युच्यते |
479 SK सत्त्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं [मतम्] | अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते || Mस_९.७० ||
480 SK यब्दोधिसत्त्वेनाभिसमयकालेषु [सत्त्वेषु] समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बोधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते |
481 SK महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् | यथाधिमोक्षं सत्त्वानां बुद्धबिम्बनिदर्शकम् || Mस_९.७१ ||
482 SK महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्त्वानां बुद्धबिम्बनिदर्शकम् | यतः केचित्सत्त्वास्तथागतं नीलवर्णं पश्यन्ति केचित्पीतवर्णमित्येवमादि |
483 SK प्रत्यवेक्षणकं ज्ञाने [नं] ज्ञेयेष्वव्याहतं सदा | धारणीनां समाधीनां निधानोपममेव च || Mस_९.७२ ||
484 SK परिषन्मण्डले सर्वविभूतीनां निदर्शकम् | सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् || Mस_९.७३ ||
485 SK प्रत्यवेक्षणकं ज्ञानं यथाश्लोकम् |
486 SK कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु | चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम् || Mस_९.७४ ||
487 SK कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर्नानाप्रकारैरप्रमेयैरचिन्त्यैश्च सर्वसत्त्वार्थकम् |
488 SK कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा | अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा || Mस_९.७५ ||
489 SK तच्च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं | कृत्यक्रियाभेदतः संख्यात [तः] क्षेत्रतश्च |
490 SK धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् | कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः || Mस_९.७६ ||
491 SK तत्र धारणात् श्रुतानां धर्माणाम् | समचित्तता सर्वसत्त्वेष्वात्मपरसमतया | शेषं गतार्थम् |
492 SK बुद्धानेकत्वापृथक्त्वेश्लोकः |
493 SK गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः | अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये || Mस_९.७७ ||
494 SK एक एव बुद्ध इत्येतन्नेष्यते | किं कारणम् | गोत्रभेदात् | अनन्ता हि बुद्धगोत्राः सत्त्वाः | तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंमोत्स्यन्त इति कुत एतत् | पुण्यज्ञानसंभारवैयर्थ्यं च स्यादन्येषां बोधिसत्त्वानामनभिसंबोधान्न च युक्तं वैयर्थ्यम् | तस्मादवैयर्थ्यादपि नैक एव बुद्धः सत्त्वार्थक्रियासाकल्यं च न स्यात् | बुद्धस्य बुद्धत्वे कस्यचिदप्रतिष्ठापनादेतच्च न युक्तम् | न च कश्चिदादिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद्विना चान्येन बुद्धेन संस्थाना [संभारा]योगादित्यनादित्वादप्येको बुद्धौ न युक्तः | बहुत्वमपि नेष्यते बुद्धानां धर्मकायस्याभेदादनास्रवे धातौ |
495 SK बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः |
496 SK याविद्यमानता सैव परमा विद्यमानता | सर्वथानुपलम्भश्च उपलम्भः परो मतः || Mस_९.७८ ||
497 SK या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन | यश्च सर्वथानुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्न स्वभावस्य |
498 SK भावना परमा चेष्टा भावनामविपश्यताम् | प्रतिलम्भः परश्चेष्टः प्रतिलम्भं न पश्यताम् || Mस_९.७९ ||
499 SK सैव परमा भावना यो भावनाया अनुपलम्भः | स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः |
500 SK पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः | मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते || Mस_९.८० ||
501 SK ये च गुरुत्वं बुद्धत्वं पश्यन्ति अद्भुतधर्मयुक्तम् | दीर्घं च कालं पश्यन्ति तत्समुदागमाय | निमित्तं च पश्यन्ति चित्तालम्बनम् | आत्मनश्च वीर्यं वयमारब्धवीर्या बुद्धत्वं प्राप्स्याम इति |
502 SK तेषामेवंमानिनां बोधिसत्त्वानामौपलम्भिकत्वात् दूरे बोधिर्निरूप्यते |
503 SK पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं | अकल्पबोधिसत्त्वानां प्राप्ता बोधिर्निरूप्यते || Mस_९.८१ ||
504 SK कल्यनामात्रं त्वेतत्सर्वमिति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनादकल्पबोधिसत्त्वानामनुत्पत्तिकधर्मक्षान्तिलाभावस्थायामर्थतः प्राप्तैव बोधिरित्युच्यते |
505 SK बुद्धानामन्योन्यनै[न्यै]ककार्यत्वे चत्वारः श्लोकाः |
506 SK भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः | जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः || Mस_९.८२ ||
507 SK समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च | मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् || Mस_९.८३ ||
508 SK भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः | परीत्तसत्त्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः || Mस_९.८४ ||
509 SK बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः | मिश्रैककार्याश्च महोपभोग्याः सदा महासत्त्वगणस्य ते हि || Mस_९.८५ ||
510 SK तत्र भिन्नाश्रया नद्यः स्वभाजनभेदात् | कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् | तनूपभोग्या इत्यल्पानामुपभोग्याः | शेषं गतार्थम् |
511 SK बुद्धत्वप्रोत्साहने श्लोकः |
512 SK इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः | शुभपरमसुखाक्षयकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम् || Mस_९.८६ ||
513 SK निरूपमसुक्लधर्मयोगात् स्वार्थसंपत्तितः | हितसुखहेतुत्वाच्च बुद्धत्वस्य परार्थसंपत्तिः | अनवद्योत्कृष्टाक्षयसुखाकरत्वाच्च सुखविहारो विशेषतः | बुद्धिमानहीनबोधिचित्तमादातुं तत्प्रणिधानपरिग्रहात् |
514 SK || महायानसूत्रालंकारे बोध्यधिकारो नवमः ||
515 SK दशमोधिकारः उद्दानम् |
516 SK आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः | स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च || Mस_१०.१ ||
517 SK एष च बोध्यधिकार आदिमारभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः | अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ |
518 SK जाता-जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च | अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च || Mस_१०.२ ||
519 SK जाता अतीतप्रत्युत्पन्ना | अजाता अनागता | ग्राहिका आध्यात्मिका[की] ययालम्बनमधिमुच्यते | ग्राह्यभूता बाह्या याना[मा] लम्बनत्वेनाधिमुच्यते | मित्रादात्ता औदारिकी | स्वात्मतः सूक्ष्मा | भ्रान्तिका हीना विपरीताधिमोक्षात् | अभ्रान्तिका प्रशान्ता [प्रणीता] | आमुखा अन्तिके समवहितप्रत्ययत्वात् | अनामुखा दूरे विपर्ययात् | घोषाचारा श्रुतमयी | एषिका चिन्तामयी | ईक्षिका भावनामयी प्रत्यवेक्षणात् |
520 SK हार्या कीर्णाव्यावकीर्णा विपक्षैर्हीनोदारा आवृतानावृता च | युक्तायुक्ता संभृतासंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः || Mस_१०.३ ||
521 SK हार्या मृद्वी | व्यवकीर्णा मध्या | अव्यवकीर्णा विपक्षैरधिमात्रा | हिनान्ययाने | उदारामहायाने | आवृता सावरणा विशेषगमनाय | अनावृता निरावरणा | युक्ता सातत्यसत्कृत्यप्रयोगात् | अयुक्ता तद्विरहिता | संभृताधिगमयोग्या | असंभृता विपर्ययात् | गाढं विष्टा भूमिप्रविष्टा | दूरगा परिशिष्टासु भूमिषु |
522 SK अधिमुक्तिपरिपन्थे त्रयः श्लोकाः |
523 SK अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः | कुमित्रं शुभदौर्बल्यमयोनिशोमनस्क्रिया || Mस_१०.४ ||
524 SK जाताया अमनसिकारबाहुल्यं परिपन्थः | अजातायाः कौशीद्यम्, ग्राह्यग्राहकभूताया योगविभ्रमः, तथैवाभिनिवेशात् | मित्रादात्तायाः कुमित्रम्, विपरीतग्राहणात् | स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यम् | अभ्रान्ताया अयोनिशो अमनसिकारः [मनसिकारः] परिपन्थस्तद्विरोधित्वात् |
525 SK प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता | शममात्राभिमानश्च तथापरिजयो मतः || Mस_१०.५ ||
526 SK आमुखायाः प्रमादः, तस्या अप्रमादकृतत्वात् | घोषाचाराया अल्पश्रुतत्वम्, नीतार्थसूत्रान्ताश्रवणात् | एषिकायाः श्रुतमात्रसंतुष्टत्वमल्पचिन्तासंतुष्टत्वं च | ईक्षिकायाश्चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश्च | हार्याव्यवकीर्णयोरपरिजयः परिपन्थः |
527 SK अनुद्वेगस्तथोद्वेग आवृत्तिश्चाप्ययुक्तता | असंभृतिश्च विज्ञेयाधिमुक्तिपरिपन्थता || Mस_१०.६ ||
528 SK हीनाया अनुद्वेगः संसारात् | उदाराया उद्वेगः अनावृतायाश्चावृतिः | युक्ताया अयुक्तता | संभृताया असंभृतिः परिपन्थः |
529 SK अधिमुक्तावनुशंसे पञ्च श्लोकाः |
530 SK पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् | अविप्रणाशः स्थैर्यं न विशेषगमनं तथा || Mस_१०.७ ||
531 SK धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा | क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः || Mस_१०.८ ||
532 SK जातायां प्रत्युत्पन्नायां पुण्यं महत् | अतीतायामकौकृत्यमविप्रतिसारात् | ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् | कल्याणमित्रजनितायामविप्रणाशः | स्वयमधिमुक्तौ स्थैर्यम् | भ्रा[अभ्रा]न्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनम् | अधिमात्रायां धर्माभिसमयः | हीनायां स्वार्थप्राप्तिः | उदारायां परार्थप्राप्तिः परमा | अनावृतयुक्तसंभृतादिषु शुक्लपक्षासु क्षिप्राभिज्ञत्वमनुशंसः |
533 SK कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् | भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् || Mस_१०.९ ||
534 SK यथ श्वा दुःखार्तः सततमवितृप्तः क्षुधितको यथा कूर्मश्चासौ जलविवरके संकुचितकः | यथा भृत्यो नित्यमुपचकितमूर्तिर्विचरति | यथा राजा आज्ञाविषये वश[चक्र?]वर्ती विहरति |
535 SK तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते विशेषो विज्ञेयः सततमधिमुक्त्या विविधया | महायाने तस्य विधिवदिह मत्वा परमतां भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात् || Mस_१०.१० ||
536 SK अपि खलु कामिनामधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्यास्वार्थवतां भृत्योपमा | राजप्रख्या परार्थवताम् | एतमेवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति |
537 SK अधिमुक्तिलयप्रतिषेधे श्लोकाः[कः] |
538 SK मनुष[ष्य]भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् | अप्रमेया यतः सत्त्वा लयं नातो ऽधिवासयेत् || Mस_१०.११ ||
539 SK त्रिभिः कारणैर्लयो न युक्तः | यतो मनुष[ष्य]भूता बोधिं प्राप्नुवन्ति | नित्यं प्राप्नुवन्ति | अप्रमेयाश्च प्राप्नुवन्ति |
540 SK अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ |
541 SK यथा पुण्यं प्रसवते परेषां भोजनं ददत् | न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः || Mस_१०.१२ ||
542 SK सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् | न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते || Mस_१०.१३ ||
543 SK यथा भोजनं ददतः पुण्यमुत्पद्यते परार्थाधिकारात् | न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् | एवं परार्थाश्रयदेशितात् महायानधर्मात्तेषु तेषु [महायान] सूत्रेषूक्तः पुण्योदयो महांल्लभ्यते | न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् |
544 SK अधिमुक्तिफलपरिग्रहे श्लोकः |
545 SK इति विपुलगतौ महोघ[महार्य]धर्मे जनिय [परिजनयन्?] सदा मतिमान्महाधिमुक्तिम् | विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च || Mस_१०.१४ ||
546 SK यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्णाति | विस्तीर्णे महायानधर्मे ऽपरि[हा]णी[परिजननी?] ययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति | विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर्वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वम् |
547 SK || महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः ||
549 SK धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः |
550 SK पिटकत्रयं द्वयं वा [च?]संग्रहतः कारणैर्नवभिरिष्टम् | वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति || Mस_११.१ ||
551 SK पिटकत्रयं सूत्रविनयाभिधर्माः | तदेव त्रयं हीनयानाग्र[महा?]यानभेदेन द्वयं भवति | श्रावपिटकंबोधिसत्त्वपिटकं च | तत्पुनस्त्रयं द्वयं वा [च?]केनार्थेन पिटकमित्याह | संग्रहतः सर्वज्ञेयार्थसंग्रहाद्वेदितव्यम् | केन कारणेन त्रयम् | नवभिः कारणैः, विचिकित्साप्रतिपक्षेण सूत्रम्, यो यत्रार्थे संशयितस्तस्य तन्निश्चयार्थं देशनात् | अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्य, अनवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य | स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् |
552 SK पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण[दिक्रमेण] समाधिलाभात् | अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् | पुनर्धर्मार्थदेशना सूत्रेण | धर्मार्थमिप्पत्तिर्विनयेन क्लेशविनयसंयुक्तस्य तयोः प्रतिवेधात् | धर्मार्थसांकथ्यविनिश्चयकौशल्यमभिधर्मेणेति |
553 SK एभिर्नवभिः कारणैः पिटकत्रयमिष्टम् | तच्च संसाराद्विमोचनार्थम् | कथं पुनस्तद्विमोचयति | वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति | श्रूतेन चित्तवासनतः | चिन्तया बोधनतः | भावनया शमथेन शमनतः | विपश्यनया प्रतिवेधतः |
554 SK सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन | तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति || Mस_११.२ ||
555 SK ते च सूत्रविनयभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस्तेषां ज्ञानाब्दोधिसत्त्वः सर्वज्ञतां प्राप्नोति | श्रावकस्त्वेकस्या अपि गाथाया अर्थमाज्ञायास्त्रवक्षयंप्राप्नोति |
556 SK आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम् | अभिमुखतो ऽथामीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च || Mस_११.३ ||
557 SK कथं प्रत्येकं चतुर्विधार्थः | आश्रयलक्षणधर्मार्थसूचनात्सूत्रम् | तत्राश्रयो यत्र देशे देशितं येन यस्मै च | लक्षणं संवृत्तिसत्यलक्षणं परमार्थसत्यलक्षणं च | धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः | अर्थो ऽनुसंधिः |
558 SK अभिमुखत्वादभीक्ष्णत्वादभिभवनादभिगमनाच्चाभिधर्मो वेदितव्यः | निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमु[सु?]खादिदेशनात् | अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् | अभिभवतीत्यभिधर्मः परप्रवादाभिभवनाद्विवादाधिकरणादिभिः | अभिगम्यते सूत्रार्थ एतेनेत्यभिधर्मः |
559 SK आपत्तेरूत्थानाद्व्युत्थानान्निःसृतेश्चविनयत्वम् | पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव || Mस_११.४ ||
560 SK आपत्तितः समुत्थानतो व्युत्थानतो निसारणतश्च वेदितव्यः | तत्रापत्तिः पञ्चापत्तिनिकायाः | समुत्थानमापत्तीनामज्ञानात्प्रमादात् क्लेशप्राचुर्यादनादराच्च | व्युत्थानमाशयतो न दण्डकर्मतः | निःसरणं सप्तविधम् | प्रतिदेशना, अभ्युपगमः शिक्षादत्तकादीनाम्, दण्डकर्मणः[णाम्] | समवद्योतः [समवधातः], प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण अ[णानु] ज्ञानात्, प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्य प्रतिप्रस्रम्भणात् | आश्रयपरिवृत्तिर्भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनादसाधारणा वे[चे]दापत्तिः | भूतप्रत्यवेक्षा धर्मोद्दानाक[का]रैः प्रत्यवेक्षावशेषः | धर्मताप्रतिलम्भश्च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्ना[त्त्य]भावे धर्म [ता]प्रतिलम्भात् | पुनश्चतुर्विधेनार्थेन विनयो वैदितव्यः | पुद्गलतो यमागम्य शिक्षा प्रज्ञप्यते | प्रज्ञप्तितो यदारोचिते पुद्गलापराधे शास्ता संनिपात्य संघ[संघं?] शिक्षां प्रज्ञापयति | प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तदुद्देशस्य विभागः | विनिश्चयतश्च तत्रापत्तिः कथं भवत्यनापत्तिर्वेति निर्धारणात् |
561 SK आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः |
562 SK आलम्बनं मतो धर्मः अध्यात्मं बाह्यकं[द्वयम्?] | [लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः] || Mस_११.५ ||
563 SK [धर्मालम्बनं यो देशितः कायादिकञ्चाध्यात्मिकं] बाह्यमाध्यात्मिकबाह्यञ्च | तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोरेव तथता द्वयम् | तत्र द्वयोराध्यात्मिकबाह्ययोरालम्बनयोर्द्वयार्थेन लाभो यथाक्रमम् | यदि ग्राह्यार्थद्ग्राहकार्थमभिन्नं पश्यति ग्राहकार्थाच्च ग्राह्यार्थम्, द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस्तयोरेवद्वयोरनुपलम्भाद्वेदितव्यः |
564 SK मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात् | अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः || Mस_११.६ ||
565 SK धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः | त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः || Mस_११.७ ||
566 SK धर्मालम्बनलाभः पुनस्त्रिभिर्ज्ञानैर्भवति श्रुतचिन्ताभावनामयैः | तत्र समाहितेन चेतसा मनोजल्पैर्यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् | श्रुतमयेन ज्ञानेन तल्लाभः, मनोजल्पैरिति संकल्पैः | प्रसन्नस्येत्यधिमुक्तस्य निश्चितस्य | प्रधारणादिति प्रविचयात् | जल्पादर्थख्यानस्य प्रधारणाच्चिन्तामयेन तल्लाभः | यदि मनोजल्पादेवायमर्थः ख्यातीति पश्यति नान्यन्मनोजल्पाद्यथोक्तं द्वयालम्बनलाभे | चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद्यथोक्तं द्वयालम्बनलाभे | अत एव च स पूर्वोक्तस्त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः |
567 SK मनसिकारपर्येष्टौ पञ्च श्लोकाः |
568 SK त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः | अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः || Mस_११.८ ||
569 SK हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च | ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः || Mस_११.९ ||
570 SK संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च | पञ्चधा सप्तध चैव परिज्ञा पञ्चधास्य च || Mस_११.१० ||
571 SK चत्वारः सप्तत्रिंशच्च आकारा भावनागताः | मार्गद्वयस्वभावो ऽसौ द्व्युनुशंसः प्रतीच्छकः || Mस_११.११ ||
572 SK प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः | योगिनां हि मनस्कार एष सर्वात्मको मतः || Mस_११.१२ ||
573 SK अष्टादशविधो मनस्कारः | धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च | तत्र धातुनियतो यः श्रावकादिगोत्रनियतः | कृत्यकरो यः संभृतसंभारस्य | आश्रयविभक्तो यः ससंवाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश्च | अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः | (MSA_Bअग्छि ५८) च्छन्दजनको यस्तत्संप्रत्ययसहगतः | समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचार [रावितर्कविचार?] (निर्वितर्कसविचार?) मात्रावितर्काविचारसहगतश्च | ज्ञानसंप्रयुक्तो यो योगोपनिषद्योगसहगतः, स पुनर्यथाक्रमं श्रुतचिन्तामयो भावनामयश्च | संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्ग्रहीतयावद्देशितालम्बनः | विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्म नैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश्च | तत्र रूपिधर्मालम्बनो यः कायालम्बनः | अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः | परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च | तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस्तस्यैवानित्यदुःखशून्यानात्मता | परिज्ञा मार्गः | परिज्ञाफलं विमुक्तिः | तत्प्रवेदना विमुक्तिज्ञानदर्शनम् | भावनाकारप्रविष्टश्चतुराकारभावनः सप्तत्रिंशदाकारभावनश्च | तत्रचतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश्च | तत्र सप्तत्रिंशदाकारभावनः | अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु | प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावना [निर्विर्घाटना] कारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु | संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति | विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यमारभते यथाक्रमम् | औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति[प्रगृह्णाति] | लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति [प्रदधाति] | एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः | स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश्चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु | एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु | संबोधिसंप्रख्यानाकारभावनस्तत्रैव विचयोत्साहसौमनस्यकर्मण्यताचित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु | प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचार[रा]कारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश्च मार्गाङ्गेषु | शमथविपश्यनाभावनामार्गस्वभावयोर्न कश्चिन्निर्देशः | अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो दृष्टिनिमित्तापकर्षणश्च | प्रतीच्छको यो धर्मस्त्रोतसि बुद्धबोधिसत्त्वानामन्तिकादववादग्राहकः | प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे | संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्यामुपलक्षयते | (MSA_Bअग्छि ५९) वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिमुपलक्षयते परिमाणवृत्तिं च व्यञ्जनानामपरिमाणवृत्तिं च नामपदयोः | परिकल्पोपलक्षणप्रायोगिको येन द्वयमुपादाय द्वयपरिकल्पमुपलक्षयते | नामपरिकल्पमुपादायार्थपरिकल्पमर्थपरिकल्पमुपादाय नामपरिकल्पमपरिकल्पमक्षरम् | क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकामर्थग्रहणप्रवृत्तिमुपलक्षयते | प्रतिवेधप्रायोगिकश्च | स पुनरेकादशविधो वेदितव्य, आगन्तुकत्वप्रतिवेधतः, संप्रख्याननिमित्तप्रतिवेधतः, अर्थानुपलम्भप्रतिवेधतः, उपलम्भानुपलम्भप्रतिवेधतः, धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतः, धर्म नैरात्म्यप्रतिवेधतः, हीनाशयप्रतिवेधतः, उदारमाहात्म्याशयप्रतिवेधतः यथाधिगमधर्मव्यवस्थानप्रतिवेधतः, व्यवस्थापितधर्मप्रतिवेधतश्च | वशवर्तिमनस्कारस्त्रिविधः, क्लेशावरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धः, गुणाभिनिर्हारसुविशुद्धश्च |
574 SK धर्मतत्त्वपर्येष्टौ द्वौ श्लोकौ |
575 SK तत्त्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः, शक्यं नैव च सर्वथाभिलपितुं यच्चाप्रपञ्चात्मकम् | ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम् | यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता || Mस_११.१३ ||
576 SK सततं द्वयेन रहितं तत्त्वं, परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्त्वात् | भ्रान्तेः संनिश्रयः परतन्त्रस्तेन तत्परिकल्पनात् | अनभिलाप्यमप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः | तत्र प्रथमं तत्त्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या, यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिः | न ह्याकाशादीनि प्रकृत्या अशुद्धानि न चागन्तुकमलापगमादेषां विशुद्धिर्नेष्यत इति |
577 SK न खलु जगति तस्माद्विद्यते किंचिदन्य- ज्जगदपि तदशेषं तत्र संमूढबुद्धि | कथमयमभिरूढो लोकमोहप्रकारो | यदसदभिनिविष्टः सत्समन्ताद्विहाय || Mस_११.१४ ||
578 SK न खलु तस्मादेवंलक्षणाद्धर्मधातोः किंचिदन्यल्लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् | शेषं गतार्थम् |
579 SK तत्त्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः |
580 SK यथा माया तथाभूतपरिकल्पो निरुच्यते | यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते || Mस_११.१५ ||
581 SK यथा माया यन्त्र [मन्त्र]परिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकम् तथाभूतपरिकल्पः परतन्त्रः स्वभावो [स्वभावाकारो] वेदितव्यः | यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्भावेन प्रतिभासिता, तथा तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेनप्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या |
582 SK यथा[ऽ]तस्मिन्न तद्भावः परमार्थस्तथेष्यते | यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता || Mस_११.१६ ||
583 SK यथा[ऽ]तस्मिन्न तद्भावो मायाकृते हस्तित्वाद्यभावस्तथा तस्मिन्परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः | यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिः, तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः |
584 SK तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते | तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते || Mस_११.१७ ||
585 SK यथा मायाकृतस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर्भूतार्थोपलभ्यते, तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावादभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते |
586 SK तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् | परावृत्तावपर्यस्तः कामचारी तथा पतिः[यतिः] || Mस_११.१८ ||
587 SK यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः तथाऽश्रयपरावृत्तावपर्यस्त आर्यः कामचारि भवति स्वतन्त्रः |
588 SK तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते | तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते || Mस_११.१९ ||
590 SK न भावस्तत्र चाभावो नाभावो भाव एव च | भावाभावाविशेषश्च मायादिषु विधीयते || Mस_११.२० ||
591 SK न भावस्तत्र चाभावो यस्तदाकृतिभावो नासौ न भावः | नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न [?]भावः | तयोश्च भावाभावयोरविशेषो मायादिषु विधीयते | य एव हि तत्र तदाकृतिभावः, स एव हस्तित्वाद्यभावः | य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः |
592 SK तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते | तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते || Mस_११.२१ ||
593 SK तथात्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश्च नास्ति | तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु |
594 SK न भावस्तत्र चाभावो नाभावो भाव एव च | भावाभावाविशेषश्च रूपादिषु विधीयते || Mस_११.२२ ||
595 SK न भावस्तत्र चाभावः | या द्वयाभासता | नाभावो भाव एव च | या द्वयतानास्तिता | भावाभावाविशेषश्च रूपादिषु विधीयते | य एव हि द्वयाभासताया भावः स एव द्वयस्याभाव इति |
596 SK समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते | हीनयानेन यानस्य प्रतिषेधार्थमेव च || Mस_११.२३ ||
597 SK किमर्थं पुनरयं भावाभावयोरैकान्तिकत्वमविशेषश्चेष्यते | यथाक्रमम् | समारोपापवादाभ[न्तः?]प्रतिषेधार्थमिष्यते, हीनयानगमनप्रतिषेधार्थं च | अभावस्य ह्यभावत्वं विदित्वा समारोपं न करोति | भावस्य भावत्वं विदित्वापवादं न करोति | तयोश्चाविशेषं विदित्वा न भावादुद्विजते तस्मान्न हिनयानेन निर्याति |
598 SK भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते | अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा || Mस_११.२४ ||
599 SK रूपभ्रान्तेर्या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिरिष्यते रूपाख्या | सा तु रूपभ्रान्तिररूपिणी विज्ञप्तिः | अभावाद्रूपविज्ञप्तेरितरापि न स्यादरूपिणी विज्ञप्तिः | काएरणाभावात् |
600 SK मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम् | द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते || Mस_११.२५ ||
601 SK बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम् | द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते || Mस_११.२६ ||
602 SK मायाहस्त्याकृतिग्राह्य[ह]भ्रन्तितो द्वयमुदाहृतम् | ग्राह्यं ग्राहकं च, तत्र यथा नास्ति द्वयं चैवोपलभ्यते | प्रतिबिम्बं[ब?] संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर्द्वयमुदाहृतं पूर्ववत् |
603 SK तथा भावात्तथाभावाद् भावाभाव[वा?]विशेषतः | सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः || Mस_११.२७ ||
604 SK ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास्ते सदसन्तो मायोपमाश्च | किं कारणम् | सन्तस्तथाभावादभूतपरिकल्पत्वेन | असन्तस्तथाभावात् ग्राह्यग्राहकत्वेन | तयोश्च भावाभावयोरविशिष्टत्वात् सन्तो ऽप्यसन्तो ऽपि मायापि चैवंलक्षणा स्त[त?]स्मान्मायोपमाः |
605 SK तथाभावात्तथाभावात्तथाभावादलक्षणाः | मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः || Mस_११.२८ ||
606 SK ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस्ते ऽप्यलक्षणा मायाश्च निर्दिष्टाः | किं कारणम् | तथाभावाद्यथा बालैर्गृह्यन्ते | तथाभावाद्यथा देशिताः | तथाभावाद्यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः | एवमलक्षणा अविद्यमानाश्च ख्यान्ति तस्मान्मायोपमाः |
607 SK मायाराजेव चान्येन मायाराज्ञा पराजितः | ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः || Mस_११.२९ ||
608 SK ये प्रातिपक्षिका धर्मास्ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्त्यात् | ये ऽपि सांक्लेशिका धर्मास्ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्तावाधिपत्यात् | अतस्तैः प्रातिपक्षिकैः संक्लेशपराजयो माया [?] राज्ञेव राज्ञः पराजयो द्रष्टव्यः | तज्ज्ञानाच्च बोधिसत्त्वा निर्मारा भवन्ति उभयपक्षे |
610 SK मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः | षट् षट् द्वौ च पुनश्च षट् द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः || Mस_११.३० ||
611 SK यत्तूक्तं भगवता मायोपमा धर्मा यावन्निर्माणोपमा इति | तत्र मायोपमा धर्माः षडाध्यात्मिकान्यायतनानि | असत्यात्मजीवादित्वे तथा प्रख्यानात् | स्वप्नोपमाः षट् बाह्यान्यायतनानि तदुपभोगस्यावस्तुकत्वात् | मरीचिकोपमौ द्वौ धर्मौ चित्तं चैतसिकाश्च भ्रान्तिकरत्वात् | प्रतिबिम्बोपमाः पुनः षडेवाध्यात्मिकान्यायतनानि पूर्वकर्मप्रतिबिम्बत्वात् | प्रतिभासोपमाः षडेव बाह्यान्यायतनान्याध्यात्मिकानामायतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः | (MSA_Bअग्छि ६३) षट् द्वयं मताः षट् द्वयमताः | प्रतिश्रुत्कोपमा देशनाधर्माः | उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेरूदकस्थानीयत्वादच्छतया | निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् |
612 SK ज्ञेयपर्येष्टौ श्लोकः |
613 SK अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च | न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते || Mस_११.३१ ||
614 SK अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः, न भूतो नाभूतो यस्तदनुकूलो यावन्निर्वेधभागीयः | अकल्पस्तथता लोकोत्तरं च ज्ञानम् | न कल्पो नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानम् | एतावच्च सर्वं ज्ञेयम् |
615 SK संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयम् |
616 SK स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः | विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः || Mस_११.३२ ||
617 SK स्वधातुत इति भावाङ्गा [स्वबीजा?]दालयविज्ञानतः | द्वयाभासा इति ग्राह्यग्राहकाभासाः | सहाविद्यया क्लेशैश्च वृत्तिरेषां त इमे साविद्याक्लेशवृत्तयः | द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च | एवं क्लेशः पर्येषितव्यः |
618 SK आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः | त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत् || Mस_११.३३ ||
619 SK आलम्बनविशेषाप्तिरिति यो धर्मालम्बनलाभः पूर्वमुक्तः | स्वधातुस्थानयोगत इति स्वधातुर्विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच्चेतसः | योगत इत्यभ्यासात् | भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य | चर्मवत् काण्डवच्च | यथा हि स्वरत्वापगमात्तदेव चर्म मृदु भवति | अग्निसंतापनया तदेव काण्डं ऋजु भवति | एवं शमथविपश्यनाभावनाभ्यां चेतः प्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्ते | इत्येव [वं?] व्यवदानं पर्येषितव्यम् |
620 SK विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ |
621 SK चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत् | श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति || Mस_११.३४ ||
622 SK चित्तमात्रमेव द्वयप्रतिभासमिष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च | तथा रागादिक्लेशाभासं तदेवेष्यते | श्रद्धादिकुशलधर्माभासं वा | न तु तदाभासादन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः | यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः |
623 SK इति चित्तं चित्राभासं चित्राकारं प्रवर्तते | तथाभासोभावाभावो न तु धर्माणां मतः || Mस_११.३५ ||
624 SK तत्र चित्तमेव वस्तुतच्चि[श्चि]त्राभासं प्रवर्तते | पर्यायेण रागाभासं वा द्वेषाभासं वा | तदन्यधर्माभासं वा | चित्राकारं च युगपत् श्रद्धाद्याकारम् | भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि | न तु धर्माणां [क्लिष्टानां?] कुशलानां [वा?] तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् |
625 SK लक्षणपर्येष्टौ श्लोका अष्टौ | एकनोद्देशः शेषैर्निर्देशः |
626 SK लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः | अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता || Mस_११.३६ ||
628 SK सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता | लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः || Mस_११.३७ ||
629 SK तत्र चित्तं विज्ञानं रूपं च | दृष्टिश्चैतसिका धर्माः | तत्रावस्था चित्तविप्रयुक्ता वर्माः | अविकारिता असंस्कृतमाकाशादिकं तद्विज्ञप्तेर्नित्यं तथाप्रवृत्तेः | इत्येतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणम् |
38 SK यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना | तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं || Mस_११.
631 SK लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणम् | तत्र परिकल्पितलक्षणं त्रिविधं यथा जल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच्च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया | तत्र यथाभिलापमर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा | तस्या यदालम्बनं तन्निमित्तमेवं [व] यच्च परिकल्प्यते यतश्च कारणाद्वासन[ना]तस्तदुभयं परिकल्पितलक्षणमत्राभिप्रेतम् |
632 SK यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या | असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम् || Mस_११.३९ ||
633 SK अपरपर्यायो यथा नाम चार्थश्च यथानामार्थमर्थस्य नाम्नश्च प्रख्यानता यथा नामार्थप्रख्यानता | यदि यथा नामार्थः ख्याति यथार्थं वा नाम इत्येतदभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद्धि परिकल्प्यते यदुत नाम वा अर्थो वेति |
634 SK त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः | अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् || Mस_११.४० ||
635 SK त्रिविधस्त्रिविधश्चाभासो ऽस्येति त्रिविधत्रिविधाभासः | तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश्च | पुनस्त्रिविधाभासो मनौद्ग्रहविकल्पाभासः | मनो यत् क्लिष्टं सर्वदा | उद्ग्रहः पञ्च विज्ञानकायाः | विकल्पो मनोविज्ञानम् | तत्र प्रथमत्रि[मस्त्रि-?] विधाभासो ग्राह्यलक्षणः | द्वितीयो ग्राहकलक्षणः | इत्ययमभूतपरिकल्पः परतन्त्रस्य लक्षणम् |
636 SK अभावभावता या च भावाभावसमानता | अशान्तशान्ताकल्पा च परिनिष्पन्नलक्षणम् || Mस_११.४१ ||
637 SK परिनिष्पन्नलक्षणं पुनस्तथता सा ह्यभावता च, सर्वधर्माणां परिकल्पिताना [नां?] भावता च तदभावत्वेन भावात् | भावाभावसमानता च तयोर्भावाभावयोरभिन्नत्वात् | अशान्ता चागन्तुकैरुपक्लेशैः, शान्ता च प्रकृतिपरिशुद्धत्वात् | अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया | एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्ले[सं]शव्यवदानलक्षणमविकल्पलक्षणं च उक्तं त्रिविधं लक्षणम् |
638 SK निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया | चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना || Mस_११.४२ ||
639 SK लक्षणा पुनः पञ्चविधा योगभूमिः | आधार आधानमादर्श आलोक आश्रयश्च | तत्राधारो निष्प[ष्य]न्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्प[ष्य]न्दः | आधानं योनिशो मनस्कारः | आदर्शः चित्तस्य धातौ स्थानं समाधिर्यदेतत्पूर्वं नाम्नि स्थानमुक्तम् | आलोकः सदसत्त्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा, तथा[तया] सच्च सतो यथाभूतं पश्यत्यसच्चासतः |
640 SK आश्रय आश्रयपरावृत्तिः |
641 SK समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम् | समं विशिष्टमन्यूनानधिकं लक्षणा मता || Mस_११.४३ ||
642 SK समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैरार्यैः | तच्च निर्मलमार्यगोत्रं बुद्धानाम् | समं विमुक्तिसमता श्रावकप्रत्येकबुद्धैः | विशिष्टं पञ्चभिर्विशेषैः | विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः | परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः | कायविशेषण धर्मकायतया | संभोगविशेषेण पर्षन्मण्डलेष्वविच्छिन्नधर्मसंभोगप्रवर्तनतः | कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्त्वार्थक्रियानुष्ठानतः | न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्येषा पञ्चविधा योगभूमिर्लक्षणा | तया हि तल्लक्ष्यं लक्षणं च लक्ष्यते |
643 SK विमुक्तिपर्येष्टौ षट्श्लोकाः |
644 SK पदार्थदेहनिर्भासपरावृत्तिरनास्रवः | धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः || Mस_११.४४ ||
645 SK बीजपरावृत्तेरित्यालयविज्ञानपरावृत्तितः | पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिरनास्रवो धातुर्विमुक्तिः | स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः |
646 SK चतुर्धा वशितावृतेर्मनसश्चोद्ग्रहस्य च | विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि || Mस_११.४५ ||
647 SK मनसश्चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेरित्यर्थः | चतुर्धा वशिता भवति यथाक्रममविकल्पे क्षेत्रे ज्ञानकर्मणोश्च |
648 SK अचलादित्रिभूमौ च वशिता सा चतुर्विधा | द्विधैकस्यां तदन्यस्यामेकैका वशिता मता || Mस_११.४६ ||
649 SK सा चेयमचलादिभूमित्रये चतुर्धा वशिता वेदितव्या | एकस्यामचलायां भूमौ द्विविधा | अविकल्पे न [?] चानभिसंस्कारनिर्विकल्पत्वात् | क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् | तदन्यस्यां भूमावेकै[वै]का वशिता साधुमत्यां ज्ञानवशिता प्रतिसंविद्विशेषलाभात् | धर्ममेघायां कर्मण्यभिज्ञाकर्मणामव्याघातात् |
650 SK विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्त्वं ग्रहणतः | ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः || Mस_११.४७ ||
651 SK अपरो विमुक्तिपर्यायः |
652 SK द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्त्वः समं तच्च ज्ञात्वा द्विविधनैरात्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात्, न तु सर्व थैवाभावतः | तत्त्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रमेतदिति | ततस्तत्र तत्त्वविज्ञप्तिमात्रस्थानान्मनसस्तदपि तत्त्वं न ख्याति विज्ञप्तिमात्रम् | तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोरनुपलम्भात् |
653 SK आधारे संभारादाधाने सति हि नाममात्रंपश्यन् | पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः || Mस_११.४८ ||
654 SK अपर[रः]पर्यायः आधार इति श्रुतौ संभारादिति संभृतसंभारस्य पूर्वसंभारलाभात् | आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्नित्यभिलापमात्रमर्थरहितं | पश्यति हि नाममात्रमिति विज्ञप्तिमात्रं नाम अरूपिणश्चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस्तदपि भूयो नैव पश्यत्यर्थाभावे तद्विज्ञप्त्यदर्शनादित्ययमनुपलम्भो विमुक्तिः |
655 SK चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम् | प्रवर्त्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता || Mस_११.४९ ||
656 SK अपर[रः] प्रकारः चित्तमेतत्सदौष्ठुल्यं प्रवर्तते जन्मसु | आत्मदर्शनपाशितमिति दौष्ठुल्यकारणं दर्शयति | द्विविधेनात्मदर्शनेन पाशितम् अतः सदौष्ठुल्यमिति | निवृत्तिस्तु तदध्यात्मस्थितेरिति तस्य चित्तस्य चित्त एवावस्थानादालम्बनानुपलम्भतः |
657 SK निःस्वभावतापर्येष्टौ श्लोकद्वयम् |
658 SK स्वयं स्वेनात्मनाभावात्स्वभावे चानवस्थितेः | ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते || Mस_११.५० ||
659 SK स्वयमभावान्निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् | स्वेनात्मनाभावान्निःस्वभावत्वं निरुद्धानां पुनस्तेना [स्वेना?]त्मनानुत्पत्तेः | स्वभाव[वे] ऽनवस्थितत्वान्निःस्वभावत्वं क्षणिकत्वादित्येतत्त्रिविधं निःस्वभावत्वम् संस्कृतलक्षणत्रयानुगं वेदितव्यम् | ग्राहवत्तदभावाच्च निःस्वभावत्वम् | तदभावादिति स्वाभावात् | यथा बालानां स्वभावग्राहो नित्यसुखशुच्यात्तो[त्मा] वान्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्मादपि निःस्वभावत्वं धर्माणामिष्यते | ..........
660 SK [निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः | अनुत्पन्ना निरोद्धादिशान्तप्रकृतिनिर्वृताः || Mस_११.५१ ||]
661 SK [सिद्धा] निःस्वभावतयानुत्पादादयः | यो हि निःस्वभावः सो ऽनुत्पन्नः, यो ऽनुत्पन्नः सो ऽनिरूद्धः, यो ऽनिरूद्धः स आदिशान्तः य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्येवमुत्तरोत्तरनिश्रयैरेभिर्निःस्वभावता[दि]भिर्निःस्वभावतयानुत्पादादयः सिद्धा भवन्ति |
662 SK अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या |
663 SK आदौ तत्त्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे | संक्लेश ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता || Mस_११.५२ ||
664 SK अष्टास्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिकधर्मक्षान्तिः | आदौ संसारस्य, न हि तस्याद्युत्पत्तिरस्ति | तत्त्वे ऽन्यत्वे च पूर्वपश्चिमानां, न हि संसारे तेषामेव धर्माणामुत्पत्तिः, ये पूर्वमुत्पन्नास्तद्भावेनानुत्पत्तेः | न चान्येषाम्, अपूर्वप्रकारानुत्पत्तेः | स्वलक्षणे परिकल्पितस्य स्वभावस्य, न हि तस्य कदाचिदुत्पत्तिः | स्वयमनुत्पत्तौ परतन्त्रस्य | अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथाभावस्योत्पत्तिरस्ति | संक्लेशे प्रहीणे, न हि क्षयज्ञानलाभिनः संक्लेशस्योत्पत्तिं पुनः पश्यन्ति | विशेषे बुद्धधर्मकायानाम्, न हि तेषां विशेषोत्पत्तिरस्ति | इत्येतेष्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिधर्मोक्ता |
665 SK एकयानतापर्येष्टौ सप्त श्लोकाः |
666 SK धर्मे नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः | द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता || Mस_११.५३ ||
667 SK धर्मतुल्यत्वादेकयानता, श्रावकादीनां धर्मधातोरभिन्नत्वात् यातव्यं यानमिति कृत्वा | नैरात्म्यस्य तुल्यत्वादेकयानता, श्रावकादीनामात्माभावतासामान्याद्याता यानमिति कृत्वा | विमुक्तितुल्यत्वादेकयानता, याति यानमिति कृत्वा | गोत्रभेदादेकयानता | अनियतश्रावकगोत्राणां महायानेन निर्याणात् यान्ति तेन यानमिति कृत्वा | द्व्याशयाप्ते रेकयानता | बुद्धानां च सर्वसत्त्वेष्वात्माशयप्राप्तेः, श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरितादना[नामा]त्मनि बुद्धाशयप्राप्तेरभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्येकत्वाशयलाभेनैकत्वाद् बुद्धतच्छ्रावकाणामेकयानता | निर्माणादेकयानता, यथोक्तमनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानामर्थे तथा निर्माणसंदर्शनात् | पर्यन्तादप्येकयानता यतः परेण यातव्यं नास्ति तद्यानमिति कृत्वा | बुद्धत्वमेकयानम्, एवं तत्रतत्र सूत्रे तेन तनाभिप्रायेणैकयानता वेदितव्या, न तु यानत्रयं नास्ति |
668 SK किमर्थं पुनस्तेन तेनाभिप्रायेणैकयानता बुद्धैर्देशिता |
669 SK आकर्षणार्थमेकेषामन्यसंघारणाय च | देशितानियतानां हि संबुद्धैरेकयानता || Mस_११.५४ ||
670 SK आकर्षणार्थमेकेषामिति ये श्रावकगोत्रा अनियताः | अन्येषां च संधारणाय, ये बोधिसत्त्वगोत्रा अनियताः |
671 SK श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः | दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः || Mस_११.५५ ||
672 SK श्रावकः पुनरनियतो द्विविधो वेदितव्यः | दृष्टार्थयानश्च यो दृष्टसत्यो महायानेन निर्याति, अदृष्टार्थयानश्च यो न दृष्टसत्यो महायानेन निर्याति | दृष्टार्थः पुनर्वीतरागश्चावीतरागश्च कामेभ्यः | असौ च मृदुर्धन्धगतिको वेदितव्यः |
673 SK यो दृष्टार्थो द्विविध उक्तः |
674 SK तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् | अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ || Mस_११.५६ ||
675 SK तौ च दृष्टार्थौ लब्धस्यार्यमार्गस्य भवेषु परिणामनात् अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ | अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्मादचिन्त्यपरिणामिकी |
676 SK प्रणिधानवशादेक उपपत्तिं प्रपद्यते | एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते || Mस_११.५७ ||
677 SK तयोश्चैकः प्रणिधानवशादुपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः | एको ऽनागामितायोगबलेन निर्माणैः |
678 SK निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ | पुनः पुनः स्वचित्तस्य समुदाचारयोगतः || Mस_११.५८ ||
679 SK तौ च निर्वाणाभिरतत्वादुभावपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः | स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् |
680 SK सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः | निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते || Mस_११.५९ ||
681 SK यः पुनरसाववीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थमुद्यतो भवति निर्माणार्थी | तच्च निर्माणमाश्रित्य क्रमेण परां बोधिं प्राप्नोति | तमवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे | श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश्च बुद्ध इति | अग्निदृष्टान्ते[न] च यदा च पूर्वं दृष्टसत्यावस्था[स्थो] यदा बुद्धरहिते काले स्वयं ध्यानमुत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति |
682 SK विद्यास्थानपर्येष्टौ श्लोकः |
683 SK विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः | इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम् || Mस_११.६० ||
684 SK पञ्चविधं विद्यास्थानम् | अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च | तद्यदर्थं बोधिसत्त्वेन पर्येषितव्यं तद्दर्शयति | सर्वज्ञत्वप्राप्त्यर्थमभेदेन सर्वम् | भेदेन पुनर्हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थमन्येषां तदनधिमुक्तानाम् | चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषामनुग्रहार्थं तदर्थिकानाम् | अध्यात्मविद्यां स्वयमाज्ञार्थम् |
685 SK धातुपुष्टिपर्येष्टौ त्रयोदश श्लोकाः | पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर्गाथाभिर्देशिताः |
686 SK हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः | साधारणफलेच्छा च यथाबोधाधिमुच्यना || Mस_११.६१ ||
687 SK ते पुनर्हेतूपलब्धितुष्टिउमनसिकारात् यावदग्रत्वात्मावधारणमनसिकारः | तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् | गोत्रस्थो बोधिसत्त्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति | गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयतीत्यतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः | स हि बोधिसत्त्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्नेवं मनसिकरोति नियतमेताः पारमिताः परिपूरिं गमिष्यन्ति | तथा ह्यस्माकं बोधिचित्तं संविद्यते इति | उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधरणफलेच्छामनसिकार, आसां पारमितानां परसाधारणं वा फलं भवत्वन्यथा वा मा भूदित्यभिसंस्करणात् | स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्त्वार्थं प्रतिविध्यतीत्यतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः | एवं सर्वत्रानुकमो वेदितव्यः | यथा बुद्धैर्भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथाहमधिमुच्ये इत्यभिसंस्करणात् |
688 SK चतुर्विधानुभावेन प्रीयणाखेदनिश्चयः | विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा || Mस_११.६२ ||
689 SK अनुभावप्रीयणामनसिकारश्चतुर्विधानुभावदर्शनप्रीयणा, चतुर्विधानुभावो विपक्षप्रहाणं, संभारपरिपाकः, स्वपरानुग्रह, आयत्यां विपाकफलनिःष्यन्दफलदानता च | सत्त्वस्वबुद्धधर्मपरिपाकमारभ्याखेदनिश्चयमनसिकारः, सर्वसत्त्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश्चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये | विपक्षे पत्तिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः | दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना, प्रतिपक्षाणां च दानादीनामनुमोदना, तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा | तासां च बोधौ परिणामना |
690 SK प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च | संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया || Mस_११.६३ ||
691 SK अधिमुक्तिबलाधानतामारभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः | धर्मपर्येष्टिमारभ्य संप्रतीच्छनमनसिकारस्तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया | द[दे]शनामारभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषाम् | प्रतिपत्तिमारभ्य संनाहमनसिकारो दानादिपरिपूरिये संनहनात् | प्रणिधानमनसिकारस्तत्परिपूरिप्राप्तये[प्रत्यये] समवधानार्थं | अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयमित्यभिनन्दनात् | एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः | उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् |
692 SK शक्तिलाभे सदौत्सुक्यं दानादौ षड्विधेद्यनम् | परिपाके ऽथ पूजायां सेवायामनुकम्पना || Mस_११.६४ ||
693 SK औत्सुक्यमनसिकारश्चतुर्विधः | शक्तिलाभे च दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने | एवं शीलादिषु षड्विधेषु | पारमिताभिरेव संग्रहवस्तुप्रयोगेण सत्त्वपरिपाके | पूजायां च दानेन लाभसत्कारपूजया | शेषाभिश्च प्रतिपत्तिपूजया |
694 SK अविपरीतपारमितोपदेशाप[र्थ]ञ्चकल्याणमित्रसेवायामौत्सुक्यमनसिकारो वेदितव्यः | अनुकम्पामनसिकारश्चतुर्भिरप्रमाणैर्दानाद्युपसंहारेण मैत्रायतः | मात्सर्यादिसमवधानेन सत्त्वेषु करुणायतः | दानादिसमन्वागतेषु मुदितायतः | तदसंक्लेशाधिमोक्षतश्च उपेक्षायतः
695 SK अकृते कुकृते लज्जा कौकृत्यं विषये रतिः | अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः || Mस_११.६५ ||
696 SK हीधर्ममारभ्य लज्जामनस्कारः, अकृतेषु वा दानादिष्वपरिपूर्णमिथ्याकृतेषु वा लज्जा, लज्जायमानश्च प्रवृत्तिनिवृत्त्यर्थमनानुषङ्गिकं कौकृत्यायते | धृतिमारभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश्चित्तस्य धारणात् | अखेदमनस्कारो दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् | रचनाच्छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्ररचनाभिसंस्करणात् | लोकज्ञतामारभ्य उद्भावनामनस्कारस्तस्यैव शास्त्रस्य लोके यथाभाजनमुद्भावनाभिसंस्करणात् |
697 SK दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः | दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः || Mस_११.६६ ||
698 SK प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान्नेश्वरादीनाम्, प्रतिसंविन्मनस्कारो मात्सर्यदानादि विपक्षप्रतिपक्षयोर्दोषगुणप्रतिसंवेदनात् |
699 SK चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम् | योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे || Mस_११.६७ ||
700 SK चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् | माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् | अभिलाषमनस्कारः स पुनश्चतुर्विधः | योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् | अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थमुपायकौशल्याभिलाषात् | धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् | प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक् प्रणिधानाभिसंस्करणात् |
701 SK सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् | आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा || Mस_११.६८ ||
702 SK सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः | सप्तविधो ऽसद्ग्राहः | असति सद्ग्राहः, दोषवति गुणवत्वग्राहः, गुणवत्यगुणवत्वग्राहः, सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ, सर्वधर्मेषु चात्मासद्ग्राहः, निर्वाणे चाशान्तासद्ग्राहः | यस्य प्रतिपक्षेण शून्यता [दि]समाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते | आश्चर्ये चतुर्विधसंज्ञामनस्कारः | पारमितासूदारसंज्ञा, आयतत्त्वसंज्ञा, प्रतिकारनिरपेक्षसंज्ञा, विपाकनिरपेक्षसंज्ञा च | अनाश्चर्ये ऽपि चतुर्विध[संज्ञा]मनस्कारः | चतुर्विधमनाश्चर्यमौदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिर्वर्तनात् | अस्मिन्नेव च द्वये सति स्वपरसमचित्तावस्थापनात् [वस्थापना?]तद्विशिष्टेभ्यश्च (MSA_Bअग्छि ७३) शरु[शक्रा]दिभ्यः पूजादिलाभे सति प्रतिकारनिरपेक्षता ..... [सर्वलोकेभ्यो विशिष्टशरीरभोग]लाभे सत्यपि विपाकनिरपेक्षता |
703 SK समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका | परगुणप्रतिकारस्रयाशास्तिर्निरन्तरः || Mस_११.६९ ||
704 SK समतामनस्कारः सर्वसत्त्वेषु दानादिभिः समताप्रवृत्त्यभिसंस्करणात् | महात्मदृष्टिमनस्कारः सर्वसत्त्वोपकारतया पारमितासंदर्शनात् | प्रत्यय[प्रत्युप]काराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः | आशास्तिमनस्कारः सत्त्वेषु त्रिस्थानाशंसनात् पारमितानां बोधिसत्त्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्त्वाव[र्थाच]रणाशंसनाच्च | निरन्तरमनस्कारो दानादिभिरबध्य[न्ध्य]कालकरणाभिसंस्करणात् |
705 SK बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना] | तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना || Mस_११.७० ||
706 SK सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानादर्वागस्थानमनसिकरणात् | अनामोदमनस्कारो दानादिभिर्हीयमानेषु | प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्त्वेषु |
707 SK प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः | नाधिवासमनस्कारो व्याकृतनियते स्पृहा || Mस_११.७१ ||
708 SK अरूचिमनस्कारः पारमिताप्रतिवर्णिकाभावनायाम् | रूचिमनस्कारो भूतायाम् | अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् | स्पृहामनस्कारो द्विविधः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश्च |
709 SK आयत्यां दर्शनाद्वृत्तिचेतना समतेक्षणा | अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा] || Mस_११.७२ ||
710 SK आयत्यां दर्शनाद्वृत्तिमनस्कारो यात्वा[यां यां] गतिं गत्वा बोधिसत्त्वेन सतावश्य करणीयताभिसंस्कारणात् | दानादीनां समतेक्षणामनस्कारस्तदन्यैर्बोधिसत्त्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थम् | अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् |
711 SK एते शुभमनस्कारा दशपारमितान्बयाः | सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि || Mस_११.७३ ||
712 SK इति निगमनश्लोको गतार्थः |
713 SK धर्मपर्येष्टिभेदे द्वौ श्लोकौ |
714 SK पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे | सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम् || Mस_११.७४ ||
715 SK असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम् | बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता || Mस_११.७५ ||
716 SK त्रयोदशविधा पर्येष्टिः | पुष्टितः श्रुताधिमुक्तिपुष्ट्या | अध्याशयतो धर्ममुखस्त्रोतसा | महती चित्त[विभु]त्वलाभिनाम् | सबिप्रबासा प्रथमा | अविप्रवासा द्वितीया | वैभुत्विकी तृतीया | अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् | सकाया भावनामयी अधिमुक्तिचर्याभूमो | लघु[लब्ध]काया सप्तसु भूमिषु | परिपूर्णकाया शेषासु | बहुमानाधिमुक्तिचर्याभूमौ | सूक्ष्ममाना सप्तसु | निर्माणा शेषासु |
717 SK धर्महेतुत्वपर्येष्टौ श्लोकः |
718 SK रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये] | ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम् || Mस_११.७६ ||
719 SK रूपे लक्षणहेतुर्धर्मः | अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् | ऐश्वर्यहेतुरभिज्ञाभिस्तदक्षयत्वहेतुश्चानुपधिशेषनिर्वाणे ऽप्यनुपच्छेदात् | अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे | चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा धर्मं पर्येषन्ते | रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन | रत्नभूतानि हि लक्षणानि शोभाकरत्वादतस्तद्धेतुत्वाद्धर्मरत्नसंज्ञा | आरोग्यहेतुत्वाद्भैषज्यसंज्ञा | अभिज्ञैश्चर्यहेतुत्वादर्थसंज्ञा | तदक्षयहेतुत्वान्निर्वाणसंज्ञाक्षयनिर्भयतार्थेन |
720 SK विकल्पपर्येष्टौ श्लोकः |
721 SK अभावभाबाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः | यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः || Mस_११.७७ ||
722 SK दशविधविकल्पो बोधिसत्त्वेन परिवर्जनीयः | अभावविकल्पो यस्य प्रतिपक्षेणाह | प्रज्ञापारमितायामिह बोधिसत्त्वो बोधिसत्त्व एव सन्निति | भावविकल्पो यस्य प्रतिपक्षेणाह | (MSA_Bअग्छि ७५) बोधिसत्त्वं न समनुपश्यतीत्येवमादि | अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह | रूपं शारिपुत्र स्वभावेन शून्यमिति | अपवादविकल्पो यस्य प्रतिपक्षेणाह | न शून्यतयेति | एकत्वविकल्पो यस्य प्रतिपक्षेणाह | या रूपस्य शून्यता न तद्रूपमिति | नानात्वविकल्पो यस्य प्रतिपक्षेणाह | न चान्यत्र शून्यताया रूपं रूपमेव शून्यता शून्यतैव रूपमिति | स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह | नाममात्रमिदं यदिदं रूपमिति | विशेषविकल्पो यस्य प्रतिपक्षेणाह | रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानमिति | यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह | कृत्रिमं नामेत्येवमादि | यथार्थनामाभिनिवेशविकल्पश्च यस्य प्रतिपक्षेणाह | तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यत्यसमनुपश्यन्नाभिनिविशते यथार्थतयेत्यभिप्रायः |
723 SK इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्त्वा | प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः || Mस_११.७८ ||
724 SK अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति | उपायमाहात्म्यमुग्रवीर्यतया संवृत्तिपरमार्थसत्यधर्मतापर्येषणतश्च तत्त्वं सत्यमित्यर्थः | परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानाम् | स्वार्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् |
725 SK || महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः ||
727 SK धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः |
728 SK प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्त्वेभ्यो दुःखितेभ्य सततमवसृजन्त्युच्चदानप्रकारैः | प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च || Mस_१२.१ ||
729 SK कृच्छ्रलब्धानप्यसारान् क्षयित्वा[त्]प्राणान् भोगांश्च बोधिसत्त्वा दुःखितेभ्यः कारुण्यात् सततसमुदारैर्विसर्गैरुत्सृजन्ति प्रागेव धर्मं यो नैव कृच्छ्रेण वा भृशमपि वावसृजतां वृद्धिं गच्छति न क्षयं |
730 SK धर्म नैरर्थक्यसार्थक्ये श्लोकद्वयं |
731 SK धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वकीं धर्मतां स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता || Mस_१२.२ ||
732 SK तत्र बुद्धा अजगरोपमास्तेषां स्वशान्ति[शान्ते?]रास्यपुटं धर्मकायः | विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः | साधारणं सर्वबुद्धैः अक्षयमात्यन्तिकत्वात् |
733 SK तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती | दृष्टो ऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका || Mस_१२.३ ||
734 SK तस्मान्न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् | न निरर्थिका देशना भवति युक्तिविहितैर्धर्मैः स्वधर्मतायां जनताकर्षणात् | यथा पुनर्भावना सार्थिका भवेद्देशना वा तत् श्लोकार्धेन दर्शयति | शेषं गतार्थम् |
735 SK देशनाविभागे श्लोकः |
736 SK आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां | मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणतापि ...... || Mस_१२.४ ||
737 SK तत्र विभुत्वतो या महाभूमिप्रविष्टानां | सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति | शेषं गतार्थम् |
738 SK देशनासंपतौ श्लोकद्वयं |
739 SK विषदा संदेहजहा आदेया तत्त्वदर्शिका द्विविधा | संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां || Mस_१२.५ ||
740 SK अयं चतुष्कार्थनिर्देशेन श्लोकः | यदुक्तं ब्रह्मपरिपृच्छायां | चत्रुभिर्धर्मैः समन्वागता बोधिसत्त्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरूषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च | एकेन हि बाहुश्रुत्याद्विषदा देशना भवति | द्वितीयेन महाप्राज्ञत्वात् | संशयजहा परेषां संशयच्छेदात् |
741 SK तृतीयेनानवद्यकर्मत्त्वादादेया | चतुर्थेन तत्त्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्त्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्याम् |
742 SK मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्त्वानां | स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव || Mस_१२.६ ||
743 SK अस्मिन्द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरूषवचनात् | मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् | अखिन्ना अकिलासिकत्वात् | स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः | चित्रा अपुनरुक्तत्वात् | युक्ता प्रमाणाविरुद्धत्वात् | गमिकाप्रतीतपदव्यञ्जनत्वात् | निरामिषा प्रसन्नाधिकारानधि[र्थि]कत्वात् | सर्वत्रगा यानत्रयगतत्वात् |
744 SK वाक्संपत्तौ श्लोकः |
745 SK अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] | [यथार्हानामिषाचैव प्रमिता विषदा तथा] || Mस_१२.७ ||
746 SK अदीना पौरी पर्षत्पूरणात् | मधुरा वल्गुः | सूक्ता विस्पष्टा सुनिरूक्ताक्षरत्वात् | प्रतीता विज्ञेया प्रतीताभिधानत्वात् | यथार्हा श्रवणीया विनेयानुरूपत्वात् | अनामिषा अनिःश्रित[ता]लाभसत्कारालोके[रश्लोके] | प्रतता[प्रमिता] अप्रतिकूला परिमितायामखेदात् | विषदा अपर्यात्ता |
747 SK व्यञ्जनसंपत्तौ श्लोकद्वयं |
748 SK उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात् | प्रातीत्याद्याथार्हान्नैर्याण्यादानुकूल्यत्वात् || Mस_१२.८ ||
749 SK युक्तैः पदव्यञ्जनैरूद्देशात्प्रमाणाविरोधेन | सहितैर्निर्देशादुद्देशाविरोधेन | यानानुलोमनादानुलोमिकैर्यानत्रयाविरोधेन | श्लाक्ष्ण्याद[दा]नुच्छविकैरकष्टशब्दतया | प्रातीत्यादौपयिकैः (MSA_Bअग्छि ७८) प्रतीतार्थतया चार्थोपगमनात् | याथार्हात्प्रतिरूपैर्विनेयानुरूपतया | नैर्याण्यात्प्रदक्षिणैर्निर्वाणाधिकारतया | आनुकूल्यान्निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् |
750 SK व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां | षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां || Mस_१२.९ ||
751 SK षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा | पुनरपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः | तत्र स्निग्धा सत्त्वाधातुकुशलमूलोपस्तम्भिकत्वात् | मृदुका दृष्ट एव धर्मे सुखसंस्पर्शत्वात् | मनोज्ञा स्वर्थत्वात् | मनोरमा सुव्यञ्जनत्वात् | शुद्धा निरूत्तरलोकोत्तरपृष्ठलब्धत्वात् | विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् | प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् | वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविधातबलगुणयुक्तत्वात् | श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् | अनन्ता[अनेला] सर्वपरप्रवादिभिरनाछेद्यत्वात् | कला रञ्जिकत्वात् | विनीता रागादिप्रतिपक्षत्वात् | अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् | अपरूषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् | सुविनीता यानत्रयनयोपदेशिकत्वात् | कर्णसुखा विक्षेपप्रतिपक्षत्वात् | कायप्रह्णादनकरी समाध्याबाहकत्वात् | चित्तौद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् | हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् | प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् | निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् | आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् | विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् | विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् | प्रेमणीयानुप्राप्तस्वकार्थानां प्रेमकरत्वात् | अभिनन्दनीयाननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् | आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् | विज्ञापनीया चिन्त्यधर्मसम्यग्देशिकत्वात् | युक्ता प्रमाणाविरूद्धत्वात् | सहिता यथार्हविनेयदेशिकत्वात् | पुनरूक्तदोषजहा अवन्ध्यत्वात् | सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् | नागस्वरशब्दा उदारत्वात् | मेघस्वरघोषा गम्भीरत्वात् | नागेन्द्ररुता आदेयत्वात् | किन्नरसंगीतिघोषा मधुरत्वात् | कलविङ्कस्वररूतरविताभी[ती]क्ष्णभङ्गुरत्वात् | ब्रह्मस्वररुतरविता दूरंगमत्वात् | जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगममङ्गलत्वात् | देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् | दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् | अनुन्नता स्तुत्यसंक्लिष्टत्वात् | अनवनता निन्दासंक्लिष्टत्वात् | सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् | अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् | अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् | अलीना लाभसत्कारानिश्रितत्वात् | अदीना सावद्यापगत्वात् | प्रमुदिता अखेदित्वात् | प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् | अखिला[सखिला] सत्त्वानां (MSA_Bअग्छि ७९) तत्सकलार्थसंपादकत्वात् | सरिता प्रबन्धानुपच्छिन्नत्वात् | ललिता विचित्राकारप्रत्युपस्थानत्वात् | सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् | सर्वसत्त्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् | अनिन्दिता यथाप्रतिज्ञत्वात् | अचञ्चला आगमितकालप्रयुक्तत्वात् | अचपला अत्वरमाणविहितत्वात् | सर्वपर्षदनुरविता दुरान्तिकपर्षत्तुल्यश्रवणत्वात् | सर्वाकारवरोपेता सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् |
752 SK देशनामाहात्म्ये चत्वारः श्लोकाः |
753 SK वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः | बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु || Mस_१२.१० ||
754 SK आख्याति वाचा | प्रज्ञापयति पदैः सुयुक्तैः | प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः | उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानार्थं | देशयत्युद्धटितज्ञेषु | संप्रकाशयति विपञ्चितज्ञेषु |
755 SK शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां | दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया || Mस_१२.११ ||
756 SK शुद्धा त्रिमण्डलेनेति | येन च देशयति वाचा पदैश्च | यथा चोद्देशादिप्रकारैः | येषु चोद्धटितविपञ्चितज्ञेषु | एषैव च देशना पुनरष्टदोषविवर्जिता वेदितव्या यथाक्रमम् |
757 SK कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् | संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम् || Mस_१२.१२ ||
758 SK ते पुनरष्टौ दोषाः | कौशीद्यमनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयश्येत्यर्थः |
759 SK खेदो ऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि | तदभावाद्बुद्धानां निरूत्तरा देशना भवति || Mस_१२.१३ ||
760 SK खेदो येनाभीक्ष्णं न देशयेत् | मत्सरित्वं [मत्सरित्वं] चाकृत्स्नप्रकाशनात् | अर्थसंपत्तौ श्लोकद्वयं |
761 SK कल्याणो धर्मो ऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां | द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः || Mस_१२.१४ ||
762 SK परैसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् | स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते || Mस_१२.१५ ||
763 SK चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः | आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर्भक्तितुष्टिबुद्धिहेतुत्वात् | तत्र भक्तिरधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं (MSA_Bअग्छि ८०) युक्तिनिध्यानाच्छक्यप्राप्तितां विदित्वा | बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं | द्विविधार्थ इत्यतः स्वर्थः संवृतिपरमार्थसत्ययोगात् | सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् | चतुर्गुणं ब्रह्मचर्यम् | केवलं परैसाधारणात्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् | परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् | पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणाम् |
764 SK अभिसंधिविभागे श्लोकद्वयम् |
765 SK अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः | प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि || Mस_१२.१६ ||
766 SK श्रावकेषु स्वभावेषु दोषाणां विनये तथा | अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः || Mस_१२.१७ ||
767 SK चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः | अवतारणाभिसंधिर्लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामनाभिसंधिश्च | तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः | शासनावतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात् | लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् | प्रतिपक्षाभिसंधिर्दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषासानुशंसे[सं] गाथाद्वयं वक्ष्यति | परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यो यथाह |
768 SK असारे सारमतयो विपर्यासे च सुस्थिताः | क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमां || Mस_१२.इति |
769 SK अयमत्राभिसंधिः | असारे सारमतय इत्यविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश्चेतसः | विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः | क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः |
770 SK अभिप्रायविभागे श्लोकः |
771 SK समतार्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः | पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः || Mस_१२.१८ ||
772 SK चतुर्विधो ऽभिप्रायः | सत[म]ताभिप्रायो यदाह | अहमेव स तस्मिन्समये विपश्वी सम्यक्संबुद्धो ऽभूवमित्यविशिष्टधर्मकायत्वात् | अर्थान्तराभिप्रायो यदाह | निः स्वभावाः सर्वधर्मा अनुत्पन्नाइत्येवमादि अयथारूतार्थत्वात् | कालन्तराभिप्रायो यदाह | ये (MSA_Bअग्छि ८१) सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्यभिप्रायः | पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसते कस्यचिद्विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयमुपादायाह |
773 SK बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण | रागे माने चरितं कौकृत्यं चानियतभेदः || Mस_१२.१९ ||
774 SK सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा | सर्वान्तरायदोषप्रहाणमेषां ततो भवति || Mस_१२.२० ||
775 SK यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत | स हि दशविधमनुशंसं लभते सत्त्वोत्तमो धीमान् || Mस_१२.२१ ||
776 SK कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले | जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र || Mस_१२.२२ ||
777 SK बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य | अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च || Mस_१२.२३ ||
778 SK बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः | तत्रानियतभेदो बोधिसत्त्वानामनियतानां महायानाद्भेदः | अग्रयानसंभाषा या महायानदेशना | बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा | अहमेव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवमिति | धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा | इयतो गंगानदीवालिकासमानबुद्धान्पर्युपास्य महायाने ऽवबोध उत्पद्यत इति | कौशीद्यावरणस्य प्रतिपक्षसंभाषा | ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति | विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्संबोधाविति | अल्पमात्रसंतुष्ट्यावरणस्य प्रतिपक्षसंभाषा | यत्र भगवान् क्वचिद्दानादि विवर्णयति अन्यत्र वर्णितवान् | रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा | यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति | मानचरितस्यावरणस्य प्रतिपक्षसंभाषा | यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति | कौकृत्यावरणस्य प्रतिपक्षसंभाषा | ये बुद्धबोधिसत्त्वेष्व[ष्वप]कारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति | अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा | महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च | कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस्तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः | द्वयमुखता समाधिमुखता धारणीमुखता च | दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तरोत्तरविशेषलाभाद्वेदितव्यः |
780 SK इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः | भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः || Mस_१२.२४ ||
781 SK पञ्चभिः कारणैः सुकथिकत्वं | सूर्यवत्प्रतपनं चानुशंसः | लोकावर्जनतो बहुमतत्वात् | पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च |
782 SK || महायानसूत्रालंकारे देशनाधिकारो द्वादशः ||
784 SK प्रतिपत्तिविभागे षट् श्लोकाः |
785 SK द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः | द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि || Mस_१३.१ ||
786 SK यथार्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति | तत्र द्विधा पुद्गलधर्म नैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः | द्वयमिथ्यात्वसम्यक्त्त्वं विवर्ज्यं त्रयं | अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य | भावे चाप्रणीहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः | एतत्समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् | न सम्यक्त्वमलोकोत्तरत्वात् |
787 SK अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां | श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते || Mस_१३.२ ||
788 SK एवमर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति | श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति |
789 SK पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा | तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते || Mस_१३.३ ||
790 SK एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं [नैरात्म्यं तथा प्रतिविध्य यथोक्तं] तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते | एवमनुधर्मं प्रतिपद्यते |
791 SK ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं | आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः || Mस_१३.४ ||
792 SK ततो ज्ञानं स लभते लोकोत्तरमनुत्तरमिति | विशिष्टतरयानाभावात् | आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिरिति तद्भूमिकैरेवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्त्वसमतया |
793 SK कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् | ज्ञेयावरणज्ञानाया[हानाय] भावनायां प्रयुज्यते || Mस_१३.५ ||
795 SK व्यवस्थानविकल्पेन ज्ञानेन सहचारिणा | अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु || Mस_१३.६ ||
796 SK शेषेणानुधर्मचारित्वं दर्शयति | व्यवस्थानाविकल्पेनेति भूमिव्यवस्थानज्ञानेनाविकल्पेन च | सहचारिणेत्यनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण | एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं |
797 SK प्रतिपत्तावप्रमादक्रियायां चत्वारः श्लोकाः |
798 SK सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः | सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते || Mस_१३.७ ||
799 SK चतुर्भिश्चक्रैरप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः | तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति | सुलाभश्चीवरपिण्डपातादीनां जीवितपरिष्काराणामकृच्छ्रेण लाभात् | स्वधिष्ठानो दुर्जनैर्दस्युप्रभृतिभिरनधिष्ठितत्वात् | सुभूमिरारोग्यभूमित्वात् | सुसहायकः सभागशीलदृष्टिसहायकत्वात् | सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् |
800 SK बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः | अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान् || Mस_१३.८ ||
801 SK अनेन द्वितीयेन सत्पुरूषं दर्शयति | आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् |
802 SK स्वालम्बना मुसंभरा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव?] देशिता | सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता || Mस_१३.९ ||
803 SK अनेन तृतीयेन योनिशोमनस्कारसंगृहीतमात्मनः सम्यक्प्रणीधानतां दर्शयति | सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च |
804 SK रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं | समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता || Mस_१३.१० ||
805 SK अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति | रतिहेतुत्वेन यतः प्रतिरूपदेशवासे ऽभिरमते | क्षणोपपत्तिहेतुत्वेन यतः सत्पुरूषायाश्रयं लभते | (MSA_Bअग्छि ८५) आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं सम्पद्यते |
806 SK क्लेशत एव क्लेशनिःसरणे श्लोकास्त्रयः |
807 SK धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते | तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः || Mस_१३.११ ||
808 SK यदुक्तं भगवता | नाहमन्यत्र रागाद्रागस्य निःसरणं वदाम्येवं द्वेषान्मोहादिति | तत्राभिसंधिं दर्शयति | यस्माद्धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् | तस्माद्रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनामित्येवं तत्राभिसंधिर्वेदितव्यः |
809 SK धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते | तस्मात्संक्लेशनिर्देशे स संविद्[संधिर] धीमतां मतः || Mस_१३.१२ ||
810 SK यदुक्तं | अविद्या च बोधिश्चैकमिति | तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः | अविद्या बोधिधर्मता स्यात्तदुपचारात् |
811 SK यतस्तानेव रागादीन्योनिशः प्रतिपद्यते | ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः || Mस_१३.१३ ||
812 SK तानेव रागादीन्योनिशः प्रतिपद्यमानस्तेभ्यो विमुच्यते तस्मात्परिज्ञातास्त एव तेषां निःसरणं भवतीत्ययमत्राभिसंधिः |
813 SK श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं |
814 SK न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्त्वहेतोः कथंचित् | शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु || Mस_१३.१४ ||
815 SK न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति | स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति || Mस_१३.१५ ||
816 SK अनयोः श्लोकयोरेकस्य द्वितीयः साधकः | उभौ गतार्थौ |
817 SK निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः |
818 SK धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता | मायादिसदृशी ज्ञेया आकाशसदृशी तथा || Mस_१३.१६ ||
819 SK यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यते ऽथ च | अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति स दृश्यते ऽथ च || Mस_१३.१७ ||
820 SK यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः | मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि || Mस_१३.१८ ||
821 SK मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं | न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते || Mस_१३.१९ ||
822 SK धर्माभावश्च धर्मोपलब्धिश्चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चादिति त्रासस्थानं बालानां | तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस्ततस्त्रासं प्रतिषेधयति | तथा चित्रे नतोन्नतसादृश्येन लुति[टि]तप्रसादिततोयसादृश्येन च यथाक्रमं | चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति | यथा तोयं प्रकृत्या प्रसन्नमागन्तुकेन तु कालुष्येण लुति[टि]तं भवत्येवं चित्तं प्रकृत्या प्रभास्वरं मतमागन्तुकैस्तु दौषैर्दूषितमिति | न च धर्मताचित्तादृते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते | तस्माच्चित्ततथतैवात्र चित्तं वेदितव्यं |
823 SK रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः |
824 SK बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् | यथैकपुत्रके तस्मात्सदा हितकरं मतम् || Mस_१३.२० ||
825 SK सत्त्वेषु हितकारित्वन्नैत्यापत्तिं स रागजां | द्वेषो विरुद्यते त्वस्य सर्वसत्त्वेषु सत्पथा[सर्वथा] || Mस_१३.२१ ||
826 SK यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति | तथाविधायां प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु || Mस_१३.२२ ||
827 SK मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धं | अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं || Mस_१३.२३ ||
828 SK यत्सत्त्वेषु बोधिसत्त्वस्य प्रेम सो ऽत्र रागो ऽभिप्रेतस्तत्कृतामापत्तिं तेषां प्रतिषेधयति | सत्त्वहितक्रियाहेतुत्वात् | कपोतीमुदाहरति तब्दहुरागत्वात् अपत्यस्नेहाधिमात्रतया (MSA_Bअग्छि ८७) सकृपे बोधिसत्त्वे देहिषु सत्त्वेषु प्रतिघो विरुध्यते | बोधिसत्त्वानां सत्त्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ल्हादश्च प्रीत्युत्पादात् | यत इमे मैत्र्यादयस्तत एव प्रतिघचित्तं विरुद्धं | तत्पूर्वकाणि च व्यसनचित्तादीनि |
829 SK प्रतिपत्तिभेदे पञ्च श्लोकाः |
830 SK यथातुरः सुभैषज्ये संसारे प्रतिपद्यते | आतुरे च यथा वैद्यः सत्त्वेषु प्रतिपद्यते || Mस_१३.२४ ||
831 SK अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते | वणिग्यथा पुनः पण्ये कामेषु प्रतिपद्यते || Mस_१३.२५ ||
832 SK यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते | पिता यथा सुते बाले सत्त्वाहेठे प्रपद्यते || Mस_१३.२६ ||
833 SK अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते | वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते || Mस_१३.२७ ||
834 SK मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते | प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता || Mस_१३.२८ ||
835 SK यथा यस्मिन्प्रतिपद्यते तदभिद्योतयति | यथेति सुभैषज्यादिष्विवातुरादयः | यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् | कारुण्येन क्लेशातुरसत्त्वापरित्यागात् | स्वप्रणिहितत्वचित्तकरणात् | दानादिपारमिताभिश्च यथाक्रमं भोगवृद्धिनयनात् | कायादिकर्मपरिशोधनात् | सत्त्वापकाराकोपात् | कुशलभावनानिरन्तराभियोगात् | समाध्यनास्वादनात् | ज्ञेयाविपर्यासाच्च |
836 SK प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः |
837 SK इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः | परमविमलनिर्विकल्पगुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण || Mस_१३.२९ ||
838 SK इति निर्विकल्पेन धर्म नैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश्चाविकल्पना त्रिमण्डलपरिशुद्धिर्वेदितव्या | द्वयपरिपाचनशोधनेषु [सु]युक्त इति सत्त्वानामात्मनश्च |
839 SK || महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः ||
841 SK अववादानुशासनीविभागे श्लोका एकपञ्चाशत् |
842 SK कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् | संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा || Mस_१४.१ ||
843 SK अधिमुक्तिं विवर्धयन्नित्यधिमात्रावस्थानयनात् | शेषं गतार्थम् |
844 SK तथा संभृतसंभारो ह्यादिशुद्धो जिनात्मजः | सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते || Mस_१४.२ ||
845 SK आदिशुद्धो बोधिसत्त्वसंवरपरिशोधनान्महायाने दृष्टिऋज्जु[जु]करणाच्चाविपरीतार्थग्रहणतः | सुविज्ञो बहुश्रुतत्वात् | कल्प[ल्य]चित्तो विनिवरणत्वात् |
846 SK धर्मस्त्रोतसि बुद्धेभ्यो ऽववादं लभते तदा | विपुलं शमथज्ञानवैपुल्यगमनाय हि || Mस_१४.३ ||
848 SK ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके | सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः || Mस_१४.४ ||
849 SK ततः पदप्रभेदेषु विचरेदनुपूर्वशः | विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः || Mस_१४.५ ||
850 SK अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः || Mस_१४.६ ||
851 SK सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकमित्येवमादि तत्र चित्तं प्रथमतो बध्नीयात् | एभिस्त्रिभिः श्लोकैः षट् चित्तान्युपदिष्टानि | मूलचित्तमनुचरचित्तं विचारणाचित्तमवधारणाचित्तं संकलनचित्तमाशास्तिचित्तं च | तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं | अववादं श्रुत्वा स्वयं वा कल्पयित्वा | तद्यथानित्यं दुःखं शून्यमनात्म्यं य योनिशो न चेत्यादि | अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदमनुगच्छति | विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति | तत्रार्थं चतुर्भिराकारैर्विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च | तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्येकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्येवमादि | तुलना संख्यावतो (MSA_Bअग्छि ८९) धर्मस्य शमलक्ष[ण?]ग्रहणमनाध्यारोपानपवादतः | मीमांसा प्रमाणपरीक्ष | प्रत्यवेक्षणागणिततुलितमीमांसितस्यार्थस्यावलोकनं | व्यञ्जनं द्वाभ्यामाकाराभ्यां विचारयति | सार्थतथा[या] च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां | अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तमवधारयति | संकलनचित्तं तद्यथा विचारितमर्थं मूलचित्ते संक्षिप्यपरिपिण्डिताकारं वर्तते | आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा[ध्यर्थं वा?] तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते | चित्तमेव ह्यालम्बनप्रतिभासं वर्तते न चित्तादन्यदालम्बनमस्तीति जानतो वा चित्तमात्रमजानतो वा चित्तमेवालम्बनं नान्यत् | इति षड्विधं चित्तमालम्बनं व्यवस्थाप्यते |
852 SK एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः | निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत् || Mस_१४.७ ||
853 SK ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं | ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा || Mस_१४.८ ||
854 SK युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः | लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः || Mस_१४.९ ||
855 SK श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः || Mस_१४.१० ||
856 SK एभिश्चतुर्भिः श्लोकैरेकादश मनस्कारा उपदिष्टाः | सवितर्कः सविचारः | अवितर्को विचारमात्रः | अवितर्को ऽविचारः | शमथमनस्कारः | विपश्यना मनस्कारः | युगनद्धमनस्कारः | [प्रग्रहनिमित्तमनस्कारः] शमथनिमित्तमनस्कारः | उपेक्षानिमित्त मनस्कारः | सातत्यमनस्कारः | सत्कृत्यमनस्कारश्च |
857 SK निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् | अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः || Mस_१४.११ ||
858 SK प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् | ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात् || Mस_१४.१२ ||
859 SK अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् | अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा || Mस_१४.१३ ||
860 SK ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां | लभेतानभिसंस्कारान् [रां] तद्भ्यासात्पुनर्यतिः || Mस_१४.१४ ||
861 SK एभिश्चतुर्भिः श्लोकैर्नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः | चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्येकोतीकरोति चित्तं समादघातीति नवाकाराः |
862 SK ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः | विज्ञेयः समनस्कारः पुनस्तान्[स्तां]स विवर्धयन् || Mस_१४.१५ ||
863 SK वृद्धिदूरंगमत्वेन मौलीं स लभते स्थितिं | तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां || Mस_१४.१६ ||
864 SK ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति | पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च || Mस_१४.१७ ||
865 SK अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः | कर्मण्यतां परामेति चेतसस्तदुपासनात् || Mस_१४.१८ ||
866 SK इति कर्मण्यतां परां ध्याने इति संबन्धनीयं | कल्पैरमेयगैरित्यप्रमेयसंख्यागतैः | शेषमेषां श्लोकानां गतार्थं |
867 SK ततो ऽनुशंसान लभते पञ्च शुद्धैः स पूर्वगान् | विशुद्धिभाजनत्वं च ततो याति निरुत्तरं || Mस_१४.१९ ||
868 SK कृत्स्नादौस्वल्प[दौष्ठुल्य]कायो हि द्रवते ऽस्य प्रतिक्षणं | आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः || Mस_१४.२० ||
869 SK अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः | अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति || Mस_१४.२१ ||
870 SK प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा | करोति सततं धीमानेवं हेतुपरिग्रहं || Mस_१४.२२ ||
871 SK ततः शुद्धेः पूर्वंगमान्पञ्चानुशंसान् लभते | शुद्धेरिति शुद्ध्याशयभूमेः | तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति | निरूत्तरं यानानन्तर्यात्[नुत्तर्यात्] | प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरिर्बुद्धभूमौ विशुद्धिः | एतेषां पञ्चानामनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ | अतो यावल्लौकिकः समुदागमः |
872 SK ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः | मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति || Mस_१४.२३ ||
873 SK धर्म[र्मा]लोकस्य वृध्द्यर्थ वीर्यमारभते दृढं | धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते || Mस_१४.२४ ||
874 SK सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति | प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ || Mस_१४.२५ ||
875 SK ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते | आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः || Mस_१४.२६ ||
876 SK अत ऊर्ध्वं निर्वेधभागीयानि | तथाभूतो बोधिसत्त्वः समाहितचित्तो मनोजल्पाद्विनिर्मुक्तान् सर्वधर्मान्न पश्यति स्वलक्षणसामान्यलक्षणाख्यान्मनोजल्पमात्रमेव ख्याति | सास्योष्मगतावस्था | अयं स आलोको यमधिकृत्योक्तं क्षारनद्याम् | आलोक इति धर्मनिध्यानक्षान्तेरेतदधिवचनमिति | स तस्यैव धर्मालोकस्य विवृध्द्यर्थमास्थितक्रियया दृढं वीर्यमारभते | सास्य मूर्धावस्था | धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते | चित्तमेतदिति प्रतिवेधात् | ततश्चित्त एव सर्वार्थप्रतिभासत्वं पश्यति | न चित्तादन्यमर्थं | तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति | ग्राहकविक्षेपः केवलो ऽवशिष्यते | सास्य क्षान्त्यवस्था | तदा च क्षिप्रमानन्तर्यसमाधिं स्पृशति | सास्य लौकिकाग्रधर्मावस्था | केन कारणेन स आनन्तर्य उच्यते |
877 SK यतो ग्राहकविक्षेपो हीयते तदनन्तरं | ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं || Mस_१४.२७ ||
878 SK इत्येतान्युष्मगतादीनि निर्वेधभागीयानि |
879 SK द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं | निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः || Mस_१४.२८ ||
880 SK अतः परेण दर्शनमार्गावस्था | द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् | अनुत्तरं यानानन्तर्येण[नुत्तर्येण] | निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् | मलापेतं दर्शनज्ञे[हे]यक्लेशप्रहाणात् | एतेन विरजो विगतमलमित्युक्तं भवति |
881 SK सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते | अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति || Mस_१४.२९ ||
883 SK धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा | सर्वसत्त्वेषु लभते सदात्मसमचित्ततां || Mस_१४.३० ||
884 SK निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि | सत्त्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः || Mस_१४.३१ ||
885 SK धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्त्वेषु सदा आत्मसमचित्ततां प्रत्तिलभते | पञ्चविधया समतया | नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोरविशेषात् | कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् | निष्प्रतिकारसमतया | आत्मन इव परतः प्रतिकारानभिनन्दनात् | तदन्यबोधिसत्त्वसमतया च यथा तैरभिसमितं तथाभिसमयात् |
886 SK त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः | ज्ञानेन सुविशुद्धेन अद्धयार्थेन पश्यति || Mस_१४.३२ ||
887 SK स त्रैधातुकात्मसंस्कारानभूतपरिकल्पनामात्रान्पश्यति | सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् | अद्वयार्थेनेत्यग्राह्यग्राहकार्थेन |
888 SK तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः | लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते || Mस_१४.३३ ||
889 SK तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून्दर्शनप्रहातव्यैः क्लेशैर्विमुक्तं पश्यति |
890 SK अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां | प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते || Mस_१४.३४ ||
891 SK स च बोधिसत्त्वः शून्यज्ञ इत्युच्यते | त्रिविधशून्यताज्ञानात् | अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् | तथाभावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः | प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् |
892 SK अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः | अभूतपरिकल्पश्च तदप्रणिहितस्य हि || Mस_१४.३५ ||
893 SK अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः | अभूतपरिकल्पस्तदप्रणिधानस्य पदमालम्बनमित्यर्थः |
894 SK तेन दर्शनमार्गेण सह लाभः सदा मतः | सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे || Mस_१४.३६ ||
895 SK तेन दर्शनमार्गेण सह बोधिसत्त्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां |
896 SK संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं | विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्था || Mस_१४.३७ ||
897 SK विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च | सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा || Mस_१४.३८ ||
898 SK यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन | दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव || Mस_१४.३९ ||
899 SK स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं | जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः || Mस_१४.४० ||
900 SK यत्प्रेम या वत्सलता प्रयोगः सत्त्वेष्वखेदश्च जिनात्मजानां | आश्चर्यमेतत्परमं भवेषु न चैव सत्त्वात्मसमानभावात् || Mस_१४.४१ ||
901 SK एभिः पञ्चभिः श्लोकैर्दर्शनमार्गलाभिनो बोधिसत्त्वस्य माहात्म्योद्भावनम् | अनर्थमयात्मदृष्टिर्या क्लिष्टा सत्कायदृष्टिः | महात्मदृष्टिरिति महार्था या सर्वसत्त्वेष्वात्मसमचित्तलाभात्मदृष्टिः | सा हि सर्वसत्त्वार्थक्रिंयाहेतुत्वात् महार्था | विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर्महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्त्वसंतानजेन | यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन | बद्धश्च गाढायतबन्धनेन सर्वसत्त्वसांन्तानिकेन दुःखस्य पर्यन्तं न पश्यति स्व[सत्त्व]धातोरनन्तत्वादाकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्त्वानां करोति चैव ताम[अर्थं] प्रमेयाणां सत्त्वानां | विपर्ययात्तस्य तु बोधिसत्त्वः स हि संपिण्डितसर्वसत्त्वदुःखं यावल्लोकगतमुद्वोढुं समर्थः | या सत्त्वेषु बोधिसत्त्वस्य प्रियता या च हितसुखैषिता यश्च तदर्थं प्रयोगो यश्चित्त[यश्चतत्]प्रयुक्तस्याखेद एतत्सर्वमाश्चर्यं परमं लोकेषु | न चैवाश्चर्यं सत्त्वानामात्मसमानत्वात् |
902 SK ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु | ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते || Mस_१४.४२ ||
903 SK निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं | अन्यद्यथाव्यवस्थानं सत्त्वानां परिपाचकं || Mस_१४.४३ ||
904 SK भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः | पश्चिमां भावनामेत्य बोधिसत्त्वौ ऽभिषिक्तकः || Mस_१४.४४ ||
905 SK वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च | निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां || Mस_१४.४५ ||
906 SK सर्वकारज्ञतां चैव लभते ऽनुत्तरं पदं | यत्रस्थः सर्वसत्त्वानां हिताय प्रतिपद्यते || Mस_१४.४६ ||
907 SK एभिर्भावनामार्गः परिदीपितः द्विविधं ज्ञानं | निर्विकल्पं च येनात्मनो बुद्धधर्मान् विशोधयति | यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्त्वान्परिपाचयति | असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनामागम्यावसानगतामभिषिक्तो वज्रोपमं समाधिं लभते | विकल्पानुशयाभेद्यार्थेन वज्रोपमः | ततो निष्ठागतामाश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां | सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत्संसारमभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्त्वानां हिताय प्रतिपद्यते |
908 SK कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं | भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः || Mस_१४.४७ ||
909 SK अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः | निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ च बलान्निवेश्यते || Mस_१४.४८ ||
910 SK स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा | महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः || Mस_१४.४९ ||
911 SK एभिस्त्रिभिः श्लोकैरववादमाहात्म्यं दर्शयति | यो हि धर्ममुखश्रोतस्यववादं लभते तस्य नित्यं बुद्धदर्शनं भवति | ततश्चासमं धर्मश्रवणं | यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैराप्यायितचेतसस्तन्नित्यदर्शनं बुद्धानां महार्थं भवति | शेषं गतार्थम् |
912 SK बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते, निन्दामीर्ष्याप्रयुक्ते स्थितिविचपरे चान्तरायानुकूलान् | धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्त्वे, यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् || Mस_१४.५० ||
913 SK चतुर्विधामनुशासनीमेतेन श्लोकेन दर्शयति | अधिशीलमधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्त्वे प्रशंसाविधानतः | अधिचित्तमधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां (MSA_Bअग्छि ९५) तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः | यान्वर्ज्यासेव्येत्यन्तरायाननुकूलांश्च यथाक्रमं | योग इति शमथविपश्यनाभावनायां |
914 SK इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं | मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्त्वः || Mस_१४.५१ ||
915 SK निगमनश्लोको गतार्थः |
916 SK || महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः ||
919 SK अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने प्रतिपत्तिस्तथा सम्यगववादानुशासनं || Mस_१५.१ ||
920 SK उपायसहितकर्मविभागे चत्वारः श्लोकाः |
921 SK यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः | तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते || Mस_१५.२ ||
922 SK अनेन श्लोकेन समुत्थानोपायं दर्शयति | सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् | बुधेष्विति बोधिसत्त्वेषु | वनादिग्रहणमुपभोज्या स्थिरस्थिरवस्तुनिदर्शनार्थम् |
923 SK सुदुष्करैः कर्मभिरुद्यतात्मनां विचित्ररूपैर्बहुकल्पनिर्गतैः | न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः || Mस_१५.३ ||
924 SK यथा विषाच्छस्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं | निहीनयानाद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं || Mस_१५.४ ||
925 SK आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति | महायानखेदान्ययानपातव्युत्थानाद्यथाक्रमं | संनतिः खेद इत्यर्थः | विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय | उत्पन्न कुशलमूल[स?]स्य ध्वंसनात् | बुद्धत्वसंपत्प्राप्तिविबन्धनाच्च |
926 SK न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा | ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात् || Mस_१५.५ ||
927 SK अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति | मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणामनुपलम्भात् | अनन्तमित्यक्षयम् |
928 SK || महायानसूत्रालंकार उपायसहितकर्माधिकारः पञ्चदशः ||
930 SK पारमिताप्रभेदसंग्रहे उद्दानश्लोकः |
931 SK सांख्याथ तल्ललक्षणमानुपूर्वी निरुक्तिरभ्यासगुणश्च तासां | प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च || Mस_१६.१ ||
932 SK संख्याविभागे षट् श्लोकाः |
933 SK भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः | क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः || Mस_१६.२ ||
934 SK इति प्रथमः | तत्र चतसृभिः पारमिताभिश्चतुर्विधो ऽभ्युदयः | दानेन भोगसंपत् | शीलेनात्मभावसंपत् | क्षान्त्या परिचारसंपत् | तथा हि तदासेवनादायत्याद्[त्यां] बहुजनसुप्रियो भवति | वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः | पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् | षष्ठ्या कृत्येष्वविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् | इत्यभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः |
935 SK सत्त्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते | सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति || Mस_१६.३ ||
936 SK इति द्वितीयः | सत्त्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्त्वस्तिसृभिर्दानशीलक्षान्तिपारमिताभिर्यथाक्रमं त्यागेनानुपघातेनोपघातमर्षणेन च सत्त्वार्थं कुरुते | तिसृभिः सनिदानतया [सनिदानया] चित्तस्थित्या विमुक्त्या च सर्वप्रकारमात्मार्थं चरति | वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यास[म]समाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् | इति परार्थमात्मार्थं चारभ्य षट् पारमिताः |
937 SK अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः | आवर्जनैः सुलपितैः परार्थ आत्मार्थं एतस्मात् || Mस_१६.४ ||
938 SK इति तृतीयः | दानादिभिर्बोधिसत्त्वस्य सकलः परार्थो भवति | यथाक्रमं परेषामुपकरणाविधातैः | अविहेठैः विहेठनामर्षणैः | साहाय्य क्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश्च संशयच्छेदनात् | एतस्मात्परार्थात् बोधिसत्त्वस्यात्मार्थो भवति | पराकार्यस्वकार्यत्वान्महाबोधिप्राप्तितश्च | इति सकलपरार्थाधिकारात् षट् पारमिताः | भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च | योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं || Mस_१६.५ ||
939 SK इति चतुर्थः | दानेन बोधिसत्त्वस्य भोगेष्वभि[ष्वनभि]रतिर्निरपेक्षत्वात् | शीलसमादानेन बोधिसत्त्वशिक्षासु तीव्रा गुरुता | क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्त्वासत्त्वकृते कुशलप्रयोगे च | ध्यानप्रज्ञायां[भ्यां] निर्विकल्पो योगः शमथविपश्यनासंगृहीतः | एतावच्च समस्त [महायानम् इति?] महायानसंग्रहाधिकारात् षट् पारमिताः |
940 SK विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः | सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः || Mस_१६.६ ||
941 SK इति पञ्चमः | तत्र दानं विषयेष्वसक्तिमार्गस्त्यागाभ्यासेन तत्सक्तिविगमात् | शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयप्राप्तये सर्वकर्मान्तविक्षेपाणामप्रवृत्तेः | क्षान्तिः सत्त्वानुत्सर्गे सर्वो[वा]पकारदुःखानुद्वेगात् | वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्बुद्धिगमनात् | ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस्ताभ्यां क्लेशज्ञेयावरणविशोधनात् | मार्ग इत्युपायः | एवं सर्वाकारमार्गाधिकारात् षट् पारमिताः |
942 SK शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः | आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका || Mस_१६.७ ||
943 SK इति षष्ठः | तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् | दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्याक्रुष्टाप्रत्याक्रोशनादिभिः | द्विधेत्यधिचित्तमधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च | तिसृष्वपि शिक्षास्वेका वीर्यपारमिता वेदितव्या | सर्वासां वीर्यसहायत्वात् | लक्षणविभागे श्लोकाः षट् |
944 SK दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा || Mस_१६.८ ||
945 SK बोधिसत्त्वानां दानं चतुर्विधलक्षणं | विपक्षहीनं ता[मा]त्सर्यस्य प्रहीणत्वात् | निर्विकल्पज्ञानसहगतं धर्म नैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यदिच्छति तस्मै तस्य दानात् | सत्त्वपरिपाचकं त्रेधा दानेन सत्त्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् |
946 SK शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा || Mस_१६.९ ||
947 SK क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन | सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा || Mस_१६.१० ||
948 SK वीर्यं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छपरिपूरकमपि सत्त्वविपाचकं त्रेधा || Mस_१६.११ ||
949 SK ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा || Mस_१६.१२ ||
950 SK प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन | सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा || Mस_१६.१३ ||
951 SK यथा दानलक्षणं चतुर्विधमेवं शीलादीनां वेदितव्यम् | एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं | सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् | सत्त्वपरिपाचकत्वं शीलादिभिरावर्ज्य त्रिषु यानेषु परिपाचनात् |
952 SK अनुक्रमविभागे श्लोकः |
953 SK पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः | हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि || Mस_१६.१४ ||
954 SK त्रिभिः कारणैस्तेषां दानादीनां क्रमेण निर्देशः | पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः | भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यमारभते आरब्धवीर्यः समाधिमुत्पादयति समाहितचित्तो यथाभूतं प्रजानाति | पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् | हीनं हि दानमुत्कृष्टं शीलमेवं यावद्धीनं ध्यानमुत्कृष्टा प्रज्ञेति | पूर्वस्य चौदारिकत्वादुत्तरस्यसूक्ष्मत्वात् | औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच्च | सूक्ष्मं ज्ञीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच्च | एवं यावदौदारिकं ध्यानं सूक्ष्मा प्रज्ञेति |
955 SK निर्वचनविभागे श्लोकः |
956 SK दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः | वरयोगमनोधारणपरमाथज्ञानतश्चोक्तिः || Mस_१६.१५ ||
957 SK दारिद्यमपनयतीति दानं | शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् | क्षयः क्रुद्धेरिति क्षान्तिस्तया क्रोधक्षयात् | वरेण योजयतीति वीर्यं कुशलधर्मयोजनात् | धारयत्यध्यात्मं मन इति ध्यानं | परमार्थ[र्थं] जानात्यनयेति प्रज्ञा |
958 SK भावनाविभागे श्लोकः |
959 SK भावनोपधिमाश्रित्य मनस्कारं तथाशयं | उपायं च विभुत्वं च सर्वासामेव कथ्यते || Mस_१६.१६ ||
960 SK पञ्चविधा पारमिताभावना | उपधिसंनिश्रिता | तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः | विपाकसंनिश्रिता च आत्मभावसंपत्तिबलेन | प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन | प्रतिसंख्यानसंनिश्रता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः | मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा | अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य | आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन | अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य | अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य | आशयसंनिश्रिता पारमिताभावना षडाकारा | अतृप्ताशयेन विपुलाशयेन मुदिताशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च | तत्र बोधिसत्त्वस्य दाने ऽतृप्ताशयो यद्बोधिसत्त्व एकसत्त्वस्यैकक्षणे गंगानदीबालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् | गंगानदीबालिकासमांश्चात्मभावान् | एवं च प्रतिक्षणं गंगानदीवालिकासमान्कल्पान्प्रतिपादयेत् | यथा चैकस्य सत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस्तमनेन पर्यायेण प्रतिपादयेत् | अतृप्त एव बोधिसत्त्वस्य दानाशय इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः | न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति | न विच्छिनत्त्या बोधिमण्डनिषदनादिति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशय इति | मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वान्दानेन तथानुगृह्णन् | न त्वेव ते सत्वास्तेन दानेनानुगृह्यमाणा इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः | उपकारकतरांश्च स बोधिसत्त्वस्तान्सत्त्वानात्मनः समनुपश्यति | येषां तथा दानेनोपकरोति नात्मानं | तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकाराशयः | न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वा अर्थो[र्थी] भवति विपाकेन वा इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः | यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्वेष्वभिनन्दति नात्मनः | सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः | तत्र बोधिसत्त्वस्य (MSA_Bअग्छि १०१) शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः | यद्वोधिसत्त्वो गंगानदीबालिकासमेष्वात्मभावेषु गंगानदीबालिकासमकल्पायुष्प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधातावग्निप्रतिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेदेतेन पर्यायेण यावांश्छीलस्कन्धो यावान् च प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेदतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावनायामाशय इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः | यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरामाबोधिमण्डनिषदनान्न स्रंसयति न विच्छिनत्ति इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः | मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन् | न त्वेव[वं] ते सत्त्वा अनुगृह्यमाणा इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः | उपकारकतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति | येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकरोति नात्मानं | तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकाराशयः | न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमिताभावनामयं यावत्प्रज्ञापारमिताभावनामयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाके न वा इति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलापारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां निर्लेपाशयः | तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः | सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति | य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः | उपायसंनिश्रिता भावना त्र्याकारा | निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय | तथा हि स उपायः सर्वमनसिकाराणामभिनिष्पत्तये | विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा | कायविभुत्वतः | चर्याविभुत्वतः | देशनाविभुत्वतश्च | तत्र कायविभुत्वं तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च | तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः | येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति | देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघातः | प्रभेदसंग्रहे द्वादशश्लोकाः | दानादीनां प्रत्येकं षडर्थप्रभेदतः | (MSA_Bअग्छि १०२) षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः |
961 SK तत्र दानप्रभेदे द्वौ श्लोकौ |
962 SK प्रतिपादनमर्थस्य चेतना मूलनिश्चिता | भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं || Mस_१६.१७ ||
963 SK अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये | दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत् || Mस_१६.१८ ||
964 SK अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः | अलोभादिसहजा चेतना हेतुः | भोगसंपत्तिरात्मभावसंपत्तिश्चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् | स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश्च कर्म | अमात्सर्ययोगो अमत्सरिषु वर्तते | दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः |
965 SK शीलप्रभेदे द्वौ श्लोकौ |
966 SK षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं | प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं || Mस_१६.१९ ||
967 SK संकेतधर्मतालब्धं संवरस्थेषु विद्यते | शीलमेवं परिज्ञाय पण्डितः समुदानयेत् || Mस_१६.२० ||
968 SK षडङ्गमिति स्वभावः | षडङ्गीति शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेष्विति | शमभावान्तमिति हेतुः | निर्वाणाभिप्रायेण समादानात् | सुगतिस्थितिदायकमिति फलं | शीलेन सुगतिगमनात् | अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच्च | प्रतिष्ठाशान्तनिर्भीतमिति कर्म | शीलं हि सर्वगुणानां प्रतिष्ठा भवति | क्लेशपरिदाहशान्त्या च शान्तं | प्राणातिपातादिप्रत्ययानां च भयावद्यवैराणामप्रसवान्निर्भीतं | पुण्यसंभारसंयुतमिति योगः सर्वकालं कायवाङ्मनस्कर्मसमाव[च]रणात् | संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस्तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं | धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतमेषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् | संवरस्थेषु विद्यत इत्याचा[धा]रवृत्तिः |
969 SK क्षान्तिप्रभेदे द्वौ श्लोकौ |
970 SK मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् | पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत् || Mस_१६.२१ ||
971 SK तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं | क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत् || Mस_१६.२२ ||
972 SK मर्षाधिवासज्ञानमिति त्रिविधायाः क्षान्तेः स्वभावः | अपकारमर्षणक्षान्तेर्मर्षणं मर्ष इति कृत्वा | दुःखाधिवासक्षान्तेर्धर्मनिध्यानक्षान्तेश्च यथाक्रमं | कारूण्याद्धर्मसंश्रयादिति हेतुः | धर्मसंश्रयः पुनः | शीलसमादानं श्रुतपर्यवाप्तिश्च | पञ्चानुशंसमाख्यातमिति फलं | यथोक्तं सूत्रे | पञ्चानुशंसाः क्षान्तौ | न वैरबहुलो भवति | न भेदबहुलो भवति | सुखसौमनस्यबहुलो भवति | अविप्रतिसारी कालं करोति | कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति | द्वयोरर्थकरं च तदिति मर्षाधिवासनमित्यधिकृतं इदं कर्म | यथोक्तम् |
973 SK द्वयोरर्थं स कुरूते आत्मनश्च परस्य च | यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति || इति ||
974 SK तपः प्राबल्यसंयुक्तमिति योगः | यथोक्तं | क्षान्तिः परमं तप इति | तेषु तदित्याधारवृत्तिः क्षमिषु तद्वृत्तेः | त्रिविधं मतमिति प्रभेदवृत्तिस्त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् |
975 SK वीर्यप्रभेदे द्वौ श्लोकौ |
976 SK उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः | स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः || Mस_१६.२३ ||
977 SK अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः | वीर्यमेवं परिज्ञाय पण्डितः समुदानयेत || Mस_१६.२४ ||
978 SK उत्साहः कुशले सम्यगिति स्वभावः | कुशल इति तदन्यकृत्योत्साहव्युदासाथ[र्थं] सम्यगित्यन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं | श्रद्धाच्छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्यतीव[ह्यर्थिको] वीर्यमारभति | स्मृत्यादिगुणवृद्धाविति फलम् | आरब्धवीर्यस्य स्मृतिसमाध्यादिगुणोद्भवात् | संक्लेशप्रातिपक्षिक इति कर्म | यथोक्तम् | आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैरिति | अलोभादिगुणोपेत इति योगः | तेष्वित्यारब्धवीर्येषु इयमाधारवृत्तिः | सप्तविध इति प्रभेदवृत्तिः | स पुनरधिशीलादि शिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद्वीर्यम् |
979 SK ध्यानप्रभेदे द्वौ श्लोकौ |
980 SK स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं | सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् || Mस_१६.२५ ||
981 SK धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः | ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत् || Mस_१६.२६ ||
982 SK स्थितिश्चेतस अध्यात्ममिति स्वभावः | स्मृतिवीर्यप्रतिष्ठितमिति हेतुः | आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् | सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् | अभिज्ञाविहारवशवर्तकमिति कर्म | ध्यानेनाभिज्ञावशवर्तनात् | आर्यदिव्यब्राह्मविहारवशवर्तनाच्च | धर्माणां प्रमुखमिति प्रामुख्येन योगः | यथोक्तं | समाधिप्रमुखाः सर्वधर्मा इति | तेषु विद्यत इति ध्यायिष्वियमाधारवृत्तिः | त्रिविश्च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः | अवितर्को अविचारः | पुनः प्रीतिसहगतः | सातसहगतः | उपेक्षासहगतश्च | इयं प्रभेदवृत्तिः |
983 SK प्रज्ञाप्रभेदे द्वौ श्लोकौ |
984 SK सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः | सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः || Mस_१६.२७ ||
985 SK धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः | प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत् || Mस_१६.२८ ||
986 SK सम्यक् प्रविचयो ज्ञेय इति स्वभावः | सम्यगिति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं | समाधानप्रतिष्ठित इति हेतुः | समाहितचित्तो यथाभूतं प्रजानाति | यस्मात्सुविमोक्षाय संक्लेशादिति फलं | तेन हि संक्लेशात्सु विमोक्षो भवति | लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन | प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म | तेन ह्यनुत्तर[रः] प्रज्ञाजीवकानां जीवति | सम्यग् धर्मं देशयतीति | धर्माणामुत्तर इत्युत्तरत्वेन योगः | यथोक्तं | प्रज्ञोत्तराः सर्वधर्मा इति | तेषु विद्यते त्रिविधश्च स इति वृत्तिः | प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन | लौकिको हीनलोकोत्तरो महालोकोत्तरश्च | उक्तः प्रत्येकं दीनादीनां षडर्थप्रभेदेन प्रभेदः |
987 SK संग्रहविभागे श्लोकः |
988 SK सर्वे शुक्ला धर्मा विविप्तसमाहितोभया ज्ञेयाः | द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः || Mस_१६.२९ ||
989 SK सर्वे शुक्ला धर्मा दानादिधर्माः | तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोरसमाहितत्वात् | समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः (MSA_Bअग्छि १०५) समाहितत्वात् | उभये द्वाभ्यां क्षान्तिवीर्याभ्यां | तयोः समाहितासमाहितत्वात् |
990 SK विपक्षविभागे श्लोकाः षट् |
991 SK न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् || Mस_१६.३० ||
992 SK सप्तविधा सक्तिर्दानस्य विपक्षः | भोगसक्तिः विलम्बनसक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः[?] प्रतिकारसक्तिः विपाकसक्तिः | विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्धातात् | विक्षेपसक्तिश्च | स पुनर्विक्षेपो द्विविधः | मनसिकारविक्षेपश्च हीनयानस्पृहणात् | विकल्पविक्षेपश्च दायकप्रतिग्राहकदानविकल्पनात् | अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वमुक्तम् |
993 SK न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् || Mस_१६.३१ ||
994 SK न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः | न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् || Mस_१६.३२ ||
995 SK न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् || Mस_१६.३३ ||
996 SK न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् || Mस_१६.३४ ||
997 SK न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा | न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् || Mस_१६.३५ ||
998 SK यथा दानासक्तिरूक्ता एवं शीले यावत्प्रज्ञायां वेदितव्या | अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासाक्तिर्वेदितव्या विपक्षसक्तिस्तद्विपक्षानुशया समुद्धातनात् | विकल्पविक्षेपश्च यथायोगं त्रिमण्डलपरिकल्पनात् | गुणविभागे त्रयोविंशतिः श्लोकाः |
999 SK त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा | कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं | दानेनैव च तेन सर्वजनता बोधित्रये रोपिता | दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम् || Mस_१६.३६ ||
1000 SK इति सुबोधः पदार्थः |
1001 SK आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता | शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता | शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् || Mस_१६.३७ ||
1002 SK त्रिविधं शीलं | संघरशीलं | कुशलधर्मसंग्राहकशीलं | सत्त्वार्थक्रियाशीलं च | एकात्मकम्[एषामेकं] यमस्वभावं | द्वे उद्यमस्वभावे |
1003 SK क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तितो न च भयान्नैवोपकारेक्षणात् | क्षान्त्यानुत्तरया च सर्वतनजा बोधित्रये रोपिता | क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता || Mस_१६.३८ ||
1004 SK इति | ज्ञान्त्यानुत्तरया चेति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमम् |
1005 SK वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परत प्राप्तं च बोधिं परां | वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता | वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् || Mस_१६.३९ ||
1006 SK इति | संनाहवीर्यं प्रयोगवीर्यं च |
1007 SK ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता | ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता | ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् || Mस_१६.४० ||
1008 SK इति | समाधिबहुलमिति अनन्तबोधिसत्त्वसमाधिसंगृहीतम् |
1009 SK ज्ञातं बुद्धसुतैः सतत्त्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृत्तौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृत्तौ | ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता | ज्ञानं सत्त्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम् || Mस_१६.४१ ||
1010 SK इति | सतत्त्वं पर्मार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्म नैरात्म्यं | ज्ञेयं च यत्सर्वथेत्यनन्तस्वसंकेतादिलक्षणभेदभिन्नं यदज्ञे[यज्ज्ञे] (यदपरंज्ञेयं) | दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् | ज्ञानस्य पुनः सत्त्वपरिग्रहेण करुणया सत्त्वानामपरित्यागात् | एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः |
1011 SK औदार्यानामिषत्वं च महार्थाक्षयतापि च | दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम् || Mस_१६.४२ ||
1012 SK इति | तत्रदानादीनां प्रथमेन पादेनोदारता परिदीपिता | द्वितीयेन निरामिपता | तृतीयेन महार्थता महतः सत्त्वार्थस्य संपादनात् | चतुर्थेनाक्षयता इत्येषां गुणचतुष्टयमेभिः श्लोकैर्वेदितव्यम् |
1013 SK दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं | अभिभवति स तां दाता कृपालुराधिक्ययोगेन || Mस_१६.४३ ||
1014 SK याचनके हि जने दायकदर्शनात्ततश्च यथेप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिरूत्पद्यते | अतुष्टिश्चादर्शनादपरिपूरणाच्च | आशास्तिश्च या तद्दर्शने मनोरथपरिपूरणे च | सा बोधिसत्त्वस्याधिकोत्पद्यते सर्वकालं याचनकदर्शनात्तन्मनोरथपरिपूरणाच्च | अदर्शनादपरिपूरणाच्चातुष्टिः | अतो दाता कृपालुस्तां सर्वमभिभवत्याधिक्ययोगात् |
1015 SK प्राणान्भोगान्दारान्सत्त्वेषु सदान्य[त्य]जनकृपालुत्वात् | आमोदते निकामं तद्विरतिं पालयेन्न कथम् || Mस_१६.४४ ||
1016 SK तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः | एतेन त्रिविधात्कायदुश्चरिताद्विरतिशीलगुणं दर्शयति |
1017 SK निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः | मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः || Mस_१६.४५ ||
1018 SK एतेन मृषावादाद्विरतिगुणं दर्शयति | आत्महेतोर्मृषावाद उच्येत कायजीवितापेक्षया | परहेतोर्वा प्रियजनप्रेम्ना | भयेन वा राजादिभयात् | आमिषकिंचित्कहेतोर्वा लाभार्थं | बोधिसत्त्वश्च स्वकायजीवितनिरपेक्षः | समचित्तश्च सर्वसत्त्वेष्वात्मसमचित्ततया | निर्भयश्च पञ्चभयसमतिक्रान्तत्वात् | सर्वप्रदश्चार्थिभ्यः सर्वसत्त्वपरित्यागात् | स केन हेतुना मृषावादं ब्रूयात् |
1019 SK संमहितकामः सकृपः परदुःखोत्पादने ऽतिभीरुश्च | सत्त्वविनये सुयुक्तः सुविदूरे त्रिविधवाग्दोषात् || Mस_१६.४६ ||
1020 SK बोधिसत्त्वः सर्वसत्त्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति | सुकृपश्च परदुःखापनयाभिप्रायात् | परदुःखोत्पादने चात्यर्थं भीरूः स (MSA_Bअग्छि १०८) कथं परेषां दुःखोत्पादनार्थं परूषं वक्ष्यति | सत्त्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्मादसौ सूविदूरे त्रिविधवाग्दोषात् पैशुन्यात्पारूष्यात्संभिन्नप्रलापाच्च |
1021 SK सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च | अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम् || Mस_१६.४७ ||
1022 SK अभिध्या व्यापादो मिथ्यादृष्टिर्वा यथाक्रमं | एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच्छीलविशुद्धिगू[गु?]णो बोधिसत्त्वानां वेदितव्यः |
1023 SK उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे | लभते यदा कृपालुः क्षमितव्यं ... [किं कुतस्तस्य] || Mस_१६.४८ ||
1024 SK [अपकारिणि हि क्षमितव्यं भवति | तत्र च बोधिसत्त्व अपकारिसज्ञां लभते क्षान्तिसंभारनिमित्तत्वात् दुःखञ्च क्षमितव्यं भवति | तत्र च परहितहेतुभूते दुःखे बोधिसत्त्वः सदा मोदं लभते तस्य कुतः किं क्षमितव्यं] | यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा |
1025 SK परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात् | दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं || Mस_१६.४९ ||
1026 SK सकृपो बोधिसत्त्वः | तत्र सकृपे यत्परार्थं दुष्करचरणाद्वीर्यं तद्दुष्करं च सुदुष्करं च कथमदुष्करं | परत्र परसंज्ञापगमात् | स्वतो ऽधिकतराच्च सर्वदा परेषु स्नेहात् | कथं सुदुष्करं | यदेवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यम् |
1027 SK अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं | ध्यानं मतं त्रयाणां विपर्ययाद्बोधिसत्त्वानाम् || Mस_१६.५० ||
1028 SK अल्पसुखं ध्यानं लौकिकानामात्मसुखं श्रावकप्रत्येकबुद्धानां | लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे | परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरूपधिशेषनिर्वाणे तत्क्षयात् | समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन | बोधिसत्त्वानां पुनर्ध्यान बहुसुखमात्मपरसुखमलीनमपरिहाणिकमक्षय्यसमोहं च |
1029 SK आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं | दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम् || Mस_१६.५१ ||
1030 SK यथा हस्तामोषैस्तमसि ज्ञानं परीत्तविषयमप्रत्यक्षमव्यक्तं च तथा पृथग्जनानां | यथावचरके[गहवरके] दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च | यथा दिनकरकिरणैर्ज्ञानं समन्तात्प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्त्वानां | अत एव तदतुल्यम् |
1031 SK आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् || Mस_१६.५२ ||
1032 SK तत्राश्रयो बोधिसत्त्वः | वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमम् | अभयदानस्थापायसंसारभीतेभ्यस्तु तदभयं | धर्मदानस्य महायानं | निमित्तं करुणा | परिणामना तेन महाबोधिफलप्रार्थना | हेतुः पूर्वदानपारमिताभ्यासवासना | ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहक्राविकल्पनात् | क्षेत्रं पञ्चविधम् | अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश्च | चतुर्णामुत्तरं क्षेत्रं परं | तदभावे पञ्चमं | निश्रयस्त्रिविधो यं निश्रित्य ददाति | अधिमुक्तिर्मनसिकारः समाधिश्च | अधिमुक्तिर्यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः | मनस्कारो यथा तत्रैवास्वादनाभिनन्दन[नौमोदनाभि] मनस्कार उक्तः | समाधिर्गगनगञ्जादिर्यथा तत्रैव विभुत्वमुक्तं | एवमाश्रयादिपरसमयो दानं परमं | सो ऽयं चापदेशो वेदितव्यः | यश्च ददाति यच्च येन च यस्मै च यतश्च यस्य च परिग्रहेण यत्र च यावत्प्रकारं तद्दानम् |
1033 SK आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् || Mस_१६.५३ ||
1034 SK [आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ||
1035 SK आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् || Mस_१६.५४ ||
1036 SK आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रानिश्रयाच्च परं मतम् || Mस_१६.५५ ||
1037 SK आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता || Mस_१६.५६ ||
1038 SK शीलस्य परमं वस्तु बोधिसत्त्वसंवरः | क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ | वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च | ध्यानस्य बोधिसत्त्वसमाधयः | प्रज्ञायास्तथता | सर्वेषां शीलादीनां क्षेत्रं महायानं | शेषं पूर्वबद्धेदितव्यम् |
1039 SK एकसत्त्वसुखं दानं बहुकल्पविघातकृत | प्रियं स्यद्बोधिसत्त्वानां प्रागेव तद्विपर्ययात् || Mस_१६.५७ ||
1040 SK यदि बोधिसत्त्वानां दानमेकस्यैव सत्त्वस्य सुखदं स्यादात्मनश्च बहुकल्पविघातकृत | तथापि तत्तेषां प्रियं स्यात्करुणाविशेषात्किं पुनर्यदनेकसत्त्वसुखं च भवत्यात्मनश्च बहुकल्पानुग्रहकृत् | यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु | शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरः शतशो विसृज्यते || Mस_१६.५८ ||
1041 SK अत्र पूर्वार्धमुत्तरार्धे व्याख्यातम् |
1042 SK शरीरमेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा | तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः || Mस_१६.५९ ||
1043 SK अत्र शरीरमेवोत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरमिति संदर्शितं | एति यन्मुदं स तेन दुःखेन तत्तस्य तदुत्तरमिति तस्माल्लोकोत्तरादुत्तरम् |
1044 SK प्रतिग्रहैरिष्टनिकामलब्धैर्न तुष्टिमायाति तथार्थिको ऽपि | सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या || Mस_१६.६० ||
1045 SK इष्टनिकामलब्धैरित्यभिप्रेतपर्याप्तलब्धैः | सर्वास्तिदानेनेति यावत्स्वजीवितदानेन |
1046 SK संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि | सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं || Mस_१६.६१ ||
1047 SK सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल्लाभहेतोः | विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञा तेषु धीमान्यथैति || Mस_१६.६२ ||
1048 SK करुणाविशेषाद् | गतार्थौ श्लोकौ |
1049 SK स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं | पथि परमफलाढ्याद्भोगवृक्षाद्यथैव प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः || Mस_१६.६३ ||
1050 SK प्रविसृतिरतिभोगश्चास्येति प्रविसृतिरतिभोगी स च नान्यो बोधिसत्त्वाद्वेदितव्यः | शेषं गतार्थम् |
1051 SK प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च | चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम् || Mस_१६.६४ ||
1052 SK षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं | प्राधान्यभेदेन | तत्कारणभेदेन | [कर्मभेदेन] प्रकारभेदेन | आश्रयभेदेन | चतुर्विबन्धप्रतिपक्षभेदेन च | अस्योद्देशस्योत्तरैः | श्लोकैर्निर्देशः |
1053 SK वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः | वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिः || Mस_१६.६५ ||
1054 SK वीर्यं परं शुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं | तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं | यस्माद्वीर्याश्रितः सर्वकुशलधर्मलाभः | वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिरिति कर्म निर्दिष्टं वीर्येण हि दृष्टधर्मे परमः सुखविहारः | सर्वा च लोकोत्तरा सिद्धिर्लौकिकी च क्रियते |
1055 SK वीर्यादवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः | वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः || Mस_१६.६६ ||
1056 SK इति | पर्यायद्वारेण [पर्यायान्तरेण] वीर्यस्य कर्म निर्दिष्टं | लौकिकलोकोत्तरसिद्धिभेदात् | तत्र प्रबला लौकिकी सिद्धिरनात्यन्तिकत्वात् |
1057 SK पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् | तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत || Mस_१६.६७ ||
1058 SK संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं | अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः || Mस_१६.६८ ||
1059 SK इत्येष प्रकारभेदः | तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु [द्वयोरकुशलधर्महानयेअपि?] च द्वयोः कुशलधर्माभिवृद्धये | मोक्षाधिपं वीर्यमिन्द्रियेषु | मोक्षाधिपत्त्यार्थेन यस्मादिन्द्रियाणि | पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद्बलानि | तत्त्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्य१स्थापनात् | परिवर्त्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्या[तस्या]श्रयपरिवृत्तिहेतुत्वात् | (MSA_Bअग्छि ११२) महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् | संनाहवीर्यं प्रयोगाय संनह्यतः | प्रयोगवीर्यं तथा प्रयोगतः | अलीनवीर्यमुदारे ऽप्यधिगन्तव्ये लयाभावतः | अक्षोभ्यवीर्यं शीतलोष्णादिभिर्दुःखैरविकोपनतः | असंतुष्टिवीर्यमल्पेनाधिगमेनासंतुष्टितः | एभिरेव संनाहवीर्यादिभिः सूत्रे | स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते यथाक्रमम् |
1060 SK निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण | लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम् || Mस_१६.६९ ||
1061 SK अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः | यानत्रये प्रयुक्तो यो जनस्तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं | किं कारणं | लीनात्युदाराशयबुद्धियोगात् | लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् | अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् | अत एव यथाक्रमं वीर्यं तदल्पार्थं महार्थमिव[ष्टम्] स्वार्थाधिकाराच्च [स्वपरार्थाधिकरणत्वाच्च |]
1062 SK न वीर्यवान्भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति | न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति || Mस_१६.७० ||
1063 SK इत्ययं चतुर्विबन्धप्रतिपक्षभेदः | चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते | भोगसक्तिस्तदाग्रहतः | क्लेशसक्तिस्तत्परिभोगाध्यवसानतः | खेदो दानादिषु प्रयोगाभियोगपरिखेदतः | प्राप्तिरल्पमात्रदानादिसंतुष्टितः | तत्प्रतिपक्षभेदे नैतच्चतुर्विधं वीर्यमुक्तम् |
1064 SK अन्योन्यविनिश्चयविभागे श्लोकः |
1065 SK अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च | षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः || Mस_१६.७१ ||
1066 SK अन्योन्यसंग्रहतो विनिश्चयः | अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात्ताभ्यामभयं ददाति | धर्मदानेन ध्यानप्रज्ञयोर्यस्मात्ताभ्यां धर्मं ददाति | उभाभ्यां वीर्यस्य यस्मात्तेनोभयं ददाति | कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः | एवं क्षान्त्यादिभिरन्योन्यसंग्रहो यथायोगं योज्यः | प्रभेदतो विनिश्चयः | दानं षड्विधं दानदानं शीलदानं यावत्प्रज्ञादानं | परसंतानेषु शीलादिनिवेशनात् | धर्मतो विनिश्चयः | (MSA_Bअग्छि ११३) ये सूत्रादयो येषु दानादिष्वर्थेषु संदृश्यन्ते | ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते | तेषां परस्परं संग्रहो वेदितव्यः | निमित्ततो विनिश्चयः | दानं शीलादीनां निमित्तं भवति | भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः | शीलमपि दानादीनां | भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच्छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् | कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं | एवं क्षान्त्यादीनामन्योन्यनिमित्तभावो यथा योज्यः [योगं] संग्रहवस्तुविभागे सप्त श्लोकाः | चत्वारि संग्रहवस्तूनि | दानं प्रियवादिता अर्थचर्या समानार्थता | तत्र |
1067 SK दानं समं प्रियाख्यानमर्थचर्या समार्थता | तद्देशना समादाय स्वानुवृत्तिभिरिष्यते || Mस_१६.७२ ||
1068 SK दानं सममिष्यते यथा पारमितासु प्रियाख्यानं तद्देशना | अर्थचर्या तत्समादापना तच्छब्देन पारमितानां ग्रहणात्पारमितादेशना पारमितासमादापनेत्यर्थः | समानार्थता यत्र परं समादापयति तत्र स्वयमनुवृत्तिः | किमर्थं पुनरेतानि चत्वारि संग्रहवस्तूनीष्यन्ते | एष हि परेषां |
1069 SK उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः | तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः || Mस_१६.७३ ||
1070 SK दानमनुग्राहक उपायः | आमिषदानेन कायिकानुग्रहोत्पादनात् प्रियवादिता ग्राहकः | अव्युत्पन्नसंदिग्धार्थग्राहणात् | अर्थचर्या प्रवर्तकः | कुशले प्रवर्तनात् | समानार्थतानुवर्तकः | यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तदनुवर्तन्ते |
1071 SK आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना | प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना || Mस_१६.७४ ||
1072 SK आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः | प्रियवादितया तं धर्ममधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः | अर्थचर्यया प्रतिपद्यते यथाधर्मं | समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् | इदं संग्रहवस्तूनां कर्म |
1073 SK चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं | आमिषेणापि धर्मेण धर्मेणालम्बनादपि[दिना] || Mस_१६.७५ ||
1074 SK यदप्यन्यत्संग्रहवस्तुद्वयमुक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश्च | ताभ्यामेतान्येव चत्वारि संग्रहवस्तूनि संगृहीतानि |
1075 SK आमिषसंग्रहेण प्रथमे | धर्मसंग्रहेणावशिष्टानि | तानि पुनस्त्रिविधेन धर्मेण | आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमम् |
1076 SK हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः | अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः || Mस_१६.७६ ||
1077 SK एष संग्रहस्य प्रकारभेदः | तत्र हीनमध्योत्तमः संग्रहो बोधिसत्त्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं | प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ | प्रायेणाबन्ध्यो भूमिप्रविष्टानाम् | अवन्ध्यः सर्वथा अष्टाम्यादिषु भूमिषु सत्त्वार्थस्यावश्यं संपादनात् |
1078 SK पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः | सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते || Mस_१६.७७ ||
1079 SK ये केचित्पर्षत्कर्षणे प्रयुक्ताः सर्वैस्तैरयमेवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि | तथा हि सर्वार्थसिद्धये सर्वेषां सुखश्चैष उपायः प्रशस्यते बुद्धैः |
1080 SK संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना | सर्वे त एवं तस्माच्च वर्त्म तत्सत्त्वपाचने || Mस_१६.७८ ||
1081 SK एतेन लोकत्रये ऽपि सर्वसत्त्वानां परिपाचने चतुर्णां संग्रहवस्तूनामेकायनमार्गत्वं दर्शयति | अन्यमार्गाभावात् |
1082 SK इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा | भवविषयनिमित्तनिर्विकल्पो भवति स सत्त्वगणस्य संगृहीता || Mस_१६.७९ ||
1083 SK एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्त्वस्य संग्रहवस्तुप्रयोगं दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश्च यथाक्रमम् |
1084 SK || महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः ||
1086 SK बुद्धपूजाविभागे सप्त श्लोकाः |
1087 SK संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः | गाढप्रसन्नचित्तस्य संभारद्वयपूरये || Mस_१७.१ ||
1088 SK अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः | त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजना || Mस_१७.२ ||
1089 SK सत्त्वानामप्रमेयानां परिपाकाय चापरा | उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः || Mस_१७.३ ||
1090 SK अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा | वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः || Mस_१७.४ ||
1091 SK इत्येभिश्चतुर्भिः श्लोकैः |
1092 SK आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता || Mस_१७.५ ||
1093 SK वेदितव्या | तत्राश्रयः समक्षपरोक्षा बुद्धाः | वस्तु चीवरादयः | निमित्तं प्रगाढप्रसादसहगतं चित्तं | परिणामना पुण्यज्ञानसंभारपरिपूरये | हेतुरबन्ध्यो मे बुद्धोत्पादः स्यादिति पूर्वप्रणिधानं | ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः | क्षेत्रमप्रमेयाः सत्त्वाः | तत्परिपाचनाय तैस्तत्प्रयोजता[ना]त् तेषु तद्रोपणतः | निश्रय उपधिश्चित्तं च | तत्रोपधिं निश्रित्य पूजाचीवरादिभिश्चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः | त [य]थोक्तैश्चाधिमुक्त्यादिभिर्यदुत महायानधर्माधिमुक्तितः बोधिचित्तोत्पादतः | प्रणिधानमेव हि निधानमत्रोक्तं श्लोकवत्त्वा[बन्धा]नुरोधात् | सत्त्वानुकम्पनतः | दुष्करचर्या दुःखक्षमणतः पारमितासमुदाचारतः | योनिशो धर्ममनसिकारतः | स ह्यविपर्ययस्तत्त्वाद्वस्त्वाभोगः | सम्यग्दृष्टितो दर्शनमार्गे | स हि यथाभूतावबोधाद्वस्त्ववबोधः |
1094 SK विमुक्तितः क्लेशविमोक्षाच्छ्रावकाणां | तथात्वतो महाबोधिप्राप्तेरित्ययं पूजायाः प्रकारभेदः |
1095 SK हेतुतः फलतश्चैव आत्मना च परैरपि | लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा || Mस_१७.६ ||
1096 SK परीत्ता महती पूजा समानामानिका च सा | प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता || Mस_१७.७ ||
1097 SK इत्ययमर्था[ध्वा]दिभेदेनापरः प्रकारभेदः | तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुरनागता फलमित्येवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या | आत्मनेत्याध्यात्मिकी परैरिति बाह्या | लाभसत्कारतो औदारिकी | प्रतिपत्तितः सूक्ष्मा | परीत्ता हीना महती प्रणीता | पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् | कालान्तरप्रयोज्या दूरे | तत्कालप्रयोज्यान्तिके | पुनर्विछिन्नायां गतौ दूरे | समनन्तरायामन्तिके | पुनर्यां पूजामायत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके | कतमा पुनर्बुद्धपूजा परमा वेदितव्येत्याह |
1098 SK बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् | अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च || Mस_१७.८ ||
1099 SK इत्येभिः पञ्चभिराकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या | यदुत पूजोपसंहितमहायानधर्माधिमुक्तितः | आशयतो नवभिराशयैः | आस्वादनानुमोदनाभिनन्दनाशयैः | अतृप्तविपुलमुदितोपकरनिर्लेपकल्याणाशयैश्च ये पारमिताभावनायां निर्दिष्टाः | विभुत्वतो गगनगञ्जादिसमाधिभिः | निर्विकल्पज्ञानोपायपरिग्रहतः | सर्वमहाबोधिसत्त्वैककार्यत्वप्रवेशतश्च मिश्रोपमिश्रकार्यत्वात् |
1100 SK कल्याणमित्रसेवाविभागे सप्त श्लोकाः | तत्रार्धपञ्चमैः श्लोकैः |
1101 SK आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता || Mस_१७.९ ||
1102 SK मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यं | प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च || Mस_१७.१० ||
1103 SK इत्येवंगुणमित्रं सेवाया आश्रयः | दान्तं शीलयोगादिन्द्रियदमेन | शान्तं समाधियोगादध्यात्मं चेतः शमथेन | उपशान्तं प्रयोगा[प्रज्ञायोगा] (प्रज्ञात्वा)दुपस्थितक्लेशोपशमनतः | गुणैरधिकं न समं वा न्यूनं वा | सोद्यमं नोदसीनं परार्थे | आगमाढ्यं नाल्पश्रुतं | प्रबुद्धतत्वं तत्वाधिगमात् | वचसाभ्युपेतं वाक्करणेनोपेतं | कृपात्मकं निरामिषचित्तत्वात् | खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् |
1104 SK सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च |
1105 SK इति | सेवाया[व]स्तु |
1106 SK धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत्समये नतश्च || Mस_१७.११ ||
1107 SK इति त्रिविधं निमित्तं | आज्ञातुकामता | कालज्ञता | निर्मानता च |
1108 SK सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच्च |
1109 SK इति परिणामना प्रतिपत्त्यर्थं सेवनान्न लाभसत्कारार्थं |
1110 SK यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतो ऽस्य धीरः || Mस_१७.१२ ||
1111 SK इति | यथानुशिष्टप्रतिपत्तिः सेवाहेतुः | तया तच्चित्ताराधनात् |
1112 SK यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ |
1113 SK इति यानत्रयकौशलात् ज्ञानं |
1114 SK सत्त्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय || Mस_१७.१३ ||
1115 SK इति द्विविधं क्षेत्रं तत्सेवायाः | अप्रमेयाश्च सत्त्वाः परिशुद्धं च बुद्धक्षेत्रं | धर्मं श्रुत्वा येषु प्रतिष्ठापनात् | यत्र च स्थितेन |
1116 SK धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवसेत्स मित्रम् |
1117 SK इति निश्रयः सेवायाः | धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत | नामिषदायादतां | अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः |
1118 SK हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान् || Mस_१७.१४ ||
1119 SK श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनो ऽनुयोगात् |
1120 SK हेतोः फलादित्यतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमानित्याध्यात्मिकबाह्यभेदः | धर्ममुखस्त्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच्चेतसि योगतश्चेत्यौदारिकसूक्ष्मभेदः | श्रवणं ह्यौदारिकं चिन्तनभावनं सूक्ष्मंं | तदेव चेतसि योगः | समाननिर्मानमनो ऽनुयोगादिति हीनप्रणीतभेदः |
1121 SK गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत धीमान् || Mस_१७.१५ ||
1122 SK इति दूरान्तिकभेदः पूर्ववद्योजयितव्यः | कतमा पुनः परमा सेवेति सप्तमः श्लोकः |
1123 SK सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः | अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च || Mस_१७.१६ ||
1125 SK अप्रमाणविभागे द्वादशश्लोकाः |
1126 SK ब्राह्म्या विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन | त्रिविधालम्बनवृत्ताः सत्त्वानां पाचका धीरे || Mस_१७.१७ ||
1127 SK ब्राह्म्या विहाराश्चत्वार्यप्रमाणानि | मैत्री करुणा मुदितोपेक्षा च | ते पुनर्बोधिसत्त्वे चतुर्लक्षणा वेदितव्याः | विपक्षहानितः | प्रतिपक्षविशेषयोगतः | वृत्तिविशेषतस्त्रिविधालम्बनवृत्तित्वात् | तथा हि ते सत्त्वालम्बना धर्मालम्बनाश्च[धर्मालम्बना अनालम्बनाश्च] | कर्मविशेषतश्च | सत्त्वपरिपाचकत्वात् | सत्त्वधर्मालम्बनात् | पुनः कतमस्मिन् सत्त्वनिकाये धर्मे वा प्रवर्तन्ते | अनालम्बनाश्च कतमस्मिन्नालम्बने |
1128 SK सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते | तद्देशिते च धर्मे तत्तथतायां च धीराणाम् || Mस_१७.१८ ||
1129 SK सत्त्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्त्वनिकाये प्रवर्तन्ते | तथा हि मैत्री सत्त्वेषु सुखसंयोगाकारा | करुणा दुःखवियोगाकारा | मुदिता सुखवियोगाकारा | उपेक्षासु वेदनासु तेषां सत्त्वानां निःक्लेशतोपसंहाराकारा | धर्मालम्बनास्तद्देशिते धर्मे | यत्र ते विहारा देशिताः | अनालम्बनास्तत्तथतायां | ते ह्यविकल्पत्वादनालम्बना इवेत्यनालम्बनाः | अपि खलु |
1130 SK तस्याश्च तथतार्थत्वात् क्षान्तिलाभाद्विशुद्धितः | कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि || Mस_१७.१९ ||
1131 SK एभिश्चतुर्भिः कारणैरनालम्बना मैत्री वेदितव्या | तथतालम्बनत्वात् | अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ | धातुपुष्ट्या तद्विशुद्धितः | कर्मद्वयतश्च | या मैत्री निष्पन्देन कायकर्मणा [वाक्कर्मणा?] च? संगृहीता क्लेशक्षयतश्च | तथा हि क्लेश आलम्बनमुक्तं | मनोमयानां ग्रन्थानां प्रहाणादुच्छिद्यते आलम्बनमिति वचनात् |
1132 SK ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः |
1133 SK ते च ब्राह्म्या विहाराश्चतुर्विधा वेदितव्याः | तत्र चला हानभागीयाः परिहाणीयत्वात् | अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् | आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः | कृपणैरिति सुखलोलैरनुदारचित्तैः | एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारभेदः | तेषु पुनः |
1134 SK अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु || Mस_१७.२० ||
1135 SK न चलेषु नाप्यास्वादितेषु |
1136 SK असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि | हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः || Mस_१७.२१ ||
1137 SK एष मृद्वधिमात्रताभेदः | तत्र षड्विधा मृदुका असमाहितस्वभावाः | सर्वे समाहिता अपि | ये मृदुमध्याः | हीनभूमिका ये ऽपि उत्तरां बोधिसत्त्वभूमिमपेक्ष्य | हीनाशया अपि | श्रावकादीनां समाना अपि | ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास्ते मृदुका इत्यर्थः | अन्यथा त्वधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या |
1138 SK ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान् | संभारान्पूरयते सत्त्वांश्च विपाचयति तेन || Mस_१७.२२ ||
1139 SK सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण | तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तो ऽपि || Mस_१७.२३ ||
1140 SK हेतुफललिङ्गभेदः | तत्र ब्राह्म्यैर्विहृतो विहारैरिति हेतुः | कामिषु सत्त्वेषु संजायत इति विपाकफलं | संभारान्पूरयत्यधिपतिफलं | सत्त्वान्परिपाचयतीति पुरुषकारफलं | सर्वत्र चाविरहितो ब्राह्म्यैर्विहारैर्जायत इति निष्पन्दफलं | रहितश्च तद्विपक्षेणेति विसंयोगफलं | भृशैरपि तत्प्रत्ययैरविकृतिगमनं लिङ्गं | प्रमत्तो ऽपीत्यसंमुखीभूते ऽपि प्रतिपक्षे | अन्येश्चतुर्भिः श्लोकैर्गुणदोषभेदः |
1141 SK व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च | युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति || Mस_१७.२४ ||
1142 SK इति दोषः | ब्राह्म्यविहाराभावे तद्विपक्षयोगात् | तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः | व्यापादकामरागावुपेक्षायाः | कथं बहुविधादीनवं स्पृशतीत्याह |
1143 SK क्लेशैर्हन्त्यात्मानं सत्त्वानुपहन्ति शीलमुपहन्ति | सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता] || Mस_१७.२५ ||
1144 SK साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च | प्राप्ताप्राप्तविहीनो मनसि महद् दुःखमाप्नोति || Mस_१७.२६ ||
1145 SK तत्र प्रथमैस्त्रिभिः पदैरात्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्येतमादीनवं दर्शयति | सविलेखादिभिः षड्भिः पदैर्दृष्टधार्मिकमवद्यं प्रसवतीति दर्शयति | कथं च प्रसवति | आत्मास्यापवदते | परे ऽपि देवता अपि | शास्ताप्यन्ये ऽपि विज्ञाः (MSA_Bअग्छि १२०) सब्रह्मचारिणो धर्मतया विगर्हन्ते | दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्येवं सविलेखो यावदयशस्वीत्येअनेन यथाक्रमं दर्शयति | शेषैस्त्रिभिः पदैर्यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति | तज्जं चैतसिकं दुःख[खं] दौर्मनस्य प्रति संवेदयत इत्येतदादीनवं दर्शयति |
1146 SK एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति | अक्लिष्टः संसारं सत्त्वार्थं नो च संत्यजति || Mस_१७.२७ ||
1147 SK इति | ब्राह्मविहारयोगे त्रि[द्वि]विधं गुणं दर्शयति | यथोक्तदोषाभावम् अक्लिष्टस्य सत्त्वहेतोः संसारापरित्यागं |
1148 SK न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्त्वानां | मैत्र्यादिचेतनेयं सत्त्वेषु यथा जिनसुतानां || Mस_१७.२८ ||
1149 SK इत्येते[न?] च बोधिसत्त्वमैत्रादीनां तीव्रतां दर्शयति |
1150 SK करूणाविभागे तदालम्बनप्रभेदमारभ्य द्वौ श्लोकौ |
1151 SK प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान् | दुर्गमार्गसमारूढान्महाबन्धनसंयुतान् || Mस_१७.२९ ||
1152 SK महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान् | उत्पथप्रस्थितान् सत्त्वान्दुर्बलान् करुणायते || Mस_१७.३० ||
1153 SK तत्र प्रदीप्ताः कामरागेण कामसुग्वभक्ताः | शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखा[भि?]भूता नरकादिषु | तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः | कर्मविपाकसंमूढत्वात् | दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् | महाबन्धनसंयुता अन्यतीर्थ्याः[र्थ्य]मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् | महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः | तेषां हि तत् क्लिष्टं समापत्तिसुखं | यथा मृष्टमशनं विषाक्रान्तं | ततः प्रच्यावनात् | मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् | उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः | दुर्बला अपरिपूर्णसंभारा बोधिसत्त्वाः | इत्येते दशविधाः सत्वा बोधिसत्त्वकरुणाया आलम्बनम् |
1154 SK पञ्चफलसंदर्शने करुणायाः श्लोकः |
1155 SK हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं | स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य || Mस_१७.३१ ||
1156 SK ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद्विसंयोगफलं दर्शयति | उत्तमबोधिबीजत्वेनाधिपतिफलं | परात्मनोर्यथाक्रमं सुखावहताय[प]कत्वेन पुरुषकारफलं | इष्टहेतुत्वेन विपाकफलं | स्वभावदत्वेन निष्पन्दफलमायत्यां विशिष्टकरुणाफलदानात् | एवं पञ्चविधां करुणामाश्रित्य बुद्धत्वमदूरे वेदितव्यं |
1157 SK अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः |
1158 SK विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च | नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः || Mस_१७.३२ ||
1159 SK सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्त्वो नोद्वेगमायाति कारुणिकत्वात् | न दोषैर्बाध्यते ऽग्रबुद्धित्वात् | एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं | संसारपरिज्ञाने श्लोकः |
1160 SK दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् | तस्याभ्युपायं परिवर्जने च न खेदमायात्यपि वा कृपालुः || Mस_१७.३३ ||
1161 SK दुःखायत इति करुणायते | वेत्ति च तद्यथावदिति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं | वेत्ति येनास्य दुःखं निरुध्यते | एतेन जानन्नपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदमापद्यते बोधिसत्त्वः करुणाविशेषादिति प्रदर्शयति |
1162 SK करूणाप्रभेदे द्वौ श्लोकौ |
1163 SK कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् | विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करुणात्मकानां || Mस_१७.३४ ||
1164 SK सेयं यथाक्रमं गोत्रविशेषतः गुणदोषपरीक्षणतः | जन्मान्तरपरिभावनतः | वैराग्यलाभतश्च वेदितव्याः | तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः |
1165 SK न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा | वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः || Mस_१७.३५ ||
1166 SK तत्र समा सुखितादिषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा | सदा निरूपधिशेषनिर्वाणे तदक्षयात् | अध्याशयाद्भूमिप्रविष्टानामात्मपरसमताशयलाभात् | (MSA_Bअग्छि १२२) प्रतिपत्तितो दुःखपरित्राणक्रियया | वैराग्यतस्तद्विपक्षविहिंसाप्रहाणात् | अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् |
1167 SK करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः |
1168 SK करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्त्वपरिपाकः | करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र](पश्चिमान्त)फलः || Mस_१७.३६ ||
1169 SK इत्येष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः | एतस्य करुणा मूलं | क्षान्तिः स्कन्धः | सत्त्वार्थचिन्ता शाखा | प्रणिधानं शोभनेषु जन्मसु पत्राणि | शोभनं जन्म पुष्पं | सत्त्वपरिपाकः फलं |
1170 SK मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् | दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव || Mस_१७.३७ ||
1171 SK चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् | शुभजन्माननुगच्छन्सत्त्वान्परिपाचयेन्नैव || Mस_१७.३८ ||
1172 SK आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात्करुणादीनां मूलादिभावं साधयति |
1173 SK करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः | शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया || Mस_१७.३९ ||
1174 SK पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात् | द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् || Mस_१७.४० ||
1175 SK एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति | करुणा हि मूलवृक्षा[मूलमित्युक्ता] | तस्याः सेको मैत्री तया तदाप्यायनात् | मैत्रचित्तो हि परदुःखेन दुःखायते | ततश्च करुणोद्भव[करुणातो यद्]दुःखमुत्पद्यते बोधिसत्त्वस्यस्वा[सत्त्वा]र्थप्रयुक्तस्य तत्र सौख्योत्पादाद्विपुलपुष्टिः क्षान्तिपुष्टिरित्यर्थः | सा हि स्कन्ध इत्युक्ता | स्कन्धश्च विपुलः | योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः | चिन्ता हि शाखेत्युक्ता | पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् | पर्णत्यागादानसाधर्म्यं प्रणीधानानां वेदितव्यम् | आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात्पुष्पमिव जन्माबन्ध्यं वेदितव्यम् | बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्त्वपरिपाको [ऽबन्ध्यो?] वेदितव्यः |
1176 SK करुणानुशंसे श्लोकः |
1177 SK कः कुर्वीत न करुणां सत्त्वेषु महाकृपागुणकरेषु | दुःखे ऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं || Mस_१७.४१ ||
1178 SK अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः | शेषो गतार्थः | करुणानिःसङ्गतायां श्लोकः |
1179 SK आविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां | कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः || Mस_१७.४२ ||
1180 SK सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः | तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः | बोधिसत्त्वानां तु करुणाविष्टत्वान्निर्वाणे ऽपि मनो न प्रतिष्ठितं | कुत एव तयोः स्नेहो भविष्यति | करुणास्नेहवैशेष्ये त्रयः श्लोकाः |
1181 SK स्नेहो न विद्यते ऽसौ यो निरवद्यो न लौकिको यश्च | धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः || Mस_१७.४३ ||
1182 SK मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः | लौकिककरूणाविहारिणां निरवद्यो ऽपि लौकिकः | बोधिसत्त्वानां तु करूणामयः | स्नेहो निरवद्यश्च लौकिकातिक्रान्तश्च | कथं च पुनर्निरवद्य इत्याह |
1183 SK दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं | उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः || Mस_१७.४४ ||
1184 SK दुःखमहौघ अज्ञानमहान्धकारे चेति योज्यं | शेषं गतार्थं | कथं लोकातिक्रान्त इत्याह |
1185 SK स्नेहो न सो ऽत्स्यरिहतां लोके प्रत्येकबोधिबुद्धानां | प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात् || Mस_१७.४५ ||
1186 SK प्रत्येकां बोधिं बुद्धाः | शेषं गतार्थम् |
1187 SK त्रासाभिनन्दननिमित्तत्वे श्लोकः |
1188 SK दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां | संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढं || Mस_१७.४६ ||
1189 SK दुःखाभावे इति दुःखाभावो निमित्तं सत्त्वेषु करुणया बोधिसत्त्वानां यद् दुःखमुत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ | आत्मपरसमतया दुःखस्य यथाभूतमस्पृष्टत्वात् | स्पृष्टं तु शुद्धाध्याशयभूमावभिनन्दयत्येवेत्यर्थः |
1190 SK करुणादुःखेन सुखाभिभवे श्लोकः |
1191 SK किमतः परमाश्चर्यं यद् दुःखं सौख्यमभिभवति सर्वं | कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः || Mस_१७.४७ ||
1192 SK नास्यत आश्चर्यतरं यद् दुःखमेव करुणाजनितं बोधिसत्त्वानां तथा सुखं भवति | यत्सर्वं लौकिकं सुखमभिभवति | येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्रागेवान्ये |
1193 SK कृपाकृतदानानुशंसे श्लोकः |
1194 SK कृपया सहितं दानं यद्दानसुखं करोति धीराणां | त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति || Mस_१७.४८ ||
1195 SK यच्च त्रैधातुकं सुखमुपभोगै कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्ययमुत्तरार्धस्यार्थः | शेषं गतार्थम् |
1196 SK कृपया दुःखाभ्युपगमे श्लोकः |
1197 SK दुःखमयं संसारं यत्कृपया न त्यजति सत्त्वार्थं | परहितहेतोर्दुःखं किं कारुणिकैर्न समुपेतम् || Mस_१७.४९ ||
1198 SK सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं | तस्याभ्युपगमात् सर्वं दुःखमभ्युपगतं भवति |
1199 SK तत्र तत्फलवृद्धौ श्लोकः |
1200 SK करूणा दानं भोगाः सदा कृपालोर्विवुद्धिमुपयान्ति | स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात् || Mस_१७.५० ||
1201 SK त्रयं बोधिसत्त्वानां सर्वजन्मसु वर्धते करूणायोगात् | करूणा तदभ्यासात् | दानं करुणावशात् | भोगाश्च दानवशात् | तस्माच्च त्रयात्फलं त्रिविधं सुखं भवति | स्नेहजनितं करुणातः | सत्त्वानुग्रहजनितं दानात् | तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः |
1202 SK दानप्रोत्साहनायां श्लोकः |
1203 SK वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि | आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव || Mस_१७.५१ ||
1204 SK दाने सन्नानिति संबन्धनीयं | षड्भिर्गुणैर्दानै ऽवसन्नान् बोधिसत्त्वान्करुणा प्रोत्सहयतीव | स्वभाववृद्ध्या | भोगैस्तद्वर्धनया | दानेन सत्त्वपरिपाचनया | दातुश्च सुखोत्पादनात् | महाबोधिसंभारस्यान्यस्या[संभारस्या]कर्षणात् | महाबोधिसमीपनयनाच्च |
1205 SK परसौख्येन सुखा[नु?]भवे श्लोकः |
1206 SK दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात् | सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम् || Mस_१७.५२ ||
1207 SK करुणया बोधिसत्त्वः परदुःखैर्दुःखितः सत्त्वेष्वनाधाय सुखं कथं सुखितः स्यात् | तस्मात्परेषु सुखमाधाय बोधिसत्व आत्मानमेव सुखयतीति वेदितव्यम् |
1208 SK कृपया दानसमनुशास्तौ षट् श्लोकाः |
1209 SK स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः | भोगैः सुखय परं वा मामप्ययुतसौख्यम् || Mस_१७.५३ ||
1210 SK न हि कारुणिकस्य विना परसुखेनास्ति सुखं | तस्यायुतसौख्यत्वाद्वौधिसत्त्वस्तेन विना[त्म?]नो दानस्य फलं सुखं नेच्छति |
1211 SK सफलं दानं दत्तं तन्मे सत्त्वेषु तत्सुखसुखेन | फल तेष्वेव निकामं यदि मे कर्तव्यता ते ऽस्ति || Mस_१७.५४ ||
1212 SK दानं ददता दानं च दानफलं च तन्मया सत्त्वेषु दत्तं | तत्सुखमेव मे सुखं यस्मात् | अतस्तेष्वेव यावत्फलितव्यं तावत्फलेति लोट् | बोधिसत्त्वः करूणया दानमनुशास्ति |
1213 SK भोगद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति | न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः || Mस_१७.५५ ||
1214 SK भोगविमुखस्य दातुर्भोगा बहुतराश्चोपतिष्ठन्ते | शोभनतराश्च | धर्म तैवेयं चित्तस्योदारतरत्वात् | न हि तत्सुखं मतं मे यद् भोगास्तथोपतिष्ठन्ते | यस्मादहं दाने पारंपरस्तत्प्रबन्धकामत्वान्नसुखे |
1215 SK सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं | ननु ते तेन ज्ञेयं न मत्फलेनार्थितास्येति || Mस_१७.५६ ||
1216 SK यो ऽहं दानफलं सर्वमेव करुणया नित्यं परित्यजामि नन्वत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वमिति बोधिसत्त्वो दानं समनुशास्ति |
1217 SK दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं |
1219 SK क्षणमपि दानेन विना दानाभिरतो भवति नैव || Mस_१७.५७ ||
1220 SK इति गतार्थः श्लोकः |
1221 SK अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं |
1222 SK यस्त्वा करोति तस्य त्वं फलसि | तस्मात्त्वं प्रतिकारपेक्षया न मत्तुल्यम् |
1224 SK प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते || Mस_१७.५८ ||
1226 SK कृपादानेन द्वौ श्लोकौ | निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च | निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् || Mस_१७.५९ ||
1227 SK तत्र निरवद्यं परमनुपहृत्य दानात् | शुद्धपदं कल्पिकवसु[वस्तु]दानात् | विषशस्रमद्यादिविवर्जनतः | हितावहं दानेन संगृह्य कुशले नियोजनात् | सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् | निर्मृग्यमयाचमाने ऽप्यर्थित्वं विघातं वावगम्य स्वयमेव दानात् दक्षिणीयापरिमार्गणाच्च | निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् | अपरः प्रकारः |
1228 SK सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं | बोधिनतं कुशलनतं जिनात्मजानां कृपादानम् || Mस_१७.६० ||
1229 SK तत्र सकलमाध्यात्मिकबाह्यवस्तुदानात् | विपुलं प्रभूतवस्तुदानात् | श्रेष्ठं प्रणीतवस्तुदानात् | सततमभीक्ष्णदानात् | मुदीतमप्रतिसंख्याय प्रहृष्टदानात् | निरामिषं यथा निर्लेपं | शुद्धं यथा शुद्धपदं | बोधिनतं महाबोधिपरिणामनात् | कुशलनतं यथा हितावहं |
1230 SK उपभोअगविशेषे श्लोकः |
1231 SK न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् | तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः || Mस_१७.६१ ||
1232 SK तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश्च | शेषं गतार्थं |
1233 SK पारमिताभिनिर्हारकरुणायां श्लोकः |
1234 SK कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु | विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च || Mस_१७.६२ ||
1235 SK तत्र कृपणा मत्सरिणः | रौद्रा दुःशीलाः परोपतापिनः | संक्षुब्धाः क्रोधनाः | प्रमत्ताः कुशीदाः | विषयपरतन्त्रा कामेषु विक्षिप्तचित्ताः | मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः | एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा | सा च तद्विपक्षविदूषणात्पारमिताभिनिर्हाराय संपद्यते | तस्मात्पारमिताभिनिर्हारकरुणेत्युच्यते |
1236 SK करुणाप्रत्ययसंदर्शने श्लोकः |
1237 SK करुणा बोधिसत्त्वानां सुखाद् दुःखात्तदन्वयात् | करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः || Mस_१७.६३ ||
1238 SK तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति | त्रिविधां वेदनामालम्ब्य तिसृभिर्दुःखताभिः करुणायनात् | अदुःखासुखा हि वेदना सुखदुःखयोरन्वयः पुनस्तदावाहनात् | (MSA_Bअग्छि १२७) उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान्संदर्शयति |
1239 SK महाकरुणत्वे श्लोकः |
1240 SK करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात् | प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः || Mस_१७.६४ ||
1241 SK तत्र समा त्रिविधवेदनावस्थेषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा | सा पुनराशयतो ऽपि चित्तेन करुणायनात् | प्रतिपत्तितो ऽपि तत्परित्राणात् | विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् | अनुपलम्भतो ऽप्यात्मपरकरुणानुपलम्भात् | विशुद्धितो ऽप्यष्टभ्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभात् |
1242 SK मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच्च | आशयतो ऽपि विभुत्वादविकल्पादैक्यतश्चापि || Mस_१७.६५ ||
1243 SK इति | पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः |
1244 SK इति भगवति जातुसुप्रसादो महदुपधिध्रुवसत्क्रियाधिपूजी | बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं || Mस_१७.६६ ||
1245 SK एतेन यथोक्तानां पूजासेवाप्रमाणानामनुक्रमं गुणं च समासेन संदर्शयति | महोपधिभिर्ध्रुवं सत्क्रिया[यया] चात्यर्थं पूजनान्महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः | सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या | एवं [लाभ?]सत्कारप्रतिपत्तिपूजी भवति | बहुगुणं मित्रं तदन्यैर्गुणैः | हितमनुकम्पकत्वेन वेदितव्यं | एति सर्वसिद्धिमिति स्वपरार्थसिद्धिं प्राप्नोतीति |
1246 SK || महायानसूत्रालंकारे पूजासेवाप्रमाणाधिकारः [सप्तदशः] समाप्तः ||
1248 SK लज्जाविभागे षोडशः श्लोकाः |
1249 SK लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन | हीनानवद्यविषया सत्त्वानां पाचिका धीरे || Mस_१८.१ ||
1250 SK एतेन स्वभावसहायालम्बनकर्मसंपदा चतुर्विधं लक्षणं बोधिसत्त्वलज्जायाः संदर्शितं | हीनानवद्यविषया | श्रावकप्रत्येकबुद्धानां [यानं?] तद्वि[द्धि]हीनं च महायानादनवद्यं च | तेन च बोधिसत्त्वो लज्जते | कथं सत्त्वानां पाचिका | तस्यामेव लज्जा[यां] परप्रस्थापनात् |
1251 SK षण्णां पारमितानां विपक्षे वृद्ध्या बोधिसत्त्वानां | प्रतिपक्षे हानितश्चाप्यतीव संपद्यते लज्जा |
1252 SK इयं बोधिसत्त्वानां बृद्ध्या परिहानितश्च लज्जा [?] पारमिताविषक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् |
1253 SK षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा | क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां || Mस_१८.२ ||
1254 SK इयमप्रयोग[प्रयोग?]लज्जा पारमिताभावनायामप्रयोगेन | क्लेशानुकूलेषु धर्मेष्विन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् |
1255 SK असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा | हीनाशया समाना हीना हि तदन्यथा त्वधिका || Mस_१८.३ ||
1256 SK इयं मृद्वधिमात्रा लज्जा | पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यः | अतः परं चतुर्भिस्त्रिभिश्च श्लोकैर्यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति |
1257 SK लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः | प्रतिघोपेक्षामानः सत्त्वानुपहन्ति शीलं च || Mस_१८.४ ||
1258 SK इत्यत्र आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधाय चेति संदर्शितम् | अयोनिशत इत्ययोनिशो मनस्कारेण | कथमुपेक्षया सत्त्वानुपहन्ति | सत्त्वार्थप्रमादतः |
1259 SK कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति | श्राद्धात्मा[मा]नुषसंघाच्छास्रा चोपेक्ष्यते तस्मात् || Mस_१८.५ ||
1260 SK सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतो ऽयशो लभते | दृष्टे धर्मे
1261 SK इत्यनेन दृष्टधार्मिकमवद्यं प्रसवतीति दर्शितं | यथाक्रममात्मपरदेवताशास्तृभिरपवदनात् | विज्ञैः सब्रह्मचारिभिर्धर्मतया विगर्हणात् | दिग्विदिक्षु च पापकावर्णनिश्चरणात् |
1262 SK ऽन्यत्र क्षणरहितो जायते भूयः || Mस_१८.६ ||
1263 SK इत्यनेन सांपरायिकमवद्यं प्रसवतीति संदर्शितमक्षणेषूपपत्तेः |
1264 SK प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन |
1265 SK इत्यनेन दृष्टधर्मसांपरायिकमवद्यं प्रसवतीति संदर्शितं | प्राप्तकुशलधर्मपरिहाणितः | अप्राप्तपरिहाणितश्च यथाक्रमम् |
1266 SK दुःखं विहरति तस्मान्मनसो ऽप्यस्वस्थतामेति || Mस_१८.७ ||
1267 SK इत्यनेन तज्जं चैतसिकं दुःखं दौर्मनस्यं प्रतिसंवेदयत इति संदर्शितम् |
1268 SK एते सर्वे दोषा हीमत्सु भवन्ति नो जिनसुतेषु |
1269 SK इत्यत उपादाय लज्जागुणो वेदितव्यः | यदेते च दोषा न भवन्ति |
1270 SK देवेषु च मनुजेषु च नित्यं संजायते च बुधः || Mस_१८.८ ||
1271 SK इत्येतदस्य विपाकफलं भवति |
1272 SK संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् |
1274 SK सत्त्वानां पाचनया न खिद्यते चैव जिनपुत्रः || Mस_१८.९ ||
1275 SK इत्येतत्पुरुषकारफलम् |
1276 SK स विपक्षप्रतिपक्षै रहितो ऽरहितश्च जायते सततं |
1277 SK इत्येते विसंयोगनिष्पन्दफले | यदुत विपक्षरहितत्वं प्रतिपक्षारहितत्वं च |
1278 SK इत्येतमानुशंसं हीमानाप्नोति जिनपुत्रः || Mस_१८.१० ||
1279 SK इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितम् |
1280 SK दोषमलिनो हि बालो हीविरहात्सुवसनैः सुगुप्तो ऽपि | निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः || Mस_१८.११ ||
1281 SK एतेन वस्रविशेषणं ह्रियः | तदन्यवस्रप्रावृतस्यापि ह्रीरहितस्य दोषमलिनत्वात् | नग्नस्यापि न ह्रीमतो निर्मलत्वात् | आकाशमिव न लिप्तो ह्रीयुक्तो जिनसुतो भवति धर्मैः | धर्मैरिति लोकधर्मैः |
1282 SK हीभूषितश्च शोभति संपर्कगतो जिनसुतानाम् || Mस_१८.१२ ||
1283 SK एतेन श्लोकेन ह्रिय आकाशभूषणसमतां दर्शयति |
1284 SK मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां |
1285 SK त्रातव्यसत्त्वोपेक्षाया लज्जनात् |
1286 SK आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः || Mस_१८.१३ ||
1287 SK हस्त्यश्वकायादिभूतत्वात् | एभिर्वस्त्रादिदृष्टान्तैर्विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां | सहधार्मिकसंवासानुकूलतां | सत्त्वापरिपाकानुकूलताम् | अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति |
1288 SK सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च | सर्वेषु च प्रवृत्तिर्ह्रीविहितं हीमतो लिङ्गम् || Mस_१८.१४ ||
1289 SK एतेन चतुर्विधं ह्रीकृतं लिङ्गं हीमतो दर्शयति | यदुत सर्वदोषेष्वनधिवासना चाप्रवृत्तिश्च | सर्वगुणेष्वधिवासना च प्रवृत्तिश्च |
1290 SK ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच्च | आशयतो ऽपि विभुत्वादकल्पनादैक्यतश्चापि || Mस_१८.१५ ||
1291 SK इत्यस्य निर्देशो यथापूर्वं |
1292 SK धृतिविभागे सप्त श्लोकाः |
1293 SK धृतिश्च बोधिसत्त्वानां लक्षणेन प्रभेदतः | दृढत्वेन स सर्वेभ्यस्तदन्येभ्यो विशिष्यते || Mस_१८.१६ ||
1294 SK वीर्यं समाधिः प्रज्ञा च सत्त्वं धैर्यं धृतिर्मता | निर्भीतो बोधिसत्त्वो हि त्रयाद्यस्मात्प्रवर्तते || Mस_१८.१७ ||
1295 SK एतेन धृतिलक्षणं सपर्यायं ससाधनं चोक्तं | वीर्यादिकं लक्षणं सत्त्वादिकं पर्यायः | शेषं साधनं | कतमस्मात्त्रयान्निर्भीतः प्रवर्तत इत्याह |
1296 SK लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं | कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये || Mस_१८.१८ ||
1297 SK सर्वकार्येषु हि लीनचित्ततया वा भयमुत्पद्यते तदनुत्साहतः | चलचित्ततया वा चित्तानवस्थानतः | संमोहतो वा तदुपायज्ञानतः | तत्प्रतिपक्षाश्च यथाक्रमं वीर्यादयः | तस्मान्निजवीर्यादित्रये धृतिसंज्ञा वेदितव्या निज इत्यप्रतिसंख्यानकरणीये |
1298 SK प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च | सत्त्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे || Mस_१८.१९ ||
1299 SK विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च | दुष्करेषु विचित्रेषु संसारात्याग एव च || Mस_१८.२० ||
1300 SK निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते | असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः[मतः] || Mस_१८.२१ ||
1301 SK एभिस्त्रिभिः श्लौकैर्धृतिप्रभेदः दर्शयति | यथाक्रमं गोत्रतः | चित्तोत्पादतः | स्वार्थतः | सत्वार्थतः [परार्थतः | तत्वार्थतः |] प्रभावतः | सत्वपरिपाचनतः | परमबोधितश्च | तत्र निरपेक्षत्वं स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद्वेदितव्यं | पुनर्दुष्करचर्यातः | संचिन्त्यभवोपपत्तितः | तदसंक्लेशतो ऽपि प्रभेदः |
1302 SK कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते | शलभैः पक्षवातैश्च समुद्रैश्च सुमेरुवत् || Mस_१८.२२ ||
1303 SK एतेन बोधिसत्त्वधृतेर्दृढत्वं दर्शयति | उपमात्रयं त्रयेणाकम्पने[नं] यथाक्रमं वेदितव्यम् |
1304 SK अखेदविभागे द्वौ श्लौकौ |
1305 SK अखेदो बोधिसत्वानामसमस्त्रिषु वस्तुषु | श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः || Mस_१८.२३ ||
1306 SK तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः | अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु || Mस_१८.२४ ||
1307 SK आभ्यां वस्तुतो निश्रयतः स्वभावतः प्रभेदतश्चाखेदो निर्दिष्टः | त्रिषु वस्तुषु | श्रुतातृप्तौ | दीर्घकालवीर्यारम्भे | संसारदुःखे च | ह्रियं धृतिं च निश्रित्य | ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति | तीव्रच्छन्दो महाबोधाविति स्वभावः | छन्दे हि व्यावृत्ते खिन्नो भवति | अनिष्पन्नो ऽधिमुक्तिचर्याभूमौ | निष्पन्नः सप्तभूमिषु | सुनिष्पन्नः परेण इत्येष प्रभेदः |
1308 SK शास्त्रज्ञतायां द्वौ श्लोकौ |
1309 SK वस्तुना चाधिकारेण कर्मणा च विशिष्यते | लक्षणेनाक्षयत्वेन फलस्योदागमेन च || Mस_१८.२५ ||
1310 SK शास्त्रज्ञता हि धीराणां समाधिमुखधारणी | गृहीता सत्त्वपाकाय सद्धर्मस्य च धारणे || Mस_१८.२६ ||
1311 SK तत्र शास्त्रज्ञतायाः पञ्च विद्यास्थानानि वस्तु | अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च | स्वपरार्थक्रिया अधिकारः | कर्म प्रथमवस्तुनि (MSA_Bअग्छि १३२) स्वयं प्रतिपत्तिः परेभ्यश्च तत्समाख्यानं | द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश्च | तृतीये स्वयं सुनिरूक्ताभिधानं परसंप्रत्ययश्च | चतुर्थे परेषां व्याधिशमनं | पञ्चमे परेभ्यस्तत्संविभागः | लक्षणं शास्त्रज्ञताया एतान्येव पञ्च वस्तूनि श्रुतानि भवन्ति | धृतानि | वचसा परिजितानि | मनसा अन्वीक्षितानि | दृष्ट्या सुप्रतिविद्धानि | श्रुत्वा यथाक्रमं तदुद्ग्रहणातः | स्वाध्यायतः | प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् स्वाख्यातदुराख्यातावधारणतश्च | अक्षयत्वं निरुपधिशेषनिर्वाणे ऽप्यक्षयात् | फलसमुदागमः सर्वधर्मसर्वाकारज्ञता | सा पुनरेषा शास्रज्ञता बोधिसत्त्वानां समाधिमुखैर्धारणीमुखैश्च संगृहीता | सत्त्वपरिपाकाय च भवति | समाधिमुखैस्तत्कृत्यानुष्ठानात् | सद्धर्मपारणाय च धारणीभिस्तद्धारणात् |
1312 SK लोकज्ञतायां चत्वारः श्लोकाः |
1313 SK कायेन वचसा चैव सत्यज्ञानेन चासमा | लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते || Mस_१८.२७ ||
1314 SK कथं कायेनेत्याह | कृतस्मितमुखा नित्यं | कथं वाचेत्याह | धीराः पूर्वाभिभाषिणः |
1315 SK सा पुनः किमर्थमित्याह | सत्त्वानां भाजनत्वाय | कस्मिन्नर्थे भाजनत्वाय | सद्धर्मप्रतिपत्तये || Mस_१८.२८ ||
1316 SK कथं सत्यज्ञानेनेत्याह |
1317 SK सत्यद्वयाद्यतश्चेष्टो लोकानामुदयो ऽसकृत् | द्वयादस्तंगमस्तस्मात् तज्ज्ञो लोकज्ञ उच्यते || Mस_१८.२९ ||
1318 SK द्वाभ्यां सत्याभ्यां लोकस्योदयः पुनः पुनः संसारो यश्चोदयो येन चेति कृत्वा | द्वाभ्यामस्तंगमो निरोधमार्गसत्याभ्यां | यश्चास्तंगमो येन चेति कृत्वा | तस्मात्तज्ज्ञो लोकज्ञ उच्यते | लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् |
1319 SK शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते | सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते || Mस_१८.३० ||
1320 SK अनेन लोकज्ञतायाः कर्म निर्दिष्टं | तत्र शमाय दुःखसमुदयसत्ययोः प्राप्तये निरोधमार्गसत्ययोः |
1321 SK प्रतिसरणविभागे त्रयः श्लोकाः
1322 SK आर्षश्च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च | प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च || Mस_१८.३१ ||
1323 SK इदं प्रतिसरणानां लक्षणं | तत्र प्रामाणिको ऽर्थो यः प्रमाणभूतेन नीतो विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा | निर्जल्पा प्राप्तिरधिगमज्ञानं लोकोत्तरं | तस्यानभिलाप्यत्वात् | शेषं गतार्थम् |
1324 SK प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च | साभिलाष[प]स्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः || Mस_१८.३२ ||
1325 SK प्रथमे प्रतिसरणे आर्षधर्मप्रतिक्षेप्तुः पुद्नलस्य प्रतिषेधो देशितः | द्वितीये यथारुतार्थस्य व्यञ्जनस्य नाभिप्रायिकार्थेन | तृतीये मिथ्या चिन्तितार्थस्य विपरीतं नीयमानस्य | चतुर्थे साभिलाष[प]स्य ज्ञानस्य[आ]प्रत्यात्मवेदनीयस्य |
1326 SK अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात् | निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां || Mस_१८.३३ ||
1327 SK अयं प्रतिसरणानुशंसः | प्रथमेन प्रतिसरणेनार्षधर्माधिमुक्तितो न प्रणश्यति | द्वितीयेन स्वयमाभिप्रायिकार्थविचारणात् | तृतीयेन परतस्तदविपरीतार्थनयश्रवात् | चतुर्थेन लोकोत्तरज्ञानात् |
1328 SK प्रतिसंविद्विभागे चत्वारः श्लोकाः |
1329 SK असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः | पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः || Mस_१८.३४ ||
1330 SK प्रथमा पर्याये ज्ञानमेकैकस्यार्थस्य यावन्तो नामपर्यायाः | द्वितीया लक्षणे यस्यार्थस्य तन्नाम | तृतीया वाक्ये प्रत्येकं जनपदेषु या भाषाः | चतुर्था ज्ञाने स्वयं यत्प्रतिभानम् | इदं प्रतिसंविदांलक्षणम् |
1331 SK देशनायां प्रयुक्तस्य यस्य येन च देशना | धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना || Mस_१८.३५ ||
1332 SK धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद् द्वयोः | परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम् || Mस_१८.३६ ||
1333 SK इति चतुष्ट्वे कारणं | देशनायां हि प्रयुक्तस्य यस्य च देशना येन च | तत्र ज्ञानेन प्रयोजनं | कस्य पुनर्देशना | धर्मस्यार्थस्य | केन देशना वचनेन ज्ञानेन च | तत्र धर्मार्थयोर्देशना | धर्मस्योद्देशनिर्देशात् | वाक्येन देशना तयोरेव द्वयोः सर्वथा प्रापणात् |
1334 SK ज्ञानेन देशना चोद्यानां परिहरणात् | अतो यच्च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः |
1335 SK प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना | सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते || Mस_१८.३७ ||
1336 SK एतेन प्रतिसंविदां निर्वचनं कर्म च दर्शितं | प्रत्यात्मं लोकोत्तरेण ज्ञानेन सर्वधर्मसमतां तथतामवेत्य उत्तरकालं तत्पृष्ठलब्धेन ज्ञानेन प्रवेदना पर्यायादीनां प्रतिसंविदिति निर्वचनं | सर्वसंशयनाशाय परेषामिति कर्म |
1337 SK संभारविभागे चत्वारः श्लोकाः |
1338 SK संभारो बोधिसत्त्वानां पुण्यज्ञानमयो ऽसमः | संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ || Mस_१८.३८ ||
1339 SK यश्च संभारो यदर्थं च तत्संदर्शितम् | द्विविधः संभारः | तत्र पुण्यसंभारः संसारे ऽभ्युदयाय संवर्तते | ज्ञानसंभारो ऽसंक्लिष्टसंसरणाय |
1340 SK दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः | त्रयं चान्यद्द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः || Mस_१८.३९ ||
1341 SK एतेन पारमिताभिस्तदुभयसंभारसंग्रहं दर्शयति | क्षान्तिवीर्यध्यानबलेन ह्युभयं क्रियते | तस्माद्द्वयसंभारस्रयं भवति | पुनः प्रज्ञायां परिणामनात्सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः |
1342 SK संतत्या भावनामेत्य भूयो भूयः शुभस्य हि | आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः || Mस_१८.४० ||
1343 SK एतत्संभारनिर्वचनं कर्म च | समिति संतत्या | भा इति भावनामागम्य | र इति भूयो भूय आहारः | सर्वार्थसाधक इति कर्म | स्वपरार्थयोः साधनात् |
1344 SK प्रवेशायानिमित्ताय अनाभोगाय संभृतिः | अभिषेकाय निष्ठायै धीराणामुपचीयते || Mस_१८.४१ ||
1345 SK अयं संभारप्रभेदः | तत्राधिमुक्तिचर्याभूमौ संभारो भूमिप्रवेशाय | षट्सु भूमिष्वनिमित्ताय सप्तमीभूमिसंगृहीताय | तस्यां निमित्त-[आ] समुदाचारात् | सप्तम्यां भूमावनाभोगाय तदन्यभूमिद्वयसंगृहीताया | तयोः संभारा[रो ऽ]भिषेकाय दशमीभूमिसंगृहीताय | तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय |
1346 SK स्मृत्युपस्थानविभागे त्रयः श्लोकाः |
1347 SK चतुर्दशभिराकारैः स्मृत्युपस्थानभावना | धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते || Mस_१८.४२ ||
1349 SK निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च | आलम्बनमनस्कारप्राप्तितश्च विशिष्यते || Mस_१८.४३ ||
1350 SK आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा | मात्रया परमत्वेन भावनासमुदागमात् || Mस_१८.४४ ||
1351 SK इत्येभिश्चतुर्दशभिराकारैर्बोधिसत्वानां स्मृत्युपस्थानभावना विशिष्यते | कथमाश्रयतो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञामाश्रित्य | कथं प्रतिपक्षतः चतुर्विपर्यासप्रतिपक्षाणामप्यशुचिदुःखानित्यानात्मसंज्ञानां प्रतिपक्षत्वात्कायादिधर्म नैरात्म्यप्रवेशतः | कथमवतारतः | चतुर्भिः स्मृत्युपस्थानैर्यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात्स्वयं परेषां चावतारणात् | यथोक्तं मध्यान्तविभागे | कथमालम्बनतः सर्वसत्त्वकायाद्यालम्बनात् | कथं मनस्कारतः कायाद्यनुपलम्भात् | कथं प्राप्तितः कायादीनां न विसंयोगाय नाविसंयोगाय | कथमानुकूल्यतः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् | कथमनुवृत्तितः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात्तेभ्यस्तदुपदेशार्थं | कथं परिज्ञातः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् | वेदनायाः स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् | चित्तस्य प्रकृतिप्रभास्वरत्वपरिज्ञया आकाशवत् | धर्माणामागन्तुकत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् | कथमुत्पत्तितः संचित्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः | कथं मात्रातः मृद्वा अपि स्मृत्युपस्थानभावनायास्तदन्येभ्यो ऽधिमात्रत्वात् | प्रकृतितीक्ष्णेन्द्रियतया | कथं परमत्वेन परिनिष्पन्नानामनाभोगमिश्रोपमिश्रभावनात् | कथं भावनातः (MSA_Bअग्छि १३६) अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् | कथं समुदागमतः | दशसु भूमिषु बुद्धत्वे च समुदागमात् |
1352 SK सम्यक्प्रहाणविभागे पञ्च श्लोकाः |
1353 SK सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः | स्मृत्युपस्थानदोष[आ]णां प्रतिपक्षेण भाव्यते || Mस_१८.४५ ||
1354 SK यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां दोषाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणम् | प्रभेदेन पुनः |
1355 SK संसारस्योपभोगे च त्यागे निवरणस्य च | मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु || Mस_१८.४६ ||
1356 SK अनिमित्तविहारे च लब्धौ व्याकरणस्य च | सत्त्वानां परिपाके च अभिषेके च धीमतां || Mस_१८.४७ ||
1357 SK क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च | भाव्यते बोधिसत्त्वानां विपक्षप्रतिपक्षतः || Mस_१८.४८ ||
1358 SK अयं सम्यक्प्रहाणभावनाप्रभेदः | संसारस्यासंक्लिष्टपरिभोगे संपत्तिषु | पञ्चनिवारणत्यागे | श्रावकप्रत्येकबुद्धमनस्कारत्यागे | भूमिप्रवेशे | अनिमित्तविहारे सप्तम्यां भूमौ | व्याकरणलाभे अष्टम्यां | सत्त्वानां परिपाचने | नवम्यां | अभिषेके च दशम्यां | क्षेत्रविशुद्ध्यर्थं त्रये ऽपि | निष्ठागमने च बुद्धभूमौ | ये च विपक्षास्तेषां प्रतिपक्षेण सम्यक्प्रहाणभावना वेदितव्या | अयमस्याः प्रभेदः |
1359 SK छन्दं निश्रित्य योगस्य भावना सनिमित्तिका | सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते || Mस_१८.४९ ||
1360 SK एतेन छन्दं जनयति | व्यायच्छते वीर्यमारभते | चित्तं प्रगृण्हाति | सम्यक् प्रदधातीति | एषां पदानामर्थनिर्देशः | छन्दं हि निश्रित्य शमथविपश्यनाख्यं योगं भावयतीति व्यायच्छते | सा च भावना शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यते | तस्मात्सा सनिमित्तिका | कथं च पुनर्भाव्यते | यच्छमथप्रग्रहोपक्लेशयोर्लयौद्धत्ययोः प्रतिपक्षेण वीर्यमारभते | कथमारभते | चित्तं प्रगृण्हाति प्रदधाति च | [तत्र प्रगृण्हातीतिप्रज्ञया | प्रदधातीति?] शमथे [न?] समप्राप्ते चो[प्तश्चो]पेक्षायां प्रदधाति | एषा योगभावना यथोक्तप्रभेदेषु सर्वसम्यक्प्रहाणेषु प्रतिपक्ष उच्यते |
1361 SK ऋद्धिपादविभागे पञ्च श्लोकाः |
1362 SK ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः | सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च || Mस_१८.५० ||
1363 SK सर्वार्थसिद्धिर्लौकिकी लोकोत्तरा च वेदितव्या | शेषं गतार्थम् |
1364 SK निश्रयाच्च प्रभेदाच्च उपायादभिनिर्हृतेः | व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते || Mस_१८.५१ ||
1365 SK अस्योद्देशस्य शेषो निर्देशः |
1366 SK ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः | उपायश्चाभिनिर्हारः षड्विधश्च विधीयते || Mस_१८.५२ ||
1367 SK ध्यानपारमितानिश्रयः प्रभेदश्चतुर्विधश्छन्दवीर्यचित्तमीमांसासमाधिभेदात् | उपायश्चतुर्विध एव | अभिनिर्हारः षड्विधः | चतुर्विध उपायः कतमः |
1368 SK व्यावसायिक एकश्च द्वितियो ऽनुग्रहात्मकः | नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः || Mस_१८.५३ ||
1369 SK अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः श्रद्धा व्यावसायिकः उपायः | श्रद्दधानस्यार्थिनो व्यायामात् | प्रश्रब्धिरनुग्राहकः | स्मृतिः संप्रजन्यं चौपनिबन्धकः | एकेन चित्तस्यालम्बनाविसारात् | द्वितीयेन विसारप्रज्ञानात् | चेतना चोपेक्षा च प्रातिपक्षिक उपायः | लयौद्धत्योपक्लेशयोः क्लेशानां च प्रतिपक्षत्वात् | षड्विधो ऽभिनिर्हारः कतमः |
1370 SK दर्शनस्याववादस्य स्थितिविक्रीडितस्य च | प्रणिधेर्वशितायाश्च धर्मप्राप्तेश्च निर्हृतिः || Mस_१८.५४ ||
1371 SK तत्र दर्शनं चक्षुः पञ्चविधं मांसचक्षुः दीव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश्च | अववादः षडभिज्ञा यथाक्रमं | ताभिरुपसंक्रम्य भाषां चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् | स्थितिविक्रिडितं यस्मात् बोधिसत्त्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितं | प्रणिधिर्येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्त्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति | येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरस्य वेति विस्तरेण यथा दशभूमिके सूत्रे | वशिता यथा तत्रैव दश वशिता निर्दिष्टाः | धर्मप्राप्तिर्बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः | इत्येष दर्शनादीनामभिनिर्हारः षड्विधः |
1372 SK इन्द्रियविभागे श्लोकः |
1373 SK बोधिश्चर्या श्रुतं चात्र[ग्रं]शमथो ऽथ विपश्यना | श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः || Mस_१८.५५ ||
1374 SK श्रद्धेन्द्रियस्य बोधिः पदमालम्बनमित्यर्थः | वीर्येन्द्रियस्य बोधिसत्त्वचर्या | स्मृतीन्द्रियस्य महायानसंगृहीतं श्रुतं | समाधीन्द्रियस्य शमथः | प्रज्ञेन्द्रियस्य विपश्यना पदं | तदर्थाधिकारेणैव चैतानि श्रद्धादीनि आधिपत्यार्थेनेन्द्रियाण्युच्यन्ते |
1376 SK भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः | विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः || Mस_१८.५६ ||
1378 SK बोध्यङ्गविभागे सप्त श्लोकाः |
1379 SK भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते | धर्माणां सर्वसत्त्वानां समतावगमात्पुनः || Mस_१८.५७ ||
1380 SK एतेन यस्यामवस्थायां यस्यावबोधात् बोध्यङ्गानि व्यवस्थाप्यन्ते तदुपदिष्टं | भूमिप्रविष्टावस्थायां सर्वधर्माणां सर्वसत्त्वानां च समतावबोधाद्यथाक्रमं धर्मनैरात्म्येनात्मपरसमतया च | अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यङ्गानां दर्शयति |
1381 SK स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये |
1382 SK अजितज्ञेयविनिर्जयाय | यथा चक्रवर्तिनश्चक्ररत्नमजितदेशविनिर्जयाय |
1383 SK सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च || Mस_१८.५८ ||
1384 SK यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय |
1385 SK आशु चाशेषबोधाय वीर्यमस्य प्रवर्तते |
1386 SK क्षिप्राभिज्ञतोत्पादनात् | यथाश्वरत्नमाशु समुद्रपर्यन्तमहापृथिवीगमनाय |
1387 SK धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् || Mस_१८.५९ ||
1388 SK आरब्धवीर्यस्य बोधिसत्त्वस्य धर्मालोका विवर्धन्ते | ततः प्रीतिः सर्वं कार्यं[यं] सदा प्रीणयति | यथा मणिरत्नमालोकविशेषेण चक्रवर्तिनं प्रीणयति |
1389 SK सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखमेति च |
1390 SK सर्वदौष्ठुल्यसमुत्पाद[ट]नात् | यथा स्त्रीरत्नेन चक्रवर्ती सुखमनुभवति |
1391 SK चिन्तितार्थसमृद्धिश्च समाधेरूपजायते || Mस_१८.६० ||
1392 SK यथा चक्रवर्तिनो गृहपतिरत्नात् |
1393 SK उपेक्षया यथाकामं सर्वत्र विहरत्यसौ | प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन[विहारेण]सदोत्तमः || Mस_१८.६१ ||
1394 SK उपेक्षोच्यते निर्विकल्पं ज्ञानं तया बोधिसत्त्वः सर्वत्र यथाकामं विहरति | तत्पृष्ठलब्धेन च विहारेणान्यस्योपगमात् | अन्यस्यापगमात् | निर्विकल्पेन विहारेण तत्र निर्व्यापारतया वासकल्पनात् | यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायमुपनेतव्यं चोपप्रणयति[गमयति] | अपनेतव्यं चापनयति | तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बालकायः परैति |
1395 SK एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते | सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः || Mस_१८.६२ ||
1396 SK इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति |
1397 SK निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं | चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम् || Mस_१८.६३ ||
1398 SK एतेन यब्दोध्यङ्गं यथाङ्गं तदभिद्योतितं | स्मृतिर्निश्रयाङ्गं सर्वेषां तन्निश्रयेण प्रवृत्तेः | धर्मप्रविचयः स्वभावाङ्गं बोधेस्तत्स्वभावत्वात् | वीर्यं निर्याणाङ्गं तेनाप्राप्यनिष्ठा यामधिष्ठानात् [विच्छेदात्] | प्रीतिरनुशंसाङ्गं चित्तसुखत्वात् | प्रश्रब्धिसमाध्युपेक्षा असंक्लेशाङ्गं | येन यन्निश्रित्य यो ऽसंक्लेश इति त्रिविधमसंक्लेशाङ्गं वेदितव्यम् |
1399 SK मार्गाङ्गविभागे द्वौ श्लोकौ |
1400 SK यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते | यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ || Mस_१८.६४ ||
1401 SK कर्मत्रयविशुद्धिश्च प्रतिपक्षश्च भावना | ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च || Mस_१८.६५ ||
1402 SK बोध्यङ्गकालादूर्ध्वं यथाभूतावबोधानुवृत्तिः सम्यग्दृष्टिः | तस्यैवावबोधस्य व्यवस्थानं परिच्छेदः सम्यक्संकल्पः | तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव प्रवेशस्तेन तदर्थावबोधात् | कर्मत्रयविशुद्धिः सम्यग्वाक्कर्मान्ताजीवाः | वाक्कायोभयकर्मसंग्रहात् | प्रतिपक्षस्य भावना सम्यग्व्यायामादयो यथाक्रमं ज्ञेयावरणस्य मार्गावरणस्य च वैशेषिकगुणावरणस्य च सम्यग्व्यायामेन दीर्घं हि कालम् अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति | (MSA_Bअग्छि १४०) सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयोद्धत्याभावान्मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति | सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्येवमष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते |
1403 SK शमथविपश्यनाविभागे त्रयः श्लोकाः |
1404 SK चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि | सम्यक्स्थितिमुपाश्रित्य शमथो ऽथ विपश्यना || Mस_१८.६६ ||
1405 SK सम्यक्समाधिं निश्रित्य चित्ते चित्तस्यावस्थानात् | धर्माणां च प्रविचयाद्यथाक्रमं शमथो विपश्यना च वेदितव्या | न तु विना सम्यक्समाधिनेत्येतच्छमथविपश्यनालक्षणभू |
1406 SK सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता |
1407 SK सा च शमथविपश्यना सर्वत्रगा यं यं गुणमाकाङ्क्षति तत्र तत्र तद्भावनात् | यथोक्तं सूत्रे | आकाङ्क्षेद्भिक्षुरहो वताहं विविक्तं कामैरिति विस्तरेण यावत् तेन भिक्षुणा इमावेव द्वौ धर्मौ भावयितव्यौ | यदुत शमथश्च विपश्यना चेत्येवमादि | एकांशा शमथविपश्यना यदा शमथं भावयति | विपश्यनां वा | उभयांशा यदा युगपदुभयं भावयति | उपनिषत्संमता शमथविपश्यना बोधिसत्त्वानामधिमुक्तिचर्याभूमौ |
1408 SK प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते || Mस_१८.६७ ||
1409 SK परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना | सर्वभूमिगता धीरे स योगः सर्वसाधकः || Mस_१८.६८ ||
1410 SK इत्युपनिषन्मतेत्येवमादिना शमथविपश्यनायाः प्रभेदः कर्म च निर्दिष्टं | योग उपायो वेदितव्यः | तत्र प्रतिवेधः प्रथमभूमिप्रवेशः | निर्याणं यावत् षष्ठी भूमिः | ताभिः सनिमित्तप्रयोगनिर्याणात् | अनिमित्तं सप्तमी भूमिः | असंस्कृतमन्यद्भूमित्रयमनभिसंस्कारवाहित्वात् | संस्कारो हि संस्कृतं तदत्र नास्तीत्यसंस्कृतं | तदेव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च परिशोधयितव्यं | बुद्धत्वं च प्राप्तव्यं | तदेतद्यथाक्रमं परिशुद्धिर्विशुद्धिश्च |
1411 SK उपायकौशल्यविभागे द्वौ श्लोकौ |
1412 SK पूरये बुद्धधर्माणां सत्त्वानां परिपाचने | क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं || Mस_१८.६९ ||
1413 SK उपाये बोधिसत्त्वानामसमं सर्वभूमिषु | यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते || Mस_१८.७० ||
1414 SK अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितं | तत्र बुद्धधर्मपरिपूरये निर्विकल्पं ज्ञानमुपायः | सत्त्वपरिपाचने चत्वारि संग्रहवस्तूनि | क्षिप्राभिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु मे ज्ञानं संबोधायेति प्रतिदेशनानुमोदनाध्येषणा परिणामना | क्रियाशुद्धौ समाधिधारणीमुखानि | तैः सर्वार्थक्रियासाधनात् | वर्त्मानुपच्छेदे अप्रतिष्ठितनिर्वाणे | अस्मिन् पञ्चविध उपाये सर्वभूमिषु बोधिसत्त्वानामसमं तदन्यैः कौशलमित्ययं प्रभेदः | सर्वस्वपरार्थसाधनं कर्म |
1415 SK धारणीविभागे त्रयः श्लोकाः |
1416 SK विपाकेन श्रुताभ्यासात् धारण्यपि समाधिना | परीत्ता महती सा च महती त्रिविधा पुनः || Mस_१८.७१ ||
1417 SK अप्रविष्टविप्रविष्टानां धीमतां मृदुमध्यमा | अशुद्धभूमिकानां हि महती शुद्धभूमिका || Mस_१८.७२ ||
1418 SK धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः | प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च || Mस_१८.७३ ||
1419 SK अत्रापि प्रभेदः कर्म च धारण्याः संदर्शितं | तत्र त्रिविधा धारणी | पूर्वकर्मविपाकेन | श्रुताभ्यासेन | दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् | समाधिसंनिश्रयेण च | सा पुनर्विपाकश्रुताभ्यासाभ्यां परीत्ता वेदितव्या | समाधिना महती | सापि महती पुनस्त्रिविधा | अभूमिप्रविष्टानां मृद्वी भूमिप्रविष्टानाम् अशुद्धभूमिकानां मध्या सप्तसु भूमिषु | परिशुद्धभूमिका त्वधिमात्रा शेषासु भूमिषु इत्ययं प्रभेदो धारण्याः | सद्धर्मस्य प्रकाशनं धारणं च कर्म |
1420 SK प्रणिधानविभागे त्रयः श्लोकाः |
1421 SK चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् | प्रणिधानं हि धीराणामसमं सर्वभूमिषु || Mस_१८.७४ ||
1422 SK हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत् | आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः || Mस_१८.७५ ||
1423 SK चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु | आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं || Mस_१८.७६ ||
1424 SK अत्र प्रणिधानं स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश्च परिदीपितं | चेतना छन्दसंप्रयुक्ता स्वभावः | ज्ञानं निदानं | सर्वभूमिष्विति भूमिः | तच्च प्रणिधानं हेतुभूतं (MSA_Bअग्छि १४२) चित्तादेव सद्यः फलत्वात् | आयत्यां वा[चा]भिप्रेतार्थसिद्ध्यर्थं चित्तात्पुनः सद्यःफलं चित्तमात्रात् यथाभिप्रेतार्थसमृद्धिता[तो] | वेदितव्या[व्यं] | येन प्रणिधानेन बलिका बोधिसत्त्वा विक्रीडन्ति | यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः | चित्रमधिमुक्तिचर्याभूमावेवं चैवं च स्यामिति | महद्भुमिप्रविष्टस्य दश महाप्रणिधानानि | विशुद्धमुत्तरोत्तरासु भूमिषु विशुद्धिविशेषादाबोधेरित्येष प्रभेदतः | स्वपरार्थप्रसाधनं कर्म |
1425 SK समाधित्रयविभागे त्रयः श्लोकाः |
1426 SK नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः | तस्य चोपशमो नित्यं समाधित्रयगोचरः || Mस_१८.७७ ||
1427 SK त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः | पुद्गलधर्मनैरात्म्यं शून्यतासमाधेः | तदुभयात्मग्राहस्याश्रयः पञ्चोपादानस्कन्धा अप्रणिहितसमाधेः | तस्याश्रयस्यात्यन्तोपशम आनिमित्तसमाधिः | स एव |
1428 SK समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः |
1429 SK त्रिविधश्च ग्राह्यस्य गोचरस्य ग्राहका ये समाधयः | ते शून्यतादिसमाधयः इति ग्राह्यग्राहकभावेन त्रयः समाधयो ज्ञातव्याः | ते पुनर्यथाक्रमं |
1430 SK निर्विकल्पो ऽपि विमुखो रतियुक्तश्च सर्वदा || Mस_१८.७८ ||
1431 SK शून्यतासमाधिर्निर्विकल्पः | पुद्गलधर्मात्मनोरविकल्पनात् | अप्रणिहितो विमुखस्तस्मादात्मग्राहाश्रयात् | आनिमित्तो रतिसंप्रयुक्तः सर्वकालं तस्मिंस्तदाश्रयोपशमे |
1432 SK परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च | शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः || Mस_१८.७९ ||
1433 SK पुद्गलधर्म नैएरात्म्ययोः परिज्ञार्थं शून्यता | तदात्मग्राहाश्रयस्य प्रहाणार्थमप्रणिहितः | तदुपशमस्य साक्षात्क्रियार्थमानिमित्तः समाधिः |
1434 SK धर्मोद्दानविभागे श्लोकौ |
1435 SK समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं | देशितं बोधिसत्त्वेभ्यः सत्त्वानां हितकाम्यया || Mस_१८.८० ||
1436 SK तत्र सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्यप्रणिहितस्य समाधेरूपनिषद्भावेन देशितं | सर्वधर्मा अनात्मान इति शून्यतायाः | शान्तं निर्वाणमिति आनिमित्तस्य समाधेः | कः पुनरनित्यार्थो यावच्छान्तार्थः इत्याह |
1437 SK असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च | विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम् || Mस_१८.८१ ||
1438 SK बोधिसत्त्वानामसदर्थो ऽनित्यार्थः | यन्नित्यं नास्ति तदनित्यं तेषां यत्परिकल्पितलक्षणम् | अभूतविकल्पार्थो दुःखार्थो यत्परतन्त्रलक्षणं | परिकल्पमात्रार्थो ऽनात्मार्थः | एवशब्देनावधारणं परिकल्पित आत्मा नास्ति परिकल्पमात्रं त्वस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्युक्तं भवति | विकल्पोपशमार्थः शान्तार्थः परिनिष्पन्नलक्षणं निर्वाणं | क्षणभङ्गार्थो ऽप्यनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य | अतस्तत्प्रसाधनार्थं क्षणिकत्वविभागे दश श्लोकाः |
1439 SK अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः | अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः || Mस_१८.८२ ||
1440 SK परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः | उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्त्वानुवृत्तितः || Mस_१८.८३ ||
1441 SK तत्र क्षणिकं सर्वं संस्कृतमिति पश्चाद्वचनदियं प्रतिज्ञा वेदितव्या | तत्पुनः कथं सिध्यति | क्षणिकत्वमन्तरेण संस्काराणां प्रवृत्तेरयोगात् | प्रबन्धेन हि वृत्तिः प्रवृत्तिः | सा चान्तरेण प्रतिक्षणमुत्पादनिरोधौ न युज्यते | अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः | तदनन्तरं प्रवृत्तिर्न स्यात् प्रबन्धाभावात् | नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते | किं कारणं हेतुत उत्पत्तिः | हेतुतो हि सर्वं संस्कृतमुत्पद्यते भवतीत्यर्थः | तद्यदि भूत्वा पुनरुत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं | विना हेतुना आदित इवा[एवा]भावात् | न च तत्तेनैव हेतुना भवितुमर्हति तस्योपयु[भु]क्तहेतुकत्वात् | न चान्यो हेतुरुपलम्भते | तस्मात्प्रतिक्षणमवश्यं पूर्वहेतुकमन्यद्भवतीति वेदितव्यं | एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो न युज्यते |
1442 SK अथाप्येवमिष्येत नोत्पन्नं पुनरुत्पद्यते यदर्थं हेतुना भवितव्यं स्यादुत्पन्नं तु कालान्तरेण पश्चान्निरुध्यते नोत्पन्नमात्रमेवेति | तत्पश्चात्केन निरुध्यते | यद्युत्पादहेतुनैव तदयुक्तं | किं कारणम् | उत्पादनिरोधयोर्विरोधात् | न हि विरोधयोस्तुल्यो हेतुरुपलभ्यते | तद्यथा छायातपयोः शीतोष्णयोश्च | कालान्तरनिरोधस्यैव च विरोधात् | केन विरोधात् | आगमेन च | यदुक्तं भगवता | मायोपमास्ते भिक्षो संस्कारा आपायिकास्तावत्कालिका इत्वरप्रत्युपस्थायिन इति | मनस्कारेण च योगिनां | ते हि संस्काराणामुदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति | अन्यथा हि तेषामपि निर्विद्विरागविमुक्तयो न स्युर्यथान्येषां मरणकालादिषु निरोधं पश्यतां | यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स स्वयमेव वा तिष्ठेत्स्वयमेव स्थातुं समर्थः | स्थितिकारणेन (MSA_Bअग्छि १४४) वा केनचित् | स्वयं तावदवस्थानमयुक्तं | किं कारणं | पश्चात्स्वयमस्थितेः | केन वा सो ऽन्ते पुनः स्थातुं न समर्थः | स्थितिकारणेनापि न युक्तं तस्याभावात् | न हि तत्किंचिदुपलभ्यते | अथापि स्याद्विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते | लब्धे तु विनाशकारणे पश्चाद्विनश्यति अग्निमेव श्यामतेति | तदयुक्तं, तस्याभावात् | न हि विनाशकारणं पश्चादपि किंचिदस्ति | अग्निनापि श्यामता विनस्यतीति सुप्रसिद्धं [न प्रसिद्धं,] | विसदृशोत्पत्तौ तु तस्य सामर्थ्यं प्रसिद्धं | तथा हि तत्संबन्धात् श्यामतायाः संततिर्विसदृशी गृह्यते न तु सर्वथैवाप्रवृत्तिः | अपामपि क्वाथ्यमानानामग्निसम्बन्धादल्पतरतमोत्पत्तितो ऽतिमान्द्यादन्ते पुनरनुत्पत्तिर्गृह्यते | न तु सकृदेवाग्निसंबन्धात्तदभावः | नैव चोत्पन्नस्य कस्यचिद्[त] स्थानं युज्यते | लक्षणैकान्त्यात् | ऐकान्तिकं ह्येतत्संस्कृतलक्षणमुक्तं भगवता यदुत संस्कृतस्यानित्यता | तद्यदि नोत्पन्नमात्रं विनश्येत् | कंचित्कालमस्यानित्यता न स्यादिति अनैकान्तिकमनित्यतालक्षणं प्रसह्य[ज्य]ते | अथापि स्यात्प्रतिक्षणमपूर्वोत्पत्तौ तदेवेदमिति प्रत्यभिज्ञानं न स्यादिति | तद्भवत्येव सादृश्यस्य अनुवृत्तेर्मायाकार प[फ]लकवत् | सादृश्यात्तद्बुद्धिर्न तद्भावादिति | कथं गम्यते | निरोधतः | न हि तथैवावस्थितस्यान्ते निरोधः स्यादादिक्षणनिर्विशिष्टत्वात् | तस्मान्न तत्तदेवेत्यवधार्यते अन्ते परिणामोपलब्धेश्च | परिणामो हि नामान्यथात्वं | तद्यदि नादित एवारब्धं भवेदाध्यात्मिकबाह्यानां भावानामन्ते परिणामो नोपलभ्येत | तस्मादादित एवान्यथात्वमारब्धं यत्क्रमेणाभिवर्धमानमन्ते व्यक्तिमापद्यते क्षीरस्येव दद्यवस्थायां | यावत्तु तदन्यथात्वं सूक्ष्मत्वान्न परिच्छिद्यते | तावत्सादृश्यानुवृत्तेस्तदेवेदमिमि [ति]ज्ञायत इति सिद्धं | ततश्च प्रतिक्षणमन्यथात्वात् | क्षणिकत्वं प्रसिद्धं | कुतश्च प्रसिद्धं | तद्धेतुत्वफलत्वतः | क्षणिकहेतुत्वात् | क्षणिकफलत्वाच्चेत्यर्थः |
1443 SK क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश्चक्षुरूपादयो हेतुतः | तस्मात्ते ऽपि क्षणिका इति सिद्धं | न त्वक्षणिकात् क्षणिकं भवितुमर्हति यथा नित्यादनित्यमिति | चित्तस्य खल्वपि सर्वे संस्काराः फलं | कथमिदं गम्यते | उपात्तत्वादाधिपत्याच्छुद्धसत्त्वानुवृत्तितश्च | चित्तेन हि सर्वे संस्काराश्चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमुर्छनाः तदनुग्रहानुवृत्तितः | तस्मात्ते चित्तस्य फलं | चित्तस्य चाधिपत्यं संस्कारेषु | यथोक्तं भगवता | चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति | तथा विज्ञानप्रत्ययं नाम रूपमित्युक्तं | तस्माच्चित्तस्य फलं | शुद्धचित्तानुवृत्तितश्च | शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते | यथोक्तं | ध्यायी भिक्षुः ऋद्धिमांश्चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णमधिमुच्यते तदप्यस्य तथैव (MSA_Bअग्छि १४५) स्यादिति | तस्मादपि चित्तफलं संस्काराः | सत्त्वानुवृत्तितश्च | तथा हि पापकारिषु सत्त्वेषु बाह्या भावा हीना भवन्ति | पुण्यकारिषु च प्रणीताः | अतस्तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं | ततश्च तेषां क्षणिकत्वं | न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् | एवं तावदविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितम् |
1444 SK आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः |
1445 SK आद्यस्तरतमेनापि चयेनाश्रयभावतः | विकारपरिपाकाभ्यां तथा हीनविशिष्टतः || Mस_१८.८४ ||
1446 SK भास्वराभास्वरत्वेन देशान्तरगमेन च | सबीजाबीजभावेन प्रतिबिम्बेन चोदयः || Mस_१८.८५ ||
1447 SK चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः | चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात् || Mस_१८.८६ ||
1448 SK स्थितस्यसंभवादन्ते आद्यनाशाविकारतः | तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च || Mस_१८.८७ ||
1449 SK गत्यभावात्स्थितायोगाच्चरमत्व असंभवात् | अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम् || Mस_१८.८८ ||
1450 SK आद्यस्तरतमेनापि यावत्क्षणिकं सर्वसंस्कृतमिति | कथमेषामेभिः क्षणिकत्वं सिध्यति | आध्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः | आद्य उत्पादो यावत्प्रथमत आत्मभावाभिनिर्वृत्तिः | तरतमेन यः प्रथमजन्मक्षणादूर्ध्वं | चयेन य आहारस्वप्नब्रह्मचर्यासमापत्त्युपचयेन | आश्रयभावतः यश्चक्षुर्विज्ञानादीनां चक्षुरादीभिराश्रयैः | विकारेण यो रागादिभिर्वर्णादिविपरिणामतः | परिपाकेन यो गर्भबालकुमारयुवमध्यमवृद्धावस्थासु | हीनत्वेन विशिष्टत्वेन च यो दुर्गतौ [सुगतौ?] चोत्पद्यमानानां यथाक्रमं | भास्वरत्वेन यो निर्मितकामेषु परनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां चित्तमात्राधीनत्वात् | अभास्वरत्वेन यस्तदन्यत्रोपपन्नानां | देशान्तरगमनेन यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः | सबीजत्वेन यो ऽहर्तश्चरमान् स्कन्धान्वर्जयित्वा | अबीजत्वेन यस्तेषामेवार्हतश्चरमेषां | प्रतिबिम्बत्वेन यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां[ख्यानां] संस्काराणामुत्पादः | एतस्यां चतुर्दशविधायामुत्पत्तावाध्यात्मिकानां संस्काराणां क्षणिकत्वं हेतुमानविशेषादिभिः कारणैर्वेदितव्यम् | आद्योत्पादे तावत् हेतुत्वविशेषात् | यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तदुत्तरायाः संस्कारप्रवृत्तेरुत्तरोत्तरविशेषो (MSA_Bअग्छि १४६) नोपलभ्येत हेत्वविशेषात् | विशेषे च सति तदुत्तरेभ्यस्तस्यान्यत्वात् क्षणिकत्वसिद्धिः | तरतमोत्पादे मानविशेषात् | मानं प्रमाणमित्यर्थः | न हि प्रतिक्षणं विनान्यत्वेन परिमाणविशेषो भवेत् | उपचयोत्पादे चयापार्थ्यात् | उपस्तम्भो हि चयः | तस्यापार्थ्यं स्यादन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् | अयोगाच्चोपचयस्यैव | न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः | आश्रयभावेनोत्पत्तावाश्रितत्वासंभवात् | न हि तिष्ठत्याश्रये च तदाश्रितस्यानवस्थानं युज्यते | याने तिष्ठति तदारूढानवस्थानवदन्यथा ह्याश्रयत्वं न संभवेत् | विकारोत्पत्तौ परिपाकोत्पत्तौ च स्थितस्यासंभवात् | आद्यनाशाविकारतः | न हि तथास्थितस्यैव रागादिभिर्विकारः संभवति | न चावस्थान्तरेषु परिपाक आदावविनाशे सत्यन्ते विकाराभावात् | तथा हीनविशिष्टोत्पत्तौ क्षणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ | न हि तथास्थितेष्वेव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्यादुत्पत्तिः सुगतौ वा | क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते | भास्वराभास्वरे ऽपि चोत्पादे तथैव क्षणिकत्वं युज्यते | भास्वरे तावत् तथास्थितस्यासंभवात् चित्ताधीनवृत्तितायाः | अभास्वरे ऽपि चादौ विनाशमन्तरेणान्ते विकारायोगात् |
1451 SK देशान्तरगमनेनोत्पत्तौ गत्यभावात् | न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर्नाम काचित् क्रिया युज्यते | सा ह्युत्पन्ना वा संस्कारं देशान्तरं गमयेदनुत्पन्ना वा | यद्युत्पन्ना तेन गतिकाले न कंचिद्गत इति स्थितस्यैव गमनं नोपपद्यते | अथानुत्पन्ना तेनासत्यां गतौ गत इति न युज्यते | सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते | स्थितस्यान्यदेशाप्राप्तेः | अथान्यदेशस्थे न युज्यते | विना क्रिययान्यदेशाप्राप्तेः | न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्कारादन्योपलभ्यते | तस्मान्नास्ति संस्काराणां देशान्तरसंतत्युत्पादादन्या गतिः | तदभावाच्च सिद्धं क्षणिकत्वं | देशान्तरनिरन्तरोत्पत्तिलक्षणा गतिर्विभवद्भिः कारणैर्वेदितव्या | अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु | अस्ति पूर्वकर्मावेधेन यथान्तराभवः | अस्त्यभिधात[अस्त्याक्षिप्त]वशेन यथा क्षिप्तस्येषोः | अस्ति संबन्धवशेन यथा याननदीप्लवारूढानां | अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनाम् | अस्ति स्वभाववशेन यथा वायोस्तिर्यग्गमनमग्नेरूर्ध्वं ज्वलनमपां निम्ने स्यन्दनं | अस्त्यनुभावेन यथा मन्त्रौषधानुभावेन | केषांचिदयस्कान्तानुभावेनायसां | ऋद्ध्यनुभावेन ऋद्धिमतां | सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं स्थितायोगाच्चरमासंभवाच्च | न हि प्रतिक्षणं हेतुभावमन्तरेण तथास्थितस्यान्यस्मिन्काले पुनर्बीजभावो युज्यते | निर्बीजत्वं वा चरमे क्षणे | न च शक्यं (MSA_Bअग्छि १४७) पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वमभ्युपगन्तुं | तदभावे चरमत्वासंभवात् | तथा हि चरमत्वमेव न संभवति | प्रतिबिम्बोत्पत्तौ क्षणिकत्वं चित्तानुवृत्तितो वेदितव्यं | प्रतिक्षणं चित्तवशेन तदुत्पादात् | एकान्तात्[एवं तावत्]साधितमाध्यात्मिकं सर्वसंस्कृतं क्षणिकमिति |
1452 SK बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति |
1453 SK भूतानां षडिवधार्थस्य क्षणिकत्वं विधीयते | शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः || Mस_१८.८९ ||
1454 SK तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात् | वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत् || Mस_१८.९० ||
1455 SK इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः | चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः || Mस_१८.९१ ||
1456 SK किं पुनस्तद्बाह्यं | चत्वारि महाभूतानि | षडिवधश्चार्थः | वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपम् | अतो भूतानां षडिवधार्थस्य च क्षणिकत्वं विधीयते | कथं विधीयते | अपां तावच्छोषवृद्धेः | उत्ससरस्तटागादिष्वपां क्रमेण वृद्धिः शोषश्चोपलभ्यते | तच्चोभयमन्तरेण प्रतिक्षणं परिणामं न स्यात्पश्चाद्विशेषकारणाभावात् | वायोः प्रकृत्या चलत्वाद् वृद्धिहानितश्च | न ह्यवस्थितस्य चलत्वं स्यात्तत्स्वाभावादिति[गत्यभावादिति] प्रसाधितमेतत् | न च वृद्धिहासौ तथैवावस्थितत्वात् | पृथिव्यास्तत्संभवात् परिणामचतुष्टयाच्च | तच्छब्देनापश्च गृह्यन्ते वायुश्च | अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले | तस्मात्तत्फलत्वात् सापि क्षणिका वेदितव्या | चतुर्विधश्च परिणामः पृथिव्या उपलभ्यते | कर्मकृतः सत्त्वानां कर्मविशेषात् | उपक्रमकृतः प्रहादिभिः | भूतकृतो ऽग्न्यादिभिः | कालकृतः कालान्तरपरिणामतः[वासतः] | स चान्तरेण प्रतिक्षणमन्योत्पत्तिं न युज्यते विनाशकारणाभावात् | वर्णगन्धरसस्पर्शानां पृथिव्यादिभिस्तुल्यकारणत्वात् तथैव क्षणिकत्वं वेदितव्यं | तेजसः पुनः क्षणिकत्वमिन्धनाधीनवृत्तित्वात् |
1457 SK न हि तेजस्युत्पन्ने तेजः सहोत्पन्नमिन्धनं तथैवावतिष्ठते | न च दग्धेन्धनं तेजः स्थातुं समर्थं | मा भूदन्ते ऽप्यनिन्धनस्यावस्थानमिति | श्लोकबन्धानुरोधाद्वर्णादीनां पूर्वमभिधानं पश्चात्तेजसः | शब्दः पुनर्यो ऽपि कालान्तरमुपलभ्यते घण्टादीनां तस्यापि क्षणिकत्वं वेदितव्यं तारतम्योपलब्धेः | न ह्यसति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् | धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धमेव चित्तानुवृत्तेर्यथा पूर्वमुक्तं | तस्माद्वाह्यमपि क्षणिकं प्रसिद्धं | पृच्छ्रयते खल्वपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति (MSA_Bअग्छि १४८) कथं कृत्वा | इदं तावदयमक्षणिकवादी प्रष्टव्यः | कस्माद्भवाननित्यत्वमिच्छति न [?] संस्काराणां क्षणिकत्वं नेच्छतीति | यद्येवं वदेत् प्रतिक्षणमन्य[नित्य]त्वस्याग्रहणादिति स इदं स्याद्वचनीयः | प्रसिद्धक्षणिकभावेष्वपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणादक्षणिकत्वं कस्मान्नेष्यते | यद्येवं वदेत् पूर्ववत्पश्चादग्रहणादिति | स इदं स्याद्वचनीयः | संस्काराणामपि कस्मादेवं नेष्यते | यद्येवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणामिति | स इदं स्याद्वचनीयः | द्विविधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च | तद्यदि तावत् स्वभाववैलक्षण्यमभिप्रेतमत एव दृष्टान्तत्वं युज्यते | न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर्वा गोरिति | अथ वृत्तिवैलक्षण्यमत एव दृष्टान्तत्वं प्रदीपादीनां प्रसिद्धत्वात् | क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः | कच्चिदिच्छसि याने तिष्ठति यानारूढो गच्छेदिति | यदि नो हीति वदेत् | स इदं स्याद्वचनीयः | चक्षुरादिषु तिष्ठत्सु तदाश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते | यद्येवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवस्थानमिति | स इदं स्याद्वचनीयः | न दृष्टं तत्प्रबन्धेन वर्त्याः प्रतिक्षणं विकारोत्पत्तेरिति | यद्येवं वदेत् सति क्षणिकत्त्वे संस्काराणां कस्मात्प्रदीपादिव क्षणिअकत्वं न सिद्धमिति | स इदं स्याद्वचनीयः विपर्यासवस्तुत्वात् | सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वमेषां न प्रज्ञायते | यतः सत्यप्यपरापरत्वे तदेवेदमिति विपर्यासो जायते | इतरथा हि अनित्यनित्यविपर्यासो न स्यात्तदभावे संक्लेशो न स्यात् कुतः पुनर्व्यवदानमित्येवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं |
1458 SK पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकाः |
1459 SK प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु | नोपलम्भाद्विपर्यासात् संक्लेशात् क्लिष्टहेतुतः || Mस_१८.९२ ||
1460 SK एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ | स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः || Mस_१८.९३ ||
1461 SK द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं | एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः || Mस_१८.९४ ||
1462 SK लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते | इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि || Mस_१८.९५ ||
1463 SK द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः | नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते || Mस_१८.९६ ||
1464 SK स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत् | तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा || Mस_१८.९७ ||
1465 SK दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि | तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं || Mस_१८.९८ ||
1466 SK अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः | दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते || Mस_१८.९९ ||
1467 SK तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः | तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते || Mस_१८.१०० ||
1468 SK सर्वधर्मा अनात्मानः परमार्थेन शून्यता | आत्मोपलम्भे दोषश्च देशितो यत एव च || Mस_१८.१०१ ||
1469 SK संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके | वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः || Mस_१८.१०२ ||
1470 SK आत्मदृष्टिरनुत्पाद्या अभ्यासो ऽनादिकालिकः | अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा || Mस_१८.१०३ ||
1471 SK पुद्गल किमस्तीति वक्तव्यो नास्तीति वक्तव्यः | आह |
1472 SK प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु |
1473 SK यतश्च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः | एवमनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे | स पुनर्द्रव्यतो नास्तीति कथं वेदितव्यः | नोपलम्भात् | न हि स द्रव्यत उपलभ्यते रूपादिवत् | उपलब्धिर्हि नाम बुद्ध्या प्रतिपत्तिः | न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः | उक्तं च भगवता | दृष्ट एव धर्मे आत्मानमुपलभते प्रज्ञापयतीति कथं नोपलब्धो भवति | न स एवमुपलभ्यमानो द्रव्यत उपलब्धो भवति | किं कारणं | विपर्यासात् तथा ह्यनात्मन्यात्मेति विपर्यास उक्तो भगवता | तस्माद्य एवं पुद्गलग्राहो विपर्यासः सः | कथमिदं गम्यते | संक्लेशात् | सत्कायदृष्टिक्लेशलक्षणो ह्येष संक्लेशो यदुत अहं ममेति | न च [चा] विपर्यासः संक्लेशो भवितुमर्हति | न[स] चैष संक्लेश इति कथं वेदितव्यं | क्लिष्टहेतुतः | तथाहि तद्धेतुकाः क्लिष्टा रागादय उत्पद्यन्ते | यत्र पुनर्वस्तुनि रूपादिसंज्ञकेप्रज्ञप्तिः पुद्गल इति तस्मात्किमेकत्वेन पुद्गलो वक्तव्य आहोस्विदन्येत्वेन | आह |
1474 SK एकत्वान्यत्वतो ऽवाच्यस्तस्मादसौ |
1475 SK किं कारणं | दोषद्वयात् | कतमस्माद्दोषद्वयात् |
1476 SK स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः |
1477 SK एकत्वे हि स्कन्धानामात्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्त्वं | अथान्यत्वे पुद्गलस्य द्रव्यसत्त्वं | एवं हि पुद्गलस्य प्रज्ञप्तितो ऽस्तित्वादवक्तव्यत्वं युक्तं | तेनाव्याकृतवस्तुसिद्धिः | ये पुनः शास्तुः शासनमतिक्रम्य पुद्गलस्य द्रव्यतो ऽस्तित्वमिच्छन्ति त इदं स्युर्वचनीयाः |
1478 SK द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं |
1480 SK एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः |
1481 SK अथ दृष्टान्तमात्रात् पुद्गलस्यावक्तव्यत्वमिच्छेयुः | यथाग्निरिन्धनान्नान्यो नानन्यो वक्तव्य इति | त इदं स्युर्वचनीयाः |
1482 SK लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते |
1483 SK इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि |
1484 SK एकत्वेनान्यत्वेन च अग्निर्हि नाम तेजोधातुरिन्धनं शेषाणि भूतानि | तेषां च भिन्नं लक्षणमित्यन्य एवाग्निरिन्धनात् | लोके च विनाप्यग्निना दृष्टमिन्धनं काष्ठादि विनापि चेन्धनेनाग्निरिति सिद्धमन्यत्वं | शास्त्रे च भगवता न क्वचिदग्नीन्धनयोरवाच्यत्वमुक्तमित्ययुक्तमेतत् | विन पुनरिन्धनेनाग्निरस्तीति कथमिदं विज्ञायते | उपलब्धेस्तथा हि वायुना विक्षिप्तं दूरमपि ज्वलत्परैति | अथापि स्याद्वानुस्तत्रेन्धनमिति अत एवाग्नीन्धनयोरन्यत्वमिति सिद्धिः | कुतः | द्वयेन हि उपलब्धेरिति प्रकृतं | द्वयं हि तत्रोपलभ्यते अर्चिर्वायुश्चेन्धनत्वेन | अस्त्येव पुद्गलो य एष द्रष्टा यावद्विज्ञाता कर्ता भोक्ता ज्ञाता मोक्ता च | न स द्रष्टा युज्यते | नापि यावन्मोक्ता | स हि दर्शानादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा | तत्र तावत् |
1485 SK द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः |
1486 SK किं कारणं | नैरर्थक्यात् | न हि तस्य तत्र किंचित्सामर्थ्यं दृष्टं |
1487 SK स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत् ||
1488 SK स हि विज्ञानप्रवृत्तौ स्वामीभवन्ननि[भवन्नि]ष्टं विज्ञानमनित्यं न प्रवर्तयेत् | अनिष्टं च | नैव तस्मादुभयथाप्यसंभवात् | असौ द्रष्टा यावन्मोक्ता न युज्यते | अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति |
1489 SK तत्कर्मलक्षणं साध्यं यदि द्रव्यतो ऽस्तितस्य कर्माप्युपलभ्यते | यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि | न चैवं पुद्गलस्य | तस्मान्न सो ऽस्ति द्रव्यतः | तस्मिंश्च द्रव्यत इष्यमाणे बुद्धस्य भगवतः | संबोधो बाध्यते त्रिधा |
1490 SK गम्भीराभिसंबोधः | असाधारणाभिसंबोधः | लोकोत्तराभिसंबोधश्च | न हि पुद्गलाभिसंबोधे किंचिद्गम्भीरमभिसंबुद्धं भवति | न तीर्थ्यासाधारणं | न लोकानुचित्तं | तथा ह्येष ग्राहः सर्वलोकगम्यः | तीर्थ्याभिनिविष्टः | दिर्घसंसारोचित्तश्च | अपि खलु पुद्गलो द्रष्टा भवन् यावद्विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन्निष्प्रयत्नो वा | सप्रयत्नस्य वा पुनरसौ प्रयत्नः स्वयंभूर्वा भवेदाकस्मिकः | तत्प्रत्ययो [वा?]
1491 SK दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि |
1492 SK तस्मादेव च दोषत्रयाद्वक्ष्यमाणात्
1493 SK तद्यत्नप्रत्ययत्वं च
1494 SK नेति वर्तते | निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति |
1495 SK निर्यत्नं दर्शनादिकम् |
1496 SK इत्यसति व्यापारे पुद्गलस्य दर्शनादौ कथमसौ द्रष्टा भवति | यावद्विज्ञाता | दोषत्रयादित्युक्तं कतमस्माद्दोषत्रयात् |
1497 SK अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः | दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ||
1498 SK यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि | न तर्हि तेषां पुद्गलः कर्तेति कथमसौ द्रष्टा भवति यावद्विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित्प्रयत्नो न स्यादनित्यो न स्यात् | नित्ये च प्रयत्ने दर्शनादीनां युगपच्च नित्यं च प्रवृत्तिः स्यादिति दोषः | तस्मान्न युज्यते दर्शनादिषु प्रयत्नस्य स्वयंभूत्वं |
1499 SK तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः | तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ||
1500 SK अथ पुद्गलप्रत्ययः प्रयत्नः स्यात् | तस्य तथा स्थितस्य प्रत्ययत्वं न युज्यते | प्रागभावात् | सति हि तत्प्रत्ययत्वे न कदाचित्पुद्गलो नास्तीति | किमर्थं प्राक् प्रयत्नो न स्याद्यदा नोत्पन्नः | विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् | (MSA_Bअग्छि १५२) तृतीयश्च कश्चित्पक्षो नास्ति यन्न स्थितो न विनष्टः स्यादिति | तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते | एवं तावद्युक्तिमाश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते |
1501 SK सर्वे धर्मा अनात्मानः परमार्थेन शून्यता | आत्मोपलम्भे दोषश्च देशितो यत एव च ||
1502 SK धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायामस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान्प्रतिसंदधाति | अन्यत्र धर्मसंकेतादिति देशितं | पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति देशिता | आत्मदृष्टिर्भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः | उन्मार्गप्रतिपन्नो भवति | शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते | आर्यधर्मा अस्य न व्यवदायन्ते | एवमागमतो ऽपि न युज्यते | पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः | परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्यसति द्रव्यतो ऽस्तित्वे कस्माद्देशितः |
1503 SK संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके | वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ||
1504 SK अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च | पुद्गलप्रज्ञप्तिमन्तरेण तद्वृत्तिभेदः संतानभेदश्च देशयितुं न शक्यः | तत्र परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं | भारहारसूत्रे | भारो भारादानं च संक्लेशः | भारनिक्षेपणं व्यवदानं | तयोर्वृत्तिभेदः संतानभेदश्चान्तरेण परिज्ञाताविभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं | बोधिपक्षाश्च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्ग विशेषभेदतः | तेषां वृत्तिभेदः संतानभेदश्चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं | येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्ययमत्र नयो वेदितव्यः | इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति | न हि तावदसावात्मदृष्ट्युत्पादनार्थं युज्यते यस्मात्
1505 SK आत्मदृष्टिरनूत्पाद्या
1506 SK पूर्वमेवोत्पन्नत्वात् | नापि तदभ्यासार्थं यस्मादात्मदृष्टेर्
1507 SK अभ्यासो ऽनादिकालिकः |
1508 SK यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत | एवं सति स्यात्
1509 SK अयत्नमोक्षः सर्वेषां
1510 SK तथा हि सर्वेषां न दृष्टसत्यानामात्मदर्शनं विद्यते | नैव वा मोक्षो ऽस्तीति प्राप्नोति | न हि पूर्वमात्मानमनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिदात्मतो गृह्णाति | (MSA_Bअग्छि १५३) यथा दुःखं दुःखतः पूर्वमगृहीत्वा पश्चाद्गृह्णातीति यथापूर्वं तथा पश्चादपि मोक्षो न स्यात् | सति चात्मन्यवश्यमहंकारममकाराभ्यामात्मतृष्णया चान्यैश्च तन्निदानैः क्लेशैर्भवितव्यमिति अतो ऽपि मोक्षो न स्यात् | न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं | तस्मिन्हि सति नियतमेते दोषाः प्रसज्यन्ते |
1511 SK एवमेभिर्गुणैर्नित्यं बोधिसत्त्वाः समन्विताः | आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च || Mस_१८.१०४ ||
1512 SK हीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टम् |
1513 SK || महायानसूत्रालंकारे बोधिपक्षाधिकारः [अष्टादशः] समाप्तः ||
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Mahāyānasūtrālaṃkāra (sa_asaGga-mahAyAnasUtrAlaMkAra.htm).
Source